Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 22/25

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

स्फुटार्था अभिधर्मकोशव्याख्या

Tác giả
यशोमित्र
Thông tin
GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भवन्ति. य एषां मार्गज्ञानभागः. तन् मार्गज्ञानं नेतर इति. परवित्तज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानां. एतानि हि चत्वारि ज्ञानानि परचित्तापरचित्तज्ञानं स्वभावानि भावंति. य एषां परचित्तज्ञानभागः. तत् परचित्तज्ञानं. नेतर इति. क्षयज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एव क्षयज्ञानं स्वभावसंग्रहतः. षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. क्षयज्ञानं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारज्ञाननिष्यन्दं. तत्र यत् कामावचरदुःखाद्यालंबनं. तद् धर्मज्ञने ऽन्तर्भवति. यद् रूपारूप्यावचरदुःखाद्यालंबनं. तद् अन्वयज्ञाने ऽन्तर्भवति. यत् प्रत्येकं दुःखाद्यालंबनं. तद् दुःखज्ञानं यावन् मार्गज्ञानं वा भवति. तत्र य एषाम् एवंलक्षणो भागः. तत् क्षयज्ञानं नेतर इति. षण्णां भाग इत्य् उच्यते. [तिब्. 280ब्] एवम् अनुत्पादज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एवानुत्पादज्ञानं. षण्णां च भगो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां यो भागः. दुःखं मे परिज्ञातं न पुनः परिज्ञेयम् इत्य् एवमाद्याकारनिष्यन्दं. तद् अनुत्पादज्ञानं. रूपारूप्यावच्रदुःखाद्यालंबनम्. तद् अन्वयज्ञानं. नेतरो भाग इति. षण्णां भाग इत्य् उच्यते.

(vii.8) आकाराकारगोचराद्

इति. आकारश् च गोचरश् चाकारगोचरं. आकारश् चाकारगोचरं. आकाराकारगोचरम्. तस्मात्. स्वभावतः संवृतिज्ञानम् इति. स्वभावेन स्वभावतः. संवृतिज्ञानं. कस्माद् इत्य् आह. अप्रमार्थज्ञानत्वाद् इति. कामधातुप्रतिपक्षो धर्मज्ञानं. ऊर्ध्वधातुप्रतिपक्षो ऽन्वयज्ञानं. तथा हि शास्त्र उक्तं. धर्मज्ञानं कतमत्. कामप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां (अभिध्-क्-व्य् 617) संस्काराणां हेतौ यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं कामप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानं. इदम् उच्यते धर्मज्ञानम्. अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यद् अनास्रवं. इदम् उच्यते धर्मज्ञानम्. अन्वयज्ञानं कतमत्. रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानम्. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां [तिब्. 281अ] हेतौ यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानम्. इदम् उच्यते अन्वयज्ञानं. अपि खल्व् अन्वयज्ञाने अन्वयज्ञानभूमौ च यद् अनास्रवं ज्ञानम्. इदम् उच्यते ऽन्वयज्ञानम् इति. आकारतो दुःखसमुदयज्ञाने इति. आकारत एव नालंबनतः पंचोपादानस्कंधलक्षणत्वेन तयोर् अभेदात्. तथा हि शास्त्र उक्तं. दुःखज्ञानं कतमत्. पंचोपादानस्कंधान् अनित्यतो दुःखतः शुन्यतो ऽनात्मतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानं. इदम् उच्यते दुःखज्ञानं. समुदयज्ञानं कतमत्. सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश् च मनसिकुर्वतो यद् अनास्रवं

ज्ञानम्. इदम् उच्यते समुदयज्ञानं. आकारालंबनतो निरोधमार्गज्ञाने इति. आकारतश् चालंबनतश् च निरोधमार्गज्ञाने व्यवस्थाप्येते. तथा हि शास्त्र उक्तं. निरोधज्ञानं कतमत्. निरोधं निरोधतः शान्ततः. प्रणीततो निःसरणतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते निरोधज्ञानम् इति. मार्गज्ञानं कतमत्. मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते मार्गज्ञानम् इति. प्रथमत [तिब्. 281ब्] इति ग्रहणम् अनुत्पादज्ञानविशेषणार्थं. तद् अपि हि कृतकृत्यसंतान उत्पद्यते. सर्वानास्रवहेतुकत्वाद् इति. प्रथमोत्पन्नानि दश ज्ञानान्य् अधिकृत्य सभागहेतुना सर्वानास्रवहेतुकम् अनुत्पादज्ञानं. क्षयज्ञानं तु न सर्वानास्रवहेतुकं. न ह्य् अनुत्पादज्ञानम् अस्य हेतुर् भवति विशिष्टत्वात्.

(vii.9) सकलस्य सकलप्रतिपक्षत्वाद् इति. सकलस्य कामधातोर् दर्शनभावनाप्रहातव्यसंगृहीतस्य पंचप्रकारस्य सकलं धार्मज्ञानं दर्शनभावनामार्गसंगृहीतं चतुरार्यसत्यालंबनं प्रतिपक्ष इति कृत्वा कामधातोर् एव प्रतिपक्षो धर्मज्ञानम् इत्य् उक्तम्. अपि त्व् अस्ति संभवो यद् रूपारूप्यधातोर् अपि धर्मज्ञानं प्रतिपक्षः. कतमत् तद् धर्मज्ञानं. यन् निरोधे मार्गे च धर्मज्ञानं. निरोधमार्गौ ह्य् अधातुपतितौ. ताव् अधराव् अपि न हिनौ व्यवस्थाप्येते. दुःखसमुदयसत्वे त्व् (अभिध्-क्-व्य् 618) अधरभूमिके निहीने. न तद् आलम्बनं धर्मज्ञानं रूपारूप्यधातुप्रतिपक्ष इत्य् अवगंतव्यं.

भावनापथ-

ग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानाम् अन्वयज्ञानक्षान्तिवध्यत्वात्. अन्वयज्ञानं तर्हि निरोधमार्गालंबनभावनामार्गसंगृहीतं कस्मात् त्रिधातुप्रतिपक्षो न भवति. कामधातोर् जितत्वात्. धर्मज्ञानेनैव कामधातुः [तिब्. 282अ] पूर्वतरजितो भवति. ततः पश्चाद् अन्वयम् उत्पद्यते. ततः कामधातोर् जितत्वान् न तत् कामधातुप्रतिपक्ष इति. धर्मज्ञानं तु रूपारूप्यधातोर् अजितत्वात् प्रतिपक्षो युज्यते. [कर्मान् निरोधमार्गधर्मज्ञानाभ्याम् एव त्रैधातुकभावनाप्रहातव्यक्लेशप्रहाणं न पूर्वाभ्यां. शान्तनैर्याणिकतासाभागात्. न हि कामावचरसंस्काराणां. निरोधात् प्रतिपक्षाद् वा रूपारूप्यावचरसंस्काराणां निरोधस्य प्रतिपक्षस्य वास्ति कश्चिद् विशेषः. सर्वो हि निरोधः कुशलो ऽसंस्कृतो मार्गश् च नैर्याणिकः.] अन्वयम् इत्य् अन्वेतीत्य् अन्वयं ज्ञानं.

(vii.10-12अब्) सर्वथेति. भावनामार्गसंगृहीतम् अपि. तान् पुरस्ताद् इति. तान् अनित्यादीन् आकारान् ऊर्ध्वं व्याख्यास्यामः. षोडशाकारम् उष्मगतादिषु. स्वसामान्यलक्षणादिग्रहणाद् इति. स्वलक्षणग्रहणात् सामान्यलक्षणग्रहणाच् च. आदिशब्देन भुंक्ष्व तिष्ठ गच्छेत्य् एवम् आकारं च. न ह्य् एते स्वलक्षणाकाराः. किं तर्हि. एवमाकारा एवेति.

उभयम् अपि त्व् इति. सास्रवानास्रवं. यत् तर्हीति विस्तरः. रागस्य च चित्तस्य च युगपद्ग्रहणम् इत्य् अभिप्रायः. सूत्रं पुनर् एवं पठ्यते. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति. यथा सरागं विगतरागम्. एवं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् [तिब्. 282ब्] अनुद्धतम् अव्युपशान्तं भावितम् अविमुक्तं विमुक्तम् इति यथाभूतं प्रजानातीति. वस्त्रमलायुगपद्ग्रहणवद् इति. यथा वस्त्रमलयोर् न युगपद्ग्रहणं. तद्वत्. कथं. यथा यदा वस्त्रम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते न तदा मलं गृह्णाति. यदा च मलम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते. न तदा वस्त्रं गृह्णाति.

संसृष्टसरागता संयुक्तसरागता चेति. संसृष्टसरागता संप्रयोगात्. संयुक्तसरागता रागप्राप्त्यनुबंधाद् इत्य् एके. अनुशयानरागालंबनत्वाद् इत्य् अपरे. द्वाभ्याम् इति. संसृष्टसरागतया संयुक्तसरागतया चेति. ततो (अभिध्-क्-व्य् 619) ऽन्यत् सास्रवम् इति. यत् क्लिष्टम् अव्याकृतं कुशलं च लौकिकं. तत् संयोगसरागतया सरागं.

तद् एवम् उभयम् अप्य् एतत् सरागम् एवोक्तं. आह. किं पुनः कारणम् एकीयमतेन रागप्रतिपक्षो विगतरागम् इत्य् उच्यते. यतस् त आहुः. यदि हि रागेणासंप्रयुक्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् अपि. द्वेषादिसंप्रयुक्तम् अपि. स्यात् विगतरागं. [तिब्. 283अ] तद् अपि हि रागेणासंप्रयुक्तं संप्रयुक्तम् अपि. न च सूत्रे द्वेषादिसंप्रयुक्तं विगतरागम् इत्य् उक्तं. सद्वेषं समोहम् इत्यादिवचनात्. येषां पुना रागप्रतिपक्षो विगतरागम् इति. तेषाम् अयम् अदोषः. न हि रागप्रतिपक्षो द्वेषादिभिः संप्रयुज्यत इति.

एवं तर्हीति विस्तरः. यदि रागसंप्रयुक्तं चित्तं सरागं रागप्रतिपक्षो विगतरागं. तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः. चित्तम् अक्लिष्टम् अनिवृताव्याकृतं. नैव सरागं रागेणासंप्रयोगात्. न वियतरागं रागस्याप्रतिपकेषत्वात्. एवमादीति. आदिशब्देन सद्वेषं समोहम् इति तुल्यप्रसंगो योज्यः. कथम्. अत्र तु सूत्रे द्वेषसंप्रयुक्तं चित्तं सद्वेषं द्वेषप्रतिपक्षो विगतद्वेषम् इति. यदि हि द्वेषेणासंप्रयुक्तं विगतद्वेषं स्यात्. अन्यक्लेशसंप्रयुक्तम् इति स्याद् इत्य् एके. एवं तर्हि तद् [तिब्. 283ब्] अप्रतिपक्षश् चित्तम् अक्लिष्टं नैव सद्वेषं स्यात् न विगतद्वेषम्. इत्य् एवं समोहं चित्तं विगतमोहम् इति वक्तव्यं. तस्माद् रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यं. अपिशब्दाद् रागसंप्रयुक्ततयापीत्य् अपरे. आभिधार्मिकाः. एवं यावत् समोहं विगतमोहं चेति. तस्माद् द्वेषसंयुक्ततयापि सद्वेषं मोहसंयुक्ततयापि समोहम् अत्र सूत्रे एष्टव्यम् इति.

आलंबनाभिसंक्षेपाद् इति. कुशलं चित्तं विक्षेपेण न संप्रयुज्यते. तस्मात् तदालंबने तस्याभिसंक्षेप इति.

संक्षिप्तं विक्षिप्तं च स्यात्. क्लिष्टमिद्धसंप्रयोगाद् इति. द्विविधं मिद्धं. क्लिष्टम् अक्लिष्टं च. तद् एव हि चित्तं क्लिष्टं मिद्धसंप्रयुक्तम् इति संक्षिप्तं स्याद् इति. क्लिष्टम् इति च विक्षिप्तं स्याद् इति सांकर्यदोषः. सास्त्रविरोधश् चेति. कथं. संक्षिप्तं चित्तं यथाभूतं संप्रजानाति विस्तरेण यथा वृत्तौ. तेषाम् अन्वयज्ञानं तावत् संक्षिप्तचित्तालंबनं न संभवति. कामधातोर् ऊर्ध्वं मिद्धभावाद् अन्वयज्ञानस्य [तिब्. 284अ] (अभिध्-क्-व्य् 620) च कामधात्वनालंबनत्वात्. मार्गज्ञानम् अपि संक्षिप्तचित्तालंबनं न संभवति. मार्गज्ञानं हि मार्गालंबनं. न च मार्गसंगृहीतं चित्तं मिद्धसंप्रयोगीति. तेनैवं वक्तव्यं अभविष्यत् तज्ज्ञानं द्वे [ज्ञाने]. धर्मज्ञानं संवृतिज्ञानं चेति. ये तु वर्णयन्ति संक्षिप्तं चित्तं कुशम् आलंबनाभिसंक्षेपाद् इति. तेषाम् एतद् दोषद्वयं न भवति. तद् अक्लिष्टेन मिद्धेन न संप्रयुज्यत इति संक्षिप्तं विक्षिप्तं च न प्राप्नोति. नापि शास्त्रविरोधः. कुशलं त्रैधातुकसंगृहीतम् असंगृहीतं च संक्षिप्तं चित्तं तज्ज्ञानं चत्वारि ज्ञानानीति सिद्धं. रूपारूप्यकुशलचित्तालंबनम् अनास्रवं ज्ञानं अन्वयज्ञानं भवति. मार्गसंगृहीतकुशलालंबनं मार्गज्ञानम् अपीति.

व्यवदानपरीत्तैर् निषेवितत्वाद् इति. अल्पकुशलमूलैर् निषेवितत्वाद् इत्य् अर्थः. तद्विपर्ययाद् इति. व्यवदानमहद्भिर् निषेवितत्वाद् इत्य् अर्थः. मूलादीनं बलान्तानां अल्पबहुत्वम् एकैकस्य मूलस्याल्पबहुत्वाद् यथाक्रमं परीत्तं च वेदितव्यं. कथम् इत्य् आह. क्लिष्टं हि [तिब्. 284ब्] द्वाभ्याम् अकुशलमूलाभ्यां समूलं मोहेन लोभद्वेषयोश् चान्यतरेण. एकस्मिन् कलापे ऽनयोर् असमवधानात्. कुशलं त्रिभिर् अलोभाद्वेषामोहैर् एषाम् अविनाभावात्. तज्जातीयानागतभावनाभावाद् इति. क्लिष्टजातीयस्यानागतस्य भावनायाः प्रतिलंभस्याभावात् कुशलसंस्कृता धर्मा भावयितव्या इति न्यायात्. त्रिभिश् च स्कंधैः सानुपरिवर्तं वेदनासंज्ञासंस्कारस्कंधैः. न विज्ञानस्कन्धेन. एकस्मिन् कलापे द्वितीयविज्ञानाभावात्. न च स्वात्मना स्वात्मनि वृत्तिविरोधात्. कुशलं तु महापरिवारं तज्जातीयानागतभावनासद्भावात्. चतुर्भिश् च स्कंधैः सानुपरिवर्तं. तैश् च वेदनादिभिस् त्रिभिः. रूपस्कंधेन च ध्यानानास्रवसंवरसंगृहीतेन चित्तानुपरिवर्तनासंभवयोगतः. अल्पबलं खल्व् अपि क्लिष्टम् इति. ननु च कुशलम् अपि दुर्बलम् एकेन मिथ्यादृष्टिक्षणेन कुशलपंचस्कंधसमुद्घातात्. न तद् अत्यंतम् उच्छिद्यते पुनः प्रतिसंधानात्. दुःखधर्मज्ञानक्षांत्य तु दशानाम् अनुशयानाम् अत्यंतसमुच्छेद इति तसाद् अपीत्य् अपिशब्देन पूर्वोक्ताद् अपीति. तत्प्रतिपक्षत्वाद् इति. औद्धत्यप्रतिपक्षत्वाद् इत्य् अर्थः. एवम् अव्युपशान्तं व्युपशान्तं चेति. अव्युपशांतं [तिब्. 285अ] क्लिष्टम् औद्धत्यसंप्रयोगात्. व्युपशान्तं कुशलं तत्प्रतिपक्षत्वाद् इति क्लेशसंप्रयोगासंप्रयोगतो वा तद् अव्युपशान्तं व्युपशान्तं च भवति. समाहितं कुशलं तत्प्रतिपक्षत्वाद् इति. विक्षेपप्रतिपक्षत्वात्. पृअतिलंभनिषेवणभावनाभ्याम् इति. अलब्धपूर्वस्य प्राप्तिः प्रतिलम्भः. संमुखीभावो (अभिध्-क्-व्य् 621) निषेवणं. ते एव भावने. ताभ्याम् अभावितत्वात् अभावितं. न हि क्लिष्टं कुशलवद् अनागतं भाव्यते. न च निषेवणार्हं भवति निहीनत्वात्.

प्रतिलंभनिषेवाख्ये शुभसंसऋतभावने

इति. ताभ्याम् इति प्रतिलम्भनिषेवणाभ्याम् इत्य् अर्थः. स्वभावसंतानविमुक्तिभ्याम् अविमुक्तत्वाद् इति. क्लेशैः संप्रयोगान् न स्वभावविमुक्त्या विमुक्तं. क्षीणक्लेशसंतानानुत्पत्तेश् च न संतानविमुक्त्या च विमुक्तं. कुशलं तु क्लेशासंप्रयोगात्. क्षीणक्लेशसंतानोत्पत्तेश् च विमुक्तं.

स्त्यानमिद्धसहगतम् इति. स्त्यानमिद्धसंप्रयुक्तं अध्यात्मं संनिरोधसहगतम् इति. एतद् एव निगमयति न तु विपश्यनया समन्वागतम् इति. अनुविक्षिप्तम् इत्य् अस्य निर्देशं करोत्य् अनुविसृतम् इति.

मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानाद् [तिब्. 285ब्] इति. किम् इति कृत्वा विक्षिप्तत्वम् अत्र न प्रतिज्ञायते. किं मिद्धसहगते क्लिष्टे चित्ते विक्षिप्तत्वं नास्तीति न प्रतिज्ञायते. आहोस्विद् विद्यमानम् अप्य् अत्र विक्षिप्तत्वम्. संक्षिप्तत्वेनैव स्थापितत्वान् न प्रतिज्ञायते. उभयथापि व्याचक्षते. केचिद् व्याचक्षते. मिद्धसहगताद् धि क्लिष्टाद् यद् अन्यत् क्लिष्टं. तद् विक्षिप्तं प्रतिज्ञायते. मिद्धसहगतं तु क्लिष्टम् अक्लिष्टं चाविशेषेण संक्षिप्तम् एवेति. अपरे पुनर् व्याचक्षते. यन् मिद्धसंप्रयुक्तं. तत् संक्षिप्तम् एव न विक्षिप्तं. यत् तु विषयेषु विसृतं. तद् एव विक्षिप्तम् इत्य् अतो ऽत्र मिद्धसंप्रयुक्ते चित्ते. न प्रतिज्ञायत इति. वरं शास्त्रविरोध इति. अबुद्धोक्तम् अभिधर्मशास्त्रम् इत्य् अभिप्रायः. अभिन्नलक्षणवचनाद् इति. सर्वाणि तानि क्लिष्टान्य् उक्तानीति. क्लिष्टत्वलक्षणम् एषां विक्षिप्तादीनाम् अविमुक्तान्तानाम्. क्लिष्टत्वं पुनः क्लेशमहाभूमिकैः संप्रयोगः. संक्षिप्तप्रगृहीतादीनां चाभिन्नलक्षणवचनान् नार्थविशेष उक्तो भवतीति संबन्धः. आदिशब्देन महद्गतानुद्धतव्युपशान्तसमाहितभावितविमुक्तानां [तिब्. 286अ] ग्रहणं. कुशलम् एषाम् अभिन्नं. किं पुनः कुशलत्वं. कुशलं महाभूमिकैः संप्रयोगः. न वै नोक्त इति विस्तरः. वै इति निपातः. न नोक्त इति द्वौ प्रतिषेधौ उक्त एवेत्य् अर्थः. क उक्तः. पदानाम् अर्थविशेषः. इत्य् आह. क्लिष्टसामान्ये ऽपि विक्षिप्तादीनां तुल्ये क्लिष्टत्वे तेषां दोषाविशेषसंदर्शनाद् इत्य् अप्य् एतत् क्लिष्टं चित्तं विक्षेपयोगाद् विक्षिप्तं क्लिष्टं. कौसीद्ययोगाल् लीनम् औद्धत्ययोगाद् उद्धतम् इत्य् एवमादिदोषे विशेषसंदर्शनाद् उक्त एवार्थविशेषो

भवति. एवं कुशलस्यापि संक्षिप्तादेर् (अभिध्-क्-व्य् 622) गुणविशेषसंदर्शनाद् इत्य् अप्य् एतत् कुशलं चित्तं संक्षिप्तं प्रगृहीतम् इति विस्तरेणोक्त एवार्थविशेषो भवति. सूत्रविरोधस्यापरिहाराद् इति. सूत्रे हि स्त्यानमिद्धसहगतं संक्षिप्तम् उक्तं. स्त्यानयोगेन यत् क्लिष्टं मिद्धसंप्रयुक्तं. तत् संक्षिप्तं न कुशलं. स्त्यानस्य क्लेशमहाभूमिकत्वात्. यदि च सूत्रे इति विस्तरः. यदि [तिब्. 286ब्] युष्मन्नीत्या सूत्रे लीनम् एवोद्धतं भगवताभिप्रेतं स्यात्. लीनोद्धतयोः पृथग्वचनं नोक्तं स्यात्. कथम् इत्य् आह. यस्मिन् समये चित्तं लीनं कौसीद्यसंप्रयुक्तं. लीनाभिशंकि लीनम् एतद् भविष्यतीत्य् अभिशंकतो लीनाभिआशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एव लीनं चित्तम् उद्धतम् इति कृत्वा. तथा यस्मिन् समये उद्धतं चित्तं भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एवोद्धतं चित्तं लीनम् इति कृत्वा. अविभागेन वा वक्तव्यं स्यात्. यस्मिन् समये चित्तं लीनं भवति लीनाभिशंकि उद्धतं वा भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षाधर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इति. स्मृतिसंबोध्यंगस्याग्रहणं सर्वत्रगत्वात् स्मृतेः. उभये ऽपि चित्ते ऽनुक्त सिद्धितः. [तिब्. 287अ]

स्मृतिं खल्व् अहं सर्वत्रगतां वदामीति सूत्रे वचनात्. कथं पुनर् वैभाषिकेण यद् एव लीनं. तद् एवोद्धतम् इत्य् अभीष्टं गम्यते. लीनं चित्तं क्लिष्टं कौसीद्यसंप्रयोगात्. उद्धतं चित्तं क्लिष्टम् औद्धत्यसंप्रयोगाद् इति वचनात्. किं पुनर् अत्र बोध्यंगानां व्यग्रा भावनेति. किं कदाचित् प्रश्रब्ध्यादिभावनैव न धर्मप्रविचयादिभावना. कदाचिद् धर्मविचयादिभावनैव न प्रश्रब्ध्यादिभावनेति व्यग्रा भावना. मनसिकरणं तेषां भावनेष्टा. न संमुखीभाव इति. मनसिकरणम् आलंबनीकरणं. लीने चित्ते अकालः प्रश्रब्ध्यादीनाम् आलंबनीकरणस्याभोगकरणस्येत्य् अर्थः. उद्धते च चित्ते अकालो धर्मविचयादीनाम् इति. न तु संमुखीभावो भावनेष्टा. तस्मिन् काले न प्रश्रभ्द्यादयः संमुखीकर्तव्याः. धर्मविचयादयस् तु संमुखीकर्तव्याः. धर्मविचयादयो वा न संमुखीकर्तवाः. प्रश्रब्ध्यादयस् तु कर्तव्या (अभिध्-क्-व्य् 623) इति. कौसीद्याधिकम् अत्रेति विस्तरः. यत्र कौसीद्यम् [तिब्. 287ब्] अधिकम् औद्धत्यं तु न्यग्भावेन वर्तते. तल् लीनं. यत्र चौद्धत्यम् अधिकं कौसीद्यं तु न्यग्भावेन. तद् उद्धतम्. इत्य् अनयोर् विशेषाद् अविरोधः सूत्रस्य पृथग्वचने. तयोस् तु सहभावाद् एकस्मिन् कलापे युगपद् भावात् तद् एव लीनं तद् एवोद्धतम् इति ब्रूम इति. लीनं क्लिष्टं कौसीद्यसंयोगात्. उद्धतं क्लिष्टम् औद्धत्यसंयोगाद् इति. आचार्य आह. आभिप्रायिकं यावत् सूत्रे तु नायम् अभिप्राय इति. कौसीद्याधिकं लीनम् औद्धत्याधिकम् उद्धतम् इति. यस्माद् आह. यस्मिन् समये लीनं चित्तं भवति विस्तरेण न त्व् एवं विशिनष्टि कौसीद्याधिकम् अन्द्धत्याधिकम् इति वा.

यत् तूक्तं सर्वम् एव रागसंयुक्तं चित्तं सरागम् इति. कथम् उक्तं. तत्र रागसंप्रयुक्तं चित्तं द्वाभ्यां सरागं. ततो ऽन्यत् सास्रवं संयोगसरागम् इति वचनात्. तत्र रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यम् इति वचनात्. अनास्रवम् अपि सरागं प्राप्नोति शैक्षम् इति. शैक्षसंताने रागस्य सावशेषत्वात्. [तिब्. 288अ] रागालंबनं चेत्. अथ मतं रागस्य यद् आलंबनं. तद् रागसंयुक्तं सरागं च भवति. अर्हतो ऽपि सास्रवं चित्तं परकीयस्य रागस्यालंबनत्वात् रागसंयुक्तम् इति कृत्वा सरागम् इति गृह्णीयात् परचित्तवित् परचित्तज्ञानं वा. अथ मतं न तद् रागेणालंब्यत इति. तत उच्यते. कथं वा तत् सास्रवम् इति. सामान्यक्लेशालंबनत्वाद् इति चेत्. अथ मतं सामान्यक्लेशानां दृष्टिविचिकित्साविद्यानाम् आलंबणं तद् अतः सास्रवम् इति. एवम् अपि समोहं ग्र्ःणीयात्. अर्हतः सास्रवं चित्तं मोहालंबनत्वात्. मोहो ऽपि सामान्यक्लेशः. परकीयस्य च मोहस्यार्हच्चित्तम् आलंबनीभवतीति. न च परचित्तज्ञानं प्राप्त्यालंबनम् इति. यस्मात् परचित्तज्ञानं चित्तचैत्तालंबनम् इष्यते. तस्मान् न रागप्रप्तिसहितत्वेन रागसंयुक्तत्वात् सरागम् इति. नापि तच्चितालंबनरागालंबनम् इति. तद् इति यत् तत् परकीयं चित्तं परचित्तज्ञानेन [तिब्. 288ब्] गृह्यते. तत् तच्छब्देनोच्यते. [तस्यालंबनः]. तच्चित्तालंबनस् तच्चित्तालंबनो रागः. आलंअबनम् अस्य परचित्तज्ञानस्येति तद् भवति तच्चित्तालंबनरागालंबनं. यस्माद् एवंविधं रागं नालंबते परचित्तज्ञानं विप्रकृष्टत्वात्. एकैकद्रव्यगोचरं हि परचित्तज्ञानं. न च परकीयचित्तज्ञानं तस्य चित्तस्यालंबनं गृह्णाति. आकारालंबननिरपेक्षं हि

तद् इति वचनात्. रक्तम् इदं एइत्तं जानातीति वचनाच् च. तस्माद् अपि न रागसंयोगात् सरागं चित्तम् इति. असंप्रयुक्तं विगतरागम् इति. सत्याम् अपि रागप्राप्ताव् इत्य् अभिप्रायः. तत्र तत् संधायोक्तम् इति रागादिप्राप्तिविगमं. संधायोक्तं (अभिध्-क्-व्य् 624) न संप्रयोगम् इति दर्शयत्य् अनावर्तिकधर्मि कामभवे रूपभवे आरूप्यभवे इति. त्रैधातुकवैराग्यसंदर्शनाद् इत्य् अभिप्रायः. ननु चोक्तम् इति विस्तरः. क्वोक्तम्. अत्र तु सूत्र इति विस्तरेण यावद् यदि हि रागेणासंप्रयुक्तं चित्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् [तिब्. 289अ] अपि विगतरागं स्याद् इत्य् अत्र. एतेनाभिसंधिना रायविप्रयुक्तत्वाद् विगतरागम् अन्यक्लेशसंप्रयुक्तम् अपीत्य् अनेन. यद्य् एवं सद्वेषं समोहम् इत्य् एवमादि. न वक्तव्यं स्याद् इत्य् अत आह. न तु तद् विगतरागम् इत्यादि. न तु तद् द्वेषादिसंप्रयुक्तं चित्तं विगतरागम् अपि सद् विगतरागम् इति कृत्वा गृह्यते. किं तर्हि. सद्वेषं समोहम् इत्य् एवमादि द्वेषादिसंप्रयोगितया विशिष्टत्वात्. आदिशब्देन चात्र संक्षिप्तं विक्षिप्तम् इत्य् एवमादिसूत्रोक्तानि पदानि गृह्यन्ते.

अन्यथा हीति विस्तरः. यद्य् अस्मिन् वस्तुनि रूपादिके रक्तम् इति विजानीयात् तद् रूपालंबनम् अपि स्यात्. तथा च सति न तत् परचित्तज्ञानं स्याद् रूपालंबनत्वात्. तदालंबनं च परचित्तं गृह्णतः स्वभावग्रहणं प्राप्नुयाद् इति. सालंबनपरचित्तग्रहणे हीष्यमाणे स्वात्मा परचित्तज्ञानेन गृह्येत. अस्ति हि संभवो यत् परचित्तविद् यस्य चित्तं गृह्णाति. असाव् अपि तस्य परचित्तविदश् चित्तम् आलंबेत. ततश् च परचित्तज्ञानस्य स्वालंबनपरिज्ञानात् [तिब्. 289ब्] स्वम् एवासौ परचित्तविच् चित्तम् आलम्बेत. न चैतत् प्राप्यं. यत् तेनैव चित्तेन तद् एव गृह्यते. सर्वं चेति विस्तरः. द्रव्यस्य स्वलक्षणं च चित्तचैत्ताश् च प्रत्युत्पन्नाश् च परसंततिश् च कामरूपप्रतिसंयुक्ताश् चाप्रतिसंयुक्ताश् च विषयो ऽस्येति समासविग्रहः. द्रव्यग्रहणं संवृतिसन्निरासार्थं. स्वलक्षणग्रहणं सामान्यलक्षणनिवृत्त्यर्थं. चित्तचैत्तग्रहणं रूपादिविशेषणार्थं. प्रत्युत्पन्नग्रहणम् अतीतानागतविवेचनार्थं. परसंततिग्रहणं स्वसंततिव्युदासार्थं. कामरूपप्रतिसंयुक्ताप्रतिसंयुक्तग्रहणं आरूप्यप्रतिसंयुक्तप्रतिषेधार्थं. दर्शनमार्गप्रतिषिद्धम् इति. दर्शनमार्गे वर्तमानः परचित्तज्ञानं न संमुखीकरोतीत्य् अतो दर्शननार्गसंगृहीतं नास्ति. न हि दर्शनमार्गो व्यवच्छिन्नचित्तचैत्तालंबनो भवति. भावनामार्ग उपलभ्यते. भावनामार्गसंगृहीतं भवतीत्य् अर्थः. शून्यतानिमित्तविप्रयुक्तम् इइत्. शून्यतासमाधिना आनिमित्तसमाधिना च विप्रयुक्तं. शून्यतासमाधिर् दुःखज्ञानसंयुक्तः. आनिमित्तसमाधिर् निरोधज्ञानसंप्रयुक्तः. न च परचित्तज्ञानं. [तिब्. 290अ] दुःखज्ञानं

दुःखनिरोधज्ञानं वा भवत्य् आकारालम्बनभेदात्. अतस् ताभ्यां विप्रयुक्तम् उच्यते. अर्थाद् उक्तं भवत्य् अप्रणिहितसमाधिसंप्रयुक्तं (अभिध्-क्-व्य् 625) संभवतीति. क्षयानुत्पादज्ञानसंगृहीतम् इति. क्षयज्ञानेनानुत्पादज्ञानेन न संगृहीतं. न क्षयानुत्पादज्ञानस्वभावम् इत्य् अर्थः. किं कारणं. द्रव्यस्वलक्षणसंतीरणपरिमार्गणाशयं परचित्तज्ञानं. न चैव क्षयज्ञानम् अनुत्पादज्ञानं चेति ताभ्याम् असंगृहीतं. आनन्तर्यमार्गं प्रतिषिद्धं चेति. स हि प्रहाणमार्गो भवति. परचित्तज्ञानं च विमुक्तिविशेषमार्ग इति. पारमार्थिकयोर् अपि संवृतिभजनाद् इति. परमार्थनिमित्ते परमार्थेन वा दीव्यतः पारमार्थिके. तयोः संवृतिभजनात्. यस्माद् एते संवृतिं भजेते. अतः शून्यानात्माकारौ न स्तः. कथं पुनर् एते संवृतिं भजेते. क्षीणा मे जातिः. नापरम् अस्माद् भवं प्रजानातीति यथाक्रमं. कथम् एते अनास्रवे सती एवमाकारे. तद्बलेनान्व्व्यवहारतः. अन्येन ज्ञानेनेति वाक्यशेषः. यस्मात् तत्पृष्ठनिर्जाते संवृतिज्ञाने एवमाकारे प्रवर्तेते. अतस् तन्निष्यन्देन तयोः संवृतिभजनम् इत्य् उच्यते. न तु मुख्यवृत्त्या तयोः संवृतिभजनम् [तिब्. 290ब्] इत्य् अभिप्रायः. यतश् चैव निष्यन्देनात्मदृष्टिं भजमाने इव ते प्रवर्तेते. अत्र तस्माच् छून्यानात्माकारविवर्जितैश् चतुर्दशभिर् एवाकारैः संप्रयुक्ते इति.

(vii.12) अप्रतिसंयुक्तेनेत्य् अनास्रवेण. अनित्यम् इत्य् अनित्यतः. अयं हि तसिप्रत्ययः स्वार्थे प्रयुक्तः. एवं सर्वत्रायं प्रत्ययो ज्ञातव्यः. अथ वान्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भवति. अनित्येन रूपेण भावो ऽनित्यत इति. एवम् अन्यत्रापि योज्यं. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इति. एताव् अपि द्वाव् आकाराव् अनास्रवौ. अस्त्य् एतत् स्थानम् इत्य् अस्त्य् एतल् लक्षणम् इत्य् अर्थः. अस्त्य् एतद् वस्त्व् इत्य् अयं हेतुर् इत्य् अर्थः. योगविहिततो विजानीयाद् इति. अविपरीततो विजानीयाद् इत्य् अर्थः. नास्यायम् अर्थ इति विस्तरः. अस्येति वाक्यस्य पदद्वयस्य वा. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इत्य् अस्त्य् अयं संभवो ऽस्त्य् अयं योगो यद् अनित्यादितो विजानीयाद् इति मतं चेत्. न. नैतद् अस्ति. अन्यत्रावचनात्. अन्यत्र वाक्ये पदद्वयस्यावचनात्. दर्शनप्रहातव्येनेति. दर्शनप्रकारेण. आत्मत आत्मीयतश् चेति. सत्कायदृष्ट्या संप्रयुक्तेन चित्तेन. उच्छेदतः शाश्वत इति. अन्तग्राहदृष्ट्या. अहेतुतो ऽक्रियातो ऽपवादत इति मिथ्यादृष्ट्या. अग्रतः श्रेष्ठतो विशिष्टतः परमत इति दृष्टिपरामर्शेन. शुद्धितो मुक्तितो नैर्याणिकत इति शीलव्रतपरामर्शेन. [तिब्. 291अ] कांक्षातो विमतितो विचिकित्सात इति विचिकित्सात. रज्येतेति रागेण. द्विष्याद् इति द्वेषेण. मन्येतेति मानेन. मुह्येद् इति मोहेन. अयोगविहितता विजानीयाद् इति. एवम् आत्मादिभिर् विपरीतता विजानीयाद् इति निगमयति. अत्रापि वाक्ये एष (अभिध्-क्-व्य् 626) पाठो ऽभविष्यद् इति. न चैवम्. अतो गम्यते नायम् अस्यार्थ इति.

(vii.13) सप्त द्रवत इति. दुःखाकाराश् चत्वारो द्रव्यतो भवन्ति. समुदयाद्याकारास् त्व् एकैक इति सप्त. य एव हेत्वाकारः. स एव समुदयः प्रभवः प्रत्ययश् च पर्यायमात्रं नार्थभेदः. शक्र इन्द्रः पुरंदर इति यथा. एवं निरोध एव शान्तः प्रणीतो निःसरणम् इत्य् एक आकारः. मार्ग एव च न्यायः प्रतिपन् नैर्याणिक इत्य् एक आकार इति. तद् इदम् उक्तं भवति. दुःखाकारांश् चतुरः पृथग् योगिनः सम्मुखीकुर्युः. हेत्वाद्याकाराणां त्व् एकैकम् इत्य् एकीयमतं.

द्रव्यतः षोडशेति

वैभाषिका वर्णयन्ति दुःखाकारवत् समुदयाद्याकाराणां सर्वेषाम् अपि पृथक्पृथक् संमुखीकर्तव्यत्वात्. प्रज्ञास्वभावा ह्य् आकारा इति ब्रुवते. प्रत्ययाधीनत्वाद् इति विस्तरः. न नियतभवम् अनित्यं प्रत्ययाधीनत्वात् प्रत्ययप्रतिबद्धजन्मत्वाद् इत्य् अर्थः. पीडनात्मकत्वाद् [तिब्. 291ब्] इति. बाधनात्मकत्वाद् इत्य् अर्थः. विपक्षेणेति. प्रतिपक्षेणेत्य् अर्थः. विरुद्धः पक्षो विपक्ष इति कृत्वा. हेतुर् बीजधर्मयोगेनेति. प्रकृष्टावस्थतां हेतोर् दर्शयत्य् आदिबीजवत्. योगशब्दो ऽत्र न्यायर्थः. समुदयः प्रादुर्भावयोगेनेति. संनिकृष्टावस्थतां हेतोर् दर्शयति. यतः क्षणाद् अनन्तरम् उत्पद्यते समुदेत्य् अस्माद् इति कृत्वा. प्रभवः प्रबंधयोगेनेति. संततियोगेनानुच्छेदं दर्शयति. बीजांकुरकाण्डनालादिवत्. अभिनिष्पादनार्थेन प्रत्यय इति. हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति. तद्यथा मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पद्यते घटः. तद्वत्. अग्निनिर्वापणाद् इति. रागद्वेषमोहाग्निनिर्वापणाद् इत्य् अर्थः. निरुपद्रवत्वाद् इति. निर्दुःखत्वाद् इत्य् अर्थः. सर्वापक्षालवियुक्तत्वाद् इति. सर्वदुःखकारणविमुक्तत्वात्. गमनार्थेन निर्वाणस्य. योगयुक्तत्वाद् उपपत्तियुक्तत्वाद् उपाययुक्तत्वाद् वा. सम्यक्प्रतिपादनार्थेन प्रतिपद् इति. प्रतिपद्यते निर्वाणम् अनयेति प्रतिपत्. नैर्याणिक इति. अत्यंतं निर्याणाय प्रभवतीति नैर्याणिकः.

अनात्यन्तिकत्वाद् [तिब्. 292अ] अनित्यम् इति. पूर्वं प्रागुत्पत्त्यभावेनानित्यम् उक्तम्. इदानीं प्रध्वंसाभावेनेति दर्शयति. अभिन्यासभूतत्वाद् इति. भारभूतत्वाद् इत्य् अर्थः. दुःखेन भारभूतेन हि स पुद्गलो भिद्यते. आक्रम्यत इत्य् अर्थः. अकामकारित्वाद् इति. कामतः कर्तुं शीलम् अस्येति कामकारी. न कामकार्य् अकामकारी. तद्भावात् अनात्मा. सूत्रे ऽप्य् अयम् अर्थ उक्तः. रूपं चेद् भिक्षव आत्माभविष्यत्. न रूपम् आत्मव्याबाधाय संवर्तेत. लभ्येत च रूपे एवं भवत्व् एवं मा भूद् इति कामकार्य् आत्मेति (अभिध्-क्-व्य् 627) निरुक्तिपरिग्रहात्. हेतुर् आगमनयोगेनेति. हि गतौ हिनोत्य् अस्माद् इति हेतुः. अस्माद् उत्पद्यत इत्य् अर्थः. उन्मज्जनयोगेनेति. अनागताध्वन उन्मज्जतीवेत्य् अर्थः. प्रसरणयोगेनेति. प्रबन्धयोगेन. प्रतिसरणार्थेन प्रत्यय इति. जनिक्रियाप्रतिप्रधानभूत इत्य् अभिप्रायः. असंबन्धः संबंधोपरमाद् इति. पूर्वस्य दुःखस्योपरमात्. उत्तरस्य संबंधोपरमो निरोध इत्य् अर्थः. त्रिसंस्कृतलक्षणविमुक्तत्वात्. उत्पादव्ययस्थीत्य् [तिब्. 292ब्] अन्यथात्वविमुक्तत्वात्. परमाश्वासत्वाद् इति सर्वदुःखोच्छित्त्या परमक्षेमत्वात्. निर्वाणपुराविरोधनार्थेन प्रतिपद् इति. यस्माद् अनेन निर्वाणपुरं न विरोध्यते न विसंवाद्यते. किं तर्हि प्रतिपद्यत एवेत्य् अतः प्रतिपत्. प्रतिपद्यते अनयेति कृत्वा.

छन्दमूलका इति. छन्दहेतुका इत्य् अर्थः. तृष्णापर्याय इह छंदः. छन्दसमुदया इति. छन्दसमुद्गमा इत्य् अर्थः. छन्दजातीया इति. छन्दप्रत्यया इत्य् अर्थः. प्रभवशब्दः केवलं पश्चात् पठितव्यः. आभिधार्मिकैर् इति वाक्याध्याहारः. सूत्रानुसरणं हि कर्तव्यम् इत्य् अभिप्रायः. हेतुतः समुदयतः. प्रत्ययतः प्रभवतश् चेति.

कः पुनर् एषां [पदानां] छन्दानाम् [इव वा] विशेषः. अस्मीत्य् अभेदेनात्मभावच्छन्द इति. अनवधार्यैकं द्रव्यं समस्तेषु पंचसूपादानस्कंधेषु अस्मीत्य् अभेदेन प्रकारान्तरविशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनो ऽनालंबनतः त्रैयध्विकात्मभावनालम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः. स्याम् इत्य् अभेदेनेति पुनर्भवमात्रप्रार्थना न विशेषरूपाप्रार्थनेति द्वितीयः. इत्थं स्याम् इति. इदंप्रकारः [तिब्. 293अ] स्याम् इति भेदेन पुनर्भवच्चन्दस् तृतीयः. प्रतिसंधिबन्धच्छन्दश् चतुर्थ इति. प्रतिसंधिर् एव बंधः. प्रतिसंधेर् वा बंधः प्रतिसंधिबंधः. तत्र छन्दः प्रार्थनेति चतुर्थः. कर्माभिसंस्कारच्छन्दो वा चतुर्थ इत्य् अधिकृतं. कर्मणो वाभिसंस्कारः. तत्र छन्दः. एवं चैवं च दानं दास्यामीति. कथं पुनस् ते छन्दा मूलादिशब्दवाच्या इति प्रतिपादयन्न् आह. तत्र प्रथम इति विस्तरः. आदिः कारणम् आदौ वा कारणम् आदिकारणं. तद्भावात् छन्दमूलकाः. हेत्वर्थो हि मूलशब्दः. फलस्येव बीजम् इति. यथा फलस्य बीजम् आदिकारणं विप्रकृष्टकारणं. तद्वद् अयम् आदिच्छन्दो दुःखस्य. तेन तत्समुदागमाद् इति. तेन द्वितीयेन छदेन पुनर्भवस्य समुदागमात् क्षणपरंपरया फलस्येवांकुरादिप्रसवः. यथा परंपरयांकुरादिप्रसवः फलस्य समुदयः. तद्वत्. तृतीयच्छन्द इत्थं स्याम् इति. तज्जातीयदुःखप्रत्यय इति. यत्प्रकारः पुनर्भवच्छन्दः. तत्प्रकारस्य दुःखस्य (अभिध्-क्-व्य् 628) प्रत्ययः संभवति तस्य विशेषरूपत्वाद् विशेषफलरूपम् एव फलम् उत्पद्यत इत्य् अभिप्रायः. फलस्येव क्षेत्रोदकपाष्यादिकम् इति. पाषिः शुष्को

गोमयः. आदिशब्देन [तिब्. 293ब्] वातातपादिर् गृह्यते. ततो ऽपि हि फलसंपद् इति. वीर्यं शीतवीर्यता उष्णवीर्यतेति. विपाकः उष्णपरिणामता मधुरपरिणामतेति. प्रभावः सामर्थ्यविशेषः. तद्यथाम्लत्वे तुल्ये बीजपूरकरसः पित्तं जनयत्य् आमलकरसं तु शमयतीति. तत एव तत्संभवाद् इति. तत एव प्रतिसंधिबंधच्छन्दात् तस्य पुनर्भवलक्षणस्य संभवाद् उत्पादात्. फलस्येव पुष्पावसानं. यथा पुष्पावसानं फलस्य प्रभवः. तद्वत्. अत्र चतुर्थच्चन्दः साक्षाद्धेतुः पुनर्भवस्य. पूर्वकास् त्रयः पारंपर्येण हेतवः. अथ चेति विस्तरः. तृष्णाविचरितानां द्वव् पंचकौ गणौ द्वव् चतुष्कौ चत्वारश् छन्दा यथाक्रमं भवन्ति. प्रथमच्छन्दः पंचाकारः. द्वितीयो ऽपि पंचाकारः. तृतीयश् चतुःप्रकारः. चतुर्थो ऽपि चतुःप्रकारः. कथम्. अस्मीति भिक्षवः सत्यात्मदृष्टौ सत्याम् इत्थम् अस्मीति भवतीदं प्रकारो ऽस्मीति भवति. तद्योगात् तृष्णाम् उत्पादयतीत्य् अर्थः. एवम् अस्मीति यथा पूर्वम् एव नान्यथेत्य् अर्थः. अन्यथास्मीत्य् अन्येन प्रकारेण वर्णप्रतिभानादिदर्शनात्. सद् अस्मीति भवति. विपर्ययाद् असद् अस्मीत्य् अयम् अभेदेन पंचधात्मभावच्चन्दः प्रथमः. भविष्यामीत्य् अस्य भवतीति शाश्वतरूपेण. न भविष्यामीत्य् उच्छेदरूपेण. इत्थं भविष्यामीति विस्तरेण पूर्ववद् व्याख्यानम्. [तिब्. 294अ] इत्य् अयम् अभेदेन पंचधापुनर्भवच्छन्दो द्वितीयः. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्याम् अन्यथा स्याम् इत्य् अस्य भवतीत्य् अयं भेदेन चतुर्धापुनर्भवच्छंदस् तृतीयः. अपि तु स्याम् इत्य् अस्य भवत्य् अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य

चतुर्धाप्रतिसंधिबंधच्छन्दस् चतुर्थः. तत्र प्रथमो दुःखस्यादिकारणत्वान् मूलहेतुर् इति विस्तरेण पूर्ववद् योज्यं. प्रतिनियतत्वात् प्रतिपद् इति. नियतप्रतिपादनं प्रतिपत्. कथं पुनः प्रतिनियता. अनयैव तद्गमनात्.

यथोक्तम् इति विस्तरः. नित्यसुखात्मीयात्मदृष्टिचरितानाम् इति. नित्यं सुखम् आत्मीयं आत्मेति च दृष्टिचरितम् एषां. त इमे नित्यसुखात्मीयात्मदृष्टिचरिताः पुद्गलाः. तेषां प्रतिपक्षेण यथाक्रमम् अनित्याद्याकाराः. नास्ति हेतुर् इत्य् अहेतुदृष्टिचरितानां प्रतिपक्षेण हेत्वाकारः. एको हेतुर् ईश्वरः प्रधानं चेत्य् एकहेतुदृष्टिचरितानां समुदयाकारः. समुदयो हेतुर् नैकहेतुर् इति. परिणमते भाव इति परिणामदृष्टिचरितानां प्रभवाकारः. (अभिध्-क्-व्य् 629) आदिभवो ऽयं. न तु पूर्वम् अवस्थितः परिणमत इति. बुद्धिपूर्वकृतो ऽयं लोक इति बुद्धिपूर्वकृतदृष्टिचरितानां [तिब्. 294ब्] प्रत्ययाकारः. नेदम् ईश्वरबुद्धिकृतं जगत्. किं तर्हि. तंतं प्रतीत्य तत्तद् भवतीति. वीप्सार्थो हि प्रतिशब्दः. तस्माद् अनेकप्रत्ययजनितं जगद् इति ज्ञापितं भवति.

एवं तु युक्तं स्याद् इति. सौत्रान्तिकमतम्. आलम्बनग्रहणप्रकार आकारा इति. नैरुक्ता विधिर् इति दर्शयत्य् आलम्बनशब्दाद् आकारं गृहीत्वा प्रकारशब्दाच् च कारशब्दं. शेषवर्णलोपे च कृते आकार इति रुपं भवति. तद् एवं सति प्रज्ञापि साकारा भवतीति सिद्धं. सालम्बा इति. आलम्बेत्य् आकारान्तम् एतच् छब्दरूपं. घञन्तं वा आलम्ब इति. सहालम्बेन सहालम्बया वा वर्तन्ते सालम्बः. सालम्बना इत्य् अर्थः.

(vii.14, 15) कुशलादिभेदम् इति. आदिशब्देनाकुशलाव्याकृतभूम्याश्रयग्रहणं. श्लोकादौ भवत्वाद् आद्यम् इति इहाद्यं. न शास्त्रम् इति व्याचष्टे. शास्त्रे हि धर्मज्ञानम् आद्यं पठितम् इति.

धर्माख्यं षट्स्व्

इति.

कामावचरदुःखाद्यालम्बनत्वात्. आरूप्यत्रये चास्ति भावनामार्गसंगृहीतम् एवान्वयज्ञानं.

तथैव षड्

इति. दुःखज्ञानादीनाम् अन्वयज्ञानस्वभावत्वसम्भवात्. न रूपारूप्यधात्वोः संमुखीक्रियत इति. युक्तं तावद् आरूप्यधातौ धर्मज्ञानं न संमुखीक्रियत इति. आरूप्याणां कामावचरदुःखाद्यनालंबनत्वात्. रूपधातौ तु कस्मान् न संमुखीक्रियते. केचिद् आहुः. कामधातुविदूषणपरं धर्मज्ञानं. रूपधातूपपन्नस्य च धर्मज्ञानं न कामधातुं विदूषयितुम् [तिब्. 295अ] उपजायते. तस्य वैराग्यभूमिसंचारपरित्यक्तत्वात्. कामधातूपपन्नस् तु तद् वीतरागो ऽपि तत् संमुखीकरोति. कामधातूपपत्तेः सावशेषत्वाद् इत्य् अतो न रूपधातौ धर्मज्ञानं संमुखीक्रियते. आचार्यसंघभद्रस् त्व् आह. धर्मज्ञानं कामेधाताव् एव संमुखीक्रियते. न रूपारूप्य धात्वोः. तत्समापत्तिव्युत्थानचित्तानां कामधाताव् एव सद्भावात्. अनुपरिवर्तकाश्रयाभावाद् वा. धर्मज्ञानानुपरिवर्तकस्य हि शीलस्य कामावचराण्य् एव भूतान्य् आश्रयः. दौःशील्यसमुत्थापकक्लेशप्राप्तिविबंधकत्वात्. प्रातिपक्षिकत्वात्. तानि च तत्र न संतीति धर्मज्ञानम् कामधात्व् आश्रयं एवेति.

(vii.16) निरोधज्ञानम् एकं धर्मस्मृत्युपस्थानं धर्मस्मृत्युपस्थाननिर्देश (अभिध्-क्-व्य् 630) उक्तं. धर्माः कायवेदनाचित्तेभ्यो ऽन्य इति. अन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानीति. धर्मान्वयसंवृतिदुःखसमुदयमार्गक्षयानुत्पादज्ञानानि चतुःस्मृत्युपस्थानस्वभावानि सन्ति. दुःखज्ञानम् अपि हि कदाचित् कायालंबनं. कदाचिद् यावद् धर्मालम्बनं. एवं समुदयज्ञानं. मार्गज्ञानम् अपि यद् अनास्रवसंवरालम्बनं कायस्मृत्युपस्थानं तद् भवति. शेषं सुगमं.

(vii.17) अन्यत्रान्वयज्ञानाद् इति. धर्मज्ञानं यद्य् अनास्रवं ज्ञानम् आलंबेत [तिब्. 295ब्] धर्मज्ञानपक्षम् एवालम्बेत. एवम् अन्वयज्ञानम् अन्वयज्ञानपक्षम् एवालम्बेतेति नियमः. तत्र धर्मज्ञानस्य मार्गज्ञानभूतस्य धर्मज्ञानान्तरं दुःखज्ञानादीनि चानुत्पादज्ञानान्तान्य् आलम्बनं संभवन्ति. दुःखसमुदयज्ञानभूतस्य तु संवृतिज्ञानम् आलंबनं संभवति. परचित्तज्ञानभूतस्य च परचित्तज्ञानम् आलंबनं संभवतीति. नव ज्ञानानि तस्यालंबनम् इति. एवम् अन्वयज्ञानम् अपि योज्यं. मार्गज्ञानस्यापि नवैवान्यत्र संवृतिज्ञानात्. न हि मार्गज्ञानं संवृतिज्ञानम् आलम्बते. अनास्रवमार्गालम्बननियमात्. द्वे संवृतिपरचित्तज्ञाने इति. दुःखसमुदयसत्यांतर्भूते. परचित्तज्ञानं यद् अनास्रवं. तस्य नवानास्रवाणि ज्ञानान्य् आलंबनं. यत् सास्रवं तस्य संवृतिज्ञानं प्रर्चित्तज्ञानं चालम्बनं संभवति. क्षयानुत्पादज्ञाने दुःखज्ञानादिस्वभाव इति दशापि ज्ञानानि तयोर् आलम्बनानि भुवन्ति.

(vii.18, 19) संप्रयुक्तविप्रयुक्तभेदाद् इति.

संप्रयुक्ताश् चित्तचैत्ता

इति. विप्रयुक्ताः प्राप्त्यादयः. कुशलाव्याकृतभेदाद् इति. कुशलं प्रतिसंख्यानिरोधः परमक्षेमत्वात्. अव्याकृताव् [तिब्. 296अ] आकाशप्रतिसंख्यानिरोधाव् इति. कामावचरानास्रवाश् चत्वार इति. संप्रयुक्तविप्रयुक्तभेदात्. रूपारूप्यावचरानास्रवाः षड् इति. प्रत्येकं संप्रयुक्तविप्रयुक्तभेदात्. कामरूपारूप्यावचरा अपि तत एव भेदात् षट्. द्वाव् अनास्रवाव् इति. तत एव कामरूपावचरानास्रवः संप्रयुक्ता इति. आरूप्यावचरांआं चित्तचैत्तानां विप्रयुक्तासंस्कृतानां च सर्वेषां परचित्तज्ञानाविषयत्वात्. अव्याकृतम् असंस्कृतं मुक्त्वेति. क्षयानुत्पादज्ञानयोश् चतुःसत्यालम्बनत्वाद् अव्याकृतस्य चासंस्कृतस्य तद्व्यतिरिक्तत्वात्.

(vii.20) स्याद् एकेन ज्ञानेन सर्वधर्मान् जानीयात्. न स्याद् इति. कथं गम्यते. सूत्रात्. इहास्माकं भो गौतम उपस्थानशालायां संनिषण्णानां संनिपतितानाम् एवंरूपान्तराकथासमुदाहारो ऽभूत्. श्रमणो गौतमः (अभिध्-क्-व्य् 631) किलैवम् आह. नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं जानीयात् सर्वं पश्येद् इति. तथ्यम् इदं भो गौतम स्मरामि भवतो ऽहम् एवं वक्तुम्. अपि तु नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं ज्ञास्यति वा द्रक्ष्यति वेति.

विषयिविषयभेदाद् इति विस्तरः. [तिब्. 296ब्] विषयिणो विषयस्य च भेदात्. यस्माद् यो विषयी. न स एव तस्य विषयो भवति. स्वातमनि वृत्तिविरोधात्. न हि सैवासिधारा तयैव छिद्यते. तस्मात् तेन संवृतिज्ञानेन स्वभावो न गृह्यते. नापि तेन चैत्ताः सहभुवो गृह्यन्ते. एकालम्बनत्वात्. यद् एव हि तस्य संवृतिज्ञानस्यालम्बनं. तद् एव संप्रयुक्तानां. यदि च ते संप्रयुक्ता गृह्येरन् स्वभावालम्बनाः स्युः. संवृतिज्ञानेनैकालंबनात्. न चैतद् युक्तं. तस्मान् न ते तेन गृह्यन्ते. अतिसंनिकृष्टत्वाच् च. न तेन विप्रयुक्ताः सहभुवो ऽपि गृह्यन्ते. चक्षुषो ऽञ्जनाञ्जनशलाकादर्शनवत्. तच् चेति संवृतिज्ञानं. तस्य व्यवच्छिन्नभूम्यालम्बनत्वाद् इति. यस्माद् भावनामयं रूपावचरं संवृतिज्ञानं व्यवच्छिन्नम् एव भूमिम् आलम्बते. कामधातुं वा प्रथमं वा ध्यानं यावद् भवाग्रं वा. किं कारणम्. आनन्तर्यविमुक्तिमार्गाणाम् अधरोत्तरभूम्यालम्बनत्वात् यथाक्रमं.

शान्ताद्युदाराद्याकारा उत्तराधरगोचरा

इति वचनात्. यदि च तत् सर्वभुंयालम्बनं स्यात्. सर्वतो युगपद् वैराग्यं स्यात्. प्रयोगविशेषमार्गयोर् अपि यथासंभवं काचिद् एव भूमिर् आलम्बनं. कथं. निर्वेधभागीयप्रयोगमार्गसंगृहीतस्य हि यस्य कामधातुर् आलम्बनं. [तिब्. 297अ] न तस्येतरौ धातू. यस्येतरौ धातू. न तस्य कामधातुर् आलम्बनं. अशुभाप्रमाणाभिभ्वायतनादिविदूषणे विशेषमार्गसंगृहीतस्य कामधातुर् एवालम्बनं. नेतरौ धातू.

(vii.21, 22) एकज्ञानान्वितो रागी प्रथमे ऽनास्रवक्षण

इति. यस्मात् क्षान्तिज्ञानं न भवति अन्येनापि अनास्रवेण ज्ञानेन समन्वागतो न भवति रागीति ग्रहणं. यस्माद् वीतरागः परचित्तज्ञानेनापि समन्वागतो भवति.

द्वितीये त्रिभिर्

इति. तद् एव दुःखे धर्मज्ञानं चोच्यते दुःखज्ञानं चेति. नामभेदात् द्वित्वोपचारे. धर्मज्ञानेन दुःखज्ञानेन संवृतिज्ञानेन चेति त्रिभिः समन्वागतः.

चतुर्ष्व्

इति दुःखे ऽन्वयज्ञानक्षणे समुदयमार्गनिरोधधर्मज्ञानक्षणेषु च. क्षान्तिषु पूर्ववद् एवासमन्वागमात् दुःखे ऽन्वयज्ञानक्षणे ह्य् अन्वयम् एव वर्धते. न धर्मज्ञानं. तेन समन्वागतपूर्वत्वात्. समुदयधर्मज्ञानक्षणे समुदयज्ञानम् एव वर्धते. [तिब्. 297ब्] न धर्मान्वयज्ञाने. पूर्वम् एव ताभ्यां समन्वागतत्वात्. एवं निरोधमार्गधर्मज्ञानक्षणयोर् निरोधमार्गज्ञाने एव वर्धेते इति वक्तव्यं. वीतरागस् तु सर्वत्राधिकेन परचित्तज्ञानेनेति. दुःखे धर्मज्ञानक्षान्तौ यावन् मार्गे धर्मज्ञानक्षणे परचित्तज्ञानेनापि समन्वागतः. तैश् च यथोक्तैर् ज्ञानैर् इति वेदितव्यं. मार्गे ऽन्वयज्ञाने तु तैर् एव सप्तभिर् अवीतरागः समन्वागतः. वीतरागस् त्व् अष्टाभिः. तैश् च परचित्तज्ञानेन चेति. क्षयानुत्पादज्ञानाभ्यां त्व् अर्हन्न् एव समन्वागत इति सुबोधान् न तदर्थं सूत्रितम् इत्य् अवगन्तव्यं.

(vii.23, 24) यथोत्पन्नानि भाव्यंत

इति. इह द्विविधा भावनाधिकृता. प्रतिलंभभावना निषेवणभावना. प्रतिलंभभावना प्राप्तितः निषेवणभावना संमुख्ःइभावतः.

यथोत्पन्नानि भाव्यंत

इति यानियान्य् उत्पन्नानि तानितानि भाव्यंत इति. तद्यथा दुःखधर्मज्ञानक्षान्ताव् उत्पन्नायां तज्जातीया क्षान्तिर् एवानागता भाव्यते. तदाकाराश् चत्वार इति. क्षांत्याकारा अनित्याद्याश् चत्वारः सभागत्वात्. नान्ये. एवं दुःखे धर्मज्ञान उत्पन्ने तद् एवानागतं भाव्यते. तदाकाराश् चत्वार एव भावनां गच्छन्ति. एवं दुःखान्वयज्ञानक्षांत्यादिषु योज्यं. सभागज्ञानाकारभावनैवेति. कस्मात् [तिब्. 298अ] सभागज्ञानभावना सभागाकारभावना च दर्शनमार्ग एव भवति. न भावनामार्ग इति. क्षांतीनाम् अपरिप्रश्नः. भावनामार्गे तासाम् अभावात्. तासाम् अपि वा प्रश्नः कर्तव्यः. तासाम् अपि सभागभावनात्. न हि दुःखक्षान्ताव् उत्पन्नायां समुदयादिदुःखक्षान्त्याकरा भाव्यन्ते. उदाहरणमात्रार्थत्वात् तु ज्ञानपरिप्रश्नो न क्षान्तिपरिप्रश्न इति. गोत्राणाम् अप्रतिलब्धत्वाद् इति. सभागहेतुनाम् अप्रतिलब्धत्वाद् इत्य् अर्थः. कथं कृत्वा. दुःखे धर्मज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्रं तदाकाराणां च चतुर्णां गोत्राणि लब्धानि भवन्ति. न दुःखधर्मज्ञानादीनां. किं पुनः कारणम् अनित्यादीनां आकाराणाम् एकैकस्मिन्न् आकारे संमुखीभूते परिशिष्टानाम् आकाराणां गोत्राणि प्रतिलभ्यंते. यतस् ते भावनां गच्छन्ति. तुल्यालम्बनतया सभागत्वात्. सर्वेषां गोत्राणि प्रतिलब्धानि भवन्ति. एवं दुःखे धर्मज्ञान उत्पन्ने यावन् मार्गे ऽन्वयज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्राणि तदाकराणि च चतुर्णां (अभिध्-क्-व्य् 633) गोत्राणि लब्धानि भवन्तीति तद् एव भावनां गच्छति नान्यत्. भावनामार्गे तु पुनः सर्वेषां ज्ञानानां सभागविसभागानां तदाकराणां च संमुखीभावात् सर्वेषां हेतवो लब्धा भवन्तीति. तद्विशिष्टा ज्ञानाकारा भावनां गच्छंत्य् अनागताः.

सांवृतं चान्वयत्रय

इत्य् अलब्धपूर्वं. न धर्मज्ञानेष्व् अकृत्स्नसत्याभिसमयाद् इति. [तिब्. 298ब्] न हि तदानीं रूपारूप्यावचरं दुःकं परिज्ञातं समुदयः प्रहीणस् तन्निरोधः साक्षात्कृत इति. मार्गस्य पूर्वं लौकिकेन मार्गेणानभिसमितत्वाद् इति. लौकिकमार्गेण पूर्वम् अनादिगतिसंसारे दुःखसमुदयनिरोधा अभिसमिताः. न तु संवृतिज्ञानेन कदाचिन् मार्गो मार्गादिभिर् आकारैर् अभिसमितः. तस्मात् त्रयाणाम् एकैकस्य सत्यस्याभिसमयान्ते भावनां. गच्छति. न मार्गान्वयज्ञाने. न तु मार्गः शक्यते कृत्स्नो भावयितुम् इति. संमुखीकर्तुम् इत्य् अर्थः. समुदयो ऽपि तदा न सर्वः प्रहीण इति. निरोधमार्गदर्शनभावनाप्रहातव्यः. दुःखं पुनः सर्वं त्रैधातुकं परिज्ञातं तस्य परिज्ञेयत्वाद् इत्य् अतः समुदयम् एव प्रतिचोद्यते. तत्सत्यदर्शनहेय इति. समुदयसत्यदर्शनहेय इत्य् अर्थः. बहुगोत्रत्वाद् इति. आत्मभावसंततिसामान्यविशेषो गोत्रं. तानि बहूनि गोत्राण्य् अस्येति बहुगोत्रो मार्गः. श्रावकगोत्रात् प्रत्येकबुद्धगोत्रम् अन्यत्. तथा बुद्धगोत्रं. श्रावकगोत्रम् अप्य् अन्योन्यं भिन्नं. मृद्वधिमात्रादिभेदात्. तेषां कश्चिद् एव दर्शनहेयप्रतिपक्षो भाव्यते संमुखीक्रियत इत्य् अर्थः.

न मार्गः. शक्यते कृत्स्नो भावयितुं. दर्शनमार्गपरिवारत्वाद् इति. दर्शनमार्गस्य [तिब्. 299अ] परिवारः संवृतिज्ञानम्. अतः सत्यत्रयांते एव दर्शनमार्गो भाव्यते. न मार्गसत्यंते तस्य भावनामार्गत्वात्.

साध्यत्वाद् अज्ञापकम् इति. साध्यम् इदं दर्शनमार्गपरिवार एव. न भावनामार्गपरिवारो ऽपीति. वयं हि भावनामार्गपरिवारो ऽपि तद् इति ब्रूमः.

सत्यालंबनं विशिष्टतरम् इति. दर्शनावस्थायां यल् लौकिकं पूर्वम् आसीत. ततो विशिष्टम् एव च लौकिकम् इत्य् अभिप्रायः. यस् तत्संमुखीभावसमर्थाश्रयलाभ इति. तस्य संवृतिज्ञानस्य संमुखीभावे समर्थाश्रयस्य यो लाभः. एष एव तस्य लाभः. नार्थान्तरभूत इति. गोत्रे ऽभिलब्धे लब्धं गौत्रिकम् इति. गोत्रं तदुत्पादनसमर्थो हेतुः. तत्र भवं गौत्रिकं संवृतिज्ञानम्. एतद् उक्तं भवति तत्संमुखीभावसमर्थाश्रयलाभे तद् अपि तेनाश्रयेणोत्पद्यमानं लब्धं भवतीति. अथ कस्माद् (अभिध्-क्-व्य् 634) एवं नेच्छंति वैभाषिकाः. दर्शनमार्गलभ्यं तत्. तस्य कथं भावनामार्गे संमुखीभावो भविष्यतीति. दर्शनमार्गे चोत्पत्त्यनवकाशो ऽस्यास्ति तद् अनुत्पत्तिधर्मकम् इति वर्णयंते.

एवं यावच् चतुर्थध्यानभूमिक इति विस्तरः. प्रथमध्यानभूमिकश् चेद् भवति त्रिभूमिकं भाव्यते. प्रथमध्यानभूमिकम् अनागम्यभूमिकं [तिब्. 299ब्] कामावचरं च. ध्यनांतरभूमिकश् चेच् चतुर्भूमिकं भाव्यते. ध्यानान्तरभूमिकं प्रथमध्यानभूमिकादीनि च पूर्वोक्तानि एवं द्वितीयध्यानभूमिकश् चेत् पंचभूमिकं. द्वितीयध्यानभूमिकं यावत् कामावचरं. तृतीयध्यानभूमिकश् चेत् षट्भूमिकं. तृतीयध्यानभूमिकं यावत् कामावचरं. चतुर्थध्यानभूमिकश् चेद् भवति सप्तभूमिकं भाव्यते. चतुर्थध्यानभूमिकं. यावत् कामावचरं चेति. एकस्य परिसंख्यानात् सिद्धं भवति शेषं चत्वारीति. निरोधे ऽन्त्यम् एवान्त्यम् एव च निरोध इत्य् उभयावधारणाच् छेषं चतुःस्मृत्युपस्थानम् इति सिद्धं भवति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तच् चत्वारि स्मृत्युपस्थानानि दुःखस्य कायादिस्वभावत्वात्. एवं समुदये ऽपि वक्तव्यं. तत् सत्याकारम् एवेति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तत् प्रत्येकम् अनित्यदुःखशूयानात्माकारं. एवं समुदये निरोधे च वक्तव्यं. आलम्बनम् अस्य तद् एवेति. तस्याकारस्य तदालम्बनत्वात्. प्रायोगिकम् इति. नोपपत्तिलभ्यः. चतुःपंचस्कंधस्वभावानीति. कामावचरम् [तिब्. 300अ] अनुपरिवर्तकरूपाभावाच् चतुःस्कंधस्वभावं. वेदनासंज्ञासंस्कारविज्ञानस्कंधस्वभावम् इत्य् अर्थः. ऊर्ध्वभूमिकानि तु पंचस्वभावानि ध्यानसंवरलक्षणरूपस्कन्धस्वभावात्.

(vii.25, 26) द्वे ज्ञाने प्रत्युत्पन्ने इति. अन्वयज्ञानं मार्गज्ञानं च. मार्गान्वयज्ञानस्य तदुभयस्वभावत्वात्. अनागतानि षड् इति. धर्मज्ञानादीनि. न संवृतिज्ञानं भाव्यते. लब्धपूर्वत्वात् वक्ष्यति हि

लब्धपूर्वं न भाव्यत

इति. न परचित्तज्ञानम् अवीतरागत्वात्.

तदूर्ध्वं सप्तभावनेति.

एकप्रकारप्रहाणे यावद् अष्टप्रकारप्रहाणे. यावन् न वीतरागो भवतीति. यावन् न प्रहीणनवप्रकाको भवति. अत्रान्तरे प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु भाव्यमानेषु सप्त ज्ञानानि भाव्यन्ते. धर्मज्ञानादीनि परचित्तज्ञानवर्जितानि भाव्यन्ते. लौकिकश् चेत्. यदि शांताद्युदाराद्याकारो भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नं. चतुर्णां धर्नज्ञानानाम् (अभिध्-क्-व्य् 635) इति. दुःखसस्मुदयनिरोधमार्गधर्मज्ञानानाम् अन्यतमत्. अन्वयज्ञानानां कामधात्वप्रतिपक्षत्वान् नान्वयज्ञानानाम् अन्यतमत्. पंचसु चाभिज्ञास्व् इति. आस्रवक्षयाभिज्ञनम् अपास्य. [तिब्. 300ब्] चतुर्णाम् अन्वयज्ञानानाम् इति. दुःखसमुदयनिरोधमार्गान्वयज्ञानां. द्वयोश् च धर्मज्ञानयोर् इति. निरोधमार्गालंबनयोस् त्रिधातुप्रतिपक्षत्वयोगात्. संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वाद् इति. सप्तभूमिवैराग्ये लोकोत्तरे ऽपि भाव्यमाने संवृतिज्ञानं भाव्यते. संवृतिज्ञानम् अपि हि तस्य क्लेशप्रकारस्य प्रतिपक्षो भवति. न केवलं लोकोत्तरम् इति. संवृतिज्ञानम् अपि तत्र भाव्यते तज्जातीयम्. अकोप्यप्रतिवेधे तु न तथा प्रतिपक्षरूपं भूतं संवृतिज्ञानम् अस्ति. अतो ऽत्र न भाव्यते. तत्र क्षयज्ञानं सप्तमम् इति. आनन्तर्यमार्गस्थितत्वात् क्षयज्ञानं तत्र भाव्यते. नानुत्पादज्ञानं न ह्य् आनन्तर्यमार्गस्थितो ऽकोप्यधर्मा भवति. अकोप्यधर्मणश् चानुत्पादज्ञानं भाव्यत इति. भवाग्रवैराग्ये विमुक्तिमार्गेष्व् अष्टासु सप्तैव ज्ञानानि भाव्यन्त इति. परचित्तज्ञानं कथं भाव्यते. आनन्तर्यमार्गे प्रतिषिद्धं परचित्तज्ञानं न विमुक्तिमार्गे. अतः एकप्रकारे प्रहीणे यावद् अष्टप्रकारे प्रहीणे पूर्वपरचित्तज्ञानविशिष्टं परचित्तज्ञानं भाव्यते. यत् स एवंविध आर्यपुद्गलस् ततो मार्गाद् व्युत्थितः संमुखीकुर्यात्. संतानविशेषाद् धि परचित्तज्ञानविशेष इष्यते.

उभयोर् अपि सरागवीतरागयोर् [तिब्. 301अ] विमुक्तिमार्गे भावनेति. प्रयोगमार्गे तु तयोर् इति. तयोर् एव सरागवीतरागयोः संवृतिज्ञानस्यापि भावना. विमुक्तिमार्गे किम् अर्थं विवादः. दर्शनमार्गसादृश्यात् तत्र तद् आभिसमयान्तिकवद् भाव्येत इत्य् एके. न चाभिसमयो ऽस्ति दर्शनमार्गसादृश्यं चेत्य् अपर इत्य् एवं विवादः.

(vii.28-30) षण्णां भावना पूर्ववद् इति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. न संवृतिज्ञानस्य दर्शनमार्गसादृश्याद् इति. किम् अत्र दर्शनमार्गेण सादृश्यं. फलप्राप्तिः. यथा दर्शनमार्गेण स्रोतआपत्तिफलं वा सकृदागाम्यनागामिफलं वा प्राप्यते. एवम् अनेनाप्य् आनन्तर्यमार्गेण शैक्षस्य शैक्षेन्द्रियोत्तापनायां तीक्ष्णेन्द्रियसंगृहीतानि संस्कृतानि स्रोतआपत्तिफलादीनि प्राप्यंते. दर्शनमार्गे चानन्तर्यमार्गावस्थायां न संवृतिज्ञानभावनास्ति एवम् इहापि. इत्य् एवं दर्शनमार्गसादृश्याद् आनन्तर्यमार्गे न संवृतिज्ञानस्य भावना. तथैवेति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम्. अत्रापि संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वात्. न परचित्तज्ञानं सर्वानन्तर्यमार्गे प्रतिषेधत्वात्. (अभिध्-क्-व्य् 636) [तिब्. 301ब्] किं पुनः शेषम् इति विस्तरः. कथं कामवैराग्ये नवमो विमुक्तिमार्गः शेषः.

सरागभावनामार्गे तदूर्ध्वसप्तभावनेति.

वचनात्. सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गाः शेषाः.

सप्तभूमिजयाभिज्ञाकोप्याप्त्याकिर्णभाविते

आनन्तर्यपथेष्व्

इति वचनात्. तथा यो ऽकोप्यतां संचरति. तस्याप्य् अन्ते विमुक्तिमार्गे दशानां भावनेति वचनात्. अष्टौ विमुक्तिमार्गाः शेषा भवन्ति. सर्वे च वीतरागस्यानागामिनः प्रयोगविशेषमार्गाः शेषास् तेषां भावनायाम् अवचनात्. शैक्षस्यैवम् इति यद् अपदिष्टं

प्रोक्तशेषे ऽष्टभावनेति.

कथं पुनः एवम् अविशेषिते विशेषप्रतिपत्तिर् लभ्यते. अशैक्षस्यावश्यं नवदशज्ञानभावनायोगात्. अत एवाहाशैक्षस्य पुनर् अभिज्ञादीति. आदिशब्देन व्यवकीर्णभावनाध्यानादिग्रहणम्. अभिज्ञाभिनिर्हारे व्यवकीर्णभावनायां च ये प्रयोगविमुक्तिविशेषमार्गाः. तेषु यदि समयविमुक्तो नवज्ञानानि भाव्यन्ते. अनुत्पादज्ञानं हित्वा. यद्य् अकोप्यधर्मा [तिब्. 302अ] दश तद् एव प्रक्षिप्य. अष्टौ नव चेति. समयविमुक्तस्याष्टौ अकोप्यधर्मणो नव परचित्तज्ञानं हित्वा. तस्यानन्तर्यमार्गेषु प्रतिषेधात्. द्वयोस् त्व् अभिज्ञाविमुक्तिमार्गयोर् इति. दिव्यश्रोत्रचक्षुरभिज्ञाविमुक्तिमार्गयोः.

अव्याकृते श्रोत्रचक्षुरभिज्ञे

इति वचनात् तद्विमुक्तिमार्गाव् अव्याकृतौ. न चाव्याकृतस्य धर्मस्यानागतभावनास्ति. पृथग्जनस्य तु कामत्रिध्यानवैराग्य इति. चतुर्थध्यानाग्रहणम्. यस्माच् चतुर्थध्यानवैराग्ये यो ऽन्त्यो विमुक्तिमार्गः. तत्र मौलाकाशानन्त्यायतनप्रतिलम्भः. न चारूप्यधातुसंगृहीतं परचित्तज्ञानम् अस्ति. रूपातीतार्थाभिनिष्पाद्यत्वात्. प्रयोगाभिज्ञात्रयो विमुक्तिमार्गप्रमाणादिगुणाभिनिर्हारेष्व् इति. प्रयोगमार्गाश् चाभिज्ञात्रयविमुक्तिमार्गाश् चाप्रमाणादिगुणाभिनिर्हाराश् चेति विग्रहः. आदिशब्देन विमोक्षाभिभ्वायतनादिगुणग्रहणम्. अप्रमाणादीनां गुणानाम् अभिनिर्हार इति. ध्यानभूमिकग्रहणं सामन्तकनिरासार्थं. [तिब्. 302ब्] तत्र हि परचित्तज्ञानं नास्ति. अभिज्ञात्रयम् ऋद्धिविषयाभिज्ञा पूर्वेनिवासानुस्मृत्यभिज्ञा चेतःपर्यायाभिज्ञा च. तेषु च कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु (अभिध्-क्-व्य् 637) ध्यानभूमिकेषु चाभिज्ञात्रयविमुक्तिमार्गेषु. अप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादिगुणाभिनिर्हारेषु च. ध्यानभूमिकेष्व् एव प्रयोगविमुक्तिविशेषमार्गेषु संवृतिज्ञानम् अनागतं भाव्यते. यत् तत्संगृहीतं परचित्तज्ञानं च विशिष्टम् एव भाव्यते. यत् तद्गुणविशेषलाभी संमुखीकुर्यात्. अन्यत्र निर्वेधभागियेभ्य ऊष्मगतादिभ्यः. तेषु हि निर्वेभभागीयेषु परचित्तज्ञानं न भाव्यते. किं कारणम् इत्य् आह. दर्शनमार्गपरिवारत्वाद् इति. यथा दर्शनमार्गे परचित्तज्नानं न भाव्यते. तथा तत्परिवारे ऽपि न भाव्यत इत्य् अभिप्रायः. अन्यत्रेति विस्तरः. पृथग्जनस्यैवान्यत्रापूर्वमार्गलाभे कामत्रिध्यानवैराग्ये ऽन्त्यविमुक्तिमार्गान् हित्वा यः प्रयोगानन्तर्यविमुक्तिमार्गलाभः. तस्मिन्न् अन्यत्रापूर्वमार्गलभे संवृतिज्ञानम् एवानागतं भाव्यते. न परचित्तज्ञानं [तिब्. 303अ] तथाभिज्ञात्रयप्रमाणादिगुणाभिनिर्हारेषु य आनन्तर्यमार्गलाभः. तस्मिंश् चान्यत्रापूर्वमार्गलाभे संवृतिज्ञानम् एवानागतं भाव्यते. प्रयोगमार्गेषु न परचित्तज्ञानं तदप्रतिपक्षत्वात्.

(vii.31, 32) अथ कस्मिन् मार्ग इति लौकिके लोकोत्तरे वा. यद्भूमिको मार्ग इति. अनागम्यादिकः सास्रवो ऽनास्रवो वा. यां च भूमिं प्रथमतो लभत इति. वैराग्यतः प्रथमं ध्यानं यावद् भवाग्रं तद्भूमिकम् इत्य् अर्थः. कथं कृत्वा. यद्य् अनागम्यभूमिसंनिश्रयेण हि लौकिकेन मार्गेण कामधातुवैराग्यात् प्रथमं ध्यानं लभते अनाग्म्यभूमिकं सामन्तकस्वभावं प्रथमध्यानभूमिकं च मौलस्वभावं. नवमे विमुक्तिमार्गे संवृतिज्ञानं भाव्यते. एवं द्वितीयध्यानसामन्तकसंनिश्रयेण प्रथमध्यानवैराग्यात् द्वितीयं ध्यानं लभते. तथैव द्वितीयध्यानसामन्तकसंगृहीतं मौलद्वितीयध्यानसंगृहीतं च भाव्यते. एवं यावद् यदि नैवसंज्ञासंज्ञायतनसामन्तकसंनिश्रयेणाकिंचन्यायतनवैराग्याद् भवाग्रं लभत इति विस्तरेण योज्यं. यदाप्य् अनास्रवानागम्यभूमिसंनिश्रयेण कामधातुवैराग्यात् [तिब्. 303ब्] प्रथमध्यानं लभते. तदापि तथैव तत्संवृतिज्ञानं भाव्यते. यदापि मौलप्रथमध्यानभूमिकसंनिश्रयेण प्रथमध्यानवैरायानास्रव्सं प्रथमं ध्यानं लभते. तदापि प्रथमध्यानप्रथमप्रकारप्रतिपक्षभूतं यावन् नवमप्रतिपक्षभूतं द्वितीयध्यानसामन्तकसंगृहीतं संवृतिज्ञानं लभते. सा हि प्रथमतो भूमिस् तदा लभ्यते. नवमे तु विमुक्तिमार्गे मौलद्वितीयसंगृहीतम् अपि संवृतिज्ञानम् अनागतं भाव्यते. एवम् अनास्रवध्यानान्तरभूमिसंनिश्रयेण यावद् अनास्रवाकिंचन्यायतनभूमिसंनिश्रयेण संवृतिज्ञानभावना योज्य.

यद्वैराग्यायेति.

यस्या भूमेर् वैराग्राय.

यल्लाभः

यस्या भूमेर् लाभो यल्लाभः.

तत्रो-

भयत्रा-

धश्

च ततो

भाव्यते

ऽनास्रवज्ञानं. कथम् इति वृत्त्या व्याचष्टे. यद्भूमिवैराग्यायापि हि न केवलं यद्भूमिक इत्य् अपिशब्दः. द्विविधो ऽपि मार्गो भवतीति. लौकिको लोकोत्तरश् च. प्रयोगमार्गादि आदिशब्देनानन्तर्यविमुक्तिविशेषमार्गग्रहणं. यां च भूमिं लभते वैराग्यत इति. उपरिभूमिकं. तद्भूमिकान्य् अधोभूमिकानि वानास्रवाणि भावनां गच्छन्ति. तद्यथा द्वितीयम् अनास्रवं ध्यानं निश्रित्य तृतीयध्यानवैराग्यं [तिब्. 304अ] करोति. यद्भूमिको मार्गो द्वितीयध्यानभूमिकस् तद्भूमिकम् अनास्रवं ज्ञानं भावनां गच्छति. यस्याश् च भूमेर्वैराग्यं करोति तृतीयाया भूमेस् तद्भूमिकं तृतीयध्यानभूमिकं नवमे विमुक्तिमार्गे ऽनास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकं च प्रथमध्यानभूमिकम् अनागम्यभूमिकं वानास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकम् अपि हि तत्प्रयोगमार्गादिकं संभवामि तज्जातीयम् इति भावनां गच्छति. अथ तु तृतीयध्यानसामन्तकं निश्रित्य द्वितीयध्यानवैराग्यं करोति. तत्राष्टास्व् आनन्तर्यमार्गेषु विमुक्तिमार्गे च तस्य सामन्तकस्य सास्रवत्वात् तद्भूमिकम् अनास्रवं ज्ञानं न भावनां गच्छति. अभावात्. अधोभूमिकं तु तज्जातीयं द्वितीयध्यानभूमिकं ध्यानान्तरभूमिकं प्रथमध्यानभूमिकम् अनागम्यभूमिकं च तज्जातीयम् अनास्रवं ज्ञानं भावनां गच्छति. एवम् अन्यत्रापि योज्यम् एषा दिग् इति. सास्रवाश् च क्षयज्ञान इति. अनास्रवाश् चेति चशब्दः. यान् गुणान् अर्हद्भूत्वा संमुखीकुर्यात् ते सास्रवास् तस्याम् अवस्थायां. भावनां गच्छंति. अप्रमाणविमोक्षादय इति. आदिशब्देनाभिभ्वायतनकृत्स्नायतनादयो गृह्यन्ते. उच्छ्वसंतीव पेडासाधर्म्येणेति. [तिब्. 304ब्] या पेडा रज्ज्वा

निपीड्य बद्धा. सा रज्जूच्छेदाद् उच्छ्वसतीव पेडोच्यते. उच्छ्वस्तीव प्रतिरूपकशब्दाभिधानात्. तस्य रज्जूच्छेदाद् उच्छ्वसन्तीव पेडायाः साधर्म्येण. यथासौ रज्ज्वा निपीड्य बद्धा (अभिध्-क्-व्य् 639) पेडा रज्जूच्छेदाद् उच्छ्वसतीव. एवं यथोक्ता अशुभादयो गुणा वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदाद् अशैल्षसंताने वर्त्स्यन्त उच्छ्वसन्तीव. उच्छ्वासस्य प्राणिधर्मत्वाद् औपमिकं. कस्माद् इत्य् आह. स्वचित्ताधिराज्यप्राप्तस्येति सर्वं. सर्वेषाम् राज्ञाम् अधिको राजाधिराजः. तद्भाव आधिराज्यं. स्वचित्ते ऽधिराज्यं क्लेशपराधीनताविगमात्. स्वचित्तैश्वर्यम् इत्य् अर्थः. तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्थानीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणा भावनां गच्छन्ति. आधिराज्ये प्राप्तौ कस्यचिद् राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां जनपदानां. यथा प्रत्युद्गमनं. तद्वत् तद् एव क्लेशप्राप्तिरज्जूच्छेदे सति स्वप्राप्तिलाभात् उच्छ्वसन्तीव गुणा उत्तप्ततराणां तेषां प्राप्तिर् उत्पद्यत इत्य् अर्थः. कामधाताव् अर्हत्त्वप्राप्ताव् एवाशुभादयो यथासंभवं श्रुतचिन्ताभावनामयास् त्रैधातुका भावनां गच्छन्ति. रूपारूप्यधात्वोस् त्व् अर्हत्त्वप्राप्तौ यथाक्रमं द्विधातुकैकधातुकाः. [तिब्. 305अ] एवं भूमितो ऽपि बोद्धव्यं नैवसंज्ञानासंज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एव इत्य् अवगंतव्यं. यत् किंचिल् लभ्यत इति विस्तरः. यद् विहीनं पुनर् लभ्यते संमुखीक्रियते संसारोचितं. न तद् अनागतं भाव्यते. भावितोत्सृष्टत्वात् संसारे. यद् एवात्र ध्यानाप्रमाणाद्यनुचितं संसारे विशिष्टाम् अनास्रवाणुगुणं. तत् संमुखीभावे तज्जातीयम् एवानागतं विशिष्टं

भाव्यत इय्त् आचार्यो दर्शयति. आचार्यसंघभद्रो ऽप्य् एतम् एवार्थं व्याचष्टे. लब्धपूर्वं न भाव्यते. यत् प्रतिलब्धविहीनं पुनर् लभ्यते न तद् भाव्यं. अर्थाद् गम्यते यद् अलब्धपूर्वं लभ्यते तद् भाव्यते. यत्नाभिमुखीकरणात्. अप्रतिप्रस्रब्धो हि मार्गो यत्नेनाभिमुखीक्रियत इति. तदावेधस्य बलवत्त्वाद् अनागतो भावनां गच्छति. प्रतिप्रस्रब्धपूर्वस् त्व् अयत्नेन संमुखीभवति. भावितप्रतिप्रस्रब्धत्वात् कृतकृत्यदत्तफलत्वाच् च वेगहीन इति तत्संमुखीभावद् अनागतो न भाव्यत इति. यो ऽनागतो यत्नेन जन्यते. स भाव्यत इत्य् अभिप्रायः. तद् एवं सति यद् उक्तं संवृतिज्ञानं तावद् इति विस्तरेण. तद् आर्यसंतानपतितम् एव गृह्यते संसारानुचितत्वाद् इति आचार्यवसुमित्रेणात्र लिखितम्. अत्र किल वैभाषिका आहुः. नैतद् एवं. [तिब्. 305ब्] कुतः. यस्माद् अलब्धम् एव तद् भवति त्यक्तत्वात्. तस्माद् भावितोत्सृष्टस्यापि पुनर्लाभे भवत्य् एव भावनेति. कथं तद् अपूर्वं भवति यावता लब्धपूर्वम् इति. न ह्य् एवंविधं लोके पूर्वं प्रसिद्धम् इति. अपरे पुनर् व्याचक्षते. एकं जन्मेदम् अधिकृयोक्तम् न जन्मान्तरं. यद् विहीनम् अस्मिन्न् एव जन्मनि पुनर् लभ्यते. न तद् भाव्यते. भावितोत्सृष्टत्वात्. जन्मान्तरे तु यल् लभ्यते. तद् भाव्यते. न लभ्यते (अभिध्-क्-व्य् 640) विस्मृतभावनत्वाद् इति.

(vii.33) चतुर्विधा हि भावनेति. प्रतिलम्भ एव भावना प्रतिलम्भभावन. अनागतप्राप्तिर् एव भावनेत्य् अर्थः. एवं निषेवणम् एव प्रतिपक्ष एव विनिर्धावनम् एव भावानेति वक्तव्यं. किं निषेवणं. किं च यावद् विनिर्धावनम् इति. निषेवणं पुनःपुनःसंमुखीकरणं प्रतिपक्षो मार्गो यथोक्तं सूत्रे. भावितकायो भावितचित्त इति. भावितप्रतिपक्षकायचित्त इत्य् अर्थः. कायप्रतिपक्षः पुनश् चतुर्ध्यानविराग्याय यो मार्गः. तथा ह्य् उक्तं भावितकायो भिक्षुर् इत्य् उच्यते भावितचित्तो भावितशीलः. कत्ःअं भावितकायो भवति. कायाद् विगतरागो विगतस्पृहो विगतपिपासो विगतप्रेमा विगतनियंतिः. अथ वा यो ऽसौ रूपरागक्षयानन्तर्यमार्गः. सो ऽनेन विगतरागो भवतीत्य् [तिब्. 306अ] आगमः. विनिर्धावनं क्लेशप्राप्तिछेदः. अनागतानाम् एकेति. प्रतिलम्भभावना. प्रत्युत्पन्नानाम् उभे इति. प्रतिलम्भनिषेवणभावने. तद् एवम् इति विस्तरः. यस्मात् प्रतिलम्भनिषेवणभावने कुशलसंस्कृतानाम् इत्य् अविशेषेणोक्तं सास्रवाणाम् अनास्रवणां च. प्रतिपक्षविनिर्धावनभावने च सास्रवाणां धर्माणाम् इत्य् अविशेषेणोक्तं क्लिष्टानाम् अक्लिष्टानां च. तस्माद् एवम् इत्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति. येषां भावना कुशलत्वात् प्रतिलम्भनिषेवणभावने भवतः. सास्रवत्वाच् च प्रतिपक्षविनिर्धावनभावने भवत इति. ये तर्हि न कुशलसास्रवाः ये संस्कृता ये ऽनास्रवा ये च क्लिष्टाव्याकृताः. तेषां कति भावना इत्य् आहानास्रवाणां द्वे इति. प्रतिलम्भनिषेवणभावने. क्लिष्टाव्याकृतानां च. किं द्वे भावने भवतः. प्रतिपक्षविनिर्धावनभावने इति.

इन्द्रियाणां पूर्वेति. चक्षुरादीनां संवरभावनेत्य् अर्थः. कायस्योत्तरेति. विभावनभावना. तत् पुनर् भावनाद्वयम् आगमेन यथाक्रमं दर्शयति. षड् इमानीन्द्रियाणीति विस्तरः. स पुनर् इन्द्रियसंवरः स्मृति [तिब्. 306ब्] संप्रज्ञानस्वभाव उक्तः. विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनं. ते त्व् इति विस्तरः. ते तु संवरविभावनभावने प्रतिपक्षनिर्धावनभावनान्तर्भूते यथाक्रमम् उभयम् उभयत्रान्तर्भूतम् इत्य् अपि न विरुध्यते.

(vii.34अब्) सामान्येन सर्वेषाम् इति. श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानां क्षयज्ञानक्षणे गुणभावनोक्ता

सास्रवाश् च क्षयज्ञान

इति वचनात्. दश बलानीति विस्तरः. एते बलाद्या महाकरुणान्ता अष्टादशावेणिका वैभाषिकैर् व्यवस्थाप्यंते. बलादिव्यतिरिक्तान् केचिद् अन्यान् अष्टादशावेणिकान् (अभिध्-क्-व्य् 641) बुद्धधर्मान् वर्णयन्ति. तद्यथा. नास्ति तथागतस्य स्खलितं. नास्ति रवितं. नास्ति द्रवता. नास्ति नानात्वसंज्ञा. नास्त्य् अव्याकृतं मनः. नास्त्य् अप्रतिसंख्यायोपेक्षा. नास्त्य् अतीतेषु प्रतिहतं ज्ञानदर्शनं. नास्त्य् अनागतेषु प्रतिहतं ज्ञानदर्शनं. नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनं. सर्वं कायकर्म ज्ञानानुपरिवर्ति. सर्वं वाक्कर्म ज्ञानानुपरिवर्ति. सर्वं मनस्कर्म ज्ञानानुपरिवर्ति. नास्ति छंदहानिः. नास्ति वीर्यहानिः. नास्ति स्मृतिहानिः. नास्ति समाधिहानिः. [तिब्. 307अ] नास्ति प्रज्ञाहानिः. नास्ति विमुक्तिज्ञनदर्शनहानिर् इति. तत्र रवितं नाम सहसा क्रिया. द्रवता क्रीडाभिप्रायता. नानात्वसंज्ञा सुखदुःखादुःखासुखेषु विषयेषु रागद्वेषमोहतो नानात्वसंज्ञा. शेषं सुगमं. दश बलानि. स्थानास्थानज्ञानबलं. कर्मविपाकज्ञानबलं. ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं. इन्द्रियपरापरज्ञानबलं. नानाधिमुक्तिज्ञानबलं. नानाधातुज्ञानबलं. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. पूर्वनिवासानुस्मृतिज्ञानबलं. च्युत्युपपत्तिज्ञानबलं. आस्रवक्षयज्ञानबलं च. सूत्रं तु दशायुष्मन्तस् तथागतबलानि. कतमानि दश. इहायुष्मन्तस् तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति. अस्थानं चास्थानतः. इदं प्रथमं तथागतबलं. येन बलेन समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभस्थानं प्रतिजानाति ब्राह्मं चक्रं प्रवर्तयति. पर्षदि सम्यक्सिंहनादं नदति. पुनर् अपरम्

आयुष्मन्तस् तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि [तिब्. 307ब्] स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. यावद् विपाकतश् च यथाभूतं प्रजानाति. इदं द्वितीयं तथागतबलम्. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः परसत्त्वानां परपुद्गलानां इन्द्रियपरापरतां यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं चतुर्थं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो नानाविमुक्तिकं लोकम् अनेकविमुक्तिकम् इति यथाभूतं प्रजानाति. यद् आयुष्मंतस् तथागतः पूर्ववत्. इदं पंचमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मंतस् तथाग्तो नानाधातुकं अनेकधातुकम् इति यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः [तिब्. 308अ] पूर्ववत्. इदं षष्ठं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः (अभिध्-क्-व्य् 642) पूर्ववत्. इदं सप्तमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ऽनेकविधं पूर्वनिवासम् अनुस्मरति. तद्यथैकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतिं यावद् अनेकान् अपि संवर्तविवर्तकल्पान् अनुस्मरति. अमी नाम ते भवन्तः सत्त्वाः. यत्राहम् आस एवंनामा एवंजात्य एवंगोत्र एवमाहार

एवंसुखदुःखप्रतिसंवेदी एवं दीर्घायुर् एवंचिरस्थितिकः एवमायुष्पर्यन्तः सो ऽहं तस्मात् स्थानाच् च्युतो ऽमुत्रोपपन्नः तस्माद् अपि च्युत इहोपपन्नः. इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदम् अष्टमां तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यति च्यवनान् अप्य् उपपद्यमानान् अपि सुवर्णान् दुर्वर्णान् दुर्बलान् हीनान् प्रणीतान् सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगान् सत्त्वान् [तिब्. 308ब्] यथाभूतं प्रजानात्य् अमी भवन्तः कायदुश्चरितेन स्मन्वागता वाङ्मनोदुश्चरितेन समन्वगताः. आर्याणाम् अपवादकाः मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपाते नरकेषूपपद्यंते. अमी पुनर् भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः वाङ्मनःसुचरितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतन् स्वर्गलोके देवेषूपपद्यन्ते. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं नवमं तथागतबलं . येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रतिवेदयते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं दशमं तथगतबलं. येन बलेनेति पूर्ववत्.

(vii.34च्द्-36) स्थानास्थाने दश ज्ञानानीति. स्थानं चास्थानं स्थानास्थानं. तत्र ज्ञानम् एव बलं ज्ञानबलं. तद् दशज्ञानानि. [तिब्. 309अ] दशज्ञानस्वभावम् इत्य् अर्थः. कथं कृत्वा. स्थानास्थानं समासेन संस्कृतं चासंस्कृतं च तद् अपि संस्कृतम् अष्टधा भेत्तव्यं. कामरूपारूप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात्. तथा संस्कृतं द्विधा भेत्तव्यं. कुशलाव्याकृतभेदात्. तत्र संवृतिज्ञानबलस्य दशापि धर्मा विषयः. (अभिध्-क्-व्य् 643) दशस्व् अपि धर्मेषु तस्य वृत्तिर् इत्य् अर्थः. धर्मज्ञानस्य पंच. कामावचरानास्रवाश् चत्वारः कुशलं चासंकृतं. अन्वयज्ञानस्य सप्त. रूपारूप्यावचरानास्रवाः षट् कुशलं चासंस्कृतं. दुःखसमुदयज्ञानयोः षट् कामरूपारूप्यावचराः. निरोधज्ञानस्यैकः कुशलम् एवासंस्कृतं. मार्गज्ञानस्य द्वाव् अनास्रवौ. परचित्तज्ञानस्य त्रयः. कामरूपावचरानास्रवाः संप्रयुक्ताः. क्षयानुत्पादज्ञानयोर् नव धर्मा विषयः. अव्याकृतम् असंस्कृतं मुक्त्वा. एवं कृत्वा स्थानास्थानज्ञानबलं दश ज्ञानानि. कथं पुनर् दशा धर्माः स्थानास्थानम् इत्य् उच्च्यंते. संभवः स्थानं असंभवो ऽस्थानम् इति. अथ वा अस्थानम् अनवकाशो यः स्त्री बुद्धत्वं कारयिष्यति. स्थानम् एतद् यत् पुरुष इति. अस्थानम् अनवकाशो यः स्त्री ब्रह्मत्वं [तिब्. 309ब्] कारयिष्यति. स्थानम् एतत् पुरुस इति. तथा स्थानम् एतद् यद् दुःखस्य निरोध इति. एवमाद्याकारप्रवृत्तं स्थानास्थानज्ञानबलम् अवगंतव्यं. अष्टौ कर्मफल इति. कर्मणः सास्रवस्य तद्विपाकस्य च दुःखसमुदयसत्यसंगृहीतत्वात्. निरोधमार्गज्नाने न भवत इति. अतो ऽन्यानि तदालंबनानि अष्टौ ज्ञानानि संभवन्ति.

ध्यानाद्यक्षाधिमोक्षेष्व्

इति विस्तरः. ध्यानम् आदिर् आसाम् इति ध्यानादयो ध्यानविमोक्षसमाधिसमापत्तयः. ध्यानानि चत्वारि. विमोक्षा अष्टौ. समाधयस् त्रयः शून्यताद्याः. समापत्ती द्वे. असंज्ञिनिरोधसमापत्ती. नवानुपूर्वविहारसमापत्तयः. अक्षाणीन्द्रियाणि. अधिमोक्षाश् चैतसिकाः. ध्यानादयश् चाक्षाणि चाधिमोक्षाश् चेति द्वन्द्वः. तेषु नव ज्ञानानि निरोधज्ञानं हित्वा. कथं कृत्वा. ध्यानादीनां सास्रवानास्रवसंप्रयुक्तविप्रयुक्तभेदात् तदालंबनानि नव ज्ञानानि संभवन्ति. निरोधज्ञानं तु न भवति. [तेषां सन् निरोधज्ञानं तु न भवति.] तेषां संस्कृतत्वात्. इन्द्रियेष्व् अपि श्रद्धादिषु. [तिब्. 310अ] यत् प्रधानाप्रधानज्ञानं मृदुमध्याधिमात्रेन्द्रियभेदेन. तत् परापरज्ञानबलं. तेष्व् अपि सास्रवानास्रवभेदभिन्नेषु नव ज्ञानानि संभवन्ति निरोधज्ञानं हित्वा. प्रधानादिषु रुचयो नानाधिमुक्तयः. ताः पुनः सास्रवानास्रवास् त्रैधातुकाश् च तदालम्बनत्वात् निरोधज्ञानं हित्वा. एवं नानाधातुज्ञानबलं. तत्र हि धातुः पूर्वाभ्यासवासनासमुदागत आशयो धातुर् इत्य् आचार्यसंघभद्रः. स पुनस् तु एव ते चित्तचैत्ता विशिष्टाः. तेषां तथैव सास्रवानास्रवभेदभिन्नानां निरोधज्ञनं हित्वा नव ज्ञानानि भवन्तीति पूर्ववद् योज्यं. प्रतिपत्स्व् इति विस्तरः. बह्व्यो ऽत्र प्रतिपदो नरकादिगामिन्यः. नरकगामिनी प्रतिपत् (अभिध्-क्-व्य् 644) यावद् देवगामिनी. निरोधगामिनि च. तत्र या नरकादिगामिन्यः प्रतिपदः. ता हेतुः. प्रतिपद्यन्ते ताभिर् इति कृत्वा. मार्गो हि प्रतिपद्य् उचते. तेन हि विसंयोगः प्रतिपद्यते. निरोधस् तु कथं. स चापि प्रतिपत्. प्रतिपद्यते तम् इति कृत्वा. प्रतिपत्फलं वा प्रतिपद् इत्य् उच्यते.

अत एवाह. यदि सफला प्रतिपद् गृह्यत इति. हेतुर् हि सर्वत्रगामिनि प्रतिपद् इहेष्यते. [तिब्. 310ब्] तथा हि व्याचक्षते. सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् इति. सत्कायसमुदयगामिनीत्य् अर्थ इति. तत्र सत्कायः पंचोपादानस्कंधाः. समुदय उत्पाद इहाभिप्रेतः. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. सत्कायनिरोधो विसंयोगः. तत्र सर्वत्र गंतुं शीलम् अस्या इति सर्वत्रगामिनी चासौ प्रतिपच् च सर्वत्रगामिनीप्रतिपत्. तत् ज्ञानं तद् एव च बलम् इति. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. तद् दश ज्ञानानि योज्यानि. यदि निरोधज्ञानम् एवास्रवक्षयज्ञानम् इति. आस्रवाणां क्षये निरोधे ज्ञानम्. आस्रवनिरोधालम्बनं ज्ञानम् इत्य् अर्थः. एवं सति षड् ज्ञानानि भवन्ति. निरोधज्ञानजातिर् एव धर्मज्ञानादिभेदभेदिनीकृत्वा. अथ क्षीणास्रवसंतान इति. आस्रवक्षये सति यज् ज्ञानं. तद् आसवक्षयज्ञानम् इत्य् अर्थः. क्षीणास्रवसंताने सर्वाणि ज्ञानानि समुदाचरन्तीति दश ज्ञानानि भवंति.

अन्यत्र बुद्धानुत्पादाद् इति. जंबूद्वीपाद् अन्यत्र बुद्धानुत्पादद् इति जंबूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेर् इत्य् अभिप्रायः.

तद् एव दशविधज्ञानम् अन्यस्य बलं नोच्यत इति. अन्यस्याप्य् एतद् अस्ति न तु बलं व्याहतत्वात्. [तिब्. 311अ] यत् त्व् अव्याहतं. तद् बलम् आवेणिक इत्य् अभिप्रायः. प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानम् इति विस्तरः. प्रव्रजनं प्रव्रज्या प्रेक्ष्यते प्रव्रजनप्रेक्षः. तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानं. तद् उदाहरणं यथा अन्यस्य व्याहन्यते ज्ञानम् इति. आर्यशारिपुत्रेण किल कस्यचित् प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीयं कुशलमूलं व्यवलोकयता न दृष्टम् इति प्रत्याख्यातो न प्रव्राजित इत्य् अर्थः. भगवता तु दृष्टं प्रव्राजितश् च. तं चाधिकृत्य भिक्षुभिः प्र्ष्टेन भगवतोक्तं. अनेनैवेदं कर्म कृतं. यद् अर्हत्त्वं प्राप्ता. न हि कर्माणि पृथिवीधातौ विपच्यन्ते. नाब्धातौ न तेजोधातौ न वायुधातौ. अपि तूपात्तेष्व् एव स्कंधधात्वायतनेष्व् इति विस्तरः. इदं चोक्तं.

मोक्षबीजम् अहं ह्य् अस्य स्वसूक्ष्मम् उपलक्षये. धातुपाषाणविवरे निलीनम् इव काञ्चनम्

इति. उपपत्त्यादिपर्यन्ताज्ञानं चेति. आदिशब्देन च्युतिपर्यन्ताज्ञानं.

(vii.37) नारायणं बलम्

इति. बलस्येयं संज्ञा नारायणम् इति. यस्य च तद् बलम्. असाव् अपि नारायण इत्य् उच्यते. चाणूरमहानग्नवत्.

भदन्त इति [तिब्. 311ब्] दार्ष्टांतिकः स्थविरः. अन्यथा हीति. यदि मानसवत् कायिकबलं नेष्यते. अनंतस्य ज्ञानबलस्य सहिष्णुर् न स्यात्. सहनशीलो भगवान् न भवेद् इत्य् अर्थः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.