Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
संधिष्व् अन्य इत्य् उक्तम् अस्थिसंधिविशेषोपन्यासः. नागग्रंथिर् इति विस्तरः. नागग्रन्थिसंधयो बुद्धाः. नागपाशो नागग्रंथिः. शंकलासंधयः प्रत्येकबुद्धाः. शंकुसंधयश् चक्रवर्तिनः.
दशाधिकं
हस्त्यादिसप्तकबलम्
इति. हस्त्यादीनां हस्तिगन्धहस्तिमहानग्नप्रस्कंदिवरांगचाणूरनारायणानां सप्तकं तस्य बलं दशभिर् अधिकं दशभ्यो वाधिकं. कथम् इत्य् आह. यद् दशानां प्राकृतहस्तिनां सानान्यहस्तिनां बलं. तद् एकस्य गन्धहस्तिनो बलं. एवं यद् दशानां गन्धहस्तिनां बलं. तद् एकस्य महानग्नस्य बलं. यावद् यद् दशानां चाणूराणां बलं. तद् एकस्य नारायणस्य बलम् इति.
दशोत्तरवृद्धिनगः. दशोत्तरवृद्ध्यार्धनारायणबलम् इति. आदितस् तथैव प्रक्रम्य यद् दशानां प्रस्कन्दिनां बलं. तद् अर्धनारायणं. तद्द्विगुणं नारायणम् इति.
यथा तु बहुतरं. तथा युज्यत इत्य् आचार्यः. पूर्वकम् एव पक्षं समर्थयति. अन्यथा ह्य् अनन्तज्ञानबलसहिष्णुर् न स्याद् इति तद् एव कारणं. देवदत्तहतहस्तिपादांगुष्ठसप्तप्राकारपरिखाक्षेपश् [तिब्. 312अ] चान्यथा न स्याद् इति.
महाभूतविशेष एवेति. महाभूतविशेषस्वभावम् एवेदं बलं न भौतिकम् इति दर्शयति.
उपादायरूपसप्तभ्यो ऽर्थान्तरम् इति. श्लक्ष्नत्वादिभ्यः पूर्वोक्तेभ्यो ऽन्यद् एव बलं नामोपादायरूपम् इत्य् अपरे.
(vii.38अब्) यथासूत्रम् एवेति. चत्वारीमानि शारिपुत्र तथागतस्य वैशारद्य्नि. यैर् वैशरद्यैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्म्यं चक्रं प्रवर्तयति पर्षदि सम्यक् सिंहनादं नदति. कतमानि चत्वारि. सम्यक्संबुद्धस्य बत मे सतो इमे धर्मा (अभिध्-क्-व्य् 646) अनभिसंबुद्धा इत्य् अत्र मां कश्चिच् छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत्. स्मारयेत्. तत्राहं निमित्तम् अपि न समनुपश्यामि. एवं चाहं निमित्तम् असमनुपष्यन् क्षेमप्राप्तश् च विहराम्य् अभयप्राप्तश् च वैशारद्यप्राप्तश् च उदारम् आर्षभं स्थानं प्रतिजानामि ब्राह्म्यं चक्रं प्रवर्तयामि. पर्षदि सम्यक् सिंहनादं नदामि. इदं प्रथमं वैशारद्यं. क्षीणास्रवस्य बत मे सत इमे आस्रवा अप्रहीणा इत्य् अत्र मां कश्चिद् इति पूर्ववत्. यावत् पर्षदि सम्यक् सिंहनादं [तिब्. 312ब्] नदामि. इदं द्वितीयं वैशारद्यं. ये वा पुनर् मया श्रावकाणाम् आन्तरायिका धर्मा आख्याताः. तान् प्रतिषेवमाणस्य नालम् अन्तरायायेत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं तृतीयं वैशारद्यं. यो वा पुनर् मया श्रावकाणां मार्ग आख्यातः आर्यो नैर्याणिको नैर्वेधिको निर्याति. तत्करस्य सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै स न निर्यास्यतीत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं चतुर्थं वैशारद्यम् इति. यथा स्थानास्थानज्ञानबलम् इति विस्तरः. यथा स्थानास्थानज्ञानबलं दश ज्ञानानि सर्वभूमिसंगृहीतं च. एवं सम्यक्संबुद्धस्य बत मे सत इत्य् एतद् वैशारद्यं. तथैव दशधा धर्माणां भेदं कृत्वा योज्यं. यथास्रवक्षयज्ञानबलं षट् दश वा ज्ञानानि दशभूमिसंगृहीतं च. एवं
क्षीणास्रवस्येति द्वितीयं वैशारद्यम् अत्रापि तथैव धर्माणां भेदं कृत्वा षट् दश वा ज्ञानानीति योज्यं. यथा कर्मस्वकज्ञानबलम् अष्टौ ज्ञानानि निरोधमार्गज्ञाने हित्वा सर्वभूमिसंगृहीतं च. एवं य वा पुनर् मया श्रावकाणाम् आन्तरायिका इति विस्तरेण तृतीयं वैशारद्यम्. अत्रापि तथैव धर्माणां भेदं कृत्वा दुःखसमुदयसत्यसंगृहीता एवान्तरायिकाः. न निरोधमार्गसत्यसंगृहीता [तिब्. 313अ] इत्य् अष्टौ ज्ञानानीति योज्यं. यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलं दश ज्ञानानि नव वा सर्वभूमिसंगृहीतं च. एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यात इत्य् एतद् वैशारद्यं. अत्रापि सफलसास्रवानास्रवमार्गग्रहणतो दश ज्ञानानि. अफलतद्ग्रहणतो वा नवेति योज्यं. निर्भयता हि वैशारद्यम्. एभिश् च ज्ञानैर् निर्भयो भवतीति ज्ञानानि वैशारद्यानीति वैभाषिकाः.
आचार्य आह. ज्ञानकृतं तु वैशारद्यं. न ज्ञानम् एवेति. अथ व आचार्यवचनम् एवैतत् सर्वं. निर्भयता हि वैशारद्यं. तथा हि तद्भयप्रतिपक्षो धर्मश् चैतसिकः. भयम् अपि चैतसिको धर्म इति. एभिश् च ज्ञानैर् हेतुभूतैर् निर्भयो भवतीति. तत् कथं ज्ञानम् एव वैशारद्यं. ज्ञानकृतं तु वैशारद्यं युज्यते न ज्ञानम् एवेति.
(vii.38च्द्) यथासूत्रम् इति त्रीणीमानि भिक्षवः स्मृत्युपस्थानानि. यान्य् आर्यः. (अभिध्-क्-व्य् 647) सेवते. यान्य् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. कतमानि त्रीनि. इह भिक्षवः शास्ता श्रवकाणां धर्मं देशयति अनुकंपकः कारुणिको ऽर्थकामो हितैषी करुणायमानः. इदं वो हिताय इदं वो सुखाय इदं वो हितसुखाय. [तिब्. 313ब्] तस्य मे श्रावकाः शुश्रूषन्ते. श्रोत्रम् अवदधति. आज्ञाचित्तम् उपस्थापयन्ति. प्रतिपद्यन्ते धर्मस्यानुधर्मन् प्रति. न व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम्. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं प्रथमं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम्. पुनर् अपरं शास्ता धर्मं देशयति पूर्ववत्. तस्य ते श्रावका न शुश्रूषन्ते. न श्रोत्रम् अवदधति. नाज्ञाचित्तम् उपस्थापयन्ति. न प्रतिपद्यन्ते धर्मस्यानुधर्मं. व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य नाघातो भवति नाक्षान्तिर् नाप्रत्ययो न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं द्वितीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. पुनर् अपरं भिक्षवः यावच् छासने तत्र तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वं. नाघातो नाक्षान्तिर् नाप्रत्ययो [तिब्. 314अ] न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं तृतीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम् इति.
स्मृतिसंप्रज्ञानम्
इति. उभयस्वभावम् इति दर्शयति. स्मृतः संप्रजानन्न् इति वचनात्. यदा श्रावकस्यापीति विस्तरः. यदा श्रावकस्यापि हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येष्व् अशुश्रूषमाणेषु च उभयेषु च शुश्रूषमाणाशुश्रूषमाणेषु च. नन्दी अनुनयो म भवति. आघातो वा द्वेषो वा.
कस्माद् एते आवेणिका असाधारणा बुद्धधर्मा उच्यंते. सवासनप्रहाणड् इति. सवासनानाम् आनम्द्यादीनां प्रहाणात्. का पुनर् इयं वासना नाम श्रावकाणां. यो हि यत्क्लेशचरितः पूर्वं. तस्य तत्कृतः कायवागचेष्टाविकारहेतुसामर्थ्यविशेषश् चित्ते वासनेत्य् उच्यते. अव्याकृतश् चित्तविशेषो वासनेति भदन्तानन्तवर्मा. अथ वेति विस्तरेणाचार्यः. यस्य श्रावका बुद्धस्य भगवतः श्रावका भवन्ति नान्यस्य. किं कारणं. शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश् च शुश्रूषमाणाशुश्रुषमाणेषु [तिब्. 314ब्] उभयेषु तस्यैव श्रवकवतस् ततनुत्पादः. आनन्द्याघातानुत्पादः. आश्चर्यम् अद्भुतं (अभिध्-क्-व्य् 648) व्यवस्थाप्यते. नान्यस्य श्रावकस्येत्य् अर्थः.
(vii.39) अन्यथा हीति विस्तरः. यदि संवृतिज्ञानस्वभावा न स्याद् अद्वेषस्वभावा स्यात् करुणावत्. न सर्वसत्त्वालंबना सिध्येत्. न त्रैधातुकसत्त्वालंबना सिध्येद् इत्य् अर्थः. यथा करुणा न त्रैधातुकसत्त्वालम्बना. किं तर्हि. कामावचरसत्त्वालंबना. दुःखितसत्त्वालम्बनत्वाद् एवं सिद्धं स्याद् इत्य् अभिप्रायः. न च त्रिदुःखताकारा सिध्येद् इति वर्तते करुणावत्. यथा करुणा दुःखताकारैव न त्रिदुःखताकारा दुःखदुःखतासंस्कारदुःखताविपरिणामदुःखताकरा. तथा न स्यात्. इष्यते च त्रिदुःखताकारेति. अतः संवृतिज्ञानस्वभावेति. महच्छब्दवाच्यताकारणं दर्शायन्न् आह.
कस्माद् इयम् इत्यादि. संभारेण महापुण्यज्ञानसंभारसमुदागमाद् इति. महापुण्यसंभारसमुदागमात्. महाज्ञानसंभारसमुदागमाच् चेत्य् अर्थः. तत्र महापुण्यसंभारस् तिस्रः पारमिताः. [तिब्. 315अ] दानशीलक्षान्तिपारमिताः. महाज्ञानसंभारः प्रज्ञापारमिता. वीर्यध्यानपारमिते तु द्विधा उभयत्रव्यापारात्. न हि विना वीर्येण दानं दीयते शीलं समादीयते क्षान्तिर् भाव्यत इति महापुण्यसंभारभागीयं वीर्यं भवति. तथा नान्तरेण वीर्यं प्रज्ञा भवतीति महाज्ञानसंभारभागीयं भवति. तथा मैत्र्यादिचतुर्विधाप्रमाणभावनापक्षं ध्यानं महापुण्यसंभारभागीयं. स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपक्षधर्मभावनापक्षं ध्यानं महाज्ञानसंभारभागीयं. तद् एवं महापुण्यज्ञानसंभाराभ्यां समुदागमान् निर्वृत्तेर् महतीयं करुणेति महाकरुणा. आकारेण त्रिदुःकताकरणात्. यस्मात् तिसृभिर् अपि दुःखताभिर् आकारयति न दुःखदुःकतयैव करुणावत्. आलम्बनेन त्रैधातुकसत्त्वालंबनत्वात्. यस्मात् त्रैधातुकोपपन्नन् सत्त्वान् आलम्बते न च कामधातूपपन्नान् एव करुणावत्. कामसत्त्वास् तु गोचर
[तिब्. 315ब्] इति वचनात्. समत्वेन सर्वसत्त्वेषु समवृत्तित्वात्. यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्यापन्नेषु समं वर्तते संस्कारदुःखताकारेण. अतो ऽपि महाकरुणेत्य् उच्यते. ततो ऽधिमात्रतराभावाद् इति. प्रज्ञास्वभावतया तीक्ष्णतरत्वात्. यथा हि तया करुणायते. न तथा करुणयेति. नानाकरणं विशेषः.
अद्वेषामोहस्वभावत्वाद् इति. यथाक्रमं करुणाया अद्वेषस्वभावत्वात्. महाकरुणायाश् चामोहस्वभावत्वाद् इत्य् अर्थः. एकत्रिदुःखताकारत्वाद् इति. एकदुःखताकारत्वात् करुणायाः. त्रिदुःखाकारत्वाच् च महाकरुणायः. इत्य् (अभिध्-क्-व्य् 649) उभयत्रापि सर्वत्र याथासंख्येन योजयितव्ग्यं. चतुर्ध्यानचतुर्थध्यानभूमिकत्वाद् इति. करुणा चतुर्ध्यानभूमिक. अनागम्यध्यानान्तरयोः प्रथमध्यानग्रहणेन ग्रहणान् न षड्भूमिकेत्य् उक्तं. महाकरुणा तु चतुर्थध्यानभूमिकैव सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादनसमर्थत्वात्. श्रावकादिबुद्धसंतानजत्वाद् इति. आदिशब्देन प्रत्येकबुद्धपृथग्जनां ग्रहणं. कामभवाग्रवैराग्यलभ्यत्वाद् इति. कामवैराग्यलभ्या करुणा. [तिब्. 316अ] भवाग्रवैराग्यलभ्या महाकरुणा. अपरित्राणपरित्राणत इति. करुणया श्रावकादयः करुणायन्त एव केवलं अनुग्लायंत्य् एवेत्य् अर्थः. न संसारभयात् परित्रायन्ते. महाकरुणया तु करुणायमानो भगवान् महतः संसारभयात् परित्राय्ते. अतुल्यतुल्यकरुणायनात्. करुणयातुल्यं करुणायते. दुःखितानाम् एव करुनायनात्. महाकरुणया तु तुल्यं सर्वसत्त्वसमक्रुणायनात्.
(vii.40) पूर्वपुण्यज्ञानसंभारसंउदागमत इति. पूर्वेषु जन्मसु पुण्यसंभारेण पूर्वोक्तेन ज्ञानसंभारेण च समुदागमतः. धर्मकायपरिनिष्पत्तित इति. अनास्रवधर्मसंभारसंतानो धर्मकायः. आश्रयपरिवृत्तिर् वा. अर्थचर्यया चेति. स्वर्गापवर्गकारणम् अर्थो लोकस्य. तस्य संपादनम् अर्थचर्या. तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः. यथाकालम् इति. सर्वत्राभिसंबध्यते. कथं. चिराल्पजीवनाद् यथाकालं दीर्घायुषि प्रजायां दीर्गायुषो बुद्धा भवन्ति. अल्पायुष्य् अल्पायुषः. यथासंभवं क्षत्रियगुरुके लोके क्षत्रिया भवन्ति. ब्राह्मणगुरुके ब्राह्मणाः. यथाकालम् एव च काश्यपादिगोत्राः. [तिब्. 316ब्] गौतमादिगोत्राश् च. तथाल्पप्रमाणे लोके ऽल्पप्रमाणाः. अनल्पप्रमाणे ऽनल्पप्रमाणा इति. हेतुसंपदं पुण्यज्ञनसंभारलक्षणां. फलसंपदं धर्मकायलक्षणां. उपकारसंपदं जगदर्थचर्यालक्षणां. सर्वगुणज्ञानसंभाराभ्यास इति. गुणाः पंचपारमितास्वभावाः. ज्ञानानानि च प्रज्ञापारमितास्वभावानि. तेषां गुणज्ञानानां संभारः. तस्याभ्यासः पुनःपुमह्प्रयोगः. दीर्घकालाभ्यासस् त्रिभिर् असंख्येयैर् महाकल्पैः. निरन्तराभ्यासो ऽसान्तरतया. सत्कृत्यभ्यासस् तीव्रादरतया. चतुर्विधा फलसंपद् इति. धर्मकायपरिनिष्पत्त्या ज्ञानादिसंपदश् चतस्रो भवन्तीति ता अपि फलसंपद इति व्यवस्थाप्यन्ते. ज्ञानसंपच् चतुर्विधेति वक्ष्यति. तथा प्रहाणसंपत् प्रभावसंपत् रूपकायसंपच् च चतुर्विधेति वक्ष्यति. तद् एवासां व्याख्यानं भविष्यति. चतुर्विधोपकारसंपत्. क्थम् इत्य् आह. अपायत्रयसंसारदुःखत्यन्तनिर्मोक्षसंपद् इति. अपायत्रयं च नरकादि
संसारश् च. तयोर् दुःखं. (अभिध्-क्-व्य् 650) ततो ऽत्यन्तनिर्मोक्षः. सैव संपद् इति. यानत्रयसुगतिप्रतिष्ठापनसंपद् [तिब्. 317अ] वेति. यानत्रये च श्रावकयानादौ. सुगतौ च प्रतिष्ठापनं. सैव संपद् इति. इयं वा चतुर्विधोपकारसंपत्. अनुपदिष्टज्ञानम् इति स्वयम् अभिसंबोधनार्थेन. सर्वत्रज्ञानम्न् इति निरवशेषस्वलक्षणावबोधनार्थेन. सर्वथाज्ञानम् इति. सर्वप्रकारावबोधनार्थेन. अयत्नज्ञानम् इतीच्छामात्रावबोधनार्थेन सर्वक्लेशप्रहाणम् इति त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः अत्यन्तप्रहाणम् इत्य् अपरिहाणितः. सवासनप्रहाणम् इति. अनुबंधाभावतः. सर्वसमापत्त्यावरणप्रहाणम् इत्य् उभयतोभागविमुक्तेः. बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसंपद् इति. तत्रापूर्वबाह्यविषयोत्पादनं निर्माणम्. अश्मादीनां सुवर्णादिभावापादनं परिणामः. दीर्घकालावस्थानम् अधिष्ठानम् इति. आयुष उत्सर्गे ऽधिष्ठाने च वशित्वसंपद् आयुरुत्सर्गाधिष्ठानवशित्वसंपद् इति. आवृतेति विस्तरः. आवृतगमनं चाकाशगमनं च सुदूरक्षिप्रगमनं च. ब्राह्मणाद् इत्य् अनवद् एकशेषः. अल्पे बहूनां प्रवेशः. परमाणौ बहूनां हस्त्यादीनां [तिब्. 317ब्] प्रवेशः. स चेत्य् आवृताकाशासुदूरक्षिप्रगमनाल्पबहुपहुप्रवेशः. तयोर् वशित्वसंपद् इति योज्यं. विविधा नानाप्रकारा निजाः स्वाभाविकाः. के. आश्चर्यधर्माः. तेषां संपद् इति योज्यं. धर्मतैषा बुद्धानां भगवतां यत् तेषां गच्छतां निम्नस्थलं च समीभवति. यद् उच्चं. तन् निचीभवति. यन् नीचं. तद् उच्चीभवति. अंधाश् चक्षूंषि प्रतिलभंते. बधिराः श्रोत्रम्. उन्मत्ताः स्मृतिम् इति यथासूत्रं सर्वम् अनुसर्तव्यं. लक्षणसंपद्
इति. द्वात्रिंशतां महापुरुषलक्षणानाम् ऊर्णोष्णीषादीनां संपत्. अनुव्यंजनसंपद् इति. वृत्तांगुलिताम्रतुंगनखत्वादीनां अशीतेर् अनुव्यंजनानां संपत्. बलसंपन् नारायणं बलं. वज्रसाराण्य् अस्थीन्य् अस्येति वाज्रसारास्थि. वज्रसारास्थिशरीरम् अस्येति वज्रसारास्थिशरीरः. तद्भावः. तस्य संपद् इति. वज्रसारास्थिशरीरतासंपद् इति.
एतत् सामासिकं सांक्षेपिकं. ये केचित् प्रसादजाताः सत्पुरुषा बुद्धं भगवन्तम् अस्ताविषुः स्तुवन्ति स्तोष्यंति वा. सर्वे ते एतयैव त्रिविधया संपदेति. यद्य् अनेका असंख्येयाः कल्पा अस्येत्य् अनेकासंख्येयकल्पं जीवितं. तद् यद्य् अधितिष्ठेयुर् बुद्धा भगवन्तः. [तिब्. 318अ] एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं वक्तुं च समर्थाः. तस्यानन्तप्रभेदत्वेनातिबहुत्वाद् इत्य् अब्जिप्रायः. एवं च तावद् इति विस्तरः. गुणाश् च ज्ञानानि च प्रभावश् (अभिध्-क्-व्य् 651) चोपकारश् चेति द्वंद्वः. अनन्ताश् च ते ऽद्भुताश् चेति पुनः कर्मधारयः. एत एव महारत्नानि. तेषाम् आकरास् तथागताः. अथ च पुनर् बालाः पृथग्जनाः स्वगुणदारिद्र्येणानुमानभूतेन हताधिमोक्षा हतरुचयः यावद् बुद्धं नाद्रियंते बुद्धे नादरं कुर्वन्तीत्य् अर्थः. श्रद्धामात्रकेणापीति. निरधिगमेनेत्य् अर्थः. अनियतविपाकानाम् इति. नियतविपाकानाम् अलंघनीयत्वाद् इत्य् अभिप्रायः. देवेषु भस्वा दैवी. अवंध्येष्टप्रकृष्टाशुस्वंतफलत्वाद् इति. अवंध्यफलं फलदाननैयम्येनावस्थानात्. इष्टफलं दिव्यविषयफलत्वात्. प्रकृष्टफलं प्रभूतफलत्वात्. आशुफलं दृष्टधर्मादिवेदनीयफलत्वात्. स्वन्तफलं निर्वाणाफलत्वात्. तद्भावात्. अनुत्तरं पुण्यक्षेत्रम् उच्यंते तथागता इति. कारान् इत्य् उपकारान् पूजादिकान्.
(vii.41) यथायोगम् इति. यथासंभवं. [तिब्. 318ब्] केचिद् गुणाः श्रावकसाधारणा बुद्धानां भगवतां अरणाप्रणिधिज्ञानादयः. केचित् पृथग्जनसाधारणाः अभिज्ञाध्यानाराप्यादयः. आदिशब्देन शून्यतानिमित्ताप्रणिहितादयो गृह्यन्ते.
(vii.42) न कस्यचित् तदालंबनो राग उत्पद्यते द्वेषो मानो वेति. तेनात्मनो दर्शनादिपरिहारात्. यथायथा च तेनाभिसमितं भवत्य् अरणासमाधेर् अभ्युत्थितेनास्य मां दृष्ट्वा राग उत्पत्स्यते अस्य द्वेषः अस्य मान अस्याप्रसाद उत्पत्स्यते इति. तथातथा व्युत्थितो ऽपि तस्मात् समाधेर् अनुवेष्टते. परचित्तरक्षणोपायविशेषे तु तस्यारणासमाधेर् उत्पत्तिमात्रसामर्थ्याद् एव परेषां क्लेशो नोत्पद्यत इत्य् अर्थो गृह्यते. रणयतीति क्लेशयतीत्य् अर्थः. सुखप्रतिपदाम् अग्रत्वाच् चतुर्थध्यानस्य तद्भूमिकैवारणा. नान्यध्यानभूमिका. परिहर्तुं न शक्नोतीति परिहाणि संभवात्.
सवस्तुकाः क्लेशाः.
के. रागादयो भावनाप्रहातव्याः. अवस्तुकाः क्लेशा दर्शनप्रहातव्याः. सर्वत्रगाः सकलस्वभूम्यालंबनत्वात् परसंतत्यालंबना अपि भवन्तीति. परिहर्तुम् अशक्याः सर्वत्रगाः. [तिब्. 319अ]
(vii.43) सर्वालंबनं तु तद्
इति. सर्वम् आलंबत इति सर्वालंबनं. सर्वो वास्यालंबन इति सर्वालम्बनं. नारणावत् क्लेशमात्रालम्बनं. किं तर्हि. रूपाद्यालंबनम् अपीत्य् अर्थः. आरूप्यस् तु न साक्षात् प्रणिधिज्ञानेन ज्ञायन्ते. किम् कारणं. यस्मात् प्रणिधिज्ञानं चतुर्थध्यानभूमिकं. वक्ष्यति च
स्वधोभूमिविषयाभिज्ञा
इति. प्रणिधिज्ञानं चाभिज्ञावत् भवतीति. निष्यन्दचरितविशेषाद् इति. तत्र निष्यंदो मन्दमन्दता. चरितम् आरूप्यसमापत्तिविहारः. तद् एवं कार्येणास्यानुमानं. कारणेन च कार्यास्येति परिदीपितम्. ततः प्रच्युतानां तत्समापत्तिलाभिणां च तद् उभयं प्रत्यक्षं. कार्षकनिदर्शनं चात्रेति. यथा कार्षकः फलेन बीजं प्रतिपद्यते. बीजेन वा फलम् इति. यथा वा कार्षको जानीते ईदृशे क्षेत्रे ईदृशाफलं धान्यं भविष्यतीति. धान्यं वा दृष्ट्वा क्षेत्रम् अनुमिनोति. ईदृशम् अस्य क्षेत्रम् इति. एवं शान्तमूर्तिं सत्त्वं दृष्ट्वा अनुमिनोति आरूप्याच् च्युतो ऽयम्. आरूप्येषु चोपपत्स्यत इति. वैभाषिका इति वचनं. परेषाम् अस्त्य् अनेनारूप्यज्ञानम् इति सूचयति. न हि बुद्दानाम् अस्त्य् अविषय इत्य् अभिप्रायः. [तिब्. 319ब्] प्रणिधिपूर्वकम् इत्य् आभोगपूर्वकं. प्रणिधायाभुज्येत्य् अर्थः. यावांस् तत्समाधिविषय इति. यावां च्छ्रावकस्य विषयः. तावज् जानाति. प्रत्येकबुद्धस्य च यावत्स्वविषय इत्यादि.
(vii.43-45) धर्मप्रतिसंविद् इति. इह देशनाधर्मः. अनेकार्थो हि धर्मशब्दः. तद्यथा धर्मं वो भिक्षवो देशयिष्यामि. आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयिष्यामिति, अत्र देशनाधर्मः. धर्मः कतमः. आर्याष्टांगमार्ग इत्य् अत्र प्रतिपत्तिधर्मः. तथा धर्मं शरणं गच्छेतेत्य् अत्र फलधर्मो निर्वाणम् इत्यादि. अविवर्त्यम् इति. अशक्यं विवर्तयितुं. अकोप्यधर्ममनुष्याश्रयत्वम् इति तथाशब्देनेदम् एवार्थद्वयं संबध्यते. आलम्बनादीनां पृथग्वचनात्. युक्तमुक्ताभिलापितायाम् इति. युक्तम् अर्थसंबंधं. मुक्तम् असक्तं. युक्तमुक्तम् अभिलपतीति युक्तमुक्ताभिलापी. तद्भावः. तस्यां. युक्तमुक्ताभिलापितायां. समाधौ वशी समाधिवशी. समाधिवशिनः संप्रख्यानम् असंमोषः. समाधिवशिसंप्रख्यानं. [तिब्. 320अ] तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंविद् इति विशेषः. कथं. नवज्ञानस्वभावा प्रतिभानप्रतिसंवित्. या वागालम्बना. सा दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा. या मार्गालम्बना. सा मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावेत्य् अभिसमस्य नवज्ञानस्वभावा अन्यत्र निरोधज्ञानात्. सर्वधर्माश् चेद् अर्थो दश ज्ञानानीति. न हि सो ऽस्ति धर्मः. यो दशानां ज्ञानानां यथासंभवं नालम्बनीभवति. निर्वाणां चेद् अर्थः षट् ज्ञानानीति. निरोधज्ञानस्य धर्मज्ञानादिपंचस्वभावत्वात्. (अभिध्-क्-व्य् 653) नामकायादिवागालम्बनत्वाद् इति. न हि दुःखादिज्ञानम् अनास्रवं दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते. किं तर्हि.
पंचोपादानस्कंधान् सामान्यलक्षणाकारैः. अतस् ते संवृतिज्ञानस्वभावे इति. ऊर्ध्वं नामकायभावाद् इति. आरूप्यधातौ धर्मप्रतिसंविन् नास्तीति. यत्र च नामकायाः. तत्रैव पदव्यञ्जनकाया इति [तिब्. 320ब्] तुल्यवार्त्ता. नामकायभाववचनेन पदव्यञ्जनकायाभावसिद्धिः. ऊर्ध्वं वितर्काभावाद् इति. द्वितीयध्यानादिषु. वितर्क्य विचार्य वाचं भाषत इति सूत्रं नामाद्यालम्बनत्वं पुनर् आसां प्रतिसंविदां समापन्नस्यापि. व्युत्थितस्यापि तत्पृष्ठलब्धैर् अविवर्त्यैर् ज्ञानैर् नामाद्यालम्बनत्वं. भाषणं पुनस् तत्पृष्ठेनैव. स्त्रीपुरुषाद्यधिवचन इति. आदिशब्देन कालकारकादिसंग्रहः. अधिवचनं पुनः पर्यायः. तद् अधिकृत्य वा वचनं तदधिवचनं. तस्यासक्ततायाम् इति. तस्याधिवचनस्य तस्य पदव्यञ्जनस्य वा. अत एवासां क्रमसिद्धिर् इति. यतः पदव्यञ्जनानुसारेणार्थप्रतिपत्तिः. तस्यैकद्विबहुस्त्रीपुरुषाद्यधिवचनं तस्यासक्ततेत्य् अतः क्रमसिद्धिर् इति.
तस्माद् रूपम् इत्य् एवंआदीति. आदिशब्देन विजानातीति विज्ञानं. चिनोतीति चित्तम् इत्य् एवमादि संग्रहतः. उत्तरोत्तरप्रतिभा प्रतिभानम् इति वादन्यायेन. यथाक्रमम् इति. धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः. अर्थप्रतिसंविदो बुद्धवचनं. निरुक्तिप्रतिसंविदः शब्दविद्या. प्रतिभानप्रतिसंविदो हेतुविद्येति. बुद्धवचनम् एवेति वैभाषिकाः.
(vii.46) तत् षड्विधम्
इति. [तिब्. 321अ] किंचिच् चतुर्थं ध्यानम् अरणात्मकं. किंचित् प्रणिधिज्ञानात्मकं. किंचित् त्रिप्रतिसंविदात्मकं. किंचित् तद्व्यतिरिक्तं केवलं प्रान्तकोटिकम् इति. तिस्रः प्रतिसंविद इति. निरुक्तिप्रतिसंविदं मुक्त्वा तत्र वितर्काभावात्. सवितर्कविचारेण तदुत्थापनं. कथं तर्ह्य् अविशेषेणैतद् उक्तं.
षड् एते प्रान्तकोटिका
इति. एते उच्यन्ते. निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा चौर्थध्यानभूमिका. किं तर्हि. कामधातुप्रथमध्यानभूमिकेत्य् अर्थः.
सर्वभूम्यनुलोमितम्
इति. सर्वभूम्यनुकूलितम् इत्य् अर्थः. प्रगता अन्ता कोटिर् अस्येति. प्रगता अन्तं प्रान्ता. प्रान्ता कोटिर् अस्येति प्रान्तकोटिका. चतुष्कोटिकवद् इति. यथा चतुष्कोटिकश् चतुःप्रकारप्रश्नः. तद्वत्.
(vii.47-50) ऋद्धिविषयेति विस्तरः. षड् अभिज्ञाः. ऋद्धिविषयज्ञानसाक्षात्क्रियादिव्यश्रोत्रचेतःपर्यागपूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा इति. सूत्रं चात्र. इह भिक्षुर् अनेकविधम् ऋद्धिविषयं प्रत्यनुभवति. एको भूत्वा बहुधा भवति बहुधाभूत्वा एको भवतीति विस्तरग्रंथ ऋद्धिपादा इत्य् अत्र लिखितो द्रष्टव्यः. यावद् इयम् उच्यते ऋद्धिविषयज्ञानसाक्षात्क्रियाभिज्ञेति. इह भिक्षुर् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण उभयां च्छब्दान् शृणोति मानुषान् अमानुषान् अपि ये वा दूरे [तिब्. 321ब्] ये वान्तिक इति. इयं उच्यते दिव्यश्रोत्रज्ञानसाक्षात्क्रियाभिज्ञा. इख भिक्षुर् दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते दिव्यचक्षुर्ज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् अनेकविधं पूर्वनिवासम् अनुस्मरतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुः परसत्त्वानां परपुद्गलानां वितर्कितं विचरितं मनसा मानसं यथाभूतं प्रजानाति. सरागचित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं विगतरागम् इति यथाभूतं प्रजानाति. सद्वेषं विगतद्वेषं समोहं विगतमोहं विक्षिप्तं संक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितम् अभावितं भावितम् अविमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति. विमुक्तं चित्तं विमुक्तं चित्तम् इति यथाभूतं प्रजानाति. इयम् उच्यते चेतःपर्यायज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः.
अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् [तिब्. 322अ] इति यथाभूतं प्रजानाति. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविदास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति. क्षीणा मे जातिर् यावन् नापरम् अस्माद् भवं प्रजनामीति. इयम् उच्यते आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. ऋद्धिः समाधिः. ऋद्धिविषयो निर्माणं गमनं च. ऋद्धिविषये ज्ञानं. तस्य साक्षात्क्रिया संमुखीभावः. ऋद्धिविषयज्ञानसक्षात्क्रियाभिज्ञा. दिव्यं श्रोत्रं. तत्र ज्ञानं. तस्य साक्षात्क्रिया दिव्यश्रोत्रज्ञानसाक्षत्क्रिया. चेतःपर्यायो विशेषः. रक्तं द्विष्टं मूढम् इति वा क्रमो वा पर्यायः. कदाचिद् रक्तं कदाचिद् द्विष्टं मूढं चेति. तत्र ज्ञानं. तस्य साक्षात्क्रिया. पूर्वेनिवासः स्कंधेग इवालुक्. तस्यानुस्मृतिः तत्र ज्ञानं. तस्य साक्षात्क्रियेति. (अभिध्-क्-व्य् 655) च्युतिश् चोपपादश् च च्युत्युपपादौ. तयोर् ज्ञानं. तस्य साक्षात्क्रिया. आस्रवाणां क्षयः. तत्र ज्ञानं. तस्य साक्षात्क्रियाभिज्ञेति प्रत्येकम् अभिसंबंधः. श्रामण्यफलवद् इति. यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावं. तद्वत्.
चेतसि ज्ञानपंचकम्
इति. चेतसि चेतःपर्यायैर् याभिज्ञा. [तिब्. 322ब्] सा ज्ञानपंचकस्वभावेत्य् अर्थः. अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्तज्ञानत्वसंभवात्. सास्रवस्य च संवृतिपरचित्तज्ञानसंभवात्.
बलं यद्वद्
इति. यथास्रवक्षयज्ञानबलम्. आस्रवक्षयज्ञानम् आस्रवक्षयालम्बनम् इति चेत्. षट् ज्ञानानि. निरोधज्ञानस्य धर्मान्वयक्षयानुत्पादज्ञानसंज्ञितत्वात्. संवृतिज्ञानस्य च निरोधालम्बनत्वसंभवात्. आस्रवक्षये सति यज् ज्ञानं. क्षीणास्रवसंताने तज् ज्ञानम् इति चेत्. दश ज्ञानानि. क्षीणास्रवसंताने दशज्ञानसद्भावात्. एवम् आस्रवक्षय आलम्बनभूते याभिज्ञा. सा चेद् आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. षट् ज्ञानानि. तद्वत्. आस्रवक्षये सति याभिज्ञा. सा चेद् दश ज्ञानानि. तद्वद् इति. सर्वभूमिकाप्य् एषेति.
बलम् यद्वद्
इत्य् अनेनैव वचनेनायम् अर्थो लभ्यते. यस्माच् च
पंचैव ध्यानचतुष्टय
इत्य् अवधार्यते. तस्माद् अपीयम् षष्ठ्य् अभिज्ञा सर्वभूमिकेति गम्यते.
तिस्रस् तावन् न सन्तीति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा. कस्मात्. रूपालंबनत्वात्. न ह्य् आरूप्याणां रूपम् आलंबनम्. विभूतरूपसंज्ञात्वात्. रूपतीर्थाभिनिष्पाद्यत्वाद् [तिब्. 323अ] इति. रूपत्वद्वारनिष्पाद्यत्वात् रूपालंबनमार्गनिष्पाद्यत्वाद् इत्य् अर्थः. ईदृशे रूपे ईदृशं चित्तं भवतीति न चारूप्याणां रूपम् आलंबनं. पूर्वेनिवासानुस्मृतिर् अपि नास्त्य् अनुपूर्वावस्थान्तरस्मरणाभिनिष्पत्तेः. यस्माद् अनुपूर्वम् आत्मनो ऽवस्थान्तराणि स्मरन्तो निष्पादयन्ति. न चारूप्याणां कामावचरा धर्मा आलंबनं. वक्ष्यति हि
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति. तानि चावस्थान्तराण्य् आत्मनः कामावचराण्य् अभिनिष्पादनकाले तस्यालम्बनम् इत्य् एतस्मात् तद्भूमिका नास्तीति. स्थानगोत्राद्यालम्बनत्वाच् च. तस्माद् अपि च्युतो ऽमुत्रोपपन्नः. तथा हि सूत्र उक्तं. अमी नाम (अभिध्-क्-व्य् 656) ते सत्त्वाः. यत्राहम् अभूवम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्पर्यन्तः. यो ऽहं तस्माच् च्युतो ऽमुत्रोपपन्नः. तस्माद् अपि च्युतो [ऽमुत्रोपपन्नः तस्माच् च्युत] इहोपपन्न इति साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरतीति. न चारूप्याः स्थानगोत्राद्यालम्बनाः [तिब्. 323ब्] अधोभूम्यालम्बनाश् चेत्य् एतस्माद् अपि कारणान् नारूप्यभूमिकाः. कथं परचित्तज्ञानं रूपतीर्थाभिनिष्पाद्यम् इत्य् अत आह. परचित्तं हि ज्ञातुकाम इति विस्तरः. आभुजत इति. आभोगं कुर्वतः. निमित्तं उद्गृह्येति. चित्तप्रकारं परिच्छिद्येत्य् अर्थः. तत्प्रातिलोम्येनेति. तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धान्य् अवस्थान्तराणि मनसिकरोति. विलंघ्यापि स्मरणम् इति. एकं जन्म द्वे वा विलंघ्यापि व्यतिक्रम्यापि स्मरणं. शुद्धावासानां कथं स्मरणम् इति. यद्य् अनुभूतपूर्वस्यैव स्मरणं. न हि शुद्धावासानाम् इहागमनम् अस्त्य् अनागामित्वात्. तेन नैषाम् इहानुभूतिः. नापि तत्र. पृथग्जनानां तत्रानुपपत्तेः. श्रवणेवानुभूतत्वाद् इति. श्रुतं हि तेन भवति. शुद्धावासा नाम देवा एवंभूता इति. द्विविधो ह्य् अनुभवो दर्शनानुभवः श्रवणानुभवश् च. परसंतत्यधिष्ठानेनोत्पादनम् इति. ध्यानसंगृहीतं पूर्वेनिवासानुस्मृतिज्ञानं. तेन चारूप्यावचरं चित्तं न गृह्णाति. कथं च पुनः परसंतत्यधिष्ठानेनोत्पादनं. समनंतरनिरुद्धान् मनोविज्ञानात् परकीयान् निमित्तम् उद्गृह्येति विस्तरः. अन्येषाम् इति. य आरूप्येभ्यो न प्रच्युताः. तेषां स्वसंतत्यधिष्ठानेनैवोत्पादनं पूर्वेनिवासानुस्मृतिज्ञानस्य सुकरत्वात्.
ऋद्ध्यादीनाम् इति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञानां [तिब्. 324अ] तिसृणां यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः. शब्दमनसिकरणं दिव्यश्रोत्रस्य. आलोकमनसिकरणं दिव्यचक्षुषः.
कथम् एता लभ्यंत इति प्राप्तिम् अधिकृत्य प्रश्नः. संमुखीभावस् तु चितानाम् अनुचितानां च प्रयोगत एव. अनुचिताः प्रयोगत इति. वैशेषिक्यो या अनुत्पादितपूर्वाः. सर्वासां तु प्रयोगेनोत्पादनम् इति. याश् च वैराग्याल् लभ्यन्ते. याश् च प्रयोगतः. तासां सर्वासां.
अन्यत्र शब्दाद् इति उच्छेदित्वाच् छब्दो न निर्मीयते. वक्ष्यति हि.
कामाप्तं निर्मितं बाह्यं चतुरायतनम्
इति.
कथं तर्हीति विस्तरः. यदि चक्षुरभिज्ञा रूपायतनालम्बना कथं तर्हि च्युत्युपपादज्ञानेनामी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादि. न वाङ्मनस्कर्मसमन्वागमाश् चक्षुर्विज्ञानेन गृह्यन्ते. आदिशब्देन मिथ्यादृष्टिग्रहणम्. न तद् इति. तद् वाङ्मनस्कर्मसमन्वागमादि तेन चक्षुर्ज्ञानेन न जानाति. केन तर्हीत्य् आह. अभिज्ञापरिवारज्ञानं तु तद् इति. मानसं तद् इत्य् अर्थः. शेषे इति. पूर्वेनिवासानुस्मृत्यास्रवक्षयाभिज्ञे ते चतुःस्मृत्युपस्थानस्वभावे. [तिब्. 324ब्] कथम्. आस्रवक्षयाभिज्ञा चतुःस्मृत्युपस्थानस्वभावा दशज्ञानस्वभावत्वत्. षट्ज्ञानस्वभावत्वे ऽपि कायवेदनाचित्तस्मृत्युपस्थानान्य् अप्य् अनागतानि भाव्यन्ते.
कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः. न हि द्वितीयादिध्यानभूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति. चक्षुह्श्रोत्रविज्ञानसंप्रयुक्तत्वात्. तयोश् च द्वितीयादिषु ध्यानेष्व् अभावात्. वक्ष्यति हि
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् द्वितीयादौ तद् आद्याप्तम्
इति. आश्रयवशेनेति विस्तरः. चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोर् अपि चतुर्ध्यानभूमिकत्वं. चक्षुह्श्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते. प्राधानिक एष निर्देशो बाहुलिको वेति. प्रधाने भवः प्राधानिकः. एवं बाहुलिकः. कुशला अभिज्ञाः प्रधानभूताः. अतस् तदपेक्षया निर्देशः क्रियते. कुशला प्रज्ञाभिज्ञेति. अथ वा बाहुल्येनाभिज्ञाः कुशलाः. अत एवं निर्देश इति. मुद्गादिभावे ऽपि माषराशिव्यपदेशवत्.
(vii.51) पूर्वन्तादौ निवर्तनात्
यावद् यथाक्रमम् इइत्. भगवद्विशेषादयस् तावद् आहुः. पूर्वान्तसंमोहं पूर्वेनिवासानुस्मृत्या निवर्तयति. च्युत्युपपादाभिज्ञय [तिब्. 325अ] मध्यसंमोहम्. आस्रवक्षयाभिज्ञयापरान्तसंमोहं. नापरम् अस्माद् भवं प्रजानामीति. तेषां व्याख्यानकाराणाम् अभिप्रायः. अतीतः प्रत्युत्पन्नो ऽनागतो ऽध्वेत्य् अध्वानुक्रमः. तस्माद् एवम् अर्थगतिर् इति.
आचार्यसंघभद्रस् तु व्याचष्टे. पूर्वान्तादौ निवर्तनात्. पूर्वेनिवासाभिज्ञा हि पूर्वान्तसंमोहं व्यावर्तयति. अपरान्तसंमोहं च्युत्युपपादाभिज्ञा. मध्यसंमोहम् आस्रवक्षयाभिज्ञा. इत्य् अतश् च तिसृणाम् एव विद्यात्वं पूर्वयात्मपरविपद्दर्शनात् संवेगोत्पत्तेः. परया परेषाम् एव. तथा संविग्नस्य भूतार्थावगमात् तृतीययेति. किम् अत्र प्रतिपत्तव्यं. (अभिध्-क्-व्य् 658) आचार्यसंघभद्रव्याख्यानम् एव युक्तरूपं पश्यामः. आचार्यस्यापि तथैवाभिप्रायो लक्ष्यते. तथा हि पूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास् तिस्र इत्य् उक्त्वाह. एता हि पूर्वान्तापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् इति. कथं पुनर् गम्यतेति तिस्र एवाभिज्ञास् तिस्रो विद्या इति. यस्माद् एवम् आह. अशैक्षी [तिब्. 325ब्] पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रिया विद्या. अशैक्षी च्युत्युपपादज्ञानसाक्षात्क्रिया विद्या. अशैक्ष्य् आस्रवक्षयज्ञानसाक्षात्क्रिया विद्येति विद्यात्रयव्यवस्थापनानुसूत्राद् एव. एवं ह्य् आह. त्रिपिटो भवति त्रिविद्य इति. अशैक्षी विद्येति. अनास्रवत्वाद् इत्य् अभिप्रायः. नैव र्त्तते पूर्वेनिवासच्युत्युपपदाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ सास्रवत्वात्.
(vii.52) त्रीणि प्रातिहार्याणि यथाक्रमम् इति. ऋद्धिविषयाभिज्ञा ऋद्धिप्रातिहार्यं. चेतःपर्यायाभिज्ञा आदेशनाप्रातिहार्यं. ईदृशं ते चित्तम् इति. आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यं. यथाभूतोपदेश इत्य् अर्थः. प्रातिशब्दयोर् आदिकर्मभृशार्थत्वाद् इति. प्रशब्द आदिकर्मार्थः. इदम् अनेन कर्म प्रारब्धम् इति. अतिशब्दश् च भृशार्थः अतिगत इति. तद् इदम् उक्तं भवति. विनेयमनसाम् आदित आदौ अतिभृशं हरंत्य् एभिर् इति प्रातिहार्याणि. प्रतिहतमध्यस्थानाम् इति. नैरुक्तं विधिम् आश्रित्योक्तं. वर्णागमो वर्णविपर्ययश् चेति योज्यं.
अव्यभिचारित्वाद्
इति. क्लेशक्षयनान्तरीयत्वाद् इति.
(vii.53, 54) ऋध्यतीति. संपद्यत इत्य् अर्थः. दूरस्यासन्नाधिमोक्षेणेति. अधिमोक्षेण निर्वृत्ता आधिमोक्षिकी. यद् दूरं. तद् आसन्नम् अधिमुच्य तेनाश्व् आगमनाद् आधिमोक्षिकीत्य् उच्यते.
बाह्यं चतुरायतनम्
इति. नाध्यात्मिकं निर्मीयते. तन्निर्माणे सत्य् अपूर्वसत्त्वप्रादुर्भावप्रसंगात्. स्वपरशरीरसंबद्धम् इति. यत् स्वात्मा सिंहायते नागायते वा. तत् स्वशरीरसम्बद्धं. [तिब्. 326अ] यस्त् स्वात्मनो बहिर् निर्मीयते सिंहो नागो वा. तत् परशरीरसंबद्धं. द्विविधं तथैवेति. स्वपरशरीरसंबधं. एवं रूपधाताव् इति. यथा कामधातूपपन्नो द्विविधं निर्माणं निर्मिणोति. कामावचरं रूपावचरं च. तद् अपि द्विविधां स्वपरशरीरसंबद्धम् इति चतुर्विधं. एवं रूपधातूपपन्नो ऽपि चतुर्विधं निर्मिणोतीति. अष्टविधं समासतो निर्माणं. वस्त्राभरणवन् न (अभिध्-क्-व्य् 659) समन्वागम इति. यथा च वस्त्राभरणैः स्वशरीरसंबद्धैर् अप्य् असत्त्वसंख्यातत्वात् इन्द्रियाधिष्ठानासंबन्धत्वाद् वा न समन्वागमः. तद्वत्.
द्व्यायतनम् इति. रूपस्प्रष्टव्यायतनं. न गन्धरसायतनं. समन्वागमाभवाद् इत्य् अभिप्रायः. न शब्दायतनम् उच्छेदित्वात्. अभिघातजत्वाद् इत्य् अपरे. आगन्तुकत्वाद् इत्य् अभिप्रायः.
(vii.55-58) द्वितीयध्यानफलं त्रीणीति. अधरभूमिके च द्वे स्वभूमिकं चेति. चत्वारि पंच च योज्यानीति. तृतीयध्यानभूमिकानि चत्वारि. अधरभूमिकानि त्रीणि स्वभूमिकं चेति. चतुर्थध्यानभूमिकानि पंचादरभूमिकानि चत्वारि स्वभूमिकं चेति. द्वितीयादिध्यानफलम् इति विस्तरः. [तिब्. 326ब्] द्वितीयध्यानफलं निर्माणम् यन् निर्मात्रा निर्मितं. प्रथमध्यानभूमिकान् निर्माणफलात् प्रथमध्यानफलाद् गतितो विशिष्यते. तद् द्वितीयध्यानफलं निर्माणं द्वितीयं ध्यानभूमिं गच्छति. प्रथमध्यानफलं तु तां न गच्छति. किं तर्हि. प्रथमध्यानभूमिम् एवेति गमनविशेषाद् विशिष्यते. एवं तृतीयादिध्यानफलम् योज्यं.
ध्यानवन् लाभ
इति मौलध्यानानाम् इव वैराग्यतो निर्माणचित्तानां लाभः. शुद्धकाद् ध्यानाद् अनंतरं निर्माणचित्तम् इति. निर्माणचित्तसंमुखीभावे यद् आदिं. तच् छुद्धकाद् उत्पद्यते. निर्माणचित्ताद् वेति द्वितीयादिप्रवाहे. निर्माणचित्ताद् अपि शुद्धकम् इति. निर्माणचित्ताद् व्युत्थाने निर्माणचित्तं च प्रवाहे. समाधिफलस्थितस्येति. समाधिनिर्माणचित्तस्थितस्य, ऊर्ध्वभूमिकस् त्व् इति. द्वितीयादिध्यानभूमिकः. प्रथमध्यानभूमिकेन भाष्यते. ऊर्ध्वं द्वितीयादिषु विज्ञप्तिसमुत्थापकस्य सवितर्कस्य सविचारस्य चित्तस्याभावात्. तथा ह्य् उक्तं. वितर्क्य विचार्य वाचं भाषत इति.
निर्माणचित्ताभावान् निर्मिताभाव इति. निमित्ताभावे नैमित्तिकस्याप्य् अभाव इत्य् असन्तं [तिब्. 327अ] कथम् एनं निर्मितं भाषयन्तीति अभिप्रायः.
अधिष्ठायान्यवर्तनाद्
इति. निर्माणचित्तेन निर्मितं निर्माय ततश् चाधिष्ठायावस्थानकामतया तिष्ठत्व् एतद् इति. तत उत्तरकालम् अन्येन विज्ञप्तिसमुत्थापकेन सवितर्कसविचारकेण चित्तेन वाचं प्रवर्तयन्ति निर्मातारः. पूर्वाभिप्रायं हि संततिर् अनुवर्तते. पूर्वं हि तेन चेतसि व्यवस्थापितं निर्माणं निर्मास्यामि तद् अधिष्ठास्यामि तद् वाचयिष्यामीति. अवस्थाद्वये ऽधिष्ठानसंभवात् पृच्छति. (अभिध्-क्-व्य् 660) किं जीवित एवाधिष्ठानम् इत्यादि. आर्यमहाकाश्यपाधिष्ठानेनेति. आर्यमहाकाश्यपाधिमोक्षेणेत्य् अर्थः.
त्रिविधं तूपपत्तिजम्
इति. कदाचिद् धि देवादयः परानुग्रहार्थं परान् निर्मिण्वन्ति. कदाचिद् विहेठनार्थम् इत्यादि. तत्कृतं चेति विस्तरः. देवादिकृतं च स्वपरसम्बद्धं निर्माणं नवायतनिकं. कुतः. अशब्दरूप्यायतनत्वात्. यस्माद् अशब्दानि चक्षुरायतनरूपायतनादीनि तत्र सन्तीति. शब्दः संतानाभावान् न निर्मायते. अचित्तकत्वाच् च न मनोधर्मायतने. अचित्तको निर्मित इति कथं गम्यते. शास्त्रात्. एवं ह्य् आह. तन्निर्मितश् चातुर्महाभौतिको वक्तव्यो [तिब्. 327ब्] न चातुर्महाभौतिको वक्तव्यः. आह. चतुर्महाभौतिको वक्तव्यः. उपादायरूपिको नोपादायरूपिको वक्तव्यः. आह. उपादायरूपिको वक्तव्यः. अचित्तिको वक्तव्यः. कस्य चित्तवशेन वर्तत इति वक्तव्यं. आह. निर्मातुस् चित्तवशेन वर्तत इति. यदि तर्हि नवायतनिकं निर्मीयते. इन्द्रियनिर्माणात् कथं नापूर्वसत्त्वप्रादुर्भावो भवति. सत्त्वसंख्यातानि हीन्द्रियाणीति. अत आह. इन्द्रियाविनिर्भूतत्वाद् इति. यस्माच् चक्षुरादिभिर् इन्द्रियैः पंचभिः स्वपरशरीरसम्बद्धं निर्माणं रूपरसस्प्रष्टव्यस्वभावम् अविनिर्भागेनावस्थितं भवन् नवायतनिकम् इत्य् उच्यते. न त्व् इन्द्रियं निर्मीयत इति एष सिद्धान्तः. यत् पुनस् तद् एव स्वपरशरीरसम्बद्धं निर्मिणोति तच् चतुरायतनिकम् एव भवति.
(vii.60अब्) यथा मांधातुर् आन्तराभविकानां चेति. कर्मजाया ऋद्धेर् एतद् उदाहरणम् उच्यते.
(vii.59) किम् एते दिव्ये एवेति. किम् अयं दिव्यशब्दो मुख्यवृत्तिः. आहोस्विद् औपचारिक इत्य् अभिप्रायः. यदि ह्य् एते दिवि भवे दिव्ये इत्य् अर्थो गृह्यते. मुख्यवृत्तिर् अयं शब्दो भवति. अथ तु दिव्ये इवेति दिव्ये इत्य् औपचारिकः. यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् इति. औपचारिकत्वे दृष्टान्तं दर्शयति. विज्ञानसहितत्वाद् इति. [तिब्. 328अ] रूपदर्शनमुखेनाभिनिर्हृतत्वान् नित्यं विज्ञानसहितम् इति. सभागम् एव. काणविभ्रान्ताभावाद् इति. काणम् अभ्यन्तरविकलं. विभ्रान्तं केकरं सर्वतश् च न पश्यतीति. अर्थाद् उक्तं भवति. दिव्यं चक्षुः पृष्ठतो ऽपि पश्यति. पार्श्वतो ऽपि पश्यति न त्व् एवम् अदिव्यं चक्षुर् इति.
(vii.60, 61) दिव्यश्रोत्रादिकम् अपि चतुष्टयम् इति. आदिशब्देन दिव्यं चक्षुः पूर्वेनिवासानुस्मृतिः परचित्तज्ञानं च. एतद् अपि दिव्यश्रोत्रादिकं चतुष्टयम्. (अभिध्-क्-व्य् 661) उपपत्तिप्रतिलब्धम् अस्ति. दिव्यं चक्षुः केषाम् उपपत्तिप्रतिलंभिकं. कामावचराणां देवानाम् अनागामिनां च रूपावचराणां. नारूप्यावचराणां. तत्र रूपाभावत् दृष्टिर् गमनं निर्माणं च नास्ति. नापि दिव्यं श्रोत्रं चक्षुश् चास्ति. परचित्तज्ञानम् अपि नास्ति. स्वपरसंतानपरिच्छेदाभावात्. पूर्वेनिवासानुस्मृतिर् अपि नास्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. अथ वा सर्वा अप्य् अभिज्ञा न सन्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. न यथा भावनाफलं कुशलम् एवेति. विपरीतदृष्टान्तः. अन्यगतिस्था नित्यं जानत इति. ताभ्यां परचित्तपूर्वेनिवासानुस्मृतिभ्यां देवादिगतिस्था नित्यं जानते. [तिब्. 328ब्] दुःखवेदनानभ्याहतत्वात्.
नृणां नोत्पत्तिलाभिकम्
इति. मनुष्याणाम् एतद् यथोक्तम् ऋद्ध्यादिकं वैराग्यलाभिकं तर्कविद्यौइअधकर्मकृतं चास्ति. न तूपपत्तिकलाभिकम् अस्ति. यत् तर्हि प्रकृतिजातिस्मरा इति. प्रकृतिजातिस्मरत्वं पूर्वेनिवासानुस्मृत्या सा चोपपत्तौ भवतीति. कथम्. असाव् उत्पत्तिलाभिका न भवतीत्य् अभिप्रायः. आह. कर्मविशेषजासौ तेषाम् इति. तेषां बोधिसत्त्वानां कर्मविशेषनिर्वृत्ता. उपपत्तिलाभिकं हि नाम यद् उपपत्तिकाल एव सर्वेषां निसर्गतो लभ्यते. न तु यत् कस्यचिद् एवोपपत्तिकालाद् ऊर्ध्वं. यथा पक्षिणाम् आकाशगमनं. तस्मात् कर्मविशेषजासौ तेषां. कथम् इत्य् आह. त्रिविधा हीति विस्तरः. भावनाफलं यथोक्तम्. उपपत्तिप्रतिलब्धा देवादीनां. कर्मजा यथा तेषां बोधिसत्त्वानाम् इति.
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायां सप्तमं कोशस्थानं.
(अभिध्-क्-व्य् 662) ब्लन्क्
विइइ (समापत्तिनिर्देशो नामाष्टमं कोशस्थानम्)
(viii.1, 2) सप्तमाद् अनन्तरम् अष्टमस्य कोशस्थानस्योपन्यासे संबंधं दर्शयन्न् आह. ज्ञानाधिकारेणेति विस्तरः. ज्ञानाधिकारेण दशानाम् ज्ञानानाम् अधिकारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञानादीनां कृतो निर्देशः अन्यस्वभावानां तु [तिब्. 329अ] समाध्यादीनां कर्तव्यः. सर्वगुणाश्रयत्वाद् इति कामम् आरूप्या अपि गुणाश्रया भवन्ति. न सर्वगुणाश्रयाः. ध्यानानि तु सर्वगुणाश्रया इति.
द्विधा ध्यानानीति
कार्यध्यानानि कारणध्यानानि चेत्य् अर्थः.
शुभैकाग्र्यम्
इति. शुभानां चित्तानाम् ऐकाग्र्यं. अभेदेनेति. सर्वेषाम् अपि लक्षणानाम्. एतल् लक्षणम् अत आह. समाधिस्वभावत्वाद् इति. ध्यानानाम् इति वाक्यशेषः. अथ वा अभेदेनेति समाधिमात्रग्रहणं. भेदेन
पंच स्कंधास् तु सानुगम्
इति. अविज्ञप्तिरूपस्कंधः.
एकालम्बनता एकालम्बनत्वं चित्तानां. किं पुनः कारणं चैत्तानाम् अप्य् एकालंबनत्वे एकालम्बनत्वं चित्तानाम् इत्य् उच्यते. न पुनर् एकालम्बनता चित्तचैत्तानाम् इत्य् उच्यते. प्राधान्यात् चित्तान्य् एवैकालम्बनानि समाधिर् इति. अवस्थाविशेषत्वाच् चित्रगुर्वावत्. वैभाषिक आह. न चित्तान्य् एव समाधिः. येन तु तान्य् एकाग्रानि वर्तन्ते समाहितानि. स धर्मः समाधिः. यथा वैशेषिकनये शुक्लगुणयोगाच् छुक्लः पटः. स एव गुणो ऽस्य [तिब्. 329ब्] शौक्लम् इत्य् उच्यते. तद्वत्. ननु च क्षणिकत्वात् सर्वं चित्तम् एकाग्रं. किम् इदम् उच्यते येन तु तान्य् एकाग्राणि वर्तन्ते. स धर्मः समाधिर् इति. द्वितीयस्य तस्माद् अविक्षेप इति चेत्. यद्य् एतत् स्याद् द्वितीयस्य चित्तस्य तस्मात् समाधेः (अभिध्-क्-व्य् 664) [अविक्षेपः. कस्मिन्न् आलम्बने] न विक्षेपो ऽस्मिन्न् आलम्बन इति. संप्रयुक्ते समाधिवैयर्थ्यं. यत् प्रथमं चित्तं समाधिसंप्रयुक्तं. तस्मिन् संप्रयुक्ते समाधिवैयर्थ्यं. तत्र कारित्रं समाधिर् न करोति द्वितीये करोतीति कृत्वा. किं च यत एव च कारणात् समाधिर् एकाग्रतालक्षणो ऽभिप्रेतः. तत एव च कारणात् चित्तानाम् एकालंबनत्वं किं नेष्यते. किं समाधिना अर्थान्तरभूतेनेत्य् अभिप्रायः.
न. दुर्बलत्वात् समाधेः. न महाभूमिकत्वात् समाधेः सद्भावात् सर्वस्य चित्तस्यैकाग्र्यताप्रसंगः. यच् चित्तं दुर्बलेन समाधिना संप्रयुज्यते. न तद् एकाग्रं भवति. यत् पुनर् बलवता. तच् चित्तम् एकाग्रम् इति. सत्य् अपि महाभूमिकत्वे समाधेर् न सर्वचित्तानाम् एकाग्रताप्रसंगः.
चित्तान्य् एवेति विस्तरः. चित्तान्य् एवैकाग्राणि समाधिर् नार्थांतरभूत इति. तथा ह्य् अधिचित्तं शिक्षेति. अधिचित्तं शिक्षा कतमा. चत्वारि ध्यानानीति सर्वं. तथा चित्तपरिशुद्धिप्रधानं चत्वार्य् एव ध्यानानि. इत्य् उक्तानि. [तिब्. 330अ] लिखितम् इदं सूत्रम्
ऋद्धिपादाः समाधयः
इत्य् अत्र. यथा ह्य् अधिशीलम् शिक्षा शीलम् एव. न तस्माद् अन्या. अधिप्रज्ञां च शिक्षा प्रज्ञैव. न तस्या अन्या. एवम् अधिचित्तं शिक्षा चित्तम् एव. न तस्माद् अन्या. न चित्तव्यतिरिक्तसमाधिर् अस्तीत्य् अर्थः. अधिचित्तं हि शिक्षा समाधिर् इष्यते. यथा चास्मिन्न् एव सूत्रे शीलपरीशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानं इत्य् उक्ते. न शीलपरिशुद्धिः शीलाद् अन्या. एवं दृष्टिपरिशुद्धिः विमुक्तिपरिशुद्धिश् च. तथैव चित्तपरिशुद्धिर् अपि न चित्ताद् अन्या. चित्तपरिशुद्धिर् हि चतुर्ध्यानलक्षणसमधिर् इति.
एवं तर्हीति. यदि समाधिस्वभावानि ध्यानानि सर्वसमाधिध्यानप्रसंगः. कुशलक्लिष्टाव्याकृतनाम् अपि समाधीनां ध्यानप्रसंगः. समाधेर् महाभूमिकत्वात्. न. प्रकर्षयुक्त इति विस्तरः. नैतद् एवं प्रकर्षयुक्ते समाधौ ध्याननामविधानत्. भास्करवत्. तद्यथा य एव प्रकर्षेण भासं करोति. स एव भास्करः. [तिब्. 330ब्] न खद्योतकादिः. तद्वत्. स हीति विस्तरः. स ह्य् अंगसमायुक्तः समाधिः शमथविपश्यनाभ्यां युगनद्धाभ्याम् इवाश्वाभ्यां रथो वहतीति युगनद्धवाही. तद्भावात् दृष्टधर्मसुखविहार उक्तः सूत्रे. सुखा च प्रतिपद् इति. अंगसमायुक्त एव समाधिः. सुखा च प्रतिपद् इत्य् उक्त इति वर्तते. सुतरां तेन ध्यायन्ति सुखत्वात्. क्लिष्टय कथं ध्यानत्वम् इति. यदि कुशलांगसमायुक्तः समाधिर् ध्यानं. क्लिष्टस्यास्वादनासंप्रयुक्तस्य कथं ध्यानत्वयुक्तम् (अभिध्-क्-व्य् 665) इति वाक्यशेषः. त्रिविधं ध्यानम्
आस्वादनासंप्रयुक्तं शुद्धकम् अनास्रवम्
इति वचनात्. मिथ्योपनिध्यानाद् इति. मिथ्यानितीरणाद् इत्य् अर्थः. अतिप्रसंग इति. कामरागपर्यवस्थितेनापि चेतसा मिथ्योपनिध्यानात् तत्प्रसंगः. न. तत्प्रतिरूप एवेति विस्तरः. नैतद् एवं अतिप्रसंग इति. तत् प्रतिरूप एव हि नातिबहुविलक्षणे क्लिष्टे ध्यानम् इति संज्ञासंनिवेशः. पूतिबीजवत्. यथा किंचिद् अबीजं पाषाणाद्य् अत्यन्ततज्जातिविलक्षणम् न पूतिबीजम् इत्य् उच्यते. किं तर्हि. बीजजातीयम् एवोपहतं यद् भवति. तस्मिन्न् एव संज्ञासंनिवेशः पूतिबीजम् इति. उक्तानि चाकुशलान्य् अपि ध्यानानीति. स कामरागपर्यवस्थितः [तिब्. 331अ] कामरागपर्यवस्थानम् अन्तरीकृत्वा ध्यायति प्रध्यायतीति विस्तरः. अनेन कामरागादिपर्यवस्थानस्यापि ध्यानत्वे सति न दोष इति दर्शयति. धूमाग्निवद् इति. यथा धूमो ऽत्रेति धूमवचनेनाग्निर् अप्य् उक्तो भवति साहचर्यात्. न विनाग्निना धूमो भवतीति. अनेनैव चाविनाभावित्वेन धूमस्याभ्यर्हितत्वं. यत्र हि धूमः. तत्राग्निः. न तु यत्राग्निः. तत्र धूमः. तथा ह्य् अयोगुडांगारादिष्व् अग्निर् एव गृह्यते. न धूमः. अस्माच् चाभ्यर्हितत्वाद् धूमस्य पूर्वनिपातो वासुदेवार्जुनवत्. अन्यथा हि द्वंद्वे ऽपीत्य् अग्निशब्दस्य पूर्वनिपातः स्यात्. कथं पुनः साहचर्येण हि प्रीतिसुखवान् विचारो विना वितर्केण नास्ति. यथा ध्यानान्तरविचारः. न प्रीतिसुखवान् इत्य् अवितर्कः. नैवम् अयं विचारः. विशेषितो ह्य् अयं विचारः. प्रीतिसुखसहपठितः.
विचारप्रीतिसुखवद्
इति. प्रीतिसुखवता विचारेण प्रीतिसुखेन च संप्रयुक्तं प्रथमं ध्यानम् इत्य् अर्थः. यदि पुनर् वितर्कप्रीतिसुखवद् इति सूत्रं क्रियेत को दोषः स्यात्. न शक्यम् एवं कर्तुं.
पूर्वपूर्वांगवर्जितम्
इति वक्ष्यति. वितर्कवर्जितं द्वितीयं ध्यानम् [तिब्. 331ब्] इति ध्यानान्तरम् अपि द्वितीयं ध्यानं प्राप्नोति. किं च चत्वार्य् अंगानि प्रथमध्याननिर्देशावसाने ऽनेनानुक्रमेणोक्तानि. सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति. तत्र विचारप्रीतिसुखसमाधयः प्रथमे ध्याने भवंति. एभिश् चतुर्भिर् अंगैर् वितर्केण च सर्वप्रथमोक्तेन पंचांगम् उच्यते. द्वितीयं पुनर् उच्यते. अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरतीति. (अभिध्-क्-व्य् 666) चतुर्णाम् एषां पूर्वांगेन विचारलक्षणेन वर्जितम् इति. तृतीयम् अप्य् एवम् उच्यते. स प्रीतेर् विरागाद् उपेक्षको विहरति विस्तरेण यावत् सुखविहारीति. तृतीयं ध्यानम् उपसंपद्य विहरतीति. प्रीतिलक्षणेनापरेणांगेन वर्जितम् इति. चतुर्थं पुनर् एवम् उच्यते. स सुखस्य च प्रहाणाद् विस्तरेण यावद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्दं चतुर्थं ध्यानम् उपसंपद्य विहरतीति. सुखेनाप्य् अंगेन वर्जितं समाधिर् एवात्र केवलम् अवशिष्यत इत्य् अत एव सूत्रं कृतं
विचारप्रीतिसुखवद्
इति.
(viii.2-4) एषाम् अपि चोपपत्तय उक्ता इति.
आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध
इति वचनात्. अनुपरिवर्तकरूपाभावद् इति. ध्यानानास्रवसंवराभावाद् [तिब्. 332अ] इत्य् अर्थः.
विवेक
इति. विविच्यते अनेनेति विवेकः. येन मार्गेणेति. आनंतर्यमार्गेण विमुक्तिमार्गेणापि वा तद् एककार्यत्वात्. वैराग्यगमनाद् इति. तद्वैमुख्यगमनाद् इत्य् अर्थः.
विभूतरूपसंज्ञाख्या
इति. विभूता रूपसंज्ञास्येति विभूतरूपसंज्ञः. विभूतरूपसंज्ञा इत्य् आख्या एषाम् इति विभूतरूपसंज्ञाख्याः.
साध्यं तावद् एतद् इति. निकायान्तरीयाः. यदि हि स्याद् हि स्याद् इति वैभाषिकाः. आपिंगलवद् इति. यथा ईषत् पिंगल आपिंगलः. एवम् ईषद् रूपा आरूप्या इति. कथं तदभावे तत्सण्वरौ कायवाक्संवरौ भविष्यतः. न चासति भूते आरूप्यावचरे संवरभौतिकम् आरूप्यावचरं युज्यते. अनास्रवसंवरवच् चेत्. तत्रैतत् स्यात्. यथा न संत्य् अनास्रवाणि भूतानि. अस्ति चानास्रवसंवरो भौतिकं रूपम्. एवम् इहापि नारूप्यावचराणि भूतानि स्युः. अथ वारूप्यावचरसंवरः स्यात् भौतिकं रूपम् इति. तच् च न. सास्रवभूतसद्भावात् सास्रवाणि [तिब्. 332ब्] भूतानि संति. तान्य् आरूप्येषु भवेयुः. अनास्रवाणि तु भूतानि न संति. अतो ऽनास्रवसंवरो यत्र जातः. तत्रत्यानि सास्रवाण्य् उपादाय भवतीत्य् अकल्पनेयम् असाम्यात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इति. अनेनैवोपपत्तिरूपप्रतिषेधेन समापत्ताव् अपि रूपप्रतिषेध उक्तो भवति. नात्र यत्नांतरम् अनुष्ठेयं. कथं. यदि कायवाक्संवरमात्रं. (अभिध्-क्-व्य् 667) कथं तदभावे तत्संवरो भविष्यति. न चासति भूते भौतिकं युज्यते. अनास्रवसंवरवच् चेत्. न. सास्रवभूतसद्भावाद् इति. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इत्य् अपरे. तद् एवं नारूप्यसमापत्तिषु नारूप्योपपत्तिषु रूपम् अस्तीति दर्शितं भवति. परिमाणाल्पत्वाच् चेत्. अथ मतं. परमाणुमात्रं रूपम् अस्ति. अतस् त ईषद्रूपा इष्यन्त इति. उदकजंतुकेष्व् अप्य् अणुत्वाद् अदृश्यरूपेषु प्रसंगः आरूप्यप्रसंग इत्य् अर्थः. अच्छताच् चेत्. तत्रैतद् स्याद् रूपस्याच्छत्वाद् आरूप्या इति. अन्तराभवरूपावचरेष्व् अपु प्रसंगः. अन्तराभवरूपावचरा हि
वज्रमयेष्व् अपि पर्वतेष्व् अच्छत्वाद् असज्जमाना [तिब्. 333अ] गच्छंति. तेष्व् आरूप्यप्रसंगः. समापत्तिवत् तदुपपत्तिविशेषाद् इति. यथैव ह्य् आकाशानन्त्यादिसमापत्तयो विशिष्टतमाः. एवम् उपपत्तिविशेषो ऽपि तासाम् अभ्युपगन्तव्यो ऽच्छाच्छतरतम इति. अतः समापत्तिवद् उपपत्तिविशेषो ऽप्य् अच्छतरतम इति. तद् एवारूप्यं स्यात्. यदि चारूप्योपपत्तिरूपस्याधरभूमिकेनेन्द्रियेणाच्छतरत्वाद् अग्रहणम् इत्य् आरूप्या उच्यंते. ध्यानोपपत्तिरूपस्यापि चेति विस्तरः. एष संभवो ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेनेन्द्रियेणाग्रहणं. कथं. प्रथमध्यानभूमिकेनेन्द्रियेण द्वितीयभूमिकस्याग्रहणं. एवं यावत् तृतीयध्यानभूमिकेनेन्द्रियेण चतुर्थध्यानभूमिकस्य रूपस्याग्रहणं. ऊर्ध्वभूमिकस्याच्छतरतमत्वात्. तद् एवं ध्यानोपपत्तिरूपस्य चाधरभूमिकेनेन्द्रियेणाग्रहणात् कस् तत्र विशेषः. आरूप्यधातौ यद् अच्छतरतमाभ्यां सामान्ये ऽपि त एवारूप्या इष्यंग्ते न रूपावचराः. तस्मान् न तत्र रूपं. अथ मतं द्वयोर् धात्वोर् अन्वर्था संज्ञा. कामगुणप्रभावितः कामधातुः. रूपप्रभावितो रूपधातुर् इति. नारूप्यधातोर् [तिब्. 333ब्] अन्वर्था संज्ञा. किं तर्हि यादृच्छिकी ति. कात्र युक्तिः. द्वयोर् धात्वोर् अन्वर्था संज्ञा. नारूप्यधातोर् इति. युक्त्या प्रतिषिध्य नारूप्यधातौ रूपम् अस्तीति आगमं परिगृह्याशंकितं वार्यते. तत्र रूपप्रसिद्ध्यार्थम् आयुरूष्मणोर् इति विस्तरः. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेद् इत्य् एतत् पदं प्रत्येकं योज्यं. कथम्. आयुरूष्मणोः संसृष्टवचनाद् रूपास्तित्वसिद्धिर् इति चेत्. तत्रैतत् स्यात् सूत्र उक्तं. यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मकं संसृष्टाव् इमौ धर्मौ. न
विसंसृष्टाव् इति विस्तरः. अतस् तत्रायुषि सत्य् ऊष्मणा भवितव्यं. ऊष्मा च रूपम् इति सिध्यति. नडकलापीद्वयवन् नामरूपयोर् (अभिध्-क्-व्य् 668) अन्योन्यनिश्रितवचनात्. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. सूत्र उक्तं. तद्यथायुष्मन् शारिपुत्र द्वे नडकलाप्याव् आकाशे उच्छ्रिते स्यातां. ते अन्योन्यनिश्रिते अन्योन्यं निश्रित्य तिष्ठेयाताम्. तत्र कश्चिद् एकाम् अपनयेत्. द्वितीया निपतेत्. द्वितीयाम् अपनयेत्. एका निपतेत्. एवम् आयुष्मन् शारिपुत्र नामं च रूपं चान्योन्यनिश्रितं. अन्योन्यं निश्रित्य तिष्ठतीति विस्तरः. विज्ञानप्रत्ययं नामरूपम् इति वचनात्. तस्माद् आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. [तिब्. 334अ] प्रतीत्यसमुत्पादसूत्र उक्तं. आरूप्यप्रसिद्धिक्षणे विज्ञानप्रत्ययं नामरूपम् इति वचनात् तस्माद् आरूप्येषु रूपम् अस्तीति सिध्यति. अन्यत्र रूपाद् इति विस्तरः. सूत्र उक्तं. रूपोपगं भिक्षवो विज्ञानं तिष्ठति. इति रूपालम्बनरूपप्रतिष्ठं. यः कश्चिद् भिक्षव एवं वदेत्. अहं अन्यत्र रूपाद् वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानस्यागतिं वा गतिं वा वदामीति. तस्य तद् वाग्वस्त्व् एव स्याद् इति. अस्माद् अपि चागमाद् आरूप्येषु रूपम् अस्तीति सिध्यत्य् एवं चेत्. तन् न. संप्रधार्यत्वात्.
आहोस्वित् सर्वम् इति. कामरूपारूप्यावचरं. अयम् अत्राभिप्रायार्थः. कामावचरम् एवायुः संधायैवम् उक्तम् इति. तथा ह्य् उक्तं.
आयुर् ऊष्माथ विज्ञानं यदा कायं जहत्य् अमी. अपविद्धस् तदा शेते यथा काष्ठम् अचेतन
इति. न चारूप्यधातौ कायो ऽस्ति. कुत एव कायनिधनं. रूपधातौ तु यद्य् अपि कायो ऽस्ति. न तु कायनिधनं प्रज्ञायत इति. यच् च नामरूपयोर् अन्योन्याश्रितत्वम् उक्तं. तद् अपि कामरूपावचरम् एव संधायोक्तम् इति लक्ष्यते. द्वयसंभवे ह्य् अन्योन्याश्रितत्वं संभवति. [तिब्. 334ब्] यच् च विज्ञानप्रत्ययं नामरूपम् इति. विज्ञानं प्रत्ययो ऽस्येति विज्ञानाप्रत्ययं नामरूपम् इत्य् एवं षष्ठीबहुव्रीहिसमासे. किम् अत्र सर्वविज्ञानं कामावचरसंस्कारप्रत्ययं यावद् आरूप्यावचरसंस्कारप्रत्ययं नामरूपस्य प्रत्ययः. आहोस्वित् सर्वं नामरूपं विज्ञानप्रत्ययम् इति. वयं ब्रूमो विज्ञानप्रत्ययं मामरूपम् इत्य् एवं सर्वस्य नामरूपस्य विज्ञानं प्रत्यय इत्य् अवधार्यते. न तु सर्वं विज्ञानं नामरूपस्य प्रत्यय इत्य् अवधार्यते. किंचिद् विज्ञानं नाम्न एव प्रत्ययो यद् आरूप्यावचरसंस्कारप्रत्ययं. किंचिन् नामरूपस्य यत् कामरूपावचरसंस्कारप्रत्ययं. तद् इदम् उक्तं भवति. प्रत्यय एव विज्ञानम् अस्य नामरूपस्य. न त्व् अस्यैव समुदितस्य नामरूपस्य प्रत्यय इति. संभवं प्रत्य् एवम् उच्यते. तथा ह्य् उपपादुकानां विज्ञानप्रत्ययं षडायतनम् एव भवति. न नामरूपम् अनिष्पन्नषडायतनावस्था हि पंच स्कंधा नामरूपम् (अभिध्-क्-व्य् 669) इत्य् आख्यायन्ते. सूत्रं चैतम् एवार्थं द्योतयति. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वाय संमूर्छेत्. न भदन्त. विज्ञानं चेद् आनन्दावक्राम्य क्षिप्रम् एवापक्रामेद् अपि तु तन् नामरूपम् इत्थव्ताय प्रज्ञायेत. [तिब्. 335अ] नो भदन्त. विज्ञानं चेद् आनन्द दहरस्य कुमारस्य कुमारिकाया वा उच्छिद्येत विनश्येन् न भवेद्
अपि तु तन् नामरूपं वृद्धिं विपुलताम् आपद्येत. नो भदन्त. तद् अनेनापि पर्यायेण वेदितव्यं. यद् विज्ञानस्य प्रत्ययं नामरूपं. नामरूपप्रत्ययं च विज्ञानम् इति विस्तरः. किम् अत्र सर्वैर् एतै रूपादिभिर् विना तत्प्रतिषेध आगतिगतिप्रतिषेधः. तत्र पूर्वस्माल् लोकाद् अंतराभवसंतत्या इहोपपत्तिर् आगतिः. अंतराभवसंतत्या पुनर् अस्माल् लोकात् परलोक उपपत्तिर् गतिः. आहोस्विद् एकेनापि रूपादीनाम् अन्यतमम् एव. वयं ब्रूमः. सर्वैर् विना तत्प्रतिषेध इति. अविशेषवचनान् न संप्रधार्यम् इति चेत्. स्याद् एषा बुद्धिर् अविशेषेणेदं सूत्रवचनं. यच् चायुष्मन् महाकौष्ठिल आयुर् इति विस्तरेण यावद् रूपोपगं विज्ञानं तिष्ठतीत्य् अनेन सूत्रवचनेन विशेषितं कामावचरं रूपावचरं वायुः संधायोक्तं यावत् सर्वैर् एव तैर् विना रूपादिभिस् तत्प्रतिषेध इति. अत्रोच्यते. अस्तिप्रसंगः. बाह्यस्यापि ह्य् ऊष्मण आयुषा विनाभावो न प्राप्नोतीत्य् अविशेषवचनात्. न ह्य् एवं विशेषितं यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मा आध्यात्मिक इत्यादि. [तिब्. 335ब्] बाह्यस्यापि च रूपस्य काष्ठकुड्यादेर् असत्त्वसंख्यातस्य विज्ञानाश्रितत्वं प्राप्नोत्य् अविशेषवचनात्. चतुर्विज्ञानस्थितिवच् चेति विस्तरः. यथा चतसृणां विज्ञानस्थितीनाम् अविशेषवचनाद् आरूप्यधातौ तव रूपास्तित्वम्. एवं तवाहारचतुष्कवचनाद् रूपारूप्यधातौ कवडीकाराहारप्रसंगः. एवं हि सूत्रं पठ्यते. चत्वार आहारा भूतानां सत्त्वानां स्थितये संभवैषिणां चानुग्रहाये. कतमे चत्वारः. कवडीकाराहारः औदारिकः सूक्ष्मः. स्पर्शो द्वितीयः. मनःसंचेतना तृतीयः. विज्ञानम् आहारश् चतुर्थ इति. एवम् आहारचतुष्कवचनात् सत्त्वानां स्थित्यार्थम्
अविशेषेण. कामावचराणाम् इत्य् अविशेषितत्वात् तव रूपारूप्यधात्वोर् अपि कवडीकाराहारप्रसंगः. अतिक्रम्येति विस्तरः. तत्र निकायान्तरीयस्यैतत् स्यात्. अस्त्य् अस्योत्सर्गस्यापवाधः. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इति वचनात्. उदायिसूत्रादिषु भेदाच् च कायस्यातिक्रम्य देवान् कवडीकाराहारभक्षान् अन्यतमस्मिन् दिव्ये मनोमयकाय उपपद्यत इति. प्रीत्याहारवचनाच् चेति. भवति भिक्षवः स समयो यद् अयं लोकः संवर्तते. संवर्तमाने लोके यद्भूयसा सत्त्वा [तिब्. 336अ] आभास्वरे (अभिध्-क्-व्य् 670) देवनिकाये उत्पद्यन्ते. तत्र भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्यहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्तीत्य् एवमादिषु सूत्रेषु वचनाद् अप्रसंगः कवडीकाराहारस्य. यद्य् एवम् आरूप्येष्व् अपि रूपस्याप्रसंगः. किं कारणम् अपवादात्. कथं. रूपाणां निःसरणम् आरूप्या इत्य् एकं सूत्रम् अपवादः. ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्या इति द्वितीयम्. अरूपिणः सन्ति सत्त्वा इति तृतीयं. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति चतुर्थम्. सति हि रूप इति. यद्य् आरूप्यसमापत्त्युपपत्तिषु रूपं स्यात्. सति हि रूपे स्वं रूपम् अवश्यं संजानीरन्न् इति सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनं नोक्तं स्यात्. उक्तं तु. अतो ऽपि न तत्र रूपम् अस्ति. औदारिकं इति विस्तरः. तत्रैतत् स्यात्. [तिब्. 336ब्] औदारिकम् अधोभूमिकं रूपम् अभिसंधायोक्तं. ये ते शान्ता विमोक्षा इति विस्तरेण. अत्र ब्रूमः. कवडीकाराहारे ऽपि तुल्यं. कथं. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इत्य् औदारिकम् अधोभूमिकं
कवडीकाराहारम् अभिसंधायोक्तम् न रूपावचरं कवडीकाराहारं सूक्ष्मम् इति. यदि चाधोभूम्यौदारिकरूपनिःसरणाद् आरूप्या इत्य् उच्यन्ते. ध्यानानाम् अपि चाधोभूमिनिःसरणत्वाद् आरूप्यत्वप्रसंगः. कथं. कामावचरौदारिकरूपनिःसरणं प्रथमं ध्यानम्. एवम् उत्तरोत्तरौदारिकरूपनिःसरणं. यावच् चतुर्थध्यानम् इत्य् आरूप्यत्वप्रसंगः. वेदनादिनिःसरणं च किं नोक्तं. यद्य् अधोभूमिकौदारिकनिःसरणात् सत्य् अपि स्वभूमिकरूपे आरूप्या इत्य् उच्यन्ते. वेदनादिनिःसरणाद् आरूप्या अवेदना इति किं नोच्यन्ते. सत्याम् अपि स्वभूमिवेदनायां. आदिशब्देन यावद् अविज्ञाना इति किं नोच्यन्ते. सत्य् अपि स्वभूमिविज्ञान इति. किं कारणम्. अधोभूमिकवेदनादिनिःसरणात्. अधोभूम्यौदरिकवेदनादिनिःसरणात् इत्य् अर्थः. रूपजातिं तु कृत्स्नाम् अतिक्रान्ता. [तिब्. 337अ] या काचिद् रूपजातिः औदारिकी वा सूक्ष्मा वा आध्यात्मिकी वा बाह्या वा. तां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. न वेदनादिजातिं न वेदनां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. अदुःखासुखवेदनास्तित्वात्. आदिशब्देन यावद् विज्ञानं वक्तव्यं. अतो रूपाणां निःसरणम् उक्तं. न वेदनादिनिःसरणं. तस्माद् एवंवादिनाम् अस्माकं न भवत्य् अयं प्रसंगः. अधोभूमिकवेदनादिनिःसरणात्. वेदनादिनिःसरणं च किं नोक्तम् इति.
आह. यदि रूपाणां निःसरणम् आरूप्याः. यत् तर्ह्य् उक्तं सूत्रे नाहं भवेन भवस्य निःसरणं वदामीति. तत् कथम् रूपभवस्यारूप्यभवेन (अभिध्-क्-व्य् 671) निःसरणं. भवेनभवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात्. तेनैव भवेन तस्यैव भवस्यानिःसरणात् एवम् उक्तम्. असर्वानत्यन्तनिःसरणाच् च. असर्वनिःसरनं. न हि रूपभवेन कामभवस्य निःसरणम् इति. आरूप्यभवस्यापि तेन निःसरणं भवति. न चात्यन्तनिःसरणं कामभवात् तेन भवति. पुनर् आगमनात्. तथारूप्यभवेन [तिब्. 337ब्] रूपभवस्य निःसरणं. न कामभवस्य. न चात्यन्तनिःसरणं रूपभवानाम् आरूप्यभवेन.
उक्तं यथा वर्तत इति.
निकायम् जीवितं चात्र निश्रिता चित्तसंततिर्
इत्यादि. त्रय इति पुल्लिंगनिर्देशः. आरूप्या इत्य् अभिसंबंधनात्. तथाप्रयोगाद् इति. प्रयोगकाले आकाशादीन्य् आलम्बनानि भवन्ति अन्यदा त्व् अन्ये ऽपि धर्मा यथासंभवम् आलम्बनानीति दर्शयति.
मांद्यात् तु न संज्ञानाप्यसंज्ञक
इति. चतुर्थ आरूप्यः कस्मान् न संज्ञीत्य् उच्यते. नाप्य् असंज्ञ इति. मांद्यात्. तुशब्देन तस्याकारो ऽन्तर्नीतरूपो वेदितव्यः. येन हि कारणेन स चतुर्थ आरूप्यो नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. तद् एव कारणम् इत्य् उच्यते. मान्द्याद् इति. प्रयोगस् त्व् अस्यैवं सूचितो भवति. अन्वर्थसंज्ञाकरणात्. अत एवाह. यद्य् अपि तत्राप्य् एवं प्रयुज्यत इत्य् आदि. संज्ञा गण्डः गण्डवद् गण्डः. एवं यावच् छल्यः. असंज्ञकः संमोहम् इति. संज्ञाया अभावो हि संमोहकारणं. इत्य् अर्थः. शीयतेति संज्ञासमुच्छेदाद् इत्य् अभिप्रायः. एतच् छान्तं एतत् प्रणीतं. किं. तद् इत्य् आह. यद् उत नैवसंज्ञानासंज्ञायतनम् इति. संज्ञामान्द्यम् अभिप्रीयते. अत्र प्रश्नयितव्यम्. कस्मात् तु तैस् तद् एवं गृह्यत इति. तैर् इति तत्समापत्तिभिः. तद् इति नैवसंज्ञानासंज्ञायतनं. [तिब्. 338अ] एवं गृह्यत इति नैवसंज्ञानासंज्ञेति गृह्यत इत्य् अर्थः. तद् एवं परिप्रश्ने विगृहीतस्यावश्यम् इदं वक्तव्यं जायते. मृदत्वात् संज्ञानां. नैवसंज्नानासंज्ञायतनम् उच्यते इत्य् एतद् एवोक्तं.
(viii.5, 6) समापत्तिद्रव्याणि मौलानीति.
शखास् तेषां नोपनश्यन्त इत्य् अभिप्रायः. कथं सप्त त्रिविधानीत्य् आह.
आस्वादनवच् छुद्धानास्रवाणीति.
अनास्रवं नास्तीति संज्ञमान्द्यात्. यद् आस्वादयति. तस्माद् व्युत्थित इति. शुद्धकात्. येनास्वादयति. तत् समापन्न इति. आस्वादनासंप्रयुक्तं.
(viii.7, 8) यथान्त चतुरङ्गसेना नांगेभ्यो ऽर्थांतरभूता. एवं पंचांगध्यानं (अभिध्-क्-व्य् 672) नार्थान्तरम् इति स्वमतं दर्शयति.
प्रीत्यादय
इति. पूर्वोक्ताः प्रीतिसुखचित्तैकाग्रताः.
अध्यात्मसंप्रसादश् चेति.
चतुरंगं द्वितीयम्.
तृतीये पंच पेक्षेति.
संस्कारोपेक्षात्र गृह्यते. या प्रीतिर् अनाभोगलक्षणा. स्मृतिर् उपेक्षानिमित्तस्यासंप्रमोषः. स्मृत्यसंप्रमोषे संप्रज्ञानता संप्रज्ञानं. चतुर्थे उपेक्षापरिशुद्धिः. उपेक्षायाः परिशुद्धिर् उपेक्षापरिशुद्धिः. [तिब्. 338ब्] अधोभूमिकपक्षालविगमात्. अष्टाव् अपक्षाला अपक्षीयन्ते. एवं स्मृतिपरिशुद्धिः.
(viii.9) प्रथमध्यानिकानीति. प्रथमध्याने भवानि. अत एवोच्यत इति. यस्माद् द्वितीयादिष्व् अध्यात्मसंप्रसादादयो वर्धन्ते. कथं. चतुष्कोटिकं. स्यात् प्रथमे ध्याने न द्वितीये. स्याद् द्वितीये न प्रथमे. स्याद् उभयोः. स्यान् नोभयोः. एवं सर्वाणि ध्यानांगानि परस्परं योज्यानि. कथं. यान्य् अंगानि प्रथमे ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिः वितर्कविचारप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि प्रथमे ध्याने. चतुर्थे ऽपि तानि. चतुष्कोटिकम्. प्रथमा कोटिर् वितर्कविचारप्रीतिसुखानि. द्वितीया अदुःखासुखा वेदना उपेक्षापरिशुद्धिः. स्मृतिपरिशुद्धिश् च. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः [तिब्. 339अ] यान्य् अंगानि द्वितीये ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्तधर्माः. यान्य् अंगानि द्वितीये ध्याने. चतुर्थे ऽपि वा तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया तदंगानि समाधिं हित्वा. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि तृतीये ध्याने चतुर्थे ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटीः समाधिवर्ज्यानि तदंगानि. द्वितीयाप्य् एवं. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. एतच् च तद् एकावचरं नाम.
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरम् उच्यत इति. कथम् उच्यते. तान्य् एतान्य् अष्टादशध्यानांगानि भवन्तीति विस्तरेणोक्त्वा पुनर् आह. नामत एवं.
द्रव्यतो दश चैकं च
द्रव्यत एतान्य् एकादश भवन्ति. प्रथमध्यानिकानि पंच. द्वितीये ऽध्यात्मसंप्रसादो वर्धते. तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानीतिवचनात्. सुखेंद्रिययोगाद् इति. सुखेंद्रियसंभवात्. नास्त्य् एव चैतसिकं सुखेंद्रियं त्रिष्व् अपि हि ध्यानेषु. किं तर्हि. कायिकम् [तिब्. 339ब्] एव सुखम् अंगव्यवस्थापितं. समाहितावस्थांतरालसमुदाचारात्. दार्ष्टांतिकानां किलैष पक्षः. तेषां हि न द्विभूमिकम् एव सुखेन्द्रियं. कामप्रथमध्यानभूमिकम् इति. किं तर्हि. चतुर्भूमिकम् अपि सुखेन्द्रियं भवति. कामावचरं यावत् तृतीयध्यानभूमिकं इति. अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम्. आभिधार्मिकाणां अरघट्टेनेव चक्षुर्विज्ञानादिकम् अधस्ताद् ऊर्ध्वम् आकृष्यत इति. तद् एवम् अस्येष्टं भवति. चक्षुर्विज्ञानादिकं द्वितीयादिध्यानभूमिकम् अपि भवतीति.
अध्यारोपित एष पाठ इति. यो ऽयं चैतसिकम् इति पाठः. सुखं च कायेन प्रतिसंवेदयत इति स्वशब्देन वचनाच् चेति. तृतीयध्याननिर्देश एवम् उक्तं. स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानमान्. सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. यदि हि तच् चैतसिकं स्यात् कथं तत् कायेन प्रतिसंवेद्येत्. मनः कायेनेति. मनः समुदायेनैवम् उक्त्वा. को गुण इति. सुखं च मनसा प्रतिसंवेदयति. सुखं च कायेन प्रतिसंवेदयत इत्य् एवं वा वक्तव्यं स्याद् इत्य् अभिप्रायः. चतुर्थे ध्याने प्रश्रब्धिभूयस्त्वे ऽपि सुखावचनाच् चेति. चतुर्थे ध्याने प्रश्रब्धिसुखं भूयो भवति बहुतरं भवति. ध्यानान्तरेभ्यश् चतुर्थस्य प्रश्रब्धतरत्वात्. तद्भूयस्त्वे [तिब्. 340अ] ऽपि सुखस्यावचनं. चतुर्थे ध्याने सुखं नोच्यते. तस्य सुखस्यावचनात्. वेदनासुखम् एव तत् तृतीये ध्याने गम्यते. न चतुर्थे सुखा वेदनास्तीति तत्र नोच्यत इत्य् अभिप्रायः. सुखवेदनानुकूला प्रश्रब्धिः सुखम् इति चेत्. स्यान् मतं. प्रथमद्वितीययोर् ध्यानयोः. सुखवेदनानुकूला प्रश्रब्धिः. तद्द्वयोः सुखम् इत्य् उक्त्वा चतुर्थे ध्याने प्रश्रब्धिः सुखवेदनानुकूला न भवतीति नोक्ता. यद्य् एवं तृतीये प्रश्रब्धिसुखावचनं कस्मात्. तृतीयध्यानप्रश्रब्धिर् अपि सुखवेदनानुकूला भवति. तत्र प्रश्रब्धिसुखं कस्मान् नोक्तं. वेदनासुखम् एव हि तत्र भवद्भिर् व्यवस्थापितं. न प्रश्रब्धिः सुखं. द्विःसुखपाठात्. उपेक्षोपहतत्वाद् इति चेत्. स्यान् मतं. तृतीये ध्यान उपेक्षा कर्मण्यतालक्षणा भवति. तयोपहता
प्रश्रब्धिर् इति नोच्यते इति. न. उपेक्षयैव (अभिध्-क्-व्य् 674) तद्वृद्धेः. नैतद् एवं. उपेक्षयैव तु तत्र तृतीये ध्याने प्रश्रब्धिसुखवृद्धेः. न ह्य् उपघातहेतुनैव वृद्धिर् युज्यत इति. कथम् उपेक्षयैव तद्वृद्धिर् इत्य् अतो ब्रवीति. पूर्विकाभ्यां तद्विशेषाद् इति. पूर्विकाभ्यां हि प्रथमद्वितीयध्यानप्रश्रब्धिभ्यां. [तिब्. 340ब्] तृतीयध्यानप्रश्रब्धिर् विशिष्टा. पूर्विकाभ्यां ध्यानाभ्यां तृतीयस्य विशिष्टत्वात्. यस्मिन् समय इति विस्तरः. यस्मिन् समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरति. पंचास्य धर्मास् तस्मिन् समये प्रहीयन्ते. पंच धर्मा भावनापरिपूरिं गच्छन्ति. अध्यात्मसंप्रसादः प्रीतिः प्रश्रब्धिः सुखं [प्रज्ञा] समाधिश् चेति. प्रश्रब्धिसुखयोर् अनन्यत्वे कथम् एषां पंचत्वं स्यात्. अर्थान्तरत्वे च सति कायिकम् एव सुखं त्रिष्व् अपि ध्यानेष्व् इति सिद्धं भवति. समापन्नस्य कथं कायविज्ञानम् इति. अत्रोच्यते. समाधिविशेषजेन प्रश्रब्धिनाम्ना सुखवेदनीयेन सुखवेदनानुकूलेन वायुना कायस्फरणात् कायध्मापनात्. किं. कायविज्ञानं भवत्य् एवेति. बहिर्विक्षेपात् समाधिभ्रंश इति चेत्. यदि मन्येत काय्विज्ञानोत्पत्त्या बहिर्विक्षेपाद् बाह्यविषयविक्षेपात् समाधिभ्रंश इति. न. समाधिजस्येति विस्तरः. नैतद् एवं भविष्यतीति. कस्मात्. समाधिजस्यांतःकायसंभूतस्याबहिर्जभूतस्येत्य् अर्थः. कायसुखस्य कायविज्ञानसंप्रयुक्तस्य वेदितसुखस्य समाध्यनुकूलत्वान् नास्मात् समाधिभ्रंश इत्य् अर्थः. न. [तिब्. 341अ] अत एवेति. न कायविज्ञानकाले व्युत्थितः स्यात्. अत एव कारणात् समाध्यनुकूलत्वाद् इत्य् अर्थः. तत्संमुखीभावान्तरं हि
पुनर् उपतिष्ठते समाधिर् इत्य् अभिप्रायः. कामावचरेण कायविज्ञानेन रूपावचरस्य स्प्रष्टव्यस्याग्रहणाद् रूपावचरम् एतत् कायविज्ञानं न कामावचरम्. अत एव तत्संप्रयोगि सुखं ध्यानांगं न सिध्यति. प्रश्रब्धिज्ञानस्योत्पत्तेर् इति. रूपावचरस्याः कामावचरेण [कायविज्ञानेन] कायेन्द्रियेण समधिबलाधानतः. तद् धि कायेन्द्रियं समाहितस्य ताम् अवस्थां गतं. यद् ऊर्ध्वभूमिकस्य कायविज्ञानस्याश्रयो भवतीति. अनास्रवे अपीति. स्प्रष्टव्यं च प्रश्रब्धिलक्षणं तदालंबनं च कायविज्ञानं स्प्रष्टव्यकायविज्ञाने ऽनास्रवे अपि स्यातां. किं कारणम् इत्य् आह. मा भूत् किंचिद् अंगं सास्रवं किंचिद् अनास्रवम् इति चेत्. यद्य् एवं मन्येत. कायिकप्रश्रब्धिसंबोध्यंगवचनाद् इष्टे. यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तते. यापि (अभिध्-क्-व्य् 675) चित्तप्रश्रब्धिर् यावद् एव स्प्रष्टव्यानि संबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत इति वचनात्. बोध्यंगवचनाद् इष्टे [तिब्. 341ब्] स्प्रष्टव्यकायविज्ञाने अनास्रवे इति. बोध्यंगानुकूलत्वाद् इति चेत्. अथैवं परिह्रियेत. यस्मात् कायिकी प्रश्रब्धिर् बोध्यंगानुकूला. तस्माद् बोध्यंगम् इत्य् उपचर्यते न तु बोध्यंगम् इति. अनास्रवत्वम् अप्य् एवं. अनास्रवत्वानुकूलत्वात् ते स्प्रष्टव्यकायविज्ञाने अनास्रवे इत्य् उपचर्येते. न त्व् अनास्रवे एवेति. एवम् अनयोर् अनास्रवत्वं. सास्रवा धर्मा इति विस्तरः. सास्रवा धर्माः कतमे. यावद् एव चक्षुर् यावन्ति एव रूपाणि यावद् एव चक्षुर्विज्ञानं. यावद् यावान् एव कायो यावन्त्य् एव स्प्रष्टव्यानि यावद् एव कायविज्ञानम् इति. अस्य सूत्रस्य विरोध इति एवं चेन्
मन्येत. तन् न. अन्यस्प्रष्टव्यकायविज्ञानाभिसंधिवचनात्. तत् प्रश्रब्धिव्यतिरिक्तानां स्प्रष्टव्यानां कायविज्ञानव्यतिरिक्तानां च कयविज्ञानानाम् अभिसंधिवचनात्. न चानास्रव इति विस्तरः. नन्व् अनास्रवे ऽनास्रववव्यवस्थाने किंचिद् अंगं सास्रवं किंचिद् अनास्रवं स्याद् इति. यद्य् एष दोष इति मन्येत. तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात्. तदितरस्यानास्रवत्वात्. अत्रोच्यते. अयौगपद्यात् को दोष इति. [तिब्. 342अ] यदा सास्रवम् अंगं समुदाचरति. न तदानास्रवं समुदाचरति. यदानास्रवम् अंगं. न तदा सास्रवम् इत्य् अदोष एषः. सुखप्रीत्यसमवधानात्. सुखस्य कायिकस्य प्रीतेश् च मानस्याः असमवधानाद् अयौगपद्यात्. न पंचांगं प्रथमं ध्यानं स्याद् इति चेत्. यद्य् एवं मन्येत. न स दोषः. कस्मात्. संभवं प्रत्य् उपदेशाद् वितर्कविचारवत्. यथा सवितर्कं सविचारं प्रथमं ध्यानम् इति पर्यायेण वितर्कविचारौ भवतः. एवं सुखप्रीती अपि संभवं प्रत्य् उपदेशाद् अदोष एष इति. साध्यम् इति चेत्. वितर्कविचारौ पर्यायेण भवत इति साध्यम् इति. आह. सिद्धं. कथम् इत्य् आह. वितर्कविचारयोर् विरोधाद् इति. यद्य् औदारिकता चित्तस्य. सूक्ष्मता नास्ति. यदि सूक्ष्मता. औदारिकता नास्तीति. विरोधाद् वितर्कविचारयोर् अयौगपद्यं. दोषवचनाच् चेति. आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदाद् इत्य् आ भवाग्राद् वितर्कविचारौ स्याताम् इत्य् आदि. केषांचित् पाठो भवति दोषावचनाच् चेति. अस्मवधानेन च न कश्चिद् दोष उच्यत इत्य् अर्थः. द्वित्रिचतुरंगापकर्षेणेति. द्व्यङ्गापकर्षेण द्वितीयध्यानव्यवस्थानं. तत्र वितर्कविचारयोर् अभावत्. [तिब्. 342ब्] त्र्यंगापकर्षेण
तृतीयध्यानव्यवस्थानं. तत्र प्रीतिर् अपि नास्तीति. चतुरंगापकर्षेण (अभिध्-क्-व्य् 676) चतुर्थध्यानव्यवस्थानं. तत्र सुखम् अपि नास्तीति. न तु संज्ञादीनाम् अंगत्वम् उक्तम् इति. न हि संज्ञादीनां ध्यानान्तरेष्व् अपकर्सो ऽस्तीति. किम् अर्थं पंचानाम् एवांगत्वं. यद्य् अयम् अर्थो नाभिप्रेत इति. यद्य् उपकरत्वात् पंचानाम् एवांगत्वं. तन् न. वितर्कविचाराभ्यां स्मृतिप्रज्ञयोर् उपकरत्वात्. न हि. तथा वितर्कविचाराव् उपकरौ यथा स्मृतिप्रज्ञे इष्टे. सूपस्थितस्मृतेर् यथाभूतंप्रजानतो लयौद्धत्याद्यभावतः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
