Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भूतमात्रिकपक्ष इति स्थविरबुद्धदेवपक्षे नास्मत्पक्ष इत्य् अर्थः. तथापि त्व् इति. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपं नान्यत्. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपवत् स्कन्धेभ्यो नान्यः पुद्गल इत्य् उपगतं भवतीति स्वसिद्धान्तः परित्यागः स्याद् इत्य् अभिप्रायः. कस्माद् [तिब्. 373ब्] भगवता स जीवः. तच् छरीरम् अन्यो वेति न व्याकृतम् इति. अयम् एषाम् अभिप्रायः. यदि स्कन्धेषु पुद्गलोपचारः कस्माच् छरीरम् एव जीव इति नोक्तम् इति. पूर्वकैर् एवेति स्थविरनागसेनादिभिः. बहुवोल्लका इति. बहुप्रलापा इति.
इतराह. यदि पुद्गलो नावक्तव्यः कस्मान् नोक्तो नास्त्य् एवेति.
स च तद्देशनाया अक्षम इति. नैरात्म्यदेशनाया अयोग्य इत्य् अर्थः. पूर्वम् एवं संमूढ इति. सत्कायदृष्टिसहगतेन मोहेन. भूयस्या मात्रया संमोहम् आपद्येतेति उच्छेददृष्टिसहगतं दृष्ट्यन्तरम् उत्पादयेद् इत्य् अभिप्रायः. अत एवाह. अभून् मे आत्मा स मे एतर्हि नास्तीति. आह चात्रेति. भदन्तकुमारलातः
दृष्टिदंष्ट्रावभेदं चेति
विस्तरः. दृष्टिर् एव दंष्ट्रा. तयावभेदम्
अपेक्ष्य
देशयन्ति बुद्धा
भगवन्तो
धर्मं
नैरात्म्यं तत्प्रतिपक्षेण.
भ्रंशं च कर्मणाम् अपेक्ष्य
कृतविप्रणाशम् अपेक्ष्य. पुद्गलास्तित्वम् इव दर्शयन्तो ऽन्यथा देशयन्ति.
व्याघ्रि पोतापहारवद्
इति. यथा व्याघ्री नातिनिष्ठुरेण दन्तग्रहणेन स्वपोतम् अपहरति नयति. मास्य दंष्ट्रया शरीरं क्षतं भूद् इति. नाप्य् अतिशिथिलेन दन्तग्रहणेन तम् अपहरति मास्य भ्रंशपातो ऽस्मिन् विसये भूद् इति. युक्तेनैव ग्रहणेनापहरतीत्य् अर्तः. अपहरतीत्य् अपरे [तिब्. 374अ] पठन्ति स्थानान्तराद् अपहरत्य् अपनयतीत्य् अर्थः. तथार्थदर्शने कारणं दर्शयन्न् आह.
आत्मास्तित्वम्
इति विस्तरः.
आत्मास्तित्वं प्रतिपन्नश्
चेत् कश्चिद्
दृष्टिदंष्ट्रया
सत्कायदृष्टिलक्षणया
भिन्नः स
विनेयजनः स्यात्.
अप्राप्य संवृतिगतिं
धर्मसंकेतम् अजानानः.
कुशलपोतस्य
कुशलकर्मणो व्याघ्रीपोतभूतस्य
भ्रंशं
कुर्यात्. नास्ति कर्मणः फलम् इति.
प्राज्ञप्तिक
इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः. संवृतिसन्न् अपि पुद्गलो नास्तीति कश्चिद् गृह्णीयाद् इत्य् अतो
नास्तीति नावोचत्.
सति त्व् अस्तीति नाह किम्
इति. यदि भूतार्थेन पुद्गलो ऽस्ति किम् इति कृत्वा भगवान् अस्ति पुद्गल इति न ब्रवीति. न हि रूपम् अस्तीति वचने दोषो भवति तस्यास्तित्वात्.
निर्ग्रन्थश्रावकचटकवद् इति. निर्ग्रन्थश्रावकेण चटकं जीवन्तं गृहीत्वा भगवान् पृष्टः. किम् अयं चटको जीवति न वेति. तस्यायम् अभिप्रायः यदि श्रमणो गौतम आदिशेज् जीवतीति. स तन् निपीडनेन मारयित्वा दर्शयेत्. यदि पुनर् भगवान् एवम् आदिशेन् मृत इति. स तं जीवन्तम् एव दर्शयेत्. कथं नामायम् अज्ञ इति लोको जानीयाद् इति तस्याभिन्वेशः. भगवता तु तस्याशयं विदित्वा न व्याकृतं. त्वच्चित्तप्रतिबद्धम् एवैतज् जीवति वा न वेति चेत्य् एवाभिहितं. तद्वद् [तिब्. 374ब्] एतन् न व्याकृतम् इति.
तुल्यार्थो ह्य् एष चतुष्क इति. शाश्वतो लोको ऽशाश्वतो लोक इत्य् अनेन चतुष्केन अन्तवान् लोको ऽनंतवान् इत्य् अयं चतुष्कस् तुल्यार्थः. यद्य् एवं कथं चतुर्दशाव्याकृतवस्तूनि भवंति. शाश्वतो लोक इत्य् एकचतुष्कः. अन्तवान् इति द्वितीयश् चतुष्कः. भवति तथागत इति तृतीयश् चतुष्कः. स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इति द्विकः. त्रयश् चतुष्काः एकश् च द्विक इति चतुर्दशाव्याकृतवस्तूनीति. पर्यायरूपत्वव्यावस्थाने ऽपि चतुर्दशत्वं भवतीत्य् अदोषः. त्वम् एवैतत् पृच्छसीति. अन्तवान् इति यं पृष्टवान्. कथं. किं नु सर्वो लोको ऽनेन मार्गेण निर्यास्यतीति अनेन अन्तवान् इति अशाश्वत इति च पृष्टं भवति. आहोस्विद् एकदेशो लोकस्येत्य् अनेनान्तवांश् चानन्तवांश् चेति (अभिध्-क्-व्य् 710) शाश्वतश् चाशाश्वतश् चेति च पृष्टं भवति.
जीवन्तं पुद्गलम् अस्तीति व्याकरोतीति. तत्त्वान्यत्वेनावक्तव्यं सन्तम् एव पुद्गलं व्याकरोतीत्य् अभिप्रायः.
शाश्वतदोषप्रसंगाद् इति वात्सिपुत्रीयवचनं. इदं तर्हि कस्माद् व्याकरोतीति विस्तरेणाचार्यवचनं. सार्वज्ञम् इत्य् अण् भावप्रत्ययो यौवनम् इति यथा. न वक्तव्यं पश्यति वा न वेति. पश्यति न पश्यति न वक्तव्यम् इत्य् अर्थः. शनैःशनैर् अवक्तव्यं क्रियताम् [तिब्. 375अ] इति. सर्वज्ञो वा भगवान् न वेति न वक्तव्यम् इति. शनैःशनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपपरिहारार्थं. सत्यतः स्थितित इति. स्थितिरूपेणेत्य् अर्थः. दृष्टिस्थानम् उक्तम् इति. मिथ्यादृष्टिस्थानम् उक्तम् इत्य् अभिप्रायः.
आचार्य आह. अस्तीत्य् अपि दृष्टिस्थानम् उक्तम् इति. सत्कायदृष्टिस्थानम् उक्तम् इत्य् अर्थः.
उक्तोत्तर एष पक्ष इति. कथं च न. प्रतिक्षेपात्. सूत्र एव हि प्रतिक्षिप्तं भगवतेति विस्तरेण यावद् अपदृष्टान्ता एत इति. किम् इदम् उपादायेत्य् आरभ्यैतद् अपरेषां व्याख्यानं. स्वमतेन तु यथा संसरति. तथा दर्शयन्न् आह. यथा तु क्षणिको ऽग्निर् इति विस्तरः. क्षणिको ऽग्निः प्रसिद्धः. स च देशांतरोत्पत्तिसंतत्या संचरतीत्य् उच्यते. तथा सत्त्वाख्यस्कन्धसमुदायस् तृष्णोपादानः. तृष्णा उपादानम् अस्येति तृष्णोपादानः. क्षणिको ऽपि संतत्या संसरतीति.
सुनेत्रो नाम शास्तेति. सप्तसूर्योदयसूत्रे ऽयम् एव भगवान् ऋषिः सुनेत्रो नाम बभूवेति.
अन्यत्वात् स्कंधानम् इति. क्षणिकत्वे सत्य् अन्यत्वाद् इत्य् अभिप्रायः. एकसंतानतां दर्शयतीति. यस्मात् सुनेत्रो बुद्धसंतान एवासीत्. अतः स एवाहम् इत्य् अभेदोपचारः. [तिब्. 375ब्] यथा स एवाग्निर् यः पूर्वं दृष्टो दहन्न् आगत इति. संतानव्र्ट्त्या स एवेत्य् उच्यते. तद्वत्. सैषां स्यात् सत्कायदृष्टिर् इति. सैषां तथागतानाम् आत्मात्मीयाकारा सत्कायदृष्टिः स्यात्. दृढतरात्मात्मीयस्नेहपरिगाहितबंधनानाम् इति. आत्मदृष्टाव् आत्मीयदृष्टौ च सत्याम् आत्मस्नेह आत्मीयस्नेहश् च भवति. इत्य् अतो रागो बन्धनम् इति कृत्वा दृढीकृतबन्धनानां सतां मोक्षो दूरीभवेत्. नैव भवेद् इत्य् अभिप्रायः.
य एकेषां पुद्गलग्राह इति वात्सीपुत्रीयाणाम्. एकेषां सर्वनास्तिग्राह इति. मध्यमकचित्तानाम् इत्य् अभिप्रायः. स्मृतिविषयसंज्ञान्वयाच् चित्तविशेषाद् (अभिध्-क्-व्य् 711) इति. स्मृतेर् विषयो ऽनुभूतो ऽर्थः. तत्र संज्ञा सान्वयो हेतुर् अस्येति स्मृतिविषयसंज्ञान्वयश् चित्तविशेषः. किंचिद् एव चित्तं. न सर्वम् इत्य् अर्थः. तस्मात् स्मरणं भवति प्रत्यभिज्ञानं वा.
एवम् उभयविशेषणे कृते पृच्छति कीदृशाच् चित्तविशेषाद् इति.
आह. तदाभोग इति विस्तरः. तस्मिन् स्मर्तव्य आभोगस् तदाभोगः. यत्र तेन सदृशाः संबंधिनश् च संज्ञादयो ये ते विद्यन्ते ऽस्येति तदाभोगसदृशसंबंधिसंज्ञादिमांश् चित्तविशेषः. आदिग्रहणेन प्रणिधाननिबन्धाभ्यासादिग्रहणं. [तिब्. 376अ] आश्रयविशेषश् च शोकतश् च व्याक्षेपतश् चादिर् एषाम् इति आश्रयविशेषशोकव्याक्षेपादीनि. तैर् अनुपहतप्रभावश् चित्तविशेषः. स एवम् अनेन दर्शितो भवति. तस्माद् ईदृशाच् चित्तविशेषात् स्मृतिर् भवति. तद् इदम् उक्तं भवति. तदाभोगवतः यदि तत्राभोगः क्रियते. सदृशसंज्ञादिमतः यत्र सादृश्यात् स्मृतिर् भवति. सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं धूमादिदर्शनात् स्मृतिर् भवति. प्रणिधाननिबंधाभ्यासादिमतश् च यत्र प्रणिधानम् अत्र काले स्मर्तव्यम् अभ्यासो वास्य तत्स्मर्तव्यादि. आश्रयविशेषादिभिर् अनुपहतप्रभावत्वाद् इति. व्याधिलक्षणेनाश्रयविशेषेण शोकेन व्याक्षेपेणान्यत्र कार्ये. आदिशब्दगृहीतैश् च कर्मविद्यादिभिः. तादृशो ऽपीति विस्तरः. तदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो ऽपीत्य् अर्थः. अतदन्वय इति. अस्मृतिविषयसंज्ञान्वय इत्य् अर्थः. भावयितुम् उत्पादयितुं. अन्यादृश इति. अतदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो वा. अन्यस्य चित्तविशेषाद् अन्यस्य.
न. असंबंधाद् इति. देवदत्तयज्ञदत्तचेतसोर् अकार्यकारणभावेनासंबंधाद् [तिब्. 376ब्] इत्य् अर्थः. यथैकसांतानिकयोश् चेतसोः कार्यकारणभावात् संबंधो. नैवं देवदत्तयज्ञदत्तचेतसोः संबन्धः. इत्य् अनेन दृष्टान्तदार्ष्टान्तिकयोर् असाम्यं दर्शयति. तत्र यदि परेणैवं साधनम् अभिधीयते. न देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरति. अन्यत्वात्. यज्ञदत्तचित्तवद् इति. तद् असाधनं. हेतोः स्वयमनिश्चितत्वात् प्रत्यक्षविरोधेन च पूर्वपक्षसापक्षालत्वात्. अथ देवदत्तानुभवचित्तानुस्मरणचित्तयोर् अन्यत्वप्रतिज्ञायाम् इदं दूषणम् उद्ग्राह्येत्. तद् अदूषणं दृष्टबाधायां दूषणानुपपत्तेः. भवत्सिद्धान्ते ऽपि हि देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरतीति. न च ब्रूमो ऽन्येन चेतसा दृष्टम् अन्यत् अन्यत् स्मरतीति. न यत्किंचिद् अन्यत् (अभिध्-क्-व्य् 712) स्मरतीत्य् अभिप्रायः. दर्शनचित्तात् स्मृतिचित्तम् अन्यद् एवोत्पद्यत इति. विद्यमानकारणत्वाद् विद्यमानबीजांकुरवद् इत्य् अर्थः. स्मरणाद् एव च प्रत्यभिज्ञानम् इति. स्मरणे सति प्रत्यभिज्ञानं. तद् एवेदं यन् मया दृष्टम् इति स्मरणात्.
यत् तर्हीति. यदि चित्तविशेष एव स्मरति. यत् तर्हि चैत्रः स्मरतीति तत् कथम् इति वाक्याध्याहारः. स चापि तस्येति विस्तरः. स चापि चैत्राभिधानः. संस्कारसमूहसंतानस् तस्य गवाख्यस्य देशांतरविकारोत्पत्तौ [तिब्. 377अ] देशान्तरोत्पत्तौ विकारोत्पत्तौ च कारणभावं चेतसिकृत्वा. किं. स्वामीत्य् उच्यते. न तु पुद्गलं. कार्यकारणभावापेक्षो ऽयं व्यवहारः. न पुद्गलापेक्ष इत्य् अभिप्रायः. अत एवाह. न तु कश्चिद् इति विस्तरः.
एवं को विजानातीति विस्तरः. असत्य् आत्मनि क एवं विजानाति. विजानातीति को ऽर्थः. विज्ञानेन विषयं गृह्णाति. किं तद् ग्रहणम् अन्यद् विज्ञानत्. विज्ञानं तर्हि करोति. उक्तः सः. यस् तत् करोति. विज्ञानहेतुर् इन्द्रियार्थमनस्काराः. चित्तविशेष इति तन् न वक्तव्यं. इन्द्रियादिहेत्वन्तरयोगात्. अत एव चोच्यते यथायोगम् इत्य् एष विशेष इति. यत् तर्हि चैत्रो विजानातीत्य् उच्यते. ततो हि चैत्राख्यात् संतानाद् भवदृष्टोच्यते. असत्य् आत्मनि कस्येदं विज्ञानं. किम् अर्थैषा षष्ठी. स्वाम्यर्था. यथा कस्य कः स्वामीति विस्तरेण यावत् क्व च पुनर् विज्ञानं विनियोक्तव्यं यत एतस्य स्वामी मृग्यते. विज्ञातव्ये ऽर्थे. किम् अर्थं विनियोक्तव्यं. विज्ञानार्थम्. अहो सूक्तानि सुखैधितानां. तद् एव हि नाम तदर्थं विनियोक्तव्यम् इति. कथं च विनियोक्तव्यं. उत्पादनत आहोस्वित् संप्रेषणतः. विज्ञानगत्ययोगाद् उत्पादनतः. [तिब्. 377ब्] हेतुर् एव तर्हि स्वामीति विस्तरेण यावद् यो ह्य् एव हेतुर्विज्ञानस्य तस्यैवासौ. यश् चापि स चैत्राभिधान इति विस्तरेण यावन् न तत्रापि हेतुभावं व्यतीत्यास्ति स्वामिभाव इति. आदिशब्देन को वेदयते कस्य वेदना. कः संजानीते कस्य संज्ञेत्य् एवमादि. एषा दिग् इति.
यो ऽप्य् आह. भावस्य भवित्रपेक्षाद् इति वैयाकरणः. तेन भवितव्यम् इति. विज्ञात्रा भवितव्यं पुद्गलेनेत्य् अभिप्रायः.
गच्छतिगमनाभिधानवद् इति. यथा ज्वाला गच्छति शब्दो गच्छतीति गच्छतिशब्दाभिधानं. यथा ज्वालायाः शब्दस्य वा गमनम्. एवं देवदत्तो गच्छति देवदत्तस्य गमनम्. अनेन दृष्टान्तेन विजानाति देवदत्त इति सिध्यति.
सादृश्येनात्मलाभाद् इति. कारणसादृश्येन कार्यात्मलाभात्. अकुर्वद् अपि किंचिद् इति. परिस्पन्दम् अकुर्वद् अपीत्य् अर्थः.
तदाकारतेति. नीलादिविषयाकारतेत्य् अर्थः. विज्ञाने कारणभावाद् इति. (अभिध्-क्-व्य् 713) विज्ञानं विज्ञानान्तर्स्य कारणम्. अतो विज्ञानान्तरम् उत्पादाद् विजानातीत्य् उच्यते. कारणे कर्तृशब्दनिवेशाद् इति. कारणं कर्तृभूतम् इति कृत्वा. तद्यथा नादस्य कारणं घण्टेति घण्टा रौतीत्य् उच्यते. तद्वत्.
[तिब्. 378अ] प्रदीप इति. अर्चिषां संताने प्रदीप इति उपचर्यते. एक इवेति कृत्वा. स देशान्तरेषूत्पद्यमानः संतानरूपः प्रदीपदेशान्तरेषूत्पद्यमानः. तंतं देशं गच्छतीत्य् उच्यते. एवं चित्तानां संताने विज्ञानम् इत्य् उपचर्यते. एकम् इवेति कृत्वा. तत् संतानरूपं विज्ञानं विषयान्तरेषूत्पद्यमानं तंतं विषयं विजानातीत्य् उच्यते. संतानेन विज्ञानोत्पत्त्या विजानातीत्य् अभिप्रायः. यथा वा रूपं भवतीति विस्तरः. यथा भवितू रूपस्य भावाज् जनितुर् जातेः स्थातुः स्थितेर् अनर्थान्तरत्वम्. एवं विज्ञाने ऽपि स्यात्. विज्ञातुर् विज्ञानस्य भावाद् अनर्थान्तरत्वं. व्यतिरिक्तस्य भावस्यानुपलब्धेः. वैशेषिकसूत्रानुसाराद् वा.
नात्मन इति. यदि नात्मनो विज्ञानम् उत्पद्यते विज्ञानलक्षणस्याविशेषात् तादृशम् एव विज्ञानम् उत्पद्येत. यदि त्व् आत्मनः तस्याभिप्रायविशेषाद् विशिष्टं ज्ञानम् उत्पद्येतेत्य् अभिप्रायः. न च क्रमनियमेनेति. कस्माच् च न क्रमनियमेनोत्पद्यते. अनियमेनापि ह्य् उत्पद्यते गोबुद्धेर् अनन्तरं स्त्रीभुद्धिः. स्त्रीबुद्धेर् महिषभुद्धिः. कस्माद् गोबुद्धिर् एवानन्तरं नोत्पद्यते. अंकुरकाण्डपत्त्रादिवद् इति. अंकुरात् काण्ड एवोत्पद्यते [तिब्. 378ब्] न पत्त्रादि. काण्डात् पत्त्रम् एवोत्पद्यते न पुष्पाद्य् अंकुरादि वा. तद्वत्.
निकामध्यानसमाहितानाम् इति. निकामेन पर्याप्तेन समाप्तेन ध्यानेन समाहितानाम्. सदृशकायचित्तोत्पत्तौ सदृशस्य कायस्य चित्तस्य चोत्पत्तौ. स्वयंव्युत्थानम् इति. न परोपक्रमेणेत्य् अभिप्रायः. एवम् अनेन कस्मान् न नित्यं सदृशम् एवोत्पद्यत इत्य् यत् पृष्टं. तद् विसर्जनं. यत् तु पृष्टं न च क्रमनियमेनेति. तद् दर्शयन्न् आह. क्रमो ऽपि हि चित्तानाम् नियतम् एवेति. अभीष्टम् एवैतत्. गोत्रविशेषाद् इति भावनाविशेषात्. स्त्रीचित्ताद् इति विस्तरः. स्त्रीचित्तात् स्त्र्यालम्बनाच् चित्ताद् अनन्तरं तस्याः स्त्रियाः कायस् तत्कायः. तत्कायस्य विदूसाणायै यदि परिव्राजकस्यान्यस्य वा साधोश् चित्तम् उत्पन्नं भवति. तत्पतिपुत्रादिचित्तं वा. तस्याः पतिपुत्रादयः. आदिशब्देन दुहित्रादयो गृह्यन्ते. तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तं. तद् वान्यतरद् यद् इदं तस्मात् स्त्रीचित्ताद् अनन्तम् उत्पन्नं भवति. पुनश् च कालान्तरेण संततिपरिणामेन स्त्रीचित्तम् उत्पद्यते. तत् पश्चाद् उत्पन्नं स्त्रीचित्तं (अभिध्-क्-व्य् 714) समर्थं भवति तत्कायविदूषणाचित्तोत्पादने तत्स्त्रीकायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा समर्थं. कस्माद् इत्य् [तिब्. 379अ] आह. तद्गोत्रत्वाद् इति. तद्कायविदूसणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजम् अस्येति तद्गोत्रं. चित्तं तस्य भावः. तस्मात्. तज्जातीयत्वाद् इत्य् अभिप्रायः. अन्यथेत्य् अतद्गोत्रं. अथ पुनः पर्यायेणेति विस्तरः. पर्यायेणायुगपत्. स्त्रीचित्तात् तत्कायविदूषणाचित्तं ततस् तत्पतिचित्तं ततस् तत्पुत्रचित्तं तत एव च तद्दुहितृचित्तं तत एव च तदुपकरणादिचित्तं उत्पन्नं भवति. ततः स्त्रीचित्ताद् अनंतरोत्पन्नेभ्यश् चित्तेभ्यो यद् बहुतरं प्रवाहतः पटुतरं शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य. तद् एव चित्तम् उत्पद्यते. तद्भावनाया बलीयस्त्वात् तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्तरत्वात्. अन्यत्रेति विस्तरः. तत्कालप्रत्युपस्थितस् तत्कालिकः कायप्रत्ययविशेषो बाह्यप्रत्ययविशेषश् च. तस्माद् अन्यत्र तस्माद् ऋत इत्य् अर्थः. तद् एव ह्य् उपपद्यते यस्य कायो बाह्यो वा प्रत्ययविषय उप्तिष्ठते.
सैव बलीयसीति. या बहुतरस्य पटुतरस्य आसन्नतरस्य वाभिहिता सैव बलीयसि भावना. कस्मान् नित्यं न फलति न हि तच् चित्तं निवर्तते.
वर्तत इतीतरेण चोदित आह. स्थित्यन्यथात्वलक्षणत्वात्. [तिब्. 379ब्] स्थितेर् अन्यथात्वं लक्षणम् अस्येति स्थित्यन्यथात्वलक्षणं. तद्भावात्. तस्य चान्यथात्वस्य संस्कृतलक्षणस्य. अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य चित्तान्तरस्योत्पत्ताव् आनुगुण्यान् नित्यं न फलति तद् एवेत्य् अर्थसंबन्धः.
एवं ह्य् आहुर् इति स्थविरराहुलः.
सर्वाकारम्
इति सर्वप्रकारं. यावन्तो
मयूरचन्द्रकस्य
वर्णसंनिवेशादिप्रकाराः. तेषां
कारणम् इदम् अस्य कारणं येनैवं वर्णः एवं संनिवेशः एवं स्निग्धतेति. एवमादिभिर् आकारैर्
न ज्ञेयं
न ज्ञातुं शक्यं. कैः.
असर्वज्ञैः
श्रावकप्रत्येकबुद्धादिभिः.
सर्वज्ञबलं हि तत् ज्ञानं
सर्वविद्बलं हि तज् ज्ञानं. येन तत् कारणं ज्ञायत इत्य् अभिप्रायः. प्राग् (अभिध्-क्-व्य् 715) एवरूपिणां चित्तभेदानाम् इति. रूपकारणम् अपि सर्वथा ज्ञातुम् अशक्यं किम् अरूपिणाम् इत्य् अर्थः.
एकीयस् तीर्थिक इति वैशेषिकः. मनःसंयोगविशेषापेक्षत्वाद् इति चेत्. स्यान् मतं तुल्ये ऽप्य् आत्मप्रभवत्वे चित्तोत्पत्तेर् आत्मा कदाचित् कर्हिचिन् मनःसंयोगविशेषम् अपेक्षते. इत्य् अतो न नित्यं तादृशम् एव चित्तम् उत्पद्यते न च क्रमनियमेनांकुरकाण्डपत्त्रादिवद् इति. न. अन्यसंयोगासिद्धेः. [तिब्. 380अ] नैतद् एवं. कस्मात्. ताभ्याम् आत्ममनोभ्याम् अन्यस्य संयोगस्यासिद्धेः. न हि संयोगो नाम भावः कश्चिद् अस्माकं सिद्धो ऽस्ति. संयोगिनोश् चेति विस्तरः. अभ्युपगते ऽपि संयोगे संयोगिनोश् चेति विस्तरः. लोकप्रसिद्धयोः काष्ठयोर् अन्ययोर् वा कयोश्चित्. परिच्छिन्नत्वात् परिच्छिन्नदेशदृष्टत्वाद् इत्य् अर्थः. लक्षणव्याख्यान्दे चेति. वैशेषिकतंत्रे संयोगलक्षणनिर्देशात्. ततः किम् आत्मनः परिच्छेदप्रसंगः. परिच्छिन्नदेशत्वप्रसंगः. यत्रात्मा. न तत्र मनः. यत्र मनः. न तत्रात्मेति. अनेनानुमानागमापत्तितो धर्मिविशेषविपर्ययो ऽस्य पक्षस्य संदर्शितो भवति. मनसा संयोग आत्मन इति. आत्मा धर्मी. तस्य विशेषः सर्वगत्वं. तद्विपर्ययो ऽसर्वगतत्वम् इति. ततो मनःसंचाराद् आत्मनः संचारप्रसंगाद् इति. ततो लक्षणाद् अप्राप्तिपूर्विका प्राप्तिः संयोग इति मनःसंचाराद् यंयं शरीरप्रदेशं मनः संचरति. ततस्तत आत्मा संचरत्य् अपैतीति प्रसज्यते. तद्यथा यंयं पृथिवीप्रदेशं पुरुषः संचरति. ततस्तत आतपो ऽपसर्पति. तथा च सति निःक्रियत्वम् अस्य बाधितं भवतीति. स एव प्रतिज्ञादोषः. विनाशस्य वा. प्रसंग इति वर्तते. आत्मन इति च. यत्रयत्र मनः संचरति. तत्रतत्रात्मा विनश्यतीति. स एव चात्र प्रतिज्ञादोषः. आत्मनो नित्यत्वनिवृत्तेः. प्रदेशसंयोग [तिब्.
380ब्] इति चेत्. स्यान् मतम् आत्मना प्रदेशेन संयोगो मनसः. आत्मनो वा प्रदेशेन मनसा सह संयोगः. यस्मिं छरीरप्रदेशे मनो ऽवस्थितं भवति. तद्गतेनात्मप्रदेशेन मनो न संयुज्यते. प्रदेशान्तरेणान्यपार्श्वतः संयुज्यते. तस्ंआद् अप्राप्तिपूर्वकत्वे ऽपि संयोगस्याप्राप्तेनैवात्मप्रदेशेन मनः संयुज्यत इति. तन् न. तस्यैव तत्प्रदेशत्वायोगात्. न ह्य् आत्मनो ऽन्यप्रदेश विद्यंते. न चैवात्मैवात्मनः प्रदेशो युज्यते. अस्तु वा संयोग इति विस्तरः. अभ्युपेत्यापि संयोगं तथापि निर्विकारत्वाद् अविशिष्टे मनसि कथं संयोगविशेषः. कथं विशिष्टः संयोगो भवति. यते एवम् उक्तं मनःसंयोगविशेषापेक्षत्वाद् इति. बुद्धिविशेषापेक्षत्वाद् इति चेत्. स एवोपरि चोद्यते कथं बुद्धिविशेष इति. कस्मान् न नित्यम् ईदृशम् एवोत्पद्यते चित्तम् अविशिष्टे आत्मनीति. कारणविशेषाद् धि कार्यविशेष (अभिध्-क्-व्य् 716) इष्यते शंखपटहादिशब्दवत्. संस्कारविशेषापेक्षाद् आत्ममनःसंयोगाद् इति चेत्. स्यान् मतं नित्यम् अविशिष्टे ऽप्य् आत्मनि मनसि च संस्कारविशेषापेक्षाद् आत्ममनसोः संयोगाद् बुद्धिविशेष इति. तद् उक्तं भवति. संस्कारविशेषाद् भावनाविशेषलक्षणाद् आत्ममनःसंयोगविशेषः. तद्विशेषाद् बुद्धिविशेष इति. अत्र ब्रूमः. चित्ताद् एवास्त्व् इति विस्तरः. अयम् इहाचार्यस्याभिप्रायः. [सान्तर्भवश् चित्तम् अस्तीत्य् अविवादः] मम तव च चित्तम् अस्तीत्य् अविवादः. [तिब्. 381अ] संस्कारविशेषो ऽप्य् अस्ति भावनाविशेषलक्षणो यो ऽसौ वासना बीजम् इति वास्माभिर् व्यवस्थाप्यते. भावान्तरं न वेति तुविशेषः. तस्माच् चित्ताद् एव संस्कारविशेषापेक्षाद् बुद्धिविशेषो ऽस्तु. किम् आत्मना तत्संयोगेन वा कल्पितेनेति. न हि किंचिद् इति
विस्तरः. कुहकेनैकतरेण वैद्येन कस्मैचित् ग्लानायौषधं ददानेन चिन्तितं. इदम् औषधं सुलभं. विदितं चास्य सपरिजनस्य ग्लानस्य. एतेन चौषधेनास्य ग्लानस्य ग्लानोपशमो भवेत्. तद् एवं माम् अवधूयान्ये ऽपि करिष्यन्ति. ततश् च ममार्थलाभो न भविष्यति. इति चिन्तयित्वा तद् अभिमंत्र्य फूः स्वाहा फूः स्वाहेति जनस्य दर्शितम्. अनेन मन्त्रेणेदम् औषधं सिध्यतीति. तत्र यथा कुहकवैद्यफूःस्वाहानाम् औषधकार्यसिद्धौ सामर्थ्यं नास्ति. औषधस्यैव तु सामर्थ्यम्. एवम् आत्मनो बुद्धिविशेषोपत्तौ नास्ति सामर्थ्यं. चित्तस्यैव सामर्थ्यम् इति. सत्य् आत्मनि तयोः संभव इति चेत्. स्यान् मतं. सत्य् आत्मनि तयोः संस्कारचित्तयोः संभवः. इत्य् अतो ऽस्त्य् आत्मेति. अत्र ब्रूमो वाङ्मात्रं. नात्र काचिद् युक्तिर् अस्तीति. आश्रयः स इति चेत्. स्यान् मतम्. आत्माश्रयस् तयोर् इति. यथा कः कस्याश्रय इति. आश्रयरूपेणोदाहरणं मृग्यते. तम् अस्याश्रयार्थम् अयुक्तं दर्शयन्न् आह. न हि ते [तिब्. 381ब्] इति विस्तरः. ते संस्कारचित्ते. चित्रबदरादिवत्. यथा कुड्ये चित्रम् आधार्यं बदरं च कुण्डे. आदिशब्देन भाजने भोजनम् इत्यादि. नैव ते संस्कारचित्ते तत्रात्मन्य् आधेये. धार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. नापि स आत्मा कुड्यवत् कुण्डवच् चाधारो युक्तः. आदिशब्देन भाजनादिग्रहणं. किं करणम् इत्य् आह. प्रतिघातियुतत्वदोषाद् इति प्रतिघातित्वदोषाद् युतत्वदोषाच् च. सप्रतिघत्वप्रसंगात् पृथग्दशत्वप्रसंगाच् चेत्य् अर्थः. यथा चित्रबदरयोः कुड्यकुण्डयोश् चाधार्याधारभावे प्रतिघातित्वम् युतत्वं च दृष्टे. एवम् एतेषाम् अपि स्यात्. अनिष्टं चैतत्. अतो ऽनात्माश्रयः.
यथा न गन्धाधिभ्यो ऽन्या पृथिवी. तथा बुद्ध्यादिभ्यो ऽन्य आत्मेति. (अभिध्-क्-व्य् 717) को हि सत्पुरुषो गंधादिभ्यो ऽन्यां पृथिवीं निधारयति. न हि पृथिवी कतमेत्य् उक्ते रूपगन्धरसस्पर्शेभ्यो ऽन्या दर्शयितुं शक्यते यथा रूपं गन्धादिभ्यो ऽन्यद् इति.
यदि न गंधादिभ्यो ऽन्या पृथिवी. कथम् अयं व्यपदेशः पृथिव्यां गन्धादय इति. अन्येन ह्य् अन्यस्य व्यपदेशो दृष्टः. चैत्रस्य कम्बल इति. अत उच्यते. व्यपदेशस् तु इति विस्तरः.
[तिब्. 382अ] विशेषणार्थं इत्य् अबादिभ्यो विशेषणार्थम् इत्य् अर्थः. कथम् इति प्रतिपाद्यति. ते ह्य् एवेति विस्तरः. ते ह्य् एवेत्य् एवकारस् तद्व्य्तिरिक्तपृथिवीद्रव्यनिवृत्त्यर्थः. ते एव गन्धादयः. तदाख्याः पृथिव्याख्याः. यथा विज्ञायेरन्. तथा विशेषणार्थं व्यपदेश इत्य् अभिसंबन्धः. नान्य इति. नाबाद्याख्याः. पृथिव्याख्येभ्यो ऽन्ये विज्ञायेरन्न् इत्य् अर्थः. काष्ठप्रतिमायाः शरीरव्यपदेशवद् इति. यथा काष्ठप्रतिमायाः शरीरम् इति व्यपदिश्यते. अन्याभ्यो मृन्मयादिविशेषणार्थं. न च काष्ठप्रतिमायाः शरीरम् अन्यत्. एवम् इहापि व्यपदेशः स्यात्. न च गन्धादिभ्यो ऽन्या पृथिवीति.
संस्कारविशेषापेक्षत्व इत्य् आत्ममनःसंयोगस्य.
यो हि बलिष्ठ इति. संस्कारविशेषः. तेनान्येषां संस्कारविशेषाणां प्रतिबन्धः.
स एव बलिष्ठः कस्मान् नित्यं न फलतीत्य् आचार्यवचनं.
स एव पुनर् आह. यो ऽस्य न्यायो यः संस्कारस्य न्यायो विनाशः प्रतिबन्धो वा.
सो ऽस्तु भावनाया बीजात्मिकायाः. आत्मा तु निरर्थको निःप्रयोजनः कल्प्यते. संस्कारार्था हि तत्कल्पना स्यात्. तस्य च संस्कारस्य यत् कार्यं. तद् भावनयैव क्रियत इति.
स्मृत्यादीनाम् इति विस्तरः. स्यान् मतं. स्मृतिसंस्कारेच्छाद्वेषादीनां [तिब्. 382ब्] गुणपदार्थत्वात् तस्य च गुणपदार्थस्यावश्यद्रव्याश्रितत्वाद् द्रव्याश्रयश् च गुणवान् इत्य् एवं लक्षणोपदेशात्. न चैषाम् अन्य आश्रयः पृथ्व्यादिको युज्यते ऽपरप्रत्यक्षत्वाधिभिः. कारणैः. अतो य एषाम् आश्रयः. स आत्मा. तस्माद् अस्त्य् आत्मेति.
न. असिद्धेः. नैतद् एवं. कस्मात्. स्मृत्यादीनां गुणपदार्थत्वासिद्धेः. विद्यमानं द्रव्यम् इति. यत् स्वलक्षणतो विद्यमानं. तद् द्रव्यं. षट् द्रव्याणि श्रामण्यफलानीति. रूपस्कन्धादीनि पंच स्कन्धानि श्रामण्यफलान्य् असंस्कृतं च षष्ठम् इति षट् द्रव्याणि भवन्ति. नाप्य् एषाम् इति. स्मृत्यादिनं. परीक्षितो ह्य् आश्रयार्थ इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्य इति विस्तरेण.
एते प्रकारा इति. गौरादिप्रकाराः. स्कंधेष्व् अयम् इत्य् अहंकराः. न त्व् अहंकार इति. न त्व् अहम् इत्य् एवम् आकरः प्रत्यय इत्य् अर्थः.
इदं पुनस् तद् एवायातम् इति. किमर्थैषा षष्ठी. स्वाम्यर्था. यथा कः कस्यो स्वामी. यथा गोश् चैत्रः कथम् असौ तस्याः स्वामी. तदधीनो हि तस्यावाहधोहादिषु [तिब्. 383अ] विनियोगः. क्व च पुनर् अहंकारो विनियोक्तव्यो यत एतस्य स्वामि मृग्यते. अहंकर्तव्ये ऽर्थे. किमर्थं विनियोक्तयः. अहंकारार्थम्. अहो सूक्तानि सुखैधितानां. स एव हि नाम तदर्थं विनियोक्तव्य इति. कथं च विनियोक्त्व्यः. उत्पादनतः आहोस्वित् संप्रेषणतः. अहंकारगत्ययोगाद् उत्पादनतः. हेतुर् एव तर्हि स्वामि प्राप्नोति. फलम् एव च स्वं. यस्माद् धेतोर् आधिपत्यं फले. फलेन च तद्वान् हेतुर् इति.
य एवास्य हेतुर् अहंकारस्य. तस्यैवयम् इति. पुष्पितो वृक्ष इति दृष्टान्तो यत्र सिद्धान्ते वृक्षावयवी नेष्यते. विजातीयचतुर्महाभूतकायारम्भानभीष्टे. यत्र तु वृक्षावयव्य् अस्ति. तत्र द्वितीयो दृष्टान्तः. फलितं वनम् इति. न हि वनं नाम किंचिद् अस्ति. यथा यस्मिन् वने फलम् उत्पन्नं तत् फलितम् इति उच्यते. यथा यस्मिन्न् आश्रये षडायतनलक्षणे सुखम् उत्पन्नं दुःखं वा. स सुखितो दुःखितो वा. तथोक्तम् इति. यथा आश्रयः षडायतनं तथोक्तं.
तद्विकारविकारित्वाद् आश्रयाश् चक्षुरादय
इति. अथ पंचस्कन्धकं भवान् उदाहरतीत्य् अधिकृतं. स एव कर्तेति. स एव पंचस्कन्धलक्षणः कर्ता. [तिब्. 383ब्] नात्मा. इति सिद्धो नः पक्षः. तत्रापि स्वातंत्र्यं नास्तीति दर्शयन्न् आह. त्रिविधं चेदं कर्मेति विस्तरः. कायस्य चित्तपरतंत्रा वृत्तिः चित्तप्रवर्तित्वात् कायकर्मणः. चित्तस्यापि काये वृत्तिः स्वकारणप्रर्तंत्रा. [मनोधर्म]मनस्कारादिपरतंत्रत्वात्. तस्याप्य् एवं तस्य चित्तकारणस्य स्वकारणपरतंत्रा वृत्तिर् इति. नास्ति कस्यचिद् अपि स्वातंत्र्यं कायस्य चित्तस्य चित्तकारणस्यान्यस्य वा. प्रत्ययपरतंत्रा हि सर्वे भावाः.
चतुर्भिश् चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः. द्वाभ्याम् अन्ये तु जायन्त
इति वचनात्. आत्मनो ऽपि च निरपेक्षस्य बुद्धिविशेषाद्युत्पत्ताव् अकारणत्वाभ्युपगमान् न स्वातंत्र्यं सिध्यति. तस्मान् नैवं लक्षण इति. स्वतंत्रः कर्तेति. एवं तर्हि कर्तेत्य् आह. यत् तु यस्य प्रधानकारणं. तत् (अभिध्-क्-व्य् 719) तस्य कर्तेत्य् उच्यते. प्राधान्ये तत्प्रतीत्योत्पत्तेः. स एवम् अपि कर्ता न युज्यते. प्रधानकारणभावेनापि न युज्यत इत्य् अर्थः.
तस्याकारणत्वम् उपदर्शयन्न् आह. स्मृतितो हि छन्द इति विस्तरः. पूर्वस्मर्तव्ये ऽऋथे स्मृतिर् उत्पद्यते. स्मृतेश् छन्दः कर्तुकामता. छन्दाद् वितर्कश् चेतनाविशेषो ऽभिसंस्कारलक्षणः. प्रज्ञाविशेषो वा योगाचारनयेन. वैभाषिकनयेन त्व् अभिरूपणविकल्पलक्षणः. [तिब्. 384अ] वितर्कात् प्रत्यत्नो वीर्यं. प्रयत्नाद् वायुः. ततो वायोः कर्म देशान्तरोत्पत्तिलक्षणम् इति. किम् अत्रात्मा कुरुते.
विज्ञाने प्रतिषेधाद् इति. यैवोपलब्धिः. तद् एव विज्ञानं. विज्ञाने चात्मनः सामर्थ्यं प्रतिषिद्धं. चित्ताद् एवास्तु संस्कारविशेषापेक्षात्. न हि किंचिद् आत्मन उपलभ्यते समर्थ्यम्. औषधकार्यसिद्धाव् इव कुहकवैद्यफूःस्वाहानाम् इति.
यथा तथोक्तम् इति
तद्विकारविकारित्वाद् आश्रयाश् चक्षुरादय
इति.
तदाश्रिताद् इत्य् आत्माश्रितात्. उक्तोत्तरैषा वाचोयुक्तिर् इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. प्रतिघातित्वयुक्तत्वादिदोषान् न वै स एवम् आश्रयः. कथं तर्हीति विस्तरः. तदाहितं हि तद् इति. तेन बीजेनाहितं तत् सामर्थ्यम् इत्य् अर्थः.
यथोक्तम् इति स्थविरराहुलेन. यद् गुरु यच् चासन्नम्
इति विस्तरः. एकस्मिन् संताने चत्वारि कर्माणि. गुरु आसन्नम् अभ्यस्तं पूर्वकृतं च. एषां चतुर्णां गुरुकर्म पूर्वकम् इति त्रिभ्यस् तत् पूर्वं विपच्यते. आसन्नाभ्यस्तपूर्वकृतानाम् [तिब्. 384ब्] अप्य् आसन्नं पूर्वम् इति तत् पूर्वं द्वाभ्यां विपच्यते. अभ्यस्तपूर्वकृतयोश् चाभ्यस्तं पूर्वम् इति एकस्मात् पूर्वं विपच्यते. असत्स्व् एतेषु पूर्वजन्मकृतं विपच्यते अपरपर्यायवेदनीयं. अक्लिष्टानाम् इति. कुशलानाम् अनिवृताव्याकृतनां च. विक्लित्तिविशेषजाद् इति. भूम्युदकसम्बन्धात् फलस्य सूक्ष्मो विकारो विक्लित्तिः. तस्या विशेषः. स एवातिप्रकृष्टः. तस्माज् जातो विकारविशेषः. तस्मात्. फलान्तरम् उत्पद्यते. कीदृशाद् विकारविशेषाद् इति दर्शयन्न् आह. यो हि तत्र भूतप्रकारङ्कुरं निवर्तयति. स तस्य बीजम् इति. तस्यांकुरस्य बीजं. नान्यो भूतप्रकारः. न पूर्वबीजावस्थो भूतप्रकार इत्य् अर्थः. भविन्या तु संज्ञयेति. ओदनं पचति सक्तुं पिनष्टीति यथा भाविन्या संज्ञया व्यपदेशः. एवं पूर्वको ऽपि (अभिध्-क्-व्य् 720) संतानः अविक्लिन्नबीजावस्थः बीजम् इत्य् आख्यायते भाविन्यानया संज्ञयेति. सादृश्याद् वेति. विक्लिन्नविशेषजेन भूतविकारविशेषेण सदृशः. स पूर्वकः संतान इति कृत्वा बीजम् इत्य् आख्यायते. एवम् इहापीति विस्तरः. यदि सद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः कुशलसास्रवश् चित्तविकार उत्पद्यते. असद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः अकुशलो वा चित्तविकार [तिब्. 385अ] उत्पद्यते. तस्माद् तद्विपाकान्तरम् उत्पद्यते. नान्यथेति समानम् एतत्. यथा न फलाद् एव फलान्तरम् उत्पद्यते. किं तर्हि. विकारविशेषात्. एवं न विपाकाद् एव विपाकान्तरम् उत्पद्यते. किं तर्हि. चित्तविकारविशेषाद् उत्पद्यते इति. तुल्यम् एतत्.
फले रक्तः केसर इति. फलाभ्यन्तरे केसरः. यत्र बीजपूरकरस आम्लो ऽवतिष्ठते. न च स तस्मात् पुनर् अन्य इति. न रसरक्तः केसरस् तस्माद् उक्तात् केसरात् पुनर् उपजायते. किं तर्हि. प्राकृत एवारक्तः केसरस् उपजायत इत्य् अर्थः. इदम् अत्रोदाहरणं. यथा लाक्षारसरक्तमातुलुंगपुष्पफलाद् रक्तकेसरान् न रक्तं केसरान्तरं पुनर् भवति. एवं कर्मजाद् विपकान् न पुनर् विपाकान्तरम् इति. आह चात्र.
चित्तं ह्य् एतद् अनन्तबीजसहितं संतानतो वर्तते. तत्तद् बीजम् उपैति पुष्टिम् उदिते स्वे प्रत्यये चेतसि. । तत् पुष्टं द्रुमलब्धवृत्ति फलदं कालेन संपद्यते. रंगस्येव हि मातुलुंगकुसुमे ऽन्यस् तस्य तत्केसरे. ॥
पुनर् आह.
कर्पासबीजे पुष्पे च मातुलुंगस्य रंजिते. । लाक्षया जायते रक्तं यथा कर्पासकेसरं. ॥
तस्मिन्न् अस्तमिते रंगे संतानाद् भावितक्रमात्. । कर्मण्य् अस्तमिते चैव भावनातः फलोदय. ॥
इति.
कर्मेति सर्वं.
तद्भावनां
कर्मभावनां.
तस्या
भावनाया
वृत्तिलाभं
त्वद्वृत्तं लाभं.
ततस्
तद्वृत्तिलाभात्.
फलम्
इत्य् एतच् चतुष्टयं
नियमेन [तिब्. 385ब्] यदृच्छया.
बुद्धाद् अन्यः
श्रावकादिः
सर्वथा सर्वाकारं
न प्रजानाति.
अर्थाद् उक्तं भवति. बुद्ध एव तत् सर्वं सर्वथा प्रजानातीति.
इत्य् एताम् इति विस्तरः. इतिकरणः समाप्त्यर्थः. प्रदर्शनार्थो वा. एतां बुद्धानां प्रवचनधर्मतां सुविहितेन हेतोर् मार्गेण हेतुमार्गेण शुद्धां निरवद्यां निशाम्य दृष्ट्वा. अंधास् तीर्थ्याः. यथाभूतदर्शनवैकल्यात्. कुत्सिता दृष्टिः कुदृष्टिः. तस्याश् चेष्टितानि कुदृष्टिचेष्टितानि. विविधानि कुदृष्टिचेष्टितान् एषाम् इति विविधकुदृष्टिचेष्टिताः स्वर्गापवर्गहेताव् अप्रतिपन्न मिथ्याप्रतिपन्नाश् चेत्य् अर्थः. तेषाम् एवंविधानां तीर्थ्यानां कपिलोलूकादीनां मतं दर्शनम् अपविध्य त्यक्त्वा यांति संसारान् निर्वाणम् इति वाक्याध्याहारः. के ते सत्त्वाः प्रज्ञाचक्षुष्मन्त आर्यश्रावकाः. अथ वा ताम् एव प्रवचनधर्मतां यान्ति प्रतिपद्यन्त इत्य् अर्थः. प्रवचनधर्मता पुनर् अत्र नैरात्म्यं बुद्धानुशासनि वा. अन्य आहुः. प्रवचनं सूत्रादिद्वादशांगवचोगतम्. तस्य धर्मता स्वाख्यातता युक्त्युपेतत्वात्. निर्वाणप्रवणता च निर्वाणद्योतनात्. यथोक्तं सर्व इमे धर्मा निर्वाणप्रवणाः निर्वाणप्राग्भाराः निर्वाणम् एवाभिवदन्तो [तिब्. 386अ] ऽभिवदन्तीति. अनात्मसंज्ञिनश् च निर्वाणे शान्तसंज्ञाः संतिष्ठन्ते. आत्मोच्छेदाशंकापगमाद् इति. तद् एवम् अनन्धा एव यान्ति. नान्धाः. अन्धास् तु भ्रमन्त्य् एव संसारार्णवे नैरात्म्यम् अपश्यन्तः. तद् दर्शयन्न् आह इमां हीति विस्तरः. इयं निरात्मता. निर्वाणम् एव पुरं निर्वाणपुरं. तस्यैका वर्तिनीति निर्वाणपुरैकमार्गो नान्यो मार्ग इत्य् अर्थः. तथागत एवादित्यो गंभीरधर्माभिप्रकाशकत्वाद् आदित्यभूतस् तथागतः. तस्य वचांसि तान्य् एवांशवः. तैर् भास्वती आलोकवती तथागतादित्यवचोऽंशुभास्वति. आर्याणां सहस्रैर् वाहितेत्य् आर्यसहस्रवाहिता. विवृताम् अपीति. ताम् इमां
निर्वाणपुरैकवर्तिनीं तथागतादित्यवचोऽंशुभास्वतीं विवृताम् अपि निरात्मतां. प्रज्ञाचक्षुषो विशदस्याभावाद् अविद्याकोशपटलपर्यवनद्धनेत्रत्वाद् वा मन्दचक्षुः तीर्थिको वात्सीपुत्रीयो ऽपि वा नेक्षते. त्रयश् चेह मार्गगुण वर्ण्यन्ते. (अभिध्-क्-व्य् 722) तद्यथैकायनताभिप्रेतदेशप्रायणात्. सालोकता यतो निःशंको गच्छति. यातानुयातता च परिमर्दितस्थाणुकण्टकादित्वात्. [तिब्. 386ब्] येन सुखं गच्छति. तत्साधर्म्येणेयं निरात्मतावर्तिनी द्रष्टव्या. चतुर्भिश् च कारणैर् मार्गो न विद्यते. सत्वानुतमस्कतया. प्रकाशितो ऽप्य् आदित्येन अवाहिततया. बहुपुरुषवाहितो ऽप्य् आवृततया. विवृतो ऽपि द्रष्टुर् मन्दचक्षुष्कतयेति. तेषाम् इहैकम् एव कारणम् अस्य मार्गस्यादर्शन उक्तं. यतो द्रष्टुर् दोषेणैवायं मार्गो न दृश्यते. न मार्गदोषेणेति. यत एष मन्दचक्षुर् एतं न पश्यतीत्य् अवगन्तव्यम्.
इति दिङ्मात्रम् एवेदम्
इति. सर्वम् इति यथोक्तं. दिग् एव दिङ्मात्रम् एवकारार्थो मात्रशब्दः. दिक् प्रमाणम् अस्येति दिङ्मात्रम् इति वा. महतो ऽभिधर्मशास्त्राद् अल्पम् इदम्
उपदिष्टं
मयेति वाक्यशेषः. केषाम्.
सुमेधसां.
मतिमताम् इत्य् अर्थः. तादर्थ्ये षष्ठि. किंवद् इत्य् आह.
व्रणदेशो विषस्येव स्वसामर्थ्यविसर्पिण
इति. यथा विसं स्वसामर्थ्याद् व्रणदेशं प्राप्य सर्वेष्व् अङ्गप्रत्यङ्गेष्व् अत्यन्तं विसर्पतीति मत्वा केनचित् तस्य व्रणदेशः कृतः. कथं नामेदं विसर्पतीति. एवं सुमेधसः स्वसामर्थ्यविसर्पित्वाद् विषस्थानियाः. इत्य् अतस् तेषां सुमेधसाम् उद्घटितज्ञानां प्राज्ञानाम् इदम् उपदिष्टं मया. कथम्. अल्पेन ग्रन्थेन महद् अभिधर्मशास्त्रं.
काश्मीरवैभाषिकनीतिसिद्धम्
अर्थतः प्रतिपद्येरन्न् इति. अपरे पुनर् व्याचक्षते. इति दिङ्मात्रम् एवेदम् इति इदम् एव नैरात्म्यप्रतिवेधम् अधिकृत्योक्तम् इति.
काश्मीरवैभाषिकनीतिसिद्धः
प्रायो मयायं [तिब्. 387अ] कथितो ऽभिधर्म
इत्य् अनेनैवार्थस्याभिहितत्वाद् इति.
समाप्तश् चाष्टमकोशस्थानसंबद्ध एव पुद्गलविनिश्चयः.
नानाभिधर्मार्थकरंडभूतम् एतद् विवृ ....... ...... रः प्रसूततृष्नाय् अमृतम् अद्भृतयोनिभूतं । व्याख्यापदार्ककिरणैः स्फुटितं मदीयैः शास्त्राम्बुजं बुधजनभ्रमरा भजन्तां ॥
यो ऽधित्य सर्वशास्त्राणि विद्वद्यशा यशोमित्रः. । स इमां कृतवान् व्याख्यां व्याख्यास्व् अन्यास्व् असंतुष्टः. ॥
तेन श्रीभारतीभर्तः परमार्थागमा व्याख्या । इयं देवरूपस्य देवकल्पस्य कल्पिता ॥
आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायाम् अष्टमं कोशस्थानं समाप्तम् इति.
ग्रंथकारसंख्या 25000.
शुभं
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
