Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अत्र कश्चिद् आह. यद् उच्यते. यस्य यत् प्रथमं गोत्रं. स तस्मान् न परिहीयते शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति. तद् एतद् अकारणं. यस्माद् यो ऽपि चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयते. तद् गोत्रं शैक्षाशैक्षाभ्यां मार्गाभ्यां दृढीकृतम् इति. परिहाणिर् न प्राप्नोति. तस्मात् गोत्रम् एव तत् तादृशं यस्माद् आद्यान् न परिहीयते. उत्तापनागतात् तु परिहीयत इति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वान् न परिहीयत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन मार्गेण दृढीकृतम् इति. कर्तव्यो ऽत्र यत्न इति.
अत्र वयम् आचार्यस्याभिप्रायं दर्शयामो येनैवम् उक्तं. कथम् इति. यत् तावद् उक्तं चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयत इति. तद् अयुक्तं. यद् धि चेतनाधर्मगोत्रं शैक्षावस्थायां भावितं पुनश् चाशैक्षावस्थायाम् अपि भावितम् इति दृढीकृतं. नैव स तस्माद् अर्हत्त्वात् परिहीयमाणः परिहीयते. शैक्षावस्थायां प्रथमीभूतत्वात्. उक्तं चाचार्यसंघभद्रेण यः शैक्षावस्थायां गोत्रांतरम् अधिगम्यार्हत्त्वं प्राप्नोति. असाव् [तिब्. 250अ] अपि तं मार्गं परित्यजति. न चोत्तापनागत एव गोत्रे नावतिष्ठत इति. यत् तु चेतनाधर्मगोत्रम् अशैक्षावस्थायाम् इदानीम् एवाधिगतं न शैक्षावस्थायाम् अधिगतं. स तस्मात् परिहीयमाणः परिहीयते. तदवस्थाद्वयादृढीकृतत्वात्. इति न कारणम् एवैतद् भवति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतत्वान् न परिहीयेत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन लोकोत्तरेण दृढीकृतम् इति. तद् अप्य् अनवबुद्ध्याभिहितं. तद् गोत्रं प्रति कारणम् उच्यते. न फलं प्रति. तत्र हि कारणांतरं वक्ष्यते. येन प्रथमात् फलान् न परिहीयते. न हि किंचिद् अप्य् अस्ति फलं यद् युगपद् उभाभ्यां लौकिकलोकोत्तराभ्यां प्राप्यते. गोत्रं तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतं भवति. ऐहजन्मिकेनोष्मगतादिना पारजन्मिकेन वा प्रहाणमार्गेणान्येन वा लौकिकेन मार्गेण लोकोत्तरेण शैक्षावस्थायां भावितत्वात्. यत् तु पश्चात्प्रतिलब्धम् उत्तापनयेति. यद् आगंतुकं गोत्रं पश्चाद् एव न द्वयोर् अवस्थयोर् अधिगतं तस्मात् [तिब्. 250ब्] परिहीयते.
गोत्रं निर्दिश्य फलं निर्दिश्यते. यस्य च यत् प्रथमं फलम् इति विस्तरः. अत एव च स्रोतआपत्तिफलान् नास्ति परिहाणिर् इति. यस्मात् स्रोतआपत्तिफलं यदि प्राप्यते ऽवश्यं प्रथमं भवति. सकृदागाम्यनागामिफले तु कदाचित् तु प्रथमे भवतो यदि भूयोवीतरागकामवीतरागयोः. कदाचिद् अप्रथमे यद्य् आनुपूर्विकस्य. तत्र यद्यत् फलं प्रथमं भवति स्रोतआपत्तिफलं सकृदागामिफलं अनागामिफलं वा. न तस्मात् परिहीयते. यत् तु पश्चात् सकृदागामिफलम् अनागामिफलं अर्हत्त्वफलं वा. ततः परिहीयते. एवं च कृत्वेति. यस्य च यत् प्रथमं गोत्रं फलं च. स तस्मान् न परिहीयत इति कृत्वा. यथाक्रमं पंच षट् सप्त प्रकारा इति. अनुरक्षणाधर्मणः पंच प्रकारा भवंति. तदवस्थस्य परिनिर्वाणम् इन्द्रियसंचारः परिहाय वा शैक्षत्वं चेतनाधर्मगोत्रप्रत्यागमनं परिहाणधर्मगोत्रप्रत्यागमनं च. स्थिताकंप्यस्य षट् प्रकारा भवंति. (अभिध्-क्-व्य् 587) त एव च पंच अनुरक्षणाधर्मगोत्रप्रत्यागमनं षष्ठं. प्रतिवेधनाभव्यस्य सप्त प्रकारा भवंति. एत एव च षट् स्थिताकंप्यगोत्रप्रत्यागमनं च सप्तमम् इति. यस्य च यत् [तिब्. 251अ] प्रथमं गोत्रं शैक्षावस्थायाम् आसीत्. स शैक्षीभूतः. पुनर् इति वाक्याध्याहारः. तत्रैवावतिष्ठते नान्यस्मिन्. अन्यथा हि गोत्रविशेषलाभाच् छैक्षावस्थाद् गोत्राद् विशिष्टं तद् गोत्रं भवतीति. अतो विशिष्टगोत्रलाभात् वृद्धिर् एवास्य पुद्गलस्य स्यात्. न परिहाणिर् इति. कथं कृत्वा. यथा तावत् परिहाणधर्मा अर्हत्त्वावस्थायाम् इन्द्रियोत्तापनया प्रतिवेधाभव्यताप्राप्तः. सो ऽर्हत्त्वात् परिहीयते. शैक्षीभूतस् तद्गोत्राद् अपि परिहीयमाणो न स्थिताकंप्यगोत्रे तिष्ठति. प्रतिलोमतो यावन् न चेतनाधर्मगोत्रे. किं तर्हि. परिहाणधर्मगोत्र एव तिष्ठतीति. अन्यथा हीति यद्य् अन्यगोत्रे ऽवतिष्ठेत. गोत्रविशेषलाभाद् इति परिहाणधर्मगोत्रविशिष्टगोत्रलाभात्. तस्माद् अवश्यम् अर्हत्त्वात् परिहीयमाण इन्द्रियोत्तापनाद् अपि गोत्रात् परिहीयत इति.
किं पुनः कारणं प्रथमात् फलान् नास्ति परिहाणिर् इति. यस्य यत् प्रथमं फलं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा. दर्शनहेयानाम् अवस्तुकत्वाद् अनधिष्ठानत्वाद् इत्य् अर्थः. आत्माधिष्ठानप्रवृत्ता ह्य् एत इति विस्तरः. आत्मनो ऽधिष्ठानेन प्रवृत्ता एते दर्शनहेयाः. कस्माद् इत्य् आह. सत्कायदृष्टिमूलत्वात्. यस्माद् [तिब्. 251ब्] आत्मदर्शनवशेन दर्शनहेयानां समुदाचारः. उक्तं च यानि वा पुनः पृथग् लोके दृष्टिगतानि. तानि सत्कायदृष्टिमूलकानि सत्कायदृष्टिसमुदयानि सत्कायदृष्टिजातीयानि सत्कायदृष्टिप्रभवानीति. स चात्मा नास्तीत्य् अवस्तुकत्वान् नास्ति परिहाणिर् इति. सत्यालंबनत्वाद् इति. सत्यानां नित्यादितो ग्रहनात्. कतमश् च क्लेशो नैवं. भावनाप्रहातव्यो ऽपि हि रागादिर् वितथालंबनः. शुचिसुखनित्यात्माकारैः सत्यादितत्त्वालंबनात्. आत्मत्वम् अभूतम् अध्यारोपयंतीति. यथोक्तं. ये केचिद् भिक्षव आत्मेति आत्मीय इति समनुपश्यंतः समनुपश्यंति. इमान् एव ते पंचोपादानस्कन्धान् आत्मत आत्मीयतश् च समनुपश्यंतीति. तदधिष्ठानानुप्रवृत्ताश् चांतग्राहादय इति. आत्माधिष्ठानानुप्रवृत्ताः. शाश्वत आत्मा. उच्छेदीति वा. नास्त्य् आत्मा. अयम् एवाग्रः. इयम् एव शुद्धिः. किम् असाव् अस्ति नास्तीत्येवमाद्याकारप्रवृत्तास् तदन्यद्दर्शनहेया अवस्तुका उच्यंते. निरधिष्ठाना उच्यंत इत्य् अर्थः. न त्व् आत्मादिलेशो ऽस्तीति. आदिग्रहणेनात्मीयग्रहणं ईश्वरादिग्रहणं वा. [तिब्. 252अ] प्रतिनियतं मनआपामनआपादिलक्षणम् इति. रागस्य भावनाहेयस्य मनआपं केशदंतशुभादिलक्षणं (अभिध्-क्-व्य् 588) वस्तु. प्रतिघस्यामनआपं तदशुभतादिलक्षणं. मानस्यापि मनआपं अविद्याया अपि तद् एव द्वयं संमोहनीयं किंचिद् इति. न तु दर्शनहेयानाम् आत्मादिलक्षणम् इति. न तु दर्शनहेयानाम् आत्मात्मीयलक्षणं प्रतिनियतं वस्तु किंचिद् अस्ति. अन्यत्र तदालंबनेभ्यो रागादिभ्यः. तस्माद् अवस्तुका उच्यंते. तस्मान् न प्रतिनियतवस्तुका उच्यंत इत्य् अर्थः.
अपि खल्व् इति विस्तरेणाचार्यः. आर्यस्य शैक्षस्यानुपनिध्यायतो ऽसंतीरयतः स्मृतिसंप्रमोषात् क्लिष्टस्मृतियोगात् क्लेश उत्पद्यते. रागादिकः. नोपनिध्यायतः. रज्ज्वाम् इव सर्पसंज्ञा कस्यचिद् अनुपनिध्यायतः स्मृतिसंप्रमोषाज् जायते. नोपनिध्यायतः. तद्वत्. आत्मदृष्ट्यादीनाम् इति. अंतग्राहदृष्ट्यादीनां ग्रहणं. किं पुनः कारणं. न चानुपनिध्यायत आत्मदृष्ट्यादीनाम् उत्पत्तिर् युज्यते. संतीरकत्वात्. केषाम्. आत्मदृष्ट्यादीनां क्लेशानां. अतो ऽनुपनिध्यानाद् आर्यस्यात्मदृष्ट्यादीनाम् उत्पत्तिर् न युज्यत इति. परिहाणिकारणाभावान् नास्ति दर्शनहेयप्रहाणात् [तिब्. 252ब्] परिहाणिर् इति.
अर्हत्त्वाद् अपि नास्तीति. न केवलं दर्शनहेयप्रहाणान् नास्ति परिहाणिर् अर्हत्त्वाद् अपि नास्ति परिहाणिर् इत्य् अपिशब्देन दर्शयति. अप्रथमाभ्यां तु सकृदागाम्यनागामिफलाभ्यां परिहाणिः संभवति. लौकिकेन मार्गेण तत्प्राप्तिसंभवाद् इत्य् अभिप्रायः. एष एव च न्याय इत्य् आचार्यः समर्थयति. तद् धि भिक्षवः प्रहीणम् इति. तद् एव प्रहीणं. यद् आर्यप्रज्ञया प्रहीणं. तद् धि न पुनर् उत्पद्यते. लौकिक्या तु यत् प्रहीणं. तत् पुनर् उत्पद्यत इत्य् अभिप्रायः. शैक्षस्य चाप्रमाद इति विस्तरेण द्वितीयं सूत्रपदं ज्ञापकम् अर्हत्त्वान् नास्ति परिहाणिर् इति. अयं चास्यार्थः शैक्षस्याप्रमादनिमित्तम् अप्रमादकर्म प्रवेदयाम्य् अप्रमादः शैक्षेण कर्तव्य इति.
ननु च शैक्षस्याप्य् आर्यया प्रज्ञया प्रहाणम् अस्ति. कथं तस्याप्रमादकरणीयं शास्तीति. यस्माद् अनधिगतम् अनेन फलांतरम् अधिगंतव्यं. लौकिकमार्गगतं च तस्य प्रहाणम् अस्तीति. अत्र वैभाषिको ब्रूयाद् अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति सूत्रे वचनाद् अस्त्य् अर्हतो ऽपि परिहाणिर् इत्य् अत इदम् उच्यते. अर्हतो ऽपि विस्तरेण यावद् अत्र सूत्रे दृष्टधर्मसुखविहारमात्राद् एव परिहाणिर् उक्तेति. [तिब्. 253अ] कथं. यत्र भगवान् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. आयुष्मान् आनन्द आह. तत् कस्माद् भगवान् एवम् आह. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. भगवान् आह. न हैवानन्दाप्राप्तस्य प्राप्तये. अनधिगतस्याधिगमाय. असाक्षात्कृतस्य साक्षात्क्रियायै. अपि तु ये ऽनेन चत्वार (अभिध्-क्-व्य् 589) आधिचैतसिका दृष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामि. तच् चाकीर्णस्य विहरतः. या त्व् अनेनैकाकिनाव्यपकृष्टेनाप्रमत्तेनातापिना प्रहितात्मना विहरता अकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता. ततो ऽस्याहं न केनचित् पर्यायेण परिहाणिं वदामि. तस्मात् तर्ह्य् आनन्दैवं ते शिक्षितव्यं. यल् लाब्बसत्कारम् अभिभविष्याणो न चात्यन्तैर् लाभसत्कारकैश् चित्तं पर्यादाय स्थास्यति. एवं ते आनन्द शिक्षितव्यम् इति. यदि वैभाषिक एवं ब्रूयात्. अकोप्या इति विशेषणात् सामयिक्या अस्ति परिहाणिर् इति. तत आह. सामयिक्या अस्तीति चेद् इति. वयम् अप्य् एवं ब्रूमः. सामयिक्या अस्ति परिहाणिर् इति. सा तु विचार्या सा तु सामयिकी विमुक्तिर् विचार्या. कथम् इत्य् आह. किम् अर्हत्त्वं सामयिकी विमुक्तिर् अस्ति. [तिब्. 253ब्] आहोस्विद् ध्यानान्य् एव लौकिकानि सामयिकी विमुक्तिर् इति. कस्माद् एवम् आशंक्यत इत्य् आह. मौलो हि ध्यानसमाधिर् इति. ध्यानम् एव समाधिर् ध्यानसमाधिः. मौलध्यानग्रहणं सुखप्रतिपदाम् अग्रत्वात्. समये संमुखीभावात्. कस्मिंश्चित् काले निःशब्दादिके संमुखीभावात्. समये भवा समायिकी विमुक्तिर् इत्य् उच्यते. पुनःपुनर् एषणीयत्वात् कांतेति. परिहाणौ परिहाणौ कमनीयत्वात् प्रार्थनीयत्वाद् इत्य् अर्थः.
आस्वादनीयत्वाद् इत्य् अपर इति भदंतरामः. सास्रवत्वाद् आस्वादनासंप्रयुक्तध्यानयोगात् कांतेत्य् अभिप्रायः. अर्हत्त्वविमुक्तिस् त्व् इति विस्तरः. अर्हत्त्वम् एव विमुक्तिर् अर्हत्त्वविमुक्तिः. नित्यानुगतत्वात् प्राप्तियोगेन. न युज्यते सामयिकीत्य् अनेन सामयिक्या विमुक्तेर् विपर्ययेणार्हत्त्वविमुक्तिं दर्शयति. अपुनःप्रार्थनीयत्वान् न कांतेत्य् अनेन कांतविपर्यये ऽर्हत्त्वविमुक्तिर् न कांतेति. नित्यानुगतत्वेनास्तित्वाद् अप्रार्थनीयत्वान् न कांतेत्य् अर्थः.
आधिचैतसिकेभ्य एवेति. अधिचेतसि भवा [तिब्. 254अ] आधिचैतसिका दृष्टधर्मसुखविहाराः. तेभ्य एव. किम् अर्थं परिहाणिम् अवक्ष्यद् इति. ये ते चैतसिका द्र्ष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति वचनात्. यद्य् अर्हत्त्वात् सामयिकी विमुक्तिलक्षणात् परिहाणिसंभवो ऽभविष्यत्. किम् अर्थं तेभ्य एव परिहाणिम् अवक्ष्यत्. न तेभ्य एव परिहाणिम् अवक्ष्यद् इत्य् अर्थः. वशित्वभ्रंशाद् इति. समाधिसंमुखीभाववशित्वभ्रंशाद् इत्य् अर्थः. सो ऽपरिहाणधर्मेति. अपरिहाणधर्मा अकोप्यधर्मणो ऽन्यः सूत्रे पठितः. अष्टादशशैक्षान् विस्तरेणोक्त्वाह. नवाशैक्षाः कतमे. परिहाणधर्मा. अपरिहाणधर्मा. चेतनाधर्मा. अनुरक्षणाधर्मा. स्थिताकंप्यः. प्रतिवेधनाभव्यः. अकोप्यधर्मा. (अभिध्-क्-व्य् 590) प्रज्ञाविमुक्तः. उभयतोभागविमुक्तः. इम उच्यंते नवशैक्षा इति. यः परिहीयते दृष्टधर्मसुखविहारेभ्यः. स परिहाणधर्मा. यो न परिहीयते तत एव. सो ऽपरिहाणधर्मा. एवं [तिब्. 254ब्] चेतनाधर्मादयो ऽपि योज्याः. कथं. यः समाधिभ्रंशभयाद् आत्मानं चेतयते. स चेतनाधर्मा. यो ऽनुरक्षति कथंचिद् गुणविशेषं. सो ऽनुरक्षणाधर्मा. यो यस्मिन्न् एव गुणे स्थितः. तस्माद् अननुरक्षन्न् अपि न कंप्यते. स स्थिताकंप्यः. यः परेण प्रतिविध्यति. गुणविशेषम् उत्पादयतीत्य् अर्थः. स प्रतिवेधनाभव्यः. यो न कुप्यति उत्पन्नेभ्यो न परिहीयते. सो ऽकोप्यधर्मा.
को विशेष इति. अपरिहाणधर्मादीनां त्रयाणाम् अपरिहाणियोगाद् विशेषम् अपश्यन् प्रश्नयति. अनुत्तापनागत इति. स्वभावतस् तीक्ष्णेन्द्रियः. नेंद्रियोत्तापनां प्राप्त इत्य् अर्थः. तस्मान् न कंप्यत इति. तस्मात् गुणविशेषाद् इत्य् अर्थः. एष विशेषो लक्ष्यत इति. आचार्यः स्वमतं दर्शयति. ननु चायुष्मान् गौतिको ऽर्हत्त्वात् परिहीण इत्य् एवं यदि वैभाषिको ब्रूयाद् इत्य् अस्य प्रतिविधानम् आरभ्यते. आयुष्मान् गौतिक इति विस्तरः. शैक्षीभूत इति न तावद् अर्हन्. शस्त्रम् आधारयन्न् इति. शस्त्रं वाहयन्. कायजीवितनिरपेक्षत्वात् कारणान् मरणकाल एवार्हत्त्वं प्राप्तः. शस्त्राधाराद् उत्तरकाल इत्य् अर्थः. [तिब्. 255अ] परिनिर्वृत्तश् च तेनैव शस्त्रप्रहारेण.
दशोत्तरे चेति. दशोत्तरनामसूत्रे. किम् उक्तम् इत्य् आह. एको धर्म उत्पादयितव्यः. कतम इत्य् आह. सामयिकी कांता चेतोविमुक्तिर् इति. दृष्टधार्मसुखविहार इत्य् अभिप्रायः. एको धर्मः साक्षात्कर्तव्यः. कतम इत्य् आह. अकोप्या चेतोविमुक्तिर् इति. अर्हत्त्वम् इत्य् अभिप्रायः. पृथग्वचनाद् ध्य् अकोप्यविमुक्तिलक्षणाद् अर्हत्त्वाद् अर्हत्त्वस्वभावा न कांता चेतोविमुक्तिर् उक्तेत्य् अभिप्रायः. द्विप्रकारत्वाद् अर्हत्त्वस्य पृथग्वचनम् इति वैभाषिकवचनावकाशं पश्यन् पुनर् आह. यदि चार्हत्त्वम् इति विस्तरः. यद्य् अर्हत्त्वम् एव सामयिकी कांता चेतोविमुक्तिर् अभविष्यत्. किम् अर्थं तत्रैव दशके न सूत्रांतरे अर्हत्त्वस्य द्विग्रहणम् अकरिष्यत्. एको धर्मः साक्षात्कर्तव्यः. अकोप्या चेतोविमुक्तिर् इति. नैवाकरिष्यद् इत्य् अर्थः. एवं ह्य् अवक्ष्यत्. एको धर्मः साक्षात्कर्तव्यश् चेतोविमुक्तिर् इति. ब्रूयास् त्व् अर्हत्त्वं द्विप्रकारम्. अतो वचनविभागेनोच्यते. एकम् उत्पादयितव्यं द्वितीयं साक्षात्कर्तव्यम् इति. अत्र ब्रूमः. न च क्वचिद् अर्हत्त्वम् उत्पादयितव्यम् उक्तं. [तिब्. 255ब्] किं तर्हि. साक्षात्कर्तव्यम् इति. तत्रतत्र सूत्रे. अभ्युपेत्यापि ब्रूमः. मृद्विन्द्रियसंगृहीतं चोत्पादयितव्यम् इति. किम् अनेन ज्ञापनेन ज्ञापितं कथितं भवति. यदि तावद् उत्पादयितुं शक्यम् इत्य् एतज् ज्ञापितं भवति. (अभिध्-क्-व्य् 591) शकि लिङ् चेति कृत्यप्रत्ययलक्षणात्. अन्यद् अपि शक्यं यत् तीक्ष्णेन्द्रियसंगृहीतम् अर्हत्त्वं. तथा च सत्य् एवं सूत्रे वक्तव्यं स्यात्. एको धर्म उत्पादयितव्यः. चेतोविमुक्तिर् इति. अथोत्पादनम् अर्हतीत्य् एतज् ज्ञापितं भवति. अर्हे कृत्यतृचश् चेति लक्षणपरिग्रहात्. अन्यत् सुतराम् अर्हति यत् तीक्ष्णेन्द्रियसंगृहीतम्
अर्हत्त्वं. तद् ध्य् अकोप्यत्वात् सुष्ठूत्पादयितुम् अर्हतीत्य् अभिप्रायः. कथं तर्हीति विस्तरः. यदि सामयिकी विमुक्तिर् अर्हत्त्वं भवति. एवं तद्योगात् समय विमुक्तो ऽर्हन्न् इति युज्यत इत्य् अभिप्रायः. समयापेक्षः समाधिसंमुखीभाव इति. यस्माद् अस्य समाधिः सास्रवो ऽनास्रवो ऽपि वा समयम् आरोग्यदेशविशेषादिलक्षणम् अपेक्षते. अभिधर्मे ऽपि चोक्तम् इति विस्तरः. कामरागानुशयो ऽप्रहीणो भवतीत्य् एतद् उदाहरणम्. इदं चाप्य् उदाहरणं. तत्र चायोनिशोमनस्कार इति. परिपूर्णोत्पत्तिर् एवम् इति चेत्. स्यान् मता परिपूर्णकारणस्य क्लेशस्यैवम् उत्पत्तिः. अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलाद् एवेति. [तिब्. 256अ] तद् अयुक्तं. कस्माद् इत्य् आह. कस्य वापरिपूर्णकारणस्योत्पत्तिर् इति. कस्योत्पत्तिः. यतः अपरिपूर्णकारणस्योत्पत्तिर् अस्ति. यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा. सा तदेकदेशविकला सती तस्योत्पत्तये न भवति. तद्यथा चक्षू रूपालोकमनस्कारसामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा. स तदन्येतरविकला सती तदुत्पत्तये न भवतीति. तस्मान् न किंचिद् एतत्.
तद्रूप इति तत्प्रकारः. तत्स्वभाव इति वा. अथ नोत्पन्न इति प्रतिपक्षः तद्बीजधर्मतायाम् इति. क्लेशबीजस्वभाव इत्य् अर्थः. तस्याम् अनपोद्धृतायाम् अनुन्मूलितायां कथं क्षीणास्रवो भवतीति. ब्रूयास् त्वं न भवतीति. अत आह. अक्षीणास्रवो वा कथम् अर्हन् भवतीति.
एवंचरत इति. स्मृतिमतश् चरत इत्य् अर्थः अनंतरं स्मृतिवचनात्. शैक्षस् स इत्य् अस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्य् आह. स हि तत्रार्हन्न् एव ज्ञापित इति. कथं कृत्वा ज्ञापित इत्य् आह. दीर्घरात्रम् इति विस्तरः. अपरिहाणिवादिनः स्याद् एवं वचनावकाशः. शैक्षस्येदं विवेकनिम्नचित्तम् उच्यते यावन् निर्वाणप्राग्भारम् इति. अस्य परिहारार्थं परिहाणिवादी पुनर् आह. अर्हतो ह्य् एतद् बलम् अन्यत्रोक्तम् इति सूत्रे. कथं. कति भदंतार्हतो भिक्षोः क्षीणास्रवस्य बलानि. [तिब्. 256ब्] अष्टौ शारिपुत्रार्हतो भिक्षोर् दीर्घरात्रं विवेकनिम्नं चित्तं यावन् निर्वाणप्राग्भारं. अंगारकर्षूपमाश् चानेन कामा दृष्टा भवंति. यथास्य कामान् जानतः कामान् पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत् कामाध्यवसानं. तत्रास्य चित्तं न पर्यादाय तिष्ठतीति विस्तरः. किं च शीतीभूतं (अभिध्-क्-व्य् 592) वांतीभूतम् इति चाभिधानात्. तत्रैवांगारकर्षूपमे सूत्रे ऽर्हन्न् एव ज्ञापित इति.
अस्त्य् एतद् एवम् इति. अंगारकर्षूपमे यद् उक्तम् अर्हन्न् एव ज्ञापित इति. यावत् तु चारो न सुप्रतिविद्ध इति. पिण्डपातादिचारः. शैक्षावस्थाम् अधिकृत्यैवंवचनाद् अदोष इति. यद् एतद् उक्तं. कदाचित् स्मृतिसंप्रमोषाद् उत्पद्यंते पापका अकुशला वितर्का इति. तच् छैक्षाम् अधिकृत्योक्तं नार्हत्त्वावस्थां. यत् तूक्तं दीर्घरात्रं विवेकनिम्नं इति. तच् छैक्षस्यापि संभवति. अर्हतस् तु प्रकर्षेण भवतीति विशेषाः. यच् चाप्य् उक्तं सास्रवस्थानीयैर् धर्मैः शीतीभूतं वांतीभूतम् इति. तद् अपि शैक्षावस्थाम् अधिकृत्य संभवति. कामावचरास्रवस्थानीयधर्मशीतीभावाभिधानात्. [तिब्. 257अ] अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाद् अदोष इति आचार्यस्याभिप्रायः.
(vi.60च्द्) प्रयोगासंभवान् न दर्शनमार्ग इति. पंचदशक्षणो दर्शनमार्गः. तत्रेन्द्रियसंचारे प्रयोगावकाशो नास्ति. कश्चित् पृथग्जनावस्थायाम् इन्द्रियाणि संचरतीति. [किम् अनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि संचरति.] किम् औदारिकाद्याकारेण मार्गेणेन्द्रियाणि संचरति. उताहो शांताद्याकारेणेति. अविशेषितत्वाद् उभयथापि संभवतीति पश्यामः. तथा ह्य् एनम् अर्थम् आचार्यः सूचयिष्यति. न हि सास्रवेण मार्गेणार्याणाम् इन्द्रियसंचार इत्य् आर्याणाम् इति विशेषणात्. अपि नाम ममेन्द्रियाणि तीक्ष्णानि स्युर् इति प्रयोगम् अभिसंधाय. मार्गं लौकिकं लोकोत्तरं चान्यस्यानंतर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि संचरतीति वेदितव्यं. कश्चिच् छ्रद्धाधिमुक्तावस्थायाम् इत्य् अत्राशैक्षवचनं. शैक्षपृथग्जनाधिकारात्. अशैक्षो ऽपि त्व् इंद्रियाणि संचरतीति बोद्धव्यं.
(vi.61) कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् इति. तीक्ष्नेन्द्रियत्वाद् अस्य दृष्टधर्मसुखविहारेभ्यः परिहाणिर् न संभवेत्. किम् उताकोप्याया विमुक्तेर् इत्य् असंभावयन् पृच्छति. बुद्धस्योपभोगपरिहाणिर् एवेति. विनेयकार्यव्यापृतत्वाद् [तिब्. 257ब्] दृष्टधर्मसुखविहारान् नोपभुंक्ते. न संमुखीकरोतीत्य् अर्थः. सा चाप्राप्तपरिहाणिश् चेति. अकोप्यधर्मणः सा चोपभोगपरिहाणिः कुतश्चिद् व्यासंगात्. अप्राप्तिपरिहाणिश् च पुद्गलविशेषधर्मप्रापणात्. यस्माद् अकोप्यधर्मापि कश्चिन् महाश्रावकाणाम् आर्यशारिपुत्रमौद्गल्यायनादीनां प्रांतकोटिकादीन् धर्मान्. स्वयंभुवां च कांश्चिद् धर्मान् न प्राप्नोति. महाश्रावका अपि स्वयंभुवां कांश्चिद् विशेषधर्मान् न प्राप्नुवंतीत्यादि. अन्यस्यार्हत इति परिहाणधर्मादेर् मृद्विन्द्रियस्य प्राप्तपरिहाणिर् अप्य् अस्ति. अपिशब्दात् पूर्वोक्त अपि (अभिध्-क्-व्य् 593) परिहाणी स्त इति. अकोप्यधर्मण उपभोगपरिहाणिवचनात् सूत्रविरोध इति. यद् एतद् उक्तं. ये ऽनेन चत्वार इति विस्तरेण. यावत् ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति. तस्य सुत्रस्याविरोधः. षण्णाम् अप्य् अर्हताम् अकोप्या विमुक्तिर् इत्य् उक्ते वैभाषिको ब्रूयात्. यदि सर्वस्यैवार्हतो ऽनास्रवा विमुक्तिर् अकोप्या. कस्माद् असमयविमुक्त एवाकोप्यधर्मा व्यवस्थापितो नान्य इति. अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् [तिब्. 258अ] अकोप्येति. सत्यम् अस्त्य् एतत्. अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. दृष्टधर्मसुखविहारेभ्यस् तु कश्चिल् लाभसत्कारव्याक्षेपदोषात् परिहीयते वशित्वभ्रंशात्. यो मृद्विन्द्रियः. कश्चिन् न परिहीयते. यस् तीक्ष्णेन्द्रियः. स एवाकोप्यधर्मा व्यवस्थापितः. यत एव च
दृष्टधर्मसुखविहारेभ्यो लाभसत्कारव्याक्षेपदोषात् परिहीयते. मृद्विन्द्रियो न तीक्ष्णेन्द्रियः. अत एतद् अचोद्यं. कथम्. अकोप्यधर्मणो दृष्टधर्मसुखविहारात् परिहाणिर् इत्य् अपरिहाणिवादी. अथ वा अयम् अन्यः संबंधः. पूर्वम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् नास्तीत्य् उक्तं. सूत्रे च. यस्याकोप्या विमुक्तिः. तस्य दृष्टधर्मसुखविहारात् परिहाणिर् उक्ता. अविशेष्याभिधानाद् अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् अकोप्येति. न तयैवाकोप्यधर्मा व्यवस्थाप्यत इत्य् अभिप्रायः. अत एवोच्यते अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. अत एतद् अचोद्यम् इति. यद् उक्तं सूत्रम् आश्रित्य कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणि इति.
(vi.62) धन्धा इति मन्दाः. अन्यथा ह्य् [तिब्. 258ब्] अनाश्वासिकम् इति. यद्य् अर्हत्त्वात् परिहीणः पुनर् जायेत सुचीर्णब्रह्मचर्ये ऽस्मिन् मार्गे चापि सुभाविते तुष्ट आयुःक्षयाद् भवति रोगस्यापगमे यथेत्य् आश्वासः. एवंविधो न स्याद् इति. तद् अकार्यम् अब्रह्मचर्यादिलक्षणं शूरप्रस्खलनापतनवद् इति. यथा शूरस्य प्रस्खलने अपतनं भवति शक्तित आत्मधारणात्. तद्वद् आर्यः फलात् परिहीणो ऽपि तत्फलम् अलब्ध्वा न म्रियते. शूरग्रहणम् अविह्वलत्वात्. बलवां छूर इत्य् अपरे.
(vi.63, 64) कथम् अभ्यस्तम् इत्य् आह. शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति प्रयोगमार्गस् तु सर्वत्रैक एवेति. अकोप्यप्रतिवेधे दृष्टिप्राप्ततायां च.
न हि सास्रवेणेति. आर्येन्द्रियसंचारस्य विवक्षितत्वात्. अन्यथा हि कश्चित् पृथग्जनावस्थायां इन्द्रियाणि संचरतीत्य् एतद् विरुध्यते.
नान्यत्र परिहाण्यसंभवाद् इति. परिहाणिभयाद् धीन्द्रियसंचार इष्यते. अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश् च परिहाणिर् नास्तीत्य् आह. ऊर्धव्धातूपपन्न आर्यो नैवेन्द्रियाणि संचरति. नापि कथंचित् (अभिध्-क्-व्य् 594) परिहीयते [तिब्. 259अ] इति. उक्तम् अत्र कारणं. कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात्. आश्रयविशेषलाभाच् चेति. अथ कस्मात् कामावचरेषु देवेषु परिहाणिर् नास्ति. ये पूर्वम् अभ्युदारेभ्यो ऽपि विषयेभ्यः संविजंतो नियतं सत्यानि पश्यंति. ते कथं तान् एवालंब्य परिहास्यंते. अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्य् अभिप्रायः.
अशैक्षो नव निश्रित्येति.
तत्फलस्य नवभूमिसंगृहीतत्वसंभवात्. फलं फलविशिष्टं चेति. फलं सकृदागामिफलं. फलविशिष्टं प्रथमध्यानादि प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणं. फलमार्गम् एव प्रतिलभत इति. कामधातुवैराग्यमात्रसंगृहीतं. न चानागामिफलम् आरूप्यसंगृहीतम् इति. पंचानाम् अवरभागीयानां प्रहाणाद् अनागामीति सूत्रे वचनात्. दर्शनमार्गस्य च तत्राभावात्. तदभावः कामधात्वनालंबनाद् इति व्याख्यातम् एतत्.
(vi.65अब्) अकोप्यधर्मा च द्विविध इति. सूत्रे पठितत्वात् अकोप्यभेद एव
द्वौ बुद्धाव्
इति. अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात् त्रिधा भिद्यते. श्रावको ह्य् अकोप्यधर्माधिमात्रमृद्विन्द्रियः. [तिब्. 259ब्] प्रत्येकबुद्धो ऽधिमात्रमध्येन्द्रियः. सम्यक्संबुद्धो ऽधिमात्राधिमात्रेन्द्रिय इति. मृदुमृद्वादिनवप्रकारेन्द्रियभेदाद् इति. परिहाणिधर्मा मृदुमृद्विन्द्रियो यावद् भगवान् अधिमात्राधिमात्रेन्द्रिय इति.
(vi.65च्द्, 66अब्) सप्त भवंतीति. प्रत्येकबुद्धसम्यक्संबुद्धाव् उभयतोभागविमुक्तसंगृहीताव् एवेति कृत्वा. पूर्वम् एवेति विस्तरः. पूर्वम् एव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा स्मृत्युपस्थानादीन् धर्मान्. पश्चाद् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनाद् इत्य् अर्थः. तथा पूर्वम् एव पृथग्जनावस्थायां प्रज्ञया द्वादशांगप्रवचनधर्मानुसारेण स्वयम् एवं बोधिपक्षादीन् धर्मान् अनुसरन्न् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनात्. इत्य् एवं प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः. श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति. श्रद्धाधिमोक्षाधिक्यतः प्रज्ञाधिक्यतश् च. श्रद्धयाधिमोक्षः श्रद्धाधिमोक्षः. तस्याधिक्यान् मृद्विन्द्रियत्वं. प्रज्ञाधिक्यात् तीक्ष्णेन्द्रियत्वं. विमुक्तित इति. क्लेशविमुक्तितः प्रज्ञया क्लेशाद् विमुक्तः प्रज्ञाविमुक्त इति कृत्वा. समापत्तिविमुक्तित इति. समापत्तितो विमुक्तितश् च.
तत्रेन्द्रियत [तिब्. 260अ] इति विस्तरः. यथैते श्रद्धानुसारिणो गण्यंते. तथा यथाग्रन्थं प्रदर्शयिष्याम. इन्द्रियतस् त्रयः. मृदुमध्याधिमात्रेन्द्रियत्वात्. (अभिध्-क्-व्य् 595) अत्र पुनर् एवम् अवगन्तव्यं. यद्य् अपि श्रद्धानुसारिणः सर्व एव मृद्विन्द्रियाः. तथापि तारतम्येनावस्थानाद् एषां पुनस् त्रिधाभेदः मृदुमध्याधिमात्रेन्द्रिया इति. गोत्रतः पंच. कथं. परिहाणधर्मगोत्रको यावत् प्रतिवेधनाभव्यगोत्रक इति पंच भवंति. पुनर् एषां गोत्रेन्द्रियभेदात् पंचदशानाम् एकैको मार्गतः पंचदश भवंति. कथम् इत्य् उच्यते. अष्टक्षान्तिसप्तज्ञानस्था इति. दर्शनमार्गो हि पंचदशक्षणाः. अष्टौ क्षान्तयः. दुःखे धर्मज्ञानक्षांतिर् यावन् मार्गे अन्वयज्ञानक्षान्तिः. सप्त ज्ञानानि. दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानस्य भावनामार्गसंगृहीतत्वात्. अष्टौ च सप्त च पंचदश भवन्ति. त एवं तत्रस्थाः पंचदश भवंति. एवम् एषां मार्गतः पंचदशधाभिन्नानां पुनर् एकैको वैराग्यतस् त्रिसप्ततिः. कथं. सकलबन्धनस् तावत् कामधाताव् एकः. कामवैराग्यान् नव. एकप्रकारवीतरागो यावन् नवप्रकारवीतरागः. एवं यावद् आकिंचन्यायतनवैराग्यान् नवेति. भवाग्रवैराग्यान् नवेति न संभवति. लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात्. त एते ऽष्टौ नवका द्विसप्ततिः. [तिब्. 260ब्] सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर् भवंति. पुनर् एते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः. प्रत्येकम् आश्रयतो नव. कथम् इत्य् आह. त्रिद्वीपषड्देवनिकायजा इति. त्रयो द्वीपा उत्तरकुरुवर्ज्याः. उत्तरकुरौ मार्गाभावात्. षड् देवनिकायाः कामावचराः. तत
ऊर्ध्वं दर्शनमार्गाभावात्. तेषु जाता इति. प्रत्येकम् एते नवगुणा भवंति. इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति. निगमन उच्यते. इयन्त इति वृत्तौ लिखिताः. एवम् अन्ये ऽपि पुद्गलाः संभवतः संख्येया इति. धर्मानुसारिप्रभृतयः. यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः. तथैव संख्येयाः संभवत इति. धर्मानुसारिदृष्टिप्राप्तसमयविमुक्तानां गोत्रभेदो नास्ति. श्रद्धाधिमुक्तसमयविमुक्तयोस् तु गोत्रभेदो ऽप्य् अस्तीति. संभवत इत्य् उच्यते. तत्रेन्द्रियतस् त्रयो धर्मानुसारिणः. गोत्रत एक एवेति भेदो नास्ति. मार्गतः पंचदश अष्टक्षान्तिसप्तज्ञानस्थाः. वैराग्यतस् त्रिसप्ततिः. सकलबन्धनः. कामवैराग्यान् नव. एवं यावद् आकिंचन्यायतनवैराग्यात्. [तिब्. 261अ] आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः. सहस्राण्य् एकान्नत्रिंशत् संपद्यंते. शतानि च पंच पंचषष्टिश् च. एवम् इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. गोत्रतः पंच प्रत्येकं. वैराग्यतस् त्रिसप्ततिः प्रत्येकमेव पूर्ववत्. आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः. नव सहस्राणि संपद्यन्ते. (अभिध्-क्-व्य् 596) शतानि चाष्टौ पंच पंचाशच् च. केवलफलस्थो षोडशचित्तप्राप्तो ऽधिकृतः.
श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदेत्य्
अनयो इह विवक्षितत्वात्.
भगवद्विशेषस् त्व् आह. मार्गतो नव भवंति. भावनामार्गस्थत्वाद् इति. तन् न बुध्यामहे केनाभिप्रायेणैवम् उक्तम् इति. यद्य् अयम् अभिप्रायो भवेत्. मार्गतो भूमौभूमौ नव भवन्तीति. वैराग्यतस् त्रिसप्ततिर् इति स एवार्थो दर्शितो भवेत्. ततव्यतिरेकाद् इति. युक्तं स्यात्. तद् एव हि परिमाणं स्यात्. अथ नवभूमिकानास्रवभावनामार्गस्थत्वान् नवत्वम् एषां व्यवस्थाप्येत. तथा सति. तत्परिमाणं पुनर् नवगुणीक्रियेत. एतावन्तश् च भवेयुर् अष्टाशीतिसहस्राणि. शतानि च षट्. पंचनवतिश् चेत्य् एवम् उत्तरत्रापि वक्तव्यं. यदि तु श्रद्धाधिमुक्त आ वज्रोपमात् समाधेर् गृह्येत. ततो ऽन्यथा गणयितव्यं. इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. [तिब्. 261ब्] गोत्रतः पंच प्रत्येकं. वैराग्यत एकाशीतिः त्रिसप्तत्तौ भवाग्राष्टप्रकारवीतरागान् अष्टाव् अधिकान् प्रक्षिप्य. आश्रयत एकान्नत्रिंशत्. कथं कामधातौ नवोपपत्तिस्थानानि. रूपधातौ षोडश स्थानानि. चत्वारश् चारूप्या इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः सहस्राणि पंचत्रिंशत्. शते च द्वे. पंचत्रिंशच् चेति. दृष्टिप्राप्तस्य गोत्रभेदो नास्ति. इन्द्रियवैराग्याश्रयतः पिण्डिताः सहस्रं संपद्यन्ते. शतानि च नव. एका सप्ततिश् च. यदि त्व् आ वज्रोपमात् समाधेर् दृष्टिप्राप्तो गृह्यते. तत एवं संख्यातव्याः. इन्द्रियवैराग्याश्रयतः पिण्डिताः. सप्तचत्वारिंशद् अधिकानि सप्त सहस्राणि संपद्यन्ते. कायसाक्षी श्रद्धाधिमुक्तदृष्टिप्राप्तयोर् अन्तर्भूत इति न गण्यते. यदि पुनर् गण्यते इन्द्रियतस् त्रयः. यदि श्रद्धाधिमुक्तः स कायसाक्षी गोत्रतः पंच. यदि दृष्टिप्राप्तो नास्ति गोत्रभेदः. मार्गत उभयोर् अपि नास्ति भेदः.
आकिंचन्यायतनवीतरागत्वात् वैराग्यतो ऽपि नास्ति भेदः. यद्य् अपि भवाग्रे सकलबन्दनः एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति. मार्गतो वैराग्यतो वास्ति भेदः. न तु मार्गवैराग्यकृतं कायसाक्षित्वम् इति. नास्य तत्कृतस् तद्भेदो व्यवस्थाप्यते. [तिब्. 262अ] आश्रयतो वा बहुधाभेदः. कामावचराश्रयत्वात् यावद् भवाग्राश्रयत्वाद् इति भगवद्विशेषः. कथम् आकाशानंत्यायतनाद्याश्रयः कायसाक्षी भवति. एवं तु युक्तं पश्यामः. आश्रयतः पंचविंशतिः. कामधातौ नवोपपत्तिस्थानानि. रूपधातौ च षोडश स्थानानिति. तत्र ह्य् आर्यो निरोधसमापत्तिम् उत्पादयेत्. यदि तु कामरूपाश्रयोत्पादितनिरोधसमापत्तियोगात् कायसाक्षीभूतस्यानागामिनः. तत्समन्वागममात्रप्रयोगात्. (अभिध्-क्-व्य् 597) पश्चाद् अपि भवाग्राश्रयं कायसाक्षित्वम् इष्येत. भवाग्रं षड्विंशतितम आश्रयः स्याद् इत्य् अवगन्तव्यं. एवम् इन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः. प्रज्ञाविमुक्तस्यापि भेदः. इन्द्रियतस् त्रयः प्रज्ञाविमुक्तः. गोत्रतः पंच. यदि समयविमुक्ताः. अथासमयविमुक्ता नास्ति भेदः. एवम् उभयतोभागविमुक्तो ऽपि योजयितव्यः.
(vi.66च्द्) प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वाद् इति. प्रज्ञाबलेन क्लेशावरणविमुक्तत्वात्. समाधिबलेन च विमोक्षावरणविमुक्तत्वात्. विमोक्षाः पुनर् अष्टौ वक्ष्यन्ते रूपी रूपाणि पश्यतीति विस्तरः. तत्र क्लेशावरणम् [तिब्. 262ब्] इति. क्लेशा एवावरणं. विमोक्षावरणं इति. विमोक्षाणाम् आवरणं. तत् पुनः कायचित्तयोर् अकर्मण्यता. यया विमोक्षान् उत्पादयितुं न शक्नोतीति.
(vi.67) क्लेशान् प्रहायेह हि यस् तु पंचेति. पंचावरभागीयानि संयोजनानि सत्कायदृष्ट्यादीन्य् उक्तानि. अहार्यधर्मेत्य् अपरिहाणिधर्मेत्य् अर्थः. फलत एवेति विस्तरः. श्रद्धाधिमुक्तत्वान् नेन्द्रियतः परिपूर्णत्वम्. अकायसाक्षित्वान् न समापत्तितः. अनागामित्वात् तु फलतः परिपूर्णत्वम् अस्ति. इन्द्रियत एवेति. दृष्टिप्राप्तत्वाद् इन्द्रियतः परिपूर्णत्वम्. अवीतरागत्वात् तु न फलतो नापि समापत्तितः. अनागामिफलसमापत्त्योर् अभावात् एवम् अन्येषाम् अपि संभवतो योज्यं. समापत्तित एवेति. समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्याम् इति नास्त्य् एतत्. कस्मात्. न ह्य् असत्याम् अनागामिफलप्राप्तौ निरोधसमापत्तिर् अस्ति. समापत्तीन्द्रियतश् च विना फलेनेति. समापत्तीन्द्रियत एव च परिपूर्णत्वं न फलत इत्य् एतद् अपि नास्ति. यस्माद् अनागामिफलम् अप्राप्तस्य निरोधसमापत्तिर् नास्तीति. इन्द्रियतः समापत्तितश् चेति. [तिब्. 263अ] तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया चेत्य् अर्थः. इन्द्रियत एवेति विस्तरः. असमयविमुक्तस्येति वचनात्. अस्येन्द्रियतः परिपूर्णत्वं. प्रज्ञाविमुक्तस्येति वचनात्. न समापत्तितो ऽस्य परिपूर्णत्वं. अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्य् उक्तं. समापत्तित एवेति. समयविमुक्तस्येति वचनात्. नेन्द्रियतः परिपूर्णत्वम् अस्य भवति. उभयतोभागविमुक्तस्येति वचनात्. समापत्तितो ऽस्य परिपूर्णत्वं. निरोधसमापत्तिलाभीत्य् उभयतोभागविमुक्त इत्य् उक्तं. इन्द्रियसमापत्तिभ्यां. किं. परिपूर्णत्वं. असमयविमुक्तत्वाद् इन्द्रियतः उभयतोभागविमुक्तत्वात् समापत्तित इति दर्शयति.
(vi.68) आनन्तर्यमार्गो येनावरणं प्रजहातीति. अप्रहाणमार्गसंभवात्. अस्ति स आनन्तर्यमार्गो येनावरणं न प्रजहाति. इन्द्रियसंचारादिषु. (अभिध्-क्-व्य् 598) यस् तत्प्रहेयावरणनिर्मुक्तः प्रथमत इति. य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः. प्रथमत इति विशेषणं. यस्मात् तृतीयादिषु क्षणेषु तज्जातीयो [तिब्. 263ब्] मार्गो विशेषमार्ग इतीष्यते. तेन एव चाह. विशेषमार्गो य एभ्यो ऽन्यो मार्ग इति. प्रयोगमार्गादिभ्यो ऽन्य इत्य् अर्थः. किं च यदि प्रथमत इति न ब्रूयात्. विमुक्तिमार्गो यस् तत्प्रहेयावरणनिर्मुक्त इत्य् एतावद् ब्रूयात्. एवं सति दुःखधर्मज्ञानात् परेण सर्वे आनन्तर्यमार्गादयस् तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति. सर्वे विमुक्तिमार्गाः स्युः. अनिष्टं चैतत्. आनन्तर्यमार्गादिष्व् अपि विमुक्तिमार्गप्रसंगात्. तस्माद् आनन्तर्यमार्गस्य दुःखधर्मज्ञानक्षान्त्यादेर् यत्प्रहेयम् आवरणं. दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्यः. तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते. स विमुक्तिमार्गः. नान्यस् तत् प्रहेयावरणनिर्मुक्तत्वे ऽपीति. य एभ्यः प्रयोगमार्गादिभ्यस् त्रिभ्यो ऽन्यः. स विशेषमार्गः. षोडशान् मार्गान्वयज्ञानक्षणात् परेण सप्तदशादयस् तज्जातीया ये ऽनास्रवाः क्षणाः. ते विशेषमार्गस्वभावा इत्य् अवगन्तव्यं. एवम् अन्यद् अपि विमुक्तिज्ञानं. यत् प्राकर्षिकं क्षयज्ञानादि. तद् अपि वक्तव्यं. यश् च दृष्टधर्मसखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः. सो ऽपि विशेषमार्ग [तिब्. 264अ] एव प्रयोगमार्गो यस्माद् आनन्तर्यमार्गोत्पत्तिर् इत्य् उक्तं. अतो लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते. यस् तु प्रतिलोमतः क्षान्त्यादिमार्गः. स कस्मिन्न् अन्तर्भवतीति वक्तव्यम्. आह. प्रयोगमार्ग एवान्तर्भवति. विप्रकृष्टस् त्व् असौ प्रयोगमार्ग इत्य् अयं तस्याग्रधर्मेभ्यो विशेषः. उदाहरणार्थत्वाच् चाचार्येण संनिकृष्ट एव प्रयोगमार्ग उक्त इति.
एष हि निर्वाणस्य पन्थाः. तेन तद्गमनाद् इति. लोके येन गम्यते. स मार्ग इति प्रतीतः. अनेन च निर्वाणं गम्यते प्राप्यते. तस्मान् मार्ग इति दर्शयति. मार्गयंत्य् अनेन वेति. मार्गो ऽन्वेषण इति धातुः पठ्यते. तस्यैतद् घञि रूपं मार्ग इति. येन निर्वाणम् अन्विष्यते. स मार्ग इति. विमुक्तिविशेषमार्गयोः कथं मार्गत्वम् इति. न हि ताभ्यां निर्वाणं प्राप्यते. प्रयोगानन्तर्यमार्गयोर् एव तत्प्राप्तौ सामर्थ्यान् न तयोर् इति अभिप्रायः. तज्जातीयाधिमात्रतरत्वाद् इति. प्रहाणमार्गजातीयौ चालंबनाकारानास्रवत्वसादृस्यात्. अधिमात्रतरौ च हेतूपचयतः. यथा ह्य् आनन्तर्यमार्गश् चतुःसत्यालंबनषोडशाकारो ऽनास्रवश् च. एवं विमुक्तिविशेषमार्गाव् अपि. अधिमात्रतरत्वेनैव तु तस्माद् विशेष इति. [तिब्. 264ब्] उत्तरोत्तरप्रापणात्. निरुपधिशेषप्रवेशाद् वेति. यस्माद् विमुक्तिमार्गेण विशेषमार्गेण च उत्तरोत्तरो (अभिध्-क्-व्य् 599) मार्गः प्राप्यते. तस्मात् अनयोर् मार्गत्वम् इत्य् अर्थः. यस्माद् वा ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति. यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश इति.
अपरे पुनर् एवं व्याचक्षते. उत्तरोत्तरप्रापणान् निरुपधिशेषप्रवेशः. तस्माद् अनयोर् मार्गत्वम् इति.
(vi.69) निर्वाणप्रतिपादनाद् इति. यस्माद् अनेन निर्वाणं प्रतिपद्यत इत्य् अर्थः. एवं सुखापि द्विविधेति. अस्ति प्रतिपत् सुखा धन्धाभिज्ञा. अस्ति सुखा क्षिप्राभिज्ञेति. अंगपरिग्रहणशमथविपश्यनासमताभ्याम् अयत्नवाहित्वाद् इत्य् अंगैः परिग्रहः. शमथविपश्यनयोः समत्वं. अंगपरिग्रहश् च शमथविपश्यनासमत्वं च. ताभ्याम् अयत्नवाहित्वं. तस्मात् सुखा प्रतिपत्. यस्माद् अंगपरिगृहीतानि ध्यानानि शमथविपश्यनाभ्यां समानि च. तस्माद् अयत्नवाहीनि. अतश् च सुखासौ प्रतिपद् इति. अंगापरिग्रहाद् इति विस्तरः. अंगापरिग्रहाद् अनागम्यध्यानांतरारूप्या यत्नवाहिनः. शमथविपश्यनान्यूनत्वाच् च संभवतस् ते [तिब्. 265अ] यत्नवाहिनः. शमथन्यूनत्वाद् अनागम्यध्यानांतरे यथवाहिनी. विपश्यनान्यूनत्वाच् चारूप्या यत्नवाहिनः. तद्भावात्. ते ऽनागम्यादयो दुःखा प्रतिपद् इति. धन्धाभिज्ञेति. धन्धाभिज्ञास्याम् इति. धन्धाभिज्ञा मन्दप्रज्ञेत्य् अर्थः. क्षिप्राभिज्ञेति तीक्ष्णप्रज्ञा. धन्धस्य मन्दस्य पुद्गलस्येयम् अभिज्ञा धन्धाभिज्ञेति. षष्ठीतत्पुरुषेणाप्य् एतत् सिध्यतीति दर्शयति. एवं क्षिप्रस्य तीक्ष्णस्य पुद्गलस्याभिज्ञा क्षिप्राभिज्ञेति योज्यं.
(vi.70) चत्वारि स्मृत्युपस्थानानि. कायवेदनाचित्तधर्मास्मृत्युपस्थानानि यथोक्तानि. चत्वारि सम्यक्प्रहाणानि. उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभते. चित्तं प्रगृह्णाति. प्रदधाति. अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये भूयोभावाय वृद्धिविपुलताज्ञानसाक्षात्क्रियायै छन्दं जनयतीति पूर्ववत्. चत्वार ऋद्धिपादाः. छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. एवं वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. ऋद्धिपादा ऋद्धिहेतव इत्य् अर्थः. [तिब्. 265ब्] पंचेन्द्रियाणि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणि. पंच बलानि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानि. सप्तबोध्यंगानि. स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षाबोध्यंगानि. स्मृतिर् एव संबोध्यंगं स्मृतिसंबोध्यंगम्. एवं यावद् उपेक्षैव संबोध्यंगं (अभिध्-क्-व्य् 600) उपेक्षासंबोध्यंगम् इति. आर्याष्टंगो मार्गः. सम्यग्दृष्टिः. सम्यक्संकल्पः. सम्यग्वाक्. सम्यक्कर्मान्तः. सम्यगाजीवः. सम्यग्व्यायामः. सम्यक्स्मृतिः. सम्यक्समाधिर् इति. अशेषविद्याप्रहनाद् इति. यस्माद् अशेषत्रैधातुक्यविद्याप्रहाणं. तस्माद् उभयं बोधिः. अनेन शैक्षपृथग्जनानां प्रज्ञा न बोधिर् व्यवस्थाप्यत इति दर्शयति. किं च यथाक्रमं. ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच् च. क्षयज्ञानेन यथाभूतं कृतावबोधात् तत् क्षयज्ञानं बोधिः. दुःखं मे
परिज्ञातम् इति यथाभूतं प्रजानाति. समुदयो मे प्रहीण इति. निरोधो मे साक्षात्कृत इति. मार्गो मे भावित इति यथाभूतं प्रजानातीति. अनुत्पादज्ञानेन यथाभूतम् अपुनःकर्तव्यम् इति. [मार्गो मे भावितो न पुनर् भावयितव्य] तद् अनुत्पादज्ञानम् अपि बोधिः. दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम्. [तिब्. 266अ] इति यथाभूतं प्रजानाति. समुदयो मे प्रहीणो न पुनः प्रहातव्य इति. निरोधो मे साक्षात्कृतो न पुनः साक्षात्कर्तव्य इति. मार्गो मे भावितो न पुनर् भावयितव्य इति यथाभूतं प्रजानातीति. दुःखं मे परिज्ञातम् इत्य् अनेन क्षयज्ञानं. न पुनः परिज्ञातव्यम् इत्य् अनेनानुत्पादज्ञानम्. इत्य् उभयम् अपि तीक्ष्णेन्द्रियस्य पुद्गलस्य दर्शयतीति सर्वं नेयं. तद् एवं क्षयज्ञानम् अनुत्पादज्ञानं च बोधिर् इत्य् अवयवार्थं प्रसाध्य समुदयार्थं प्रसाधयन्न् आह.
तादनुलोम्यतः
सप्तत्रिंशत् तु तत्पक्षा
इति. तस्या बोधेर् अनुलोमस् तदनुलोमः. तद्भावस् तादनुलोम्यं. तस्मात्. तादनुलोम्यतो बोधिपक्षा. बोधिपक्षे साधवो ऽनुलोमा इति बोधिपक्षाः. स्मृत्युपस्थानादयः सप्तत्रिंशद् उच्यंते प्रवाचने.
(vi.71) दश द्रव्याणीति. केषांचिन् मतेन. वक्ष्यति हि वैभाषिकाणाम् एकादश कायवाक्कर्मणोर् असंभिन्नत्वाद् इति.
प्रज्ञा हि स्मृत्युपस्थितिर्
इति. प्रज्ञा स्मृत्युपस्थानम् इत्य् अर्थः. स्मृतिर् उपतिष्ठते ऽनयेति कृत्वा. तथा हि सूत्र उक्तं. काये [तिब्. 266ब्] कायनुपश्यी विस्तरः.
वीर्यं सम्यक्प्रहाणाख्यम्
इति. यस्माद् उक्तम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभत इति सर्वं.
ऋद्धिपादाः समाधय
इति. यस्माद् उक्तं छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं (अभिध्-क्-व्य् 601) भावयतीति सर्वं प्रहाणसंस्काराः पुनर् अत्राष्टौ सूत्रे पठ्यन्ते. कथं. तथाभूतस्य यश् छन्दः. यो व्यायामः. या श्रद्धा. या प्रश्रब्धिः. या स्मृतिः. यत् संप्रजन्यं. या चेतना. योपेक्षा. इम उच्यन्ते प्रहाणसंस्कारा इति. इन्द्रियाणि तावद् इति विस्तरः. स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा द्रव्याणि पंच. तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि. यच् च बोध्यंगेषु धर्मप्रविचयसंबोध्यंगं. या च मार्गांगेषु सम्यग्दृष्टिः. न द्रव्यान्तरं. वीर्यम् एव तद् यानि चत्वारि सम्यक्प्रहाणानि. यच् च बोध्यंगेषु वीर्यसंबोध्यंगं. यश् च मार्गांगेषु सम्यग्व्यायामः. समाधिर् एव च स ये चत्वार ऋद्धिपादाः. यच् च बोध्यंगेषु समाधिसंबोध्यंगं. [तिब्. 267अ] यच् च मार्गांगेषु सम्यक्समाधिः. किम् अवशिष्यते यन् न प्रज्ञेन्द्रियादिस्वभावं. बोध्यंगेषु प्रीतिप्रश्रब्ध्युपेक्षासंबोध्यंगान्य् अवशिष्यन्ते. मार्गांगेषु सम्यक्संकल्पाः. शीलांगानि च त्रीणि. सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीव इति. दश द्रव्याणीति. श्रद्धादीनि पंच. प्रीतिसंबोद्यंगादीनि च पंचेति. शीलांगानि त्रीण्य् अविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते.
वैभाषिकाणाम् एकादश द्रव्याणि. कायवाक्कर्मणोर् असंभिन्नत्वात् द्वे द्रव्यं इति कृत्वा. अभिप्रायवशात् पक्षद्वये ऽप्य् अदोषः. यदि तु मुख्यवृत्त्या तस्मिन् कलापे यावंति द्रव्याणि संति. तावंति गण्येरन्. नैव तानि दश द्रव्याणि समाहितविज्ञप्तिरूपाणां सप्तद्रव्यत्वात्. षोडश द्रव्याणीति वक्तव्यं स्यात्.
(vi.72) प्रधानग्रहणेनैवम् उक्लं. प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति. सर्वे तु प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः. प्राधान्यं पुनस् तद्बलेनान्येषां [तिब्. 267ब्] वृत्तेः. न पुनस् ते न सन्ति. प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्य् अतः प्रज्ञाग्रहणं. न तु प्रज्ञैव स्मृत्युपस्थानं. किं तर्हि. प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रश्रब्ध्युपेक्षासम्यक्संकल्पादयो ऽपीति. प्रायोगिकग्रहणम् उपपत्तिलभ्यश्रद्धादिनिरासार्थं. एवं वीर्यप्रधानानि सम्यक्प्रधानानि. समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यं. ऋद्धिपादाः समाधय इति कुत एतत्. सूत्रात्. उक्तं हि छन्दं चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति छन्दसमाधिः. (अभिध्-क्-व्य् 602) चित्तं वीर्यं मीमांसां चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति मीमांसासमाधिर् इति.
तेन हि सम्यक् कायवाङ्मनांसि प्रधीयंत इति. प्रधीयंते धार्यंते नियम्यन्ते प्रवर्त्यन्ते वा कदाचिद् अनेनेति प्रधानं. तत्प्रतिष्ठितत्वाद् इति. यस्मात् सर्वगुणसंपत्तिलक्षणा ऋद्धिस् तस्मिन् समाधौ प्रतिष्ठिता. ऋद्धेः पादः प्रतिष्ठेति ऋद्धिपाद इति.
ये त्व् आहुः समाधिर् एव ऋद्धिः. पादाश् छंदादयः. छन्दचित्तवीर्यमीमान्सा इति. तेषाम् एवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षाः प्राप्नुवन्ति. छन्दचित्तयोर् आधिक्याद् एकादशसु [तिब्. 268अ] प्रक्षेपे. वीर्यप्रज्ञे त्व् अत्र नाधिके. सम्यक्प्रधानस्मृत्युपस्थानेष्व् अन्तर्भावात्. बहुधा भवतीति विस्तर इति. बहुधाभूत्वैको भवति. आविर्भवं. तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति. तिरः कुड्यं तिरः प्राकारम् असज्जमानः कायेन गच्छति. तद्यथाकाशे. पृथिव्याम् उन्मज्जननिमज्जनं करोति. तद्यथोदके. उदके ऽभिद्यमानेन स्रोतसा गच्छति. तद्यथा पृथिव्याम्. आकाशे पर्यंकेण क्रामति. तद्यथा शकुनिः पक्षी. इमौ वा पुनः भूयो चन्द्रमसाव् एवं महर्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. यावद् ब्रह्मलोकं कायेन वशे वर्तयत इति. इयम् उच्यते ऋद्धिः. ऋद्धिपादाः कतमे. छन्दसमाधिः. वीर्यसमाधिः. चित्तसमाधिः. मीमान्सासमाधिः. इम उच्यन्ते ऋद्धिपादा इति. एवंलक्षणः समाधिः. तस्मान् न समाधिर् एव रुधिर् इति. अत्राचार्यसंघभद्र आह. न भवत्य् एष तेषां दोषः. समाधिं हि ते ऋद्धिपादम् इच्छन्ति. ऋद्धिर् अपीति. छन्दादयस् तूच्यन्ते समाधेश् चतुस्त्वज्ञापनार्थं. कश्चिद् धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानी भवति. कश्चित् कुशलमूलनिष्पन्नावस्थायां. पूर्वो ऽत्र र्द्धिपादः. उत्तर र्द्धिर् इति. सूत्रविरोधो ऽपि चैषां न भवति. ऋद्धिपादफलम् ऋद्धिशब्देनोक्तं. [तिब्. 268ब्] परिज्ञाफलस्य तच्छब्दाभिधानवद् इत्यादि.
मृद्वधिमात्रभेदाद् इति. मृदूनीन्द्रियाणि अधिमात्राणि बलानि. कथम् एषां मृद्वधिमात्रभेद इति हेतुम् आह. अवमर्दनीयानवमर्दनीयत्वाद् इति. तद्विपक्षभूतैर् आश्रद्ध्यकौसीद्यमुषितस्मृतिताविक्षेपासंप्रजन्यैर् अन्तरासमुदाचाराद् इन्द्रियाण्य् अवमृद्यन्ते न त्व् च्वं बलानीति. पुनस् तान्य् उक्तनि.
(vi.73) आदिकर्मिकनिर्वेधभागीयेष्व्
(अभिध्-क्-व्य् 603) इति. पंचावस्था इमे उक्ताः.
भावने दर्शन चेति.
द्वे अवस्थे इति. सप्तस्व् अवस्थासु
सप्त वर्गा यथाक्रमं
प्रभाव्यंते व्यवस्थाप्यन्ते प्रधानीक्रियन्ते वा. आदिकर्मिकावस्थायां स्मृत्युपस्थानानि. उष्मगतावस्थायां सम्यक्प्रधानानि. मूर्धावस्थायाम् ऋद्धिपादाः. क्षान्त्यवस्थायाम् इन्द्रियाणि. लौकिकाग्रधर्मावस्थायां बलानि. भावनामार्गावस्थायां बोध्यंगानि. दर्शनमार्गावस्थायाम् आर्याष्टांगो मार्ग इति. विशेषाधिगमहेतुर् वीर्यसंवर्धनं. तस्माद् उष्मगतेषु सम्यक्प्रधानानि. [तिब्. 269अ] अपरिहाणीयकुशलमूलप्रवेशत्वात्. मूर्धेष्व् इति. अपरिहाण्यनुकूलानां कुशलमूलानां प्रवेशो मूर्धतः.
मूर्धलाभी न मूलच्छिद्
इति वचनात्. प्रविशत्य् एभिर् इति कृत्वा प्रवेशः. अपरिहाणिर् हि क्षान्तिषु भवति. तदवस्थाः. समाधयः समृद्धेर् आश्रयीभवंतीति. मूर्धस्व् ऋद्धिपादा व्यवस्थाप्यंते. अपुनःपरिहाणित इति विस्तरः. यस्मात् क्षान्तिषु पुनःपरिहाणिर् नास्ति. आद्ययोर् एव हि परिहाणिसंभवः. तस्माद् आधिपत्यप्राप्तानि श्रद्धादीनि भवंति. तद्भावात् क्षान्तिष्व् इन्द्रियाणि व्यवस्थाप्यंते. क्लेशानवमर्दनीयत्वाद् इति. यस्मात् क्लेशैर् नावमृद्यन्ते. तस्याम् अवस्थायां क्लेशासमुदाचारात्. लौकिकान्यधर्मानवमर्दनीयत्वाद् वा. अथ वा लौकिकैर् अन्यैर् धर्मैर् अनवमर्दनीयत्वाद् अग्रधर्मावस्थायां श्रद्धादीनि बलानीति प्रभाव्यन्ते. बोध्यासन्नत्वाद् इति. क्षयानुत्पादज्ञानासन्नत्वाद् इत्य् अर्थः. भावनामार्गो हि क्षयानुत्पादज्ञानासन्नः. दर्शनमार्गस् तु दूरो तदन्तरालभावनामार्गव्यवहितत्वात्. गमनप्रभावितत्वाद् इति. मार्गो हि लोके गमनप्रभावितः. गच्छंत्य् अनेनेति मार्गः. गच्छतीति वा मार्गः. पाटलिपुत्रम् अयं पन्था गच्छतीति लोके वचनात्. दर्शनमार्गश् चातिशयेन गमनप्रभावितो न भावनामार्गः. कथम् इत्य् आह. तस्याशुगामित्वाद् [तिब्. 269ब्] इति. तद्वान् अपि तेनाशु गच्छति. भावनामार्गेण तु भूमिभेदेन प्राकर्षकत्वात् बहुना कालेन गच्छति.
अपरे पुनर् आहुर् इत्य् आचार्यः. अस्मदादय इत्य् अभिप्रायात्. यथा वैभाषिकैर् भिन्नः क्रमः. तथा तम् अभित्त्वा बोधिपक्षाणाम् आनुपूर्वीं वर्णयंति. दर्शनमार्गे बोध्यंगानीति कृत्वा. बहुविधेति विस्तरः. बहुप्रकारो विषयो रूपादिभेदात्. नीलादिभेदाच् च. तस्मिन् व्यासेको विक्षेपः. बहुविधविषयव्यासेकेन विसर्तुं शीलम् आसाम् इति. बहुविधविषयव्यासेकविसारिण्यो (अभिध्-क्-व्य् 604) बुद्धयः. तासां निग्रहार्थं स्मृत्युपस्थानानि. गर्धाश्रितानां तृष्णाश्रितानाम् इत्य् अर्थः. स्मरसंकल्पानाम् इत्य् अनुभूतविषयस्मृतिसंकल्पानाम् इत्य् अर्थः. कामसंकल्पानाम् इति वा. तद्बलेनेति. चतुःस्मृत्युपस्थानबलेनेत्य् अर्थः. चतुर्विधकार्यसंपादनायेति. चतुर्विधं कार्यम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणम्. अनुत्पन्नानाम् अनुत्पादः. तथानुत्पन्नानां कुशलानाम् उत्पादः. उत्पन्नानां स्थित्यादीनि. ततः समाधिविशोधनाद् इति. ततः सम्यक्प्रधानेभ्यो ऽनतरं समाधेर् विशोधनाद् ऋद्धिपादाः [तिब्. 270अ] प्रभाव्यंते. लोकोत्तरधर्माधिपतिभूतानीति. तदावाहकत्वाद् अधिपतिभूतानि वेदितव्यानि. तान्य् एवेन्द्रियाणि. यदा निर्जितविपक्षसमुदाचाराणि. निर्जितश्रद्ध्यादिसमुदाचाराणि भवंति. तदा बलानि. इन्द्रियावस्थायां हि क्लेशसमुदाचारः संभवति. क्षान्त्यवस्थायाः प्राकर्षकत्वात्. दर्शनमार्गे बोध्यंगानीति. अनास्रवा प्रज्ञा बोधिर् इति कृत्वा. उभयोर् मार्गांगानीति. दर्शनभावनामार्गयोः. कथम् इत्य् आह. तथा ह्य् उक्तम् इति विस्तरः. भावनया परिपूरिर् भावनापरिपूरिः तां गच्छत्य् आर्याष्टांगो मार्गः. तस्मिन् गच्छति चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं यच्छंति. याचत् सप्त बोध्यंगानीति.
भावनापरिपूरिं गच्छंतीति वचनात् भावनामार्गे ऽपि आर्याष्टांगो मार्गो भवतीति गम्यते. न हि दर्शनमार्गे भावना परिपूरिं गच्छति. किं तर्हि भावनामार्ग इति. पुनश् चोक्तम् उभयोर् मार्गांगानि व्यवस्थाप्यंत इति. चतुर्णाम् आर्यसत्यानाम् एतद् अधिवचनम् इति दर्शनमार्गं दर्शयति. यथागतेन मार्गेण प्रक्रमणम् इति विस्तरेण यावन् मार्गस्यैतद् [तिब्. 270ब्] अधिवचनम् इति भावनामार्गं दर्शयति. यथागतेन यथाप्राप्तेन मार्गेण प्रक्रमणं यावद् बोधिर् इति. तद् एवं दर्शनमार्गे भावनामार्गे च मार्गांगानि व्यवस्थाप्यन्त इति. अत उभयोर् आर्याष्टांगो मार्ग एष्टव्य इति.
(vi.74) सिद्धो ऽनुक्रमः. पूर्वं बोध्यंगानि पश्चाद् आर्याष्टांगो मार्ग इति.
अनास्रराणि बोध्यंगमार्गांगाणीति.
अनास्रवाण्य् एवेत्य् अवधारणं.
द्विधेतर
इति. स्मृत्युपस्थानादयो बलपर्यन्ताः.
(vi.75) बलवाहनीयत्वाद् इति. बलेन वीर्येण संमुखीकरणीयत्वात्. अनागम्ये प्रीत्यभावः. सुखाधिगम्यं चित्तं प्रीणाति. नेतरद् इति. किं चाधरभूमिसाशंकत्वाच् च. परिहाणिं प्रति साशंक इति. अतश् च तत्र प्रीत्यभावः. साशंकतायां हि चित्तं न प्रीयते. संकल्पवर्ज्या इति. संकल्पो (अभिध्-क्-व्य् 605) वितर्कः.
कामधातौ भवाग्रे च बोधिमार्गांगवर्जिता
इति. कथं भवाग्रे कायस्मृत्युपस्थानं भवति. न हि तत्र कायो विद्यते. कायालम्बना हि प्रज्ञा कायस्मृत्युपस्थानं. न च भवाग्रं कामधातुं रूपधातुं चालाम्बते. [तिब्. 271अ]
न मौलाः कुशलारूप्याः सास्रवाधरगोचरा
इति सिद्धान्तात्. नैतत् केनचिद् व्याख्याकारेण लिखितं. तद् इदम् अत्र व्यवस्थापयामः. कायस्य कः स्वभावः. भौतिकत्वम् इत्य् उक्तं. भूतं भौतिकं च काय इत्य् अर्थः. तत्र यदि केवलभूतालंबना केवलभौतिकालंबना तदुभयालंबना वा प्रज्ञा भवेत्. कायस्मृत्युपस्थानम् एव तद् भवेत्. भवाग्रे च कुशलसास्रवा प्रज्ञा मार्गत इति न्यायत इति वानास्रवसंवरमार्गालंबनत इति. सास्रवधरालंबना हि मौलाः कुशलारूप्या नेष्यंते. न त्व् अनास्रवधरालंबना इति. अतस् तद् अत्र कायस्मृत्युपस्थानं वेदितव्यं.
(vi.77, 78) चत्वारो ऽवेत्यप्रसादाः बुद्धे ऽवेत्यप्रसादो धर्मे संघे चार्यकान्तानि च शीलानीति. तत्र दुःखसत्यादीनां धर्मत्वाद् अबुद्धसंघस्वभावत्वाच् च. यथाक्रमं सत्यत्रयम् अभिसमयन् पश्यन् धर्मे चावेत्यप्रसादम् आर्यकान्तानि चाशीलानि अनास्रवाणि प्रतिलभते. न बुद्धे न संघे वा अवेत्यप्रसादं. [दुःखसत्यादीनां धर्मत्वाद्. अबुद्धसंघस्वभावत्वाच् च. यथा] मार्गसत्यम् अभिसमयतो बुद्धे तस्य च स्रावकसंघे ऽवेत्यप्रसादं प्रतिलभते. मार्गसत्यस्य बुद्धसंघस्वभावत्वात्. को ऽयम् इह धर्मो ऽभिप्रेत [तिब्. 271ब्] इति. बहवो धर्माः कुशला धर्मा इत्य् एवमादयः. तत् को ऽयम् इह धर्मो ऽभिप्रेतः. यद् उक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति. अथ वा बुद्धरत्नं संघरत्नं चेदम् उच्यते. तस्माद् इदम् अपि धर्मरात्नम् इहाभिप्रेतं भवेत्. रत्नत्रयस्य ह्य् अयं स्वभाव उक्तः.
बुद्धसंघकरां धर्मान् अशैक्षान् उभयांश् च सः निर्वाणं चेति शरणं यो याति शरणत्रयम्
इति. तत् किम् अयं निर्वाणधर्मो ऽभिप्रेत इत्य् अतः पृच्छति. को ऽयम् इह धर्मो ऽभिप्रेत इति.
धर्मः सत्यत्रयम्
इति विस्तरः. दुःखसमुदयनिरोधसत्यानि. बोधिसत्त्वस्य च शैक्षावस्थायां (अभिध्-क्-व्य् 606) अनास्रवो मार्गः. प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो मार्गो धर्म इहाभिप्रेत इति. अतश् चत्वार्य् अपीति विस्तरः. मार्गसत्यम् अप्य् अभिसमयन् धर्मम् अपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणम् अभिसमयति. तस्माच् चत्वार्य् अपि सत्यान्य् अभिसमयतो धर्मे ऽवेत्यप्रसादलाभ इत्य् उक्तम् इति. बुद्धसंघयोर् मार्गो धर्म इति नोच्यते. यस्मात् तदभिसमयतो बुद्धे संघे चावेत्यप्रसादलाभ इति. कथं पुनर् मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्धधर्मसंघावेत्यप्रसादानां युगपत् संमुखीभावः. सैव श्रद्धाधिष्ठानभेदापेक्षया [तिब्. 272अ] नामत्रयं लभत इत्य् अदोषः. अथ वा धर्मे ऽवेत्यप्रसादो वर्तमानः. अनागतास् तु त्रयो भाव्यंते. तेनोच्यते
लाभो मार्गाभिसमये बुद्धतत्संघयोर् अपीति.
यद्य् अधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानं धर्मावेत्यप्रसादः पूर्वं पठितव्यः स्याद् इत्य् अत आह. यथा तु व्युत्थितः संमुखीकरोति. तथैषाम् आनुपूर्वम् इति. वैद्यभैषज्योपस्थायकभूतत्वाद् इति. वैद्यभूतो भगवान् अनुत्तरो विषक् शल्यहर्तेति सूत्रात्. धर्मभैषज्यदैशिकत्वाच् च. भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात्. निर्वाणारोग्यसंप्रापकत्वाच् चोपस्थायकभूतः संघो निर्वाणारोग्यप्राप्तये परस्परोपस्थानात्. चित्तप्रसादकृतः शीलप्रसाद इति. त्रिविधश् चित्तप्रसादः. सम्यक्संबुद्धो बत भगवान्. स्वाख्यातो ऽस्य धर्मविनयः. सुप्रतिपन्नो ऽस्य श्रावकसंघ इति. तेन कृतः शीलप्रसादः. शीलम् एव प्रसादः. शीलस्य वा प्रसादो ऽनास्रवत्वं शीलप्रसादः. अन्ते त्रयाणां प्रसादानां चतुर्थ उक्तः शीलप्रसादः. कस्माद् इत्य् आह. एवं प्रसन्नस्य सम्यक्संबुद्धो बत भगवान् इति विस्तरेणैषा प्रतिपत्तिः. [तिब्. 272ब्] आर्यकान्तशीलप्रतिपत्तिर् इत्य् अर्थः. आरोग्यभूतत्वाद् वा. किम् अन्ते शीलप्रसाद उक्तः. वैयभैषज्योपस्थायकारोग्यानुक्रमतः. दैशिकमार्गसार्थिकयानवद् वा. किम्. अन्ते चतुर्थ उक्त इत्य् अधिकृतं. दैशिकभूतो भगवान्. मार्गभूतो धर्मः. सार्थिकभूतः संघः. यानभूतान्य् आर्यकान्तानि शीलानीति. आर्याणं कान्तानि प्रयाणीत्य् आर्यकान्तानीति.
(vi.79, 80) अष्टाभिर् इति. अष्टाभिर् अंगैः समन्वागतः शैक्षः. कतमैर् अष्टभिः. शैक्ष्या सम्यग्दृष्ट्या यावच् छैक्षेण सम्यक्समाधिनेति. दशभिर् अंगैः समन्वागतो ऽशैक्षः. कतमैर् दशभिः. अशैक्ष्या सम्यग्दृष्ट्या यावद् अशैक्षेण सम्यक्समाधिना अशैक्ष्या सम्यग्विमुक्त्या अशैक्षेण च सम्यग्ज्ञानेनेति. विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति. तस्यां (अभिध्-क्-व्य् 607) विमुक्तौ प्रत्यात्मज्ञानं तत्प्रत्यात्मज्ञानं विमुक्तिश् च तत्प्रत्यात्मज्ञानं च. विमुक्तितत्प्रत्यात्मज्ञानं. ताभ्यां प्रभावितः. क्लेशविमुक्त्या क्लेशविमुक्तिप्रत्यात्मज्ञानेन च. क्लेशेभ्यो विमुक्तो ऽस्मीति प्रभावितः. प्रकर्षित इत्य् अर्थः. तस्यैवाशैक्षस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च. न्याय्यं न शैक्षस्येति. अधिमोक्षः संस्कृता विमुक्तिर् [तिब्. 273अ] इति. धात्वर्थैकत्वात् अंगानां संस्कृतत्वाद् इति. यथा सम्यग्दृष्ट्यादीनि संस्कृतानि. तथा विमुक्तिर् अपि संस्कृतैव गृह्यते नासंस्कृता. विसभागत्वाद् विसदृशत्वात्. द्वे विमुक्ती सूत्र उक्ते इति. रागविरागाच् चेतोविमुक्तिः. अविद्याविरागात् प्रज्ञाविमुक्तिर् इति. चेतोविमुक्तिः प्रज्ञाविमुक्तिश् चेत्य् अर्थः. विमुक्तिस्कंधो ऽपि स एवेति. शीलस्कन्धः. समाधिस्कन्धः प्रज्ञास्कन्धः. विमुक्तिस्कन्धः. विमुक्तिज्ञानदर्शनश् चेत्य् अत्र द्रष्टव्यः.
यत् तर्हि सूत्र उक्तम् इति. चत्वारीमानि व्याघ्रबोध्यायनाः परिशुद्धिप्रधानानि. कतमानि चत्वारि. शीलपरिशुद्धिप्रधानं. समाधिपरिशुद्धिप्रधानं. दृष्टिपरिशुद्धिप्रधानं. विमुक्तिपरिशुद्धिप्रधानं चेति विस्तरेणोक्त्वाह. कतमच् च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानं. यावद् यश् छन्दो वीर्यम् इति विस्तरः. व्याघ्रबोध्यायना इति बहुवचनं. तेषां बहुत्वात्. विमुक्तिपरिशुद्धिप्रधानम् इति. विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः. तस्यै प्रधानं वीर्यविमुक्तिपरिशुद्धिप्रधानं. [तिब्. 273ब्] तद् एवम् अत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयं. तत्र इह भिक्षो रागाच् चित्तं विरक्तं भवति विमुक्तं. द्वेषात्. मोहाद् विरक्तं भवति विमुक्तं. विमुक्तिर् उक्ता. इत्य् अपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये. परिपूर्णस्य वानुग्रहायायेति. विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता. यश् छन्दो वीर्यम् इति विस्तरेण प्रधानम् उक्तं. यत एवं रागादिभ्यो विमुक्तिः प्रहाणम् इत्य् एवंलक्षणा विमुक्तिर् उक्ता सूत्रे नाधिमुक्तिः. तस्मान् नाधिमोक्ष एव विमुक्तिः. किं तर्हि. तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यम् अनास्रवत्वम् अनर्थान्तरभूतं घृतमण्डस्वच्छतावद् इति अपर इत्य् आचार्यः.
(vi.81अब्) तदुत्पत्तिविबन्धत्वाद् इति. तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात्. क्लेशप्राप्तिर् हि विबन्धः. यत् तर्हि नोत्पद्यमानम् इति. यद् अनागतं वज्रोपमात् समाधेर् अनन्तरं न भवत्य् अशैक्षम् एव. लौकिकं वेत्य् अशैक्षसंतान एव यल् लौकिकं. यत् तु नियतम् उत्पत्तौ. तद् एवोक्तम् इति. यद् उत्पादाभिमुखम् अनागतं. तद् एवोक्तं शास्त्रे विमुच्यत इति. तद्विमुच्यमानतया [तिब्. 274अ] सूपलक्ष्यत्वाद् इत्य् अभिप्रायः.
तत एवोत्पत्त्यावरणाद् इति. तत एव क्लेशप्राप्तितः. तदुत्पत्तिविबंधाद् (अभिध्-क्-व्य् 608) इति तद् एवात्र कारणं वक्तव्यं. यद्य् अशैक्षसंतानलौकिकम् अपि विमुच्यत इत्य् अभ्युपगम्यते. शैक्षस्यापि लौकिकम् उत्पद्यते. कस्मान् न विमुच्यत इत्य् अभ्युपगम्यते. अत आह. न तत् तादृशम् इत्यादि. क्लेशप्राप्तिसहितं तच्छैक्षस्य लौकिकं. न त्व् अशैक्षस्य लौकिकम् एवं भवतीत्य् असाम्यं.
(vi.81च्द्) निरुध्यमान
इति. निरोधाभिमुखः.
तदावृतिम्
इत्य् अशैक्षचित्तावरणं.
(vi.82) या चासंस्कृता विमुक्तिर् उक्ता शास्त्रे इहैव वा
असंस्कृता क्लेशहानम्
इति. ये च त्रयो धातव उच्यंते. क्वोच्यंते. सूत्रे शास्त्रे ऽपि वा.
विरागो रागसंक्षय
इति. भेदविवक्षायाम् एवम् उच्यते. अभेदविवक्षायां तु यो विरागः. तत् प्रहाणम् अप्य् उच्यते. निरोधो ऽपीत्यादि.
(vi.83) वस्तुन इति. सास्रवस्य रूपादेः. चतुष्कोटिक इति. स्यान् निर्विद्यते न विरज्यते. स्याद् विरज्यते न निर्विद्यते. स्याद् उभयं. स्यान् नोभयम् [तिब्. 274ब्] इति.
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर्
इति. अनेन वस्तुहेतुकं निर्वेदं दर्शयति.
विरज्यते सर्वैर् जहाति यैर्
इति प्रहाणक्रियाहेतुकं विरागं दर्शयति. एवं चतुष्कोटिकं सिध्यतीति. एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम्. अनेन चतुष्कोटिकं सिध्यतीत्य् अभिप्रायः. कथम् इत्य् आह. निर्विद्यत एवेति विस्तरः. निर्विद्यत एव दुःखसमुदयक्षांतिभिर् दुःखसमुदयज्ञानैश् च निर्वेदवस्त्वालंबनत्वात्. दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलंबनम् इति. न विरज्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया असंभवात्. विरज्यत एव निरोधमार्गक्षान्तिभिर् दर्शनमार्गे. निरोधमार्गज्ञानैर् भावनामार्गे. क्लेशान् प्रजहद् इति प्रहाणक्रियासंभवात्. न निर्विद्यते. प्रामोद्यवस्त्वालंबनत्वात्. निर्वाणमार्गौ हि प्रामोद्यवस्तुनी आलंबनम् इति. उभयपूर्वैः क्लेशान् प्रजहद् इति निर्विद्यते च विराज्यते च पूर्वैर् दुःखसमुदयक्षान्तिज्ञानैः. कथं. निर्विद्यते. निर्वेदवस्त्वालंबनत्वात्. विरज्यते. क्लेशान् प्रजहद् [तिब्. 275अ] इति वचनेन प्रहाणक्रियासद्भावात्. नोभयम् (अभिध्-क्-व्य् 609) उत्तरैः क्लेशान् अप्रजहद् इति. न च निर्विद्यते. न च विरज्यते. उत्तरैर् निरोधमार्गक्षान्तिज्ञानैः प्रामोद्यवस्त्वालंबनत्वात् न निर्विद्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया अभावात् न विरज्यते.
आह. अपदिष्टं प्रथमायां कोट्यं चतुर्थ्यां च क्लेशां अप्रजहद् इति. कः कान् क्लेशान् न प्रजहाति. तत्र वीतराग इति विस्तरः. तत्रार्थोपक्षेपार्थं. वीतरागः कामधातोर् यावद् आकिंचन्यायतनाद् अपि. सत्यानि पश्यन्न् अभिसमयन्. धर्मज्ञानक्षांतिभिर् धर्मज्ञानैर् धर्मज्ञानक्षान्तिभिश् च क्लेशान् न प्रजहाति. लौकिकेन भावनामार्गेण पूर्वं प्रहीणत्वात्. अनास्रवा तु केवलं विसंयोगप्राप्तिर् उत्पद्यते. अन्वयज्ञानक्षान्तिभिस् त्व् अवश्यं क्लेशान् प्रजहाति. न हि लौकिकेन मार्गेण भवाग्रवैराग्यम् अस्ति. ज्ञानैस् तु भावनामार्ग. प्रयोगविमुक्तिविशेषमार्गैर् आनन्तर्यमार्गैर् अप् इव कैश्चिद् इन्द्रियसंचाराद्यावस्थासु न क्लेशान् प्रजहाति. [तिब्. 275ब्] के ऽवशिष्यंते. तदन्य आनन्तर्यमार्गास् तैः क्लेशान् प्रजहातीति सिद्धं.
आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां षष्ठं कोशस्थानं समाप्तं.
(अभिध्-क्-व्य् 610) ब्लन्क्
विइ ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्
(vii.1) षष्ठात् कोशस्थानाद् अनन्तरं सप्तमस्योपन्यासे संबंधं दर्शयन्न् आह. क्षान्तयश् चोच्यन्ते. ज्ञानानि चेति विस्तरः.
लौकिकेभ्यो ऽग्रधर्मेभ्यो धर्मक्षान्तिर् अनास्रवेत्य्
अत्राष्टौ क्षान्तय उक्ताः.
कामदुःखे ततो ऽत्रैव धर्मज्ञानं. तथा पुनर्
इत्य् अत्र ज्ञानानि.
चेत् क्षयज्ञानम् अशैक्षी वा दृष्टिर्
इत्य् अत्र सम्यग्दृष्टिः.
सैव विमुक्ती द्वे ज्ञानं बोधिर् यथोदितेत्य्
अत्र सम्यग्ज्ञानं. इहैव वा षष्ठकोशस्थानावसान एतत् सर्वम् उक्तम्.
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैर् विरज्यते
सर्वैर् जहाति यैर्
इति. शास्त्रसंबन्धेन वायम् उपन्यस्यते. शास्त्रे हि क्षान्तयश् चोच्यन्ते. ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च. तत्प्रत्यायनाय चायम् आरभ्यत इत्य् अतः पृच्छति. किं पुनः क्षान्तयो न ज्ञानम् इति विस्तरः.
नामलाः क्षान्तयो ज्ञानम्
इति. अमला एव क्षान्तयो न ज्ञानम् इत्य् [तिब्. 276अ] अवधारणात् सास्रवाः क्षान्तयो ज्ञानम् इत्य् उक्तं भवति. संवृतिज्ञानं हि तद् इष्यते. तत्प्रहेयस्येत्य्. क्षान्तिप्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात्. प्रहीयते हि तास्व् अवस्थास्व् अनुशयः. न प्रहीणो विप्रकृतावस्थत्वात्. निश्चितं च ज्ञानम् इष्यते. नानिश्चितम्. इति न क्षान्तयो ज्ञानं. क्षमणरूपेण च क्षान्तय उत्पद्यन्ते. न निश्चयरूपेणेति न ज्ञानम् इति वर्णयन्ति. विचिकित्सानुशयस्याप्रहीणत्वाद् (अभिध्-क्-व्य् 612) इत्य् एतावति वक्तव्ये तत्प्रहेयस्येति विशेषणं किम् अर्थं. द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानुशयः प्रहीणो भवतीति प्रथमैव क्षान्तिर् न ज्ञानम् इति गम्येत. न त्व् अन्याः क्षान्तयः. इत्य् अतस् तत्प्रहेयस्येति विशेषणं. [यद् वा दुःखधर्मज्ञानादीनां ज्ञानत्वप्रतिपादनार्थं. यदि विचिकित्सानुशयाप्रहीणत्वाद् इत्य् एतावद् उच्यते. एवं] संतीरणात्मकत्वाद् इति. उपनिध्यानस्वभावत्वाद् इत्य् अर्थः. असंतीरणापरिमार्गणाशयत्वाद् इति. नास्ति संतीरणम् अस्येत्य् असंतीरणं. परिमार्गणे आशयो ऽभिप्रायः परिमार्गणाशयः. नास्य परिमार्गणाशय इत्य् अपरिमार्गणाशयं. असंतीरणं च तद् अपरिमार्गणाशयं च असंतीरणापरिमार्गणाशयं. तद्भावः. तस्मात्. क्षयज्ञानम् अनुत्पादज्ञानं च न दृष्टिर् इत्य् [तिब्. 276ब्] अर्थः. यावद् अयम् अकृतकृत्यः. तावद् दुःखादीनि सत्यान्य् उपनिध्यायति परिमार्गयति चाशयतो यथोक्तैर् अनित्यादिभिर् आकारैः. कृतकृत्यस्य पुनर् यथा दृष्टिष्व् एव दुःखादिष्व् आर्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति दुःखं मया परिज्ञातं न पुनः परिज्ञेयम् इत्यादि. तस्मान् न ते दृष्टिस्वभावे.
तदन्योभयथार्या धीर्
इति. दुःखे धर्मज्ञानं यावन् मार्गे ऽन्वयज्ञानं. सा प्रज्ञोपनिध्यानप्रवृत्ता प्रहीणतद्विषयविचिकित्सा च.
अन्येति
लौकिकी. सा सर्वैव ज्ञानम् इत्य् अवधारणं. न सा प्रज्ञास्ति. यन् न ज्ञानम् इत्य् अर्थः. का पुनर् असौ प्रज्ञा. पंचविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या दृष्टिस्वभावक्लेशसंप्रयुक्ता अनिवृताव्याकृता च. या पुनर् दृष्टिस्वभावा या च मानसी कुशला. सा किं भवतीत्य् आह.
दृशश् च षड्
इति. एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः. अन्या न दृष्टिः. षड् एवेत्य् अवधारणात्. का पुनर् अन्या. या पूर्वम् उक्ता लौकिकी. ज्ञानं त्व् एषा चान्या चेति. एषा च षड्विधा दृष्टिस्वभावा प्रज्ञा. ततो ऽन्या च पूर्वोक्ता ज्ञानम् इत्य् उच्यते. अत एव च
दृशश् च षड्
इति चकारः पठ्यते. यस्माद् एताः षट् ज्ञानानि चोच्यन्ते दृष्टयश् चेति.
(vii.2, 3) दशभिर् ज्ञानैः. कतमैः. [तिब्. 277अ] धर्मान्वयसंवृतिपरचित्तदुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानैर् अवधारणार्थो ऽयम् आरम्भो दशैव ज्ञानानि. च्युत्युपपादपुद्गलज्ञानादीनाम् एषाम् एवान्तर्भावात्. (अभिध्-क्-व्य् 613) समासेन तु द्वे एव सास्रवम् अनास्रवं चेति. प्रायेणेति विशेषणं. घटपटादिकं संवृतिसद्वस्तु संवृतिज्ञानम् आलंबते. स्वसामान्यलक्षणम् अपि तु कदाचिद् गृह्णाति. सांवृतम् इति. संवृतौ भवं सांवृतं.
अनास्रवम्
अपि संक्षिप्यमाणं
द्विधा धर्मज्ञानम् अन्वयज्ञान चेति.
दुःखज्ञानादीनाम् अनयोर् एवान्तर्भावात्. आलंबनं संभवत इति. यस्य यद् आलंबनं. तस्य तद् भवति. न हि चक्षुर्विज्ञानस्य शब्दालंबनं. तदालंबनत्वाद् इति. दुःखाद्यालंबनत्वाद् इत्य् अर्थः.
(vii.4) एते चतुर्विधे
इति. एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालंबनभेदाच् चतुर्विधे. अदृष्टिस्वभावे सती क्षयज्ञानम् अनुत्पादज्ञानं चोच्यते.
ते पुनः प्रथमोदिते.
ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती
दुःखहेत्वन्वयज्ञाने भवतः.
दुःखसमुदयालंबने अवश्यं भवत इत्य् अर्थः. कस्माद् इत्य् आह. दुःखसमुदयाकारैर् भावाग्रिकस्कंधालंबनत्वाद् इति. [तस्य हि सर्वपश्चाद् भवाग्रम् एव प्रहीयते. तस्माद् येन च पीड्यते येन च बद्धं तत एव मोक्षं बहु मन्यमानो ऽनन्तरं क्षीणं भवाग्रम् आलंबते. तच् च दुःखं या समुदया चित्यतो दुःखसमुदयाकारैर् भवाग्रम् आलंबते.] यस्माद् अवश्यं ते प्रथमोत्पन्नक्षयानुत्पादज्ञाने [तिब्. 277ब्] दुःखाकारैर् अनित्यादिभिः समुदयाकारैर् वा हेत्वादिभिर् भावाग्रिकान् स्कंधान् आलंबते. अप्रथमोत्पन्ने त्व् अन्यसत्यालंबने अपि ते भवत इत्य् अर्थाद् उक्तं भवति. वज्रोपमानन्तरं क्षयज्ञानं भवति. तदनन्तरं चानुत्पादज्ञानम् इत्य् अतः पृच्छति. किं वज्रोपमो ऽपि ताभ्याम् एकालंबनो भवतीति. ताभ्याम् इति प्रथमोत्पन्नाभ्याम् इत्य् अर्थः. यथा क्षयानुत्पादज्ञाने एकालंबने किं वज्रोपमो ऽपि ताभ्याम् एकालंबन इत्य् अपिशब्दस्यार्थः. यदि दुःखसमुदयालंबनो भवति. किं. ताभ्याम् एकालंबनो ब्भवतीति संभवः. अथ निरोधमार्गालंबनो भवति नैकालंबनः. तयोर् नियमेन भावाग्रिकस्कंधालंबनत्वात्. यथा हि विषकाण्डविद्धस्य मृतस्य विषं सर्वम् अंगम् अभिव्याप्य व्रणदेश एव मरणकाले ऽवतिष्ठते नान्यत्र. तद्वद् अस्य योगिनः प्रहेय एव भावाग्रिकस्कंधलक्षणे ज्ञानम् अवतिष्ठते.
(vii.5, 6) चतुर्भ्यः परचित्तविद्
इति. चतुर्भ्य एव धर्मज्ञानादिभ्यस् तत्संगृहीतत्वात्. न दुःखज्ञानादिभ्यः. अन्याकारत्वात्. अनास्रवं हि परचित्तज्ञानं मार्गाकारम् एव मार्गज्ञानत्वात्. यत् तु सास्रवं. तल् लौकिकाकारं सरागम् [तिब्. 278अ] विगतरागम् इत्यादि. श्रद्धाधिमुक्तसमयविमुक्तमार्गेणेति. यथासंख्यं श्रद्धाधिमुक्तमार्गेन दृष्टिप्राप्तमार्गं न जानाति. समयविमुक्तमार्गेणासमयविमुक्तमार्गं न जानाति. अधरेणोत्तरम् इति. अनागामिमार्गेणार्हन्मार्गं न जानाति. अर्हन्मार्गेण प्रत्येकबुद्धमार्गम् इत्यादि. कामधातूर्ध्वधातुप्रतिपक्षालंबनत्वात् तयोर् इति. तयोर् धर्मज्ञानपक्षान्वयज्ञानपक्षयोः. धर्मज्ञानपक्षस्य कामधातुप्रतिपक्ष आलंबनम्. अन्वयज्ञानपक्षस्य ऊर्ध्वधातुप्रतिपक्ष आलंबनम् इति नियमः. दर्शनमार्गे परचित्तज्ञानं नास्तीत्य् अव्यापारत्वात् दर्शनमार्गस्य. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं चेति संभवं प्रत्य् एवम् उच्यते. कदाचिद् धि प्रयोगवशाद् दुःखे ऽन्वयज्ञानक्षान्तिं दुःखे ऽन्वयज्ञानं च ज्ञातुं संभवति. अष्टमं च समुदयान्वयज्ञानम् इति. धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वान्वयज्ञानपक्षं परेण चित्तं ज्ञास्यामीति प्रयोगं कृत्वा समुदयान्वयज्ञानम् अष्टमं संभावयति. मृदुप्रयोगत्वाद् इति अल्पप्रयोगत्वाद् इत्य् अर्थः. श्रावकस्य हि महाप्रयोगसाध्यं तद् अन्वयज्ञानपक्षालंबनं [तिब्. 278ब्] परचित्तम्. अतो यावत् स तत्र प्रयोगम् आरभते. तावद् अयं षोडशं चित्तम् अनुप्राप्तो भवतीति. अंतरा न जानाति. प्रथमद्वितीयपंचदशान् इति एतान् एव त्रीन् जानाति. कथं. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पंचदशक्षणं मार्गान्वयज्ञानक्षान्तिं जानातीति.
(vii.7) कथम् अनास्रवेण ज्ञानेनैवं जनातीति. अनास्रवणां दुःखाद्याकारत्वत्. इदं च संवृत्याकारं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारत्वाद् अतः पृच्छति. तद्विशेषेण तयोर् विशेष इति. तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण दुःखं मे परिज्ञातं यावन् मे मार्गो भावित इति जानाति. दुःखं मे परिज्ञातं न पुनः परिज्ञेयं. यावन् मार्गो मे भावितो न पुनर् भावयितव्यः इति च जानातीत्य् एवंरूपेण तयोर् अनास्रवयोः क्षयानुत्पादज्ञानयोर् विशेषः शास्त्रे ज्ञापितो दर्शितः. अत एव तद् उपादायेत्य् उक्तं. तद् उपादायेति पूर्वीकृत्य तत् पुरस्कृत्येत्य् अर्थः. निष्यंदने तयोर् निर्विकल्पयोर् विशेषो ऽनुमीयत इत्य् अभिप्रायः.
अनास्रवेणाप्य् एवं जानातीति. षोडशाकारव्यतिरिक्तो ऽस्त्य् अनास्रव आकारः. (अभिध्-क्-व्य् 615) तेनैवं जानातीत्य् अपरे. यदि तद् उपादाय यज् ज्ञानं दर्शनम् इति शास्त्रवचनेन दुःखपरिज्ञानादिसंवृतिज्ञानफलम् [तिब्. 279अ] अमास्रवं क्षयानुत्पादज्ञानम् उच्यते. यद् इदम् उच्यते.
क्षयानुत्पादधीर् न दृक्
इति न दृष्टिर् इति. तद् विरुध्यते. तेनाह. दर्शनवचनं तु भाष्याक्षेपाद् इति. यद् एतच् छास्त्रे वचनं यज् ज्ञानं दर्शनम् इति. भाष्याक्षेपाद् भवति. दुःखज्ञानादिषु हि ज्ञानं दर्शनं विद्या बुद्धिर् बोधिर् इति पठ्यते. तत्पाठाक्षेपेणायम् उपतिष्ठते तत्पाठिनां पाठः. न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे. न दृष्टिस्वभावे इत्य् अर्थः. प्रत्यक्षवृत्तित्वाद् वेति. प्रत्यक्षा वृत्तिर् अस्य ज्ञानद्वयस्य. तद् इयं प्रत्यक्षवृत्तिः. तद्भावत्. अनयोर् दर्शनवचनं. न ह्य् एतज्ज्ञानद्वये आनुमानिकवद् आगामिकवद् वा परोक्षवृत्तिः. प्रत्यक्षवृत्तिश् च दर्शनम् इष्यते. तद्यथा चक्षुर्विज्ञानं. तद्साधर्म्याद् एतद् अपि ज्ञानद्वयं दर्शनम् इत्य् उक्तम्. अत एवोक्तम् इति. अत एव प्रत्यक्षवृत्तित्वाद् उक्तं शास्त्रे यत् तावज् ज्ञानं. दर्शनम् अपि तत्. स्यात् तु दर्शनं न ज्ञानम् अष्टाव् आभिसमयान्तिकाः क्षान्तयः. तद् इदम् उक्तं भवति दर्शनत्वम् अनयोर् इष्यते. न दृष्टित्वम् इति.
तत्रेति तेषु दशसु ज्ञानेषु संवृतिज्ञानं संवृतिज्ञानम् एव स्वभावसंग्रहतः. एकस्य च परचित्तज्ञानस्य भाग एकदेशः. तस्य हि सास्रवानास्रवस्य [तिब्. 279ब्] सास्रव एव भागः संवृतिज्ञानं. नानास्रवो भाग इति. धर्मज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं धर्मज्ञानम् एव. सप्तानां च भागो दुःखसमुदयनिरोधमार्गपरचित्तक्षयानुत्पादज्ञानानाम्. कथं. दुःखज्ञानं हि धर्मान्वयज्ञानस्वभावं. तस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानम्. एवं समुदयज्ञास्य यावद् अनुत्पादज्ञानस्य धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानं. न त्व् अन्वयज्ञानभाग इति. परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो धर्मज्ञानम् इति. एवम् अन्वयज्ञानम् एकम् अन्वयज्ञानम् एव. सप्तानां च भागः. तेषाम् एव दुःखज्ञानादीनाम् यो ऽन्वयज्ञानभागः. तद् अन्वयज्ञानम् इति योज्यं. दुःखज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. तद् एव दुःखज्ञानं. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम्. एतानि हि धर्मज्ञानादीनि चत्वारि चतुःसत्यालंबनानि भवन्ति. य एषां दुःखसत्यालम्बनो भागः. तद् दुःखज्ञानं. नान्यो भागः. इत्य् एवं समुदयनिरोधज्ञाने (अभिध्-क्-व्य् 616) योज्ये प्रत्येकम्. एकं ज्ञानं समुदयज्ञानं निरोधज्ञानं वा. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानां यः समुदयालंबनभागो निरोधालंबनभागो वा. तत् समुदयज्ञानं निरोधाज्ञानं च. मार्गज्ञानं दशसु ज्ञानेष्व् [तिब्. 280अ] एकं ज्ञानं तद् एव मार्गज्ञानं. पंचानां च भागः. धर्मान्वयक्षयानुत्पादपरचित्तज्ञानानं. एतानि पंच मार्गज्ञानानि मार्गज्ञानस्वभावानि
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
