Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इव् कर्मनिर्देश
(iv.1) [तिब्. 1ब्] तीर्थकरविप्रतिपत्त्या समुत्पादितसंदेहः पृच्छति. अथ यद् एतद् इति विस्तरः. तत्र सत्त्ववैचित्र्यं धातुगतियोन्यादिभेदेन. भाजनवैचित्र्यं मेरुद्वीपादिभेदेन. व्यामिश्रकारिणाम् इति. कुशलाकुशलकर्मकारिणां. अथ कस्मात् तेषाम् आश्रया रम्या न भवन्ति [तिब्. 2अ] भोगास् तु रम्या इति. सति चैवं विषयोपभोगः संभवति. आश्रयरम्यत्वे हि कस्य प्रतीकारस्य विषयोपभोगः स्यात्. अव्यामिश्रकारिणाम् इति. रूपावचराणां. कामावचरा अपि देवा अव्यामिश्रकारिकल्पा आश्रयविषयरम्याः. रम्यता हेतुकर्मद्वयकारित्वात्.
चेतयित्वा चेति. एवं चेदं करिष्यामीति. [तिब्. 2ब्] स्वभावतश् चेद् वाक्कर्मैकम् इति. वा एव कर्मेति कृत्वा. इतरयोस् तु न कर्मत्वं. कायेन कायस्य वा कर्म कायकर्म. एवं मनस्कर्म. इति न स्वभावतः कर्म. त्रिभिः कारणैर् इति. आश्रयतः स्वभावतः समुत्थानतश् चेति. त्रयाणाम् इति. कायवाङ्मनस्कर्मणाम्. आश्रयतः कायकर्म. कायाश्रयं कर्म कायकर्मेति. स्वभावतो वाक्कर्म. वाग् एव कर्मेति. समुत्थानतो मनस्कर्म. मनःसमुत्थितम् इति कृत्वा.
(iv.2च्द्-4) गतिर् इत्य् अपर इति. वात्सीपुत्रीयाः. आत्मलाभो ऽनन्तरविनाशीति. क्षणस्यानन्तरक्षण [तिब्. 3अ] इति नैरुक्तेन विधिना आत्मलाभो ऽनन्तरविनाशी क्षणशब्देनाभिधीयते. अथ वा कालपर्यन्तः क्षणः. स्वावस्थानः. सो ऽस्यास्तीति क्सणिकः. अत इनिठनाव् इति ठन्. संस्कृतस्यावश्यं व्ययाद् इति. उत्पत्त्यनन्तरविनाशिरूपं. चित्तचैत्तवत्. आकस्मिको हि भावानां विनाश इति. अकस्माद्भव आकस्मिकः अहेतुक इत्य् अर्थः. साधनं चात्र. अहेतुको विनाशः. अभावत्वात्. अत्यन्तभाववत्. दृष्टो वै काष्ठादीनाम् इति विस्तरः [तिब्. 3ब्] आदिशब्देन (अभिध्-क्-व्य् 346) रूपादीनां ग्रहणं. दृष्टो ऽग्निसंयोगाद् विनाश इति. प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोषं दर्शयति. अत एवाह. न च दृष्टाद् गरिष्ठं प्रमाणम् इति. न प्रत्यक्षाद् गुरुतमं प्रमाणम् अस्तीत्य् अर्थः.
आचार्यः प्रत्यक्षाभिमानं परेषां दर्शयन्न् आह. कथं तावद् भवान् यावन् मन्यत इति. न हि काष्ठादिविनाशो रूपादिवत् प्रत्यक्षत उपलभ्यते. अक्षणिकवादिनस् त आहुः. तेषां पुनर् अदर्शनाद् इति. तेषां काष्ठादीनाम् अदर्शनात्. तद् एवम् अनुमानतः सिद्धिं दर्शयति. अग्निसंयोगहेतुकः काष्ठादिविनाशः. तदापाते भावात्. यस्य यदापाते भावः. स तद्धेतुकः. तद्यथा बीजापाते भाव्यो ऽंकुरः. संप्रधार्यं तावद् एतद् इति. नैकान्तिकताम् उद्भावयति. न हि यस्यापाते [तिब्. 4अ] यो विनाशो भवति. स तद्धेतुक इति. वायुसंयोगपाते हि सति प्रदीपस्य विनाशः. न च स विनाशो वायुसंयोगकृतः. क्षणिकत्वाभ्युपगमाद् धि प्रदीपस्याकस्मिको विनाश इष्यते. स हि उत्पन्नप्रध्वंसितत्वात् स्वयं विनष्टः प्रदीपः. वायुप्रतिबन्धाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तथा घण्टाशब्दक्षणिक इष्यते. पाणिसंयोगपाते च सति घण्टाशब्दस्य विनाशः. न स तत्कृतः. क्षणिकत्वाद् धि स्वयं विनष्टो घण्टाशब्दः. तत्प्रतिबन्धत्वाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तस्माद् अनुमानसाध्यो ऽयम् अर्थः. न प्रत्यक्षसिद्ध इत्य् अभिप्रायः. तस्माद् अनैकान्तिकम् एतत्. यस्य पाते यः कश्चिद् विनाशः. स तत्कृत इति. किं पुनर् अत्रानुमानम् इति. अत्राहेतुको विनाश इत्य् एतस्मिन्न् अर्थे किम् अनुमानम् इति. उक्तं तावद् अकार्यत्वाद् अभावस्येति. अहेतुको विनाशः. अकार्यत्वात्. आकाशवत्. अकार्यश् चासौ. अभावस्वभावत्वात्. [तिब्. 4ब्] अत्यन्ताभाववत्.
न कस्यचिद् अहेतोर्
इति. न कस्यचिद् अकस्माद् इत्य् अर्थः. उत्पादवद् इति विपरीतोपमानं. यथोत्पाद आत्मलाभलक्षणः सहेतुक एव. नाहेतुकः. तद्विनाशः स्यात्. न चैवं भवति. कथम् इत्य् आह. क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाशः. तद् एवम् अनुमानापतितो धर्मस्वरूपविपर्ययः. आकस्मिकः काष्ठादीनां विनाशः. विनाशस्वाभाव्यात्. बुद्ध्यादिविनाशवद् इति.
यस् तु मन्यत इति वैशेषिकाः. पूर्वा बुद्धिर् उत्तरया बुद्ध्या उत्पन्नया विनाश्यते. अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते. एवं शब्दो ऽपि वाच्यः. आह. न युक्तम् एतत्. कस्मात्. बुद्ध्योर् असमवधानात्. अयुगपद्भावाद् इत्य् अर्थः. न ह्य् असन्तं नाश्यं हेतुर् विनाशयतीति. कथं गम्यते बुद्ध्योर् असमवधानम् इति. अत आह. न हि संशयनिश्चयज्ञानयोर् युक्तसमवधानम् इति (अभिध्-क्-व्य् 347) विस्तरः. स्वसंवेद्यम् एतत्. यदा संशयज्ञानम्. न तदा निश्चयज्ञानम्. यदा निश्चयज्ञानं. न तदा संशयज्ञानम् इति. एवं सुखदुःखयो रागद्वेषयोश् चासमवधानम् इति योजयं. यथा च विरुद्धयोर् असमवधानम्. एवम् [तिब्. 5अ] अविरुद्धयोर् अपि ज्ञानयोर् असमवधानं भवतीति. यदा चेति विस्तरः. अथापि समवधानं स्याद् इति. तथाप्य् अपटुबुद्धिशब्दौ पटू न हिंस्यातां. दुर्बलसमानजातीयत्वात्. न हि दुर्बलसमानजातीयो बलवन्तं हिंसन् दृष्टः. असमानस् तु दुर्बलो ऽपि हिंस्यात्. तद्यथा उदकं तेजः.
यो ऽप्य् अर्चिषं अवस्थानहेत्वभावाद् इति. अवस्थानहेत्वभावाद् भावानां विनाश इति. स्थविरवसुबन्धुप्रभृतिभिर् अयं हेतुर् उक्तः. स चायुक्तः. न ह्य् अभावः कारणं भवितुम् अर्हतीति. धर्मधर्मवशाद् वेति वैशेषिकः. तं प्रत्याह. न चाप्य् उत्पादविनाशहेत्वोर् इति. उत्पादविनाशहेत्वोर् अधर्मस्य. क्षण एव क्षण इति. मुख्ये क्षणे. नौपचारिके क्षण इत्य् अर्थः. अथ वा क्षण एव क्षण इति. क्षणे क्षण एवेत्य् अर्थः. वृत्तिलाभप्रतिबन्धौ वृत्तिलाभो वृत्तिप्रतिबन्धश् च क्षणेक्षणे भवितुं नार्हतः. कथं कृत्वा. यस्यार्चिषः उत्पत्ताव् अनुग्रहो भवति चैत्रस्य मैत्रस्य वा. तस्य धर्म उत्पलब्धवृत्तिः तद् उत्पादयतीत्य् एवम् उत्पादहेतुः. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्यानुग्रहं करोति अन्धकारावस्थायाम्. एवम् अधर्मो ऽपि. यस्यार्चिरुत्पत्ताव् अपकारो भवति. [तिब्. 5ब्] तस्याधर्मो लब्धवृत्तिस् तद् उत्पदयति. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्याप्य् अपकारं करोति अन्धकारावस्थायाम्. इति तयोर् वृत्तिलाभाद् अर्चिषाम् उत्पत्तिर् भवति. न च वृत्तिलाभं तयोर् अप्रतिबध्य ताभ्याम् एव तस्मिन्न् एव क्षणे तेषां विनाश इति. क्षणेक्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर् युज्येते. शक्यश् चैष कारणपरिकल्प इति विस्तरः. धर्माधर्मविनाश इति कारणपरिकल्पः सर्वत्र संस्कृते द्व्यणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते कर्तुं. अतो न वक्तव्यम् एतत्. अग्निसंयोगात् काष्ठादीनां विनाश इत्य् एवमादि. ततश् च सर्वसंस्कृतस्य क्षणिकसिद्धिः. धर्माधर्मयोस् तद्विनाशकारणान्तरानपेक्षत्वाद् इत्य् अलं विवादेन.
तत् एव तादृशाद् वेति. यदि अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्ततां जनयति. स एव रक्ततां निवर्त्य रक्ततरतां जनयतीति कल्प्यते. (अभिध्-क्-व्य् 348) हेतुर् एव विनाशकः स्यात्. अथ ज्वालानां क्षणिकत्वाद् अन्यस् तत्संयोगो जनको ऽन्यो ऽपि विनाशक इति कल्प्यते. हेत्वविशिष्टो विनाशकः स्यात्. न च युक्तम् इति सर्वं. ज्वालान्तरेषु च तावद् धेतुभेदे ऽपि परिकल्पनां परिकल्पयेयुः वैशेषिकाः. क्षणिकत्वात्. ज्वालानाम् अन्या जनिकाः. [तिब्. 6अ] अन्या विनाशिका इति. क्षारयावद्भूमिसम्बन्धात् तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः. न हि तेषां क्षारादयः क्षणिकाः. तत्र हेतुर् एव विनाशकः स्यात्. यत् तर्हि आप इति विस्तरः. यद्य् अग्निसंयोगे ऽप्य् आपो न विनाश्यन्ते. कथं तर्ह्य् आपः क्वाथ्यमानाः क्षीयन्त इत्य् अभिप्रायः. तेजोधातुर् इति. तदविनिर्भागसंवर्धनं. यस्य प्रभावाद् अपां संहातः क्षामक्षामो जायत इति. कारणविशेषात् कार्यविशेष इति. क्षामक्षामतरो जायते. यावद् अतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति. कार्यं करोति न त्व् अभावं करोतीत्य् अर्थः. भंगुरत्वाद् इति विस्तरः. भंगशीलत्वात् स्वयं विनश्यन्तो ऽन्येनाजनिता विनाशाः. सन्त उत्पन्नमात्राद् एकक्षणलब्धात्मानो भवन्तो विनश्यन्ति. तृणज्वालावद् इति. यथा तृणज्वालायाः क्षणिकत्वे ऽपि देशन्तरेषु निरन्तरोत्पत्तौ गत्यभिमानः. तृणं दहन्तीति. ज्वाला गच्छन्तीति. तद्वत्. साधनं च. अविद्यमानगतयो देशान्तरे निरन्तरम् उत्पद्यमाना रूपादयो भावाः. क्षणिकत्वात्. तृणज्वालावत् [तिब्. 6]. संस्थानं कायविज्ञाप्तिर् इति वैभाषिकवचनं.
एकदिङ्मुख
इति. एका दिङ् मुखम् अस्येति एकदिङ्मुखं. तस्मिन्. भूयसि बहुतरे. एवं सर्वम् इति. ऊर्ध्वैकदिङ्मुखे भूयसि उत्पन्न उन्नतम् इति प्रज्ञप्यते. अधो भूयस्य् अवनतम् इति. एषा दिक्. तद्यथा अलातम् इति. न द्रव्यसत् संस्थानं. वर्णग्रहणात् पक्षग्रहणत्वात्. अलातचक्रवद् इति. अथ वा न द्रव्यं संस्थानम्. अन्यरूपग्रहणात् पक्षग्रहणत्वात्. धान्यराशिवद् इति. द्वाभ्याम् असय ग्रहणं प्राप्नुयाद् इत्य् उक्ते वैभाषिको ब्रूयात्. न दीर्घत्वादेः कायेन्द्रियेण ग्रहणं. किं तर्हि. स्प्रष्टव्यावयवेष्व् एव. तथा संनिविष्टेषु दीर्घादिग्रहणं भवति. अतो न द्वाभ्याम् अस्य ग्रहणं प्राप्नोतीत्य् अत इदम् उच्यते. यथा वा स्प्रष्टव्य इति विस्तरः. को ऽर्थः. यथा (अभिध्-क्-व्य् 349) स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणं. न च स्प्रष्टव्यायतनसंगृहीतं संस्थानं. तथा वर्णे ऽपि संभाव्यतां दीर्घादिग्रहणं. न च रूपायतनसंगृहीतं संस्थानम्. अर्थान्तरभूतं स्याद् इत्य् अर्थः. पुनर् वैभाषिक आह. स्मृतिमात्रं तत्र इति विस्तरः. स्मृतिमात्रं तत्र संस्थाने. स्पर्शसाहचर्यात् श्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावात्. [तिब्. 7अ] न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य. यथाग्निरूपं दृष्ट्वा तस्याग्नेर् उष्णतायां स्मृतिर् भवति. साहचर्यात्. पुष्पस्य च चंपकस्य च गन्धं घ्रात्वा तद्वर्णे ऽपि स्मृतिः. साहचर्यात्. आह. युक्तम् अत्रेति विस्तरः. युक्तम् अत्राग्नाव् अव्यभिचारात् उष्णतायाश् च वर्णस्य च. अन्येनान्यस्मरणम् अग्निरूपेणोष्णतायाः. पुष्पगन्धेन च तद्वर्णस्य. न तु किंचिद् इति विस्तरः. न तु किंचित् स्प्रष्टव्यं श्लक्ष्णत्वादि क्वचिद् इति संस्थाने दीर्घादौ नियतं. यतो ऽत्र संस्थाने स्प्रष्टव्यं
स्पृष्ट्वा समरणं नियमेन स्यात्. यत्र ह्य् अग्निरूपं. तत्र तदुष्णतया भवितव्यं. यत्र च चम्पकगन्धः. तत्र तद्रूपेण भवितव्यं. न तु यत्र श्लक्ष्णत्वं कर्कशत्वं वा तत्र दीर्घत्वेन ह्रस्वत्वेन वा भवितव्यं. तस्माद् तदुष्णतारूपयोर् नियमेन युज्यते संस्थाने तु नियमेन स्मरणं न प्राप्नोति. तथासत्य् अपि साहचर्यनियमे स्प्रष्टव्यसंस्थानयोः संस्थाने स्मरणं नियमेन स्यात्. वर्णे ऽपि स्यात् स्मरणं नियमेनेति वर्तते. तद् एवं स्प्रष्टव्यं स्पृष्ट्वा स्मरेद् इत्य् अर्थः. अथानियमेन वर्णस्मरणं भवति वर्णवद् वा संस्थाने ऽप्य् अनियमेन स्यात्. दीर्घे ह्रस्वम् इति. ह्रस्वे दीर्घम् इति. किंकारणं. वर्णे ह्य् अनियमेन स्मरणं भवति स्प्रष्टव्यात्. कदाचिद् रक्ते पीतम् इति पीते [तिब्. 7ब्] रक्तम् इति. न चैवं भवति. कथम् एवं न भवति. यथा वर्ने संस्मरणं न नियमेन भवति. तथा संस्थाने ऽप्य् अनियमेनेति. किं तर्हि. वर्णे स्मरणं न नियमेन भवति. संस्थाने पुनर् नियमेनेत्य् अयुक्तम् अस्य संस्थानस्य स्प्रष्टव्यात् स्मरणं. कथं तर्हि दीर्घबुद्धिर् ह्रस्वबुद्धिर् वा भवति. उक्तम् एतत्. एकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घविकल्पबुद्धिर् अल्पीयसि ह्रस्वविकल्पबुद्धिर् इत्य् एवमाद्य् अवगन्तव्यं. चित्रान्तरेण वेति विस्तरः. चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर् दृश्यमानेनानेकसंस्थानं दृश्यते दीर्घादि. अतो ऽनेकसंस्थानदर्शनाद् (अभिध्-क्-व्य् 350) बहूनां संस्थानानाम् एकदेशं प्राप्नुयात्. यत्रैव दीर्घत्वं. तत्रैव ह्रस्वादिग्रहणात्. तच् चायुक्तं वर्णवत्. यथा हि वर्णः सप्रतिघत्वाद् एकदेशो न भवति. तथा
संस्थानम् अपीति. तथा च सति द्रव्यतो ऽस्ति संस्थानम् इति सपक्षालः पक्षो भवति. धर्मिविशेषविपर्ययात्. न चाणौ तद् इति. यथा नीलादिरूपं अष्टद्रव्यकादाव् अणौ विद्यते. न चैवम् अणौ संस्थानं दीर्घादि विद्यते. कथं पुनर् गम्यते. संस्थानं परमाणौ नास्तीति. दीर्घसंस्थाने ऽपचीयमाने दीर्घबुद्ध्यभावात्. दीर्घं हि दण्डम् उपलभ्य तस्मिन्न् एवापचीयमाने दीर्घबुद्धिर् न निवर्तेत्. न हि नीलादिद्रव्यम् उपलभ्यपचीयमाने तस्मिन् पीतबुद्धिर् भवति. दीर्घद्रव्ये त्व् अपचीयमाने ह्रस्वबुद्धिर् भवति. न दीर्घबुद्धिः. न च युक्तं वक्तुं. तद् एव संस्थानं दीर्घादिह्रस्वादिबुद्धिं जनयतीति. [तिब्. 8अ] तस्माद् बहुष्व् एवेति सर्वं. अथ मतम् इति विस्तरः. संस्ठानपरमाणव एव तथा संनिविष्टा एकदिङ्मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति. न ह्य् अतत्स्वभावाः तथा संनिविष्ठाः समानास् तां संज्ञाम् उपलब्धुम् अर्हतीत्य् अभिप्रायः. न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति. वर्णावयवाः प्रसिद्धस्वभावाः. प्रत्यवयवं नीलादित्वतो ग्रहणात्. न चैवं संस्थानपरमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते. तस्मान् न प्रसिद्धस्वभावाः. यदि तु नैव ते दीर्घादिस्वभावाः. संनिवेशविशेषात् तु दीर्घादिबुद्धिहेतवो भवन्ति. वर्णादिपरमाणव एव संनिवेशविशेषा दीर्घादिबुद्धिहेतवो भवन्तीति किं नेष्यते. यत् तर्हि वर्णत्वाभिन्न इति. यदि वर्णसंनिवेशमात्रं संस्थानं स्यात्. वर्णाभेदे संस्थानभेदो न स्यात्. मृद्भाजनानां कुण्डादीनाम् अनर्थान्तरभावात्. ननु चोक्तम् इति विस्तरः. यथा संनिविष्टवर्णे दीर्घादिसंज्ञा प्रज्ञप्यते. एकदिङ्मुखे च वर्ण
इति विस्तरेण. यथा च पिपीलिकादीनाम् इति विस्तरः. यथा च पिपीलिकादय [तिब्. 8ब्] एकरूपा भवन्ति. तेषां च पंक्तिर् इत्य् अस्मिन् देशे ऽन्यादृश्य् अन्यस्मिन्न् अन्यादृशी. एवं चक्रादीनां भेद इत्य् एवमादि. तथा वर्णाभेदे ऽपि संस्थानभेदः स्यात्. तर्हि तमसीति विस्तरः. यत् तर्हि तमसि वर्णम् अपश्यंतः स्थाणुपुरुषहस्त्यादीनां दीर्घह्रस्वत्व परिमण्डलादीनि पश्यन्ति. तत् कथम् इति वाक्यशेषः. यदि तर्हि वर्णाज् जात्यन्तरं संस्थानं न स्यात्. यथा वर्णं नीलं पीतम् इति वा न पश्यन्ति. तथा संस्थानम् अपि दीर्घं ह्रस्वम् इति न पश्येयुः. पश्यन्ति च कदाचित्. अतो जात्यन्तरं संस्थानम् इति. पंक्तिसेनापरिकल्पवद् इति. यथा तमस्य् अव्यक्तं (अभिध्-क्-व्य् 351) पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिर् इति परिकल्पयंति यथा वा तमस्य् एव हस्त्यादीन् अव्यक्तं दृष्ट्वा परिमण्डल इयं सेना व्यवस्थितेति परिकल्पयन्ति. तद्वत्. वेविदितं चैतद् एवम् इति. यथेदानीम् उक्तम् असत्य् अपि जात्यन्तरे संस्थाने वर्णम् एव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति. यत् कदाचिद् इति विस्तरः. अनिर्धार्यमाणपरिच्छेदम् इति. अनिर्धार्यमाणसंस्थानं संघातमात्रम् अव्यक्तम् अलक्ष्यमाणनीलत्वादिकं दृश्यते. न च वर्णसंस्थानव्यतिरिक्तं रूपायतनम् अस्तीति. यथा नान्यत् किंचिद् द्रव्यं [तिब्. 9अ] कल्प्यते. तद्वत् संस्थानम् अपि न वर्णव्यतिरिक्तं कल्पयितव्यं.
तत्र भवन्त इति. ते भवन्त इत्य् अर्थः. इतराभ्यो ऽपि दृश्यन्त इति वचनात्. कथं कायकर्म प्रज्ञापयन्तीति. प्रज्ञप्तिसत्त्वात् कायकर्मयोग इति मन्यमानः पृच्छति. कायाधिष्ठानम् इति. कायालम्बनम् इत्य् अर्थः. यस्य हि कायः प्रवर्त्यः. तत् कायाधिष्ठानं कर्म. तेनाह. या चेतना कायस्य तत्रतत्र प्रनेत्रीति. यथायोगं वेदितव्ये इति. वागधिष्ठानं कर्म वाक्कर्म. मनस्कर्म तु मनसः कर्म. मनसा वा संप्रयुक्तं कर्म मनस्कर्म. तेन यथायोगम् इत्य् उक्तं. विज्ञप्त्यभावाद् इति विस्तरः. यदि विज्ञप्तिर् न स्यात्. अविज्ञप्तिर् अपि कामावचरी न स्यात्. विज्ञप्त्यधीना हि कामावचर्य् अविज्ञप्तिर् न चित्तानुपरिवर्तिनीति. सा चैवं नास्तीति. महान्तो दोषा अनुषज्यन्ते. सम्वरासम्वराभावदोषः सप्तौपधिकपुण्यक्रियावस्तुपुण्यवृद्ध्यभावदोष इत्य् एवम् आदयो ऽनुषंगाः. अनुषंगाणां पुनः प्रत्यनुषंगा इति. तत्परिहारा भविष्यन्तीति अर्थः. कायकर्मसंशब्दिताद् इति. कायाधिष्ठानाद् इत्य् अर्थः. समाहिताविज्ञप्तिवद् इति. यथा समाहिताविज्ञप्तिश् [तिब्. 9ब्] चित्तानुपरिवर्तिनी. एवं प्रातिमोक्षसम्वरादिलक्षणाप्य् अविज्ञप्तिः स्यात्. सौत्रान्तिका आहुः. नैवं भविष्यति. न चित्तानुपरिवर्तिनी भविष्यति. चेतनाविशेषेणासमाहितेन तदाक्षेपविशेषाद् असमाहिताया अविज्ञप्तेर् आक्षेपाद् इत्य् अर्थः. सापि च विज्ञप्तिर् भवदीया सती विद्यमाना अविज्ञप्तेर् आक्षेपे उत्पादनचेतनाया बलं सामर्थ्यं निभालयते अपेक्षते. कस्मात्. जडत्वाद् अपटुत्वाच् चेतनाबलम् अन्तरेण ताम् अविज्ञप्तिं जनयितुं न शक्नोति. न ह्य् असत्यां समादानचेतनायां यदृच्छोत्पन्ना विज्ञप्तिर् अविज्ञप्तिं जनयति.
वाग्विज्ञप्तिस् त्व्
इति. तुशब्दो विशेषणेन. यथा कायविज्ञप्तिः संस्थानात्मिका न तथा वाग्विज्ञप्तिः. किं तर्हि. वागात्मको ध्वनिर् वर्णात्मकः शब्द इत्य् अर्थः.
अविज्ञप्तिः पूर्वम् एवोक्तेति. ते तु विज्ञप्त्यविज्ञप्ति
इत्य् उक्तं. तत्र विज्ञप्तिर् उक्ता अविज्ञप्तिर् वक्तव्या. सा च पूर्वम् एवोक्ता.
विक्षिप्ताचित्तकस्येति
वचनात्. सापि द्रव्यतो नास्ति साप्य् अविज्ञप्तिर् द्रव्यतो नास्ति. न केवला विज्ञप्तिर् इत्य् अपिशब्दः. अभ्युपेत्याकरणमात्रत्वाद् [तिब्. 10अ] इति. इमं दिवसं उपादाय प्राणातिपातादिभ्यः प्रतिविरमामीत्य् अभ्युपेत्य. तस्मात् परेण तेषाम् अकरणमात्रम् अविज्ञप्तिर् इत्य् एवं द्रव्यतो नास्तीति सौत्रान्तिकाः. तेषां चातीतानां महाभूतानां. न ह्य् अतीतानां प्रत्युत्पन्नस्वभावो ऽस्ति. पंचमे च कोशस्थान एतद् दर्शयिष्यत इति. कथम् अविद्यमानान्य् अस्या आश्रय इत्य् अतो न द्रव्यतो ऽस्ति. रूपलक्षणभावाच् च. रूप्यत इति रूपलक्षणं. तच् चास्या अप्रतिघत्वान् नास्ति. तस्मान् न द्रव्यतो ऽस्ति.
(iv.5अब्) त्रिविधेति
विस्तरः. त्रिविधं च तद् अमलं च त्रिविधामलरूपं. तस्योक्तिः. अकुर्वतः पन्था अकुर्वत्पथः. परेण कारयतः स्वयम् अकुर्वतः कर्म इत्य् अर्थः. त्रिविधामलरूपोक्तिश् च वृद्धिश् चाकुर्वत्पथश् चादिर् एषां. तानीमानि
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादीनि.
आदिशब्देन धर्मो भिक्षो इत्य् अत्रारूपीत्य् अवचनं. आर्याष्टांगवचनं. प्रातिमोक्षसम्वरसेतुवचनं च गृह्यते. रूपस्य रूपसंग्रह इति. रूपस्य रूपेणैव संग्रहो भवति. नान्यैर् वेदनादिभिः. अस्ति रूपं सनिदर्शनं सप्रतिघं. यच् चक्षुर्विज्ञानविज्ञेयं रूपम्. [तिब्. 10ब्] अस्त्य् अनिदर्शनं सप्रतिघं. यानि चक्षुरादीनि. तत् पुनर् नव रूप्यायतनानि. अस्ति रूपम् अनिदर्शनम् अप्रतिघं. यन् मनोविज्ञानविज्ञेयं अविज्ञप्तिरूपं धर्मायतनसंगृहीतं. नाविज्ञप्तिं विरहय्येति विस्तरः. अविज्ञप्तिं मुक्त्वा नास्ति रूपम् अनिदर्शनम् अप्रतिघं यद् रूपसंग्रहसूत्र उक्तं. नाप्य् अनास्रवम् अस्ति रूपम् अविज्ञप्तिविरहेय्येति वर्तते. न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते. सप्तभिर् औपधिकैर् इति. उपधिर् आरामविहारादिः. तत्रभवम् औपधिकं. तस्योपधेर् अभावान् निरौपधिकं. सततम् अभीक्ष्णं. समितं निरन्तरं. अत्र सूत्रं. भगवान् कौशांब्यां विहरति स्म. घोषिरारामे. अथायुष्मान् महाचुन्दो (अभिध्-क्-व्य् 353) येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्. एकान्ते स्थित आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं महानुशंसं महाद्युतिकं महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफलानि यावन् महावैस्तारिकाणि. [तिब्. 11अ] यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा स्वपतो वा जाग्रतो वा सततसमितम् अभिवर्धत एव पुण्यम् उपजायत एव पुण्यं. कतमानि
सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातुर्दिशाय भिक्षुसंघायारामं प्रतिपादयति. इदं चुन्द प्रथमम् औपधिकं पुण्यक्रियावस्तु महाफलं यावन् महावैस्तारिकं. येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एवारामे विहारं प्रतिष्ठापयति. इदं द्वितीयम् औपधिकं पुण्यक्रियावस्तु महाफलं यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एव विहारे शयनासनं प्रयच्छति. तद्यथा. मञ्चं पीठं बृषीं कोच्चवं बिम्बोपधानं चतुरश्रकं ददाति. इदं चुन्द तृतीयम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो कुलदुहिता वा तस्मिन्न् एव विहारे ध्रुवभिक्षां प्रज्ञापयत्य् अनुकूलयज्ञाम्. इदं चुन्द चतुर्थम् औपधिकं पुण्यक्रियावस्तु महाफलं पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमिकाय वा दानं ददाति. इदं चुन्द पंचमम् औपधिकं [तिब्. 11ब्] पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोपस्थायकाय वा दानं ददाति. इदं. षष्ठम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास् ता भवन्ति शीतलिका वा वद्दलिका वा वातलिका वा वर्षलिका वा. तद्रूपासु शीतलिकासु यावद् वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि संघायाभिनिर्हृत्यानुप्रयच्छति. इदम् आर्या अस्माकम् अनार्द्रगात्राः अनभिवृष्टचीवराः परिभुज्य सुखं स्पर्शं विहरंतु. इदं च चुन्द
सप्तमम् औपधिकं पुण्यक्रियावस्तु महाफलं. यावद् उपजायत एव पुण्यम्. एभिः सप्तभिर् औपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा न लभ्यं पुण्यस्य प्रमाणम् उद्ग्रहीतुं. एतावत् पुण्यं वा पुण्यफलं वा पुण्यविपाकं वा. अपि तु बहुत्वात् पुण्यस्य महापुण्यस्कंध इति संख्यां (अभिध्-क्-व्य् 354) गच्छतीत्य् एवमादि. द्विर् अप्य् आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त निरौपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन् महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्द [तिब्. 12अ] निरौपधिकानि पुण्यक्रियावस्तूनि. यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यं. कतमानि सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रम् उपनिश्रित्य विहरतीति. श्रुत्वा च पुनर् अधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रमोपसंहितं. इदं चुन्द प्रथमं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा उद्युक्तम् आगमनाय. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द द्वितीयं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तम् एव तथागतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द तृतीयं निरौपधिकं
पुण्यक्रियावस्तु. यावद् उपजायत एव पुण्यं. [तिब्. 12ब्] पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द चतुर्थं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यवद् उपजायत एव पुण्यं. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तम् एव तथागतं वा तथागतश्रावकं वा दर्शनायोपसंक्रामति. दृष्ट्वा च पुनः अधिगच्छतीति पूर्ववत्. इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च पुनर् अधिगच्छतीति. पूर्ववत्. इदं चुन्द षष्ठं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च बुद्धशरणं गच्छति धर्मशरणं गच्छति संघशरणं गच्छति. शिक्षापदानि च प्रतिगृह्णाति. इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफलम् इति पूर्ववत्. बहुग्रन्थभयान् न सर्वं लिखितं. न ह्य् आज्ञापनविज्ञप्तेः कर्मपथ उपयुज्यते. तस्य प्राणातिपातादिकर्मणो ऽकृतत्वात्. स्यान् मतं. कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः [तिब्. 13अ] कर्मपथो भविष्यतीति. अत्र इदम् उच्यते. कृते ऽपि च तस्याः स्वभावाविशेषाद् इति. परेण कृते ऽपि तस्मिन् (अभिध्-क्-व्य् 355) कर्मणि तस्या आज्ञापनविज्ञप्तेर् न कश्चित् स्वभावविशेषो ऽस्ति. येन तदानीं कर्मपथः स्यात्. तस्मात् पूर्ववत्. तस्याः स्वभावाविशेषात्.
यथैव पूर्ववत् कर्मपथो न व्यवस्थाप्यते. तथैव पश्चाद् इत्य् अतो ऽस्तीत्य् अभ्युपगन्तव्या यासौ तदानीम् उत्पद्यते कर्मपथसंगृहीतेति. एकादशभिर् आयतनैर् असंगृहीतम् इति. धर्मायतनवर्ज्यैः. वाक्कर्मान्ताजीवानाम् अयोगाद् इति. विज्ञप्तिस्वभावानाम् एवासंभवाद् इत्य् अर्थः. यत् तर्हीदम् उक्तम् इति विस्तरः. को ऽस्यभिसंबन्धः. यदि वा मतं. यद्य् अविज्ञप्तिर् न स्याद् अष्टंगो ऽयं मार्गो न स्यात्. तत्र विज्ञप्त्ययोगात्. तस्माद् अस्त्य् अविज्ञप्तिर् इति. यत् तर्हीदम् उक्तम् इति विस्तरेणोक्त्वा यावत् सम्यक्समाधिर् इति किम् अर्थम् एवम् उच्यते. पूर्वम् एव चास्येति सर्वं. मार्गस्य समापत्तिकालात् पूर्वम् इत्य् अर्थः. विज्ञप्तिरूपास् त उक्ता इत्य् अभिप्रायः. वैभाषिकाः परिहरन्ति. लौकिहमार्गवैराग्यम् इति विस्तरः. लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं [तिब्. 13ब्] विज्ञाप्तिरूपम्. एतद् अभिसंधायैतद् उक्तं. न तु मार्गकाले तत्संगृहीतं वागाद्यविज्ञप्तिरूपं नास्तीति.
समाधिविषयरूपम् इति. समाधेर् आलम्बनम् अस्थिसंकलादि. देशनावरणाद् अप्रतिघम् इति. यद् रूपं देशम् आवृणोति. तत् प्रतिघं. विपर्ययाद् अप्रतिघम् इति सिद्धं. कथम् इदानीं तद् रूपम् इति. यदि न रूपयितुं शक्यत इत्य् अभिप्रायः. एतद् अविज्ञप्तौ समानं. अविज्ञप्तिर् अपि वा देशं नावृणोतीति तुल्यं. अनास्रवे समाधौ अनास्रवम् इति. मार्गं संमुखीकुर्वाणो योगाचारस् तद्रूपम् आशयं चाश्रयं च प्रतिलभते. यत् सम्यग्दृष्टिवद् अनास्रवं शीलं प्रतिलभते. यस्मिन् सति प्रकृतिशीलतायां संतिष्ठते. अथ वा. अनास्रवे ऽपि समाधौ तद् एवंविधं रूपं त आचार्या इच्छन्ति. अर्हतो यद् रूपं बाह्यं चेत्य् अपर इति. अपर आचार्या वर्णयन्ति. अर्हतो यद् रूपं चक्षुरायतनादि. बाह्यं च काष्ठकुड्यादि. तद् अनास्रवं रूपं. कुतः. आस्रवाणाम् अनिश्रयत्वात्. न ह्य् अर्हत्सांतानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति. यद्य् एवं यत् तर्ह्य् अविशेषेण सूत्र उक्तं सास्रवा धर्माः कतमे. यावद् एव च्कषुर् यावद् एव रूपाणीति [तिब्. 14अ] विस्तरः. तत् पुनर् आस्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् उक्तं. चित्तचैत्तविशेषा हि आस्रवप्रतिपक्ष इति. पर्यायेण तर्हीति विस्तरः. तद् एवार्हतो रूपं बाह्यं चास्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् आस्रवाणाम् अनिश्रयत्वाद् अनास्रवम् इति. तथा च लक्सणसंकरः स्याद् इति दोषः. यानि रूपाणीति. यानि रूपाण्य् आयतनानीत्य् अर्थः. विस्तरेण यावद् ये धर्माः सास्रवाः सोपादानीयाश् चेतःखिलम्रक्षवस्त्व् इति वचनात्. सन्त्य् अनास्रवाणि रूपायतनानीति. तानि पुनः कतमानि सास्रवाणि सोपादानीयानि. (अभिध्-क्-व्य् 356) पृथग्जनरूपाणि. आस्रवाणां निश्रयत्वात् तदप्रतिपक्षत्वाच् च.
कतमान्य् अनास्रवाणि. यान्य् अर्हतो रूपाणि बाह्यानि च. आस्रवाणाम् अनिश्रयत्वात्. धर्मता ह्य् एषेति. धर्माणाम् अनादिकालिका शक्तिः. गुणविशेषाद् इति. ध्यानाप्रमाणादिगुणविशेषात्. अनुग्रहविशेषाच् चेति. शरीरस्य वर्णबलादिविशेषात्. तदालम्बनेति विस्तरः. सप्रतिग्राहकम् आलम्बनम् अस्याः. सेयं तदालम्बना दानचेतना. [तिब्. 14ब्] तया परिभाविताः संततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमितं प्राप्नुवन्ति. कथं भविष्यतीति. बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्य् अभिप्रायः. न ह्य् अत्र दातॄणां दायाः परिभुज्यन्ते. यत्परिभोगात् भोक्तॄणां गुणविशेषाद् अनुग्रहविशेषाच् चान्यमनसाम् अपि दातॄणाम् इति विस्तरेण यावत् समर्था भवंति. यावद् उपजायत एव पुण्यम् इति वा. तदालम्बनेचेतनाभ्यासाद् इति. तथागततच्छ्रावकालम्बनचेतनाभ्यासात्. संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति. येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति. चरतस् तिष्ठतो जाग्रतो युक्तम् एवं स्वपतस् तु कथम् इत्य् अत आह. स्वप्नेष्व् अपि ताश् चेतना अनुषङ्गिण्यो भवन्तीति. अविज्ञप्तिवादिनस् तु वैभाषिकस्य निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर् नास्ति. केवलं तं श्रुत्वाधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं. तत्र कथम् अविज्ञप्तिः स्यात्. तस्य श्रोतुर् विज्ञप्तिसमाध्योर् असंभवात्. अविज्ञप्तिर् हि विज्ञप्तेः समाधेर् वा संभवेत्. औपधिकेष्व् अपीति विस्तरः. आरामदानादिष्व् [तिब्. 15अ] अपि. तदालम्बनचेतनाभ्यासात्. प्रतिग्राहक आलम्बनम् अस्याश् चेतनाया इति पूर्ववत्. आह. यद्य् औपधिकेष्व् अपि एवम् अभीक्ष्णं तदालम्बनचेतनाभ्यासात्. यत् तर्हि सूत्रम् इति विस्तरः. अप्रमाणं चेतःसमाधिं
इति. मैत्र्यादिसंप्रयुक्तं. चेतनाविशेष इति. एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्यभिष्यन्दो ऽस्तीति दर्शयति. क्रियाफलपरिसमाप्ताव् इति. मौलकर्मपथप्रयोगः क्रिया. मौलकर्मपथः फलं तस्य परिसमाप्तौ. एष एव न्याय इति. स्वयंप्रयोगेण परेषाम् उपघातविशेषात् कर्तुः सूक्ष्मः संततिपरिणामविशेषो जायत इति सर्वं. कार्ये कारणोपचाराद् इति. संततिपरिणामविशेषः कर्मपथो भवतीति संततिपरिणामविशेषः कार्यं. कर्मपथः कारणं. यो ऽसौ कायवाचोः प्रयोगः. स हि चेतनालक्षणस्य कर्मणः पन्था इति. तस्मिन् कार्ये कर्मपथ इति कारणोपचारः. कायिकवाचिकत्वं तु तस्य संततिपरिणामविशेषस्य. तत्क्रियाफलत्वात्. कायवाक्क्रियायाः फलत्वाद् इत्य् अर्थः. यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिर् [तिब्. 15ब्] इति. यथा वैभाषिकाणाम् अविज्ञप्तिवादिनाम् अविज्ञप्तिः कर्मपथ इत्य् आख्यायते. कार्ये कारणोपचारात्. कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद् इति. अविज्ञप्तिर् (अभिध्-क्-व्य् 357) अद्रव्यम् इति प्रकारान्तरेण दर्शयन् भदन्त आह. उपात्तेषु स्कन्धेष्व् इति विस्तरः. सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावद्येन स्पृश्यते घातक इति. कथं त्रिकालयेत्य् आह. हनिष्यामि हन्मि हतम् इति चास्य यदा भवतीति. तद् एवम् अत्र चेतनैव कर्मेत्य् उक्तं भवति. आचार्यो भदन्तमतं केनचिद् भागेनाभिप्रेतं केनचिद् भागेनानभिप्रेतं दर्शयन्न् आह. न त्व् इयतेति विस्तरः. यदि कश्चिद् एवं प्रयोजयेत्. मन्मातरं मारयेति. उच्चलिते च मारके तस्यैवं भवेत्. हता तेन मन्मातेति. तस्य हताभिमानिन आनन्तर्यकर्म स्यात्. न चेष्यते. तस्मात् स्वयं घ्नन्न्
इति भदन्तेन विशेष्यं वक्तव्यम्. तत् एवाह. स्वयं तु घ्नत इति विस्तरः. एतावांश् चेतनासमुदाचार इति. हनिष्यामि हन्मि हतम् इति. युक्तरूप इति. युक्त एव युक्तरूप इति. स्वार्थे रूपप्रत्ययः. नामधेयवत्. [तिब्. 16अ] यथा नामैव नामधेयम् इत्य् एके व्याचक्षते. प्रशस्तरूपो युक्तरूपः. युक्तं वा रूपं स्वभावो ऽस्येति युक्तरूपः. तथैवसंज्ञायमान इति. यथैवाविज्ञप्तिर् दुरवबोधा. तथैव संततिपरिणामविशेषो ऽपीति. चित्तान्वयकायप्रयोगेणेति. चित्तपूर्वकेण कायप्रयोगेणेत्य् अर्थः. ताभ्यां पृथग्भूतम् इति. चित्तकायाभ्यां पृथग्भूतं. यत्कृतप्रयोगसंभूतेति. येन कृतो यत्कृतः. यत्कृतात् प्रयोगात् संभूता. क्रियापरिसमाप्तिः कर्मपथपरिसमाप्तिः. तस्यैव चित्तचैत्तस्य प्रयोक्तुस् तन्निमित्तस् तत्प्रयोगनिमित्तः संततिपरिणामो भवतीति. भवति परितोषो ऽस्माकम् इति वाक्यशेषः. चित्तचैत्तसंतानाच् चायत्यां फलोत्पत्तेः. नाविज्ञप्तिः. किं. भवति परितोष इति वर्तते. विज्ञप्त्यभावाद् इत्य् एवमादीनि. समुत्थापकस्य धर्मस्याभावात् समुत्थाप्यस्य धर्मस्याभाव इत्य् अर्थः. अविज्ञप्तिर् द्रव्यतो नास्तीति साधितम् एतत्. आदिशब्देनाभ्युपेत्याकरणमात्रत्वात्. अतीतानि महाभूतान्य् [तिब्. 16ब्] उपादाय प्रज्ञप्तेः. तेषाम् अविद्यमानत्वादि. तद् एवास्तु. धर्मायतनपर्यापन्नम् इति. यद् ध्यायिनां समाधिविषयरूपं समाधिप्रभावाद् उत्पद्यत इत्य् उक्तं तद् ध्य् अनिदर्शनं चाप्रतिघं च. अंग तावद् आचक्षेति. अंगाप्रातिलोम्य इति पठ्यते. हन्त तावद् आचक्षेति. एहि तावद् आचक्षेत्य् अर्थ इत्य् अपरे. अतो निमित्त इति विस्तरः. यत एवम्. अतो निमित्ते ऽविज्ञप्तौ नैमित्तिकोपचारात्.
सम्यगाद्युपचारात्. अविज्ञप्तौ तदा व्याक्रियते. सम्यग्वाक्कर्मन्ताजीवाख्या क्रियत इत्य् अर्थः. आशयं चाश्रयं चेति. आशयः प्राणातिपाताद्यकरणाशयः. श्रद्धाद्याशयो वा. आश्रय आश्रयपरावृत्तिः. (अभिध्-क्-व्य् 358) अतो निमित्ते आशये आश्रये च नैमित्तिकोपचारं. सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गांगानि व्यवस्थाप्यन्त इति. तद् अक्रियामात्रम् इति. मिथ्यावागाद्यक्रियामात्रं. कतमत् तद् इत्य् आह. यद् असाव् इति विस्तरः. यद्य् अक्रियामात्रम् अंगं कथं तद् अनास्रवम् इत्य् आह. तच् चानास्रवमार्गसंनिश्रयलाभाद् अनास्रवम् इति. यद्य् अक्रियामात्रम् अंगं. तथाद्रव्यसत्. कथम् अष्टाव् अंगानि भवन्तीत्य् आह. न हि सर्वत्रेति [तिब्. 17अ] विस्तरः. विधिपूर्वम् इति. शीलग्रहणविधिपूर्वं. अन्यचित्तो न संवृतः स्याद् इति चेत्. यदि सा चेतना संवरः. तस्माच् चेतनाचित्ताद् अन्यचित्तो न संवृतः स्यात्. यथा चेतना या कायवाचौ संवृणोति नासौ तदानीम् अस्तीति. न तद्भावनयेति विस्तरः. नैतद् एवं. तद्भावनया चित्तसंतानभावनया क्रियाकाले प्राणातिपातादिचित्ते प्रत्युपस्थिते स्मरतः अहंप्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः. तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति. तस्याः सम्मुखीभावात्. इत्यर्थम् एव तस्याः समादानम् इति. कथम्. अयम् अक्रियाप्रतिज्ञाम् अनुस्मृत्य दौःशील्यं न कुर्याद् इति. न कश्चिन् मुषितस्मृतिः शिक्षां भिद्याद् इति. यासाव् अविज्ञप्तिः सेतुभूता दौःशील्यं प्रतिबध्नाति. सा तदानीं विद्यत इति.
(iv.5च्द्) न हि सैव सामग्रीति विस्तरः. न सैव पृथिवीधात्वादीनां महाभूतानां विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघविज्ञप्तिफलत्वात् औदारिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद् युज्यते. तस्माद् [तिब्. 17ब्] अन्यान्य् एव महाभूतानि उपादायाविज्ञप्तिर् उत्पद्यते.
(iv.6अब्) यदातनी विज्ञप्तिर् इति विस्तरः. यदाभवा विज्ञप्तिर् यदातनी विज्ञप्तिः. एवं तदातनानि महाभूतानि. यत्कालसंभूता विज्ञप्तिः किं तत्कालसंभूतान्य् एव महाभूतान्य् उपादायाविज्ञप्तिर् उत्पद्यते. सर्वम् इति. सर्वम् उपादायरूपं विज्ञप्तिर् अविज्ञप्तिर् ध्यानानास्रवसंगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्य् एव महाभूतान्य् उपादाय वर्तते. प्रायेणेति ग्रहणं किंचित् कामावचर्यविज्ञप्तिनिरासार्थं. अत एवाह. किंचिद् वर्तमानम् अनागतं अतीतानि महाभूतान्य् उपादायेति. किंचिद् उपादायरूपं वर्तमानम् अतीतानि महाभूतान्य् उपादाय वर्तते. किंचिद् अनागतम् उपादायरूपम् अतीतानि महाभूतान्य् उपादाय वर्तते. किं पुनस् तद् उपादायरूपं यद् एवं भूतम् इति दर्शयन्न् आह.
क्षणाद् ऊध्वम् अविज्ञप्तिः कामाप्तातीतभूतजेति.
कामावचरसम्वरादिग्रहणकाले अविज्ञप्तिः सहजानि महाभूतान्य् उपादायोत्पद्यते. एवम् अन्याप्य् अविज्ञप्तिस् तान्य् एवोपादायोत्पद्यते. यस्मात् तान्य् अस्या आश्रयार्थेन संभवन्ति. यथान्येषाम् उपादायरूपाणां प्रत्युत्पन्नानि (अभिध्-क्-व्य् 359) महाभूतान्य् आश्रयः [तिब्. 18अ] एवं तस्या अतीतान्य् आश्रयः. प्रवृत्त्यनुवृत्तिकारणत्वाद् यथाक्रमम् इति. अतीतानि महाभूतानि प्रवृत्तिकारणत्वात् आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति. प्रत्युत्पन्नानि शरीरमहाभूतान्य् अनुवृत्तिकारणत्वाद् अधिष्ठानकारणत्वात् संनिश्रयार्थेन भवन्ति. चक्रस्येवेति विस्तरः. यथा चक्रस्य पाण्यावेधः. एवम् अस्याः प्रवृत्तिकारणं. यथा भूमिप्रदेशः. एवम् अनुप्रवृत्तिकारणं.
(iv.6च्द्) कालनियमम् उक्त्वा भूमिनियमं पृच्छति. अथ कुतस्त्यानीति विस्तरः. यावच् चतुर्थध्यानभूमिकम् इति. आरूप्येषु भूतभौतिकानाम् अभावात्. धात्वपतितत्वाद् इति. अनास्रवस्य कायवाक्कर्मणो धात्वप्रतिसंयुक्तत्वात्. नास्ति नियमत इत्य् अभिप्रायः. अनास्रवाणि तर्हि महाभूतान्य् उपादाय कस्मान् न भवतीत्य् अत आह. अनास्रवाणां च महाभूतानाम् अभावाद् इति. किं पुनर् अस्या महाभूतैः कार्यम् इत्य् अत आह. तद्बलेन चोत्पत्तेर् इति. महाभूतबलेन चोत्पत्तेर् इत्य् अर्थः. अथ चित्तबलेनैव तदुत्पत्तिः कस्मान् न भवति. अनुपादायरूपत्वप्रसंगात्.
(iv.7, 8) अविज्ञप्तिर् अनौपात्तिकेति. अमूर्तत्वाच् चित्तचैत्ताधिष्ठानभावायोगात्.
नैष्यन्दिकी चेति.
[तिब्. 18ब्] कुशलाकुशलत्वात् न विपाकजा
नाव्याकृतास्त्य् अविज्ञप्तिर्
इति वचनात्. विपाकजस्य चाव्याकृतत्वाद्
विपाको ऽव्याकृतो धर्म
इति वचनात्. नौपचयिकी उपचयाभावात्. पारिशेष्यान् नैष्यन्दिकी.
सत्त्वाख्या
सत्त्वसंतानपतितत्वात्.
निष्यन्दोपात्तभूतजेति.
नैष्यन्दिकोपात्तमहाभूतजा. समुत्थापकचित्तापेक्षत्वात् असमाहितचित्तविज्ञप्त्यधिकाराच् च. न स्वप्नसमाध्याद्यौपचयिकमहाभूतजा. अत एव च न विपाकजमहाभूतजा.
समाधिजेति
विस्तरः. सास्रवानास्रवसमाधिजत्वात्. ध्यानानास्रवजसम्वराविज्ञप्तिः समाधिजेत्य् उच्यते. अनुपात्तानि च महाभूतान्य् उपादायेति. समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात्. उपात्तानि हि महाभूतानि निरोधसमापत्त्याद्यवस्थासु (अभिध्-क्-व्य् 360) चित्तम् अन्तरेणापि वर्तन्ते. यावत् संभिन्नप्रलापाद् इति. यावच्छब्देनादत्तादानात् काममिथ्याचारान् [तिब्. 19अ] मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाद् इति. चित्तवत् भूताभेदात्. यथा तदुत्पादकं चित्तम् अभिन्नम्. एवं भूतान्य् अपि तदुत्पादकान्य् अभिन्नान्य् एव. न चाधारार्थेनाविज्ञप्तेर् महाभूतान्य् आश्रयः. किं तर्हि. तत्प्रवर्तनार्थेन. तस्माद्
अभिन्नभूजेति
वचनं न विरुध्यति. प्रातिमोक्षसम्वरे त्व् अन्यान्यानीति. अचित्तानुपरिवर्तनीयत्वात्. विज्ञप्तिस् तु नैष्यन्दिकीति. आक्षेपवशेनानुवृत्तेः. उपात्ता तु कायिकीति. न वाचिकीत्य् अर्थः. कायिकी हि कायमहाभूताविनिर्भागवर्तित्वात् तदाश्रयभूतानाम् उपात्ता. न तु वाचिकी. तद्विनिर्भागवर्तित्वात्.
अत्र चोदयन्ति. शास्त्रविरुद्धम् एतद्. एवं ह्य् आह. यानीमान्य् उपासकस्य पञ्च शिक्षापदानि. एषां कत्य् उपात्तानि. कत्य् अनुपात्तानि. आह. सर्वाण्य् अनुपात्तानीति. अविज्ञप्तिलक्षणशिक्षापदाभिसंधिवचनाद् बाहुलिकत्वाद् वा तथानिर्देशस्येत्य् अदोषः.
पुनःप्रबन्धाद् अवैभाषिकीयम् [तिब्. 19ब्] इति. एकसंस्थानोत्पत्ताव् इतरसंस्थानानिवृत्तेः. कथं विस्तरेण यावत् संस्थानद्वयं सिध्यतीति. अन्योन्यावकाशदानात्. तन्महाभूतैर् अभिव्यापनाद् इति. विज्ञप्त्याश्रयैर् महाभूतैर् अङ्गस्याभिव्यापनात्. अनभिव्यापने च पुनर् विज्ञप्तिमहाभूतैः कथं कृत्स्नेनांगेन विज्ञापयेत्. न हि शक्यते वक्तुं. कायैकदेशेनासौ विज्ञापयति. न सर्वकायेनेति. विज्ञप्त्याश्रयाणि महाभूतानि तदंगं न व्याप्यावतिष्ठन्त इति. सुषिरत्वात् कायस्यास्ति तेषाम् अवकाश इति. अभिव्यापने ऽपि न महीयसाङ्गेन भवितव्यं. सुषिरत्वेन कायानुप्रवेशात्. पीनेन तर्हि गुरुणा वा तेनांगेन न भवितव्यं. सूक्ष्मत्वात्.
(iv.9, 10अब्) द्विविधं त्रिविधं पंचविधं चोक्तम् इति.
चेतना तत्कृतं च तद्
इति वचनात्. द्विविधम् उक्तं.
चेतना मानसं कर्म तज्जे वाक्कायकर्मणी
इति वचनात्. त्रिविधम् उक्तं.
ते तु विज्ञप्त्यविज्ञप्ती
इति. कायवाक्कर्मणो विज्ञप्त्यविज्ञप्तित्वे भेदात्. चेतनात्मनः कर्मणश् च पञ्चसत्त्वात् पञ्चविधम् उक्तं.
नाव्याकृतास्त्य् अविज्ञप्तिर्
इति. [तिब्. 20अ] कुशलाकुशलैवाविज्ञप्तिर् इत्य् अर्थाद् उक्तं भवति. बलवत् कर्मेति. अविज्ञप्तिलक्षणं.
कामे ऽपीति.
अपिशब्दाद् इतिचशब्दार्थेनापिशब्देन काम इत्य् आकृष्यते.
अनास्रवाविज्ञप्तिवद् इति. यथा न च तावद् अनास्रवाया अविज्ञप्तेर् अनास्रवाणि महाभूतानि. अथ च पुनर् यस्यां भूमौ जातस् ताम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायोत्पद्यते. एवं न च तावद् आरूप्याणि महाभूतानि स्युः. अथ च पुनर् यस्यां भूमौ जात आरूप्याम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायारूप्यावचर्य् अविज्ञप्तिर् भविष्यतीति. न. तस्या धात्वपतितत्वाद् इति. नेहासाम्यात्. यस्माद् अविज्ञप्तिर् अनास्रवा धात्वपतिता कामरूपारूप्यावचरीति. तृष्णाभिर् अस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि नापि विसभागानि महाभूतानि भवन्तीत्य् अतो यत्रजातस् तत्रजानि महाभूतान्य् उपादायोत्पद्यते. आरूप्यावचरी त्व् अविज्ञप्तिर् नार्हति कामरूपावचराणि विसभागानि महाभूतान्य् उपादाय भवितुं. धातुपतितवाद् इत्य् अभिप्रायः. किं च. सर्वरूपवैमुख्याच् चारूप्यसमापत्तिर् नालं रूपोत्पत्तये. रूपभूमिका त्व् अनास्रवा समापट्तिर् अलं [तिब्. 20ब्] रूपोत्पत्तये ऽविज्ञप्त्युत्पत्तये इत्य् अर्थः. कस्मात्. सर्वरूपवैमुख्याद् इत्य् अभिप्रायः. कथं चारूप्यसमापत्तेः सर्वरूपं वैमुख्यम् इत्य् अतो ब्रवीति. विभूतरूपसंज्ञत्वाद् इति. विगतरूपसंज्ञत्वाद् इत्य् अर्थः. दौःशील्यप्रतिपक्षेण शीलम् इति विस्तरः. दौःशील्यं कामावचरम् अकुशलसमुत्थानत्वात्. तस्य रूपभूमिकं शीलम् अविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते. आरूप्यावचरम् अप्य् एवं भविष्यतीति चेद् अत आह. आरूप्याश् च कामधातोर् इति विस्तरः. आरूप्याः कामधातोश् चतसृभिर् दूरताभिर् दूरे. दूरत्वाच् चारूप्यसंगृहीतं शीलं कामधातुप्रतिपक्षे न कल्पते. चतस्रश् च दूरता व्याख्याताः पुरस्ताद् इति न पुनर् व्याख्यायन्ते. प्रतिपक्षदूरता चात्रोदाहरणं.
विज्ञप्तिः सविचारयोर्
इति. सविचारयोर् एव भूम्योर् इत्य् अवधारणार्थ आरंभः. वितर्क्य विचार्य वाचं भाषत इति वितर्कविचारपूर्वकत्वात् कायवाक्कर्मणोः.
कामे ऽपि निवृता नास्तीति.
न केवलम् अविचारासु भूमिष्व् इति दर्शयति. ब्रह्मलोक एवास्तीत्य् उक्तं भवति. तत ऊर्ध्वम् इति. ब्रह्मलोकाद् ऊर्ध्वं. बाह्यमहाधूतहेतुकम् इति. वायुप्रभृतीनां [तिब्. 21अ] शब्दायतनं. विज्ञप्तिशब्दप्रतिषेधपरम् एतद् वचनं (अभिध्-क्-व्य् 362). न तु बाह्यमहाभूतहेतुकम् एव. पाण्याद्यङ्गशब्दो ऽपि हि द्वितीयादिषु ध्यानेषु संभवति. अन्यथा हि शास्त्रविरोधः स्यात्. तथा हि शास्त्र उक्तं. शब्दधातुना कः समन्वागतः. आह. कामरूपावचरः. को ऽसमन्वागतह्. आह. आरूप्यावचर इति. न हि बाह्येनासत्त्वसंख्यातेन समन्वागतो युज्यते.
प्राप्त्यप्राप्ती स्वसंतानपतितानाम्
इति वचनात्. अस्यैव च दोषपरिहारार्थम् अन्ये पुनर् आहुर् इति. द्वितीयादिष्व् अपि ध्यानेषु विज्ञप्तिर् अस्तीति. किंभूमिका. प्रथमध्यानभूमिका. वैभाषिकपक्ष एवायं. न पक्षान्तरं.
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तदा व्याप्तम् अक्लिष्टव्याकृतं च तद्
इति सिद्धान्तात्. एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरं. सा तु किं व्याकृता उताव्याकृतेत्य् आह. अनिवृताव्याकृता. न तु कुशला न क्लिष्टेति. परस्परसंभाषणादिकुर्वतां ततस्त्यानाम् अव्याकृता विज्ञप्तिर् भवति. [तिब्. 21ब् किंकारणं न कुशला न क्लिष्टास्तीत्य् आह. न हि तेषूपपन्न इति विस्तरः. न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयम् अधोभूमिकं चित्तं संमुखीकरोति. येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत्. किंकारणम् इति आह. न्यूनत्वात् प्रहीणत्वाच् चेति. कुशलम् अधोभूमिकं न्यूनत्वान् न संमुखीकरोति. प्रहीणत्वाच् चेति न क्लिष्टम्. अर्थाद् एतद् उक्तं भवति. अव्याकृतम् अधोभूमिकं चित्तं संमुखीकरोति. तेन तां समुत्थापयतीति. एतद् उक्तं भवति. अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिर् उत्थाप्यत इति. तद् एवं नेच्छन्ति वैभाषिकाः. प्रथमध्यानिकैव हि सा विज्ञप्तिः प्रथमध्यानभूमिकचित्तसमुत्थापितत्वात्. तस्माद् आह. पूर्वम् एव तु वर्णयन्तीति.
तच् च कामधाताव् इति. तच् च भावनाप्रहातव्यं निवृतव्याकृतं चित्तं कामधातौ नास्ति. सत्कायान्तग्राहदृष्टिसंप्रयुक्तम् एव हि कामधातौ निवृताव्याकृतं चित्तम् इष्यते. तेन च न विज्ञप्तिः समुत्थाप्यते. अन्तर्मुखप्रवृत्तत्वात्.
(iv.10च्द्, 11) स्वभावत इत्य् आत्मतः. परमक्षेमत्वाद् इति. अक्षेमलेशानुबन्धभावात्. [तिब्. 22अ] यद् धि स्वभावसंप्रयोगसमुत्थानतः कुशलं न तत् परमक्षेमम् इत्य् उक्तं भवति. असंप्रयुक्तानां कुशलत्वाभावाद् इति. कुशलमूलादिभिर् असंप्रयुक्तानां चैत्तादीनां कुशलत्वाभावात्. तत्संप्रयोगकुशलत्वसिद्धिः. तैर् एव कुशलमूलादिसंप्रयुक्तैर् इत्य् आदिशब्देन ह्र्यपत्राप्ययोर् ग्रहणं. औषधिपानीयसंभूतक्षीरवद् इति. पीतौषधपानीयाया (अभिध्-क्-व्य् 363) गोर् यत् क्षीरं. तद् औषधपानीयसंभूतं. प्राप्तीनां त्व् इति विस्तरः. प्राप्तीनां कुशलानां विसभागचित्तसमुत्थापितानां. विसभागं चित्तं कुशलाद् अन्यत्. विचिकित्सया कुशलमूलप्रतिसंधाने याः कुशलानां प्राप्तयः. तासां कुशलत्वं. न तावत् परिनिर्वाणवत् परमार्थक्षेमत्वात्. नाप्य् अलोभादिवत् स्वभावतः कुशलम् अतत्स्वभावत्वात्. नापि वेदनादिवत् संप्रयोगतो विप्रयुक्तत्वात्. नापि समुत्थानतस् तत्समुत्थानचित्तस्य [तिब्. 22ब्] क्लिष्टत्वात्. एवं पुनर्भवप्रतिसंधाव् अपि उपपत्तिप्रतिलंभिककुशलप्राप्तयो वक्तव्याः. कथं तासां कुशलत्वम् इति वक्तव्यम् एतत्. कर्तव्यो ऽत्र यत्न इत्य् अभिप्रायः. अत्र परिहरन्ति. कुशलमूलसमुत्थापनीयत्वाद् अनागतावस्थायाम् एव ताः कुशलमूला भवन्ति. क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धो ऽपनीयते. न तत्कुशलत्वम् आपद्यत इति.
सर्वदुःखप्रवृत्त्यात्मकत्वेनेति. सर्वस्य दुःखस्य प्रवृत्तिर् आत्मा स्वभावो ऽस्येति सर्वदुःखप्रवृत्त्यात्मकः. तद्भावेन. परमार्थेनाक्षेमः संसारः. कायवाक्कर्मजात्यादिप्राप्तय इति. कायवाक्कर्माणि विज्ञप्त्यविज्ञप्तिस्वभावान्य् असम्वरनैवसम्वरनासम्वरसंगृहीतानि. जात्यादयो जातिजरास्थित्यनित्यतालक्षणालक्षणस्वभावः. प्राप्तयो ऽकुशलानां. व्याध्यपथ्यौषधादिभिर् उपमेया इति. संसारो व्याधिनोपमेयः. व्याधिसंसार इत्य् अर्थः. लोभादीन्य् अपथ्यौषधेनोपमेयानि. अन्यसंप्रयोगसमुत्थानापेक्षत्वात्. तत्संप्रयुक्ता अपथ्यौषधिमिश्रपानीयेन. कायवाक्कर्मजात्यादिप्राप्तयो [तिब्. 23अ] ऽपथ्यौषधपानीयसंभूतक्षीरेणोपमेयाः. एवं तर्हीति विस्तरः. यदि परमार्थेनाकुशलः संसारः. न किंचित् सास्रवम् अव्याकृतं भविष्यति कुशलं वा. संसाराभ्यन्तरत्वात् सास्रवस्य. परमार्थत एवम् उक्तम् इति अभ्युपगतम् एतत् सर्वं संसारपर्यापन्नम् अकुशलम् इति. विपाकं तु प्रतीति विस्तरः. यद् विपाकं प्रति न व्याक्रियते. सविपाकम् एतद् इति. तद् अव्याकृतम् इत्य् उच्यते. तद् उक्तं भवति. यत् सास्रवं. तद् अकुशलं परमाक्षेमत्वात्. विपाकं प्रत्य् अव्याकरणार्थाव्याकृतम् इति. कुशलम् अपि. तथैवाकुशलम्. इष्टविपाकत्वात् कुशलम् इत्य् अवगन्तव्यं.
यदि समुत्तानवशाद् इति विस्तरः. चेतनाया एव कुशलाकुशलत्वम् इत्य् अनेनाभिप्रायेण. कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति. किं न महाभूतानाम् इति. कुशलाकुशलत्वं. कुशलाकुशलेन हि चित्तेन कायवाक्कर्म तन्महाभूतानि समुत्थाप्यते. वैभाषिक आह. कर्मणि हि कर्तुर् अभिप्रायो न महाभूतेषु न महाभूतानि कुर्याम् इति. किं तर्हि. इदं कर्म कुर्याम् इति. न कर्मवन् महाभूतानां कुशलाकुशलत्वम् इति. [तिब्. 23ब्] आचार्य आह. (अभिध्-क्-व्य् 364) समाहितस्य कर्तुर् अविज्ञप्तौ नास्त्य् अभिप्रायः. अविज्ञप्तिं कुर्यां इति. न चासमाहितं चित्तं तस्याः समुत्थापकम् अस्ति. यद् एवम् अभिप्रायं कुर्यात्. विसभागत्वात् विसदृशत्वात् भूमितो ऽसमाधानाद् वा. कथं तस्याः समाहिताया अविज्ञप्तेः कुशलत्वं. महाभूतवत् तस्याः कुशलत्वं न स्याद् इत्य् अभिप्रायः. दिव्ययोर् अपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसंग इति. यद्य् अन्तरेणापि तदभिप्रायम् अविज्ञप्तेः कुशलम् इति. अथ वा अयम् अस्याभिसम्बन्धः. यदि विसभागासमाहितचित्तवशेन तस्याः कुशलत्वं. दिव्ययोर् अपि चक्षुःश्रोत्रयोः कुशलत्वप्रसंगः. प्रयोगकाले तदभिप्रायसंभवात्. न च तयोः कुशलम् अस्त्य्
अव्याकृते श्रोत्रचक्षुरभिज्ञे इति वचनात्.
(iv.12-14) यद् उक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेर् असमुत्थापकम् इति. दर्शनप्रहातव्यस्यांतर्मुखप्रवृत्तत्वाद् इत्य् एवं ब्रुवतां किं तर्हि भगवतोक्तम् इति विरुध्यते. तद् भगवतोक्तम् इति वाक्यार्थः. किं तद् इत्य् उच्यते. ततो मिथ्यादृष्टेर् इति विस्तरः. कथं मिथ्यादृष्टेर् दर्शनप्रहातव्यायाः [तिब्. 24अ] मिथ्यावाक् विज्ञप्तिस्वभावा मिथ्याकर्मान्तश् च तत्स्वभाव एवेत्य् उक्तम् इति.
हेतुतत्क्षणोत्थानसंज्ञितम्
इति. हेतुत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणोत्थानं. हेतुतत्क्षणोत्थानम् इति संज्ञितं
हेतुतत्क्षणोत्थानसंज्ञितं. संज्ञितम्
इति संज्ञीकृतं. अथ वा हेतुतत्क्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञं. हेतुतत्क्षणोत्थानसंज्ञीकृतं
हेतुतत्क्षणोत्थानसंज्ञितं.
हेतुसमुत्थानम् इति. समुत्तिष्ठते ऽनेनेति समुत्थानं. हेतुश् च स समुत्थानं च तत् हेतुसमुत्थानं. तत्क्षणसमुत्थानम् इति. स क्षणः क्रियाक्षणः. तत्क्षणे समुत्थानं तत्क्षणसमुत्थानं. तत्रैव क्षणे समुत्थानसद्भावात्. तत्रैव क्रियाक्षणे तत्क्षणसमुत्थानस्य भावाद् इत्य् अर्थः. आक्षेपकत्वाद् इत्य् उत्पादकत्वात्. किम् इदानीम् इति विस्तरः. तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां सामर्थ्यं. येन तदानीं तदनुवर्तकम् इत्य् उच्यते. तेन हीति विस्तरः. तेन हि तत्क्षणसमुत्थानेन विना असौ विज्ञप्तिर् मृतस्येव न स्याद् आक्षिप्ता सती हेतुसमुत्थानेन जनितापि सती. तद्यथा. कश्चिद् ग्रामं गमिष्यामीत्य् आक्षिप्तक्रियान्तरा म्रियेत्. तस्यानुवर्तकचित्ताभावाद् (अभिध्-क्-व्य् 365) गमनं न भवति. तद्वत्. अचित्तकस्य तर्हीति [तिब्. 24ब्] विस्तरः. यदि तत्क्षणसमुत्थानेन विनासौ मृतस्येव न स्यात्. निरोधसमापत्तिलाभिनः कस्यचिद् उपसंपाद्यमानस्य कायविज्ञप्तिम् आबध्नतः तत्कालोपस्थितनिरोधसमापत्तित्वाद् अचित्तकस्य संवरोत्पत्तौ कर्मवाचनावसानकालीनायां तत्संवरान्तर्गता कायविज्ञप्तिः कथं भवति. कथम् उत्पद्यते तत्क्षणसमुत्थानं विनेत्य् अर्थः. एवं विरोधिते समाध्यंतरः श्रीयते. स्फुटतरा तर्हीति. तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर् भवतीत्य् एतत् तस्य सामर्थ्यं.
प्रवर्तकं दृष्टिहेयम्
इति. प्रवर्तकम् एव दृष्टिहेयम् इत्य् अवधार्यते. कथं पुनस् तत् प्रवर्तकम् इत्य् आह. तत्समुत्थापकयोर् वितर्कविचारयोर् निदानभूतत्वात् हेतुभूतत्वात्. विज्ञप्तेः प्रवर्तकम् इति. न त्व् अनुवर्तकम् इति विस्तरः. यत् तद् बहिर्मुखं चित्तम् अनुवर्तकं. तस्य यो विज्ञप्तिक्रियाकालः. तस्मिं तदभावात्. तस्य दर्शनप्रहातव्यस्य प्रवर्तकस्याभावाद् इत्य् अर्थः. अतस् तन् नानुवर्तकं. अयं चान्यो दोषः. तत्समुत्थापितं च रूपम् इति विस्तरः. यदि तद् अनुवर्तकं स्याद् दर्शनप्रहातव्यं. तेन दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात्. यथा भावनाप्रहातव्येन चित्तेन समुत्थापितं [तिब्. 25अ] कायवाक्कर्म भावनाप्रहातव्यम् इति. किं स्याद् इति चोदकः. अभिधर्मो बाधितः स्याद् इति वैभाषिकः.
न दृष्तिहेयम् अक्लिष्टं न रूपम्
इति वचनात्. किं च विद्याविद्याभ्यां चाविरोधात्. विद्यया दर्शनमार्गेण सत्कायदृष्ट्यादिवत् तस्य रूपस्याविरोधात्. अप्रहाणाद् इत्य् अर्थः. दृष्टसत्यानाम् अपि तत्समन्वागतत्वान् नास्ति रूपं दर्शनप्रहातव्यं. अविद्यया चाविरोधात्. किं चाविद्ययापि रूपं न विरुध्यते. न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे वा सत्य् अविद्या न भवति अविद्यायां च सत्यां तन् न भवति. यथा अनास्रवो मार्गो ऽविद्यया विरुध्यते. पृथग्जनावस्थायां तदनुत्पादात्. तदुत्पादे वार्यवस्थायां कस्याश्चिद् अविद्यायाः प्रहाणात्. तद् एवम् अनास्रववद् अप्रहातव्यम् अपि न भवति. न चेद् अप्रहातव्यं. नापि दर्शनप्रहातव्यं. पारिशेष्याद् भावनाप्रहातव्यम् इति सिद्धं. इतर आह. [तिब्. 25ब्] साध्य एष पक्षो विद्यया रूपं न विरुध्यत इति. यो हि दर्शनप्रहातव्यं रूपम् इच्छति. स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति. वैभाषिक आह. भूतान्य् अपीति विस्तरः. यदि तद् रूपं दर्शनप्रहातव्यचित्तसमुत्थापितं (अभिध्-क्-व्य् 366) दर्शनप्रहातव्यं स्यात्. तदाश्रयभूतान्य् अपि तर्हि दर्शनप्रहातव्यानि स्युः. कस्मात्. समानचित्तोत्थापितत्वात्. येन हि दर्शनप्रहातव्येन चित्तेन तद् रूपं समुत्थापितं. तेनैव तदाश्रयभूतान्य् अपीति. न च तानि तथा भवितुम् अर्हन्ति. अक्लिष्टाव्याकृतत्वात्. दर्शनप्रहातव्यानां च क्लिष्टत्वात्. इतर आह. नैवं भविष्यति. दर्शनप्रहातव्यानि स्युर् इति. कथम् इत्य् आह. यथा न कुशलाकुशलानि भवन्ति. यथा येन चित्तेन कुशलाकुशलेन कुशलाकुशलं रूपं समुत्थापितं. तेनैव तदाश्रयभूतानि समुत्थापितानि. तच् च कायवाक्कर्मस्वभावं रूपं कुशलाकुशलं. न
तदाश्रयभूतानीति. तद्वत्. स एव पुनः परावृत्याह. अथ वा पुनर् भवंतु दर्शनप्रहातव्यानीति. वैभाषिक आह. नैवं शक्यं भवितुम्. दर्शनप्रहातव्यानीति वाक्यशेषः. कस्मात्. अक्लिष्टस्य [तिब्. 26अ] धर्मस्य विद्याविद्याभ्याम् अविरोधात्. न ह्य् अक्लिष्टो धर्मः अनिवृताव्याकृतः कुशलसास्रवश् च विद्ययानास्रवेण मार्गेण विरुध्यते. यथा क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यंते. तदालम्बनक्लेशप्राप्तिच्छेदात् तु विरोधो न प्रतिषिध्यते. नाप्य् अविद्यया विरुध्यते. प्राप्तिच्छेदेन तदालम्बनक्लेशप्रहातव्येन च. भूतानि चाक्लिष्टानि. तत्र यद् उक्तम् अथ वा पुनर् भवंत्व् इति. तद् अयुक्तं. तद् एवम् अत्र साधनम् उत्तिष्ठते. न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रयमहाभूतानि. अक्लिष्टत्वात्. अक्लिष्टचित्तचैत्तधर्मवद् इति. तद् एवं वैभाषिकः
प्रवर्तकं दृष्टिहेयं विज्ञानम्
इति सचोद्यपरिहारं प्रतिष्ठाप्य निगमयति. अतो हेतुसमुत्थानम् इति विस्तरः. यद् उक्तं मिथ्यादृष्टेर् मिथ्यासंकल्पो यावत् मिथ्याकर्मान्त इति. तस्य सूत्रस्य न विरोधो भवतीति. प्रवर्तकं चानुवर्तकं चेति. अन्तर्बहिर्मुखप्रवृत्तत्वात्.
पंचकं त्व् अनुवर्तकम्
इत्य् अवधारणम् अविकल्पकत्वात्.
[तिब्. 26ब्] नोभयम् अनास्रवम् इति. न प्रवर्तकं. नाप्य् अनुवर्तकं. समाहितान्तर्मुखप्रवृत्तत्वात्.
अम्लायमानेति. अहीयमाना. चानट्प्रत्ययन्तश् चायं शब्दः. कुशलैकताना इति. कुशलैकप्रबन्धा इत्य् अर्थः. बुद्धो भगवान् नाग इत्य् उक्तः सूत्रे. कथं. तथागत उदायिन् सदेवके लोके समारक इति विस्तरेणोक्त्वाह आगो न करोति कायेन वाचा मनसा. तस्मान् नाग इत्य् उच्यते इति. आगो न करोतीत्य् अपराधं न करोतीत्य् अर्थः. अनिच्छयास्येति. अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद् विषयेष्व् अगमनाद् एवम् उक्तं.
चरन् समाहितो नाग
इति विस्तरः. चतुर्ष्व् ईर्यापथेषु चरं चरामीति. यावन् निषीदम् निषीदामीत्य् उपस्थितस्मृतित्वान् नित्यसमाहितः स उच्यते.
निरभिसंस्कारवाहित्वाद् इति. अभावो हि संस्कारस्य प्रयत्नस्य निरभिसंस्कारं. निरभिसंस्कारं वहतीति निरभिसंस्कारवाही. तद्भावः. तस्माद् इति.
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इति. स्याद् एतद् एवं. यदि सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इष्येत. न तु सर्वं. किं तर्हि. मिथ्यादृष्ट्यादिकम् एव प्रवर्तकं विज्ञप्तेर् न सत्कायदृष्ट्यादिकम् [तिब्. 27अ] इत्य् अत आह. न वा सर्वम् इति विशेषणं वक्तव्यम् ईदृशं प्रवर्तकम् ईदृशं नेति. अकुशलाव्याकृतचित्तस्येति. उपसंपाद्यमानस्य केनचिद् योगेनाकुशलाव्याकृतचित्तस्य. प्रातिमोक्षसम्वरविज्ञप्तिर् अंजल्यादिका कुशला न प्राप्नोति. तदनुवर्तकचित्तम् अकुशलाव्याकृतम् इति कृत्वा. यथा प्रवर्तकम् इति विस्तरः. यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम्. तथा विज्ञप्तिर् व्यवस्थाप्यते. न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते. कस्मात्. भावनाहेयेनान्तरितत्वात्. यस्मात् तत्प्रवर्तकं दर्शनप्रहातव्यं भावनाहेयेन प्रवर्तकेनान्तरितं. कथं कृत्वा. तद्यथास्त्य् आत्मेति मया परेषां गमयितव्यम् इति पूर्वम् एवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते. अस्त्य् आत्मेत्य् एवमादि. अतो यथा प्रवर्तकम् इति विस्तरः. तद् एवम् अवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्यानन्तरं प्रवर्तकम् एव भावनाप्रहातव्यं कुशलम् [तिब्. 27ब्] अकुशलम् अव्याकृतं चोत्पद्यते. तद्वशाच् च विज्ञप्तेः कुशलादित्वम् इति. एवं तु वक्तव्यम् इति विस्तरः. एवं तु वक्तव्यम् अन्यव्यवहितं भावनाहेयव्यवहितं हेतुसमुत्थानं संधायोक्तम् इति. परंपराहेतुसमुत्थानं संधायेत्य् अर्थः.
(iv.15अब्) अविज्ञप्तिस् त्रिधेति
विस्तरः. त्रिविधेत्य् उद्दिश्य.
संवोरासंवरेतरेति
विवृणोति. संवरश् च सः. असंवरश् च सः. संवरासंवरः. संवरासंवरश् च सः. इतरा च सा.
संवरसंवरेतरेति
समासः.
(iv.16) प्रतिनियतलक्षणत्वाद् इति. भिक्षुसंवरस्यान्यल् लक्षणम् एवं यावद् उपवाससंवरस्यान्यल् लक्षणं. तथा हि वक्ष्यति.
पंचाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् उपासकोपवासस्थश्रमणोद्देशभिक्षुतेति.
अष्टविधत्वे तु सांकर्यसंभवः. य एव हि भिक्षुसम्वरः. स एव भिक्षुणीसम्वर इत्य् एवमादि. श्रामणेरी च पुनः शिक्षमाणा चेति. श्रामणेरी परिवृत्तव्यंजना श्रमणेरो भवति. शिक्षमाणा चापि परिवृत्तव्यंजना श्रामणेर एव भवति. किम् एवं नेष्यते. परिवृत्तव्यंजनो भिक्षुर् भिक्षुसंवरं च त्यजति. भिक्षुणीसंवरं च प्रतिलभत इत्य् अत आह. न च व्यंजनपरिवृत्ताव् इति विस्तरः. न भिक्षुभिक्षुणीव्यंजनप्रादुर्भावे पार्वसंवरत्यागकारणम् अस्ति.
[तिब्. 28अ] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच् च्युतेः उभयव्यंजनोत्पत्तेर् मूलच्छेदान् निशात्ययाद्
इत्य् अत्र यत् कारणम् उक्तं. नाप्य् अपूर्वसंवरप्रतिलंभे कारणम् अस्तीति वर्तते. यद् उक्तं
प्रातिमोक्षाख्यः परविज्ञापनादिभिर्
इति. अतो विज्ञायते न भिक्षुसंवराद् अन्यो भिक्षुणीसंवर इति. एवं श्रामणेरादीनाम् अपि वक्तव्यं. तस्माद् अभिन्नो ऽनन्यश् चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षुश्रामणेरोपासकसंवरेभ्यः स्वभावः.
किं ते संवरा इति विस्तरः. यथा पंचसंख्यायाम् अन्यानि पंच प्रक्षिप्य पंचवृद्धियोगाद् दश भवन्ति. पंचदशसंख्यायां चान्यानि पंच प्रक्षिप्य विंशतिर् भवंति. दीनारसतेरवच् च. यथा पूर्वको दीनारो द्वितीयेन सह सतेरो भवति. तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन पूर्वकेण दीनारमूल्येन सहाधिकम् अपेक्ष्य कश्चिद् वक्ता भवेत्. दीनारसतेरो मया लब्ध इति. दीनारद्वयं मया लब्धम् इत्य् अर्थः. किम् एवम् एत उपासकश्रामणेरभिक्षुसंवराः विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पुनर् नृत्यगीतविरत्यादीनाम् अपूर्वाणां विरतीनां [तिब्. 28ब्] वृद्धियोगाद् अन्योन्य उच्यंते. अन्य उपासकसंवराच् छ्रामणेरसंवरः श्रामणेरसंवराच् चान्यो भिक्षुसंवर इति एकदेशविशेषयोगाद् अन्योन्यव्यवस्थेत्य् अर्थः. आहो स्वित् पृथग् एव ते सकला उपजायन्ते. अन्याः प्राणातिपातादिविरतय उपासकस्य. ततो ऽन्याः श्रामणेरस्य. ततो ऽन्याश् च भिक्षोः. इत्य् एकस्मिं भिक्षुसंताने तिस्रः प्राणातिपातादिविरतयः. एवम् अदत्तादानविरतयः. इत्य् एवमादि. एवं शेषा इति. नृत्यगीतविरत्यादयः.
मदप्रमादेभ्य इति. उच्चशयनादिमद्यपानादिभ्यः. बहुतरेभ्यः (अभिध्-क्-व्य् 369) प्राणातिपातादीनां निदानेभ्य इति. उपासकाच् छ्रामणेरो बहुतरेभ्यः प्राणातिपातादिनिदानेभ्यो निवर्तते. तद्यथा विकालभोजनं प्राणातिपातनिदानं भवेत्. तस्माच् छ्रामणेरो निवर्तते. नोपासक इत्य् एवमादि योज्यं. एवं चासति. एवं च यदि न स्याद् इत्य् अर्थः. भिक्षुसंवरं प्रत्याचक्षाणस् त्यजंस् त्रीन् अपि उपासकसंवरादीन् विजह्यात्. द्वयोर् उपासकश्रामणेरसंवरयोस् तत्र भिक्षुसंवरे ऽन्तर्भावात्.
(iv.17) विरतिसमादानाद् इति. विज्ञप्त्यविज्ञप्तिविरतिर् [तिब्. 29अ] इति वक्ष्यति.
(iv.18) समापादनाद् इति. प्रतिसंस्थापनाद् इत्य् अर्थः. पापकर्मणो हि सत्त्वेषु विषमं संप्रवर्तते. सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति. विज्ञप्त्या च क्रियते प्रातिमोक्षसंवरसंगृहीता अविज्ञप्तिश् चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः. समाधिना क्रियत इत्य् अर्थः. तद् एवं क्रियत इति क्रियेति कर्मसाधनं.
क्रियाहेतुत्वाद् इति. क्रियाया हेतुत्वात्. संवरस्थो ह्य् संवरपरिरक्षणार्थं क्रियां विज्ञप्तिलक्षणाम् आरभते. क्रियाफलत्वाच् चेति. विज्ञप्तिलक्षणायाः क्रियायाः फलत्वाद् इत्य् अर्थः. समाधिसंभूता कथं क्रिया भवति. समाधिजायाश् चेतनायाः फलत्वात् सापि क्रिया. प्रातिमोक्षसंवराधिकाराद् वा. न तत्र चित्ताः.
एवं तावद् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति. आद्यो ऽपि क्षणो द्वितीयादयो ऽपि च क्षणाः प्रातिमोक्षसंवर इत्य् उच्यते. प्रातिमोक्षस्वभावस् त्व् आद्यक्षण एव. तदर्थम् आह. पुनः आद्ये विज्ञप्त्यव्ज्ञप्ती प्रातिमोक्ष इत्य् उच्यते. पापस्य तेन प्रतिमोक्षणाद् इति. प्रथमेनैव क्षणेन पापं प्रतिमोक्षते. [तिब्. 29ब्] उत्सृज्यते त्यजत इत्य् अर्थः. प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष इति वचनं स्वार्थे वृद्धिविधानात्. स्वार्थे प्रत्यये कृते वृद्धिकरणाद् इत्य् अर्थः. वैकृतवैशसवत्. यथा विकृतम् एव वैकृतम्. विशसम् एव मारणं वैशसं. एवं प्रतिमोक्ष एव प्रातिमोक्ष इति. प्रातिमोक्षसंवर इत्य् अपीति. प्रातिमोक्षश् चासौ संवरश् च. कायवाचोः संवरणार्थ इत्य् अर्थः. कर्मपथ इत्य् अप्य् उच्यत इति. मौलः कर्मपथ इत्य् अर्थः. द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव. प्रातिमोक्षजातीयः प्रातिमोक्षाद् वा जातः संवरः प्रातिमोक्षसंवरः. न प्रातिमोक्षः. यस्मात् न तेन पापं प्रतिमोक्षते. प्रथमक्षण एव प्रतिमोक्षितत्वात्.
(iv.19) अष्टाव् एव निकाया इत्य् अवधारणे पृच्छति. किं खलु बाह्यकानाम् इति विस्तरः. समादानशीलम् इति विशेषणं. शीलद्वैविध्यात्. द्विविधं हि शीलं. समादानशीलं धर्मताप्रतिलंभिकं च. तत्र समादान्शीलं यद् गृह्यते. (अभिध्-क्-व्य् 370) इदं चेदं च न करिष्यामीति. धर्मताप्रतिलंभिकं ध्यानसंवरो ऽनास्रवसंवरश् च. भवसंनिश्रितत्वाद् इति. मोक्षार्थिनाम् अपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्. भवविशेष एव च तेषां केषांचिन् मोक्ष इति. भवसंनिश्रितम् एव शीलं. ततो ऽस्ति तेषां समादानशीलं. न प्रातिमोक्षसंवर इति. सामन्तकम् अप्य् अत्र ध्यानं कृत्वोच्यत इति. यस्मात् सांअन्तके ऽपि ध्यानसंवरो ऽनास्रवसंवरश् [तिब्. 30अ] चेष्यते. तस्माद् ध्यानसामन्तकम् अप्य् अत्र ध्यानशब्देनोच्यत इतीष्यते. अपिशब्दान् मौलम् अपि गृह्यत एव. सहभूहेताव् उच्यमान इति.
चैत्ता द्वौ संवरौ तेषाम्
इत्य् अत्र. त्रयाणाम् इति. प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणां.
अन्यचित्ताचित्तकस्याप्य् अनुवृत्तेर् इति.
विक्षिप्ताचित्तकस्यापीति
वचनात्.
(iv.20अब्) अनागम्य
इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात्. आनंतर्यमार्गेष्व् इति. तेषां प्रहाणमार्गत्वात्. तत्समुत्थापकानाम् इति. दौःशील्यसमुत्थापकानाम्. अत एवेति. यस्माद् अनागम्यानन्तर्यमार्गेष्व् एव तद्व्यवस्थानं. तस्माच् चतुःकोटिकं क्रियते. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः. अनागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्यानाद् आनन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः. अयं ध्यानसंवरो न प्रहाणसंवरः. [तिब्. 30ब्] तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानाम् अप्रहाणात्. द्वितीयानागम्यानन्तर्यमार्गेष्व् अनास्रवसंवरः. अयं प्रहाणसंवरः तेनैव दौःशील्यादिप्रहाणात्. न ध्यानसंवरो ऽनास्रवत्वात्. तृतीयानागम्यानन्तर्यमार्गेषु सास्रवसंवरः अयं प्रहाणसंवरश् च तेन दौःशील्यादिप्रहाणात्. ध्यानसंवरश् च सास्रवसमाधिजत्वात्. चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः. अयं न ध्यानसंवरो ऽनास्रवत्वात्. नापि प्रहाणसंवरस् तेन दौःशील्याद्यप्रहाणात्. स पुनस् तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण यो ऽनास्रवसंवरः. संवरनियमेनैवम् उक्तम्. अन्यथाप्य् अन्ये धर्मा वक्तव्याः स्युः. एवं स्याद् अनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः.
(iv.20च्द्) मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभावः इन्द्रियसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति द्विस्वभावज्ञापनार्थं [तिब्. 31] द्विग्रहणं. (अभिध्-क्-व्य् 371) द्विवचननिर्देशाद् एव हि द्वित्वसिद्धिः. कथं पुनर् गम्यते. एताव् एवंस्वभावाद् इति. आगमात्. अन्यतरा किल देवता भिक्षुं विषयेष्व् इन्द्रियाणि विचारयन्तम् अवोचत्. भिक्षो भिक्षो व्रणं मा कार्षीद् इति. भिक्षुर् आह. पिधास्यामि देवते. देवताह. कुंभमात्रं भिक्षो व्रणं कृत्वा केन पिधास्यसि. भिक्षुर् आह. स्मृत्या देवते पिधास्यामि. संप्रजन्येन चेति.
(iv.21, 22) स यावत् ताम् अविज्ञप्तिं न त्यजतीति. शिक्षानिक्षेपादि.
पूर्वात् क्षणाद् ऊर्ध्वम् अतीतयेति.
प्रथमे क्षणे वर्तमानस्यैव समन्वागतो भवतीत्य् उक्तं भवति.
ध्यानसंवरवान् सदा अतीताजातयेति.
ध्यानसंवरवान् किं पृथग्जनो ऽथार्यः. उभय इत्य् आह. अविशेषितत्वात्. सो ऽतीतानागतया अविज्ञप्त्या समन्वागतः. किंलक्षणया. ध्यानसंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते. स जन्मान्तरत्यक्तम् इति. उदाहरणप्रदर्शनपरम् एतत्. इदं जन्म त्यक्तम् अपि हि गृह्यते.
आर्यस् तु प्रथमे नाभ्यतीतयेति.
आर्यः सदातीताजातया अविज्ञप्त्या [तिब्. 31ब्] समन्वागतः. किंलक्षणया. अनास्रवया. आर्याधिकारात्. अत एवाह. आर्यपुद्गलो ऽप्य् एवम् अनास्रवयेति. अयं तु विशेष इति. तुशब्दार्थं दर्शयति. स च भिन्नक्रमः. प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिक्षणे नाभ्यतीतया अविज्ञप्त्या समन्वागत इत्य् अर्थः. कस्मात्. अनादिमति संसारे मार्गस्य पूर्वम् अनुत्पादितत्वात्. ननु च फलप्राप्तिकाल इन्द्रियसंचारकाले ऽपि वा पूर्वमार्गत्यागे नैवातीतया अविज्ञप्त्या समन्वागम इष्यते. एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो भवति. तत्र नातीतयाविज्ञप्त्या समन्वागतो भवति. फलमार्गस्य पूर्वम् अनुत्पादितत्वाद् इति व्याख्यातव्यं. आचार्यवसुमित्रस् त्व् अस्य चोद्यस्य परिहारम् आह. अनास्रवसंवरो ऽत्र प्रकृतः. स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः. अतस् तेन प्रथमे क्षणे नातीतेन समन्वागतो द्वितीयादिष्व् अतीतानागतेनेति. ऊर्ध्वं तु यो मार्गान्तरलाभः. तत्रानास्रवसंवरसादृश्यम् अस्तीति न तद् उच्यत इति. तद् इह सादृश्यम् अस्तीति न बुध्यामहे. किं सास्रवसंवरो ऽस्तीत्य् अपेक्ष्येदम् उच्यते. आहो स्विद् अनास्रवो ऽस्तीति. यदि सास्रवो ऽस्तीत्य् अभिप्रीयते. [तिब्. 32अ] दुःखधर्मज्ञानक्षान्तिकाले ऽपि सो ऽस्तीति नातीतया समन्वागत इति प्रतिषेधानुपपत्तिः. अथ फलप्राप्तिकाले ऽतीतानास्रवसंवरो ऽस्तीत्य् अभिप्रीयते. विहीनः स कथम् अस्तीति शक्यं वक्तुम् इति चिन्त्यो ऽस्याभिप्रायः.
समाहितार्यमार्गस्थाव्
इति. समाहितमार्गस्थश् च लौकिकसमाहितमार्गस्थः आर्यमार्गस्थश् च
समाहितार्यमार्गस्थौ.
ध्यानानास्रवसंवरान्विताव् इत्य् अर्थः. अत्र चार्यमार्गाभिरूढ आर्यमार्गस्थो वेदितव्यो नौस्थनायेन. तद्यथा यो नावम् अभिरूढः. स नौस्थः. एवं य आर्यमार्गम् अभिरूढः समापन्नः. स आर्यमार्गस्थः. अन्यथा ह्य् आर्यमार्गसमन्वितो ऽप्य् आर्यमार्गस्थ इति कृत्वा. प्रकृतिस्थो ऽप्य् आर्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति. अन्यः पुनर् एवंप्रसंगं परिहरन् व्याचष्टे. एकशेषो ऽत्र क्रियते. समाहितश् च समाहितार्यमार्गश् च मार्गौ समाहितार्यमार्गौ. तयोः स्थितौ
समाहितार्यमार्गस्थौ.
तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्यानास्रव[तिब्. 32ब्] संवराविज्ञप्त्या च समन्वागतौ. न तु व्युत्थितौ. न तु तन्मार्गव्युत्थितौ तया वर्तमानया समन्वागतौ. तस्याश् चित्तानुपरिवर्तनीयत्वात्. एवं व्याख्यायते. यच् चोदितम् आचार्यसंघभद्रेण. कथम् अविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनाद् एव गम्यते. तत्समापन्न एवायं. न पुनस् तत्समन्वागमवचनप्रसंग इति चेत्. न. ध्यानाधिकारात्. तत्रविज्ञप्त्यभावाच् च.
(iv.23अब्) यो नैवसंवरणासंवरे स्थितस् स मध्यस्थ इति. यो न भिक्ष्वादिः. न च कैवर्तादिः. स मध्यस्थः. दौःशील्यशीलांगादिसंगृहीतेति. दौःशील्यं प्राणातिपातादि. शीलांगं प्राणातिपातविरत्यादि. यन् नसंवरणासंवरसंगृहीतम्. आदिशब्देन स्तूपवन्दनाखटचपेटादिक्रियाविज्ञप्तिर् गृह्यते.
(iv.23च्द्,24अब्) असंवरसंवरस्थौ पुद्गलाव् अकुशलकुशलधर्मप्रतिष्ठिताव् इत्य् अनयोर् विपर्ययम् असंभावयन् पृच्छति. किम् असंवरस्थ इति विस्तरः. तौ यावद् अनुवर्तेते इति.
प्रसादक्लेशवेगौ.
अन्येष्व् अतीतयापीति. द्वितीयक्षणादिषु अतीतया.
(iv.24च्द्, 25अब्) क्षणाद् ऊर्ध्वम् आ त्यागाद् [तिब्. 33अ] इति. यो यस्यास् त्यागस् तस्माद् आ त्यागात् तयातीतया विज्ञप्त्या समन्वागतः. कथं. संवरलक्षणायास् तावद् विज्ञप्तेस् त्यागः शिक्षानिक्षेपादिभिः. तस्माद् आ त्यागाद् अनयातीतया विज्ञप्त्या समन्वागतः. असंवरलक्षणायाः संवरसमादानादिभिस् त्यागः. तेस्माद् आ त्यागाद् अनया समन्वागतः. नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस् त्यागः. तस्माद् आ त्यागाद् अनया समन्वागत इति. यो हि संवराद्यविज्ञप्तिसमन्वागतः. सो ऽवश्यं मौलकर्मपथस्वभावया क्षणाद् ऊर्ध्वम् अतीतयाविज्ञप्त्या समन्वागतः. अनागतया तु विज्ञप्त्या न कश्चित् (अभिध्-क्-व्य् 373) समन्वागत इति. चित्ताननुपरिवर्तनीयत्वात्. चित्तस्यापीति. चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् प्राप्तिः. अनुबन्धिनी मा भूद् इत्य् अर्थः. कस्माद् इत्य् आह. जडा हि विज्ञप्तिर् अनालम्बनत्वात्. परतंत्र च चित्तपरतन्त्रत्वात्. न चैवं चित्तम् इति. न जडं. न परतंत्रं चेत्य् अर्थः. कस्मात्. तद्विपर्ययात् सा दुर्बलेन निवृताव्याकृतेन चित्तेनोत्थापिता दुर्बलतरा भवतीति.
(iv.25च्द्) मौलसंगृहीतत्वाद् [तिब्. 33ब्] इति. चेतनायाः तदर्थत्वात्.
(iv.26) विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतन
इति. मध्यस्थग्रहणं संवरासंवरस्थनिरासार्थं. संवरासंवरस्था हि विज्ञप्त्यविज्ञप्तिभ्याम् अवश्यं समन्वागताः. मृदुचेतनग्रहणं तीव्रचेतननिरासार्थं. तीव्रचेतना हि विज्ञप्तिं कुर्वन्न् अविज्ञप्तिं समुत्थापयेत्. प्राग् एवाव्याकृतम् इति. मृद्व्या चेतनया प्राग् एवाव्याकृतं कुर्वन्. यत्र हि मृद्व्या चेतनया कुशलम् अकुशलं वा कुर्वन् नैवसंवरनासंवरे स्थितो विज्ञप्त्यैव समन्वागतो भवति अविज्ञप्तेर् अनुत्पादात्. प्राग् एवाव्याकृतं कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतो नाविज्ञप्त्या. अविज्ञप्त्युत्पादाशंकाया अभावात्. अन्यत्रेति विस्तरः. अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः. कर्मपथेभ्यश् च प्राणातिपातादिभ्यः. तत्र ह्य् अव्याकृतम् अपि कुर्वन्न् अविज्ञप्त्या समन्वागतो भवति. सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यम् इति सूत्रे वचनात्. प्राणातिपातादींश् च कर्मपथां मृदुचेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति. [तिब्. 34अ] येनार्यपुद्गलेनेति विस्तरः. परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं भवति. कललाद्यवस्थायाम् आरूप्योपपत्तौ च. विज्ञप्तं वा पुनर् विहीनम् अव्याकृतचित्तोत्थापितविज्ञप्तिविहीनाच् च. न हि तस्याः प्राप्तिर् अनुबन्धिनी भवति. कृतस्तूपादिकस्य वा. तद्वस्तुच्छेदात्. स हि तदानीम् अविज्ञप्तिम् अपि परित्यजति प्राग् एव विज्ञप्तिम् इति. आस्व् अवस्थासु जन्मान्तरपरिवृत्ताव् आर्यपुद्गलो ऽनास्रवयैवाविज्ञप्त्या जन्मान्तरलब्धया समन्वागतो न विज्ञप्त्या. ननु च पृथग्जनस्याप्य् अयं विधिः संभवति. संभवति. अनावश्यकत्वात् तु पृथग्जनो नोक्तः. यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधाताव् अकृतविज्ञप्तिः कृतविज्ञप्तिविहीनो वा. स एव तथा संभवति नान्य इति. कामावचरसत्त्वाभिसंधिवचनाद् वा. अथ वा उदाहरणरूप आर्यपुद्गल उक्तस् तेन पृथग्जनो ऽपि तथा ग्रहीतव्यः. अत एव
विज्ञप्त्यैवान्वितः कुर्वन् मध्यस्थो मृदुचेतन
इत्य् अत्रोक्तो ऽन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्य इति. सावशेषम् एतद् वचनम् इति कृत्वा. एवं द्वे कोटी सूत्रिते प्रथमद्वितीये [तिब्. 34ब्] तृतीयचतुर्थ्यौ तु योज्ये. तृतीया संवरासंवरमध्यस्थास् तीव्रया चेतनया कुशलम् अकुशलं वा कुर्वन्तः. चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति. विज्ञप्तं वा विहीनम् इति.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
