Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 24/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तस्माद् विचार्यम् एतद् इति. योगाचारभूमिदर्शनेन विचार्यम् एतद् इति तत्र कौतूहलं पातयत्य् आचार्यः. अयं चात्रार्थसंक्षेपो द्रष्टव्यः. किं पुनर् अधिकृत्य वितर्कादय एवांगत्वेन व्यवस्थापिताः सत्स्व् अन्येषु धर्मेषु. तावद्भिः. प्रतिपक्षानुशंसतदुभयाश्रयांगपरिसमाप्तेः. आरूप्येष्व् अंगव्यवस्थानं नास्ति. शमथैकरसताम् उपादाय. तद् उक्तं प्रतिपक्षांगम् उपदाय. अनुशंसाङ्गम् उपादाय. तदुभयसंनिश्रयांगं चोपादाय. प्रथमे तावद् ध्याने वितर्को विचारश् च प्रतिपक्षांगं. तभ्यां कामव्यापादविहिंसावितर्कप्रहाणात्. प्रीतिः सुखं चानुशंसांगं. [तिब्. 343अ] वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात्. चित्तैकाग्रता तदुभयसंनिश्रयांगं. संनिश्रयबलेन वितर्कादिप्रवृत्तेर् इति. तथा द्वितीये ध्याने ऽध्यात्मसंप्रसादः प्रतिपक्षांगं. तेन वितर्कविचारप्रतिपक्षणात्. प्रीतिसुखे चित्तैकाग्रता च शेषे अंगे पूर्ववत्. तृतीये ध्याने उपेक्षास्मृतिसंप्रजन्यं च प्रतिपक्षांगः. तैः प्रीतिप्रतिपक्षणात्. सुखं चित्तैकाग्रता च शेषे अंगे यथाक्रमं पूर्ववत्. चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश् च प्रतिपक्षांगं. ताभ्यां ध्यानेषु सुखप्रतिपक्षणात्. अदुःखसुखा वेदना अनुशंसांगं. चित्तैकाग्रता तदुभयसंनिश्रयांगम् इति.

श्रद्धा प्रसाद इति. श्रद्धैव प्रसादः श्रद्धाप्रसादः.

कथम् असति द्रव्यान्तरत्वे चैतसिकत्वम् इति. वितर्कादीनां. अवस्थाविशेषो ऽपि हि नाम चेतसश् चैतसिको भवति. चेतसि भवत्वात्. पर्येषकमनोजल्पावस्था वितर्कः. प्रत्यवेक्षकमनोजल्पावस्था विचारः. वाक्समुत्थापिकावस्था चित्तस्य वितर्कः. तदन्यावस्था विचार इति भगवद्विशेषः. अविक्षिप्तावस्था समाधिः. [तिब्. 343ब्] प्रशान्तवाहितावस्था चित्तस्याध्यात्मसंप्रसाद इति.

न वै सुखं ध्यानेषु सौमनस्यं युज्यत इति. तुल्यसुखवेदनास्वाभाव्ये मानसत्वे ऽपि सति. कस्मात् सौमनस्यं सुखम् इति नोच्यते. अस्ति (अभिध्-क्-व्य् 677) कारणं. इयं हि प्रीतिर् अनुपशांता. तया हि तत् समाहितम् अपि चित्तं क्षिप्यत इवोन्नम्यत इव सामोदं सहासं विप्लुतम् इव व्यवस्थाप्यते. तद् यदोपशांतं भवति. तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुखम् इत्य् उच्यते.

(viii.10) क्लेशाविविक्तत्वाद् इति. तद्भूमिकैः क्लेशैर् अविविक्तत्वाद् इत्य् अर्थः. क्लेशाविलत्वाद् इति. क्लेशैर् अप्रसन्नत्वाद् इत्य् अर्थः. क्लिष्टसुखसम्भ्रमितत्वाद् इति. क्लिष्टेन सुखेन संभ्रमितत्वात्. स्मृतिः संप्रजन्यं च न भवतः. क्लेशमलिनत्वाद् इति. तद्भूमिकैः क्लेशैर् मलिनत्वात्. उपेक्षायाः स्मृतेश् च परिशुद्धिर् नास्ति.

कुशलमहाभूमिकत्वाद् अनयोर् इति. प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके पठिते.

श्रद्धाप्रमादः प्रश्रब्धिर् उपेक्षा ह्रिर् अपत्रपा मूलद्वयम् अहिंसा च वीर्यं च कुशलं सदेति

वचनात्. किं पुनर् एते पूर्वस्मिन् पक्षे क्लिष्टेष्व् अपि ध्यानेषु भवतः. न च भवत इत्य् आह. कस्माद् एतन् नोक्तं. अनुक्तसिद्धत्वात्. कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोर् अपरिग्रहाद् भवत एव ते इत्य् अपरे.

(viii.11) श्वासे इति.

[तिब्. 344अ] आश्वासप्रश्वासौ. द्वित्वप्रदर्शनार्थं चात्र द्विवचननिर्देशः. वितर्कविचारप्रीतिसुखैर् अकंपनीयत्वाद् इति. यथा पूर्वकाणि त्रीणि ध्यानानि वितर्कादिभिः. कंप्यते प्रथमं ध्यानं वितर्कविचाराभ्यां कंप्यते. द्वितीयं प्रीत्या. तृतीयं सुखेन. नैवम् एभिश् चतुर्थं कंप्यते.

यथा निवाते दीपो न कंप्यते वायुना. तद्वद् इत्य् उक्तं सूत्र इत्य् अपर आहुः. अष्टापक्षालमुक्तत्वात्.

(viii.13) आद्याप्तम्

इति. आद्यध्यानसंगृहीतं. निर्माणचित्तवद् इति. यथाधरभूमिकं निर्माणचित्तं तद्भूमिकं निर्माणं निर्मातुकामा निर्मातारः संमुखीकुर्वन्ति. तद्वत्. न कुशलं हीनत्वाद् इति. तद् धि प्रथमध्यानभूमिकं कुशलं द्वितीयध्यानभूमिकान् निहीनं निकृष्टम्. अतो न संमुखीकुर्वन्ति. प्रयोजनेन हि ते प्रथमध्यानभूमिकं संमुखीकुर्वन्ति. न बहुमानेन. सविपाकं च तत् कुशलं. न च तद्विपाकेन ते ऽर्थिन इति कुशलचित्तसंमुखीकरणे यत्नं न कुर्वन्ति.

(viii.14) वैराग्येणोपपत्तित

इति. वैराग्येणोपपत्तितो वेति. वाशब्दो लुप्तनिर्देशः. अधोभूमिवैराग्याद् (अभिध्-क्-व्य् 678) वा असमन्वागतस् तेन शुद्धकं प्रतिलभते ध्यानं आरूप्यं वा. कामवैराग्यात् प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारम् अन्यत्र निर्वेधभागीयात्. एवं यावद् आकिंचन्यायतनवैराग्याद् [तिब्. 344ब्] भवाग्रं प्रतिलभते. अधोभूम्युपपत्तितो वा. उपरिष्टाद् अधरायां भूमाव् उपपद्यमानस् तल् लभते. अन्यत्र भवाग्राद् इति. तस्याधोभूमिवैराग्यत एव लाभः. प्रयोगतो निर्वेधभागीयम् इति. तस्य वैराग्योपपत्तिकृतः स लाभो न भवति. परिहाणितो ऽपि हानभागीयम् इति. स्थितिभागीयात् परिहीयमाणो हानभागीयं लभते. अत एवोच्यत इति. यस्मात् परिहीणो पि हानभागीयं लभते. एवं परिहाण्या चोपपत्त्यापि चेति योज्यं. कथं. स्याच् छुद्धकं परिहाण्या लभेत परिहाण्या विजह्यात्. स्याच् छुद्धकं ध्यानम् उपपत्त्या लभेत उपपत्त्या विजह्याद् इति. आह. स्यात्. कथम् इत्य् आह. हानभागीयं प्रथमं ध्यानम् इति. ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकं. विशेषेण ब्रह्मलोके उपपद्यमान इति वचनात्. ब्रह्मलोकवैराग्येण त्यज्यत इति. यस्मात् प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात्. तद्भूमिकक्लेशम् इव त्यजति. अतो ब्रह्मलोकवैराग्येण त्यज्यत इत्य् उच्यते. एवं तावत् प्रथमस्य प्रश्नस्य विवर्जनं. ब्रह्मलोकवैराग्यपरिहाण्या लभते. यदि ब्रह्मलोकवैराग्यपरिहाण्या परिहीयते पुनस् तद् धानभागीयं प्रतिलभते. तद्भूमिकक्लेशवत्. [तिब्. 345अ] कामधातुवैराग्यपरिहाण्या त्यज्यते. यदा कामधातुवैराग्यात् परिहीयते. तदा शुद्धकं त्यज्यते. उपरिष्टाद् ब्रह्मलोक उपपद्यमानो लभत इति. द्वितीयादिभ्यो ब्रह्मलोक उपपद्यमानो हानभागीयं तद्भूमिकक्लेशवद् एव लभते. तस्मात् कामधाताव् उपपद्यमानो विजहातीति. तस्माद् ब्रह्मलोकात् कामधाताव् उपपद्यमानो विजहातीति. इन्द्रियसंचारतो ऽपि शैक्षाशैक्षम् इति. श्रद्धाविमुक्तो दृष्टिप्राप्तायां शैक्षं लभते. समयविमिक्तो ऽप्य् अकोप्यप्रतिवेधे अशैक्षं लभते. नावश्यम्. आनुपूर्विकेनालाभाद् इति. यद्य् आनुपूर्विको ऽनागम्यसंनिश्रयेण नियामम् अवक्रामति न लभते.

(viii.15, 16) स्वभूमिके शुद्धानास्रवे इति. व्युत्थानकाले प्रवाहे च. द्वितीयतृतीयध्यानभूमिके चेति. मिश्रकामिश्रकानुलोमसमापत्तौ व्युत्क्रान्तकसमापत्तौ च. सप्त स्वभूमिके शुद्धकानास्रवे इति. पूर्ववद् विज्ञानाकाशानंत्यायतनभूमिके च. तथैव प्रतिलोमसमापत्तौ. भवाग्रं शुद्धकम् एवानास्रवाभावाद् इति. मांद्याद् अनास्रवं नास्तीत्य् उक्तं. अनुलोमसमापत्तौ तु व्युत्थानकाले तद् भवति. तृतीयचतुर्थप्रथमध्यानभूमिके चेति. अमिश्रकमिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालेषु. [तिब्. 345ब्] (अभिध्-क्-व्य् 679) आकाशानंत्यायतनचतुर्थध्यानभूमिकानि चत्वारीति. तेष्व् एव कालेषु. त्रीणीत्य् अनास्रवाभावात्. एवम् अन्यध्यानारूप्याद् अनंतरं दश द्रव्याणि योज्यानीति. तद्यथा तृतीयध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. चतुर्थध्यानाकाशानंत्यायतनभूमिकानि चत्वारि. तथैव च प्रथमद्वितीयध्यानभूमिकानि चत्वारीति. चतुर्थध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. आकाशविज्ञानानंत्यायतनभूमिकानि चत्वारि. द्वितीयतृतीयध्यानभूमिकानि चत्वारीति. आकाशानंत्यायतनाद् अनन्तरं दश. स्वभूमिके द्वे. विज्ञानाकिंचन्यायतनभूमिकानि चत्वारि. तृतीयचतुर्थध्यानभूमिकानि चत्वार्य् उत्पद्यन्त इत्य् एवं दश भवन्ति. अन्वयज्ञानानन्तरं चेति विस्तरः. इदं व्युत्पाद्यते. ऊर्ध्वाधरभूम्यालंबनत्वाद् ध्यानानम् अस्ति प्रसंग इति कृत्वा. तस्याधराश्रयालम्बनत्वाद् इति. यमात् तद् धर्मज्ञानम् अधराश्रयकामधात्वाश्रयम् अधरालम्बनं कामदुःखाद्यालम्बनं. तस्याधराश्रयालम्बनत्वान् न धर्मज्ञानानन्तरम् आरूप्यान् समापद्यन्ते. शेषं यथैवानास्रवाद् इति.

स्वभूमिके च शुद्धानास्रवे उत्पद्येते. ऊर्ध्वाद् अधोभूमिके च [तिब्. 346अ] यावत् तृतीयाद् इति. प्रणिधायेति विस्तरः. यदि कश्चिद् एवं बुद्धिम् उत्पाद्यार्धरात्रे चन्द्रोदये चन्द्रास्तमये वा मया प्रबोद्धव्यम् इति स्वपेत्. स पूर्वाभिप्रायानुवर्तनात् संतततेः तस्मिन्न् एव काले प्रबुध्यते. यथास्यैवं प्रणिधाय सुप्तः. तस्याभिप्रेते काले प्रबोधो भवति. तद्वद् एतत्. सर्वथा नोत्पद्यत इति. नापि स्वभूमिकं नाप्य् अधरभूमिकम् उत्पद्यत इत्य् अर्थः. समापत्तिकालं प्रत्य् एतद् उक्तम् इति. शुद्धकात् क्लिष्टाच् च समनन्तरं स्वभूमिकम् एव क्लिष्टम् उत्पद्यते नान्यभूमिकम् इति. कथं. तथा शुद्धात् क्लिष्टं वापि स्वभूमिकं. क्लिष्टात् स्वं शुद्धकं क्लिष्टम् इत्य् एवं.

च्युतिकाले तु

मरणभवे. उपपत्तिलाभिकाच् छुद्धकाद् इति विस्तरः. उपपत्तिध्यानेषु यद् उपपत्तिलाभिकं कुशलसमाहितं. तद् अपि शुद्धकं ध्यानम् इत्य् उच्यते. अत इदम् उच्यते.

च्युतिकाले त्व्

इति विस्तरेण. किं कारणं. असमाहितत्वान् मरणभवस्य. न हि तदानीं शुद्धकं समापत्तिध्यानम् अस्तीति. अतः सर्वभूमिकं क्लिष्टम् उत्पद्यत इति. स्वभूमिकाधरोर्ध्वभूमिकं प्रतिसंधिचित्तं क्लिष्टम् असमाहितम् उत्पद्यत इत्य् अर्थः. नोर्ध्वभूमिकं. क्लिष्टसद्भावे सति तत्रोपपत्त्यसंभवात्.

(viii.17, 18) अन्यत्र विशेषभागीयाद् [तिब्. 346ब्] इति. इत ऊर्ध्वभूम्यभावात्. तस्माद् अनास्रवम् उत्पद्यत इति निर्वेधभागीयात्. हानस्थितिभागीये इति. हानभागीयं प्रवाहकाले. स्थितिभागीयं विशेषगमनकाले. अन्यत्र हानभागीयाद् इति. विशेषभागीयाद् धीयमानस्य स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात्. तद् एवैकं इति. तद् एव निर्वेधभागीयं प्रवाहयोगेन.

(viii.19) आकृष्टा इत्य् अनुक्रमेणेति. अनुलोमानुक्रमेण प्रतिलोमानुक्रमेण च.

(viii.20) विधीयत इति क्रियत इत्य् अर्थः. स्थाप्यत इति वा. किं कारणं. निहीनत्वात्.

आर्याकिंचन्यसांमुख्याद्

इति. आर्यम् अनास्रवं. अनास्रवस्याकिंचन्यायतनस्य सांमुख्यात् संमुखीभावात्. भवाग्रे जातस्यास्रवप्रहाणं भवति. तुशब्दो ऽपवादार्थं द्योतयति. स्वस्याभावाद् इति. भावाग्रिकस्यानास्रवस्य मार्गस्याभावाद् इत्य् अर्थः. तस्य चाभ्यासाद् इति. तस्याकिंचन्यायतनस्यानास्रवस्याभ्यासात् संनिकृष्टत्वात्.

(viii.21) तृष्णापरिच्छिन्नत्वाद् भूमीनाम् इति. या यस्यां भूमौ. तस्याम् एव भूमाव् अनुशयनात्. तया सा भूमिः परिच्छिन्ना भवति. अन्यथा हि तस्योत्तरत्वम् एव न सिध्येद् एकभूमिस्थानान्तरवत्. अत एवौत्तराधर्ये ऽपि स्थानान्तराणां त्रयाणां त्रयाणाम् अष्टानां [तिब्. 347अ] चैकभूमिता सिध्यति. तृष्णाव्यतिहारयोगात्. नानास्रवं कुशलत्वप्रसंगाद् इति. तत्प्रार्थना हि कुशलो धर्मच्छन्द इति.

न मौलाः कुशलारूप्याः सास्रवाधरगोचरा

इति. मौलग्रहणं सामन्तकनिरासार्थं. आरूप्यसामन्तकानि ह्य् अधरां सास्रवां भूमिम् आलंबते. कुशलग्रहणम् आस्वादनासंप्रयुक्तनिरासार्थं. उभयकुशलग्रहणार्थं च. यदि ह्य् आरूप्या इत्य् एवोच्येत आस्वादनासंप्रयुक्ता मौला आरूप्या न सास्रवाधरगोचरा इति संभाव्येरन्. अनास्रवा एवारूप्या एवम् इति गृह्येरन्. आरूप्यग्रहणं ध्याननिरासार्थं. ध्यानानि हि मौलानि अपि सास्रवाधरवस्त्वालम्बनानि भवन्ति. समन्तालोचनत्वाद् ध्यानानां. सास्रवग्रहणम् अनास्रवनिवृत्त्यार्थम्. अनास्रवा ह्य् अधरा धर्मा मौलानां कुशलानां आरूप्यानाम् आलम्बनानि संभवन्ति. अधरग्रहणम् ऊर्ध्वविशेषणार्थं. ऊर्ध्वभूमिकसास्रवालम्बनसंभवात्. अनास्रवं त्व् आलम्बनम् इत्य् उद्ग्राह्य दर्श्यति सर्वान्वयज्ञानपक्ष इति. सर्व इति नवभूमिक इन्द्रियगोत्रादिभेदाभिन्नो ऽपि गृह्यते. अन्वयज्ञानपक्ष इति पक्षग्रहणेन दुःखाद्यन्वयज्ञानक्षान्तयः तत्सहभुवश् (अभिध्-क्-व्य् 681) च गृह्यन्ते. [तिब्. 347ब्] न धर्मज्ञानपक्षः. कामदुःखाद्यालम्बनत्वेन विप्रकृष्टत्वात्. नाधोभूमिनिरोधः. अधोभूमिग्रहणप्रसंगाद् इति. व्याख्यातम् एतत् पुरस्तात्.

(viii.22) अनास्रवेण हीयन्ते क्लेशा

इति. ध्यानारूप्याणां यो ऽनास्रवः संभवति. तेन यथासंभवं क्लेशाः प्रहीयन्ते. कतमेनानास्रवेण मौलेन. वक्ष्यते हि

सामन्तकेन चेति.

अपवादरूपेण सामन्तकेन शुद्धकेन क्लेशाः प्रहीयन्त इत्य् अधिकृतं. कुत एव क्लिष्टेनेति. क्लिष्टेन क्लेशप्रहाणं नैव संभवतीत्य् अभिप्रायः. किं कारणं शुद्धकेन क्लेशा न प्रहीयन्त इत्य् आह. वीतरागत्वान् नाध इति विस्तरः. अधरभूमिवीतरागत्वान् न शुद्धकेनाधरभूमिकाः प्रहीयन्ते. कुत एव क्लिष्टेन. तस्यैव तदप्रतिपक्षत्वान् न स्वभूमौ. तस्यैव प्रथमध्यानस्य यावन् नैवसंज्ञानासंज्ञायतनस्य. तदप्रतिपक्षत्वात् तस्याप्रतिपक्षस् तदप्रतिपक्षः. तद्भावः. तस्मात्. तदप्रतिपक्षत्वान् न स्वभूमौ क्लेशाः प्रहीयन्ते. न हि भवेन भवस्य निःसरणम् अस्ति. विशिष्टतरत्वान् नोर्ध्वम् इति. नोर्ध्वभूमिकाः [तिब्. 348अ] क्लेशाः अधरभूमिकेन शुद्धकेन प्रहीयन्ते. विशिष्टतरत्वात् क्लेशानां. न च न्यूनम् आश्रित्य विशिष्टानां प्रहाणं युज्यते. इत्य् अनेन शुद्धकेनापि क्लेशा न प्रहीयन्ते. कुत एव क्लिष्टेनेति सिद्धम् एतत्. शुद्धकेनापीत्य् अपिशब्दाद् अनास्रवेणापीति. संभवतस् त्व् एतद् उक्तं. अत एवोच्यते. अधोभूमिप्रतिपक्षत्वात् इति. कामावचरा हि क्लेशाः प्रथमध्यानसामन्तकेन प्रहीयन्ते. प्रथमध्यानभूमिका द्वितीयध्यानसामन्तकेन. एवं यावद् आकिंचन्यायतनभूमिका नैवसंज्ञानासंज्ञायतनसामन्तकेनेति.

(viii.22) येन तत्प्रवेश इति. येन सामन्तकेन तेषां मौलानां ध्यानारूप्याणां प्रवेशः. किं तान्य् अपि त्रिविधानीति. आस्वादनासंप्रयुक्तादिभेदात्. तथैव च तेषु वेदनेति. प्रथमयोर् ध्यानयोः प्रीतिः. तृतीये सुखं. चतुर्थ उपेक्षेत्य् उक्तं. किम् एवं सामन्तकेषु. उपेक्षेन्द्रियसंप्रयुक्तानि च यत्नवाह्यत्वाद् इति. अनाभिसंस्कारवाही मार्गः प्रीतिसुखाभ्यां संप्रयुज्यते. तानि च सामन्तकानि यत्नवाह्यानि साभिसंस्कारवाह्यानीत्य् अत उपेक्षेन्द्रियसंप्रयुक्तानि. [तिब्. 348ब्] पुनर् अधोभूम्युद्वेगानपगमात् प्रीतिसुखयोर् अयोग इति. अतो ऽप्य् उपेक्षेन्द्रियसंप्रयुक्तानि. वैराग्यपथत्वाच् च. नास्वादनासंप्रयुक्तानीति. यदि ह्य् आस्वादनासंप्रयुक्तानि स्युर् वैराग्यमार्गो न स्यात्. न हि तृष्णासंप्रयुक्तो मार्गः क्लेशप्रहाणाय (अभिध्-क्-व्य् 682) भवति. अथ वायम् अभिसंबन्धः. उपेक्षेंद्रियसंप्रयुक्तानि च यत्नवाह्यत्वात्. अधोभूम्युद्वेगानपगमाद् वैराग्यपथत्वाच् चेति द्वाभ्यां कारणाभ्यां नास्वादनासंप्रयुक्तानीति. पूर्ववद् वक्तव्यं शेषं. यद्य् अपि सामन्तकचित्तेन संधिबन्ध इति. अष्टास्व् अपि ध्यानारूप्येषु यस्य यत् सामन्तके. तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन संधिबन्ध इत्य् एष सिद्धान्तः इति. अत इदम् उच्यते. यद्य् अपि सामन्तकचित्तेनेति विस्तरः. आस्वादनासंप्रयुक्तम् अप्य् अनागम्यम् इति. अनागम्यस्य पटुत्वात्. यथा हि तद् अनास्रवम् अपि संभवति. तथास्वादनासंप्रयुक्तम् अपीत्य् अभिप्रायः. मौलप्रतिस्पर्धित्वाद् आस्वादनासमुत्पत्तिसद्भावाद् इति आचार्यसंघभद्रः.

(viii.23) ध्यानविशेषत्वाद् इति. तद् एव मौलं प्रथमं ध्यानं वितर्कापगन्माद् विशिष्टं [स] ध्यानान्तरम् इत्य् उच्यते [तिब्. 349अ] इत्य् अर्थः. विशेषाभावाद् इति. यथा प्रथमे ध्याने विशेषो भवति. क्वचिद् वितर्कविचारौ. क्वचिद् विचार एवेति. न तथा द्वितीयादिष्व् इति. अतो ध्यानेषु न व्यवस्थाप्यते ध्यानान्तरम्. अत एव दुःखा प्रतिपद् इति. अत एव हि संस्कारवाहित्वात्. वितर्कमात्रप्रतिषेधाद् इति.

अतर्कं ध्यानम् अन्तरं

इति वचनात्.

(viii.24, 25) तदालम्बनः समाधिर् आनिमित्त इति. अनिमित्ते भव आनिमित्तः. दशाकार इति. अनित्यदुःखाकारौ द्वौ. समुदयाकारश् चत्वारो मार्गाकारश् चत्वार इत्य् एते दशाकाराः. अनित्यदुःखतद्धेतुभ्य उद्वेगाद् इति. अनित्याद् दुःखात् तद्धेतोश् च. तस्य दुःखस्य हेतोश् च समुदयाद् उद्वेगात्. किं. अप्रणिहितः. अकृतसंस्कार इत्य् अर्थः. मार्गस्य कोलोपमतयावश्यत्याज्यत्वात्. कोल उच्यते उडुपः. स उपमास्येति कोलोपमः. मार्गः. तद्भावः. तया. कोलोपमतया मार्गस्यावश्यत्याज्यत्वं. तस्माद् अप्रणिहित इत्य् अधिकृतः. यथा हि कोलम् आश्रित्य नदीम् उत्तरन् न कोलनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. एवं मार्गम् आश्रित्य न मार्गनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. तदाकार इति. तद्दशाकारो [तिब्. 349ब्] यथोक्तः. तदतिक्रमाभिमुखत्वाद् इति. तस्य मार्गस्यातिक्रमे ऽभिमुखत्वात्. अनेनावश्यत्याज्यत्वम् अस्य दर्शयति. अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्य् अनुक्तम् अप्य् एतद् गम्यत एव. शून्यता-अनात्मताभ्यां तु नोद्वेग इति. शून्यानात्माकाराभ्यां तु नोद्वेगो योगिनो भवति. यद्य् अपि हि दुःखसत्यं शून्यानात्माकाराभ्याम् आकार्यते. न तु ताभ्यां तस्माद् दुःखाद् उद्वेगः. कस्मात्. निर्वाणसामान्यात्. निर्वाणम् अपि शून्यानात्मलक्षणं. शून्यता-अनात्मते हि सर्वधर्माणां लक्षणम् (अभिध्-क्-व्य् 683) इति. न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः. तस्मान् न तदाकारो ऽप्रणिहितसमाधिर् इति. लौकिका एकादशस्व् इति. कामधाताव् अनागम्ये ध्यानान्तरे ध्यानारूप्येषु चेति. यत्र मार्ग इति. कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु भूमिषु. मोक्षद्वारत्वाद् इति. द्वारार्थो मुखार्थ इति दर्शयति.

(viii.25, 26) शून्यताद्यालम्बनत्वात् तन् नामेति. शून्यताप्रणिहितानिमित्तालम्बनत्वात्. शून्यताशून्यतेति नाम. अप्रणिहिताप्रणिहितेति. आनिमित्तानिमित्त इति च.

शून्यतश् चाप्य् अनित्यत इति. यथासंख्येन. शून्यताशून्यता [तिब्. 350अ] हि शून्यताकारेणाशैक्षं शून्यतासमाधिम् आलम्बते नायम् आत्मीयम् इति. नानात्माकारेण.

आह. किम् अत्र कारणं यच् छून्यताशून्यतासमाधिः शून्यताकार एव. न पुनर् अनात्माकारो ऽपि शून्यतावद् इति. अत्रोच्यते. शून्यताकारप्रवृत्तशून्यतापृष्ठोत्पाद्यत्वात्. आह. किम् अर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठेनोत्पत्तिर् न पुनर् अनात्माकारप्रवृत्तशून्यतापृष्ठेनेति. अत्रोच्यते. तदुत्पत्त्यानुकूल्यात्. स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस् तस्य शून्यताशून्यतासमाधेर् उत्पत्ताव् आनुकूल्येनावतिष्ठते. नानात्माकारः. न ह्य् एवम् अनात्मदर्शनम् उद्वेजयति यथा शून्यदर्शनं. दृष्टेष्व् अपि ह्य् अनात्मतो भवेष्व् अभिरतिर् अस्ति संसारे शून्यदर्शनाभावात्. तद्यथाध्वगस्यासंबंधाद् अध्वगदर्शनाद् अपि प्रीतिः. एकाकिनस् तु तच्छून्यत्वाद् अप्रीतिर् इति. तद्वत्.

अनित्याकारेणेति. दशानाम् आकाराणां. न दुःखत इति विस्तरः. न दुःखत आकारयंत्य् अनास्रवस्यातल्लक्षणत्वात्. आर्यप्रतिकूलतया हि दुःखम् इष्यते. न हेतुसमुदयप्रभवप्रत्ययाकारैर् अनास्रवस्यातल्लक्षणत्वाद् एवानास्रवस्यासमुदयादिलक्षणत्वाद् इत्य् अर्थः. न मार्गाकारैर् [तिब्. 350ब्] दूषणीयत्वाद् इति. सो ऽशैक्षः समाधिर् दूषयितव्यो न च मार्गाकारा दूषणरूपा इति. अतो न मार्गाकारैस् तं समाधिम् आलम्बते. निरोधाकारैस् तु नैव सम्बन्ध इति. न तैश् चिन्त्यते. पारिशेष्याद् अनित्याकारेणैव.

असंख्येयाक्षयम्

इत्य् अप्रतिसंख्यानिरोधम् इत्य् अर्थः. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बते. शान्ततः शान्तो ऽयम् इति. कथं तस्याप्रतिसंख्यानिरोधः. अशैक्षाद् आनिमित्तात् समाधेर् व्युत्थितस्य तदनन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति अन्ये चानास्रवाः. यदि ते नोत्पन्नाः. स्युः. अशैक्षा (अभिध्-क्-व्य् 684) आनिमित्तक्षणा उत्पन्नाः स्युः. तेषां सास्रवाणाम् अन्यानास्रवाणां चोत्पत्तिकाले तेषाम् अशैक्षाणां आनिमित्तक्षणानाम् अप्रतिसंख्यानिरोधो लभ्यते. प्रत्ययवैकल्यात्. तम् अप्रतिसंख्यानिरोधम् आलम्बते शान्ताकारेण. अनास्रवस्य प्रतिसंख्यानिरोधाभावात्. न प्रतिसंख्यानिरोधम् आलम्बते. कस्मात् पुनर् अनास्रवस्य प्रतिसंख्यानिरोधो नास्ति. अप्रतिकूलत्वात्. यद् धि प्रतिकूलम् आर्याणां. तत् संयोगस्य विसंयोगाय यतस् ते यतन्ते. विसंयोगश् च प्रतिसंख्यानिरोधः. अतो ऽनास्रवस्य न प्रतिसंख्यनिरोधः. किं चाशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात्. [तिब्. 351अ] अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात्. तत्प्रोत्साहनेनैव तद्विदूषणम् अभिलषंस् तदप्रतिसंख्यानिरोधम् एवालम्बते. शत्रूपग्रहेण हि लोके मार्योपघातः क्रियमाणो दृश्यत इति. न निरोधप्रणीतनिःसरणाकारैर् इति. निरोधः साधारणाः. न निरोध इति. तद्भावः. तस्मात्. अनित्यतानिरोधसधारणत्वाद् अयम् अप्रतिसंख्यानिरोधो न निरोधाकारेणाकार्यते. अन्यथा हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात्. निरोधाकारेण ह्य् अनित्यतानिरोधेनैव दूषित एवासाव् अप्रतिसंख्यानिरोधः स्यात्. तद्दूषणेन नाशैक्ष आनिमित्तसमाधिदूषितः स्याद् इत्य् अभिप्रायः. न प्रणीताकारेण. अव्याकृतत्वाद् अप्रतिसंख्यानिरोधस्य. कुशलं हि प्रणीतं नाव्याकृतम्. अतो न प्रणीताकारेणालम्बते. अविसंयोगाच् चाप्रतिसंख्यानिरोधस्य. न निःसरणाकारेण तम् आलम्बते. संक्लेशवियोगो हि संक्लेशनिःसरणम् इष्यते. यस्मान् नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति. तथा हि सत्य् अप्य् अप्रतिसंख्यानिरोधे केषांचित् कुशलाकुशलानां धर्माणां तैः संप्रयुक्त एव तत्प्राप्त्यविच्छेदात्. आर्यमार्गद्वेषित्वाद् [तिब्. 351ब्] इति. कथं द्विषति. शून्यतादिभिर् आकारैस् तद्वैमुख्यात्.

अकोप्यस्येति.

अकोप्यधर्मणः. तस्य तीक्ष्णेन्द्रियत्वात् तदुत्पादने सामर्थ्यम् अस्ति. नान्यस्यार्हतः. तेभ्यो दृष्टधर्मसुखविहारत्वाद् आसंगास्पदभूतेभ्यो ऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थम् अपरसमाधीन् समापद्यन्ते.

(viii.27, 28) विस्तर इति. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय वर्तते. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते. अस्ति समाधिभावनासेविता भाविता बहुलीकृता प्रज्ञाप्रभेदाय संवर्तते. अस्ति समाधिभावना (अभिध्-क्-व्य् 685) आसेविता भाविता बहुलीकृता आस्रवक्षयाय संवर्तत इति सूत्रं. तत्रासेविता निषेवणभावनया. भाविता विपक्षप्रहाणतया. बहुलीकृता विपक्षदूरीकरणतया.

आह. दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तत इत्य् उक्तं. न च दिव्यचक्षुरभिज्ञासमाधिभावना. अत्रोच्यते. अयं फले हेतूपचारः. यस्य हेतोः समाधिभावनाया दिव्यचक्षुरभिज्ञाफलं. तत्र फले हेतूपचारः. ज्ञानदर्शनाय समाधिभवनेति. येषां पुनर् अयं पक्षः.

षड्विधा मुक्तिमार्गधीर्

इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षड् अभिज्ञा इति. तेषाम् अचोद्यम् एवैतत्. तेषां विमुक्तिमार्गाणां समाहितत्वात्. पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानाम् इत्य् अवगन्तव्यं. दिव्यचक्षुःश्रोत्रविज्ञानयोर् अभिज्ञत्वेनाभीष्टत्वात्. तदादिकत्वात्. अन्योन्यो ऽपीति. उदाहरणत्वरूपोक्तत्वात्. नावश्यं संपरायसुखविहारायेति. संपरायो ऽनागतं जन्म. तत्र सुखविहारः. तस्मै नावश्यम् एतत् भवति. कस्माद् इत्य् आह. परिहीणानां प्रथमध्यानात्. ऊर्ध्वोपपन्नानां द्वितीयादिषु. परिनिर्वृतानां च. संपरायसुखविहारस्याभावात्.

ज्ञानदर्शनायेति

ज्ञानाय दर्शनाय चेति समासः. तत्र [तिब्. 352अ] ज्ञानं मनोविज्ञानसंप्रयुक्ता प्रज्ञा. अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादिविकल्पाद् दर्शनं चक्षुर्विज्ञानसंप्रयुक्ता प्रज्ञा अविकल्पिका. त्रैधातुका अनास्रवा इति. त्रैधातुका अशुभानापानस्मृत्यरणाप्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः. अनास्रवाः विमोक्षसुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः. अत्र तु समाधिसंप्रयोगात् प्रायोगिकानां [तिब्. 352ब्] गुणानां समाधिभावनेत्य् उपचारः. प्रज्ञाप्रभेदायेति. प्रज्ञाविशेषकर्षाय. आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति. आत्मन उपनायिका आत्मनो देशिकेत्य् अर्थः बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निःक्रान्तो जम्बुमूले प्रथमं ध्यानम् उत्पादितवान्. बोधिमूले च देवपुत्रमारं भंक्त्वा प्रथमे यामे दिव्यं चक्षुर् उत्पादितवान्. तेन दिव्येन चक्षुषा सत्त्वांश् च्युत्युपपत्तिसंकटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तिः संमुखीकृतवान्. ते ऽस्य प्रायोगिका गुणाः प्रज्ञाप्रभेदाय जायन्ते. ततस् तृतीये यामे चतुर्थं ध्यानं निश्रित्य नियामम् अवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवान् इति. यस्माच् चैवम् आत्मोपनायिका धर्मदेशना. अतश् (अभिध्-क्-व्य् 686) चतुर्थ एव.

वज्रोपमो ऽन्त्ये यो ध्यान

इति.

(viii.29-31) अप्रमाणसत्त्वालम्बनाद् इति. अप्रमाणसंज्ञाकरणे कारणम् एतत्.

यथासंख्यम् इति. व्यापादबहुलानां तत्प्रहाणाय मैत्री. विहिंसाबहुलानां तत्प्रहाणाय करुणा. अरतिबहुलानां तत्प्रहाणाय मुदिता. कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति. कामरागप्रतिपक्षत्वे को विशेष इति. कामरागबहुलात् [तिब्. 353अ] प्रतिचिन्ता. मतापितृपुत्रज्ञातिरागस्योपेक्षेति. यथैवसंबद्धाः पुरुषाः. एवम् एवैते इत्य् उपेक्षेत्य् अभिप्रायः. तस्य लोभाकृष्टत्वाद् इति. यस्माल् लोभाकृष्टो व्यापादः. तस्माल् लोभप्रतिपक्षरूपतां भजत इत्य् अभिप्रायः. उभयस्वभावात् त्व् असौ युज्यत इति. अलोभस्वभावा चाद्वेषस्वभावा च युज्यत इत्य् अर्थः. किं कारणम्. रागद्वेषयोः प्रतिपक्षत्वात्. अतस् तु नैको धर्म उभयस्वभाव इति ग्रहीतव्यं. किं तर्हि. अलोभाद्वेषयोर् उपेक्षाशब्दो वर्तत इति. सुखिता बत सत्त्वा इति. संत्व् इत्य् अभिप्रायः. दुःखिता बत सत्त्वा इति. दुःखिता दुःखाद् विमुच्यंतां इत्य् अभिप्रायः. तथा हि व्याख्यास्यते. व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शस्यति. कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलप्रमाणसदृशानि विद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यात् मौलैः सदृश्यानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैः. मैत्री विहिंसाबहुलानां तत्प्रहाणाय. माध्यस्थ्याद् इति. अपक्षपातिवेनाप्य् अनुनीतो नापि प्रतिहत इत्य् अर्थः. अश्रद्धताम् इति विस्तरः. असुखवतां. सुखम् अस्तीत्य् अधिमोक्षात् कथं न विपरीतत्वं भवति. संत्व् इत्य् अभिप्रायाद् इति. सुखिताः संत्व् इत्य् अभिप्रायात्. न विपरीतत्वम् इत्य् अभिप्रायः. आशयस्याविपरीतत्वाद् वेति. आशयः कुशला धर्माः सुखिता

बत सत्त्वा इत्य् एते चित्तचैत्ताः सपरिवाराः. अस्याशयस्याविपरीतत्वान् न विपरीतत्वं [तिब्. 353ब्] भवति. कथं पुनर् आशयस्याविपरीतत्वम् इत्य् आह. अधिमुक्तिसंज्ञानाद् इति. अधिमुक्तेः संज्ञानम् अधिमुक्तिसंज्ञानं. तस्मात्. यस्मात् ताम् अधिमुक्तिं तथैव संजानीते. आधिमोक्षिको ऽयं मनस्कार इति परिच्छिनत्ति. अकुशलत्वम् इति. विपरीतग्रहणतः. न. कुशलत्वात्. नैतद् एवं. कस्मात्. कुशलमूलत्वात्. कथं पुनः कुशलमूलम् इत्य् आह. व्यापादादिप्रतिपक्षत्वात्. अद्वेषस्वभावत्वात् मैत्री व्यापादप्रतिपक्षः. दुःखापनयनाकारत्वाच् च करुणा (अभिध्-क्-व्य् 687) दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति. मुदिता चरतेः प्रतिपक्षः सौमनस्यारूपत्वात्. उपेक्षा च माध्यस्थ्यात् कामरागव्यापादयोः प्रतिपक्ष इति. तदालंबनानाम् इति. कामावचरसत्त्वालंबनानाम् इत्य् अर्थः. तद्भाजनेन भाजनगतं दर्शितम् इति. स्थानेन स्थानीयसत्त्वलोको दर्शित इत्य् अर्थः. समाहितासमाहितमौलप्रयोगग्रहणाद् इति. षट्पंचदशभूमिकत्वात् त्रयाणाम् अपि कारणम् उच्यते संभवतः. तत्रासमाहितः कामधातुः. प्रयोगाः सामन्तकानीति संभवतो योज्यं. षट्भूमिकव्यावस्थाने ऽनागम्यं सामन्तकम् अपीष्यते [तिब्. 354अ] सामन्तकान्य् अपि प्रयोगभूतानि गृह्यन्ते. किं मौलानीति. मौलध्यानभूमिकत्वाद् इति. मौलशुद्धकध्यानभूमिकत्वाद् इत्य् अर्थः. न हि शुद्धकैर् मौलध्यानैः क्लेशाः प्रहीयन्त इत्य् उक्तं प्राक्. अधिमुक्तिमनस्कारत्वान् न तैः क्लेशाः प्रहीयन्ते. तत्त्वमनस्कारेण हि क्लेशप्रहाणं. सत्त्वालम्बनत्वाच् च न तैः प्रहाणं. धर्मसामान्यलक्षणमनस्कारेण हि क्लेशप्रहाणम् इति सिद्धान्तः. कथं तर्हीत्य्

आह. तत्प्रयोगेण त्व् इति विस्तरः. मैत्र्यादिप्रयोगेण व्यापादादिविष्कंभणात्. तत्प्रतिपक्षत्वम् उक्तम् इति. व्यापादादिप्रतिपक्षत्वम् उक्तं. विष्कम्भणप्रहाणानि तनीत्य् अर्थः. प्रहीणदूरीकरणाच् चेति. यस्माद् आनन्तर्यमार्गैर् लौकिकैर् लोकोत्तरैर् वा मार्गैर् व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शयति. कामधातुभूमिकान्य् अनागम्यभूमिकानि च मैत्र्यादिनि त्रीणि [तिब्. 354ब्] मौलाप्रमाणसदृशानि संविद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यान् मौलैः सदृशानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैर् आनन्तर्यमार्गैः प्रजहाति. बलवत्प्रत्ययलाभे ऽपीति. व्यापादादिप्रत्ययलाभे ऽपि बलवति सति तैः क्लेशैर् अनाधृष्यो भवति. संमुखीभावतः. अधिमात्र इति. मित्रपक्षे. परममित्रे हि सुकरा मैत्री. स्फरतीति. व्याप्नोति. पूर्वपुण्याफलसंदर्शनाद् इति. पूर्वपुण्यफलसंदर्शनात् समुच्छिन्नकुशलमूले ऽपि पुद्गले शक्यं गुणग्राहिणानेन भवितुं पुण्यम् अनेन कृतम् आसीद् येनास्य रूपादिसंपद् इति. प्रत्येकबुद्धे च दोषग्राहिणा नूनम् अनेनापुण्यं कृतम् आसीद् येनास्यैवं रूपादिवैकल्यम् इति. अपि एव दुःखाद् विमुच्येरन्न् इत्य् अधिमुच्यमानः करुणायां (अभिध्-क्-व्य् 688) प्रयुज्यते. अप्य् एवाभिप्रमोदेरन्न् इत्य् अधिमुच्यमानो मुदितायां प्रयुज्यते. मुदितया न समन्वागत इति. तृतीयचतुर्थयोः सौमनस्याभावात्.

(viii.32-34) अष्टौ विमोक्षा

इति. यथासूत्रं. कथम्. अष्टौ विमोक्षाः. कतमे ऽष्टौ. रूपी रूपाणि पश्यतीत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि [तिब्. 355अ] पश्यतीत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्य् अयं तृतीयो विमोक्षः. सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमात् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकाशानन्त्यायतनोपगाः. अयं चतुर्थो विमोक्षः. पुनर् अपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानंतं विज्ञानम् अनंतं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा विज्ञानानंत्यायतनोपगाः. अयं पंचमो विमोक्षः. पुनर् अपरं सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकिंचन्यायतनोपगाः. अयं षष्टो विमोक्षः. पुनर् अपरं सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं सप्तमो विमोक्षः. पुनर् अपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञानिरोधं कायेन साक्षात्कृत्वोपसंपद्य [तिब्. 355ब्] विहरति. अयम् अष्टमो विमोक्ष इति. रूपी रूपाणीति. स्वात्मनि रूपाणि विभाव्य बहिर् अपि रूपाणि पश्यति. विनीलकाद्यालम्बनत्वात्. अशुभावन् नयो वेदितव्य इति. अधिरागस्य वर्णरागादिप्रतिपक्षम् आरभ्य संभवतो विस्तरेण योज्यं.

अलोभा दशभूः कामदृश्यालम्बा नृजाशुभेति.

यथासंख्यम् इति. कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यानभूमिको विमोक्षः. प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीयध्यानभूमिको विमोक्षः. एतौ च द्वौ पुनर् दूरीभावप्रतिपक्षौ वेदितव्यौ.

आह. द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते. चक्षुर्विज्ञानाभावात्. यो हि यस्माद् विषयाद् विरक्तः. नियतम् असौ तद्ग्राहकाद् अपि विज्ञानाद् विरक्तः. द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि नास्तीति. अतो वर्णवीतरागास् त इति सिद्धं.

शुभारूप्या

इति शुद्धकानास्रवाः.

अन्यदाप्य् असमाहिताः संतीति. आरूप्येषु विपाकजांश् चित्तचैत्तान् अभिसंधायोच्यते. [तिब्. 356अ] पूर्वस्मिंस् तु पक्षे मरणभवावस्थायाम् एवासमाहिता आरूप्या इति दर्शयति. सामन्तकविमुक्तमार्गा अपि विमोक्षाख्यां लभन्त इति. किम् अंग मौला इत्य् अपिशब्दार्थः. नानन्तर्यमार्ग इति विस्तरः. यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्य् उच्यन्ते. तस्माद् आनन्तर्यमार्गा न विमोक्षाख्यां लभन्ते. अधरालम्बनत्वात्. विमुक्तिमार्गास् तु लभन्ते. ऊर्ध्वालम्बनत्वात्.

निरोधस् तु समापत्तिः.

अष्टम इति वाक्यशेषः. संज्ञावेदितवैमुख्याद् इति. संज्ञावैमुख्याद् वेदितवैमुख्याच् च विमोक्षः. सर्वसंस्कृताद् वा वैमुख्याद् विमोक्षः.

समापत्त्यावरणविमोक्षणाद् विमोक्ष इति. समापत्त्यावरणविमोक्षवैमुख्याद् विमोक्ष इति. तत्र समापत्त्यावरणं यस्मिन्न् आवरणे चित्ताकर्मण्यता त्रैधातुकवीतरागा अपि संतः प्रथमम् अपि मौलं ध्यानं नोत्पादयन्ति.

यथायोगम् इति. द्वयोर् विनीलकाद्यमनोज्ञं रूपं आलम्बनं. तृतीयस्य मनोज्ञम् आलम्बनम् इति. तद्धेतुनिरोधौ चेति. तस्य दुःखस्य [तिब्. 356ब्] समुदयनिरोधौ. सर्वश् चान्वयज्ञानपक्ष इति. ऊर्ध्वाधः स्वभूमिक इत्य् अर्थः. अप्रतिसंख्यानिरोधश् चेति. अप्रतिसंख्यानिरोधश् चारूप्याविमोक्षाणां आलम्बनम् इति वक्तव्यं.

ये त्व् अरूपिणस् ते ऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचरा

इत्य् अत्रवचनात्.

आह. कतमः पुनर् अप्रतिसंख्यानिरोधस् तेषाम् आलम्बनम्. अत्रोच्यते. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बन्ते. ते च सप्त सामन्तकानि हित्वान्यास्व् एकादशसु भूमिषु कामधाताव् अनागम्ये ध्यानान्तरेषु ध्यनारूप्येषु चाष्टास्व् इति. सोपसंख्यानं शास्त्रम् इति शास्त्रलक्षणं दर्शितं भवति. आकाशं चैकस्येति. वक्तव्यं आकाशानंत्यायतनविमोक्षस्यालम्बनं. द्वितीयध्यानभूमिकवर्णरागाभावाद् इति. द्वितीयध्यानभूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावाद् इत्य् अर्थः. तदभावः कायिकविज्ञानाभावात्. सुखमण्डेञ्जितत्वाच् च. सुखस्य मण्डः. सर्वसुखस्योपरिस्थं सुखम् इत्य् अर्थः. तेनेञ्जितत्वात् कम्पितत्वात्. न तृतीये ध्याने विमोक्षो व्यवस्थाप्यते.

[तिब्. 357अ] यदि तृतीयध्यानभूमिको वर्णरागो नास्ति. कस्माच् छुभं (अभिध्-क्-व्य् 690) विमोक्षम् उत्पादयतीति. अत आह अशुभया लीनां संततिं प्रमोदयितुं जिज्ञासनार्थं वेति. विमोक्षादीनाम् इति. आदिशब्देनाभिभ्वायतनाद्युपग्रहः. क्लेशदूरीकरणार्थं. विमोक्षादीनं दूरिभावप्रतिपक्षत्वात्. समापत्तिवशित्वार्थं च. तच् च समापत्तिवशित्वम् अरणादिगुणाभिनिर्हाराय भवति. आर्यायाश् च र्द्धेः. किं. अभिनिर्हारायेति प्रकृतं. सा पुनर् यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनीति. तत्र वस्तुपरिणामं. यद् वस्तु यथाधिमुच्यते. तथैव तद् भवति. यथा सुवर्णस्य मृत्करणं. तथाधिमोक्षाद् अधिष्ठानं स्थिरस्य वस्तुनः. इमं तु कालम् अवतिष्ठताम् इति तथायुषा उत्सर्गः. आदिशब्देन सुमेरोः परमाणौ प्रवेश इत्य् एवम् अन्यच् च सूत्रे द्रष्टव्यं.

कस्मात् तृतीयाष्टमयोर् एव साक्षात्करणम् उक्तं. नान्येषाम् इति. कथं तृतीयस्य साक्षात्करणम् उक्तं. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अष्टमस्यापि. संज्ञावेदितनिरोधं [तिब्. 357ब्] कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अत्र साक्षात्कृत्वेति प्रत्यक्षीकृत्वेत्य् अर्थः. उपसंपद्य विहरतीति तां समापद्य समापत्तिं विहरतीत्य् अर्थः. अत्रोच्यते. प्रथमद्वितीयाभ्यां विमोक्षाभ्यां तृतीयस्य विमोक्षस्य प्राधान्यात्. रूपिविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितस् तृतीयस्य साक्षात्करणम् उक्तम्. एवम् अष्टमस्यापि प्राधान्यात्. आरूप्याविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितः साक्षात्करणम् उक्तं. धातुभूमिपर्यन्तावस्थितत्वाच् चेति. चतुर्थं ध्यानं रूपधातुभूमिपर्यंतावस्थितं. भवाग्रम् अप्य् आरूप्यधातुभूमिपर्यन्तावस्थितं.

(viii.35) एवम् अधिमात्राणीति. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति विस्तरः यावद् इदं द्वितीयम् अभिभ्वायतनम्. अध्यात्मम् अरूपसंज्ञि एवम् एवेति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पशय्ति अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववत् यावाद् इदं चतुर्थम् अभिभ्वायतनम् इत्य् एतानि चत्वारीति. अरूपसंज्ञ्य् एव पुनर् नीलपीतलोहितावदातानि [तिब्. 358अ] पश्यतीति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि. तद्यथा उमकापुष्पं संपन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासं (अभिध्-क्-व्य् 691) तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. एवंसंज्ञी च भवतीदं पंचमं अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि. तद्यथा कर्णिकारपुष्पं वाराणसेयं वा वस्त्रं पीतम् इति विस्तरः. इदं षष्ठम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि. तद्यथा बंधूकपुष्पं संपन्नं वाराणसेयं वा वस्त्रं लोहितम् इति विस्तरः. इदं सप्तमम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति अवदातान्य् अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि. तद्यथा उशनस्तारका संपन्नं वा वाराणसेयं वस्त्रम् अवदातम् [तिब्. 358ब्] इति विस्तरः. इदम् अष्ट्मम् अभिभ्वायतनम् इति. मूर्धकानि चत्वारीमानि चात्यारीत्य् अष्टौ भवन्ति.

द्वयम् आद्यविमोक्षवद्

इति. यथा रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः. आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति. एवम् आद्ये अभिभ्वायतने. तयोर् ह्य् एकम् आत्मगतं रूपं पश्यन् बहिर्गतं पश्यति. तथा ह्य् एतत् पठ्यते. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानीति विस्तरः. द्वितीयम् अपि तथैव. अयं तु विशेषो बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति. किं च यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचरवर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश् च. तथेमे प्रथमे अभिभ्वायतने वेदितव्ये.

द्वे द्वितीयवद्

इति. यथाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्य् एवंलक्षणो द्वितीयो विमोक्षः. एवंलक्षणे एवं तृतीयचतुर्थे अभिभ्वायतने. ते अपि ह्य् एवं पठ्येते. अध्यात्मम् अरूपसंज्ञीबहिर्धा रूपाणि पश्यति परीत्तानीति तृतीयः पठ्यते. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति चतुर्थः पठ्यते. किं च यथा द्वितीयो विमोक्षः द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः [तिब्. 359अ] कामावचररूपालंबनश् च. तथा तृतीयं चतुर्थं चाभिभ्वायतनं.

अन्यानि पुनः शुभविमोक्षवद्

इति. यथा शुभो विमोक्षश् चतुर्थध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश् च. तथा नीलपीतलोहितावदाताभिभ्वायतनानि. केवलं त्व् इह वर्णचतुष्टयं विभज्य गृह्यते. शुभस्य च विमोक्षस्यालोभः स्वभावः. एवम् एषाम् अपि. यथायं शुभो विमोक्षः सपरिवारग्रहणात् पंचस्कंधस्वभावः. तथैव तान्य् अपीत्य् अवगन्तव्यं. तैर् विमोक्षमात्रम् (अभिध्-क्-व्य् 692) इति. नालम्बनाभिभवनं. कथं चाभिभ्वायतनैर् आलंबनाभिभवनम् इत्य् अत आह. यथेष्टम् अधिमोक्षाद् इति. यथेष्टं तैर् नीलपीताद्यधिमोक्षात्. क्षणेन नीलं क्षणेन पीतम् इत्यादि. अमनोज्ञस्य वा विनीलकादेर् मनोज्ञाधिमोक्षात्. क्लेशानुत्पादाच् चेति. शुभतो ऽपि च सांक्लेशिकं वस्त्व् आकारयतः क्लेशानुत्पत्तेस् तैर् अभिभ्वायतनैर् आलंबनाभिभवनं भवति.

(viii.36) निरन्तरकृत्स्नस्फरणाद् इति. निरन्तरं कृत्स्नानां पृथिव्यादीनां स्फरणाद् व्यापनात् तस्मात् कृत्स्नायतनानीत्य् [तिब्. 359ब्] उच्यन्ते. कामावचरं रूपायतनम् इति.

पृथिवी वर्णसंस्थानम् उच्यते लोकसंज्ञया आपस् तेजश् च वायुश् च धातुर् एव तथापि चेति

वचनात्.

वायौ स्प्रष्टव्यायतनम् इत्य् एक इति. ये वायौ रूपायतनं नेच्छन्ति. त आहुः. वायौ स्प्रष्टव्यायत्नम् आलम्बनम् इति. विमोक्षप्रावेशिकानीति. प्रवेशा एव प्रावेशिकानि. इति स्वार्थवृद्धिविधानात्. प्रवेशे भवानि वा. उत्तरोत्तरविशिष्टत्वाद् इति. यस्माद् विमोक्षेभ्य उत्तराण्य् अभिभ्वायतनानि विशिष्टानि. अभिभ्वायतनेभ्य उत्तराणि कृत्स्नायतनानि विशिष्टानीति. तद् उक्तं भवति. विमोक्षान् उत्पाद्याभिभ्वायतनान्य् उत्पादयति. अभिभ्वायतनान्य् उत्पाद्य कृत्स्नायतनान्य् उत्पादयतीति. स्थापयित्वा निरोधविमोक्षम् इति. तस्यैकान्तेनार्यसंतानिकत्वात्.

(viii.37) उचितानुचितत्वाद् इति. उचितानि वैराग्यलाभिकानि. अनुचितानि प्रायोगिकानि.

शेषम्

इति विस्तरः. किं पुनः शेषं. प्रथमास् त्रयो विमोक्षाः अभिभ्वायतनान्य् अष्टौ. कृत्स्नायतनान्य् अष्टौ. एतन् मनुष्याश्रयम् एव. किं कारणम्. उपदेशसामर्थ्येनोत्पादनात्. अन्यत्र देवादिषूपदेशभावात्.

(viii.38) कथं [तिब्. 360अ] रूपारूप्यधात्वोर् आरूप्यध्यानविशेषोत्पादनम् इति. आरूप्यधातौ रूपधातौ वा यस्यां भूमाव् उपपन्नः. तदूर्ध्वं यद् आरूप्यं ध्यानं च. तत् ततो विशिष्यते इत्य् आरूप्यध्यानविशेषाः. तस्यारूप्यध्यानविशेषय कथम् उपदेशम् अन्तरेण भवतीति. यतः शेषं मनुष्याश्रयम् एव. उपदेशसामर्थ्येनोत्पादनाद् इत्य् उक्तम्. अतो ऽनेन संबन्धेन पृष्टं. कथं रूपारूप्यधात्वोर् इति विस्तरः. हेतुबालाच् चासन्नाभीक्ष्णाभ्यासाद् इति. आसन्नाभ्यासाद् अभीक्ष्णाभ्यासाच् च. कथं कृत्वा. कश्चिद् आरूप्यसमापत्तिं समापद्य ततश् च परिहायानन्तरम् एव रूपधाताव् उपपद्यते. आरूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वात् तस्य रूपधाताव् आरूप्यसमापत्तिर् उत्पत्स्यते. अभीक्ष्णाभ्यासाद् अपि. यदि कश्चिद् आरूप्यसमापत्तिम् (अभिध्-क्-व्य् 693) अभीक्ष्णं समापद्य ततश् च परिहाय रूपधाताव् उपपद्यते. तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वाद् रूपधाताव् आरूप्यसमापत्तिर् उत्पद्यते. एवं विज्ञानानन्त्यायतनसमापत्तेर् [तिब्. 360ब्] अपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनाम् उत्पादनं. एवं तदूर्ध्वोपपन्नस्य. कर्मबलाच् च. रूपधाताव् उपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वम् आरूप्यधातौ शक्यम् उपपत्तुम् इति. एवम् आरूप्येष्व् आकाशानन्त्यायतनोपपन्नस्य कर्मभलात्. ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वं शक्यम्

उपपत्तुम् इति. एताभ्यां च हेतुकर्मबलाभ्यां. कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनं. हेतुबलाच् चासन्नाभीक्ष्णाभ्यासात्. कर्मबलाच् चोर्ध्वभूमिकस्येति विस्तरेण योज्यं. धर्मतयापि चेति. कथं धर्मता नाम. केचित् तावत् सौत्रान्तिका आहुः. एषाम् एव धर्माणाम् उद्भूतवृत्तीनां पूर्वध्यानवासनाधिपत्यात् तदुत्पत्ताव् उपदेशम् अन्तरेण ध्यानोत्पत्ताव् आनुगुण्यं धर्मता प्रकृतिः स्वभाव इत्य् अर्थः. वैभाषिका अपि केचिद् आहुः. पौर्वजान्मनिकात् सभागहेतोः निष्यन्दफलं ध्यानोत्पादनं. तदुपदेशम् अन्तरेणान्यतो धर्मतेति. [तिब्. 361अ] कुशलानां धर्माणाम् उद्भूतवृत्तित्वाद् इति. तत्र संवर्तनीकाले कुशलानां कर्मपथानाम् इत्य् अर्थः. वृत्तिस् तेषाम् एव धर्माणां यत् कारित्रम्. उद्भूता उत्कृष्टा वृत्तिर् एषाम् इत्य् उद्भूतवृत्तयः. तद्भावः. तस्मात्. एतद् उक्तं भवति. तेषां कुशलानां प्रकर्षेणात्मलाभात् तदुत्पत्त्यानुगुण्येनात्मलाभात् तदुपदेशम् अन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिर् इति.

(viii.39) इम ईदृशा धर्माणां प्रकारा इति. सास्रवानास्रवाणां धर्मानां धातुभूम्यालंबनाकारादिप्रकारा यथायोगम् इत्य् अर्थः.

धातारस् तस्य वक्तारः प्रतिपत्तार एव चेति.

तस्यागमाधिगमात्मकस्य सद्धर्मस्य यथासंख्यम् आगमस्य ये वक्तारः. ते ऽस्य धातारः. अधिगमस्य च ये प्रतिपत्तारः. ते ऽस्य धातार इति. अधिगमस्यैवम् इति. वर्षसहस्रम् अवस्थानम् इति. आगमस्य तु भूयांसं कालम् इति. वर्षसहस्राद् ऊर्ध्वम् अपीत्य् अर्थः. एष एव पक्षो युक्त इति पश्यामः.

(viii.40) यो ऽयम् इति विस्तरः. यो ऽयम् इहाभिधर्मकोशलक्षणे ऽभिधर्म (अभिध्-क्-व्य् 694) उक्तः. किम्. एष एव शास्त्रो ऽभिधर्मो ज्ञानप्रस्थानादिलक्षणो देशितः अत इदम् उच्यते.

काश्मीरवैभाषिकनीतिसिद्ध

इति विस्तरः. कश्मीरे [तिब्. 361ब्] भवाः काश्मीराः. विभाषया दीव्यन्ति वैभाषिका इति व्याख्यातम् एतत्. सन्ति काश्मीरा न वैभाषिकाः. ये विनयविदादयः सौत्रान्तिका भदन्तादयः. सन्ति वैभाषिका न काश्मीराः. ये बहिर्देशका वैभाषिका इत्य् उभयविशेषणं. तेषां नीत्या यः सिद्धो ऽभिधर्मः. स प्रायेणेह मया देशितः. अर्थाद् उक्तं भवति. अन्यनीतिसिद्धो ऽपि देशित इति

यद् दुर्गृहीतं

काश्मीरवैभाषिकनयेनान्यनयेन वा.

तद् इह

वचने

ऽस्मदागो

ऽस्मदपराधः. किं कारणम् इत्य् आह.

सद्धर्मनीतौ मुनयः प्रमाणम्

इति. सद्धर्मस्यागमाधिगमलक्षणस्य नीतौ वर्णने मुनयो बुद्धा भगवन्तो बुद्धपुत्राश् चार्यशारद्वतीपुत्रादयः प्रमाणं सर्वाकारसर्वधर्मावबोधे आप्ता इत्य् अर्थः.

(viii.41-43) निमीलिते शास्तरि लोकचक्षुषीति.

परिनिर्वृते भगवति लोकस्य चक्षुर्भूते मार्गामार्गसंदर्शके. अनेनान्धभूततां लोकस्य दर्शयति.

क्षयं गते साक्षिजने च भूयसेति.

साक्षाद्द्रष्टरि साक्षी मार्गामार्गज्ञो भगवान् इति यो ऽधिगततत्त्वो भगवतः साक्षिजनः सहायभूतः. तस्मिन् परिनिर्वाणे क्षीणे. [तिब्. 362अ] अविद्यान्धेन्-

आदृष्टतत्त्वैर् निरवग्रहैर्

निरंकुशैः

स्वयं

दृष्टिकतया

कुतर्क्-

आपन्नैर् भवधिर् भगवतः

शासनं

ग्रन्थतश् चार्थतश् च्ऽ

आकुलं कृतं.

गते हि शांतिं परमां स्वयंभुवि

इत्यादि पूर्वश्लोकोक्तस्यार्थस्य हेतुरूपो ऽयं द्वितीयः श्लोक उपन्यस्यते. बुद्धबुद्धपुत्रेषु हि

परिनिर्वृतेष्व्

अनाथे जगति

शासनान्तर्धानहेतुभिः. दृष्ट्यादिभिर्

मलैर्

दोषैर्

निरंकुशैः स्वैरं

यथेच्छम्

इह

लोके.

अद्य

संप्रति

चर्यते.

भावसाधनम् एतत्. ततश् च

एवं कण्ठगतं प्राणं

कण्ठगतप्राणम् इवेत्य् अर्थः. तद्

विदित्वा बलकालं च मलानां

दोशाणां विदित्वा

न प्रमाद्यं मुमुक्षुभिर्

इति भावसाधनम् इति.

(अभिध्-क्-व्य् 696) ब्लन्क्

ix (pudgalaviniścayaḥ)

किं खल्व् अतो ऽन्यत्र मोक्षो नास्तीति.

न प्रमाद्यं मुमुक्षुभिर्

इति वचनाद् अयम् एव मोक्षोपायः. नास्त्य् अतो ऽन्यो मोक्षोपायः. तद् अत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्य् अर्थाद् उक्तम् आचार्येन. चोदकः पृच्छति. किं खल्व् अत इति विस्तरः. अत्रोच्यते. नास्तीति. किं कारणम् इत्य् आह. वितथात्मदृष्टिनिविष्टत्वाद् इति. वितथायाम् आत्मदृष्टौ निविष्टाः कुतीर्थ्या वितथात्म [तिब्. 362ब्] दृष्टिनिविष्टाः. तद्भावः. तस्मात्. नास्त्य् अन्यत्र मोक्ष इति. स्तोत्रकारेणाप्य् एषो ऽर्थ उक्तः.

साहंकारे मनसि न शमं याति जन्मप्रबन्धो नाहंकारश् चलति हृदयाद् आत्मदृष्टौ च सत्यां. अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी नान्यस् तस्माद् उपशमविधेस् त्वन्मताद् अस्ति मार्ग

इति. साधनं चात्र. नास्ति कपिलोलूकादीनां मोक्षः. वितथात्मदृष्टिनिविष्टत्वात्. अदृष्टतत्त्वपुरुषवत्. आत्मग्राहप्रभवाश् च क्लेशाः इति यथोक्तं. यानि वा पुनर् इहैकत्यानां श्रमणब्राह्मणानां पृथग् लोके दृष्टिगतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः. आत्मदृष्टौ च सत्याम् आत्मस्नेहादयः क्लेशाः प्रवर्तन्ते. स्कंधसंतान एवेदम् आत्माभिधानम् इति. आत्मेत्य् अभिधानम् आत्मप्रज्ञप्तिर् इत्य् अर्थः. नान्यस्मिन्न् अभिधेये स्कंधसंतानव्यतिरिक्ते कल्पित इत्य् अर्थः. कस्माद् एवम् इत्य् आह. प्रत्यक्षानुमानाभावाद् इति. प्रत्यक्षस्यानुमानस्य चाभावान् न तस्यास्तित्वम् इत्य् अभिप्रायः. आगमस्यानुमानान्तर्भावाद् अपृथग्वचनं. तेषां प्रत्यक्षम् उपलब्धिर् इति. [तिब्. 363अ] प्रत्यक्षम् इत्य् उपलब्धिविशेषणं. प्रत्यक्षं तदुपलब्धिः प्रत्यक्षत उपलब्धिर् इत्य् अर्थः. अथ वा प्रत्यक्षं प्रमाणम् उपलब्धिर् उपलभ्यते ऽनयेत्य् उपलब्धिः. असत्य् अंतराय इति. असत्य् उपलब्धिविघ्ने ऽतिसंनिकर्षातिविप्रकर्षादिके तेषां. षण्णां विषयाणाम् इति. रूपशब्दगन्धरसस्प्रष्टव्यायतनानां (अभिध्-क्-व्य् 698) धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य चागमविकल्पातीतस्येति. मनसश् च. किं. प्रत्यक्षम् उपलब्धिः. समनन्तरनिरुद्धं हि मनो ऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते. रक्तं वा द्विष्टं वा सुखसंप्रयुक्तं वा दुःखसंप्रयुक्तं वा इत्य् एवमादि स्वसंवेद्यतयेत्य् अपरे. तद् एतद् द्विविधं प्रत्यक्षं ग्राह्यगतं ग्राहकगतं चेति. अनुमानं चेति विस्तरः. यत्र प्रत्यक्षस्याप्रवृत्तिः. तत्रानुमानतस् तदुपलब्धिः. तद्यथा पंचानाम् इंद्रियाणाम् इति. चक्षुरिंद्रियादीनां. सति कारणे क्षेत्रोदकादिके.

कारणान्तरस्य बीजलक्षणस्याभावे कार्यस्यांकुराख्यस्याभावो दृष्टः. भावे च तस्य बीजस्य पुनर्भवो ऽंकुरस्य दृष्टः. तद्यथांकुरस्येति दृष्टांतोपन्यासः. एवं दृष्टान्तम् उपन्यस्य दार्ष्टांतिकम् उपदर्शयन्न् आह. सत्य् एव वाभासप्राप्त इति विस्तरः. विद्यमान एव संमुखीप्राप्ते विषये रूपादिके मनस्कारे च तज्जे कारणे. विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः. पुनश् च भावः. केषाम् इति [तिब्. 363ब्] यथासंख्यं दर्शयति. अन्धबधिरादीनाम् अभावः. अनन्धबधिरादीनं च भाव इति. आदिशब्देनोपहतानुपहतघ्राणेन्द्रियादीनां ग्रहणम्. अतस् तत्रापि कारणांतरस्य कस्यापि अनिर्भिन्नरूपस्याभावो भावश् च यथासंख्यम् एव निश्चीयते. किं पुनस् तद् इत्य् आह. यच् च तत् कारणान्तरम् अपेक्ष्यते. तद् इन्द्रियं. चक्षुरादिकम् इत्य् अभिप्रायः. साधनं चात्र. कारणान्तरसहितः स्वकार्यजनकः. पंचविज्ञानकायजनकसंमतो विषयमनस्कारलक्षणो भावः. कदाचिद् एव स्वकार्यनिर्वर्तकत्वात्. कदाचिद् एव स्वकार्यनिर्वर्तकं. तत् कारणांतरसहितस्वकार्यजनकं. तद्यथांकुरजनकं क्षेत्रोदकं. बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं कदाचिद् एव स्वकार्यनिर्वर्तकं. बीजसद्भावावस्थायाम् अंकुरनिर्वर्तकत्वात्. बीजसद्भावावस्थायां च स्वकार्यजनकत्वात्. तथा च स विषयमनस्कारलक्षणो भावः. स ह्य् अनंधाबधिराद्यावस्थायां तस्य पंचविज्ञानकायलक्षणस्य स्वकार्यस्य जनको भवति. अन्धबधिराद्यावस्थायां चाजनकः. तस्माद् असौ कारणान्तरसहितः स्वकार्यजनक इति. तद् इन्द्रियम् इति. कथं तद् इन्द्रियम् इति परिच्छिद्यते. कारणांतरम् अत्रास्तीत्य् एतावद्

एव हि परिच्छिद्यते. न तु तद् इन्द्रियम् इति. [तिब्. 364अ] सिद्धम् एवैतत्. महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वाद् अस्त्य् एव चक्षुरादिकं इन्द्रियं चक्षुर्विज्ञानादिकारणम् इति. सर्वेषाम् अविवादाच् च. न चैवम् आत्मतो ऽस्तीति नास्त्य् आत्मेति निगमयति. उक्तं ह्य् एवम् अर्थतः साधनं. नास्त्य् आत्मा. प्रमाणेनानुपलभ्यमानत्वात्. अत्यन्ताभाववद् इति. अस्त्य् अनुमानम्. अतो (अभिध्-क्-व्य् 699) सिद्धो हेतुर् इति चेत्. न. तस्याभिधेयत्वात्. यदि हि तद् अस्ति. तद् उच्यतां. न वान्मात्रेणासिद्धो ऽयं हेतुर् इति प्रत्यवस्थातव्यम् इति.

यत् तर्हि वात्सीपुत्रीया इति विस्तरः. वात्सीपुत्रीया अर्यसांमतीयाः. अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुर् अनैकांतिक इति दर्शयति. न हि वात्सीपुत्रीयाणां मोक्षो नेष्यते. बौद्धत्वात्. अथ वा प्राक्पक्षविरोधसापक्षालो ऽयं पक्षो नास्त्य् आत्मेत्य् अनेन दर्शयति. स्वपक्षो हि वात्सीपुत्रीयो निकाय इति. विचार्यं तावद् एतद् इति. तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्य् अदोष एष इत्य् अभिप्रायः.

किं वेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित अचार्य आह. रूपादिवद् भावान्तरं चेद् द्रव्यतः. यदि यथा रूपादिः शब्दादेर् भावान्तरम् अभिप्रीयते. द्रव्यतः पुद्गल इत्य् उपगतो भवति. [तिब्. 364ब्] भिन्नलक्षणं रूपं शब्दाद् इत्यादि. क्षीरादिवत् समुदायश् चेत् प्रज्ञप्तितः. यथा क्षीरगृहसेनादिकं रूपरसगंधस्प्रष्टव्येभ्यः. तृणकाष्ठेष्टीकादिभ्यः हस्त्यश्वरथादिभ्यश् च न भावान्तरम् इष्यते. किं तर्हि. तेषाम् एव समुदायमात्रम् इत्य् एवं चेत्. प्रज्ञप्तितः पुद्गल इत्य् उपगतो भवति. न हि रूपादिभ्यस् टृणादिभ्यो हस्त्यादिभ्यो वा क्षीरगृहसेनेति वा कश्चिद् भावो ऽस्ति. किं चातः कश् चातो दोष इत्य् अर्थः.

यदि तावद् द्रव्यत इति पक्षः आश्रीयते. स पुद्गलो भिन्नस्वभावत्वात् भिन्नस्वलक्षणत्वात् स्कंधेभ्यो ऽन्यो वक्तव्यः. न स्कन्धसमुदायमात्रः. इतरेतरस्कंधवत्. यथा रूपादिस्कन्धाद् वेदनास्कन्धो ऽन्यो भिन्नलक्षणत्वात्. एवं स्कंधेभ्यः पुद्गलः स्यात्. अरूपस्कन्धादिलक्षणत्वात् पुद्गलस्य. कारणं चास्य वक्तव्यं. यदि संस्कृत इत्य् अभिप्रायः. असंस्कृतो वा. अतस् तीर्थिकदृष्टिप्रसंगः. अतो ऽसंकृतत्वात् वात्सीपुत्रीयाणां तीर्थिकदृष्टिः प्रसज्यते. निःप्रयोजनत्वं चेति.

वर्षातपाभ्यां किं व्योम्नश् चर्मण्य् अस्ति तयोः [तिब्. 365अ] फलं. चर्मोपमश् चेत् सो ऽनित्यः. खतुल्यश् चेद् असत् फलम्

इत्य् अर्थः.

इदम् अन्धवंचनम् अनुन्मीलितार्थम् इति. अन्धम् इवान्धं. कस्मात्. यस्माद् अनुन्मीलितार्थं अव्यंजितार्थम् इत्य् अर्थः. [इत्य् अतः] स्कंधान् आलंब्येति गृहीत्वेत्य् अर्थः. यथा रूपादीन् गृहीत्वापेक्ष्य क्षीरप्रज्ञप्तिः. न रूपादिव्यतिरिक्तं क्षीरम् अस्तीति. यदि तथा पुद्गल इति प्रज्ञप्तिर् असत्पुद्गलः प्राप्नोतीत्य् अर्थः. स्कंधान् प्रतीत्येति. यदि स्कंधान् प्रतीत्य प्राप्येति. स एव दोषः. तेष्व् एव स्कंधेषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्य् अर्थः अथ वा (अभिध्-क्-व्य् 700) पुद्गलप्रज्ञप्तेः स्कंधाः प्रत्ययो न पुद्गलः. पुद्गलस् तु तथैव प्रज्ञप्तिसन्न् इति. स एव दोषः.

यथेन्धनम् उपादायाग्निः प्रज्ञप्यत इति. द्रव्यसन् पुद्गलः.

नान्यो नानन्य इति. स्वम् उपादानम् उपादाय प्रज्ञप्यमानत्वात्. यो हि भावो नान्यो नानन्य इति स्वम् उपादाय प्रज्ञप्यमानः. स द्रव्यसंस् तद्यथाग्निर् इति वात्सीपुत्रीयाभिप्रायः. अत एव चाह. यदि ह्य् अन्यः स्याद् इति विस्तरेण. लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति. शाश्वतप्रसंगात् ति. असंस्कृतवत्. उच्छेदप्रसंगाद् [तिब्. 365ब्] इति. स्कंधवत्.

अप्रदीप्तं काष्ठादिकम् इन्धनम् इति विस्तरः. अनेनासिद्धतां दृष्टान्तस्य दर्शयति. अन्यत्वम् एव ह्य् अग्नीन्धनयोर् इष्यते. तेन हि तद् इध्यते दह्यते चेति. तेनाग्निना. तद् इन्धनम् इध्यते. दीप्यत इत्य् अर्थः. दह्यते भस्मीक्रियते. संततिविकारापादनात्. भस्मतापादनाद् इत्य् अर्थः. इध्यते दह्यते चेति पर्यायाव् इत्य् अपरे. तच् चोभयम् अष्टद्रव्यकम् इति. इन्धनं चाग्निश् चैतद् उभयम् अप्य् अष्टद्रव्यकं. चेत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपं यावत् स्प्रष्टव्यम् इति.

कामे ऽष्टद्रव्यको ऽशब्द

इति सिद्धान्तात्.

भिन्नकालत्वाद् इति. पूर्वम् इन्धनं पश्चाद् अग्निः. भिन्नकालयोश् चान्यत्वं दृष्टं बीजांकुरयोः. अनित्यश् च प्राप्नोतीति. उत्पत्तिमतो रूपादेर् अनित्यत्वदर्शनात्. तत्रैव काष्ठादौ प्रदीप्त इति. तदुभयलक्षणे समुदाये. तयोर् अपि सिद्धम् अन्यत्वं लक्षणभेदाद् इति. तयोर् अप्य् अग्नीन्धनयोर् एवंलक्षणयोः सिद्धम् अन्यत्वं लक्षणभेदात्. पृथिवीधात्वादीनां लक्षणान्यत्वात्. भिन्नलक्षणानां ह्य् अन्यत्वं दृष्टं रूपवेदनादीनां. उपादयार्थस् तु वक्तव्य इति. अनन्यत्वाद् इत्य् अभिप्रायः. न हि तत् तस्य कारणम् इति. [तिब्. 366अ] न हि तद् इन्धनं भूतत्रयलक्षणं. तस्योष्णलक्षणस्याग्नेः कारणं युज्यते. सहजत्वात्. सव्येतरगोविषाणवत्. नापि तत् प्रज्ञप्तेर् इति. अग्निप्रज्ञप्तेः. यद्य् आश्रयार्थ इति. इन्धनम् उपादाय इन्धनम् आश्रित्येत्य् अर्थः. सहभावो ऽर्थो वेति. सहोत्पादार्थः. इन्धनं सहभूत्वेनागृह्येत्य् अर्थः. आश्रयसहभूताः प्राप्नुवन्तीति. आश्रयभूताः सहभूताश् च प्राप्नुवंतीत्य् अर्थः. स्कंधतः स्पष्टम् अन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः. तदभाव इति. स्कंधाभावे. अन्यभूतस्वभावत्वाद् इति. पृथिवीधात्वादिस्वभावत्वात्. अन्यद् अपीति न केवलम् औष्ण्यम् उष्णम्. अन्यद् अपि तत्प्रदीप्ताग्निसंबन्धं भूम्यादिकम् उष्णं सिध्यति. अतो यथा तस्यान्यत्वे न दोषः. तथास्यपीति. ततश् चावक्तव्य इति. तत्पक्षलोपः (अभिध्-क्-व्य् 701) स्यात्. काष्ठादिकम् इति. काष्ठतृणगोमयादिकम्.

अवक्तव्यम् इति पुद्गलः. अनिर्भिन्नत्वान् नपुंसकलिंगता. किं ते जातम् इति यथा. न वक्तव्यं प्राप्नोतीति. पंचविधं ज्ञेयम् इति कथं तर्हि वक्तव्यम् इत्य् आह. नैव हि तद् अतीतादिभ्यः पंचमं नापंचमं वक्तव्यम् इति.

रूपस्यापीति विस्तरः. रूपस्यापि प्रज्ञप्तिर् वक्तव्या. चक्षुरादिषु सत्सु तस्योपलम्भात् तानि चक्षुरादीन्य् उपादाय रूपं प्रज्ञप्यत इति.

प्रतिविभावयतीत्य् उपलक्षयति. [तिब्. 366ब्] तदुपादानत्वात्. न तु वक्तव्यो रूपाणि वा नो वेति. अतल्लक्षणत्वद् अवक्तव्यत्वाच् च. एवं यावद् धर्मो वा नो वेति.

क्षीरं प्रतिविभावयत्य् उदकं चेति. उदाहरणद्वयं. तद् एवं वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिविभावयति चक्षुर्विज्ञेयं क्षीरं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. तथैतद् अपि वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति. चक्षुर्विज्ञेयम् उदकं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. मा भूत् क्षीरोदकयोश् चतुष्ट्वप्रसंग इति. रूपाणीति यद्य् उच्येत्. यावत् स्प्रष्टव्यानीति यद्य् उच्येत क्षीरस्योदकस्य वा चतुष्ट्वं प्रसज्येत्. चतुःप्रकारं क्षीरम् उदकं वा प्राप्नोतीत्य् अर्थः. शब्द आगंतुकत्वान् नात्राधिकृतः. अतो यथा रूपादीन्य् एव समस्तानि समुदितानि क्षीरम् इत्य् उदकम् इति वा प्रज्ञप्यते. तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धं.

रूपाणि पुद्गलोपलब्धेः कारणम् इति रूपाण्य् उअलभमानः पुद्गलम् उपलभत इति. को ऽनयोः पक्षयोर् विशेषः. [तिब्. 367अ] पूर्वस्मिन् पक्षे रूपाणां कारणत्वम् अधिक्रियते. द्वितीये न तु कारणत्वं. किं तर्हि. रूपाण्य् उपादाय पुद्गलोपलब्धिर् इति. तत्र रूपाणं यदि कारणत्वम् इष्यते. स च पुद्गलस् तेभ्यो रूपेभ्यो ऽन्यो न वक्तव्य इति. इदं तर्हि वः प्रसज्यते. रूपम् अपीति विस्तरः. यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः. आलोकचक्षुर्मनस्कारा अपि रूपोपलब्धेः कारणं भवन्ति. तद् अपि रूपं तेभ्य आलोकादिभ्यो ऽन्यन् न वक्तव्यं भवद्भिः. तेषां तदुपलब्धिकारणत्वात्. तेषाम् आलोकादीनां रूपोपलब्धिकारणत्वात्. रूपाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. तयैवैकयोपलब्ध्योपलभ्यमानत्वात्. रूपान्तरवत्. रूप एव वा तत्प्रज्ञप्तिः. पुद्गलप्रज्ञप्तिः प्राप्नोतीति (अभिध्-क्-व्य् 702) वर्तते. कुतः. तत एव हेतोः. इदं च रूपम् इति विस्तरः. उपलब्धेर् एकत्वे रूपपुद्गलयोः परिच्छेदो न प्राप्नोतीति. अथैवं न परिच्छिद्यते. इदं रूपम् अयं पुद्गल इति. कथम् उभयं प्रतिज्ञायते. रूपम् एव हि प्रतिज्ञातव्यं स्यात्. तदुपलब्धिसद्भावात्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथं. यच् चोच्यते. श्रोत्रविज्ञेयान् शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति को ऽस्य वाक्यस्यार्थः किं तावच् छब्दः पुद्गलोपलब्धेः [तिब्. 367ब्] कारणं भवन्ति. आहोस्विच् छब्दान् उपलभमानः पुद्गलम् उपलभत इति. यदि तावच् छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति. स च तेभ्यो ऽन्यो न वक्तव्यः. एवं तर्हि शब्दो ऽप्य् आलोकश्रोत्रमनस्कारेभ्यो ऽन्यो न वक्तव्यः. तेषां

तदुपलब्धिकारणत्वात्. अथ शब्दान् उपलभमानः पुद्गलम् उपलभते. किं तयैवोपलब्ध्योपलभते. आहोस्विद् अन्यया. यदि तयैव शब्दाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. शब्द एव वा तत्प्रज्ञप्तिः. अयं च शब्दो ऽयं पुद्गल इति कथम् इदं परिच्छिद्यते. अथैवं न परिच्छिद्यते. कथम् इदं परिज्ञायते. शब्दो ऽप्य् अस्ति पुद्गलो ऽप्य् अस्तीति. उपलब्धिवशेन हि तस्यास्तित्वं प्रज्ञायते. अनया दिशा यावद् धर्मेभ्यो योजयितव्यं. नीलाद् इव पीतम् इति. यदा परिच्छेदेन नीलम् उपलभ्यते. न तदा पीतम् उपलभ्यते. पश्चात् तूपलभ्यत इति. अन्ययोपलब्ध्योपलभ्यते. तच् च नीलात् पीतम् अन्यद् इति प्रतीतं. तथा च पुद्गलो ऽन्ययोपलभ्योपलभ्यत इति. रूपाद् अन्यः प्राप्नोति. एवं क्षणाद् अपि क्षणान्तरम् अन्यद् इत्य् उदाहार्यम्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथम्. अथान्यया भिन्नकालोपलम्भाद् अन्यः शब्दः प्राप्नोति. यथा भेरीशब्दान् मृदांगशब्दः. क्षणाद् इव च क्षणान्तरं. यथापूर्वम् उक्तं. नीलाद् इव पीतं [तिब्. 368अ] क्षणाद् इव क्षणान्तरम् इति. भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्यान्यत्वं दर्शितम् एव. अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यं.

आह रूपपुद्गलवद् इति विस्तरः. यथा रूपपुद्गलयोर् अन्यानन्यत्वम् अवक्तव्यम् एवं तदुपलब्ध्योर् अप्य् अन्यानन्यत्वम् अवक्तव्यम् इत्य् एवं यदि ब्रूयात्. तेन तर्हि संस्कृतम् अप्य् अवक्तव्यं भवति तदुपलब्धिलक्षणं संस्कृतम् अप्य् एतद् अवक्तव्यम् इति. सिद्धान्तभेदः. यो ऽयं सिद्धान्तः पुद्गल एवावक्तव्य इति. अयं भिद्यते. संस्कृतम् अप्य् अवक्तव्यम् इति कृत्वा. यदि चायम् इति विस्तरः. यद्य् एवं रूपाणि नो वेति न वक्तव्यः किं तर्हि एतद् भगवतोक्तं रूपम् अनात्मेति. यावद् विज्ञानम् अनात्मेति. एवं हि ब्रुवतो वक्तव्य एव पुद्गलो नावक्तव्य इति दर्शितं भवति.

शब्दादिवद् इति. न रूपविज्ञानेनोपलभ्यते पुद्गलः. तदनालम्बनप्रत्ययभूतत्वात्. शब्दवत्. आदिशब्देनात्र गन्धवद् रसवद् इत्यादि योज्यम्. एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वम् अस्य [तिब्. 368ब्] वक्तव्यम्. एषा हि दिक्. अनेन चोपन्यासेन धर्मिविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्य् अवगन्तव्यं. द्वयं प्रतीत्येति. द्वयं प्रतीत्य न तु त्रयं प्रतीत्येति. अत इदम् उत्सूत्रम् इति.

चक्षुर् भिक्षो हेतुर् इति विस्तरः. हेतुर् आसन्नः प्रत्ययः. विप्रकृष्टस् तु प्रत्यय एव. जनको हेतुः. प्रत्ययस् त्व् आलम्बनमात्रम् इत्य् अपरे. पर्यायाव् एताव् इत्य् अपरे.

रूपाद् अन्यः पुद्गल इति पक्षप्रसंगः. श्रोत्रविज्ञानविज्ञेयत्वाच् छब्दवत्. तथा शब्दाद् अन्यः पुद्गल इति पक्षप्रसंगः. चक्षुर्विज्ञानविज्ञेयत्वाद् रूपवत्. इति एवम् अन्येभ्यो योज्यम् इति. रूपशब्दाभ्याम् अन्यः पुद्गल इति पक्षप्रसंगः. घ्राणविज्ञेयत्वात्. गन्धवत्. इत्य् एषा दिग् योजनं प्रतीति. स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनुभवन्तीत्य् उक्तं भवति. मनश् चैषां प्रतिसरणम् इति. अनुषंगेनेदम् उक्तं. नेदम् उदाहरणं. तथापि तु मनश् चैषाम् इन्द्रियाणां प्रतिसरणम् इति तदपेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ [तिब्. 369अ] कारणं भवन्तीत्य् अर्थः. न वा पुद्गलो विषय इति. यदि सूत्रं प्रमाणीक्रियते. ततः किम् इत्य् आह. न चेद् विषयः. यदि न कस्यचिद् विज्ञानस्य विषय न तर्हि विज्ञेयः. ततश् च पंचविधं ज्ञेयम् इति स्वसिद्धान्तो बाध्यते.

यद्य् एवं सूत्रे वचनान् नान्यद् अन्यस्य गोचरविषयं प्रत्यनुभवतीति पंचानां चक्षुरादीनां प्रमाणीक्रियते. स्वविषयाव्यभिचारः. स्वविषयाव्यभिचारे च न चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलः. तद् एवं सति मनैन्द्रियस्याप्य् अव्यभिचारः प्राप्नोति. षड् इमानीन्द्रियाणि नानागोचराणीति विस्तरेण सूत्रे वचनात्. कुक्कुरपक्षिशृगालशिशुमारसर्पमर्कटाः षट्प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थिं कृत्वोत्सृष्टाः. ते स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. ग्रामाकाशाश्मशानोदकान्तवल्मीकवनाकांक्षणात्. एवम् एव षड् इमानीन्द्रियाणि स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. इत्य् एवम् उपमात्र क्रियते. अथ सत्य् अपि सूत्रवचने मनैन्द्रियस्य व्यभिचारः. एवं चक्षुरादीनाम् अपीन्द्रियाणां व्यभिचारः. व्यभिचारे च चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलो भविष्यतीति.

अत्र [तिब्. 369ब्] ब्रूमः. न तत्रेति विस्तरः. तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियम् एव चक्षुरादिकम् इन्द्रियं कृत्वोक्तं. किं कारणं. चक्षुरादीनां (अभिध्-क्-व्य् 704) पंचानाम् इन्द्रियाणां दर्शनाद्याकांक्षणासंभवात्. यस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति रूपस्वभावत्वात्. तद्विज्ञानानां च. चक्षुरादिविज्ञानानां च दर्शनाद्याकांक्षासंभवात्. कस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति. अविकल्पकत्वात्. तदाधिपत्याध्याहृतं तु मनोविज्ञानम् इन्द्रियम् इत्य् उक्तम् इन्द्रियम् इवेति कृत्वा. कथम् ज्ञायते तदाधिपत्याध्याहृतं तद् इति. यदि हि चक्षुरादिद्वारेण चक्षुर्विज्ञानादि नोत्पन्नं स्यात्. कथम् अन्यथा विकल्पकं मनोविज्ञानम् उत्पन्नं स्यात्. इत्य् अतो ज्ञायते. तदाधिपत्याध्याहृतम् इति. तन् मनोविज्ञानं चक्षुरादीन्द्रियभूतं स्वकं स्वकं गोचरविषयं रूपादिकम् आकांक्षतीति. यच् च तत् केवलम् इति विस्तरः. नैव तदन्येषां चक्षुरादीनां विषयम् आकांक्षति यन् मन-आधिपत्याध्याहृतं. किं तर्हि. स्वविषयम् एव धर्मायतनम् एवालम्बत इति. अतो नास्त्य् एष दोषः. यद्य् एवं मनैन्द्रियस्याप्य् [तिब्. 370अ] अव्यभिचारः प्राप्नोतीति यद् उक्तम् इति.

न पुद्गलः. किम्. अभिज्ञेयः परिज्ञेयश् चेति. तस्माद् विज्ञेयो ऽप्य् असौ पुद्गलो न भवति. ननु चासाव् अर्थाद् अभिज्ञेयः परिज्ञेयश् च न भवतीत्य् उक्तः. न त्व् अर्थो विज्ञेयः इति. अत आह. प्रज्ञाविज्ञानयोः समानविषयत्वाद् इति. विज्ञेयम् अपि हि चक्षुरादिकं भवति. न केवलम् अभिज्ञेयं परिज्ञेयं चेति.

अनात्मनेति. चक्षुषा चक्षुर्विज्ञानेनेत्य् अर्थः. नीतार्थं च सूत्रं प्रतिसरणम् उक्तम् इति. चत्वारीमानि भिक्षवः प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति.

प्रज्ञप्तिम् अनूपपतित इति. यत्रैव प्रज्ञप्तिः कृता आत्मेति व्यवहारार्थं ताम् एवात्मेत्य् अभिनिविष्ट इत्य् अर्थः.

नास्तीह सत्त्व आत्मा चेति.

इदम् इहोदाहरणं

पुद्गलो नोपलभ्यत

इत्य् एतच् च.

न विद्यते सो ऽपि कश्चिद्

इतीदं वाप्य् उदाहरणं.

योग्य् अपि नास्ति यः शून्यताम् अभ्यस्यातीति.

आत्मदृष्टिर् भवति यावज् जीवदृष्टिर् इति प्रथमा आदिनवो निर्विशेषो भवति. तीर्थिकैर् [तिब्. 370ब्] इति द्वितीयः. उन्मार्गप्रतिपन्नो भवतीति तृतीयः. शून्यतायाम् (अभिध्-क्-व्य् 705) अस्य चित्तं न प्रस्कन्दति यावन् नाधिमुच्यत इति चतुर्थः. आर्यधर्मा अस्य न व्यवदायन्त इति पंचमः.

न तर्हि तेषां बुद्धः शास्तेति. बुद्धवचनम् एषां न प्रमाणम् इत्य् अभिप्रायात्.

न किलैतद् बुद्धवचनम् इति. केनाप्य् अध्यारोपितान्य् एतानि सूत्राणीत्य् अभिप्रायः. सर्वनिकायान्तरेष्व् इति ताम्रपर्णीयनिकायादिषु. न च सूत्रं बाधते न च सूत्रान्तरं बाधते. न च सूत्रान्तरं विरोधयति. न धर्मतां बाधत इति प्रतीत्यसमुत्पादधर्मतां.

सर्वधर्मा अनात्मान इति. न चैत आत्मस्वभावाः. न चैतेष्व् आत्मा विद्यत इति अनात्मानः सर्वधर्माः. द्वयं प्रतीत्येति. चक्षू रूपाणि यावन् मनो धर्मान् इति. [न पुद्गलो न धर्मा इति] .

नात्मा स्कंधायतनधातव इति वचने यत् कश्चित् पूर्वं नो तु वक्तव्यं रूपाणि वा नो वेत्य् उक्तम्. अपोढम् अपास्तं तद् भवति आत्मनो ऽन्यत्वात्.

तस्मात् सर्व एवान्मात्मन्य् आत्मग्राह इति. नातो ऽन्यो ऽस्तीति दर्शयति.

यद्य् एवम् इति विस्तरः. यदीमान् एव पंचोपादानस्कन्धान् समनुस्मरन्तः समन्वस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा न पुद्गलं. कस्माद् आह रूपवान् अहं [तिब्. 371अ] बभूवातीते ऽध्वनीति. अहम् इति वचनात् पुद्गल उच्यते इति दर्शयति. एवम् अनेकविधं ये समनुस्मरन्ति. त एवम् अनुस्मरन्तीति वाक्याध्याहारः. अपाठ एव चात्र शरणं स्याद् इति. अहम् इति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसंगः स्याद् इत्य् अर्थः. विंशतिकोटिका हि सत्कायदृष्टिः पठ्यते. रूपम् आत्मेति समनुपश्यति. रूपवन्तम् आत्मानम्. आत्मीयं रूपं. रूपे आत्मेत्य् एवं यावद् विज्ञानं वक्तव्यं. राशिधारादिवद् इति. राशिवद् धारावच् च. आदिशब्देन पानकादिग्रहणं. एकस्मिन् क्षणे समवहितानां बहूनां राशिः. बहुषु क्षणेषु समवहितानां धारा. राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति धारादृष्टान्तेन बहुत्वे सति रूपवेदनादीनां स्कंधानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति.

कथम् इदं गम्यत इति. बुद्धाख्यायाः संततेर् इदं सामर्थ्यं. यद् आभोगमात्रेणाविपरीतम् ज्ञानम् उत्पद्यते यत्रेष्टं. न पुनः पुद्गलस्येति.

उच्यते. अतीतादिवचनात्.

ये चाभ्यतीता

इति विस्तरेणोक्त उपसंहारः. तस्मात् स्कंधसंतान एव बुद्धाख्या. न पुद्गल इति.

भारं च वो भिक्षवो देशयिष्यामीति विस्तरः. [तिब्. 371ब्] भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च. तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. भारः कतमः. पंचोपादानस्कंधाः. भारादानं कतमत्. तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी. भारनिक्षेपणं कतमत्. यद् अस्या एव तृस्णायाः पौनर्भविक्या नन्दीरागसहगतायाः तत्रतत्राभिनन्दिन्याः अशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगमः भारहारः कतमः. पुद्गल इति स्याद् वचनीयं. यो ऽसाव् आयुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहारः एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्मन्त इति. भारं हरतीति भारहारः. पुद्गल इत्य् अभिप्रायः. छेदम् उदाहरणम्. अत एवाह. न हि भार एव भारहार इति.

भारादानस्यापि यथोक्तलक्षणस्य स्कंधासंग्रहप्रसंगाच् च. पुद्गलवद् अस्कंधसंग्रहप्रसंगः. न चैवम् इष्यते. तस्माद् भारादानवन् न स्कंधेभ्यो ऽर्थान्तरभूतः पुद्गलः. इत्य् अर्थम् एव चेति विस्तरेण सर्वम् उक्त्वा वक्तव्यं मान्यथेति. यदि द्रव्यसन् स्यात् पुद्गलः भारहारः कतमः पुद्गल इति स्याद् वचनीयम् इत्य् एतावद् एवोक्तं स्यात् तत्र सूत्रे. परेण स न विभक्त्व्यः स्यात्. यो ऽसाव् आयुष्मान् इति विस्तरेण यावद् आयुःपर्यन्त इति. [तिब्. 372अ] प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्य् एतत् परेण विशेषणम् इत्य् अभिप्रायः. स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते. मान्यथा विज्ञायि नित्यो वावक्तव्यो वा द्रव्यसत्पुद्गल इति. स्कंधानाम् इति विस्तरः. तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कंधाः. ते भाव इति कृत्वोक्ताः. उत्तरे ये पीड्यन्ते. ते भारहार इति कृत्वोक्ता इति. उपपादुकत्वाद् इति. उपपदने साधुकारित्वाद् इत्य् अर्थः. पुद्गलस्य सत्येष्व् अनन्तर्भावाद् इति. यस्माद् यथापरिकल्पितस्य पुद्गलस्य सत्येषु दुःखादिसु नानन्तर्भावः. न हि पुद्गलो दुःखं यावन् मार्ग इति. अतो न सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिक मिथ्यादृष्टिः. या हि दृष्टिर् यस्मिन् सत्ये विप्रतिपन्ना. तत्सत्यदर्शनात् तस्याः प्रहाणं भवेत्. तथा दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावान् नापि भावनाप्रहातव्या. भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यम् (अभिध्-क्-व्य् 707) एव वस्तु दुःकं समुदयं वालंबत इत्य् एवं तस्या भावनाप्रहातव्यत्वं युज्यते. न च पुद्गलस् तयोर् अंतर्भूत इत्य् अतो भावनाप्रहातव्या सा न भवति. अथ वा न कदाचिद् अपि दृष्टिर् भावनाप्रहातव्येति नासौ भावनाप्रहातव्या.

एकतिलैकतण्डुलवद् एकराश्येकवचनवच् चेति. यथा [तिब्. 372ब्] ऽष्टद्रव्यकत्वे ऽप्य् एकतिल एकतण्डुल इति चोच्यते. तथा एको राशिर् एकवचनम् इति. तद्वद् एकः पुद्गल इति. उत्पत्तिमत्त्वाभ्युपगमाद् इति. उत्पद्यत इति वचनाद् उत्पत्तिमत्त्वम् अस्याभ्युपगतं भवति. ततश् च संस्कृत इति वक्तव्यो भवद्भिः.

स्कन्धान्तरोपादानाद् इति. नास्य संस्कृतत्वम् आप्द्यत इति अभिप्रायः. यथा हि याज्ञिको जात इति विद्योपादानाद् उच्यते. न चासौ भूतार्थेन जातः. तद्वद् इति सर्वं योज्यं.

कारकस् तु नोपलभ्यत इति विस्तरः. कर्मणः कारको नोपलभ्यते. कीदृशो ऽसाव् इति. आह. य इमांश् चैहिकां स्कन्धान् निक्षिपति त्यजत्य् अन्यांश् च पारत्रिकान् स्कंधान् प्रतिसंदधाति उपसंगृह्णाति. द्रव्यसन्न् अवस्थित इति. अन्यत्र धर्मसंकेताद् इति प्रतीत्यसमुत्पादलक्षणान्तेनाह यद् उतास्मिन् सतीति.

उपादत्त इति फाल्गुन न वदामीति. अहं चेद् एवं वदेयम् उपादत्त इति. अत्र ते कल्पः स्याद् वचनाय को नु भदन्त उपादानम् उपादत्त इति. तस्मान् नास्ति स्कन्धानां कश्चिद् उपादाता नापि निक्षिप्तेति.

तस्यापि तथेति. प्रतिक्षणम् अपूर्वोत्पत्तिर् एवेत्य् अर्थः. यदि पुद्गलः. सो ऽसिद्ध इत्य् एवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति.

शरीरविद्यालिंगवच् चेति. विद्या च लिंगं च विद्यालिंगं. शरीरं च विद्यालिंगं च शरीरविद्यालिंगं. [तिब्. 373अ] तयोर् इव शरीरविद्यालिंगवत्.

स्कन्धपुद्गलयोर् अन्यत्वम् आपद्यते. यथोपादेयाया विद्याया लिंगाच् च शरीरस्य अन्यत्वं. एवम् उपादेयात् स्कन्धात् पुद्गलस्यान्यत्वम् उपादातृत्वाद् इत्य् अभिप्रायः. जीर्णं तं शरीरान्तरम् एव व्याधितं चेति प्रतिक्षणम् अन्यत्वम् अवस्थानाद् इत्य् अभिप्रायात्. तत्र यद् उक्तं जीर्णो जातो व्याधितो जात इत्य् असिद्धो दृष्टान्त इति दर्शयति. अथापि स्याद् अवस्थितस्य शरीरस्यावस्थान्तरनिर्वृत्ताव् अवस्थान्तरप्रादुर्भाव इति. तच् च नाप्रतिषिद्धो हि सांख्येयः परिणामवादः पूर्वस्मिन् कोशस्थाने. कथम्. स एव हि धर्मी न संविद्यते. यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्पेत. तद् एव चेदं तथेत्य् अपूर्विका वाचोयुक्तिर् इति.

भूतानि चत्वारि रूपं चैकम् इति. रूपं कतमत्. चत्वारि महाभूतानीत्य् (अभिध्-क्-व्य् 708) आदि.

पाक्षिक एव दोष इति एकस्मिन् पक्षे अयं दोषवाद इत्य् अर्थः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.