Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 14/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(iv.27) सहभूतत्वाद् इति. यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः. परो विज्ञापयतीति प्रत्यापयति. पुद्गलाद् अन्य इति. श्रामणेरश्रामणेर्युपासकोपासिकोपवाससंवराः. नियामावक्रान्त्या आर्यमार्गावतारणेन. पंचकानाम् आज्ञातकौण्डिन्यादीनां. एहिभिक्षुकयेति एहि भिक्षो चर ब्रह्मचर्यम् इति भगवतो वचने. एहीति चोक्तः सुगतेन तायिना मुण्डश् च काषायधरो बभूवेति. शास्तुर् अभ्युपगमान् महाकाश्यपस्येति. महाकाश्यपः किल यांयां देवताप्रतिमां वन्दते. सासा स्फुटति. तस्य महानुभावात्. स भगवन्तम् उपसंक्रम्य न वन्दते. मास्य रूपविनाशो भूद् इति. तम् अभिप्रायं विदित्वा भगवांश् चोदयति स्म. वन्दस्व काश्यप तथागतम् इति. तेन भगवान् वन्दितः. ततः स भगवतो रूपम् अविकोपितं दृष्ट्वा अयं मे शास्तेति स भगवन्तम् अभ्युपगताद् [तिब्. 35]अ अस्योपसंपद् इति. प्रश्नाराधनेन सोदायिन इति. सोदायिना प्रश्नविसर्जनेन भगवान् आराधितस् तेनाराधनेन तस्योपसंपत्. गुरुधर्माभ्युपगमेनेति. अष्टौ गुरुधर्माः. भिक्षोर् अन्तिकाद् भिक्षुणीनाम् उपसंपत् भिक्षुणीभावः. अन्वर्धमासम् अववादो ग्राह्यो भिक्षोर् अन्तिकात्. अभिक्षुके आवासे वर्षा नोपगन्तव्या. प्रवारणायाम् उभयसंघस् त्रिभिः स्थानैः प्रवारयितव्यः. न चोदयितव्यो भिक्षुर् आपत्तिम् आपन्नः नाक्रोष्टव्यः. गुरुधर्मापत्तौ मानाप्यम् अर्धमासं चरितव्यं. वर्षशतोपसंपन्नयाप्य् भिक्षुण्या तत्क्षणोपसंपन्नो भिक्षुर् वन्द्यः. न च भिक्षुण्या क्वचिद् भिक्षुश् चोदयितव्यः. इत्य् एवमादयः. एषाम् अभ्युपगमेन तस्या उपसंपत्. दूतेन धर्मदिन्नाया इति. तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति.

विनयधरपञ्चमेनेति. चत्वारो भिक्षवः संघः. तत्र ज्ञप्तिवाचकेन पंचमेनोपसंपाद्यते प्रत्यन्तिकेषु जनपदेषु. मध्यमेषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसंपाद्यते. षष्टिभद्रवर्गपूगोपसंपादितानाम् [तिब्. 35ब्] इति. भद्रो वर्ग एषाम् इति. भद्रवर्गाणां षष्टिः कुलपुत्राः. तेषां पूगेन समूहेनोपसंपादितानां. शरणगमनत्रैवाचिकेन बुद्धशरणं गच्छाम इति त्रिर्वचनेनोपसंपत्. तेषां नावश्यं विज्ञप्त्यधीन इति. तेषां विनयधराणाम् इदम् मतं. नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर (अभिध्-क्-व्य् 375) इति. बुद्धप्रभृतीनाम् अविज्ञप्तिधीनत्वात्. अथ वा तेषाम् इति येषां विज्ञप्तिर् नास्त्य् उपसंपत्क्रियायां.

(iv.28अब्) संवृतेर्

इति संवरस्य. कालो नित्यः पदार्थो ऽस्तीत्य् एके. तदाशंकया पृच्छति. कालो नाम क एष धर्म इति. काल इत्य् अस्याभिधानस्य किम् अभिधेयम् इत्य् अर्थः. संस्कारपरिदीपनाधिवचनम् एतद् इति. संस्काराणाम् अतीतानागतप्रत्युत्पन्नानाम् अभिद्योतकं नामेति. तद्यथातीतः कालो यावत् प्रत्युत्पन्न इति त्रैयध्विकाः संस्कारा एव गम्यंते. तेन च तत्राप्रयोगाद् इति. तेन विसभागेनाश्रयेण तत्र समादाने अप्रयोगात्. अस्मरणाच् च तेनाश्रयेण तत्समादानं न समरति. वैभाषिक आह. कुतस् त्व् एतद् एवं तर्क्यते. यथानन्तरम् उक्तं. आचार्य आह. परेणापि संवरोत्पत्तौ युक्त्यविरोधाद् इति. नात्र युक्तिर् विरुध्यते. यथा जीविताद् ऊर्ध्वं सत्य् अपि समादाने [तिब्. 36अ] संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रयत्वाद् इत्य् एवमादि. न कालान्तरविपन्नम् एति अहोरात्रादियावत्क्रियाशयेन.

(iv.28च्द्) अविज्ञप्तिवद् असंवरो ऽपि नास्ति द्रव्यत इति. यथा नास्त्य् अविज्ञप्तिर् द्रव्यत इति प्रतिपादितं. तथा असंवरो ऽपि न द्रव्यतो ऽस्ति. चेतनाव्यतिरिक्त इत्य् अभिप्रायः. पापक्रियाभिसंधिर् इति. पापक्रियाभिप्राय इत्य् अर्थः. सानुबन्ध इति सवासन इत्य् अर्थः. सवासनश् चेतनाविशेषो ऽसंवर इत्य् अर्थः. यतो ऽनुबन्धात् तद्वान् असंवरवान् इत्य् उच्यते. असंवरिक इत्य् अर्थः. तस्यानिराकृतत्वात्. तस्याभिसंधेः सानुबन्धस्यानिराकृतत्वात्. तद्विरुद्धया चेतनयानुपहतत्वाद् इत्य् अर्थः.

(iv.29) स भुक्त्वापि गृह्णीयाद् इति. सूर्योदय एव संवर उत्तिष्ठते. समादाननियमचित्तस्योत्थापकत्वात्. भुक्त्वाग्रहणं त्व् अभिव्यक्त्यर्थं. कपोतकम् इति. अंगुष्ठरहितस्यांगुलिचतुष्कस्येतुरहस्तांगुष्ठप्रदेशिन्योर् अन्तरालविन्यसनात् कपोतकः.

(iv.30) शीलं

पाराजिकाभावः संघवशेषाद्यभावः.

व्रतम्

इति नियमः. तदभावाद् इत्य् अकालभोजनात्. उभयं न स्याद् इति. स्मृतिः संवेगश् च.

न तु तेषाम् इति विस्तरेणाचार्यो वैभाषिकमतं युक्त्या [तिब्. 36ब्] विरोधयति. न तु तेषाम् एव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टिधर्मप्रविचयसंबोध्यंगसमाधीनां. त एव सम्यग्दृष्ट्यादयो ऽङ्गत्वाग कल्पंते. युज्यन्त इत्य् अर्थः. कस्मात्. युक्तिविरोधात्. पूर्वकाः सम्यग्दृष्ट्यादय (अभिध्-क्-व्य् 376) उत्तरेषां सम्यग्दृष्ट्यादीनाम् अङ्गं यदि स्युर् इति व्यवस्थाप्यते. एवम् अस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टांगः स्यात्. न हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिर् अङ्गम् अस्तीति. सप्ताङ्गः स्यात्. बोध्यंगेष्व् अपि पश्चिमः क्षणो न बोध्यंगं स्यात्. न ह्य् अन्या परेण बोधिर् अस्ति यस्यास् तद् अङ्गं स्यात्. अथ मतम् अनागताया बोधेस् तद् अंगम् इति. अनागतबोधिर् न स्यात्. एवं समाधिर् योज्यः.

(iv.31अब्) अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुर् वा विस्मरणाद् अव्युत्पत्तेश् च. संदिग्धस्य विपन्नाशयस्य वानादरपूर्वकं शरणम् अवगच्छतः संवरो नोत्पद्यत इति. गृहीति. उद्देशपदम्. अवदातवसन इति. निर्देशपदं. पुरुष इति. उद्देशपदं. पुरुषेन्द्रियेण समन्वागत इति. तन्निर्देशपदं. यदि न विना संवरेणोपासको भवति. यत् तर्हि सूत्र उक्तं. तद् उक्तम् इयतोपासको भवतीति. तत् कथम् इति वाक्यशेषः. आह. नास्त्य् अत्र सूत्रविरोध इति. [तिब्. 37अ महानामसूत्रस्य.

(iv.31च्द्) उक्तिस् तु भिक्षुवद्

इति. उपासकशिक्षापदोक्तिः भिक्षुर् इव. यथैव हि भिक्षुर् लब्धसंवरो ऽपि ज्ञप्तिचतुर्थेन कर्मणा शिक्षापदानि यथास्थूलं ग्राह्यते प्रत्याय्यते इतश् चामुतश् च पाराजिकादिभ्यस् तव संवरः. अन्यानि च ते सब्रह्मचारिणः कथयिष्यन्तीति. श्रामणेरश् च. किं. शिक्षापदानि ग्राह्यते लब्धसंवरो ऽपि पूर्वं. यदैव हि तेनाभ्युपगतम् अहम् एवंनामा तं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्ध शाक्यमुनिं शाक्याधिराजं प्रव्रजितम् अनुप्रव्रजामि. गृहस्थलिंगं परित्यजामि. प्रव्रज्यालिंगं समाददामि. श्रमणोद्देशं मां धारय. एवं यावत् त्रिर् अपीति. तथोपासको ऽपि बुद्धशरणं गच्छामि. यावत् संघशरणं गच्छामि. द्विर् अपि त्रिर् अपि. इत्य् अनेन लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते. प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति विस्तरेण.

(iv.32अब्च्) एकदेशकारी. य एकं शिक्षापदं रक्षति. प्रदेशकारी. यो द्वे रक्षति. यद्भूयस्कारी. यस् त्रीणि चत्वारि वा रक्षति. परिपूर्णकारी. यः पंचापि रक्षति. स तत्कारीत्य् उक्त इति. एकदेशकारी यावत् परिपूर्णकारीत्य् [तिब्. 37ब्] अर्थः. न ह्य् एवं सूत्रपाठ इति. न ह्य् एवं महानामसूत्रपाठो यावज्जीवप्राणापेतम् इत्य् उक्तः. यथा महानामसूत्रपाठ इति. कियता भदन्त उपासको भवति. यतश् च महानामन् गृही विस्तरेण यावद् उपासकं मां धारयेति. इयतोपासको भवतीति. यत्र त्व् एष पाठ इति. यत्र सूत्रान्तरे एष पाठः. यावज्जीवं प्राणापेतं शरणगतम् अभिप्रसन्नम् इति. ततस् ते दृष्टसत्याः पुद्गलाः अवेत्यप्रसादान्वयम् अवेत्यप्रसादहेतुकं प्राणैर् अपि (अभिध्-क्-व्य् 377) जीवितहेतोर् अपि सद्धर्मोपगमनं दर्शयति. अभव्या वयम् एनं धर्मं परित्यक्तुम् इति. न त्व् एष लक्षणापदेशः संवरस्य. न त्व् अनेन सूत्रेण लक्षणम् अपदिश्यत इत्य् अर्थः. प्राणापेतं तु न क्वचित् पठ्यत इति. नापि महानामसूत्रे. नापि दृष्टसत्यसूत्रे. कश् चैतद् अपरिस्फुटार्थं पठेद् इति. मध्यपदलोपविकल्पान् न ज्ञायते. किं प्राणेभ्यो ऽपेतं प्राणैर् वा ऽपेतं प्राणपेतं. उताहो प्राणातिपातादिभ्यो ऽपेतं प्राणापेतम् इति. प्रश्न एव न युज्यत इति. यो ऽयं प्रश्नः कियता भदन्तोपासक एकदेशकारी भवति. यावत् परिपूर्णकारीति. एष प्रश्नो न युज्यते. कुतो विसर्जनम् इति. इह महानामन्न् उपासकः [तिब्. 38अ] प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति. इयता महानामन्न् उपासकः शिक्षायाम् एकदेशकारी भवति. विश्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति. त्रिभ्यः प्रतिविरतः चतुर्भ्यो वा यद्भूयस्कारी भवति. पंचभ्यः प्रतिविरतः परिपूर्णकारी भवतीत्य् एतद् विसर्जनं सुष्ठु न युज्यते. तन्मात्रशिक्षाक्समां प्रत्य् एष प्रश्नो युज्यते इति. एकस्य शिक्षापदस्य द्वयोस् ततः परेण वा क्षमाम् इति. विनापि संवरेणोपासकः प्रज्ञपित इति. महानामसूत्रे. यतः खलु महानामं गृही अवदातवसन इत्य् एवमादिना.

(iv.32द्) अर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्याद् इति. यदि समुत्थापकम् अस्य चित्तं मृदु स्यात्. पृथग्जनस्याधिमात्र इति. यद्य् अस्याधिमात्रं चित्तम् इति.

अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुश् च. तदनादरतस् तु शरणगमनैर् विना न स्याद् उपासक इति.

(iv.33) बुद्धकरकान् इति. बुद्धप्रज्ञप्तिहेतून्. अत एवाह. येषां प्राधान्येन स आत्मभावो बुद्ध इत्य् उच्यते. अन्ये ऽपि हि गुणा अप्राधान्येनाश्रिता भवति. येषां वा लाभेनेति. क्षयज्ञानादयः सपरिवारा इति. आदिशब्देनानुत्पादज्ञानम् अशैक्षी च सम्यग्दृष्टिर् गृह्यते. सपरिवारग्रहणेनानास्रवाः पंच स्कंधा गृह्यन्ते. रूपकायस्य पूर्वं पश्चाच् चाविशेषाद् इति. किं. न रूपकायं [तिब्. 38ब्] शरणं गच्छतीति संबन्धः. यादृशो बोधिसत्त्वावस्थायां रूपकायस् तादृशः पश्चाद् अपीति.

लक्षणतः सर्वबुद्धान् इति. न कण्ठोक्तित इत्य् अभिप्रायः. मार्गस्याविलक्षणत्वाद् इति. लौकिकस्य मार्गस्य पुण्यज्ञानसंभारलक्षणस्य लोकोत्तरस्य च क्षयज्ञानादिलक्षणस्याविलक्षणत्वात् तुल्यत्वात्. नायुर्जात्यादिलक्षणानाम्. अतस् तुल्यलक्षणाः सर्वे बुद्धा इति.

संघीभवन्त्य् अभेद्यत्वाद् इति. सदेवकेनापि लोकेन मार्गं प्रत्य् अभेद्यत्वात् संघीभवंति. समग्ररूपा भवन्तीति. लक्षणत इति. पूर्ववद् (अभिध्-क्-व्य् 378) व्याख्यातव्यं. यो ऽसौ भविष्यतीति विस्तरः. तत्र भगवांस् त्रपुसभल्लिकौ वणिजाव् आमंत्रयते स्म. एतं युवां बुद्धं शरणं गच्छतं. धर्मं च. यो ऽसौ भविष्यत्य् अनागते ऽध्वनि संघो नाम तम् अपि शरणं गच्छतम् इति. यदा संघो नास्ति तदैवम् उक्तम् अनागतम् एव संघम् अधिकृत्य. तत् कथं सर्वसंघान् असौ शरणं गच्छतीत्य् अनेन विरुध्यते. तत्प्रत्यक्षभाविन इति. यत् संघरत्नं तयोस् भल्लिकयोर् धर्मचक्रप्रवर्तनानन्तरं प्रत्यक्षीभविष्यत्ति. तस्योद्भावनार्थगुणतः [तिब्. 39अ] प्रकाशनार्थं स एवाधिकृतो भविष्यतीत्य् अर्थः.

शांत्येकलक्षणत्वाद् इति. स्वपरसांतानिकानां क्लेशानां दुःखस्य च या शान्तिः. तल् लक्षणम् अस्येति शान्त्येकलक्षणं निर्वाणं. तद्भावः. तस्मात्. असौ सर्वं निर्वाणं गच्छति.

आश्रयविपादनाद् इति. तेषाम् अशैक्षाणां य आश्रयो रूपस्कन्धः. तस्य विपादनाद् विकोपनात् तदाश्रयिणो ऽपि ते बुद्धकरका धर्मा विपादिता भवंति. शास्त्रं तु नैवम् इति विस्तरः. अभिधर्मशास्त्रं नैवं वाचकं. नैवं दर्शकं. अशैक्षा धर्मा एव बुद्ध इति. किं तर्हि. बुद्धकरका इति. के ते बुद्धकरकाः ये बुद्धत्वस्य बुद्धप्रज्ञप्तेश् च हेतवो लौकिकलोकोत्तरा धर्माः. ते बुद्ध इति. अत आश्रयस्य लौकिकपंचस्कन्धलक्षणस्य बुद्धत्वाप्रतिषेधाद् अचोद्यम् एवैतत्. यद् उक्तं यद्य् अशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनाद् आनन्तर्यं भवतीति. अन्यथा हीति विस्तरः. यद्य् अशैक्षा धर्मा बुद्धः. [तिब्. 39ब्] शैक्षाशैक्षा एव धर्माः संघः. लौकिकचित्तस्थो न बुद्धः स्यान् न संघः. कस्मात्. न हि लौकिकं अशैक्षा धर्माः शैक्षाशैक्षाश् चेति. यदि वा शैक्षा धर्मा एव बुद्धकरका बुद्द्धः स्यात् नाश्रयो ऽपि. शीलम् एव स भिक्षुसंवराख्यं भिक्षुकरकं भिक्षुः स्यात्. नाश्रयः. आह. यद्य् आश्रयस्यापि बुद्धत्वं कस्माद् एवम् आह शास्त्रे. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मान् शरणं गच्छतीत्य् अशैक्षधर्मान् एवावधारयति. एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिम् आह. यथा तु यो भिक्षुं पूजयतीति विस्तरः. यथा तु यो भिक्षुं पूजयति शीलमुखेन. भिक्षुकरकम् असौ शीलं पूजयति. न च पुनः शीलम् एव भिक्षुः. एवं यो बुद्धं शरणं गच्छत्य् अशैक्षमुखेन. अशैक्षान् असौ बुद्धकरकान् धर्मां शरणं गच्छति. न पुनः स्वसंतानिका अशैक्षा एव धर्मा बुद्धः. तस्माद् अदोष एषः. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मांश् छरणं गच्छतीति.

सो ऽष्टादशावेणिकान् इति. तेषाम् असाधारणत्वाद् इत्य् अभिप्रायः.

वाग्विज्ञप्तिस्वभावानीति. ग्रहणकालम् अधिकृत्य.

चैत्यवृक्षांस् [तिब्. 40अ] चेति.

चैत्यकल्पिता वृक्षाश् चैत्यवृक्षाः. तान् इति. अत एवेति. यस्माद्

एतच् छरणम् आगम्य सर्वदुःखात् प्रमुच्यते.

अतः सर्वसंवरसमादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानीत्य् अर्थः.

(iv.34अब्) आपायिकत्वाच् च. यस्माच् च काममिथ्याचार एकांतेनापायिकः अपायसंवर्तनीयः. न तथाब्रह्मचर्यं. अक्रियानियमो ह्य् अकरणसंवर इति. अक्रियायाम् अकरणे नियम एकांतता अक्रियानियमः. सो ऽकरणसंवरः. अकरणलक्षणः संवरः. न समादानिकसंवर इत्य् अर्थः. स च सौत्रांतिकनयेनावस्थाविशेष एव. वैभाषिकनयेन तु शीलांगम् अविज्ञप्तिर् इति.

(iv.34च्द्) य उपासकाः संत इति विस्तरः. ये गृहीतपंचशिक्षापदाः संतो भार्याः परिणयन्ति विवाहयंति. किं तैर् उपासकैस् ताभ्यो ऽपि स्त्रीभ्यः संवरः प्रतिलब्धः. प्रतिलब्धपूर्वक इत्य् अर्थः. अथ न प्रतिलब्ध इत्य् अधिकृतं. वैभाषिक आह. प्रतिलब्ध इति. मा भूत् प्रादेशिक इति सर्वागम्यात् प्रतिविरतेः. काममिथ्याचारात् प्रतिविरमामीति अगम्याचारात् प्रतिविरमामि. न त्व् अस्मात् संतानागम्याचरात् प्रतिविरमामीत्य् अभिप्रायः. अत एवाह.

न त्व् अत्र संतान

इति विस्तरः.

(iv.35च्द्) प्रतिक्षेपणसावद्यम्

[तिब्. 40ब्] इति. प्रतिषेधसावद्यं. भगवत्प्रतिषिद्धं कर्माचरतः पापं भवति. भगवच्छासनानादरात्. न तत् क्लिष्टं यद् अमदनीयमात्रां विदित्वा पिबतीत्य् आभिधार्मिकेणोक्ते. प्रकृतिसावद्यं मद्यम् इति विनयधराः साधयंति. प्रकृतिसवद्यम् उपाले स्थापयित्वेति. प्रकृतिसावद्येन कर्मणा न चिकित्स्यः. प्रज्ञप्तिसवद्येन तु चिकित्सनीय इत्य् अभिप्रायः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्. अतो गम्यते प्रकृतिसावद्यं तद् इति. यदि हि हत् प्रज्ञप्तिसावद्यं स्यात् ग्लानशाक्योपस्थानाय तद् अनुज्ञायते. न चानुज्ञायते. तेन तत् प्रकृतिसावद्यम् इति. इदं चोक्तं मां शास्तारम् उद्दिशद्भिः शाक्यमुनिर् नः शास्तेत्य् उपदिशद्भिः कुशाग्रेणापि मद्यं न पातव्यम् इति. प्रकृतिसावद्यं तद् इति भगवता तत् प्रतिषिद्धं. न तु मदनीयम् इत्य् अवेत्य. कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात्. आर्यैश् चेति विस्तरः. प्रकृतिसावद्यं (अभिध्-क्-व्य् 380) मद्यं. जन्मांतरगतैर् अप्य् आर्यैर् अनध्याचारात्. प्राणिवधादिवद् इति साधनं. कायदुश्चरितवचनाच् चेत्य् [तिब्. 41अ] अपरं साधनं. प्रकृतिसावद्यं मद्यं. कायदुश्चरितवचनात्. प्राणिवधादिवत्. चतुर्विधं हि नन्दिकसूत्रादिषु कायदुश्चरितम् उक्तम्. प्राणातिपातः अदत्तादानं काममिथ्याचारः सुरामैरेयमद्यप्रमादस्थानम् इति. उत्सर्गविहितस्यापीति विस्तरः. अनेन भगवद्वचनस्य पूर्वापरविरोधं परिहरंति. कथं. भदंतेति विस्तरेण मद्यपानस्य सामान्यवचनम् उत्सर्गः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् इत्य् अपवाद इति. मद्यपानं ग्लानावस्थायाम् अपि नानुज्ञातम् इति गम्यते. अपवादः पुनः प्रसंगपरिहारार्थं. सकृत्पीतं हि मद्यं

व्यसनीभवेत्. उक्तं हि भगवता. त्रीणि स्थानानि प्रतिषेधमाणस्य नास्ति तृप्तिर् वा. अलंता वा. पर्याप्तिर् वा. मद्यम् अब्रह्मचर्यं स्त्यानमिद्धं चेति. प्रसंगपरिहारः कस्माद् इत्य् आह. मदनीयमात्रानियमात्. सैव हि मात्रा द्रव्यकालप्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति. अत एव च कुशाग्रपानप्रतिषेध इत्य् अतिशयवचनं. तद् एवं न प्रकृतिसावद्यम् इति मनसिकृत्वा भगवता तत्परिहरणीयम् उक्तं. [तिब्. 41ब्] किं तर्हि. प्रसंगदोषाद् इति दर्शितं. आर्यैर् अनध्याचरणं ह्रीमत्त्वाद् इति. पंच शैक्षाणि बलानि सूत्रे पठ्यंते. कतमानि पंच. श्रद्धाबलं वीर्यबलं ह्रीबलम् अपत्राप्यबलं प्रज्ञाबलं चेति. अतो ह्रीमत्त्वान् न पिबंति. न तु प्रकृतिसावद्यत्वात्. यदि ह्रीमत्त्वात् तद् अनध्याचरणम् अज्ञातम् उदकादिवत् कस्मान् न पिबंतीत्य् अत आह. तेन च स्मृतिनाशाद् इति. मद्यं हि पिबतः कार्याकार्यस्मृतिर् नश्यतीति. यद्य् एवम् अल्पकं तु पिबंतु. यावत्या मात्रया स्मृतिर् नश्यतीत्य् अत आह. अल्पकस्याप्य् अपानम्. अनियमात्. विषवद् इति. यथा कालप्रकृतिशक्तियोगाद् अल्पम् अपि विषं कदाचिन् मारयति. एवं मद्यम् अपि मदयतीति. दुश्चरितवचनं प्रमादस्थानत्वाद् इति. मदेनाकुशलपरिहारात्. कुशलकरणाच् च. अत्र प्रमादस्थानग्रहणं नान्येष्व् इति. अत्रैव शिक्षापदे प्रमादस्थानग्रहणं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामीति वचनात्. नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणं. प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात् प्रतिविरमामीति [तिब्. 42अ] प्रमादस्थानं न पठ्यते. किं तर्हि.

प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति. एवम् अदत्तादानादि योज्यं. कस्माद् इत्य् आह. तेषां प्रकृतिसावद्यत्वात्. तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्यत्वात्. तद् उक्तं भवति. प्रमादस्थानम् एतद् इति मद्यपानात् प्रतिविरन्तव्यं. न तु प्रकृतिसावद्यम् एतद् इति. अत्यासेवितेनेति विस्तरः. (अभिध्-क्-व्य् 381) सुरामैरेयमद्यप्रमादस्थानेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान् नरकेषूपपद्यत इति नन्दिकसूत्रे वचनात्. अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानं तत्प्रसंगेन मद्यपानप्रसंगेन अभीक्ष्णम् अजस्रम् अकुशलसंततिप्रवृत्तेः. अकुशलानां या संततिः. तस्याः प्रवृत्तेः. आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपाद् आवेधः. यतः. वृत्तिलाभाद् वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः. यतः. तस्माद् आक्षेपात् वृत्तिलाभाद् वा दुर्गतिगमनाभिधानम् इति संबन्धनीयं. अन्नासव इति. तण्डुलकृतः. द्रवासव इति. इक्षुरसादिकृतः. ते वेति विस्तरः. सुरामैरेये कदाचिद् अप्राप्तमद्यभावे [तिब्. 42ब्] . यदा नवे भवतः. कदाचित् प्रच्युतमद्यभावे. यदा अतिपुराणे भवतः. इत्य् अतो मद्यग्रहणं. यदि मदनीयं. ततो दोष इत्य् अभिप्रायः. पूगफलकोद्रवादयो ऽपीति. आदिशब्देन निष्पावादयो गृह्यंते. मद्यपाने नामद्यत्वे ऽप्य् अदोषः. सुरामैरेये न भवत इति. सुरामैरेयस्वभावस्य मद्यस्य पाने दोष इत्य् अर्थः. सर्वप्रमादास्पदत्वाद् इति. सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानम् आस्पदं प्रतिष्ठेति प्रमादस्थानं मद्यपानम्.

(iv.36) यत एको लभ्यते इति. यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश् च. प्रातिमोक्षसंवरो लभ्यते. ततः शेषौ ध्यानानास्रवसंवरौ. मौलप्रयोगपृष्ठेभ्य इति. मौलप्रयोगपृष्ठेभ्यो ऽकुशलेभ्यः कर्मभ्यः. मौलप्रयोगपृष्ठस्वभावास् त्रयाणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या विज्ञप्त्यविज्ञप्तयो लभ्यंते. सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधिष्ठानलक्षणेभ्यः. प्रकृतिप्रतिक्षेपणसावद्येभ्यश् च कर्मभ्यः प्राणातिपातवनस्पतिभंगादिलक्षणेभ्यः. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवति. प्रकृतिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. [तिब्. 43अ] न पुनर् एवं ग्रहीतव्यं. प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम् असत्त्वाधिष्ठानम् इति. तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं. सहागारशय्यादि च. प्रकृतिसावद्यम् असत्त्वाधिष्ठानं जातरूपाद्यपहरणं. प्रज्ञप्तिसावद्यम् असत्त्वाधिष्ठानं वृक्षपत्त्रादिच्छेदो भिक्षोः. आहारादिषु च विनयोक्त उपदेशः. सत्त्वाधिष्ठानप्रवृत्तत्वाद् इति. सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वाद् इत्य् अभिप्रायः. वर्तमाना एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीता नानागताः. तेषां (अभिध्-क्-व्य् 382) निरुपाख्यकल्पत्वात्. अत एवाह. नातीतानागतेह्यः. तेषाम् असत्त्वसंख्यातत्वाद् इति. ननु चासत्त्वप्रज्ञप्तिअधिष्ठ्हानप्रवृत्तो ऽपि प्रातिमोक्षसंवरो भवति. सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति वचनात्. स चाप्य् एवं न प्रतिषिध्यते. यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्ये एव लभ्यत इत्य् उच्यते. तथा वर्तमानेभ्य एवासत्त्वाख्येभ्यो ऽपि लभ्यत इति वक्तव्यं. वर्तमानाधिष्ठनताम् एव ह्य् अनेन वचनेनातिदिषति. न प्रयोगपृष्ठेभ्य इति. समाहितावस्थायाम् एकांतमौलत्वात्. असमाहितावस्थायां च न संवराभावात्. कुत एव प्रज्ञप्तिसावदेभ्य इति. अभ्युपगमाभावात्. सर्वकालेभ्यश् चेति. अतीतानागतयोर् अपि संवरयोर् लाभात् तत्सहभूचित्तवत्.

अत एवेति. यस्माद् [तिब्. 43ब्] एते संवरा एवं लभ्यंते. यथा विस्तरेणोक्तम्. अतश् चतुष्कोटिकं क्रियते. विस्तर इति. संति तानि स्कन्धधात्वायतनानि. येभ्यो ध्यानानास्रवसंवरौ लभ्येते. न प्रातिमोक्षसंवरः. संति तानि. येभ्यः प्रातिमोक्षसंवरो न ध्यानानास्रवसंवरौ. संति तानि. येभ्य उभयं लभ्यते. संति तानि. येभ्यो नोभयं लभ्यत इति. विस्तरार्थः. प्रथमा कोटिः. वर्तमानेभ्यः प्राणातिपातादिकर्मपथप्रयोगपृष्थेभ्यः प्रतिक्षेपणसावद्याच् च वृक्षभंगादिकाद् यः संवरः. स प्रातिमोक्षसंवरः.

सर्वोभयेभ्य

इति वचनात्. प्रयोगपृष्ठत्वात् तु न ध्यानानास्रवसंवरौ. द्वितीय. अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणातिपातादिभ्यः कायवाचिकेभ्यः सप्तभ्यः संवरो यः. तौ ध्यानानास्रवसंवरौ.

मौलेभ्यः सर्वकालेभ्य

इत्य् वचनात्. न प्रातिमोक्षसंवरः. अतीतानागतत्वात्. तृतीया. प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्य इति. प्रत्युत्पन्नकर्मपथत्वात् प्रातिमोक्षसंवरो भवति. मौलकर्मपथत्वाच् च ध्यानानास्रवसंवरौ. चतुर्थी अतीतनागतेभ्यः सामंतकपृष्ठेभ्य इति. अतीतानागतत्वान् न प्रातिमोक्षसंवरः. सामंतकपृष्ठत्वान् न ध्यानानास्रवसंवरौ [तिब्. 44ब्] स्वसंताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यत इति पश्यन्न् आह. न तु संवरलाभकाले वर्तमानाः कर्मपथाः संतीति. वर्तमानाधिष्ठानेभ्यस् तेभ्यः कर्मपथेभ्य इति वक्तव्यम् इति शिक्षयत्य् आचार्यः. यतो वस्तुनः प्रतिविरमति. तस्य वर्तमानत्वासंभवात्. नातीतवर्तमानानाम् इति. उत्पन्नत्वाद् एषां संवरणं न युज्यते. न ह्य् उत्पन्नानाम् अनुत्पत्तिः शक्यते कर्तुं. अनागतानां तु शक्यत इति. तेषाम् एव संवरणं युज्यत इत्य् आचार्याभिप्रायः (अभिध्-क्-व्य् 383). वैभाषिकाणां तु तथावचने ऽयम् अभिप्रायो लक्ष्यते. प्राणातिपातादिप्रयोगमौलपृष्ठानां यथाक्रमं संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तंते. नैतानि प्रवर्तिष्यंत इति. अर्थत एवैतानि प्रतिपक्षभूतानि तानि रुन्धन्तीवोत्पद्यंते. प्रयोगः प्रयोगम् एवं भवीतीव त्वाम् अहं संवृणोमि. मा त्वम् उत्था इति. एवं यावत्. पृष्ठः पृष्ठम् एवं ब्रवीतीवेति योज्यं. तथा स्कन्धधात्वायतनानां कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रुन्धानो वर्तमानेभ्यस् तेभ्यो लभ्यते. प्रातिमोक्षसंवर इत्य् उच्यत इति. तस्मान् नैवं वक्तव्यम् इति.

(iv.37) कश्चित् सर्वेभ्य इति विस्तरः. भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते. सर्वकर्मपथा वर्जनीया इत्य् अर्थः. कश्चिच् चतुर्भ्यः. ततो ऽन्यः. [तिब्. 44ब्] ततो भिक्षुसंवराद् अन्यः. संवरः श्रामणेरादिसंवरश् चतुर्भ्य एवांगेभ्यो लभ्यते. कायिकेभ्यः प्राणातिपातादिभ्यस् त्रिभ्यो वाचिकाच् च मृषावादात्. यद्य् अलोभाद्वेषामोहाः कारणानीति. संवरकारणानि द्विह्दा इष्यंते. अलोभाद्वेषामोहा वा कारणानि. मृदुमध्याधिमात्राणि वा चित्तानीति. यदि पूर्वः पर्यायो ऽभिप्रीयते. सर्वैः कारणैर् अलोभादिस्वभावैर् लभ्यते संवरः. कुशले समुत्थापके चेतसि तेषां युगपत् भावात्. यदि मृद्वादीनि चित्तानि कारणानीष्यंते. एकेन कारणेन लभ्यते. तेषाम् अयुगपत् भावात्. पश्चिमं पर्यायम् इति. मृद्वादिकारणपक्षं. अस्ति संवरस्थायीति विस्तरः. सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणाशये सति संवरोत्पत्तेः. न सर्वांगैर् उपासकादिसंवरस्य सर्वांगाप्रतिविरतत्वात्. न सर्वकारणैर् मृद्वादीनां कारणत्वेन युगपद् असंभवात्. भिक्षुसंवरस् तु सर्वांगैर् अपि. सर्वांगप्रतिविरतत्वात्. यस् त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति. तद्यथा मृदुना चित्तेन उपासकसंवरं समादत्ते. मध्येन श्रामणेरसंवरम्. [तिब्. 45अ] अधिमात्रेण भिक्षुसंवरम् इति. सर्वकारणैश् च न तु सर्वांगैर् इति. उपासकादिसंवराणाम् एकैकस्य मृद्वाद्येकैककारणत्वात्. तथा गृह्णत इति. पंचनियमक्रियया गृह्णतः.

कथम् अशक्येभ्य इति. ये हंतुम् एव न शक्याः. तेभ्यो ऽशक्येभ्यः सत्त्वेभ्यः कथं संवरलाभः. अत्राचार्यः समाधिम् आह. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात्. वैभाषिका अप्य् अस्यैव प्रश्नस्य परिहारांतरम् आहुः. यदि पुनः शक्येभ्य एवेति विस्तरः. चयापचययुक्तः स्यात्. शक्यताम् आगतेषु सत्तेषु संवरश् चीयेत. असक्यताम् आगतेष्व् अपचीयेत. (अभिध्-क्-व्य् 384) शक्याशक्यानां मनुष्यादिदेवादीनाम् इतरेतरसंचारात्. देवादयो मनुष्यादीन् संचरंति. मनुष्यादयश् देवादीन् इति. इमं वैभाषिकपरिहारं सावकाशं पश्यन्न् आचार्य आह. नैवं भविष्यतीति विस्तरः. नैवं चयापचययुक्तः संवरो भविष्यति. कथं कृत्वा. यथा ह्य् अपूर्वतृणाद्युत्पत्तौ. शोषे वा तृणादीनां. यद्य् अपि तृणादिभ्यो ऽपि संवरो लभ्यते. तथापि संवरस्य वृद्धिह्रासौ न भवतः. [तिब्. 45ब्] एवं शक्याशक्यसंचारे ऽपि न स्यातां वृद्धिह्रासौ चयापचयाव् इत्य् अर्थः. तस्माच् छक्येभ्य एव संवरो लभ्यते. न चायं दोषः स्याद् इति. वैभाषिका आहुः. न सत्त्वानाम् इति विस्तरः. न तद् एवं. यथा ह्य् अपूर्वतृणाद्युत्पत्ताव् इति विस्तरेण यद् उक्तं. किं कारणं. सत्त्वानां पूर्वं संचारात् पश्चाच् च भावात्. तृणगुल्मलतादीनां पूर्वं पश्चाच् चाभावात्. अतो न तृणादिदृष्टांतेन चयापचयदोषो निवार्यते. एवं वैधर्म्यमात्रम् उक्तं. न साध्यसाधनार्थ इति. आचार्यः पुनर् आह. यदा परिनिर्वृता न संत्य् एवेति विस्तरः. तस्मात् पूर्वक एव हेतुः साधुर् इति. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. अत शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धं. एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रातिमोक्षसंवरः. पूर्वबुद्धपरिनिर्वृतेभ्यस् तस्यालाभाच् छीलन्यूनता स्यात्. सत्त्वानां पूर्वेभ्यो न्यूनत्वात्. आचार्य आह. सर्वेषां बुद्धानां पूर्वं पश्चाच् चोत्पन्नानाम् अविशेषेण सर्वसत्त्वेभ्यो लाभात्. यदि हि ते प्य् अपरिनिर्वृता अभविष्यन्. संप्रति तेभ्यो ऽपि ते ऽलप्स्यंत इति.

सर्वकर्मपथेभ्य इति. कायिकवाचिकेभ्यः. नास्ति हि विकलेनासंवरेणेति. प्राणातिपातेनैव [तिब् 46अ] नादत्तादानेनेत्य् एवमादि. मृदुनैवासंवरेण समन्वागत इति. पूर्वप्रतिलब्धत्वात्. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. किं. समन्वागत इति वर्तते. न विपाकफलविशेष इति. एवं मध्याधिमात्रेण योज्यम् इति. यो मध्येन चित्तेनासंवरं प्रतिलभते. सो ऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् मध्येनैवासंवरेण समन्वागतो भवति. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. एवं यो ऽधिमात्रेण यावद् अधिमात्रेणैवासंवरेण समन्वागतो भवति. अधिमात्रया च प्राणातिपातविज्ञप्त्या. इत्थम् अपि च योज्यं. यो ऽधिमात्रचित्तेनासंवरं प्रतिलभते. स मृदुनापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् अधिमात्रेनैवासंवरेण समन्वागतो भवति. मृद्व्या तु प्राणातिपातविज्ञप्त्येत्य् एवमादि.

नागबंधा हस्तिपकाः. वागुरिका इति. पंपा नाम प्राणिजातिर् वागुराख्या. तां घ्नन्तीति वागुरिकाः. अर्थत आसंवरिका इति. राजानश् चाधिकरणस्थाश् च (अभिध्-क्-व्य् 385) दण्डनेतृत्वाद् इहापठिता अपि आसंवरिका एव द्रष्टव्याः. एवम् अन्ये ऽपि योज्या इति. कुर्कुटां घ्नंतीति. कौर्कुटिका इत्य् एवमादीनि. युक्तस् तावद् इति विस्तरेणोक्त्वा यावत् कथम् असंवरः सर्वसत्त्वेध्यो युज्यत इति प्रश्निते. वैभाषिकः परिहारम् आह. मात्रादीन् अपि हीति विस्तरः. आचार्य आह. न हि तावत् [तिब्. 46ब्] त एव त इति. ते मात्रादय इति जानाना हन्युर् इत्य् अघात्येभ्यस् तेभ्यो ऽसंवरः कथं युज्यते. किं चार्यीभूतानां पुनः पशूभवितुं नास्त्य् अवकाशः. तेषाम् उरभ्राद्युपपत्त्यसंभवात्. तेभ्यः कथम् असंवरः स्यात्. यदि वानागतात्मभावापेक्षया उरभ्रादयो भविष्यंतीति वर्तमानान् मात्रादेर् असंवरः स्यात्. उरभ्रान् अपि ते औरभ्रिकाः पुत्रीभूतान् अनागते जन्मनि सर्वथा न हन्युर् इति. न स्यात् तेभ्य उरभ्रेभ्यो ऽसंवरः. वैभाषिक आह. कथं हि नाम जिघांसताम् इति विस्तरः. आचार्य आह. एतन् मात्रादिषु समानम् इति विस्तरः. कथं हि नामाजिघांसतां पुत्रादिभूतानाम् औरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्याद् असंवर इति.

विकलः कर्मपथांगतः. प्रादेशिको ऽपि स्यात्. एकस्याप्य् अंगस्य अविरमात्. सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात्. संवरश् च तथैव. विकलो ऽपि प्रादेशिको ऽपि स्यात्. अन्यत्राष्टविधात् पूर्वोक्तात् प्रातिमोक्षसंवरात्. कस्माद् इत्य् आह. तन्मात्रशीलदौःशील्यप्रतिबन्धाद् इति. असंवरस् तन्मात्रं शीलं प्रतिबध्नाति. संवरश् च तन्मात्रं दौःशील्यं प्रतिबध्नातीति.

(iv.38) तत्कुलीनैर् इति. आसंवरिककुलीनैः.

क्षेत्रादानादरेहनाद् [तिब्. 47अ]

इति. आदरेण ईहनं क्रियारंभः. क्षेत्रं चादानं चादरेहनं चेति समासः. तस्माद् अविज्ञप्तिर् उत्पद्यते. तिथीति विस्तरः. तिथिभक्तं. यावद् अर्धमासभक्तम् इत्य् अर्थगतिः. आदिशब्देन मण्डलकरणादि गृह्यते. आदरेण वा तद्रूपेणेति.तीव्रक्लेशतया. तीव्रप्रसादतया चेत्य् अर्थः.

(iv.39, 40) समादानविरुद्धविज्ञप्त्युत्पादाद् इति. यावज्जीवं प्राणातिपातादिभ्यः प्रतिविरमामीति यत् समादानं. तेन विरुद्धाया विज्ञप्तेर् उत्पादात्. इति प्रथमेन कारणेन प्रातिमोक्षसंवरत्यागः. आश्रयत्यागाद् इति. येनाश्रयेण संवरो गृहीतः. तस्य त्यागान् मरणाद् इति. द्वितीयेन कारणेन तत्त्यागः. आश्रयविकोपनाद् इति. यादृशेनाश्रयेण संवर उपात्तः. तादृशो न भवति. विकोपनात्. इति तृतीयेन कारणेन तत्त्यागः. निदानच्छेदाद् इति. निदानं कुशलमूलानि. तस्य च्छेदात्. चतुर्थेन कारणेन तत्त्यागः. तावद् एवाक्षेपाच् चेति. उपवाससंवरस्याहोरात्रम् आक्षेपः. इति पंचमेन कारणेन तस्योपवाससंवरस्य त्यागः. पूर्वोक्तैश् च चतुर्भिः कारणैर् इति.

पतनीयेन चेति. एभिश् च यथोक्तैः पंचभिः कारणैः पतनीयेन चेति. (अभिध्-क्-व्य् 386) पतंत्य् अनेनेति पतनीयं. तच् चतुर्विधं. अब्रह्मचर्यं. यथोक्तप्रमाणम् अदत्तादानं. [तिब्. 47ब्] मनुष्यवधः. उत्तरिमनुष्यधर्ममृषावादश् चेति.

धनर्णवत् तु काश्मीरैर् आपन्नस्येष्यते.

आगमाद् युक्तितश् च. तत्रायम् आगमः. विनय उक्तं. दुःशीलश् चेत् भिक्षुर् भिक्षुणीम् अनुशास्ति. संघावशेषम् आपद्यत इति. आपन्नपाराजिको हि भिक्षुर् दुःशीलो ऽभिप्रेतः. नानापन्नपाराजिकः. प्रकृतिस्थः शीलवान् इति विपर्ययेण वचनाद् अतो ऽवगम्यते. अस्त्य् अस्य दुःशीलस्यापि सतो भिक्षुभावः. यस्मात् संघावशेषम् आपद्यत इत्य् उक्तम् इति. युक्तिर् अपि न ह्य् एकदेशक्षोभात् सकलसंवरत्यागो युक्त इति. न मौलीम् अप्य् आपत्तिम् आपन्नस्येति. पतनीयाम् अप्य् आपत्तिम् आपन्नस्येत्य् अर्थः. नैव चान्यापत्तिम् इति. संघावशेषादिकं. आविष्कृतायाम् इति. देशितायां.

यत् तर्हि भगवतोक्तम् इति विस्तरेण यावत् पराजितम् इति. तत् कथम् इति वाक्याध्याहारः. परमार्थभिक्षुत्वं संधायैतद् उक्तम् इति. सत्यदर्शनभव्यत्वेन तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः. बहुक्लेशेभ्यो नन्दप्रभृतिभ्यः. मौल्याप्य् आपत्त्या न भिक्षुत्वं नश्यतीति विदित्वा तां कुर्युर् इति वाक्यार्थः [तिब्. 48अ] संज्ञाभिक्षुर् इति. यस्यानुपसंपन्नस्य भिक्षुर् इति नाम. प्रतिज्ञाभिक्षुर् इति. अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः. भिक्षत इति भिक्षुर् इति. याचनकः. भिन्नक्लेशत्वाद् भिक्षुर् इति. अर्हन्. अस्मिंस् त्व् अर्थ इति. यत् यत् भगवतोक्तम् अभिक्षुर् भवत्य् अश्रमण इति विस्तरेण. एतस्मिन्न् अर्थे. यथोक्तेभ्यश् चतुर्भ्यो भिक्षुभ्यो ऽन्य एवायं पंचमो ज्ञप्तिचतुर्थोपसंपन्नो भिक्षुर् इति. यद् अप्य् उक्तं परमार्थभिक्षुत्वं संधायैतद् उक्तं. तत् प्रत्याह. न चासौ पूर्वं परमार्थभिक्षुर् आसीत्. यतः पश्चाद् अभिक्षुर् भवेत्. अभिक्षुर् भवत्य् अश्रमण इति वचनात्. इत्य् उपमां कुर्वतेति. मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तो ऽनुयोग इति संबंधनीयं. परिहृतः प्रश्न इत्य् अर्थः. एकग्रासपरिभोग आहारस्य. एकपार्ष्णिप्रदेशपरिभोगो विहारस्येति सम्भ्धः. सर्वभिक्षुसंभोगबहिष्कृतश् च शास्त्रेति. सर्वस्मात् भिक्षुभिस् सह संभोगाद् एकपंक्तिभोजनादिकाद् बहिष्कृतो बुद्धेन. नाशयत कारण्डवकम् इति. कारण्डवको यवाकृतित्वाद् यवस् तृणविशेषः. यो यवदूषीत्य् उच्यते. एवम् असाव् अभिक्षुर् भिक्ष्वाकृतिर् [तिब्. 48ब्] इति. कशंबकम् नाम पूतिकाष्ठम्. एवम् असौ पूतिभूतो भिक्षुः. तं शीलवत्संघाद् यूयम् अपकर्षतेति भगवां (अभिध्-क्-व्य् 387) भिक्षून् आज्ञापयामास.

अथोत्प्लाविनं वाहयतेति. उत्प्लावी नाम व्रीहिमध्ये ऽभ्यंतरतण्डुलहीनो वृईहिर् एव. तथासौ शीलसारहीनो भिक्ष्वाकृतिः. तं प्रवाहयत. निष्क्रामयतेत्य् अर्थः. मार्गजिनः शैक्षो ऽशैक्षः. मार्गदैशिको बुद्धः. मार्गे जीवति शीलवां भिक्षुर् मार्गनिमित्तं जीवनात्. मार्गदूषी दुःशीलः. इदम् अत्रोदाहरणं. दग्धकाष्ठेति विस्तरः. यथा यद् दग्धं. न तत् काष्ठं. पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात्. तद् दग्धं काष्ठम् इत्य् उच्यते. ह्रदश् च शुष्को ऽपि ह्रद इत्य् उच्यते. शुकनासा गृहादिषु रूपकारकृता. शुकनासाकृतित्वाच् छुकनासेत्य् उच्यते. एवम् असौ भिक्ष्वाकृतिसामान्यमात्रावशेषाच् छ्रमण उक्तः. पूतिबीजम् अंकुराजनकत्वाद् अबीजम् अपि बीजम् इत्य् उच्यते. तदाकारमात्रावशेषत्वाद् अलातचक्रं चक्रम् इति. चक्राकृतित्वात्. मृतसत्त्वश् चासत्त्वो ऽपि सत्त्व इत्य् उच्यते. सत्त्वाकृतिमात्रावशेषत्वात्. तद्वद् एष द्रष्टव्यः. शिक्षादत्तको नाम भिक्षुर् अधिमात्ररागतया [तिब्. 49अ] स्त्रिया अभ्रह्मचर्यं कृत्वा. तदनंतरम् एव जातसंवेगः कष्टं मया कृतम् इत्य् एकस्मिन्न् अपि प्रतिच्छादनचित्ते ऽनुत्पन्ने भिक्षुसंघम् उपगम्याविष्करोतीदं मया पापं कृतम् इति. स आर्यसंघोपदेशात् सर्वभिक्षुनवकांतिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्य् उच्यते. तद् यदि दौःशील्याद् अभिक्षुर् एव स्यात्. स न स्यात्. न हि तस्य पुनर् उपसंपादनं क्रियते. भिक्षुश् च स व्यवस्थाप्यते. तस्मान् न दौःशील्याद् अभिक्षुत्वम् इति. न ब्रूम इति विस्तरः. न वयं ब्रूमः. सहाध्यापत्त्या अब्रह्मचर्याद् एव सर्वः पाराजिको भवति. किं तर्हि. प्रतिच्छादनचित्तेन. किं न पुनः प्रव्राज्यते. अनिक्षिप्तशिक्ष इत्य् अध्याहार्यं.

तीव्रानपत्राप्यविपादितत्वात्. तीव्रेणानपत्राप्येण विपादितास्य संततिः. तस्याः संततेर् एवं विपादितत्वात् संवरस्याभव्यत्वं. तस्मान् न पुनः प्रव्राज्यत इत्य् अधिकारः. न तु खलु भिक्षुभावापेक्षया. न तु खलु तस्य भिक्षुभावो ऽस्तीत्य् अपेक्षया न प्रव्राज्यते. तथा ह्य् असौ पराजयिको निक्षिप्तशिक्षो पि न प्रव्राज्यते. तीव्रानपत्राप्यविपादितत्वात् संततेः.

(iv.41) ध्यानाप्तम्

इति. रूपस्वभावं कुशलम् अरूपस्वभावं चाभिप्रेतं. अत एव च सर्वम् एवेति व्याचष्टे. द्वाभ्याम् इति. उपपत्तितो वा. परिहाणितो वा. [तिब्. 49ब्] तेनाह उपपत्तितो वेति विस्तरः. ऊर्ध्वम् उपपद्यमानो ऽधरं परित्यजति. अधश् चोपपद्यमान उपरिभूमिकम् इति. परिहाणितो वा समापत्तेः तत्समापत्तिसंगृहीतं कुशलं त्यज्यते. निकायसभागत्यागाच् च किंचिद् इति. निर्वेधभागीयं यत् पृथग्जनावस्थायाम् उत्पादितं यावत् क्षांतिर् इति. तद् असत्य् अपि भूमिसंचारे निकायसभागत्यागेन त्यज्यते. यदा कामधातौ मृत्वा तत्रैवोपपद्यते (अभिध्-क्-व्य् 388). वक्ष्यति हि

भूमित्यागात् त्यजत्य् आर्यस् तान्य् अनार्यस् तु मृत्युत

इति. पूर्वको मार्ग इति. प्रयोगानंतर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः. फलं फलविशिष्टो वेति. उत्तरो मार्गो ऽधिकृतः. तद्यथा ऽनागामी यद्य् अनागामिफलात् परिहीयते. तेनानागामिफलम् उत्तरो मार्गस् त्यज्यते. यदि त्व् अनागामी द्वितीयं ध्यानं लभते. तस्माच् च परिहीयते. स तस्य फलविशिष्टो मार्गो द्वितीयध्यानभूमिकस् त्यज्यते.

(iv.42अब्) हेतुप्रत्ययबलेनेति. सभागहेतुबलेन. परतो घोषबलेन चेत्य् अर्थः. ध्यानसंवरं वा लभत इति. अनास्रवसंवरं वा लभत इति नोच्यते. ध्यानसंवरपूर्वोत्पादेनैव तत्त्यागात्. अकरणाश्न्यत इति. एतत् कर्म न करिष्यामीत्य् आशयतो ऽपि शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति. तद्यथा रोगनिदानपरिहारे ऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना [तिब्. 50अ] विनिवृत्तिर् न भवति. तद्वत्. तद् उक्तं भवति. असंवरत्यागेच्छायां संवरो ग्रहीतव्यो नान्यथेति. तल्लाभस्येति. असंवरलाभस्य.

(iv.42च्द्) कथम् अविज्ञप्तिर् इति. विज्ञप्तिर् अपीति वक्तव्यं. स्वसमुत्थापिताया अतीताया विज्ञप्तेस् तत्काल एव प्राप्तिच्छेदात्.

वेगादानक्रियार्थायुर्मूलच्छेदैस् तु मध्यम

इति च पठितव्यं. नैवसंवरनासंवर इत्य् अर्थः. अथाप्य् अविज्ञप्तिर् अपि केवलोच्यते. तत्र विज्ञप्तेर् अवचने कारणं वक्तव्यम् इत्य् उच्यते. विज्ञप्तेर् अनावश्यकत्वात्. तथा हि वक्ष्यति.

अशुभाः षड् अविज्ञप्तिर् द्विधैक

इति. अविज्ञप्तिवचनेन च विज्ञप्तिवचनसिद्धेस् तदवचनं.

अन्ये त्व् आहुः. न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेर् अनुबंधिनी प्राप्तिर् इत्य् अत एतदविज्ञप्तेर् एव त्यागकारणम् उच्यत इति.

कुंभकारचक्रेषुगतिवद् इति. यथा कुंभकारचक्रस्य इषोश् च गतिः. येन कारणेन संस्कारविशेषेण आक्षिप्तो भवति. तस्य च्छेदात् सापि च्छिद्यते. तद्वत्. अलं समादानेनेति प्रत्याख्यानवचनेन. यथासमात्तम् अकुर्वत इति. तद्यथा बुद्धम् अवन्दित्वा. मण्डलकम् अकृत्वा वा [तिब्. 50ब्] न भोक्ष्य इति. तद् अकृत्वा भुंजानस्य सा मध्यमा अविज्ञप्तिश् छिद्यते. यंत्रजालादीति आदिशब्देन शस्त्रविषादि गृह्यते. कुशलमूलानि समुच्छेत्तुम् (अभिध्-क्-व्य् 389) आरभत इति. कुशलमूलसमुच्छेदप्रारंभावस्थायाम् एव च्छिद्यते. न समुच्छेदावस्थयाम् इति दर्शयति.

(iv.43) कुशलरूपम्

इति. अरूपग्रहणं रूपच्छेदस्योक्तत्वात्.

मूलच्छेदोर्ध्वजन्मत

इति. अत्र वैराग्यतश् च किंचिद् इति वक्तव्यं. यथा कुशलं दौर्मनस्येन्द्रियम् इति. सर्वम् एवेति. कामरूपारूप्यावचरं. यः प्रहाणमार्ग इति. दर्शनमार्गो भावनामार्गश् च. लौकिको वा लोकोत्तरो वा यथासंभवं. असौ सपरिवार इति. असाव् उपक्लेशप्रकारः सतत्सहभूप्राप्त्यनुचरः उपक्लेशप्रकारस्येति ग्रहणं क्लेशस्याप्य् उपक्लेशत्वेन सर्वसंग्रहार्थं. तथा हि शास्त्र उक्तं. ये यावत् क्लेशा उपक्लेशा अपि ते स्युर् उपक्लेशा न क्लेश इति.

(iv.44, 45) उभयाश्रय इति विस्तरः. स्त्रीपुरुषाशयस्य क्लेशस्याधिमात्रतया. प्रतिसंख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्. तीव्रस्य च ह्रीव्यपत्राप्यस्याभावाद् एषां संवरो नास्तीति. प्रतिद्वंद्वभावाद् इति. यस्मात् संवरस्यासंवरः [तिब्. 51अ] प्रतिद्वंद्वभूतः. तस्मात् यत्रैव संवरः. तत्रैवसंवर इति. तेषां षण्ढादीनाम् असंवराभावो द्वितीयं कारणं. समादानसमाध्यभावाद् इति. समादानभावात् प्रातिमोक्षसंवरो नास्ति. समाध्यभावाच् च ध्यानानास्रवषंवरौ न स्तः. तदभावस् तु मांद्येन कुशलेष्व् अव्युत्पत्तेः. पापक्रियाशयाभावाच् चासंवरो नास्ति. यद्योगाद् यद्विपादनाच् चेति. येन ह्रीव्यपत्राप्येण योगाद् यस्य ह्रीव्यपत्राप्यस्य विपादनाच् च. यथाक्रमं संवरसंवरौ स्यातां. तत् तीव्रं ह्रीव्यपत्राप्यम् आपायिकानां नास्तीति. यद्य् आपायिकानां संवरासंवरौ न स्तः. यत् तर्हि सूत्र उक्तम् इति यिस्तरः. तत् कथं. प्रातिमोक्षसंवरो मनुष्याणाम् एव. न देवानाम्. असंवेगात्. ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथासंभवं.

(iv.46अब्) तत्कालम् अत्यंतं चेति. यद् इष्टविपाकं. तत् तत्कालं. दुःखपरित्राणात् क्षेमं. यन् निर्वाणप्रापकं. तद् अत्यंतं दुःखपरित्राणात् क्षेमं. परिनिर्वृतस्य यन् नित्यकालं दुःखं नास्ति.

(iv.46च्द्, 47) ननु च त्रीणि ध्यानानि सेंजितान्य् उक्तानि भगवता. यद् अत्र वितर्कितम् विचारितम् इत्य् एवम् आदि. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. आदिशब्देन द्वितीय उक्तं. यद् अत्र प्रीतिर् अविगता. इदम् अत्रार्या इंजितम् आहुः. तृतीये ऽपि यद् अत्र सुखं [तिब्. 51ब्] सुखम् इति चेतस आभोगः. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. अथ कस्मात् सर्वम् एव रूपारूप्यावचरं कुशलं कर्मानिंज्यम् (अभिध्-क्-व्य् 390) उक्तम् इत्य् आह. आनिंज्यप्रत्ययगामिनम् इति. आनिंज्यानुकूलभागिनं. अकंप्यानुकूलभागिनं मार्गम् आरभ्येत्य् अर्थः. किं पुनः कारणं समाधिसपक्षालतया सेंजितम् एवान्यत्रानिंज्यम् उक्तम् इत्य् आह.

तद्भूमिषु यतः कर्म विपाकं प्रति नेंजतीति.

भोगादि संवर्तनीयम् इति. भोगो द्रव्यसंपत्. आदिशब्देन सौरूप्यसौस्वर्यादि गृह्यते. तद् एवेति विस्तरः. यत् तद् देवेषु विपच्येत. तत् बहुलीकृतम् एवं शीलमयं भावनामयं. तस्य चैवं भवति. अहो बताहं देवसुभगानां मनुष्यसुभगानां वा सभागतायाम् उपपद्येयेति. यावत् स तत्र उपपद्यत इति.

(iv.48-50) कामधातुस् त्रीणि च ध्यानानीति. क्ंअधातुप्रथमध्यानयोः [तिब्. 52अ] कायिकं सुखं चैतसिकं च सौमनस्यं सुखा वेदना. द्वितीये ध्याने सौमनस्यं सुखा वेदना. तृतीये ध्याने चैतसिकं सुखम् इति. तद्भावज्ञापनार्थम् इति. तच्छब्देन दुःखम् अभिसंबध्यते. तस्य दुःखस्य कामधाताव् एवास्तित्वज्ञापनार्थम् इहग्रहणं. ससंभारैर् इति. संभ्रियते उत्पाद्यते ऽनेनेति संभारः. इन्द्रियविषयाश्रयलक्षणः. तेन ससंभारा वेदना फलं.

ध्यानांतरविपाकत

इति. ध्यानांतरकर्मणो ध्यानांतरोत्पत्तौ विपाकेन वेदितेन भवितव्यं. तत्र सुखा दुःखा वा वेदना नास्ति. नास्ति. तस्माद् अस्यादुःखासुखा वेदना विपाक इति. चतुर्थाद् ध्यानाद् अधो ऽप्य् अदुःखासुखवेदनीयं कर्मास्तीति. ध्यानांतरे वा कस्यचित् कर्मणो ऽन्यस्य विपाको वेदना न स्यान् न संभवति. न हि सुखवेदनीयस्य मौलप्रथमध्यानभूमिकस्य कर्मणो ध्यानांतरे स विपाक इति युज्यते वक्तुं. सवितर्कत्वेन ध्यानांतरतो मौलस्य निहीनत्वात्. नापि कामावचरस्य दुःखवेदनीयस्य कर्मणो भूम्यंतरत्वात्. अत एव चतुर्थध्यानादिभूमिकस्य. ततो वीतरागत्वाच् च.

एतद्दोषपरिजिहीर्षया ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्य् एके ब्रुवते.

[तिब्. 52ब्] नैव तस्य ध्यानांतरकर्मणो वेदना विपाकः. किं तर्हि रूपादीत्य् अपरे. किं तेषां ध्यानांतरोपपत्तौ वेदना नास्ति. अस्ति. न तु सा विपाकस्वभावा. किं तर्हि. नैष्यन्दिकीति.

अत्राचार्य आह. तदेतद् उच्छास्त्रं. यद् एतद् उक्तं. ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इति. यच् चोक्तं. नैव तस्य वेदना विपाक इति. तद् एतद् उभयम् अप्य् उच्छास्त्रं. तत् प्रतिपादयन्न् आह. शास्त्रे हि पठितम् इति विस्तरः. अवितर्कस्य कर्मण इति. ध्यानांतरकर्मण इत्य् अर्थह्. अतः कुशलस्यावितर्कस्य कर्मणश् चैतसिक्य् एव वेदना विपाको विपच्यत इत्य् अवधारणान् न तस्य कर्मणो ध्यान एव सुखेन्द्रियं विपाको नापि वेदनातो ऽन्य इति गम्यते. अवितर्कं हि कर्म ध्यानांतरात् प्रभृत्य् ऊर्ध्वम् इति.

अपूर्वचरम

इति. न पूर्वं न पश्चात्. युगपद् इत्य् अर्थः. सुखवेदनीयस्य रूपम् इति चक्षुरादिकं. दुःखवेदनीयस्य चित्तचैत्ता इति. पंचविज्ञानकायिकाः. दौर्मनस्यस्याविपाकत्वात्. अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता इति. जीवितेन्द्रियादयः [तिब्. 53अ] न हि कामधातोर् अन्यत्रेति. दुःखवेदनीयस्य कर्मणो ऽन्यत्रभावात्.

किम् इदानीं तद् इति. अदुःखासुखवेदनीयं. एवं तर्हीति विस्तरः. यद्य् अधो ऽपि चतुर्थाद् ध्यानाद् अदुःखासुखवेदनीयं कर्मास्ति कुशलं.

सुखवेद्यं शुभं ध्यानाद् आ तृतीयाद्

इत्य् अस्य विरोधः. न हि केवलं सुखवेदनीयं कुशलम् आ तृतीयाद् ध्यानात्. किं तर्हि. अदुःखासुखवेदनीयम् अप्य् अस्तीति. इष्टविपाकं च कुशलम् इत्य् अस्य विरोधः. न हि केवलम् इष्टविपाकं कुशलम् इष्टानिष्टविपरीतविपाकम् अपि कुशलम् अस्तीति. बाहुलिक एष निर्देश इति. बाहुल्येनैवं निर्दिष्टम् इत्य् अर्थः.

सुखवेद्यं शुभं ध्यानाद् आ तृतीयाद्

इति. इष्टविपाकं च कुशलम् इति.

कथम् पुनर् अवेदनास्वभावम् इति. सुखम् अनुभूयते. न कर्मेत्य् एवम् अभिसमीक्ष्य पृच्छति. सुखवेदनाहितं सुखवेदनीयम् इति. सुखवेदनोत्पत्त्यनुकूलम् इत्य् अर्थः. सुखो ऽस्य वेदनीय इति वेति. सुखो ऽस्य विपाको ऽनुभवनीय इत्य् अर्थः. स्नानीयकषायवद् [तिब्. 53ब्] इति. यथा येन स्नाति. स स्नानीयः कषायः. एवं येन सुखं विपाकं वेदयते. तत् कर्म (अभिध्-क्-व्य् 392) वेदनीयं. सुखस्य विपाकस्य वेदनीयं कर्म सुखवेदनीयं. करणे ऽपि कृत्यविधानात्. एतद् एवं दुःखवेदनीयम् इति. दुःखवेदनाहितं दुःखवेदनीयम् इति विस्तर्ण पूर्ववद् योज्यं. एवम् अदुःखासुखवेदनीयम् अपि.

स्वभाववेदनीयतेति. स्वभाववेदनानुभवलक्षणेन वेदनीयस्वभावः. एवं यावत् संमुखीभावेन वेदनीयतेति योज्यं. सुखवेदनीयः स्पर्श इति. सुखवेदनाहितं सुखं वेदनीयम् अस्मिन्न् इति सुखवेदनीयः स्पर्शः. आलम्बनवेदनीयतेति. वेदनीया विषयाः. आलम्बनीया इत्य् अर्थः. रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवदीति. रूपं प्रत्यनुभवति. नो तु रूपरागं प्रत्यनुभवतीत्य् अर्थः. अथ वा नो तु स रूपं रागेण प्रत्यनुभवत्य् आलंबत इति. दृष्टधर्मवेदनीयम् इति. दृष्टे जन्मनि वेदनीयं विपाकलक्षणम् अस्येति दृष्टधर्मवेदनीयं कर्मेति विस्तरः. यस्मिन् समय इति विस्तरः. यस्मिन् समये सुखां वेदनां वेदयते अनुभवति. द्वे अस्य वेदना दुःखा अदुःखासुखा च तस्मिन् समये [तिब्. 54अ] निरुद्धे भवत इति.

(iv.51) आरंभवशाद् इति. दृष्ट एव जन्मनि विपाकारंभाद् इत्य् अर्थः. तन्नामव्यवस्थानम् इति. दृष्टधर्मवेदनीयम् इत्य् एवंनामव्यवस्थानम् इत्य् अर्थः.

अस्ति हीति विस्तरः. संनिकृष्टफलस्य कर्मणः सुवर्चलादृष्टांतः. विप्रकृष्टफलस्य यवगोधूमादयः.

दार्ष्टांतिकाः सौत्रांतिकाः. तेषाम् एवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्टविधं. दृष्टधर्मवेदनीयं नियतम् अनियतं च विपाकं प्रति. एवं यावद् अनियतवेदनीयम् इति. उपपद्यवेदनीयं नियतम् अनियतं च विपाकं प्रति. अपरपर्यायवेदनीयम् अपि नियतम् अनियतं च. अनियतवेदनीयम् अपि यो दृष्टधर्माद्यनियतवेदनीयं. तन् नियतम् अनियतं च. इत्य् अष्टविधं.

(iv.52, 53) चतुर्विधं कर्माक्षिपेद् इति. दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेद् इत्य् अर्थः. कथम् इत्य् आह. स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काममिथ्याचारे स्वयम् आत्मना प्रयुक्तः. तेषां कर्मनां युगपत्परिसमाप्तौ. एकं दृष्टधर्मवेदनीयम् अपरम् उपपद्यवेदनीयम् अपरं चापरपर्यायवेदनीयम् अन्यच् चानियतवेदनीयम् इति.

कुशलानाम् अकुशलानां च यथासंभवम् इति. यत्राकुशलस्य संभवः कामधाताव् एव नान्यत्र.

सर्वासु गतिष्व्

इत्य् [तिब्. 54ब्] अस्योत्सर्गस्यायम् अपवादः. शुभस्य नरके त्रिविधेति. त्रिधैवेत्य् अवधारणं. नरकेषु कुशलस्य कर्मणस् त्रिविधस्यैवाक्षेपः. न चतुर्विधस्य. दृष्टधर्मवेदनीयं स्थापयित्वा. अत्र नरकेष्व् इष्टविपाकाभावात्. शुभग्रहणम् अशुभनिरासार्थं. अकुशलस्य हि चतुर्विधस्यापि नरकेष्व् आक्षेपः संभवति.

यद्विरक्तः स्थिरो बाल

इति.

यतो विरक्तो यद्विरक्त इति समासः. स्थिरग्रहणं परिहाणधर्मणो निरासार्थं. तस्य हि तस्यां भूमाव् उपपद्यवेदनीयं कर्म संभवति. बालग्रहणम् आर्यनिवृत्त्यर्थं. आर्यस्य हि तत्रोपपद्यवेदनीयं अपरपर्यायवेदनीयं च न संभवति. अनागामित्वात्.

नार्यो ऽन्यवेद्यकृद् अपीति

नापरपर्यायवेदनीयकृद् अपि. नोपपद्यवेदनीयकृद् अपीत्य् अर्थः. तत्र युक्तिं दर्शयन्न् आह. न ह्य् असौ भव्यः पुनर् आधस्तीं भूमिम् आयातुम् इति. न ह्य् असाव् आर्यो ऽपरिहाणधर्मा यतो वीतरागः. तत आधस्तीम् अधस्तात्भवां भूमिम् आयातुं भव्यः. परिहाणधर्मा तु भव्यः. तद्यथा. आर्यो भवाग्रलाभी परिहाणधर्मा यः परिहाय रूपधाताव् उपपद्येत. तस्योपपद्यवेदनीयम् अपरपर्यायवेदनीयं चापि संभवति यथोक्तम् उदायिसूत्रे. अनियतं कुर्याद् इति. अनियतवेदनीयम् अपरिहाणधर्माप्य् आर्यो दृष्टधर्मवेदनीयं च यत्रोपपन्नः. [तिब्. 55अ] तत्र कुर्यात्. कामधातोर् भवाग्राद् वा वीतराग इति. कामवीतरागो ऽनागामी. भवाग्रवीतरागो ऽर्हन्. तयोर् इति कामधातुभवाग्रयोः. पश्चात् प्रवेदयिष्याम इति.

म्रियते न फलभ्रष्ट

इत्यादि.

(iv.54) अंतराभववेदनीयं च. किं. नियतम् अनियतं चेति. यन् नियतम् एकादशविधम् उक्तं. दृष्टधर्मवेदनीयं यत् तद् इति. कललवेदनीयं नियतं यावद् अंतराभववेदनीयं नियतम् इति. याश् च तदन्वया दशावस्था इति. अंतराभवपूर्विका इत्य् अर्थः. अत एवान्यद् अंतराभववेदनीयं कर्म नोक्तम् इति. चतुर्विधं कर्म. दृष्टधर्मवेदनीयम् उपपद्यवेदनीयम् अपरपर्यायवेदनीयं अनियतवेदनीयं चेत्य् अत्र नोक्तम्. उपपद्यवेदनीयेनैव तस्यान्तराभवस्याक्षेपात्.

(iv.55) नियतानियतं कर्मेत्य् उक्तम् अतो ब्रवीति. कीदृशं पुनः कर्म नियतम् (अभिध्-क्-व्य् 394) इति विस्तरः. फलसमापत्तिविशेषप्राप्त इति. दर्शनमार्गफलप्राप्तो ऽर्हत्त्वफलप्राप्तश् च फलविशेषप्राप्त इष्यते. विशेषग्रहणम् अनास्रवमार्गप्राप्यफलग्रहणार्थं. समापत्तिविशेषप्राप्तो निरोधारणामैत्रीसमापत्तिलाभी. अत्रापि विशेषग्रहणं [तिब्. 55ब्] तदन्यलौकिकसमापत्तिविशेषणार्थं. यथा तथा चेति. यदि पुण्यबुद्ध्या यदि द्वेषादिना. यो ऽपि हि पारसिकः पुण्यबुद्ध्या मातरं मारयति. पितरं वा. तद् अकुशलम् आनंतर्यं कर्म नियतं संपद्यते. नान्यद् इति. यद् अतो विपरीतं मन्दक्लेशप्रसादकृतम् इत्यादि.

(iv.56) संघस्त्रीवादसमुदाचाराद् इति. भिक्षुणा किल केनचिद् व्यवहारपराजितेन संघः स्त्रियो यूयम् इति समुदाचरितः. तस्य दृष्ट एव धर्मे पुरुषव्यंजनम् अंतर्हितं. स्त्रीव्यंजनं च प्रादुर्भूतम् इति. तद् इदं क्षेत्रविशेषाद् दृष्टधर्मवेदनीयं भवति. आशयविशेषाद् इति. शंठेन गवाम् अपुंस्त्वं करिष्यमाणम् अभिवीक्ष्य ममेदृशम् अपुंस्त्वे दुःखम् इति तीव्रेणाशयेन तेषां गवाम् अपुंस्त्वं प्रतिमोक्षितं. तस्य दृष्ट एव धर्मे पुरुषेन्द्रियं प्रादुर्भूतम्. इदम् आशयविशेषाद् दृष्टधर्मवेदनीयं कर्म संवृत्तं. तद्भूम्यत्यंतवैराग्याद्

इति. ततो भूमेर् अत्यंतवैराग्यात् तद् अदृष्टधर्मवेदनीयम् अपि कर्म दृष्टधर्मवेदनीयं संपद्यते. यथानागाम्यर्हताम् अवीतरागावस्थाकृतं. पुनर् अधरभूम्यनागमनाद् अनुपादाय च परिनिर्वाणात्. न त्व् अवस्थायाम् इति. यद् अनियतं दृष्टधर्माद्यवस्थासु. न चानियतं विपाके. नियतत्वात्. तद् एव दृष्टधर्मवेदनीयं भवति. अत एवाह. यत् पुनर् अवस्थांतरे दृष्टधर्मादिके नियतम्. तस्य तत्रैववस्थांतरे विपाकः. [तिब्. 56अ] तद्वतो ऽत्यंतवैराग्यासंभवाद् इति. एवम् अवस्थांतरनियतविपाकेन कर्मणा तद्वत्पुद्गलस्यात्यंतं तस्या भूमेर् वैराग्यासंभवाद् इत्य् अर्थः.

(iv.57) क्षेत्रविशेषाद् इत्य् उक्तम् अतः पृच्छति. कीदृशं पुनः क्षेत्रम् इति. अरणाव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु अरणया हितो ऽध्याशयो ऽभिप्रायः. तेनानुगता. अत्युदग्रेण तीक्ष्णेन. अप्रमाणेन पुण्येन परिभावितानुगता च संततिर् वर्तते. अरणाम् उत्तरत्र वक्ष्यति.

अरणाप्रणिधिज्ञानम्

इत्य् अत्र. मैत्रीव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु सुखम् उत्पद्यताम् (अभिध्-क्-व्य् 395) इत्य् अध्याशयः. तेनानुगता. अत्युदग्रेति सर्वं पूर्ववत्. प्रत्यग्राश्रयपरिवृत्तिनिर्मलेति. प्रत्यग्राभिनवा. अचिरव्युत्थितत्वात्. प्रत्यग्राश्रयस्य शरीरस्य परिवृत्त्या निर्मला संततिः. एतेषु पुद्गलेषु कृतानां करापकाराणाम् उपकारापकाराणां कुशलाकुशलानां. फलं दृष्ट एव धर्म इहैव जन्मनि प्राप्यत इति. सद्योऽर्थं दर्शयति. सद्य इवेति कृत्वा. शेषस्य त्व् इति विस्तरः. शेषो भावनामार्गः सकृदागाम्यनागामिफलप्रापकः. अपरिपूर्णः स्वभावः फलं वास्येत्य् अपरिपूर्णस्वभावफलः. तस्य भावः. [तिब्. 56ब्] तस्मात्. अपरिपूर्णस्वभावफलत्वात्. का पुनस् तस्य परिपूर्णस्वभावता परिपूर्णफलता च. अशैक्षत्वं परिपूर्णस्वभावता. स हि मार्गो ऽशैक्षस्वभावः. येनार्हत्त्वं प्राप्यते. परिपूर्णफलताप्य् अर्थत्त्वप्राप्तिः. स हि फलमार्गस् त्रिभिः फलैः फलवान् इति. अथ वा क्षयज्ञानसंगृहीतो मार्गः परिपूर्णस्वभावफलः. परिपूर्णस्वभावो यस्माद् अशैक्षमार्गः. परिपूर्णफलो निरवशेषफलत्वात्. तद्व्युत्थितानाम् इति. शेषभावनामार्गव्युत्थितानां. न ते तद्व्युत्थितास् तथा पुण्यक्षेत्रं भवंति. यथार्हत्त्वव्युत्थिताः. प्राग् एव लौकिकमार्गव्युत्थिताः. भावनाप्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणाद् अयं विशेष उक्त इत्य् अवगंतव्यं.

(iv.58) तस्या अवश्यं सवितर्कसविचारत्वाद् इति.

सवितर्कविचारा हि पंच विज्ञानधातव

इति नियमात्. वितर्कविचारयोश् चाध्यानांतरादिस्वभावात्. न चावितर्कस्य कर्मणः सवितर्क विचारो ऽधरभूमिको विपाको युज्यत इति. तस्य हि दुःखा वेदना विपाक इति विस्तरः. तस्याकुशलस्य दुःखा वेदना विपाक इष्यते. तस्यानिष्टफलत्वात्. [तिब्. 57अ] चैतसिकी च दुःखा वेदना दौर्मनस्यं नान्यद् अस्ति. न च दौर्मनस्यं विपाक इति व्याख्यातम् एतद् इति. इन्द्रियनिर्देशे

विपाको जीवितं द्वेधा द्वादशांत्याष्टकाद् ऋते दौर्मनस्याच् चेति.

(iv.59) दौर्मनस्यं न विपाक इत्य् एतद् अमृष्यन्न् आह. यत् तर्हीति विस्तरः. यदि दौर्मनस्यं न विपाकः. यत् तर्हि सत्त्वानां चित्तक्षेपो भवति. कतमस्मिन्न् असौ चित्ते भवति केन वा कारणेनेति. तस्यायम् अभिप्रायः. चित्तक्षेपो न पंचसु विज्ञानकायेषु. तेषाम् अविकल्पकत्वात्. स चाकुशलकेतुको ऽनिष्टत्वात्. इत्य् अतो विपाकेन दौर्मनस्येन भवितव्यम् इति. अविकल्पकत्वाद् इति. अभिनिरूपणानुस्मरणविकल्पाभ्याम् अविकल्पकत्वात् पंचानां विज्ञानकायानां (अभिध्-क्-व्य् 396). चित्तक्षेपस्य चासद्विकल्पलक्षणत्वात्. अग्निं वा दावेषूत्सृजंतीति. दावस् तृणादिगहनांवितो देशविशेषः. अन्येन वा केनचिद् इति. अनिष्टवेदनादिना. वासिष्ठीप्रभृतीनाम् इति. भगवान् मिथिलिकायां विहरति स्म. मिथिलाम्रवणे. तेन खलु पुनः समयेन वसिष्ठसगोत्राया ब्राह्मण्याः षट् पुत्राः कालगताः. सा तेषां कालक्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेनतेनानुहिण्डंती येन मिथिलाम्रवणं तेनोपसंक्रांता. तेन खलु पुनः समयेन भगवान् अनेकशताया भिक्षुपर्षदः पुरस्तान् निषण्णो धर्मं देशयति स्म. अद्राक्षीद् वसिष्ठसगोत्रा [तिब्. 57ब्] ब्राह्मणी भगवंतं दूराद् एव. दृष्ट्वा च पुनर् जेह्रीयमाणरूपा उत्कुटकास्थात्. स्मृतिं च लब्धवती. अद्राक्षीत् भगवान् वसिष्ठसगोत्रां ब्राह्मणीं दूराद् एव. दृष्ट्वा च पुनर् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अनुप्रयच्छानन्द वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगं. धर्मम् अस्यै देशयिष्यामि. आयुष्मान् आनन्दो वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगम् अदात्. अथ वसिष्ठसगोत्रा ब्राह्मणी उत्तरासंगं प्रावृत्य येन भगवांस् तेनोपसंक्रांता. उपसंक्रम्य भगवतः पादौ शिरसा

वन्दित्वैकंते निषण्णा. एकांतनिषण्णां वसिष्ठसगोत्रां ब्राह्मणीं धर्म्यया कथया संदर्शयति. समादापयति. समुत्तेजयति. संप्रहर्षयतीत्य् एवमादि. विस्तरग्रंथभयात् सर्वसूत्रं न लिखितं. अयं तत्रार्थः भगवांस् तस्यै दानकथादि कृत्वा. चत्वार्य् आर्यसत्यानि देशितवान्. यावत् तया स्रोतआपत्तिफलम् अधिगतम्. अधिगम्य च भगवतो ऽंतिकात् प्रक्रान्ता. तस्या अपरेण समयेन सप्तमः पुत्रः कालगतः. सा तत्कालक्रियया न शोचति. ताम् अशोचंतीं स्वभर्ताब्रवीत्. त्वं पूर्वं पुत्रमरणेन परितप्तासि. इदानीं नासि परितप्ता. नूनं ते पुत्रास् त्वया भक्षिताः. यतो न परितप्यस इति. सा तं प्रत्युवाच.

पुत्रपौत्रसहस्राणि ज्ञातिसंघशतानि च दीर्घे ऽध्वनि मया ब्रह्मं खादितानि तथा त्वया. पुत्रपौत्रसह्स्राणां परिमाणं न विद्यते अन्योन्यं खाद्यमानानां [तिब्. 58अ] तासुतासूपपत्तिषु. कः शोचेत् परितप्येत परिदेवेत वा पुनः ज्ञात्वा निःसरणं लोके जातेश् च मरणस्य च. साहं निःसरणं ज्ञात्वा जातेश् च मरणस्य च न शोचामि न तप्यामि कृते बुद्धस्य शासन

इत्य् एवमादि. कथं न चैतसिकी वेदना विपाकः प्राप्नोति. तस्याकुशलस्य कर्मण इति वाक्यशेषः. महाभूतानां प्रकोपो विपाक इति. विपक्तिर् विपाकः. तस्माज् जातम् अतो विपाकजं चित्तम्. अत एव स च कर्मविपाकज इत्य् उक्तं. (अभिध्-क्-व्य् 397) न तूक्तं. स च कर्मज इति. एवं चेदं इति विस्तरः. यस्मात् कर्मजेन यावत् भ्रष्टस्मृतिकं चित्तं वर्तते. तस्माद् इदं चतुष्कोटिकं युज्यत इति. उभयं क्षिप्तचित्तस्य क्लिष्टं चित्तम् इत्य् एव तत्रोदाहरणं. न हि क्लिष्टं चित्तं विपाको युज्यते.

विपाको ऽव्याकृतो धर्म

इति वचनात्. अभिनुन्ना अभिपीडिताः. हाचित्तपरिदेवकश् चात्र नारक इहोदाहार्यः. क्षिप्तचित्ता नारका भवंतीति. अन्यत्र बुद्धाद् इति. महापुण्यसंभारत्वान् न बुद्धस्य. तद्वत् भूतवैषम्येनापि चित्तं क्षिप्यते. न कर्मणेति. किं. आर्याणां क्षिप्यते चित्तं अन्यत्र भूतवैषम्याद् एव. किं कारणम् इत्य् आह. नियतस्य कर्मणः पूर्वं पृथग्जनावस्थायाम् [तिब्. 58ब्] एव विपाकात्. अनियतस्याविपाकाद् आर्यावस्थायां. अत एव चैतद् अनियतम् इत्य् उच्यते. पंचभयसमतिक्रमाद् इति. पंच भयानि. आजीविकाभयम् अश्लोकभयं परिषच्छारद्यभयं मरणभयं दुर्गतिभयं च. तत्राश्लोकभयम् अकीर्तिभयं. पर्षच्छारद्यभयं सभायां सांकुचित्यं. अप्रसादिकस्येति. अप्रसदनीयस्य कर्मणः. धर्मताभिज्ञत्वाद् इति. सर्वं सास्रवं दुःखं. सर्वे संस्कारा अनित्याः. सर्वा धर्मा अनात्मान इति. धर्मस्वभावाभिज्ञत्वात्.

(iv.60अब्) कुटिलान्वयत्वाद् इति. कुटिलहेतुकत्वात्. साध्यम् हि कौटिल्यं. रंजनान्वयत्वाद् इति यथा कषायो रंजनहेतुः. तथापीत्य् अतस् तत्साधर्म्याद् एवम् उक्तं.

(iv.60च्द्, 61) कामाप्तम् इत्य्

अनेन शुभं विशेष्यते. नाशुभं. तस्यावश्यं कामाप्तत्वात्. आरूप्याप्तं कस्मान् नोच्यत इति. तद् अपि ह्य् अकुशलेन न व्यतिभिद्यते. न व्यतिमिश्र्यत इत्य् अर्थः. यत्र किलेति विस्तरः. किलशब्दः परमते. यत्र किलांतराभविको अंतराभवे भवो विपाकः. एवम् औपपत्तिभविको ऽपि. त्रिविधस्य च कायवाङ्मनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्व् अपि ध्यानेषु सद्भावाद् अस्ति. तत्रैवोक्तं शुक्लं शुक्लविपाकम् [तिब्. 59अ] इति. तद् अपि तूक्तं सात्रांतर इति. तद् अप्य् आरूप्याप्तं. अस्ति कर्म शुक्लं शुक्लविपाकं. तद्यथा प्रथमे ध्याने. एवं यावत् भवाग्र इति. अनेन स्वाभिप्रायं दर्शयति. येन किलशब्दं प्रयुक्तवान्. संतानत एतद् व्यवस्थापितम् इति. एकस्मिन् संताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलम् अकुशलेन व्यवकीर्यते. अन्योन्यविरोधाद् इति. कुशलम् अकुशलेन विरुध्यते. अकुशलं च कुशलेनेति. द्विरूपता न (अभिध्-क्-व्य् 398) युज्यते.

नावश्यम् अकुशलं कुशलेन व्यवकीर्यत इति विस्तरः. व्यवकीर्यते न त्व् अवश्यं. यस्मात् कामधातौ प्रतिपक्षभूतस्य समाधेर् अभावाद् अकुशलस्य बलवत्त्वं. अत एव च कुशलस्य दुर्बलत्वं. तथा हि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो भवति. न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति.

आभिप्रायिको ह्य् एषो ऽशुक्लशब्द इति. विपाकशुक्लताभावाद् अशुक्लं. न तु नैव शुक्लम् इत्य् अर्थः. अपि च यच् छुक्लम् उक्तं. तन् न भवतीत्य् अशुक्लं. महत्यां शून्यतायाम् इति. महाशून्यतार्थसूत्रे. अनिवृताव्याकृताश् च शुक्लाः. अक्लिष्टत्वात्. अविपाकं धात्वपतितत्वाद् [तिब्. 59ब्] इति. अनास्रवा धर्माः न धातुपतिताः. धातुपतितश् च विज्पाक इत्य् अतो ऽनास्रवं कर्मविपाकं. कस्माद् इत्य् आह. प्रवृत्तिविरोधत इति. अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्तिं विरुणद्धि. न तु जनयतीत्य् अविपाकं.

(iv.62, 63) कर्मकर्मक्षयायेति. द्विः कर्मग्रहणं यत् तत् कर्मास्तीत्य् अपदिष्टं. तत् कर्म सत् संविद्यमानम् अप्रच्युतस्वभावं कर्मक्षयाय संवर्तत इत्य् अस्य चतुर्थस्य कर्मणो द्योतनार्थं. अथ वा. वीप्साप्रयोग एषः. कर्मणः कर्मणः क्षयाय संवर्तत इत्य् अर्थः. एअतसृष्व् इति विस्तरः. धर्मक्षांतिग्रहणं कामवैराग्ये चानंतर्यमार्गग्रहणं कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात्. अनास्रवमार्गस्यैवेहाधिकृतत्वाल् लौकिका आनंतर्यमार्गास् तत्प्रहाणभूता अपि न गृह्यंते.

शुक्लस्य ध्यानवैराग्येष्व्

इति. कुशलस्यैवेत्य् अवधार्यते. तत्र कृष्णाभावात्. क्लिष्टसंस्कारप्रहाणम् अष्टाभिः. नवमेन तु कुशलस्यापि.

न हि तस्य स्वभावप्रहाणम् इति. प्राप्तिच्छेदप्रहाणं. प्रहीणस्यापि कुशलस्य संमुखीभावात्. तदालम्बनक्लेशप्रहाणाद् इति. तदालंबनस्य क्लेशस्य प्रहाणात् तस्य कुशलस्य प्रहाणं भवति. तदालंबनक्लेशप्रहानं च नवमस्य तदालंबनक्लेशप्रकारस्य प्रहाणे सति भवतीति. नवमानंतर्यमार्गचेतनैव कृष्णशुक्लस्य [तिब्. 60अ] कर्मणः क्षयाय भवति. तदा हि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे विसंयोगप्राप्तिर् उत्पद्यते. तस्य च कृष्णशुक्लस्य कर्मणो ऽन्यस्यापि चानिवृतव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिर् उत्पद्यत इति वर्णयंति. एवं चतुर्ध्यानवैराग्येष्व् अपि वक्तव्यं.

तेन तद्वेदनीयम् इति. तेन नरकगतिनैयम्यकारणेन. तद्वेदनीयं (अभिध्-क्-व्य् 399) नरकवेदनीयम् अर्थः. अतो ऽन्यत्रेति विस्तरः. ततो नरकगतेर् अन्यत्र कामधातौ मनुष्यादिगतौ अकुशलस्य कुशलस्य च कर्मणो विपाकस् तेन गतिनैयम्यकारणेन. तदन्यकामधातुवेदनीयम् उभयम् अप्य् अविशेष्य मिश्रीकृत्य कृष्णशुक्लम् इत्य् उक्तं. न पुनर् एवं ग्रहीतव्यं. कुशलम् अपि कृष्णशुक्लम्. एवम् अकुशलम् अपीति.

कुशलेनामिश्रत्वाद् इति. न हि कुशलं दर्शनप्रहातव्यम् अस्ति.

न दृष्टिहेयम् अक्लिष्टम्

इति नियमात्. अत्र चोद्यते. कामावचरं

दृग्घेयं कृष्णम्

इति विशेष्यं वक्तव्यम्. इतरथा हि रूपारूप्यावचरस्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसंग इति. न वक्तव्यम्.

अन्यत् कृष्णशुक्लं तु कामजम्

इति. कामजम् इत्य् अस्योभयविशेषणत्वात्. कामजं दृग्घेयं कृष्णं. कामजम् अन्यत् कृष्णशुक्लम् [तिब्. 60ब्] इति. तद् धीति विस्तरः. तद् धि कामावचरं भवनाप्रहातव्यं. कुशलं चाकुशलं च संभवति. तन् मिश्रीकृत्योभयम् अपि कृष्णशुक्लम् इत्य् उक्तं. न पुनः प्रत्येकं.

(iv.65) त्रीणि मौनेयानीति. मुनिता वा मुनिकर्म वा मौनेयं कापेयवत्.

मौनत्रयम्

इति. मुनेर् इदम् मौनं. अशैक्ष इति विस्तरः. अशैक्षं कायकर्माविज्ञप्तिस्वभावं कायमौनम्. एवं वाङ्मौनं. अथ कस्माद् अविज्ञप्तिर् एव गृह्यते. न पुनर् विज्ञप्तिर् अपि. विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासंभवात्. मन एव मनोमौनम् इति. स्वार्थे वृद्धिविधानात्. चित्तं हि परमार्थमुनिर् इति. सर्वक्लेशजल्पोपरतेर् इति कारणं वक्ष्यते. तत् किलकायवाक्कर्मभ्याम् अशैक्षाभ्याम् अनुमीयते अशैक्षाम् इति. कथं तथागतो ऽनुमातव्यः. प्रशांतेन कायकर्मणा प्रशांतेन वाक्कर्मणेति सूत्रे वचनात्. किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतं आह. अपि खल्व् इति विस्तरः. चित्ताविज्ञप्त्यभावाद् इति. यस्माच् चित्तस्यविज्ञप्तिर् नास्त्य् अतो न मनस्कर्म विरतिस्वभावं. विरमार्थेन च मौनम् इति. विरमो विरतिः. सर्वाकुशलविरमार्थेन [तिब्. 61अ] मौनम् इत्य् अभिप्रायः. अतो मनो एव सर्वाकुशलेभ्यो विरतं मौनम् इत्य् उच्यते. सर्वक्लेशजल्पोपरतेर् इति. वितथालंबनजल्पनात् क्लेशा जल्पा इत्य् उच्यंते. ते चार्हत उपरता इत्य् अर्हन् परमार्थमुनिः.

शौचेयानीति.

शुचिभावः शौचेयं. शौचम् इत्य् अर्थः.

सर्व-

ग्रहणं सास्रवानास्रवसुचरितपरिग्रहार्थं. तावत्कालम् अत्यंतं चेति. तावत्कालदुश्चरितमलापकर्षकं सास्रवेण सुचरितत्रयेण. अत्यंतम् अनास्रवेण. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञयेति सूत्रात्. मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थम् इति. तूष्णींभावमात्रेण शुद्धिदर्शिनो मिथ्यामौनाधिमुक्ताः. कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधिमुक्ताः. तेषां विवेचनं ततो दर्शनात् प्रच्यावनं. तदर्थम् एतानीति

(iv.66) संचेतनीयसूत्रे वचनाद् इति. संचेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते. कथं च भिक्षवः संचेतनीयं कर्म कृतं भवत्य् उपचितं. इह भिक्षव एकत्यः संचिंत्य त्रिविधं कर्म कायेन कर्म करोत्य् उपचिनोति चतुर्विधं वाचा त्रिविधं मनसेति विस्तरेणोक्त्वाह [तिब्. 61ब्]. कथं भिक्षवस् त्रिविधं मनसा संचेतनीयं कर्म कृतं भवत्य् उपचितं. यथापीहैकत्यो ऽभिध्यालुर् भवति. व्यापन्नचित्तः. यावन् मिथ्यादृष्टिः. खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति विस्तरः. न चान्यद् अभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तम् इत्य् अभिद्यादय एव मनस्कर्मेति दार्ष्टांतिकाः सौत्रांतिकविशेषा इत्य् अर्थः.

एवं तु सति कर्मक्लेशयोर् ऐक्यं स्याद् इति. अभिध्याव्यापादमिथ्यादृष्टयः क्लेशाः. त एव कर्मेति. तद् ऐक्यं स्यात्. नैतद् अस्ति. कश्चित् क्लेशो ऽपि कर्म स्याद् इति. चेतना कर्म चेतयित्वा चेति वचनात्. यद्य् एवं संचेतनीयसूत्रं कथं नीयत इत्य् आह. सूत्रे त्व् इति विस्तरः. सूत्रे तु चेतनायास् तन्मुखेनाभिध्यादिमुखेन प्रवृत्तेस् तैर् अभिध्यादिभिस् तां चेतनां दर्शयति. अभिध्यालुः खलु भिक्षवो भवतीति विस्तरेण. अन्यथा चेतनामतं भिक्षवः कर्म वदामि चेतयित्वा चेत्य् एतद् विरुध्यते. कर्मक्लेशयोश् चैक्ये अभिधर्मविरोधः स्यात्. परानुग्रहोपघाभिसंध्यभाव इति विस्तरः. परेषाम् अनुग्रहोपघातयोर् अभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योर् यथाक्रमं [तिब्. 62अ] कुशलाकुशलत्वम् इति. अतो ब्रवीति. तन्मूलत्वाद् इति. यस्मात् परानुग्रहाभिसंधेः परोपघाताभिसंधेश् च सम्यग्दृष्टिमिथ्यादृष्टी मूलं कारणम् इत्य् अर्थः. अतस् तयोः कुशलाकुशलत्वं.

(iv.67) यथायोगम् इति यथासंभवं. कथम् इत्य् आह. कुशलाः सुचरितेध्यः अकुशला दुश्चरितेभ्यश् चेति. क्लिष्टश् चान्यो ऽपीति. वधबंधनादि. तस्य नात्यौदारिकत्वाद् इति. तस्य प्रयोगपृष्ठभूतस्य क्ल्ष्टस्यान्यस्यापि (अभिध्-क्-व्य् 401) अनत्यौदारिकत्वात्. मनोदुश्चरितस्य च प्रदेशश् चेतना. न संगृहीतेति वर्तते. मद्यादिविरतिदानेज्यादिक इति. प्रथमेनादिशब्देन ताडनबंधनादिविरतिर् गृह्यते. द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर् गृह्यते. प्रियवचनादिक इत्य्. आदिशब्देन धर्मदेशनामार्गकथनादिर् गृह्यते. मनःसुचरितस्य चेतना न संगृहीतेति वर्तते.

(iv.68) षड् अविज्ञप्तिर्

इति. षड् अविज्ञप्तिर् अवश्यं. न त्व् अविज्ञप्तिर् एव षड् इत्य् अवधारणं. मौलविज्ञप्त्यभावाद् इति. यस्मान् मौली कर्मपथसंगृहीता विज्ञप्तिर् नास्ति. आज्ञापनविज्ञप्तिस् त्व् अस्ति प्रयोगसम्गृहीतेति वैभाषिकसिद्धांतः.

[तिब्. 62ब्] द्विधैक इति. द्विधैवैक इत्य् अवधारणार्थ आरंभः. तत्कालमरण इति. विज्ञप्तिकालमरणे. कालांतरमरणे त्व् अविज्ञप्तिर् एव भवति.

द्विविधाः सप्त कुशला

इति. द्विविधा एवेत्य् अवधारणं. विज्ञप्त्यधीनत्वात् समादानशीलस्येति. शीलं हि द्विविधं. समादानशीलं प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानास्रवसंवरौ. समादानशीलं विज्ञप्त्यधीनं. तद् धि परस्माद् आदीयते. धर्मताशीलं तु न विज्ञप्त्यधीनं. चित्तमात्रधीनत्वात्. अत एवाह.

अविज्ञप्तिः समाधिजा

इति.

(iv.69अब्च्) सामंतकास् तु विज्ञप्तिर्

इति. कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः. न त्व् अवश्यम् अविज्ञप्तिर् इत्य् अत एवाह.

अविज्ञप्तिर् भवेन् न वेति.

पर्यवस्थानेनेति. आह्रीक्यादिना. घनरसेनेति. घनवेगेन. तस्यानुधर्मं चेष्टेतेति. तस्य कर्मपथस्यानुधर्मम् अनु सदृशं कर्म. तद्यथा मृते ऽपि प्राणिनि पुनः प्रहारदानं कोषणं मान्सच्छेदनम् इत्य् एवमादि. द्वौ क्षिणातीति शब्दौ. परस्य चर्मापनयनम् अर्थः. पूर्वस्यार्थांतरं द्रष्टव्यं. फलपरिपूरितश् चेति. प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः. यो ह्य् प्रयुज्यते मौलं कर्मपथं [तिब्. 63अ] न जनयति. तस्य प्रयोगफलम् अस्ति न तु फलपरिपूरिः. एवम् अन्येष्व् अपीति. यथा तावद् इह कश्चित् परस्वं हर्तुकामो मंचाद् उत्थिष्ठति शस्त्रं गृह्णाति. परगृहं गच्छति. सुप्तो न वेत्य् आकर्णयति. परस्वं स्पृशति. यावन् (अभिध्-क्-व्य् 402) न स्थानात् प्रच्यावयति. तावत् प्रयोगः. यस्मिंस् तु क्षणे स्थानात् प्रच्यावयति. तत्र या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिर् अयं मौलः कर्मपथः. द्वाभ्याम् हि कारणाभ्याम् अदत्तादानावद्येन स्पृश्यते प्रयोगतः फलपरिपूरितश् च. ततः परम् अविज्ञप्तिक्षणाः पृष्ठं भवंति. यावत् तत्परस्वं विभजते. विक्रीणीते. गोपायति. अनुकीर्तयति वा तावद् अस्य विज्ञप्तिक्षणा अपि पृष्ठं भवंतीति. एवम् अन्येष्व् अपि पंचसु यथासंभवं योज्यं.

मरणभवस्थ इति. अमृत एव. न चैष सिद्धांत इति.

समं प्राक् च मृतस्यास्ति न मौलो ऽन्याश्रयोदयाद्

इति सिद्धांतात्. तन् न वक्तव्यम् इति. व्यपरोपयतीति. विप्रकृतावस्थायाम् अयोगात्. एवं तु वक्तव्यं स्यात्. मृते प्राणिनि या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिः. स्यं मौलः कर्मपथ इति. यच् चापीदम् इति विस्तरः. वैभाषिकैर् अस्य शास्त्रवाक्यस्यैवम् अर्थो व्याख्यातः. अत्र शास्त्रे प्रयोगशब्देन पृष्ठम् उक्तम् इति. प्रयोग इव प्रयोगः. प्रयोगसदृशी क्रियेत्य् अर्थः. अस्यार्थस्य विरोधः. [तिब्. 63ब्] कस्मात्. मौलस्यैव तदानीम् अनिरुद्धात्. मृते प्राणिनि मौलकर्मपथव्यवस्थापनाद् इत्य् अत्राभिप्रायः. वैभाषिक आह. यथा न दोषस् तथास्त्व् इति. कथं च न दोष इत्य् आचार्यः. वैभाषिकः पुनर् आह. मौल एवात्र प्रयोगशब्देनोक्त इति. कुत्र. यो ऽयं प्रश्नः स्यात् प्राणी हतः प्रानातिपातश् चानिरुद्ध इत्य् अत्र. पृष्ठं प्रयोगशब्देनोक्तम् इति किम् अयं पक्षः परित्यक्त एव. स च न परित्यक्त एव. उभयम् अपि हि संभवति. यदि मरणभवानंतरक्षणवर्ती प्राणी भवत्य् अत्र प्रयोगशब्देन मौल उक्त इतीष्यते. ततः परेण तु पृष्ठ इति. आचार्य आह. विज्ञप्तिस् तर्हि तदा कथं मौलः कर्मपथो भवतीति. मृते हि प्राणिनि विज्ञप्तिर् अकिंचित्करी. न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारणं पुनर् अस्तीति मन्यामानो ऽयं पृच्छति. कस्माद् अव्ज्ञप्तिं न पृच्छति. यस्माद् असाव् अनिदर्शनत्वाद् अप्रतिघत्वाच् च प्रहाराख्या न भवति. कथं च न भवितव्यम् इति वैभाषिकेणोक्ते. स्वाभिप्रायम् आचार्यो विवृणोति. असामर्थ्याद् इति. प्राणिनि मृते तस्याः सामर्थ्यं न दृश्यत इति वैभाषिक आह. अविज्ञप्तिर् इदानीं कथं भवत्य् असति सामर्थ्ये मौलः कर्मपथ इति. यस्माद् एवम् अविज्ञप्तिर् असामर्थ्ये ऽपि मौलः कर्मपथो भवति. तस्मात् प्रयोगफलपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृतत्वावस्थायां. तद् उभयं विज्ञप्त्यविज्ञप्त्याख्यं [तिब्. 64अ] कर्मपथः स्याद् युज्येतेत्य् अर्थः.

एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यथा परस्वं हर्तुकामः कार्यसिद्धये परकीयं हृत्वा तेन पशुना बलिं कुर्यात्. दारेषु चास्य विप्रतिपद्येत (अभिध्-क्-व्य् 403) तैर् एव तदपहारार्थं. अनृतपिशुनपरुषसांत्वभेदैश् चास्य मित्रभेदं कुर्यात्. यान्य् अस्य परित्राणाय कल्पेरन्. अभिध्यां च तत्स्वे कुर्यात्. तद्द्रव्यस्वामिनि च व्यापादं मिथ्यादृष्टिं बृंहयेत्. एवं काममिथ्याचारादिषु यथासंभवं योज्यं. एषा दिक्.

(iv.69द्, 70अब्) नात्र सर्वेषां कर्मपथानाम् लोभादिभिर् निष्टेति. न च सर्वेषां लोभेन. किं तर्हि. केषांचिद् एव काममिथ्याचारादीनां. नापि सर्वेषां व्यापादेन. किं तर्हि. केषांचिद् एव प्राणातिपातादीनां. एवं न सर्वेषां मोहेन. किं तर्हि. केषांचिद् एव मिथ्यादृष्ट्यादीनाम् एवेति. त्र्यंबुकाः वरताः. आदिशब्देन व्याघ्रादयः. यश् च मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति कृत्वा निरपेक्षो हंति. अयम् अपि मोहजः. अन्यलाभसत्कारयशोऽर्थम् इति. अन्यलाभस्यार्थे परस्वं हरति. यथाश्वहारिकः. सत्कारस्य यशवो वार्थं हरति. इदम् अपि लोभजम् अदत्तादानं. [तिब्. 64ब्] यच् च मिथ्यादृष्टिप्रवर्तितं. तद् अपि मोहजम् अदत्तादानं. तत्र मोहप्राधान्यात्. उपैति मातरम् अब्रह्मचर्यार्थे. उपस्वसारम् उपैतीति वर्तते. उपस्वसारं भगिनीम् इत्य् अर्थः. उपसगोत्राम् उपैति. समानगोत्राम् इत्य् अर्थः. उपहायजमानः. ये चाहुर् इति विस्तरः. उदूखलादितुल्यो मातृग्रामः. यथोदूखलादयः साधारणा उपभोग्याः. एवं स्त्रीजनः. तस्मान् न दोषो ऽस्त्य् अभिगच्छताम् इति. मृषावादादयो लोभजाः द्वेषजाश् च पूर्ववद् इति. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापाः लोभजाः अन्यलाभसत्कारयशोऽर्थं वा. आत्मसुहृत्परित्राणार्थं वा. द्वेषजाः वैरनिर्यातनार्थं.

न मर्मयुक्तं.

न परिहासयुक्तं. मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति निर्मर्यादय यो मृषावादो ऽयं मोहजः. पैशुन्यादयस् तु. पैशुन्यपारुष्याबद्धप्रलापाः मृषावादवन् मोधजाः. यश् चेति विस्तरः. यश् च वेदसांख्यवैशेषिकाद्यसत्प्रलापः. स चापि मोहजः संभिन्नप्रलापः.

(iv.70च्द्) तस्य चेति. कुशलचित्तस्य. नानावासं प्रविशतीति. [तिब्. 65अ] मण्डलं प्रविशतीत्य् अर्थः. नानावासा हि तस्मिन् महासीमामण्डले भवंति. तृतीये कर्मवाचन इति. ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसंपाद्यते. तत्र ज्ञप्त्या इदंनामानम् उपसंपादयेत् संघ इति. लिङ्ङर्थ उच्यते. कर्मवाचनेन लडर्थ उच्यते. इमं संघ उपसंपादयतीति. तत्र कर्मवाचनं त्रिर् उच्यते. तृतीयस्य कर्मवाचनस्यापरिसमाप्तेः प्रयोगः कर्मपथस्यावगंतव्यः. तस्यावसाने तु या विज्ञप्तिस् तत्क्षणिका वाविज्ञप्तिर् (अभिध्-क्-व्य् 404) अयं मौलः कर्मपथः. तत ऊर्ध्वं यावन् निश्रया आरोच्यंत इति. चत्वारो निश्रयाश् चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन विधिना तस्योपसंपादितस्यारोच्यंते. तदधिष्ठानं च विज्ञपयति. निश्रयाधिष्ठानं च विज्ञप्तिं करोतीत्य् अर्थः. अविज्ञप्तिश् च यावद् अनुवर्तते. यावत् संवरो न त्यज्यत इत्य् अर्थः. इदं पृष्ठं.

(iv.71, 72अब्) वधव्यापादपारुष्यनिष्ठा द्वेषेणेति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.