Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
द्वेषेणैवेत्य् अवधारणं. परित्यागपरुषचित्तसंमुखीभावाद् इति. परित्यागचित्तसंमुखीभावात् प्राणातिपातस्य निष्ठा द्वेषेण. परुषचित्तसंमुखीभावात् तु व्यापादपारुष्ययोः.
[तिब्. 65ब्] (72च्द्) चतुर्भिः काण्डैर् उक्ता इति. चतुर्भिर् भागैर् उक्ताः. कथं.
वधव्यापादपारुष्यनिष्ठा द्वेषेणेत्य्
एकः काण्डः.
लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम्
इति द्वितीयः.
मिथ्यादृष्टेस् तु मोहेनेति
तृतीयह्.
शेषाणां त्रिभिर् इष्यत
इति चतुर्थः काण्डः. भोगाधिष्ठाना इति. विषयाधिष्ठानाः. नामरूपाधिष्ठानेति. पंचस्कन्धाधिष्ठानेत्य् अर्थः. नाम हि वेदनादयः स्कंधाः रूपं रूपस्कंधः. अधिष्ठानम् अधिकरणं विषय इत्य् अनर्थांतरं. नामकायाधिष्ठाना मृषावादादयो वाग्नाम्नि प्रवर्तत इति कृत्वा. (iv.73अब्) न मौल
इति प्रतिषेधात् पृष्ठम् अपि न भवतीति गम्यते. मौलपूर्वत्वात् पृष्ठस्य. न च प्राणातिपातावद्येन स्पृश्यत इति. न मौलेनेत्य् अभिप्रायः.
अन्याश्रयोदयाद्
इति. विसभागाश्रयोदयाद् इत्य् अर्थः.
(iv.73च्द्) अर्थतो हि ते ऽन्योन्यं प्रयोक्तार इति. न वाचा ते ऽन्योन्यं प्रयोक्तारः. किं तर्हि. प्राणातिपातकरणाभ्युपगमाद् [तिब्. 66अ] अर्थत इति एककार्यत्वात्.
(iv.74अब्) संज्ञाय परिच्छिद्येत्य् अर्थः. नान्यं भ्रमित्वेति. न भ्रांत्यान्यं मारयतीत्य् अर्थः.
क्षणिकेषु स्कंधेष्व् इति. स्वरसेनैव विनश्वराणां स्कंधानां कथम् (अभिध्-क्-व्य् 405) अन्येनैषां निरोधः क्रियत इत्य् अभिप्रायः. प्राणो नाम वायुः. कायचित्तसंनिश्रितो वर्तत इति. कथं चित्तसंनिश्रितो वायुः प्रवर्तते. चित्तप्रतिबद्धवृत्तित्वात्. तथा हि निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते. शास्त्रे ऽप्य् उक्तं. य इमे आश्वासप्रश्वासाः. किं ते कायसंनिश्रिता वर्तंत इति वक्तव्यं. चित्तसंनिश्रिता वर्तंत इति वक्तव्यं. नैव कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यं. कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम्. आह. कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यम् इति विस्तरः. तम् अपि पातयतीति. तं प्राणं विनाशयतीत्य् अर्थः. उत्पन्नस्य स्वरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोधयतीत्य् उच्यते. यथा प्रदीपं निरोधयति. घण्टास्वनं वा. क्षणिकम् अपि संतं. कथं च स निरोधयति. अनागतस्योत्पत्तिप्रतिबंधात्. जीवितेन्द्रियं वा प्राण इति. चित्तविप्रयुक्तस्वभावम् एनं दर्शयति.
कस्य तज् जीवितं. यस् तदभावान् मृत इति. यः प्राणी जीवितस्याभावान् मृतो भवति. स बौद्धानां नास्ति नैरात्म्यवादित्वात्. [तिब्. 66ब्] अत एवं पृच्छति. कस्येति षष्ठीं. पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे. असत्य् आत्मनि कस्येयं स्मृतिः. किम् अथैषा षष्ठीत्य् अत्र प्रदेशे चिंतयिष्यामि. आस्तां तावद् एतत् सामान्यासिकम् इत्य् अभिप्रायः. तस्मात् सेन्द्रियः कायो जीवतीति. सेन्द्रियस्यैव कायस्य तज् जीवितं. नात्मन इति दर्शयति. स एव चानिन्द्रियो मृत इति.
अबुद्धिपूर्वाद् इति विस्तरः. असंचिन्त्यकृताद् अपि प्राणिपातात् कर्तुर् अधर्मो यथाग्निसंस्पर्शाद् अबुद्धिपूर्वाद् असंचिंत्यकृताद् दाह इति. निर्ग्रंथा नग्नाटकाः. तेषां निर्ग्रंथानाम् एवं वादिनां अबुद्धिपूर्वे ऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंगः. पापप्रसंग इत्य् अर्थः. अग्निदृष्टांतात्. निर्ग्रंथशिरोलुंचने च निर्ग्रंथशिरःकेशोत्पाटने च. दुःखोत्पादनबुद्ध्यभावे ऽप्य् अधर्मप्रसंगः. अग्निदाहवत्. कष्टतपोदेशने च. निर्ग्रंथशास्तुर् अधर्मप्रसंगो बुद्ध्यनपेक्षायां. परस्य दुःखोत्पादनम् अधर्माय भवतीति कृत्वा. तद्विषूचिकामरणे च. निर्ग्रंथानां विषूचिकया अजीर्णेन मरणे. दातुर् अन्नदातुर् अधर्मप्रसंगः. अन्नदानेन मरणकारणात्. अबुद्धिपूर्वो ऽपि हि प्राणिवधः कारणम् अधर्मस्येति. मातृगर्भस्थयोश् च. मातुर् गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वाद् अधर्मप्रषंगः. तत एवाग्निदृष्टांतात्. वध्यस्यापि च तत्क्रियासंबंधात्. प्राणातिपातक्रियासंबंधात् [तिब्. 67अ]. अधर्मप्रसंगः. वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति. अग्निस्वाश्रयदाहवत्. अग्निर् हि न केवलम् अन्यजनं दहति. किं तर्हि. स्वाश्रयम् अपि इन्धनं दहतीति. तद्वत्. न हि तेषां चेतनाविशेषो ऽपेक्ष्यते. कारयतश् च परेण वधादि (अभिध्-क्-व्य् 406) अधर्मस्याप्रसंगः. परेणाग्निं सपर्शयतः स्पर्शयितुस् तेनादाहवत्. आग्नेयधर्माभ्युपगमात्. अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादीनां. गृहपाते तत्रांतःस्थितानां प्राणिनां वधात्. पापप्रसंगः. न हि बुद्धिविशेषः प्रमाणीक्रियते. न वा दृष्टांतमात्राद् अहेतुकात्. सिद्धिर् अस्यार्थस्येति.
(iv.74च्द्) अन्यत्र संज्ञाविभ्रमाद् इति. यदि देवदत्तद्रव्यं हरामीत्य् अभिप्रायमाणो यज्ञदत्तद्रव्यं हरति. नादत्तादानम् इत्य् अभिप्रायः.
परिनिर्वाणकाले परिगृहीतम् इति. दातृजनपुण्यानुग्रहार्थं. अपरिग्रहे हि स्तूपे दानम् अफलं स्यात्. प्रतिग्राहकाभावात्. परिवर्तकं मृतस्य भिक्षोश् चीवरादिद्रव्यं. कृते कर्मणि ज्ञप्तिकर्मणि.
(iv.75अब्) गर्भिणीगमने गर्भोपरोधः. पाययंती स्तन्योपभोगावस्थापुत्रिका स्त्री. अब्रह्मचर्यकरणे हि तस्याः स्तन्यं क्षीयते. बालकस्य वा पुष्टये तत् स्तन्यं न भवतीति.
[तिब्. 67ब्] प्राणातिपातवद् इति. यथा देवदत्तं मारयामीत्य् अभिप्रायेण यज्ञदत्तं मारयतो न प्राणातिपातो भवति. तद्वद्. इहान्यस्मिं वस्तुनि प्रयोगो ऽभिप्रेतो ऽन्यच् च वस्तु परिभुक्तम् इति. न स्यात् काममिथ्याचार इत्य् अपरे.
अंततो राज्ञ इति. यद्य् अन्यः कश्चिद् रक्षिता नास्ति. अंततः सर्वपश्चाद् राज्ञो ऽंतिकात् स काममिथ्याचारः. तस्य हि तन् न मर्षणीयम् इति.
(iv.75च्द्) आहोस्विद् अभिज्ञातुं समर्थ इति. यो ऽपि ह्य् अर्थम् अभिज्ञातुं समर्थः. सो ऽप्य् अर्थाभिज्ञ इति शक्यते वक्तुम्. अर्थम् अभिजानीत इति विप्रकृतावस्थायाम् अभिप्रेतत्वात्. मनोविज्ञानविषयत्वाद् वाक्यार्थस्येति. नास्त्य् अत्र देवदत्तो ऽस्ति वेत्य् उच्यमाने शब्दः श्रोत्रा विज्ञायते. तदनंतरं तु चक्षुरादिसमूहो देवदत्तो वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते. तेनाविज्ञप्तिर् एव मौलः कर्मपथः स्यात्. वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात्. इष्यते च विज्ञप्त्यविज्ञप्तिस्वभावो मौलः कर्मपथ इति.
(iv.76) मृतकल्पानि. अत एतेषु मताख्येति. नैरुक्तं विधिम् आलंभ्य वैभाषिका व्याचक्षते. स्वेन्द्रियैः प्राप्ता मता इत्य् आचार्यसंघभद्रः. विस्तरेण यावन् मनसा धर्मा इति. ये त्वया घ्राणेन गन्धा न घ्राताः. जिह्वया रसा नास्वादिताः. कायेन स्प्रष्टव्यानि [तिब्. 68ब्] न स्पृष्टानि. यावद् ये त्वया मनसा धर्मा न विज्ञाता इति. त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमं. गन्धादिषु गंधरसस्प्रष्टव्येषु मताख्या गम्यते. ते मतशब्देनोच्यंते. एवं चानिष्यमाणे गंधादिषु मताख्येत्य् अनिष्यमाणे. दृष्टादिभावबाह्यत्वात्. गन्धादीनाम् अरूपलक्षणत्वेन (अभिध्-क्-व्य् 407) दृष्टभावबाह्यत्वाद् अशब्दधर्मायतनलक्षणत्वेन च श्रुतविज्ञातभावबाह्यत्वात्. गंधादिषु व्यवहारो न स्यात्. दृष्ट इति वा यावद् विज्ञात इति वेत्य् एषा युक्तिः. तेषु मताख्येति. आचार्य आह. सूत्रं तावद् इति विस्तरः. अन्यार्थत्वाद् इति. यस्मात् सूत्रस्यान्य एवार्थः. सूत्रार्थं ब्रवीति. अत्र च ते तव षड्विधे विषये रूपादौ. चतुर्षु दृष्टादिव्यवहारेषु. दृष्टश्रुतमतविज्ञातव्यवहारेषु. दृष्टादिव्यवहारमात्रं भविष्यतीति. रूपे दृष्टम् इति व्यवहारो भविष्यति. यावद् विज्ञातम् इति. एवं शब्दाडिषु. अत्र च ते मालकीमातर् दृष्टे विषयषट्के दृष्टमात्रं भविष्यति. श्रुते विषयषट्के. मते विज्ञाते विषयषट्के एव विज्ञातमात्रम् इत्य् एवं तत् सूत्रपदं व्याख्यायत इत्य् अभिप्रायः. न हि प्रियाप्रियनिमित्ताध्यारोपस् तव भविष्यतीति सूत्रार्थः. [तिब्. 68ब्] ननु च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्य् एवोक्तानि. न तु न श्रुतानि यावन् न विज्ञातानीत्य् एवोक्तानि. एवं शब्दा न श्रुता इत्य् एवोक्ताः. न तु न दृष्टा
यावन् न विज्ञाता इत्य् उक्ताः. एवं यावद् धर्मा न विज्ञाता इत्य् एवोक्ताः. न तु न दृष्टा यावन् न स्पृष्टा इति. नैष दोषः. उदाहरणरूपम् एतद् उक्तं भगवता. यथा हि रूपाणि न दृष्टानीत्य् उक्तानि. तथा न श्रुतानि. यावन् न विज्ञातानीति वक्तव्यानि. एवं शब्दादिषु वक्तव्यं. तेनैव लक्षणम् उच्यते. यत् पंचभिर् इन्द्रियैर् इति विस्तरः. यत् पंचभिर् इन्द्रियैः प्रत्यक्षं रूपादि तद् दृष्टं. यत् परत आगमितं विषयषट्कं तच् छ्रुतं. यद् युक्त्यनुमानतो रुचितम् अभिप्रेतं तन् मतं युक्त्यनुमानम् इति. अव्यभिचार्यनुमानं. तच् च षड्विषयगोचरं. षष्ठो ऽन्यत्र दृष्टाद् इति. षष्ठो विषयो धर्माः. स दृष्टव्यवहारं वर्जयित्वा त्रिभिः श्रुतादिभिर् व्यवहारैर् व्यवह्रियते. अतो नास्ति गन्धादिषु व्यवहाराभावप्रसंगः. तस्माद् युक्तिर् अप्य् एषा न युक्तिर् भवति. या वैभाषिकैर् [तिब्. 69अ] उक्ताः एवं चानिष्यमाण इत्य् एवमादिका. यस्माद् अन्यथापि गंधादिषु व्यवहारो भवतीति.
यत् प्रत्यक्षीकृतं चक्षुषेति. न पंचभिर् इन्द्रियैः. यच् छ्रोत्रेण श्रुतं परतश् चागमितम् इति उभयम् अप्य् अभीष्टं. प्रत्यात्मं प्रतिसंवेदितं सुखाद्य् असमाहितेन चित्तेन. अधिगतं तु समाहितेन. लौकिकेनैव. न लोकोत्तरेण. लौकिकं व्यवहाराधिकारात्. तद् एवं योगाचारनयेनापि षड् अप्य् एते विषयाः प्रत्येकं यथासंभवं दृष्टा इति वा व्यवह्रियंते. श्रुताः. मताः. विज्ञाता इत्य् एवेत्य् अतो नास्ति गंधादिषु व्यवहाराभावप्रसंग इति.
यः कायेनान्यथेति. कायसंज्ञया यो ऽर्थं गमयति. तस्यापि मृषावादः. पराक्रमेत व्यायच्छेत. वाचा पराक्रमेतेति. वाचा परं मारयेद् इत्य् अर्थः. इह तु प्राणातिपातस्य कायिकत्वात् कायिक्य् एवाविज्ञप्तिर् मौलसंगृहीता. न वाचिकी. नाप्य् अत्र कायिकी विज्ञप्तिः स्यात्. कायेन पराक्रमेतेति. अत्र मृषावादस्य वाचिकत्वाद् वाचिक्य् एवाविज्ञप्तिर् मौलसंगृहीतेत्य् अवगंतव्यं. उभयावद्येन वेति. [तिब्. 69ब्] कायवागवद्येन. ऋषीणां मनःप्रदोषेण कायावद्येन योगो भवति. पोषधनिदर्शनं चात्रेति. वागवद्येन योगो भवति. भिक्षुपोषधे हि कच्चि ऽत्थ परिशुद्धा इति विनयधरेणानुश्राविते. यदि कश्चित् भिक्षुः सतीम् आपत्तिं नाविष्कुर्यात्. तूष्णींभावेनैवाधिवासयेत् स मृषावादी भवेद् इति. कथं तयोः कर्मपथः सिध्यतीति. कथं तयो ऋषिभिक्ष्वोः कायवाग्भ्याम् अपराक्रममाणयोः प्राणातिपातो मृषावादश् च यथाक्रमं कर्मपथः सिध्यतीति. कर्तव्यो ऽत्र यत्नः. वैभाषिकैः कर्तव्यः समाधिर् इत्य् अर्थः. अत्राचार्यसंघभद्रः समाधिम् आह. ऋषयो ऽर्थत आज्ञापयितारो भवंति. तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयम् अवेत्यामनुष्यास् तदभिप्रसन्नाः कायेन पराक्रमंते. येन तेषां ऋषीणां कर्मप्थ उत्पद्यते. कथं. परविज्ञप्त्येति. अवश्यं तथाविधस्य कायवाग्विकारा भवंति. अपि च शपंति ते तथा. तत्र चावश्यं कायवाक्चेष्टया भवितव्यं अन्ये त्व् आहुः. न कामधाताव् अवश्यम् अविज्ञप्तिः सर्वैव विज्ञप्त्यधीना भवति. फलप्राप्त्यैव सह पंचकादीनां प्रातिमोक्षसंवरोत्पत्तिसंभावात्. इत्य् अकुशलाप्य् एवंजातीया काचिद् विज्ञप्तिम् अंतरेणापि स्यात्. पूर्वविज्ञप्तं तैर् इति [तिब्. 70अ] अवश्यम् इतरत्रापि भविष्यति. ऋषीणां तावद् उक्तं पोषधमृषावादे ऽपि. यद् अपरिशुद्धः संघमध्यं प्रविशैत्. निषीदति. स्वम् ईर्यापथंकल्पयति. तत्संबद्धं वा यत्किंचिद् भाषते. सास्य पूर्वविज्ञप्तिर् इति.
(iv.77, 78अब्) सर्वं क्लिष्टं वचनं संभिन्नप्रलाप इति. मृषावादादित्रयम् अपि. न केवलम् अन्यं क्लिष्टं. सैव च संभिन्नप्रलापितेति. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः. तस्य. तदभिधाने त्वतलाव् इति. तत्प्रत्ययेन क्लिष्टवचनलक्षणः संभिन्नप्रलाप उच्यते. तद्योगेन हि. संभिन्नप्रलापयोगेन हि. स पुद्गलः संभिन्नप्रलापी भवति.
मृषावादादित्रयाद् यद् अन्यक्लिष्टं वचनं. स संभिन्नप्रलाप इत्य् उक्त्वोदाहरणं दर्शयन्न् आह.
लपनागीतनाट्यवत् कुशास्त्रवच् चेति.
लपनां करोतीति. लाभयशस्कामतया सेवाभिद्योतिकां वाचं निश्चारयतीत्य् (अभिध्-क्-व्य् 409) अर्थः. परिदेवसंगणिकादिकम् इति. आदिशब्देन परिदेवसंगणिकाभ्यां यो ऽन्यः क्लिष्टचित्तानां कश्चिद् आलापः.
आवाहविवाहाद्यभिलापसद्भावाद् इति. आवाहो दारिकाया दारकगृहागमनं. विवाहो दारकस्य दारिकागृहागमनं. आवाहः प्रवेशनकः. विवाहः परिणयनम् इत्य् अपरे. आदिशब्देन रक्तचित्तानाम् आलापः.
(iv.78च्द्, 79अब्) विषमेणान्यायेनेति. [तिब्. 70ब्] उद्देशनिर्देशरूपौ पर्यायौ.
तथा हीति विस्तरः. यस्मात् पंचानां निवरणानाम् अधिकारेण. कामच्छन्दं कामतृष्णास्वभावम् अधिकृत्योक्तं. सो ऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति. व्यापादं स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सां लोके प्रहाय तीर्णकांक्षो भवति. तीर्णविचिकित्सः. अकथंकथी कुशलेषु धर्मेषु. स पंच निवरणानि प्रहायेत्य् एवमादि. अतो ज्ञायते सर्वैव कामावचरी तृष्णाभिध्येति.
औदारिकदुश्चरितसंग्रहाद् इति. दशस्व् अकुशलेषु कर्मपथेषु यद् औदारिकम् दुश्चरितं. तत् संगृहीतं. न सर्वम्. एवं कुशलेषु. अतो न सर्वाभिध्या कर्मपथः. किं तर्हि. या परस्वे विषमस्पृहा. सा कर्मपथ इत्य् अपरेषाम् अभिप्रायः. मा भूच् चक्रवर्तिनां उत्तरकौरवाणां चाभिध्या कर्मपथ इति. न हि तत्र कामावचरी तृष्णा नास्ति. न च तत्राकुशलाः कर्मपथा इष्यंते.
सैषा साकल्येन कर्मफलार्यापवादिकेति. तथा ह्य् एषा पठ्यते. नास्ति दत्तम्. नास्तीष्टं. नास्ति हुतं. नास्ति सुचरितं. नास्ति दुश्चरितं. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. नास्ति माता. [तिब्. 71अ] नास्ति पिता. नास्ति सत्त्व
उपपादुकः. न संति लोके ऽर्हंत इति. तत्र नास्ति दत्तं. यावन् नास्ति दुष्चरितम् इति कर्मापवादिका. तथा नास्ति माता. नास्ति पितेति कर्मापवादिकैव. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. तथा नास्ति सत्त्व उपपादुक इति फलापवादिका. न संति लोके ऽर्हंत इत्य् आर्यापवादिका. आदिमात्रं तु श्लोके दर्शितम् इति.
नास्तिदृष्टिः शुभशुभ
इति उदाहरणमात्रत्वात्.
(iv.79च्द्) कर्मणः पंथान इति. चेतनाख्यस्य कर्मणः पंथानः. कथम् इत्य् आह. तत्संप्रयोगिणी हि चेतना. अभिध्यादिसंप्रयोगिणी तेषाम् अभिध्यादीनां वाहेन गत्या वहति. गच्छतीत्य् अर्थः. तद्वशेन तथाभिसंस्करणात्. यस्माद् अभिध्यादीनां यथाक्रमं सक्तिप्रतिकूलमिथ्यानितीरणाकाराणां (अभिध्-क्-व्य् 410) वशेन. तदनुरूपा चेतनाभिसंस्करोति. चेतयत इत्य् अर्थः. अतस् तेषां वाहेन वहति. कर्म च. कायवाक्कर्मस्वभावत्वात्. कर्मणश् च चेतनाख्यस्य पंथान इति कर्मपथाः. तत्समुत्थानचेतनायाः [तिब्. 71ब्] कायवाक्कर्मसमुत्थानचेतनायाः. तान् अधिष्ठाय तान् प्राणातिपातादीन् अधिष्ठाय प्रवृत्तेः. असरूपाणाम् अप्य् एकशेषसिद्धेर् इति. शब्दसरूपाणाम् अर्थसरूपाणां वा एकशेष इष्यते. यथा वृक्षश् च वृक्षश् च वृक्षौ. वक्रष् च कुटिलश् च वक्राव् इति. इह तु कर्म च कर्मपथाश् चेति न कर्मशब्दस्य कर्मपथशब्दस्य च सारूप्यं शब्दतः नाप्य् अर्थतः. कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वाद् एकशेषो न प्राप्नोति. यस्मात् त्व् असरूपाणां साकल्येनैकदेशेन तु सरूपाणाम् एकशेषः सिध्यति. इष्यत इत्य् अर्थः. तद्यथा गुणो यङ्लुकोर् इति. यङ् च यङ्लुक् यङ्लुकौ. तयोर् इति. न शक्यते वक्तुं. यङ् च लुक् च यङ्लुकाव् इति अयं लुको ऽनिष्टत्वात्. एकदेशसारूप्यात् तु. यङो यङ्लुगेकदेशस्य च यङ् इति सारूप्यात् सिध्यत्य् एकशेषो यङ्लुकोर् इति. अतो ज्ञापकाद् अयम् अपि सिध्यति. कर्म च कर्मपथाश् च कर्मपथा इति. पश्चात् पुनः सरूपैकशेषः. कर्मपथाश् चाभिध्यः कर्मपथाश् च प्राणातिपातादय इति कर्मपथाः. अथ वैवं योजना. कर्मणः पंथानः कर्मपथाः. कर्म च ते कर्मपथाश् च कर्मकर्मपथाः. कर्मपथाश् चाभिध्यादयः. कर्मकर्मपथाश् च प्राणातिपातादयः. [तिब्. 72अ] कर्मपथा इति. एवम् अनभिध्यादय इति विस्तरः. कुशला अपि कर्मपथा एवम् एव योज्याः. अनभिध्यादयो हि कर्मणः पंथान एव. प्राणातिपातविरत्यादयश् च कर्म च कर्मणश् च पंथान इति.
यस्मात् तदर्थ इति विस्तरः यस्मान् मौलकर्मपथार्थं तेषं तत्प्रयोगाणां प्रवृत्तिः. यस्माच् च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः. अतो न तानि कर्मपथाः. यद्य् अपि कर्मपथो ऽपि कर्मपथस्य प्रयोग उक्तः. स तु मौलत्वात् कर्मपथः. न तु प्रयोगपृष्ठभूतत्वाद् इति. यथौदारिकसंग्रहाद् इत्य् उक्तं प्राग् इति.
तदौदारिकसंग्रहाद् दशकर्मपथा उक्ता
इति वचनात्. यानि प्रयोगपृष्ठानि. तानि न संगृहीतानि. येषां चेति विस्तरः. येषां मौलानाम् उत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानाम् उत्कर्षाप्कर्षौ लोके भवतः. न तु प्रयोगपृष्ठानां. अतस् त एव कर्मपथाः. तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षं वक्ष्यति.
सर्वे ऽधिपतिनिष्यन्दविपाकफलदामता
इत्य् अत्र. अतो न तानि प्रयोगपृष्ठानि कर्मपथाः.
तेषां ते कथं कर्मपथा इति. न हि तेषाम् अभिध्यादिभ्यो ऽन्यन् मनस्कर्मास्ति चेतना. यस्य कर्मणस् ते ऽभिध्यादयः पंथान इति कर्मपथाः स्युः. [तिब्. 72ब्] त एव प्रष्टव्या इति. तैर् एव परिहारो वक्तव्यः. य एवं मन्यंते. अपि तु शक्यम् इति विस्तरः. स्वमतेन तत्पक्षं समर्थयति. इतरेतरावाहनाद् वेति. किं. ते ऽभिध्यादयः कर्मपथा इति प्रकृतं. अभिध्या व्यापादमिथ्यादृष्टी आवाहयति. ते च ताम् इति. कर्म च ते. कर्मणश् चैषाम् एकतरस्य पन्थान इति कर्मपथाः.
(iv.80, 81) मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्य् एतम् अर्थं वक्तुकाम उपोद्घातं ब्रवीति. सर्व एते ऽकुशलानाम् इति विस्तरः. अधिमात्रपरिपूर्णयेति. अधिमात्राधिमात्रयेत्य् अर्थः. किं तर्हि शास्त्र उक्तम् इति. यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशलमूलैः. यत् तच् छास्त्र उक्तं. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि. तानि हि लोभादिस्वभावानि. न मिथ्यादृष्टिस्वभावानीत्य् अर्थः. अकुशलमूलाध्याहृतत्वाद् इति विस्तरः. अकुशलमूलैर् लोभादिभिर् अधिमात्रैर् मिथ्यादृष्टिर् अध्याहृतापनीता. तस्मात्. अकुशलमूलाध्याहृतत्वान् मिथ्यादृष्टेः. तेष्व् एव तत्कर्मोपदेशः. तेष्व् एवाकुशलमूलेषु. मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म. तस्योपदेशः [तिब्. 73अ].
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते. यदि कामावचराणि कुशलमूलानि समुच्छिद्यंते. रूपारूप्यावचरैर् असमन्वागतत्वाद् इति वर्ण्यंते. तत्प्राप्तिदूरीकरंअम् इति. रूपारूप्यावचराणां प्राप्तेर् दूरीकरणम् अभिप्रेत्य तस्य पुद्गलस्य. एतद् उक्तं त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति. कथं च पुनस् तत्प्राप्तिदूरीकरणं. संततेस् तदभाजनत्वापादनात्. यस्माद् असौ तत्संततिः पूर्वं भाजनभूता तत्प्राप्तीनां. कुशलमूलसमुच्छेदाद् इदानीं तत्प्राप्तीनाम् अभाजनम् आपादितेति. अतस् तत्प्राप्तिर् दूरीकृता भवति.
प्रायोगिकेभ्यः पूर्वं परिहीणत्वाद् इति. श्रुतचिंताभावनामयेभ्यः प्रायोगिकेभ्यः पूर्वम् एवासौ मृदुमृद्व्यवस्थायां तेभ्यः परिहीणः. तदैव तस्य प्राप्तिच्छेद इत्य् अर्थः.
आनंतर्यविमुक्तिमार्गस्थानीये इति. हेत्वपवादिनी आनंतर्यमार्गस्थानीया. फलापवादिनी विमुक्तिमार्गस्थानीया. तद् उक्तं भवति. उभे अप्य् एते हेतुफलापवादिन्यौ मिथ्यादृष्टी कुशलसमुच्छेदे व्याप्रियेते. नैकैवेति.
अपरः पक्षः सास्रवालंबनयैवेति. दुःखसमुदयालंबनया. नानास्रवालंबनया ऽनिरोधमार्गालंबनयेत्य् [तिब्. 73ब्] अर्थः. सभागधात्वालंबनयैव (अभिध्-क्-व्य् 412) चेति. कामधात्वालंबनयैवेत्य् अर्थः. न विसभागधात्वालंबनया न रूपारूप्यधात्वालंबनया. कुशलमूलानि समुच्छिद्यंत इत्य् अधिकृतं कस्माद् इत्य् आह. संप्रयोगमात्रानुशायित्वेन दुर्बलत्वाद् इति. अनास्रवालंबना विसभागधात्वालंबना च या मिथ्यादृष्टिः. सा संप्रयोगमात्रेण संप्रयुक्तेषु धर्मेष्व् अनुशेते नालंबनतः. तस्माद् असौ दुर्बला भवति. अतो न तया समुच्छिद्यंते.
एवं तु वर्णयंति वैभाषिकाः. सर्वयेति. या च हेतुम् अपवदते या च फलं. या च सभागं धातुम् आलंबते या च विसभागं. या च सास्रवं या चानास्रवम् आलंबते. सर्वयैव तया समुच्छिद्यंते.
दर्शनप्रहातव्या इवेति. यथा दुःखादिदर्शनहेयाः क्लेशा नव प्रकारा अपि दुःखादिसत्यदर्शनात् सकृत् प्रहीयंते. तद्वन् नव प्रकाराण्य् अपि कुशलमूलानि सकृत् समुच्छिद्यंत इत्य् एते.
भावनाहेयक्लेशवद् इति. यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः प्रहीयते. मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते. यावद् [तिब्. 74अ] अधिमात्राधिमात्रेण मृदुमृदुः. एवं नवप्रकारयापि मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यंते. ऋदुमृद्व्या मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः समुच्छिद्यते. यावद् अधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति. एवम् अयं ग्रंथः परिपालितो भवति. यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यंते. अणुसहगतानि मृदुमृदूनि. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति. अधिमात्राधिमात्रैर् अकुशलमूलैः कुशलमूलसमुच्छेद उक्तः. न मृदुमृद्वादिभिर् इत्य् अभिप्रायः. यदि क्रमशः समुच्छिद्यंते ऽस्य तर्हीत्यादि. कथं. समाप्तिम् एतत् संधायोक्तम् इति. कुशलमूलसमुच्छेदसमाप्तिं संधाय कतमान्य् अधिमात्राणीति विस्तरेण एतद् उक्तं. मृदुमृद्वादिसमुच्छेदस् त्व् अनुक्तो ऽपि ग्रहीतव्यः. तस्मात् समाप्तिम् एव संधायैतद् उक्तं. तैर् निरवशेषच्छेदात्. यस्मात् तैर् नवभिर् मिथ्यादृष्टिप्रकारैः कुशलमूलानां निरवशेषच्छेदो भवति. एको ऽपि हि प्रकारस् तेषाम् असमुच्छिन्न इति. मृदुमृदुनवमः प्रकारः सर्वेषां नवानाम् अपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्याद् इति. अतः समाप्तिम् एतत् संधायोक्तं.
उभयेनेति. व्युत्थानेन चाव्युत्थानेन च.
तत्त्यागात् [तिब्. 74ब्] तस्य त्याग इति. यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्. तस्य मृदुमृदोश् चित्तस्य मृदुमृदुकुशलमूलसंप्रयुक्तस्य (अभिध्-क्-व्य् 413) त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति. एवं यावद् यो ऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः. तत्त्यागात् तस्य त्याग इति.
कर्मफले प्रत्यक्षत्वाद् इति. अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि समुदाचरंति. कुतो ऽहं च्युतः. कुत्रोपपन्नः. केन कर्मणेत्य् एवं कर्मफलप्रत्यक्षत्वान् न देवेषु कुशलमूलानि समुच्छिद्यंते. जंबूद्वीप एवेति. तत्र विशेषेण तार्किकत्वाद् इत्य् अभिप्रायः. सर्वाल्पैर् अष्टाभिर् इन्द्रियैः समन्वागतः पंचभिर् वेदनेन्द्रियैः कायजीवितमनैन्द्रियैश् च. समुच्छिन्नकुशलमूल एव. तस्य हि श्रद्धादीनि समुच्छिन्नानि. पृथग्जनत्वाच् च नाज्ञास्यामीन्द्रियादीनि संति. चक्षुरादीन्य् अपि न संति. वैकल्ययोगे. क्रममरणावस्थायां वा. एवं पौर्वविदेहको गौदानीयक इति. अतिदेशाद् अस्त्य् अनयोर् अपि कुशलमूलसमुच्छेद इति दर्शयति.
छिनत्ति स्त्री पुमान्
इति. स्त्री पुमांश् चेति चशब्दो लुप्तनिर्दिष्टः. यः स्त्रीन्द्रियेण समन्वागतो नियतम् असाव् अष्टाभिर् इन्द्रियैः समन्वागतः. चतुर्भिर् वेदनेन्द्रियैस् त्रिभिश् च कायजीवितमनैन्द्रियैः [तिब्. 75अ] स्त्रीन्द्रियेणाष्टमेन. श्रद्धादीनि समुच्छिन्नकुशलमूलावस्थायां व्यभिचार्यंत इत्य् अभिप्रायः. अयम् एव चात्रार्थो विरुध्यते. चक्षुरादीन्य् अपि व्यभिचार्यंते पूर्ववत्.
तेषाम् अपीति. तेषाम् अपि समुच्छेत्तॄणाम् उक्तानां. तृष्णाचरितो न समुच्छिनत्ति. दृढगूढपापाशयत्वाद् इति. दृढो गूढः पापश् चाशयो ऽभिप्रायो ऽस्येति समासः. दृढः स्थिरः. गूढः प्रच्छन्नः. पापो ऽकल्याणः. तृष्णाचरितपक्षत्वाद् इति. तृष्णाचरितजातीयत्वाद् इत्य् अर्थः. यथा तृष्णाचरितश् चलाशयः. तद्वत् ते षण्ढादय इति. आपायिकवच् च. यथापायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोर् अदृढत्वान् न कुशलमूलानि समुच्छिन्दंति. एवं षण्धादयः.
प्रतिसंधितानीति. प्रतिसंधिकृतानि प्रतिसंधितानि. प्रातिपदिकधातुः. प्रतिसंहितानीत्य् अपरे पठंति. आरोग्यबललाभवद् इति. यथारोग्यं पूर्वं भवति. क्रमेण तु बललाभो भवति. तद्वत्.
नेहानंतर्यकारिण
इति. आनंतर्यकारिण एव नेह प्रतिसंधिर् भवतीति. अर्थत एतद् उक्तं भवत्य् अनानंतर्यकारिण इह प्रतिसंधिर् भवतीति. अंतराभवस्थ इति. नरकगमनायांतराभवस्थः. च्युत्यभिमुख इति. [तिब्. 75ब्] नरकाच् च्युत्यभिमुखः. हेतुबलेनेति. सभागहेतुबलेन. यस्माद् येषां मिथ्यादृष्टिः स्वयं रोचते. प्रत्ययबलेनेति. परतो घोषबलेन. यस्माद् येषां मिथ्यादृष्टी रोचते. हेतुबलस्य सारत्वात्. एवं यः स्वबलेनेति. यः स्वतर्कबलेन. स च्यवमानः. यः परबलेन. परतः श्रुतबलेन. स उपपद्यमानः. (अभिध्-क्-व्य् 414) य आशयविपन्न इति. मिथ्यादृष्टिसंमुखीभावेन विपन्नो विनष्टः. स दृष्टे धर्मे जन्मनि प्रतिसंदधाति. य आशयप्रयोगविपन्नः. यो मिथ्यादृष्टिसंमुखीभावेनानंतर्यकृइयया च विपन्नः. स भेदात् कायस्य प्रतिसंदधाति. अत्र च यः स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः. एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति. अनंतरपूर्वोक्तस्यैवायं पर्याय इत्य् अवगंतव्यं.
पूरणादय इति. आदिशब्देन षट् शास्तारो गृह्यंते. तद्यथा पूरणकाश्यपः. मस्करी गोशालीपुत्रः. संजयी वैरटीपुत्रः. अजितः केशकंबलः. ककुदः कात्यायनः. निर्ग्रन्थो ज्ञातिपुत्र इति. ते समुच्छिन्नकुशलमूलाः. नास्तिकत्वात्. न मिथ्यात्वनियताः. अनानंतर्यकारित्वात्. [तिब्. 76अ] आनंतर्यकारिणो हि मिथ्यात्वनियताः अजातशत्रुर् मिथ्यात्वनियतः. आनंतर्यकारित्वात्. न समुच्छिन्नकुशलमूलः. सम्यग्दृष्टिकत्वात्. देवदत्तः समुच्छिन्नकुशलमूलश् च मिथ्यात्वनियतश् च. संघभेदकत्वात् तथागतदुष्टचित्तरुधिरोत्पादकत्वाच् च. चतुर्थ्य् एतान् आकारान् स्थापयित्वेत्य् अस्मदादयः.
(iv.82) विनान्येनाभिध्यादीसंमुखीभाव इति. विनान्येन कर्मपथेन प्राणातिपातादिनाभिध्यादीनाम् अन्यतमसंमुखीभावे. सा चेतना एकेन कर्मपथेन सह वर्तते. अभिध्यया वा व्यापादेन वा मिथ्यादृष्ट्या वा. अक्लिष्टचेतसो वेति. कुशलाव्याकृतचित्तस्य. तस्य प्रयोक्तुः प्रयोगेण. रूपिणां प्राणातिपातादीनां काममिथ्याचारवर्ज्यानं अन्यतमस्य निष्ठापने. तेनैकेन सह चेतना वर्तते. अभिध्यादिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यं. तस्यापि ह्य् अयं अयं विधिः संभवति. व्यापन्नचित्तस्य प्राणिवध इति विस्तरः. व्यापादेन प्राणातिपातेन चेति द्वाभ्यां सह वर्तते. काममिथ्याचारे. संभिन्नप्रलापे च. द्वाभ्यां सह वर्तते. अभिध्यया काममिथ्याचारेण चेति द्वाभ्यां. संभिन्नप्रलापेनाभिध्यादीनां चान्यतमेन चेति. [तिब्. 76ब्] द्वाभ्याम् एव. इदं चोद्यते. व्यापन्नचित्तस्य प्राणिवध इत्य् अभिध्याविष्टस्य चादत्तादान इति. किम् इदं स्वयं कुर्वत उच्यते. उताहो परेण काऋअयतः. यदि स्वयं कुर्वतः. व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते. प्राणिवधे व्यापादस्यावश्यकत्वात्. अदत्तादाने चाभिध्यायाः. व्यभिचारे हि विशेषणम् इष्यते. अथ परेण कारयतः. अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य. प्राणिवधे. अदत्तादानकाममिथ्याचारसंभिन्नप्रलापेषु वेति वक्तव्यं. उच्यते स्वयं कुर्वत इति. ननु चोक्तं विशेषणं न युज्यत इति. नैष दोषः. न हीदं विशेषणम् उच्यते. किं तर्हि. स्वरूपाख्यानम् एतत्. व्यापादाभिध्ययोर् द्वितीयभूतयोस् तत्रास्तित्वं कथ्यत इति. एवम् अप्य् अभिध्याद्यन्यतरचित्तस्य तान् प्राणातिपातादीन् कारयतो (अभिध्-क्-व्य् 415) द्वाभ्यां सह चेतना वर्तत
इति संभवेत्. तस्मात् तद् अपि वक्तव्यं. सत्यं वक्तव्यम् एतत्. उदाहरणमात्रं त्व् एतद् उक्तम् इत्य् अदोषः. व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपद् इति. यत्र मारणेनैवापहरणं सिध्यति. तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपत् भवंतीति. न तर्हीति विस्तरः. यदि [तिब्. 77अ] परकीयद्रव्यापहरणकाले व्यापादो ब्व्हवति. न तर्हीदानीम् अदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति. लोभद्वेषयोर् युगपदभावात्. अनन्यचित्तस्येति विस्तरः. अपहरणचित्तस्यैव तत्परिसमाप्ताव् अदत्तादानपरिसमाप्तौ स नियमो ज्ञेयः.
लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम्
इति. अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः. भेदाभिप्रायस्यानृतवचन इति. भेदाभिप्रायत्वात् तद् एवानृतं पैशुन्यं भवति. तद् एव संभिन्नप्रलापः.
सर्वं क्लिष्टं भिन्नप्रलापितेति
सिद्धांतात्. एवं भेदाभिप्रायत्वात् तद् एव परुषवचनं पैशुन्यं. तथैव च संभिन्नप्रलाप इति. चतुर्भिः सह वर्तते. कथम् इत्य् आह. तत्र् हि मानस एको भवति. वाचिकास् त्रय इति. अनृतवचने ऽभिध्या व्यापादो वा भवेत्. वाचिकास् त्रयः. मृषावादपैशुन्यसंभिन्नप्रलापाः. परुषवचने ऽपि मानस एको व्यापादः. वाचिकास् त्रयः. पारुष्यपैशुन्यसंभिन्नप्रलापाः. नामत एवं त्रयो भवति. न तु स्वभावतः. तद् एव ह्य् अनृतवचनं पैशुन्यं संभिन्नप्रलाप इति चोच्यते. न तु त्रयः स्वभावा भवंति. एवं परुषवचनम् अपि त्रिनामकं भवतीति योज्यं. अपरे पुनर् व्याचक्षते. स्वभावभेदो ऽप्य् अस्तीति. मृषावादपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो हि भिद्यंते. तथा पारुष्यपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो भिद्यंत इति. [तिब्. 77ब्] अभिध्यादिगतस्येति विस्तरः. अभिध्यादिगतस्य वा चतुर्भिः सह वर्तते. तत्र मानस एको ऽभिध्यादीनाम् अन्यतमः. तत्प्रयोगेणाभिध्यादिगतप्रयोगेणान्यकर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले. एवं पंचषट्सप्तभिर् योजयितव्या. का. चेतना. कथं. पंचभिस् तावत् वर्तते. अभिध्यादिगतस्य तत्प्रयोगेणान्यचतुष्टयनिष्ठागमने. एवम् अभिध्यादिगतस्यान्यपंचषट्निष्ठागमने षड्भिः सप्तभिश् च सह वर्तते. अष्टाभिः सह वर्तते. षट्सु प्राणातिपातादिषु प्रयोगं कृत्वाभिध्यागतस्य स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने. नवभिः सह वर्तत इति नास्त्य् एतत्. मानसानां कर्मपथानां (अभिध्-क्-व्य् 416) युगपदसंभवात्.
नैकाष्टपंचभिर्
इति. नैकेनैव मानसेन. कुशले चेतस्य अनभिध्याव्यापादयोर् अवश्यं भावात्. नापि रूपीनैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना वर्तते. क्लिष्टाव्याकृतचित्तावस्थायाम् अपि उपासकसंवरादिषु प्राणातिपातादत्तादानकाममिथ्याचारमृषावादानाम् अवश्यं सहभावात्. न पंचभिर् एव. कुशले चेतस्य् अन्भिध्याव्यापादयोर् द्वयोर् अवश्यं सहभावात्. संवरसंगृहीतानां च प्राणातिपातादीनाम् [तिब्. 78अ] एषां चतुर्णां अवश्यं सहभावात्. नाष्टाभिर् एव. भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानाम् एव संभवात्. कुशलचित्तावस्थायां च नवानां दशानां वा संभवात्. पारिशेष्यात् द्व्यादिभिः सह वर्तत इत्य् उक्तं भवति. तत्र द्वाभ्याम् इति विस्तरः. तत्र द्वाभ्यां सह वर्तते. कुशलेषु पंचसु विज्ञानेष्व् अनभिध्या चाव्यापादश् च स्तः न सम्यग्दृष्टिः.
पंचविज्ञानसहजा धीर् न दृष्टिर् अतीऋअणाद्
इति सिद्धांतात्. अतो ऽनभिध्याव्याप्दाभ्यां द्वाभ्याम् एवात्र सह वर्तते. आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोर् इति. आरूप्यसमापत्तिसंगृहीतयोश् च क्षयानुत्पादज्ञानयोर् आभ्याम् एव द्वाभ्यां सह वर्तते.
क्षयानुत्पादधीर् न दृग्
इति तत्र सम्यग्दृष्ट्यभावात्. आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थं. क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थं. क्षयानुत्पादज्ञानयोर् असम्यग्दृष्टिस्वभावत्वात्. त्रिभिः सह वर्तते. सम्यग्दृष्टिसंप्रयुक्ते [तिब्. 78ब्] मनोविज्ञाने. रूपिकर्मपथाभाव इति वाक्यशेषः. तत्र ह्य् अनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवंतीति. चतुर्भिर् इति विस्तरः. अकुशलाव्याकृतचित्तस्येति विशेषणान् मानसा न संतीति दशितं भवति. उपासकश्रामणेरसंवरसमादाने च. प्राणातिपातादत्तादानकाममिथ्याचारमृषावादविरतिलक्षणाश् चत्वार एव कर्मपथाः संति. मद्यपानादिविरतीनां दशकर्मपथानंतर्भावात्. पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरसंग्रहात्. श्रामणेरसंवरसमादानवचनाच् चोपवाससंवरसमादानम् उक्तरूपम् अवगंतव्यं. श्रामणेरसंवरसमादाने त्व् अब्रह्मचर्याद् विरतिस् तृतीयः कर्मपथः. तत्र च काममिथ्याचारो ऽंतर्भूत एव. षड्भिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने. उपासकश्रामणेरसंवरसमादाने तैश् चतुर्भिर् यथोक्तैर् (अभिध्-क्-व्य् 417) अनभिध्याव्यापादाभ्यां चेति षड्भिः. पंचसु विज्ञानेषु सम्यग्दृष्ट्यभावात्. सप्तभिः कुशले मनोविज्ञाने तद्समादान एव. उपासकश्रामणेरसंवरसमादान एव तैर् एव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन. मनोविज्ञाने हि कुशले सम्यग्दृष्टिर् [तिब्. 79अ] अस्तीति. अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने सप्तभिर् एव रूपिभिः. न मानसैः. अकुशलाव्याकृतचित्तत्वात्. नवभिः कुशलेषु पंचसु
विज्ञानेषु तत्समादाने. भिक्षुसंवरसमादाने. सम्यग्दृष्टेर् एवाभावात्. क्षयानुत्पादज्नानसंप्रयुक्ते च मनोविज्ञाने तैर् एव नवभिः सह वर्तते. तत्रापि सम्यग्दृष्ट्यभावात्. तस्मिन्न् एव चेति. क्षयानुत्पादज्ञानसंप्रयुक्त एव ध्यानसंगृहीते मनोविज्ञाने. नवभिर् एव. ध्यानसंवरसंगृहीतै रूपिभिः सप्तभिर् अनभिध्याव्यापादाभ्यां च. दशभिस् ततो ऽन्यत्रेति. क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव. सर्वा चेति विस्तरः. सर्वा च ध्यानानास्रवसंवरसहवर्तिनी क्षयानुत्पादज्ञानसंप्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर् ध्यानानास्रवसंवरसंगृहीतैः. त्रिभिश् च मानसैर् इति. दशभिः सह वर्तते. संवरसंगृहीतैः कर्मपथैः सहैव चेतना [तिब्. 79ब्] वर्तत इति दर्शितं.
संवरनिर्मुक्तेन त्व् अष्टविधसंवरनिर्मुक्तेन त्व् एकेनापि सह स्यात्. कथम् इत्य् आह. अन्यचित्तस्येति. तत्संवरनिर्मुक्तनिर्मुक्तकुशलकर्मपथसमुत्थापकाच् चित्ताद् अन्यचित्तस्य. क्लिष्टाव्याकृतचित्तस्येत्य् अर्थः. एकांगविरतिसमादाने. प्राणातिपातांगविरतेः. अदत्तादानविरतेर् वा समादाने. तेनैकेन कर्मपथेन सह वर्तते. पंचाष्टभिर् अपीति. कुशलमनोविज्ञानस्य पुद्गलस्य द्व्यंगसमादाने युगपन् मानसैस् त्रिभिः. रूपिभ्यां द्वाभ्याम् इति पंचभिः. पंचांगसमादाने युगपत् तैश् च रूपिभिः पंचभिः. मानसैश् च त्रिभिर् इत्य् अष्टाभिः. उदाहरणरूपं चैतद् उक्तम्. अतो ऽन्यथापि शक्यते वक्तुम्. क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपंचांगसमादाने पंचभिः सह वर्तत इति.
(iv.83, 85) रंजनीयवस्त्वभावाद् इति. नरके रंजनीयवस्त्वभावात् न संमुखीभावतो ऽभिध्यास्ति. कर्मफलप्रत्यक्षत्वाच् च न मिथ्यादृष्टिः. अत एवेति. प्रयोजनाभावान् न पैशुन्यं. नित्यभिन्नत्वाच् चान्योन्यसौहार्द्याद्यभावतः. अममपरिग्रहत्वान् न कुरौ [तिब्. 80अ] संमुखीभावतो ऽस्त्य् अभिध्याकर्मपथः. स्निग्धसंतानत्वाद् आघातवस्त्वभावाच् च न व्यापादः. अपापाशयत्वाच् च न मिथ्यादृष्टिः. त्रयो ऽप्य् एते ऽभिध्यादयो न संति.
स्वयम् अपीति.
अस्य संमुखीभावत इति व्याख्यानं. अपापाशयत्वान् न प्राणातिपातादयः षड् अपि संमुखीभावतः संति. नियतायुष्कत्वान् न प्राणातिपातः द्रव्यस्तृइपरिग्रहाभावाद् यथाक्रमं नादत्तादानं काममिथ्याचारश् च. प्रयोजनभावाच् च न मृषावादपैशुन्यपारुष्याणि.
यदि परिग्रहो नास्ति कथम् एषाम् अब्रह्मचर्यम् इति पृच्छति.
संवरनिर्मुक्ता इति. नैवसंवरनासंवरसंगृहीता इत्य् अर्थः. अन्यगतिस्थं तु मारयतीति. प्रेतादिगतिस्थं.
देवा अपि शिरोमध्यच्छेदान् म्रियंत इति. शिरश्छेदान् मध्यच्छेदाच् च देवा अपि म्रियंते. देवो देवं न मारयतीत्य् उक्ते अवध्या देवा इत्य् अभिप्रेतं. देवानां ह्य् अंगप्रत्यंगानि छिन्नानि छिन्नानि पुनर् जायंते. यद्य् अप्य् एवं तथापि शिरोमध्यच्छेदाच् छिरश्छेदान् मध्यच्छेदाच् च न पुनः प्रतिसंधानम् इत्य् अस्ति देवानाम् वध इत्य् अभिप्रायः.
यद्भूम्याश्रयम् इति विस्तरः. पंच भूमयः. यावाच् चतुर्थध्यानभूमिं. यद्भूमिर् आश्रयो ऽस्येति यद्भूम्याश्रयम्. अनास्रवं शीलम् आर्येणोत्पादितं [तिब्. 80ब्] निरोधितम्. उत्पादितं वर्तमानम् अध्वानं गमितं. निरोधितम् अतीतम् अध्वानं गमितम्. एकभूम्याश्रयं यावच् चतुर्भूम्याश्रयं वा. तेनारूप्येष्व् अतीतेन समन्वागतो भवति. पंचभूम्याश्रयेण त्व् अनागतेन. कामावचराश्रयेण यावच् चतुर्थध्यानाश्रयेण च. यत्रोपपन्नो यत्र वा नोपपन्नः. तदाश्रयेण. अन्यत्र नरकोत्तरकुरुभ्य इति. तत्र समादानशीलाभावात्. अन्यत्रोभयथेति. अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषूभयथा. संवरनिर्मुक्ताः संवरसंगृहीतश् च. त्रिविधः संवरः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च यथासंभवं ग्रहीतव्यः.
(iv.86) आसेवितभावितबहुलीकृतैर् इति. प्रयोगमौलपृष्ठावस्थासु. किं तर्हि. तेनाल्पायुर् भवतीति. आयुषो ऽल्पत्वान् निष्यन्दफलम् इति दर्शयति. बाह्या भावाः. ओषधिभूम्यादयः. अल्पौजसो ऽल्पवीर्यः. अशनिरजोबहुला इति. अशनिः शिलावर्षं. रजो धूलिवृष्टिः क्षारवृष्टिर् वा. यतः सस्यादिविनाशः. रजोऽवकीर्णा इति धूलिर् उत्थिता. उत्कूलनिकालाः उन्नतनिम्नाः. ऊषरजंगलाः. ऊषराश् च जंगलाश् च ते. बाह्या भावा इत्य् अधिकृताः. ता भूमय इहाभिप्रेताः. प्रतिक्रुष्टा विगर्हिताः. विषमर्तुपरिणामा इति विषम ऋतुपरिणाम एषाम् इति विषमर्तुपरिणामाः [तिब् 81अ] सस्यादय ओषधयः. यस्मिन् ऋतौ वर्षितव्यं. तत्र न वर्षति. यस्मिं शीतेन भवितव्यं. तस्मिन् न शीतं. यस्मिन्न् उष्णेन भवितव्यं. तत्र तन् न भवतीति योज्यं.
तद् विपाकफलम् इति सत्त्वसंताने. इदं निष्यन्दफलम् इति बाह्यं (अभिध्-क्-व्य् 419) तद् वस्त्व् इति. न तद् विपाकफलं.
तत्र प्रयोगेणेति विस्तरः. नरके प्राणातिपातप्रयोगेण तीव्रं दुःखम् अनुभवति. प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनो ऽतीवतीव्रं दुःखं भवति. इह मौलेनाल्पायुर् भवति. यथा तस्य वध्यस्य प्राणिन आयुर् उपद्रूयत इति. तादृशम् एवैतत्. क्षणिको हि मौलः कर्मपथः. तत्र च न दुःखा वेदनास्तीति युक्तम् इह मौलेनेति वक्तुं. आह. यदि तत्र प्रयोगेणेह मौलेन. कस्माद् एवम् उक्तं. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते. प्राणातिपातेन मौलेनेति सूत्रार्थं पश्यन्न् एवं पृच्छति. सपरिवारग्रहणाद् इति. मौल एव प्राणातिपातः. तस्य प्रयोगः परिवारः. तस्मिं प्रयोगे प्राणातिपातोपचारं कृत्वैवम् उक्तं प्राणातिपातेनेति विस्तरः.
नैतद् द्वयम् अतिवर्तते. विपाकफलम् अधिपतिफलं चेति. स्वसंताने विपाकफलम् अन्यत्राधिपतिफलम् इति कृत्वा. सादृश्यविशेषत् तु तथोक्तम् इति. इष्टजीवितोपच्छेदभोगव्यसनादिलक्षणात् [तिब्. 81ब्] सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर् भवत्य् अदत्तादानेन भोगव्यसनी भवतीति विस्तरेण. भवति ह्य् अत्र हेतुविपाकफलयोः सादृशम् इति. एवं कुशलेष्व् अपि वक्तव्यं. निष्यन्दफलं फलद्वयं नातिवर्तते. सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातविरत्या दीर्घायुर् भवतीति विस्तरेण.
ओजो नाशितम्
इति. ओजो हृदयप्रदेशे भवति. एवम् अन्येषाम् अपि योज्यम् इति. अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखम् उत्पादितं. भोगव्यसनं कृतं. ओजो नाशितम्. अतो ऽस्य दुःखनाद् भोगत्याजनाद् ओजोनाशनाच् च त्रिविधं फलं. कथम् ओजो नाशितं. तद्धेतुनाशनात्. भोगव्यसनेन च तस्योपघातात्. अत एवोक्तं. अदत्तादानेनाशनिरजोबहुला इति. तेन तदोजसः सोपघातता भवतीति. एवं परदारम् अभिगच्छता परस्य दुःखम् उत्पादितं. स सपत्नदारता कृता. ओजो नाशितं. येनौजसा तेजस्वीति लोके निरुच्यते. अत एवोक्तं. काममिथ्याचारेण रजोऽवकीर्णा इति. एवम् अन्येषाम् अपि योज्यम्. एषा दिक्.
अकुशलविपर्ययेण सर्वं योजयितव्यम् इति. कथं. अदत्तादानविरत्यासेवितया [तिब्. 82अ] भावितया बहुलीकृतया देवेषूपपद्यते. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां स न भोगव्यसनी भवतीति. एवं काममिथ्याचारविरत्यासेवितया भावितयेति विस्तरेणोक्त्वा. यावन् मनुष्याणां (अभिध्-क्-व्य् 420) सभागतां नाभ्याख्यानबहुलो भवतीति. अनया दिशा सर्वं योजयितव्यं. प्राणातिपाताद् विरमता परस्य दुःखं नोत्पादितं. न मारितः. नौजो नाशितम्. इत्य् अतस् त्रिविधं फलं. एवम् अदत्तादानात् प्रतिविरमता नार्थस्वामिनो दुःखम् उत्पादितं. न भोगव्यसनं कृतं. नौजो नाशितम्. अतो ऽस्य त्रिविधं फलं. काममिथ्याचाराद् विरमता परस्य दुःखं नोत्पादितं. न स सपत्नदारः कृतः. नाप्य् ओजो नाशितम्. अतो ऽस्य त्रिविधं फलं. एवम् अन्यत्रापि योजयितव्यं.
(iv.87) विविधदृष्टिनेति.
कौतुकमंगलतिथिमुहूर्तनक्षत्रादिदृष्टिना.
परेष्व् आयत्तवृत्तिनेति.
कायस्थितिहेतवश् चीवरपिण्डपाताशयनासनादयो भिक्षोः परप्रतिभद्धाः. पिण्डपातं निश्रित्येति वचनात्. तस्य परधीनवृत्तेर्
भिक्षोर्
मिथ्याजीवा भवेयुः कुहना. लपना. नैमित्तिकता. नैष्पेषिता. लाभेन लाभनिश्चिकीर्षा च. ते
दुःशोधा
भवंति आजीवयोगा इति.
शीलस्कंधिकायाम् इति. शीलस्कंधिका नाम निपातः. तत्रोक्तं. यथा त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारंभानुयोगम् अनुयुक्ता विहरंति. तद्यथा. हस्तियुद्धे. ऽश्वयुद्धे. रथयुद्धे. पत्तियुद्धे. यष्टियुद्धे. मुष्टियुद्धे. सारसयुद्धे. वृषभयुद्धे. महिषयुद्धे. अजयुद्धे. मेषयुद्धे. कुक्कुटयुद्धे. वर्तकयुद्धे. लाबकयुद्धे. स्त्रीयुद्धे. पुरुषयुद्धे. कुमारयुद्धे. कुमारिकायुद्धे. इट्गालवशे. उत्सतिकायां. ध्वजाग्रे. बलाग्रे. [तिब्. 82ब्] सेनाव्यूहे. अनीकसंकर्शणे. महासमाजं वा प्रत्यनुभवन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधदर्शनसमारंभानुयोगात् प्रतिविरतो भवति. यथापि तत्र त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारंभानुयोगयुक्ता विहरंति. तद्यथा. हस्तिशब्दे. अश्वशब्दे. रथशब्दे. पत्तिशब्दे. शंखशब्दे. भेरीशब्दे. आडंबरशब्दे. नृत्तशब्दे. गीतशब्दे. शय्याशब्दे. अच्छटाशब्दे. पाणिस्वरे (अभिध्-क्-व्य् 421). कुंभतूणीरे कचिते. चित्राक्षरे. चित्रपदव्यंजने. लोकायतप्रतिसंयुक्ते. आख्यायिका वा श्रोतुम् इच्छन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधशब्दश्रवणसमारंभानुयोगात् प्रतिविरतो भवतीत्य् एवमादि. मिथ्याविषयपरिभोगाद् असम्यग्विषयपरिभोगात्.
(iv.88, 89) यानि पूर्वं पंच फलान्य् उक्तानीति. अधिपतिफलं. पुरुषकारफलं. निष्यन्दफलं. विपाकफलं. विसंयोगफलं च. प्रहाणार्थं मार्ग इति. भावसाधनं. प्रहाणाय मार्गः
प्रहाणमार्ग
इति. प्रहीयते ऽनेनेति करणसाधनं. प्रहाणो मार्ग इति च विग्रहः. समाधिजा उत्तरे सदृशा धर्मा इति. समाधिजग्रहणम् असमाधिजनिरासार्थम्. सदृशग्रहणम् [तिब्. 83अ] अनास्रवाव्याकृतनिरासार्थं. सहभुव इति. संप्रयुक्ताश् च तत्र वेदनादयः. विप्रयुक्ताश् च जात्यादयः. यच् चानागतं भाव्यत इति. अनागतो धर्मस् तद्बलेन प्राप्यत इति. तस्य तत् पुरुषकारफलम् अत एव तच् च प्रहाणं पुरुषकारफलं व्यवस्थाप्यते. न केवलं विसंयोगफलम् इति. पूर्वोत्पन्नवर्ज्या इति पूर्वोत्पन्नं फलं न युज्यत इति कृत्वा. तथा ह्य् उक्तं.
अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम्
इति. विपाकफलं हित्वेति. अनास्रवस्याविपाकत्वात्. तस्य हि निष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः. विसंयोगफलं विसंयोग एव यत् तत् प्रहाणं. पुरुषकारफलं तदाकृष्टा धर्माः. तद्यथा विमुक्तिमार्गः. सहभुवः. यच् चानागतं भाव्यते. तच् च प्रहाणं. अधिपतिफलं स्वभावाद् अन्ये सर्वे संस्क्र्ताः पूर्वोत्पन्नवर्ज्याः.
यच् छुभाशुभम्
इति. प्रहाणमार्गाद् यद् अन्यसास्रवं कर्म समाहितम् असमाहितं च. तद् अपि चतुर्भिः फलैः सफलं विसंयोगफलं हित्वा. अप्रहाणमार्गत्वाद् अस्य विसंयोगफलं नास्ति. तस्य हि विपाकफलं स्वभूमाव् इष्टो ऽनिष्टो वा विपाकः. [तिब्. 83ब्] निष्यन्दफलं उत्तरे सदृशा धर्माः. पुरुषकारफलं तदाकृष्टा धर्माः सहभुवो ऽनंतरभुवो वा. अधिपतिफलं शेषं पूर्ववत्.
अनास्रवं पुनः शेषम्
इति. शेषग्रहणं प्रहाणमार्गनिरासार्थं. तत् पुनः कथं. शेषं प्रयोगविमुक्तिविशेषमार्गेषु. तस्याप्रहाणमार्गत्वाद् विसंयोगफलं नास्ति. (अभिध्-क्-व्य् 422) अनास्रवत्वाच् च न विपाकफलं. शेषं पूर्ववत्. अव्याकृतं च यन् निवृताव्याकृतम् अनिवृताव्याकृतं च. तद् अपि त्रिभिः सफलं. सप्रहाणमार्गत्वान् न तस्य विसंयोगफलम्. अव्याकृतत्वाच् च न विपाकफलं. शेषं पूर्ववद् एवास्ति.
(iv.90) चत्वारि द्वे तथा त्रीणि कुशलस्येति.
यथाक्रमम् एतत्. कथं. कुशलस्य कुशला धर्माश् चत्वारि फलानि. तस्यैवाकुशला द्वे फले. तस्यैवाव्याकृतास् त्रीणि फलानीति. विपाकफलं हित्वेति. विपाकस्याव्याकृत्वात्. अकुशला द्वे इति. पुरूषकाराधिपतिफले. न निष्यन्दफलं. यस्मात् कुशला धर्मा अकुशलानां न सभागहेतुर् इति. न विपाकफलं. अव्याकृतत्वाद् विपाकस्य. यस्माच् चाकुशला विपाकं प्रति व्याक्रियंते. न विसंयोगफलं. अकुशलत्वात्. [तिब्. 84अ] पारिशेष्यात् पुरुषकाराधिपतिफले एव. ते च पूर्ववद् व्याख्यातव्ये. अव्याकृताश् चत्वारीति. कथम् अकुशलस्याव्याकृता धर्मा निष्यन्दफलं. कथं च न भवितव्यं. विसदृशत्वात्. विसदृशा ह्य् अकुशालयाकृता धर्माः. सविपाकाविपाकत्वात्. नैष दोषः. अकूशलनिवृताव्याकृतानां हि धर्माणां क्लिष्टसामान्येनास्ति सादृश्यं. तस्माद् अकुशलानां निवृताव्याकृताः निवृताव्याकृतानां चाकुशलाः निष्यन्दफलं युज्यंते. तेनाह. अव्याकृते हीति विस्तरः. अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानां. दुःखदर्शनहेयानां च रागादीनां. सत्कायान्तग्राहदृष्टी निष्यन्दफलं. सभागसर्वत्रगयोर् निष्यन्दफलम् इति. अकुशला हीति विस्तरः. अकुशला दुःखादिदर्शनहेयाः पंचनैकायिकाः. अव्याकृतयोः सत्कायांतग्राहदृष्ट्योः निष्यन्दफलं. एतान्य् एव त्रीणि विपाकविसंयोगफले हित्वा.
(iv.91) अतीतस्य कर्मणस् त्रियध्विका अतीतानागतप्रत्युत्पन्ना धर्माः. प्रत्येकं चत्वारि फलानि. विसंयोगफलं हित्वा. तस्यानध्वपतितवात्. कथं कृत्वा. अतीतस्य कर्मणः पश्चाद् अतीतस् तद्विपाको विपाकफलं. [तिब्. 84ब्] तदाकृष्टाः. सहजातीताः पश्चादनंतरातीता वा पुरुषकारफलं. स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्नाश् चातीताः अधिपतिफलं. पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफलं. अतीतस्यानागतस् तद्विपाको विपाकफलं. यद्बलेन प्राप्यते ऽनागतो धर्मः. तत् पुरुषकारफलं. अधिपतिफलं यद् अनागतं. तस्य फलं. निष्यन्दफलं तत्सदृशम् अनागतं. एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फलानि योज्यानि.
नध्यमस्याप्य् अनागता
इति. प्रत्युत्पन्नस्याप्य् अनागता धर्माश् चत्वारि फलानि. एतान्य् एव विसंयोगफलं हित्वेत्य् अर्थः. तान्य् अप्य् एवम् एव योज्यानि. प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले इति. तस्य हि सहोत्पन्नं तद्बलाज् (अभिध्-क्-व्य् 423) जातम् इति पुरुषकारफलम् अधिपतिफलं च भवत्य् एव. अविसंयोगस्वभावान् न विसंयोगफलं. पूर्वोत्तरताभावान् न निष्यन्दफलं. प्रवाहापेक्षत्वाद् विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलं. निष्यन्दविसंयोगफले हित्वेति. अनागतो ऽनागतस्य न निष्यन्दफलं. यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः. तस्य विप्रकीर्णत्वात्. सादृश्येन चास्येदं फलम् इति परिच्छेत्तुम् अशक्यत्वात्. न विसंयोगफलं. यस्माद् अनागतो विसंयोगो न भवति. विपाकफलं तु भवेद् अनागतस्य ह्य् अकुशलस्य कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानं च विपाकफलं. पुरुषकारफलं [तिब्. 85अ]. सहजम् अनागतम् अनंतरभावि चानागतं. अधिपतिफलं तु सुगमम् इति न पुनर् उच्यते.
(iv.92अब्) स्वभूमिका धर्मा
न विसंयोगफलं. विसंयोगस्याभूमिस्वभावत्वात्. अनास्रवाश् चेत् त्रीणि फलानीति. निष्यन्दफलस्य तृतीयस्य संभवात्.
अन्योन्यं नवभूमिस् तु मार्ग
इति हि सिद्धांतः.
(iv.92च्द्, 93अब्) शैक्षस्य कर्मणः शैक्षा धर्मास् त्रीणीति. यस्माद् विपाकफलं न शैक्षं. विसंयोगश् चापि न शैक्षः. नैवशैक्षनाशैक्षा अपि त्रीणि. न विपाकफलम् अस्यास्ति. शैक्षस्याविपाकत्वात्. न निष्यन्दफलं. नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वात्. विसंयोगफलं तु भवति. विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात्. पुरुषकारफलम् अपि भवति. शैक्षेण नैवशैक्षनाशैक्षाकृष्टिसंभवात्. अधिपतिफलं चास्त्य् एव. इति त्रीणि संभवंति. अशैक्षस्य त्व् इति विस्तरः. अशैक्षस्य शैक्षा धर्मा एकम् अधिपतिफलं. न निष्यन्दफलं. न्यूनत्वात्.
समविशिष्टयोर्
इति वचनात्. न पुरुषकारफलं. सहानंतरोत्पादाभावात्. न ह्य् अशैक्षानंतरं शैक्षम् उत्पद्यते. च नैवशैक्षनाशैक्षस्वभावम् इति. [तिब्. 85ब्] न चाशैक्षस्य विपाको भवतीत्य् अतो न विपाकफलं. अशैक्षास् त्रीणीति. पुरुषकाराधिपतिनिष्यन्दफलानि. न विपाकविसंयोगफले. तयोर् नैव शैक्षनाशैक्षस्वभावत्वात्. यच् चाशैक्षस्वभावं. तद् इह चिंत्यते. नैवशैक्षनाशैक्षा द्वे पुरुषकाराधिपतिफले इति. पुरुषकारफलं. तद्यथा. तदाकृष्टा अणंतरभाविनो धर्माः. अधिपतिफलं. पूर्ववत्. यथोक्तकारणत्वान् न फलत्रयं. अशैक्षा अप्य् एवम् इत्य्. द्वे पुरुषकाराधिपतिफले (अभिध्-क्-व्य् 424) इत्य् अर्थः.
(iv.93च्द्, 94) तदादय
इति. दर्शनहेयादयः.
त
इति. दर्शनहेयादयः. भावनाहेया द्वे इति. अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरुषकारफलं. आद्यंतवद् इति विस्तरः. आद्यंतयोर् इवाद्यंतवत्. मध्ये ऽपि ज्ञापनार्थं पुनर् यथाक्रमग्रहणं. कथम्. आदौ यथाक्रमार्थो ऽनुक्रमशब्दः प्रयुक्तः.
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्य् अनुक्रमम्
इति वचनात्. अंते ऽपि प्रयुक्तः.
अप्रहेयस्य ते त्व् एकं द्वे चत्वारि यथाक्रमम्
इति. यथैवम् आद्यंतयोर् यथाक्रमार्थ उक्तः. [तिब्. 86अ] तथा मध्ये ऽपि अवगंतव्यः. एष हि पेयालधर्म इति. एषो ऽभिसंक्षेपन्यायः. अन्यथा ह्य्
अव्याकृतस्य द्वे तृईणि चैते शुभादय
इत्य् एवमादिषु यथाक्रमम् इति सर्वत्र वक्तव्यं.
(iv.95) अयोनिशोमनस्कारसंभूतत्वाद् इति. अयोन्या अन्यायेन क्लेशयोगेन. यः प्रवृत्तो मनस्कारः. तत्र संभूतः. तद्भावः. तस्माद् इति. येन यथा गंतव्यं. येन पुद्गलेन यथा गंतव्यं. तथा न गच्छतीत्य् अस्यायोगविहितं कर्म.
विधिभ्रष्टम् अपीति.
अपिशब्देन क्लिष्टं चापीति गृह्यते.
तदुभाभ्याम् अन्यन् नोभयथेति. न योगविहितः. नायोगविहितः. किं च तदन्यद् अव्याकृतं कर्म विधिभ्रष्टविधिभ्रष्टाभ्याम् अन्यद् अव्याकृतम् इति.
(iv.96अब्) जन्मेति निकायसभागस्याख्येति. चित्तविप्रयुक्तस्य संस्कारस्य. न तु जातेर् इत्य् अभिप्रायः. यत् तर्हीति. यद्य् एकम् एव कर्मैकम् एव जन्माक्षिपति. यत् स्थविरनिरुद्धेनोक्तं सो ऽहं तस्येति विस्तरेण. तत् कथं न विरुध्यत इति वाक्यार्थः. तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय [तिब्. 86ब्] पिण्डपातो दत्तः. तेनैवम् उक्तं. सो ऽहं तस्येति विस्तरेण. निर्वर्त्येति. विठपित्वेत्य् अर्थः. तुल्ये ऽपि मानुष्ये कश्चित् सकलेन्द्रियो भवति कश्चिद् विकलेन्द्रियः. परिपूरकस्य कर्मणो भेदात् तद् अनुपपन्मम्. (अभिध्-क्-व्य् 425) आक्षेपकर्मफलत्वाच् चक्षुरादीनां. षडायतनं ह्य् आक्षिप्यत इति. वर्णादयस् तु परिपूरकस्य कर्मणः फलम् इति. युक्तं वक्तुं. तुल्ये ऽपि मानुष्ये कश्चिद् वर्णवान् कश्चिन् नेति. तदुत्पत्तिविरोधिप्रत्ययपरिहारे परिपूरककर्मसामर्थ्यान् न विरोधः. अन्यथा हि न कश्चिद् विकलेन्द्रियः स्यात् सति जन्माक्षेप इति.
(iv.96च्द्) अन्यद् अपि सविपाकम् इति. वेदनादिकं. कर्मसहभूत्वाद् इति. यस्मात् कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः. नापि कायवाक्कर्मभ्याम् अचित्तिकत्वात्. प्राप्तिभिश् च नाक्षिप्यते सविपाकाभिर् अपि. कर्मणानेकफलत्वात्. तदाक्षेपकेण कर्मणा सह भवंत्यो ऽपि प्राप्तयो न तेन सहैकफला इति. वृक्षप्रपाटिका इव हि प्राप्तयो बहिरवस्थायिनो भवंति.
(iv.97) कर्मावरणम् इति. कर्मैवावरणं. क्लेश एवावरणं. विपाक एवावरणम् इति. आर्यामार्गप्रायोगिकाणां च कुशलमूलानाम् इति. उष्मगतादीनां. अपायादिनियतानीति [तिब्. 87अ]. नरकतिर्यक्प्रेतनियतानि. आदिशब्देनासंज्ञिसमापत्तिमहाब्रह्मसंवर्तनीयं च नियतं कर्म गृह्यते. षण्ढपण्डकोभयव्यंजनसंवर्तनीयं च वक्तव्यं. तथाण्डजसंस्वेदजस्त्रीत्वाष्टमभवनियतानि कर्माणि वक्तव्यानि. आर्या हि नरकादिषु नोपपद्यंते. अण्डजां संस्वेदजां च योनिं न प्रतिपद्यंते. स्त्रीत्वम् अष्टमं च भवं न निर्वर्तयिष्यंति. सप्तकृत्वो भवपरमत्वात्. सुदर्शकानीति. सुखेन दृश्यंते परेभ्या इति सुदर्शानि. सुदर्शान्य् एव सुदर्शकानि. एवं सुखेन प्रज्ञप्यंते आत्मनेति सुप्रज्ञेयानि. सुप्रज्ञेयान्य् एव सुप्रज्ञपकानि. स्वार्थे कः. पर्याये द्वयं चैतत्. सुदर्शकानि सुप्रज्ञपकानीति. अधिष्ठानत इति. कर्मपथो ऽधिष्ठानं. त्रयाणाम् आनंतर्याणां प्राणातिपातः कर्मपथो ऽधिष्ठानं. एकस्य मृषावादः कर्मपथो ऽधिष्ठानं. पंचमस्य प्राणातिपातप्रयोगो ऽधिष्ठानं. एवम् अधिष्ठानतः सुदर्शकानि. सुप्रज्ञपकानि. फलतः. सर्वेषाम् अनिष्टफलत्वात्. गतितः. नरकगतिप्रापकत्वात्. उपपत्तितः. उपपद्यवेदनीयत्वात्. पुद्गलतः. गरिष्ठक्लेशसमुदाचारात् सुप्रज्ञातः पुद्गलः. अयं पितृघातकः. यावद् अयं तथागतशरीरे दुष्टचित्तरुधिरोत्पादक [तिब्. 87ब्] इति. अपरे पुनर् व्याचक्षते. अधिष्ठानतः. पूर्ववत्. फलतः. नरकफलत्वात्. गतितः. मनुष्यगतिकरणात्.
त्रिषु द्वीपेष्व् आनंतर्यम्
इति. वचनात्. उपपत्तितः. तथैवोपपद्यवेदनीयत्वात्. पुद्गलतः. स्त्रीपुंसौ. न षण्ढः पण्डको वा. इत्य् एवं पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानि. न तु पुनस् तान्य् अपायादिनियतानि कर्माणि पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानीति. न तान्य् उक्तानि. उत्तरोत्तरावाहनाद् इति. (अभिध्-क्-व्य् 426) यस्मात् क्लेशावरणं कर्मावरणं आवहति. कर्मावरणं चापाये ऽनिष्टं विपाकम् आवहतीति. क्लेशावरणं सर्वपापिष्ठं. ततः कर्मावरणं लघु. ततो विपाकावरणं. विपाकावरणस्य हि दृष्ट एव धर्मे व्यापारः. न द्वितीय इति. यस्य धर्मस्य योगात् पितृवधादेः सो ऽनंतरो भवति. तस्याभिधाने भावप्रत्ययः. आनंतर्यम् इति. श्रामण्यवत्. यथा येनानास्रवेण मार्गेण योगाच् छ्रमणो भवति. तदभिधाने भावप्रत्ययः.
श्रामण्यम् अमलो मार्ग
इति. तद्वत्.
(iv.98) नोत्तरकुराव् इति. नियतायुष्कत्वात्. प्रकृतिशीलत्वात्. तत्र शासनभावाच् च. यद् एवासंवरभावे कारणम् इति. पापे ऽप्य् अस्थिराशयत्वात्. यत्रैव च संवरः. तत्रासंवरो ऽपि. प्रतिद्वंद्वभावात्. इत्य् असंवरः
षण्ढादीनां
न भवतीति. [तिब्. 88अ] यद्विपादनाद् इति. यस्य ह्रीव्यपत्राप्यस्य विपादनाद् विकोपनाद् आनंतर्येण स्पृश्येरन् षण्ढादयः. तत् तेषां मातापित्रोर् अंतिके न तीव्रं भवति. इत्य् अतस् तेषाम् आनंतर्यं
नेष्यते.
यदि विकलात्मभावहेतुत्वाद् अल्पोपकारत्वम् इति. अतस् तेषाम् आनंतर्यं नेष्यते. जात्यन्धादीनाम् अपि स्त्रीपुंसानां मात्रादिवधाद् आनंतर्यं न स्यात्. न. अधिगमधर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात्. यद् वैकल्यम् अधिगमधर्मविरोधि. तद् अधिकृतं तेनैव च मात्राल्पस्नेहत्वं. न जात्यन्धादिवैकल्येन. अत एव तिर्यक्प्रेतानाम् अपि नेष्येते.
अल्पोपकारालज्जित्वाद्
एव. अश्वाजानेयवद् इति. पटुबुद्धीनां स्याद् आनंतर्यं तिर्यक्प्रेतानाम् अपीत्य् अधिकृतं. अश्वाजानेयवद् इति. श्रूयते यथा कश्चिद् एव विशिष्टाश्व आजानेयो मातरं न गच्छतीति. वाससा मुखं प्रच्छाद्य मातरं गमितस् तेन पश्चात् ज्ञात्वा स्वम् अंगजातम् उत्पाटितम् इति. एवम् आजानेयो ऽश्वः पटुबुद्धिः. अस्यानंतर्यं स्याद् इत्य् अभिप्रायः. मनुष्यस्याप्य् अमानुषं मातापितरं मारयतो न स्याद् आनंतर्यं. नैव भवेद् आनंतर्यम् इत्य् अर्थः. कथम्.
अल्पोपकारालज्जित्वाद्
एव. न हि मनुष्यानुरूपम् उपकारम् अमनुष्यः कर्तुं समर्थः [तिब्. 88ब्] न च मनुष्यस्यामनुष्ययोर् मातापित्रोर् अंतिके तीव्रं ह्रीव्यपत्राप्यं संतिष्ठते. गतिवैलक्षण्येनाल्पस्नेहत्वात्.
(iv.99) चत्वारि कायकर्मेति. मातृवधादीनि. एकं वाक्कर्मेति. संघभेदः. त्रीणि प्राणातिपात इति. मातृवधादीनि. एकं मृषावादः. संघभेदः (अभिध्-क्-व्य् 427). एकं प्राणातिपातप्रयोगः. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान् न प्राणातिपात इत्य् आह. अनुपक्रमधर्माणो हि तथागता इति. अपरोपक्रममरणधर्माण इत्य् अर्थः. हेतौ फलोपचाराद् इति. मृषावादो हेतुः संघभेदस्य चित्तविप्रयुक्तलक्षणस्य. तस्मिन् हेतौ फलोपचारः. चित्तविप्रयुक्तो धर्मः फलम् उपचर्यते. संघभेद इति. भिद्यते. वानेनेति. करणसाधनपरिग्रहाद् वा मृषावादः संघभेद इत्य् उच्यते. मृषावादेन हि संघो भिद्यते. न तु संघभेद इति भावसाधनपरिग्रहः.
(iv.100) संघभेदस् त्व् असामग्रीति.
मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता. तेनाह.
स्वभावो विप्रयुक्तकः. अक्लिष्टाव्याकृतो धर्म
इति. स किम् आनंतर्यं भविष्यतीति. नैवासाव् एवंलक्षणम् आनंतर्यं भवतीत्य् अर्थः. नैव च तेन विप्रयुक्तेन धर्मेण भेत्ता समन्वागतः. तेन नासाव् आनंतर्यम् इत्य् अभिप्रायः.
(iv.101) [तिब्. 89अ] स पुनर् मृषावादः संघभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव इत्य् अर्थः.
(iv.102) भिक्षुर् भिनत्तीति. बुद्धस्य भिक्षुत्वात्. तत्प्रतिस्पर्धिवृत्तित्वाच् च भेत्तुः. न गृही भिक्षुण्यादय इति. तेषाम् अनादेयाश्रयत्वात्. स च दृष्टिचरित एव. दृढगूढाशयत्वात्. सत्कायदृष्ट्यादिषु पंचसु चरितः प्रवृत्तो दृष्टिचरितः. दृष्टिर् वा चरितम् अस्येति दृष्टिचरितः. स ह्य् ऊहापोहसामर्थ्याद् अन्यं शास्तारं मार्गांतरं च ग्राहयितुं समर्थः. न तृष्णाचरित इति. संक्लेशव्यवदानपक्षयोर् अस्थिराशयत्वात्. दुष्प्रसहत्वाद् इति. दुरभिभवत्वात्. प्रत्यक्षधर्मत्वाद् इति. आगमाधिगमधर्मयोः साक्षात्कारित्वाद् इत्य् अर्थः. न क्षांतिलाभिन इति. न निर्वेधभागीयक्षांतिलाभिन इत्य् अर्थः. दृष्टसत्यकल्पत्वात्.
न विवसत्य् असौ.
न तां रात्रिं परिवसतीत्य् अर्थः. भिन्नम् भवतीति कथं भिन्नम् इत्य् आह. मार्गप्रवृत्तिविष्ठापनाद् इति. मार्गप्रवृत्तिविबन्धनाद् इत्य् अर्थः. यावद् धि संघो न प्रतिसंधीयते. तावन् मार्गप्रवृत्तिर् विष्ठिता भवति. न कस्यचित् संताने मार्गः. संमुखीभवतीत्य् अर्थः. चक्रभेदनिमित्तत्वात्. संघभेदश् चक्रभेद इत्य् उच्यते.
(iv.103) अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यम् इति. बुद्धपक्षे [तिब्. 89ब्] भेत्तृपक्षे च स्थातव्यम् इत्य् अर्थः. संघो हि चत्वारो भिक्षवः. (अभिध्-क्-व्य् 428) संघद्वयेन च भवितव्यम् इत्य् अष्टाभिर् भिक्षुभिर् भेद्यैर् भवितव्यं. नवमेन च भेत्त्रा. अन्यस् तु संघभेद इति. चक्रभेदाद् अन्यः. नात्रानंतर्यम् इत्य् अभिप्रायः. यस्माद् असौ कर्मभेदाद् भवति. व्यग्रा इति. नानामतयः कर्माणि पोषधादीनि संघकर्माणि.
अष्टाभिर् अधिकैश् च स
इति. संघद्वयेनात्रापि भवितव्यं. न भेत्ता शास्तृमानी भवतीत्य् अष्टाभिर् एव भिक्षुभिर् भवितव्यं. न नवादिभिर् इति.
(iv.104) एकरसो भवतीति. अव्यग्र एकमतिर् भवतीत्य् अर्थः. पूर्वस्याम् अवस्थायां प्रीतिप्रामोद्यजातः. पश्चिमायाम् अतीव मनसि उद्विग्नसंजातसंवेगः. अर्बुदात् पूर्वम् इति. दोषो ऽर्बुदं. दृष्ट्यर्बुदं शीलार्बुदं वा. अत्र दृष्ट्यर्बुदं. यथोक्तं. यथाहं भगवतो भाषितस्यार्थम् आजानामि. य इमे भगवतांतरायिका धर्मा आख्याताः. ते प्रतिषेव्यमाणा नालम् अंतरायेति. तथा तद् एव चित्तं संधावति संसरतीत्यादि. शीलार्बुदं दौःशील्यं. तेन च प्रतिसंधानीयत्वाद् इति. तेन च श्रावकयुगेन यस्मात् प्रतिसंधानीय इत्य् अर्थः. [तिब्. 90अ] अवश्यं च सर्वेषां बुद्धानां श्रावकयुगं भवति. एकः प्रज्ञावताम् अग्रः. द्वितीयः ऋद्धिमतां. इह शाक्यमुनेर् आर्यः शारद्वतीपुत्रः प्रज्ञावताम् अग्रः. आर्यो महामौद्गल्यायन ऋद्धिमतां. प्रतिद्वंद्वाभावाद् इति. यस्मात् परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वंद्वभूतो नास्ति. सीमायाम् अबद्धायाम् इति. मण्डलसीमायाम्. एकस्यां हि सीमायां पृथक्कर्मकरणात् संघद्वैधं भवति. ननु च प्रकृतिसीमास्ति. ग्रामनगरादि. सत्यम् अस्ति. ज्ञप्तिसीमायां तु सत्यां सा प्रकृतिसीमा व्यवस्थाप्यत इति. तस्या अपि बन्धो व्यवस्थाप्यत एवेति वेदितव्यं. कर्माधीनत्वाद् इति. येन शिष्यसंघभेदसंवर्तनीयं कर्म कृतं भवति. तस्यैव तद्भेदो भवति. नान्यस्य. शाक्यमुनिना च किल बोधिसत्त्वावस्थायां पंचाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत्. येनास्य देवदत्तेन संघो भिन्न इति.
(iv.105, 106अब्) गुणक्षेत्रत्वाद् इति. गुणानाम् आश्रयत्वाद् इत्य् अर्थः. अथ वा गुणैः क्षेत्रं गुणक्षेत्रं. गुणयोगाद् धि तत् पुण्यस्य क्षेत्रं भवति. यथा क्षेत्रे बीजम् उप्तं महाफलं भवति. एवं पुण्यबीजम् अत्रोप्तं महाफलम् भवति. नान्यत्रेति. न सामान्यस्त्रीवधादिषु.
उपकारिगुणक्षेत्रनिराकृतिविपादनाद्
इति. उपकारिक्षेत्रस्य गुणक्षेत्रस्य वा निराकृतेः परित्यागान् मातृपितृवधादिष्व् (अभिध्-क्-व्य् 429) [तिब्. 90ब्] आनंतर्यं. तस्य विपादनाच् च विकोपाद् आनंतर्यं. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनात्. संघस्यापि यद् भेदनं. तद् अपि तद्विपादनं. तद् एतद् उक्तं भवति. उपकारिक्षेत्रत्वात्. गुणक्षेत्रत्वाच् च. तन्निराकरणविपादनान् मातृवधादिष्व् एवानंतर्यं नान्यत्रेति.
यदि पुनर् मातुर् व्यंजनपरिवृत्तं स्यात् पितुर् वेति. व्यंजनपरावृत्त्या तन् मातृत्वं तत् पितृत्वं वा विनष्टम् इति. मातुर् मारणाभावात् पितुर् मारणाभावाद् वा न स्याद् आनंतर्यम् इति. तदभावाशंकया पृच्छति.
यच्छोणितोद्भव
इति. यस्याः शोणिताद् उद्भवो ऽस्येति
यच् छोणितोद्भवः.
सर्वकृत्येष्व् अवलोक्येति. सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्य् अभिप्रायः. मातृकल्पत्वात्. आप्यायिका कताहारिका. पोषिका स्तन्यदायिका. संवर्धिका औदारिकाहारादिकल्पिका. अपरे व्याचक्षते. आप्यायिका स्तन्यधातृकेति यो ऽर्थः. पोषिका औदारिकाहाराभ्यासतः. [तिब्. 91अ] संवर्धिका स्नानोद्वर्तनविषमपरिहारत इति. मंचतलावलीनेति. मंचोपरि प्रावरणकल्पनेन पुरुषो ऽत्र सुप्त इति मन्यमानेन पुत्रेण तत्रशस्त्रप्रहारः कृतः. तेन शस्त्रप्रहारेण मंचतलावलीना माता मारितेत्य् उदाहार्यं. धावकस्य च रजकस्य पुत्रेण मशकं मारायामीति मशकप्रयोगेण पितुर् मारनम् इति. द्वे अविज्ञप्ती आनंतर्यविज्ञप्तिः. केवलप्राणातिपातविज्ञप्तिश् च. विज्ञप्तिस् त्व् आनंतर्यम् एव तत्संगृहीतैव सा नान्येत्य् अर्थः. तस्याप्य् एकम् एवेति. अर्हद्वधाख्यं. गच्छ शिखण्डिनं ब्रूहीति रौरुके नगरे उद्रायणो नाम राजा शिखण्डिनं नाम पुत्रम् अभिषिच्य प्रव्रजितः. प्रव्रज्यार्हत्त्वं अधिगतवान्. स रौरुकाभ्याशम् आगतवान्. पुना राज्यम् आकांक्षतीति. अमात्यप्रक्रामितेन तेन शिखण्डिना राज्ञा स्वपिता मारितः. तेन तु मार्यमाणावस्थायां स मारको मनुष्य उक्तो गच्छ शिखण्डिनं ब्रूहीत्य् एवमादि. द्वाभ्यां कारणाभ्याम् इति वक्तव्यम् इति. गच्छ शिखण्डिनं ब्रूहि. द्वाभ्याम् आनंतर्यकारणाभ्यां भवता कृतम् आनंतर्यम् इति. तेन वक्तव्यं. द्वाभ्यां वा [तिब्. 91ब्] मुखाभ्यां परिभाषित इति. मुखद्वित्वाद् आनंतर्यद्वित्वोपचार इत्य् अभिप्रायः. कारणद्वित्वाद् धि गुरुतरं तद् आनंतर्यं.
(iv.106च्द्) आश्रयस्यात्यंतं तद्विरुद्धत्वाद् इति. उत्पन्नार्यमार्गस्याश्रयस्य तैः कर्मपथैः विरुद्धत्वात्. एकावदानं चात्रोदाहरणं. छेकः किल शाक्यमनुष्यो विरूढकभयाद् विषमं वनप्रदेशम् आश्रित्य लुब्धकवृत्तिम् अशिश्रियत्. भगवता च त्रायस्त्रिंशेषु त्रैमास्यां कुर्वता ततो ऽवतीर्य (अभिध्-क्-व्य् 430) छेकाय सपरिजनाय धर्मो देशितः. तेन स्रोतआपत्तिफलम् अधिगतं. तत्पुत्रैश् च फलप्राप्तैः पूर्वं प्रतानितानि कूटजालादीनि मृगेभ्यः. तत्प्रयोगेण च मार्यमाणेष्व् अपि मृगेषु फलप्राप्त्या न ते पुनर् अकुशलैः कर्मपथैः स्पृष्टा इति.
(iv.107) पंचमतृतीयप्रथमानि गुरुतराणीति. इयम् आनंतर्यकर्मपाठानुपूर्वी. मातृवधः पितृवधो ऽर्हद्वधः संघभेदस् तथागते दुष्टचित्तरुधिरोत्पादनम् इति. पंचमं दुष्टचित्तरुधिरोत्पादनं. तत् संघ भेदवर्ज्येभ्यो ऽवशिष्टेभ्यश् चतुर्भो गुरुतरं. तृतीयम् अर्हद्वधः. तन् मातापितृवधाभ्यां गुरुतरं. प्रथमं मातृवधः. तत् पितृवधात् गुरुतरं. तेनाह. सर्वलघुः पितृवध इति. नियमस्येति. तद् एवावधार्येत्य् अर्थः. विपाकविस्तरम् अधिकृत्य संघभेदो महासावद्य [तिब्. 92अ] उक्तः. अंतरकल्पविपाकदानत्. महाजनव्यापादनम् अधिकृत्य मनोदण्डः. दण्डकारण्यादिशून्यकरणात्. न ह्य् अन्येन कायकर्मणा वाक्कर्मणा वा तावतो महाजनस्य व्यापादः संभवतीति. कुशलमूलसमुच्छेदम् अधिकृत्य मिथ्यादृष्टिर् महासावद्या. न ह्य् अन्यद् अकुशलमूलं कुशलमूलानि समुच्छिनत्ति. समुदाचारमात्रविरोधित्वाद् इति.
(iv.108, 109अब्) न त्व् अनंतरम् एव्ति. नरके ऽवश्यम् उत्पत्त्या तानि तत्सादृश्यात् तत्सभागान्य् उच्यंते. न तु तत्रानंतरोत्पत्त्या. अन्यथा ह्य् आनंतर्याण्य् एव स्युर् इत्य् अपरेषां अभिप्रायः. अनंतरभावित्वे ऽपि न तान्य् आनंतर्याण्य् एव संभवंत्य् अतुल्यकालविपाकत्वाद् इति. प्रथमपाक्षिकाणां परिहारः.
दूषणं मातुर् अर्हंत्या
मातृवधानंतर्यसभागं. नियतिपतितबोधिसत्त्वमारणं पितृवधानंतर्यसभागं. शैक्षमारणं अर्हद्वधानंतर्यसभागं. संघायद्वारहारिका संघभेदानंतर्यसभागं. स्तूपभेदनं तथागतदुष्टचित्तरुधिरोत्पादानंतर्यसभागं. संघायद्वारहारिका पुनर् अक्षयनीव्यपहार इत्य् आचार्यवसुमित्रः. [तिब्. 92ब्] एवं तु व्याचक्षते सुखायद्वारहारिकेति. यत् सुखोपयोगिकं येन संघो जीविकां कल्पयति तस्यापहार इति.
(iv.109च्द्) तद्विपाकभूम्यतिक्रमाद् इति.
क्षांतिलाभ्य् अनपायग
इत्य् अपायभूम्यतिक्रमात्. तथैवेति. तद्विपाकभूम्यतिक्रमात्. यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उत्तिष्ठंते तथैवेत्य् अर्थः.
(iv.110) महासालकुलज इति. महाप्राकारकुलज इत्य् अर्थः. क्षत्रियमहाशालकुलजो यावत् गृहपतिमहाशालकुलज इति. महागृहपतिकुलज इत्य् अर्थः. कदर्थना महापरिभवपूर्विका विहेठना. ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये भवतस् तदपेक्षया तन्निग्रहो यंत्रणेत्य् उच्यते.
(iv.111) एकनवतं कल्पम् उपादायेति. एकनवतेः पूरणः कल्प एकनवतः. तम् उपादाय. अशिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेन भगवान् उक्तः. किम् अनर्थायासि भो गौतम कुलानां प्रतिपन्नो यस् त्वम् ईदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्धम् अशनिवद् उत्सादयं भिक्षाम् अटसीति. स भगवताभिहितः. इतो ऽहं ग्रामणि एकनवतं कल्पम् उपादायेति [तिब्. 93ब्] विस्तरः.
एतां चतुरो दोषान् व्यावर्तयतीति. दुर्गतिदोषम् अकुलीनतादोषं विकलेन्द्रियतादोषं स्त्रीभावदोषं चेति. द्वौ च गुणौ प्रतिलभते. जातिस्मरतागुणम् अनिवर्तकतागुणं चेति.
संनिकृष्टं बोधिसत्त्वं स्थापयित्वेति. यो लक्षणविपाककर्मकारी.
स् त्रिसाहस्रको निर्वर्तत इति. येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्र
महासाहस्रप्रादुर्भावः. तस्य तत् परिमाणम् इति. उक्तं पुण्यस्य परिमाणं. तेषाम् एवंकृतपरिमाणानां शतेनैकं महापुरुषलक्षणं निर्वर्तते. एवं यावद् द्वात्रिंशत्तमम् अपीति. केचित् ते व्याचक्षते. बुद्धालंभनमनस्कारसंमुखीभावात् पंचाशच् चेतना भवंति. अहम् अपीत्थं स्याम् इत्य् अपराः पंचाशद् इत्य् एवं पुण्यशतं भवतीति. अपरे वर्णयंति. कामधातुर् विंशतिस्थानानि. रूपधातुः षोडश. आरूप्याश् चत्वारः. अष्टौ च शीतनरका इत्य् अष्टचत्वारिंशद् विकल्पं त्रैधातुकं भवति. तदालंबनम् अस्य बोधिसत्त्वस्य करुणाचित्तम् उत्पद्यते. ततस् तत्संप्रयुक्ताश् चेतना अष्टचत्वारिंशद् भवंति. अतो ऽनंतरं बुद्धालंबना चेतनोत्पद्यते. यथानेनास्मात् त्रैधातुकात् सत्त्वा मोचिता इत्य् एका चेतना. अतो ऽनंतरं द्वितीया चेतनोत्पद्यते. अहम् अप्य् एवं मोचयेयम् इत्य् आत्मालंबनेति. पंचाशच् चेतना भवंति [तिब्. 93ब्] तासां पुनर् द्विःसंमुखीभावाच् चेतनाशतं भवतीति. अन्ये आहुः. प्राणातिपातविरतिर् बुद्धस्य भगवतः पंचभिः कारणैर् उपेता भवति. पंच कारणानि. मौलकर्मपथपरिशुद्धिः. सामंतकपरिशुद्धिः. वितर्कानुपघातः. स्मृत्यनुपरिगृहीतत्वं. निर्वाणपरिणामितत्वं (अभिध्-क्-व्य् 432) चेति. तदालंबना अपि चेतनाः पंच भवंति. एवं दशकर्मपथालंबना दश पंचकाश् चेतनानां पंचाशच् चेतना भवंति. तासां द्विःसंमुखीभावाच् चेतनाशतं भवतीत्य् एतत् पुण्यशतं. यथा अयम् असाधारणदशकुशलकर्मपथनिर्जातो भगवान् एवम् अहम् अपि स्याम् इति कृत्वा. तद् एवं सत्य् एकैकं पुण्यशतजम् इत्य् एतत् सिध्यति.
(iv.112) पर्युपासयामासेति. लिट्य् आंप्रत्ययांतस्यासेर् एतद् रूपं. पर्युपासितवान् इत्य् अर्थः. यत्र भगवतेति विस्तरः. प्रभासनाम्ना कुंभकारकुमारभूतेनासुखोदकाभ्यंगपरिचर्याभिर् उपस्थानं कृत्वाद्यं प्रणिधानं कृतं.
(iv.114, 115) तदास्य क्षांतिशीलपारमिते परिपूर्णे इति. चेतसा तावद् अकोपतः क्षांतिपारमितापरिपूरिः. कायवाग्भ्यां दुशरिताकरणाच् छीलपारमितापरिपूरिर् इति.
न दिवि भुवि वेति विस्तरः. दिवि भुवि वेति
उद्देशपदन्यायेनोक्तं.
नास्मिन् लोके न वैश्रवणालये न मरुभवने. दिव्ये स्थान
इति. तद्व्यक्त्यर्थं निर्देशपदानि.
अस्मिन् लोक
इति. मनुष्यलोके.
[तिब्. 94अ] वैश्रवणालय इति. चातुर्महाराजिकस्थाने.
मरुभवन इति. मरुद्भवने त्रायस्त्रिंशभवन इत्य् अर्थः.
दिव्ये स्थाने
यामादिस्थाने. लोकधात्वंतरेष्व् अपि तत्सदृशस्याभावज्ञापनार्थम् आह.
न दिक्षु विदिक्षु चेति.
अथ न श्रद्धीयते.
चरतु
नरः कश्चिद्
वसुधाम्
इमां
कृत्स्नां स्फितां
बहुसत्त्वाध्यासितां. सह पर्वतैः काननैश् च.
सपर्वतकाननां
स्वयं प्रस्त्यवेक्षताम् इत्य् अभिप्रायः. नव च कल्पाः प्रत्युदावर्तिता इति. तेन वीर्यारंभेणैकनवत्या कल्पैः परिपूर्णा वीर्यपारमितेति कृत्वा. अत एवोक्तम् एकनवत्यां कल्पेष्व् आक्षिप्तम् इति. बोधेः पूर्वसमनंतरम् इति. क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसमनंतरं. किं कारणं. परिपूर्णपारमितो हि बोधिम् अधिगच्छति. नापरिपूर्णपारमित इति.
(iv.116) यथायोगम् इति. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यम् एव. क्रिया च. किंचित् पुण्यं च वस्तु च. किंचिद् वस्त्व् एवेति. कथम् इत्य् आह. तद्यथेति विस्तरः. कर्म च ते पंथानश् च. प्राणातिपातादयः सप्त कर्मपथाः. कर्मस्वाभाव्याच् चेतनापथत्वाच् च. त्रयस् त्व् अभिध्यादयः पंथान एव कर्मणश् चेतनाख्यस्येति [तिब्. 94ब्] कर्मपथाः. कायवाक्कर्म त्रिविधेति. पुण्यं तावद् इष्टविपाकत्वात्. क्रिया कर्मस्वभावत्वात्. वस्तु तत्समुत्थानचेतनायास् तद् अधिष्ठाय प्रवृत्तेः. तत्समुत्थापिका चेतना कायवाक्कर्मसमुत्थापिका. पुण्यम् इष्टविपाकत्वात्. क्रिया मनस्कर्मत्वात्. न वस्तु क्रियानधिष्ठानत्वात्. तत्सहभुवो वेदनादयः. इष्टविपाकत्वात् पुण्यम् एव. न तु क्रियाधिष्ठानं वा. तल्लक्षणाभावात्. शीलमयम् इति. पूर्ववत् त्रैधं योज्यं. मैत्री पुण्यम् इति. पूर्ववद् योज्यं. पुण्यक्रियायाश् च वस्तु. तत्संप्रयुक्ताया मैत्रीसंप्रयुक्तायाश् चेतनायाः मैत्रीमुखेन मैत्रीवशेनाभिसंस्करणाद् अभिसंचेतनात्. तत्सहभूर् मैत्रीसहभूश् चेतना शीलं च ध्यानसंवरसंगृहीतं पुण्यं च क्रिया च पूर्ववत्. न हि ध्यानसंवरं प्रवर्तयेयम् इत्य् अधिष्ठाय चेतना प्रवर्तते. तेन न क्रियाधिष्ठानं. अन्ये तत्सहभुवो वेदनादयः पुण्यम् एव पूर्ववत्. तद् एवं. दानमये पुण्यं च क्रिया च वस्तु च. पुण्यं क्रिया च. पुन्यं च. पुण्यक्रियावस्तु. शीलमये पुण्यं च [तिब्. 95अ] क्रिया च क्रियावस्तु च. पुण्यक्रियावस्तु. भावनामये पुण्यक्रियावस्तु च. पुण्यं क्रिया च. पुण्यं चेति. पुण्यक्रियावस्तु. अवयवसरूपाणाम् अप्य् एकशेष इष्यते. गुणो यङ्लुकोर् इति यथा.
(iv.117) यद् अपि दीयते तद् दानम् इति देयं वस्तु कर्मणि ल्युड् इति कृत्वा.
दीयते येन तद् दानम्
इति. इह तु कुशलम् इष्टं दानम् इति. देयस्य हि वस्त्रादेर् अव्याकृतत्वं. रागादिभिर् अपीत्य् आदिशब्देन क्रोधेर्ष्यादीनां ग्रहणं.
पूजानुग्रहकाम्ययेति
चैत्यापरिनिर्वृतेभ्यः पूजा. इन्द्रियमहाभूतानुग्रहकामा तया. येन कलापेनेति (अभिध्-क्-व्य् 434) चित्तचैत्तकलापेन.
कुशलाः स्कन्धा
इति. पंच स्कंधाः. कायवाग्विज्ञप्तिस् तद् अविज्ञप्तिर् अपि वा रूपस्कंधो द्रष्टव्यः. स्वभावे चैष मयद् इति. न विकारादिषु. तद्यथा तृणमयं गृहम् इति. न तृणानां विकारो ऽस्ति. तैस् तु निर्विकारैर् एव तत् कृतम् इत्य् अतस् तृणमयं तृणस्वभावं तद् इति गम्यते. तत्स्वाभाव्ये ऽपि सति. तद्विकारतां परिकल्प्य मयत् क्रियत इत्य् अभिप्रायः. तत्प्रकृतिवचने मयद् इत्य् अनेन वा लक्षणेन मयद् विधीयते. एवं पर्णमयं भाजनम् इत्य् एतद् अपि वक्तव्यं.
(iv.118अब्) स्थापयित्वा दृष्टधर्मवेदनीयम् इति. तद् उभयार्थम् इति कृत्वा स्थाप्यते. तद् विपाकभूमेर् [तिब्. 95ब्] अत्यंतसमतिक्रांतत्वात्. कामधातोर् अत्यंतसमतिक्रांतत्वाद् इत्य् अर्थः. कामधातुर् हि दानस्य विपाकभूमिर् इति.
(iv.119) श्रुतादिगुणयुक्त इति. आदिशब्देन त्यागप्रज्ञाल्पेच्छतादिगुणयुक्तः. सत्कृत्यादि ददातीति. सत्कृत्येत्य् आदिर् अस्येति सत्कृत्यादि. क्रियाविशेषणम् एतत्. यथाक्रमं चत्वारो विशेषा इति. सात्कृत्यदाता सत्कारलाभी भवति. स्वहस्तदाता उदारेभ्यो भोगेभ्यो रुचिं लभते. कालदाता काले भोगाल् लभते. नातिक्रांतकालात्. यान् न भोक्तुम् एवासमर्थः. परान् अनुपहत्यदाता ऽनाच्छेद्यां भोगां लभते.
(iv.120) ऋतुसुखस्पर्शानि चास्यांगानीति. शीते उष्णानि. उष्णे शीतानि. साधारणे साधारणानि.
(iv.121अब्) शीतलिकादिषु चेति. आदिशब्देन वर्दलिकावर्षलिकादिषु. यथासूत्रम् उक्तम् एतत्. यथा मातापित्रोर् इति. उपकारित्वविशेषात् कारापकारौ महाफलौ तयोर् भवत इत्य् अर्थो ऽवगंतव्यः. ऋक्षमृगजातकाद्युदाहरणात् विपाक इति. एवं ऋक्षमृगयोर् गुहां प्रवेश्य गात्रोष्मशीतोपनयेनोह्यमाननद्युत्तारणेन वोपकारिणोर् अपकारकरणेन सद्यो ऽंगपातात्. [तिब्. 96अ] आदिशब्देन कपिजातकाद्य् उदाहार्यं. शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्य् एवमादीति. आदिशब्देन स्रोतआपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकस् ततो ऽप्रमेयतरः स्रोतआपन्नायेत्यादि.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
