Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यावद् वायुमण्डलम् इत्य् अधस्ताद् अनुगच्छति. वैरंभाश् च वायव इत्य् उपरिष्ठात्. तत्त्वमनसिकारत्वान् न युक्तम् एतत्. यावद् वायुमण्डलं वैरंभाश् च वायव इति. अधिमुक्तिमनस्कारस्यैषा कल्पना युज्येत.
किम् अनुग्राहका एते यावद् उष्णा इति. स्थापनैवेयं द्रष्टव्या. कायप्रदेश एवानुग्राहकादिविशेषस्थापनतः. तदाश्रिताश् चित्तचैत्त इति. तत्प्रतिबद्धवृत्तय इत्य् अर्थः. [तिब्. 188ब्] उत्तरोत्तरेषु कुशलमूलेष्व् इति. स्मृत्युपस्थानोष्मगतादिष्व् इति. दर्शनमार्गादिष्व् इत्य् आदिशब्देन भावनामार्गग्रहणं.
क्षयज्ञानादिविशुद्धिर् इति. आदिशब्देन अनुत्पादज्ञानाशैक्षसम्यग्दृष्टिग्रहणं.
(vi.14) नापानौ यतः काय
इति. आनापानस्मृतिसंबंधेन सर्वभूमिकाव् आनापानौ निर्दिश्यते. यद्भूमिको हि काय इति. कामावचरः यावत् तृतीयध्यानभूमिकस् तद्भूमिकाव् एतौ. नान्यभूमिकौ. कायचित्तविशेषसंनिश्रिता इति. कायविशेषसंनिश्रिताः चित्तविशेषसंनिश्रिताश् चाश्वासप्रश्वाशाः. कस्माद् इत्य् आह. आरूपोयकललादिगतानाम् अभावाद् इति. कायाभावाद् आरूप्यगतानां न भवंति. कललादिगतानां च. कललार्बुदपेश्यादिगतानां च न भवंति. कायविशेषाभावात् सुषिरकायाभावाद् इत्य् अर्थः. अचित्तानां च न भवंति. चित्ताभावात्. चतुर्थध्यानसमापन्नानाम् अपि न भवंति. आश्वासप्रश्वासभूमिचित्तविशेषाभावात्. अत एवाह. यदि कायः सुषिर इति विस्तरः. इन्द्रियविनिर्भागित्वाद् इति. इन्द्रियपृथग्वृत्तित्वाद् इत्य् अर्थः. कायोपचयेनापचयान् नौपचयिकौ. [तिब्. 189अ] उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसंधानान् न विपाकजौ. न ह्य् एतद् विपाकरूपस्यास्ति विपाकात्मकस्य रूपस्य चक्षुरादेर् एतत् पुनःप्रतिसंधानं नास्ति. अरूपस्य तु चित्तचैत्तस्य पुनःप्रतिसंधानं न वार्यते. नाधरेणैर्यापथिकनैर्माणिकेनेति. ऐर्यापथिकं नैर्नाणिकं च चित्तम् अधरभूमिकं संमुखीभवति यावच् चतुर्थध्यानोपपन्नस्येत्य् (अभिध्-क्-व्य् 529) अत आशंक्योच्यते. नाध्गरभूमिकाभ्यां ताभ्याम् उपलक्षणम् इति.
(vi.15, 16) विपश्यनायाः संपादनार्थम् इति. प्रज्ञायाः संपादनार्थम् इत्य् अर्थः. निष्पन्नसमाधेर् अपि हि प्रज्ञाम् अंतरेण क्लेशा न प्रहीयंते. ज्ञानवध्याः क्लेशा इति वचानात्. कुतः प्र्नर् एतत् स्मृत्युपस्थानभावनया विपश्यना संपद्यत इति. सूत्रात्. एकायनो ऽयं भिक्षवो मार्गो यद् उत स्मृत्युपस्थानानि. केवलो ऽयं कुशलराशिः यद् उअत् चत्वारि स्मृत्युपस्थानानीति वचनात्.
कायविद्
इति वेदना वित्. स्वभाव एवैषां स्वलक्षणम् इति. कः स्वभावः. कायस्य भूतभौतिकत्वं. वेदनाया अनुभवत्वं. चित्तस्योपलब्धित्वम्. एभुअस् त्रिभ्यो ऽन्येषां यथास्वं स्वभावः. दुःखता सास्रवाणाम् इति. [तिब्. 189ब्] आर्यप्रतिकूललक्षणं दुःखम् इति व्याख्यातम् एतत्. धर्मास् त्रिभ्यो ऽन्य इति असंभिन्नव्यवस्थाम् अभिसंधायैवम् उच्यते. स्ंभिन्नव्यवस्थायां तु कायादयो ऽपि निगृह्यंते. पुनः सर्वे संस्कृता असंस्कृताश् च धर्मा द्रष्टव्याः.
स्वभावस्मृत्युपस्थानं
प्रज्ञेति.
यस्मात् संसर्गालंबनम् अपेक्ष्येयं प्रज्ञोपतिष्ठते. तस्मात् स्मृत्युपस्थानम् इत्य् उच्यते.
श्रुतादिमयी
ऽति विशेषणं. यस्मात् स्मृत्युपस्थानानि प्रायोगिकाणि नोपपत्तिलभ्यानि. कस्मात् प्रज्ञास्वभावम् इत्य् उच्यते. किम् अन्यथापि स्मृत्युपस्थानम् अस्तीति. उच्यते.
अन्ये संसर्गालंबनाद्
इति. अन्ये तत्सहभुवो वेदनादयः. संसर्गेण स्मृत्युपस्थानं संसर्गस्मृत्युपस्थानम्. स्वभावस्मृत्युपस्थानसंसर्गात्. तदालंबनाद् इति. स्वभावसंसर्गस्मृत्युपस्थानालंबनाद् आलंबनस्मृत्युपस्थानं. तदालंबना आलंबनस्मृत्युपस्थानम् इत्य् अपरे पठंति. आलंब्यंत इत्य् आलंबनाः. के. कायवेदनाचित्तधर्माः. तद् एवं सति तद् आलंबनस्मृत्युपस्थानं सर्वधर्मस्वभावं भवति. उक्तं च भगवता. [तिब्. 190अ] सर्वधर्मा इति भिक्षवश् चतुर्णां स्मृत्युपस्थानानाम् एतद् अधिवचनम् इति.
तया हि प्रज्ञया तद्वान् प्रज्ञावान्. अनुपश्यः क्रियत इति. अनुपश्यतीत्य् (अभिध्-क्-व्य् 530) अनुपश्यः. पाघ्राध्माधेट्दृशः श इति शप्रत्ययः. अनुपश्यं पुद्गलं करोतीत्य् अनुपश्ययति. प्रज्ञास्वभावे त्व् एवं विग्रहः. अनुपश्यस्य करणम् अनुपश्यनेति. तया हि प्रज्ञया तद्वान् प्रज्ञावान् अनुपश्यः क्रियते. यथा प्रज्ञायोगात् प्राज्ञः पुद्गल उच्यते. एवम् अनुपश्यनायोगाद् अनुपश्य इत्य् अतो ऽनुपश्यना प्रज्ञेति सिद्धं. यतश् चोक्तं भगवता. अध्यात्मं प्रत्यात्मं काये कायानुपश्यी कायानुदर्शी विहरतीति. तेनापि ज्ञायते ऽनुपश्यना प्रज्ञेति. कथम् इति साधयत्य् अनुपश्यम् अस्यास्ति. किं तद् दर्शनं. दर्शनलक्षणं ह्य् अनुपश्यम्. अतो ऽनुपश्यी पुद्गलो दण्डिवत्. ततः सप्तमीतत्पुरुषः. काये ऽनुपश्यी कायानुपश्यीति. कायम् अनुपशयितुं शीलम् अस्येति कायानुपश्यीति णिनिर् अपि यदि विधीयेत तथाप्य् एतद्रूपं सिध्यतीति पश्यामः.
स्मृत्युद्रेकत्वाद् इति. स्मृत्यधिकत्वाद् इत्य् अर्थः. [तिब्. 190ब्] स्मृतिबलाधानवृत्तित्वाद् इति. बलस्याधानं. स्मृतेर् बलाधानं स्मृतिबलाधानं. स्मृतिबलाधानेन वृत्तिर् अस्या इति स्मृतिबलाधानवृत्तिः प्रज्ञा. तद्भावः. तस्मात्. दारुपाटकीलसंधारणवद् यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य संधारणम्. एवम् अस्याः प्रज्ञायाः स्मृतिबलाधानेनालंबने वृत्तिर् इति. यदि हि स्मृतिर् आलंबनं धरयत्य् एवं प्रज्ञा प्रजानातीति. तद् एवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषिकीयो ऽर्थः कृत्यल्युटो बहुलम् इति कर्तर्य् अपि ल्युड् भवतीति.
एवं तु युज्यत इत्य् आचार्यः. करणसाधनम् एतत्. स्मृतिर् अनयोपतिष्ठत इति. अर्थप्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. उपतिष्ठते ऽनेनेत्य् उपस्थानं. स्मृते उपस्थानं स्मृत्युपस्थानम् इति. कथं स्मृतिर् अनयोपतिष्ठत इत्य् आह. यथादृष्टस्याभिलपनाद् इति. यस्माद् यथादृष्टो ऽर्थः प्रज्ञया. तथैवाभिलप्यते. स्मृत्योद्गृह्यत इत्य् अर्थः. क्व पुनर् उपतिष्ठते. काये यावद् धर्मेषु. काये स्मृत्युपस्थानं कायस्मृत्युपस्थानं. एवं यावद् धर्मेषु स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति. यथा च स्वभावस्मृत्युपस्थानस्य. एवं संसर्गस्मृत्युपस्थानस्यापि. यथैव हि प्रज्ञया स्मृतिर् उपतिष्ठते कायादिषु. एवं तत्संप्रयुक्तैर् अपीति.
इदानीं सूत्रोक्तां स्मृत्युपस्हानानां कर्णसाधनत्वम् असंबध्यमानं दृष्ट्वा कारकांतरेणार्थं विवक्षुर् [तिब्. 191अ] आह. यत्र तूक्तम् इति विस्तरः. यथा कायस्य समुदयास्तंगताव् उक्तौ. एवं वेदनादीनाम् अपि वक्तव्यौ. कथं. स्पर्शसमुदयात् वेदनायाः समुदयो भवति. स्पर्शनिरोधाद् (अभिध्-क्-व्य् 531) वेदनाया अस्तंगमः. नामरूपसमुदयाच् चित्तस्य समुदयो भवति. नानरूपनिरोधाच् चित्तस्यास्तंगमाः. मनसिकारसमुदयाद् धर्माणां समुदयो भवति. मनसिकारनिरोधाद् धर्माणाम् अस्तंगम इति. अत्र सूत्रे आलंबनम् एव कायवेदनाचित्तधर्माः स्मृत्युपस्थानं. स्मृतिर् अत्र कायादिषूपतिष्ठत इति कृत्वा. तद् एवम् अधिकरणसाधनं दर्शितं भवति. उपतिष्ठते स्मृतिर् अस्मिन्न् इत्य् उपस्थानम्. स्मृतेर् उपस्थानं स्मृत्युपस्थानं. एवं यावद् धर्मा एव स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति विग्रहः. यदि चात्र सूत्रे आलंबनं स्मृत्युपस्थानं नाभिप्रेतम् अभविष्यत्. न भगवान् एवम् अवक्ष्यत्. कथं च भिक्षवश् चतुर्णां स्मृत्युपस्थानानां समुदयश् च भवत्य् अस्तंगमश् च. आहारसमुदयात् कायस्य समुदयो भवति. आहारनिरोधात् कायस्यास्तंगम इति विस्तरः. कायादीनां हि स्मृत्युपस्थानत्वे सति तथा वचनं युज्येत. तस्मात् कायादय आलंबनस्मृत्युपस्थानम् इति सिद्धं.
यथालंबनं चैषां नामेति. एषां कायस्ंऋत्युपस्थानादीनां [तिब्. 191ब्] आलंबनापेक्षया कायस्मृत्युपस्थानं यावद् धर्मस्मृत्युपस्थानम् इति नाम व्यवस्थापते. स्वपरोभयसंतत्यालंबनत्वात्. परसंतत्यालंबनत्वात्. उभयसंतत्यालंबनत्वाच् च प्रत्येकम् एकैकशः एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति. सूत्रे वचनात्. कथम्. अध्यात्मं काये कायानुपश्यी विहरति. आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. बहिर्धा ये कायनुपश्यी विहरति आतापीति पूर्ववत्. अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति पूर्ववत्. एवं तावत् कायस्मृत्युपस्थानस्य त्रैविध्यं. वेदनास्मृत्युपस्थानादीनाम् अप्य् अध्यात्मं वेदनानां वेदनानुपश्यी विहरतीति विस्तरेण त्रैविध्यं योज्यं. औदारिकस्य पूर्वं दर्शनाद् इति. कायस् त्रिभ्य औदारिकः. षड्विज्ञानविज्ञेयत्वाद् इति. तस्य पूर्वं दर्शनं. द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनंतरं तस्या दर्शनं. सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्य् अतस् तेभ्यः पूर्वं चित्तस्य दर्शनम्. अंते धर्माणाम् इति. स चेति कामरागः. स च चित्तस्येति स वेदनाभिलाषः. तत्क्लेशाप्रहाणात्. तददांतत्वं. यथाक्रमम् इति. [तिब्. 192अ] शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानं. सुखविपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानं. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति. नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानानां. चित्तस्य लघुपरिवर्तित्वात्. आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानं. पिण्डविभागतो धर्माणाम् अनात्मकारित्वाद् धर्ममात्रं रहितम् आत्मनेति (अभिध्-क्-व्य् 532) धर्मनिर्वचनतः. धर्मा इमे
पृथग्पृथग् अवस्थिताः. न च कश्चित् स्वतंत्र आत्मेति. तद्दर्शनाद् वा. चतुर्थम् उभयथेति. धर्मस्मृत्युपस्थानम् असंभिन्नालंबनम् अमिश्रालंबनं भवति. कायवेदनाचित्तव्यतिरिक्तधर्मालंबनत्वसंभवात्. संभिन्नालंबनम् अपि भवति. कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति. यदि कायं वेदनां च द्वे पश्यति धर्मस्मृत्युपस्थानं. तत् संभिन्नालंबनं. यदि कायम् यावद् धर्मांश् च पश्यति. तद् अपि तथैव. यद् अपि कायं वेदनां चित्तं धर्मांश् च समस्तान् पश्यति. तद् अपि संभिन्नालंबनं धर्मस्मृत्युपस्थामम् इति.
(vi.17) समस्तालंबने स्थित
इति. कायवेदनाचित्ताधर्मान् अभिसमस्य.
(vi.18-20) उष्मगतम्
इत्य् उष्मप्रकारं कुशलमूलं. पूर्वरूपत्वाद् इति. प्रथमनिमित्तत्वात्. पूर्वस्वभावत्वाद् वा. प्राकर्षकत्वाद् इति. [तिब्. 192ब्] प्राबंधिकत्वाद् इत्य् अर्थः. एषां तु विशेषणं पश्चाद् वक्ष्याम इति सप्तमे कोशस्थाने
द्रव्यतः षोडशाकारा
इति अत्र. यदि ते ऽपि तादृशाः. अथ किम् अर्थम् उपदिश्यंत इत्य् अत आह. उत्कृष्टतरत्वात् तु नामांतरम् इति. अथ कस्मान् मूर्धान इत्य् उच्यंत इत्य् आह. चलकुशलमूलमूर्धत्वाद् इति. मूर्धशब्दो ऽयं प्रकर्षपर्यंतवाची. तथा हि लोके वक्तारो भवंति. मूर्धगता खल्व् अस्य श्रीर् इति. द्वे हि कुशलमूले चले. उष्मगतमूर्धलक्षणे परिहाणिसंभवात्. द्वे अचले क्षांतिलौकिकाग्रधर्मलक्षणे विपर्ययात्. तत्र तयोर् यन् मृदु. तद् उष्मगतं. यद् अधिमात्रं. ते मूर्धानः. अचलयोर् अपि यन् मृदु. सा क्षांतिः. यद् अधिमात्रं. ते लौकिकाग्रधर्माः. एभ्यो हि पातो ऽतिक्रमो वेति. मूर्धभ्यः पातः परिहाणिः. अतिक्रमो वा क्षांतिसंमुखीभावो वा. मूर्ध्नां चलत्वात्. वृक्षादिमूर्धेभ्यो हि लोके पातो वा भवेद् अतिपातो वा. उपरिष्ठानुप्राप्तिर् इति मूर्धसाधर्म्यं. सत्येष्व् आकाराणां प्रथमतो विन्यसनम् इति. सत्येष्व् अनित्याद्याकाराणाम् आदित उपनिपातनं. तदालंबनानां प्रवर्तनम् इत्य् अर्थः.
अन्यैर् अपीति.
धर्मस्मृत्युपस्थानाद् [तिब्. 193अ] अन्यैर् अपीत्य् अर्थः.
वर्धनम्
अभ्यासेनोत्तोप्तीकरणं. विवर्धयत इति विस्तरः. विवर्धयतो योगिनो वर्धनेन (अभिध्-क्-व्य् 533) विशिष्टानां कुशलमूलानां संमुखीभावः. पूर्वप्रतिलब्धानाम् इति. अविशिष्टानाम् असंमुखीभावः. कस्मात्. अबहुमानात्. न्यूनत्वेनावहुमानाद् इत्य् अर्थः. अधिमात्रसत्यक्षमणाद् इति. उष्मगतावस्थायां मृदु सत्यं क्षमते रोचते. मूर्धावस्थायां मध्यं. तदनंतरम् इदानीम् अधिमात्रसत्यक्षमणात् क्षांतिर् उत्पद्यते. कथम् इत्य् अत आह. अपरिहाणित इति. यस्मात् क्षांतिर् न परिहीयते. मूर्धभ्यस् तु परिहीयत इत्य् अस्ति संभवः.
द्विधा तद्वद्
इति. मृदुमध्ये क्षांती तथैव. यथा मूर्धान उक्ताः. तथैवाकरणात् धर्मस्मृत्युपस्थानेन. सत्येष्व् आकाराणाम् आकरणाद् इत्य् अर्थः. सर्वस्या इति. मृदुमध्याधिमात्रभेदभिन्नायाः सर्वस्याः क्षांतेः. धर्मस्मृत्युपस्थानेनैव वचनं. नान्येन कायस्मृत्युपस्थानादिना. कस्मात्. अग्रधर्मश्लेषात्. अग्रधर्मा हि दर्शनमार्गश्लेषात्. धर्मस्मृत्युपस्थानात्मक एवेति. अग्रधर्मश्लेषाद् इति [तिब्. 193ब्] अग्रधर्माणां कामावचरदुःखसत्यालंबनानाम् अनंतरोत्पादात् क्षांतेः कामावचरत्वदुःखसत्यालंबनम्. अग्रधर्मश्लेषाद् धि तत्सादृश्यम् इति. नियमावचनाद् इति. अधिमात्रक्षांतिवद् उष्मगतादीनाम् आलंबनं प्रतिनियमावचनात्. अधिमात्रक्षांत्यवधारणेनैव हि त्रैधातुकदुःखाद्यालंबनत्वम् एषाम् उष्मगतादीनां सिध्यति. कथं. कामाप्तम् एव दुःखं विषयो ऽस्याम्. सेयं कामाप्तदुःखविषया अधिमात्रा क्षांतिः. क्षांतेर् एवेत्य् अवधारणात् अन्यान्य् उष्मगतादीनि त्रैधातुकदुःखाद्यालंबनानीति सिद्धं. यदा किलेति विस्तरः. यदा किल रूपारूप्यप्रतिपक्षादीनाम्. अदिशब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणं. एकैकसत्याकारालंबनापह्रासेनैकैकस्य सत्याकारस्य एकैकस्य सत्यालंबनस्य चापह्रासेन यावत् कामावचरम् एव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति. एषा सर्वैव रूपाराप्यप्रतिपक्षाकारह्रासात् प्रभृति मध्या क्षांतिः. कथम्. अन्वयज्ञानपक्षं तावन् मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् चेति [तिब्. 194अ] तैश् चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिर् एकं हित्वा. ततो द्वाभ्यां द्वौ हित्वा. तत एकेन. ततो मार्गसत्यं हित्वा. रूपारूप्यनिरोधं
चतुर्भिः स्वैर् आकारैर् आकारयति. ततस् त्रिभिः द्वाभ्याम् एकेनैव चाकार्य निरोधसत्यं चापास्य. समुदयसत्यं चतुर्भिः स्वैर् आकारैः. त्रिभिः द्वाभ्याम् एकेन चाकार्य. तथैव तद् अपास्य. दुःखसत्यं स्वैर् आकारैर् यावद् एकेनाकार्य. तद् अपि सत्यम् अपास्य. कामावचरप्रतिपक्षं स्वैश् चतुर्भिर् आकारैः त्रिभिः द्वाभ्याम् एकेन चाकारयति. तद् अपास्य. (अभिध्-क्-व्य् 534) कामावचरनिरोधसमुदयसत्ये तथैव स्वाकारह्रासक्रमेणाकार्यापास्य च. कामावचरं दुःखसत्यं चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिः ततो द्वाभ्याम् आकारयतीति. एवं हि ह्रासारंभात् प्रभृति सर्व एते क्षणा मध्या क्षांतिर् इत्य् उक्तं भवति. तृतीये क्षणे तदालंबनैवाधिमात्रा क्षांतिः. चतुर्थे अग्रधर्मास् तदालंबना एव. म्र्द्वी तु क्षांतिर् या पुरस्ताद् अधिमात्रेभ्यो मूर्धभ्यो ऽनंतरं कामावचरं दुःखसत्यं यावन् मार्गसत्यं. रूपारूप्यावचरं च. स्वैःस्वैः सर्वैर् आकारैर् अनपह्रासं मनसिकुर्वत इत्य् अवगंतव्यं.
[तिब्. 194ब्] एवं तावद् एके व्याचक्षते. आकारापह्रासपूर्वक आलंबनापह्रास इति.
अपरे पुनर् व्याचक्षते. एकैकसत्याकारालंबनापह्रासेनेति. नैवं ग्रहीतव्यं एकैकसत्याकारालंबनापह्रासेने चेति. किं तर्हि. रूपारूप्यप्रतिपक्षादीनाम् एकैकेषां सत्यानां ये आकाराः. तेषाम् आलंबनह्रासेनेति व्याख्यातव्यम् इति.
एकान्नविंशतिक्षणशतं मध्या क्षांतिर् इति वर्णयंति. आकारापह्रास. पूर्वके ह्य् आलंबनापह्रासे सति अतिबहवश् चित्तक्षणा विसर्पंति. न चैतन् न्याय्यं. न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते. यदा तु सत्यानि त्यक्तानि भवंति. तदाकारत्याग इति युक्तं. एवं च सति पूर्वं सत्यालंबनह्रासं करोति पश्चाद् आकारह्रासं. न हि मौले विषये ऽनपाकृते तदालंबनापाकरणं न्याय्यं. समाहितासमाहितदुःखसमुदयनिरोधमार्गा अष्टौ व्यवस्थाप्यंते. एषाम् आकारा द्वात्रिंशद् भवंतीत्य् एतद् अधुना न्यायांतरम् उपदिश्यते. कथं कृत्वा. यदा कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. एवं यावद् रूपारूप्यावचराणां प्रतिपक्षं चतुर्भिर् आकारैर् मनसिकरोतीयं मृद्वी क्षांतिः. यदा पुनः कामावचरदुःखं चतुर्भिर् आकारैर् मनसिकरोतीत्य् एवं यावत् कामावचराणां [तिब्. 195अ] संस्काराणां प्रतिपक्षं मनसिकरोति चतुर्भिर् आकारैः. रूपारूक्यावचराणां संस्काराणां प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षांतिर् आरब्धा. तत्र च रूपारूप्यावचरप्रतिपक्षपरित्यागे ऽष्टाविंशतिश् चित्तक्षणा भवंति. कामावचरसंस्कारप्रतिपक्षपरित्यागे चतुर्विंशतिः. रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः. कामावचरनिरोधपरित्यागे षोडश रूपारूप्यावचरसमुदयपरित्यागे द्वादश. कामावचरसमुदयपरित्यागे ऽष्टौ. रूपारूप्यावचरदुःखपरित्यागे चत्वारः. कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. तस्य भवंत्य् आकाराश् चत्वारः. स च योगाचारो द्विविधः. (अभिध्-क्-व्य् 535) दृष्टिचरितः. तृष्णाचरितश् च. दृष्टिचरितो ऽपि द्विविधः. आत्मदृष्टि चरितः. आत्मीयदृष्टिचरितश् च. यो ह्य्
आत्मदृष्टिचरितो भवति. सो ऽनात्माकारेण नियामम् अवक्रामति. यस् त्व् आत्मीयदृष्टिचरितः. स शून्याकारेण. तृष्णाशरितो ऽपि द्विविधः. अस्मिमनोपहतः. कौसीद्याधिकश् च. तत्र यो ऽस्मिमानोफतः. सो ऽनित्याकारेण नियामम् अवक्रामति. यः कौसीद्याधिकः. स दुःखाकारेण. तत्रात्मदृष्टिचरितो योगाचारः पुनस् तत् कामावचरं दुःखं त्रिभिर् आकारैर् मनसिकरोति. एकम् आकारं हित्वा. ततो द्वाभ्याम् अनात्मशून्यताकाराभ्यां. तत एकम् अनात्माकारं द्विः संमुखीकरोति. दुःखधर्मज्ञानक्षांतिदुःखधर्मज्ञानसदृशम् [तिब्. 195ब्] इति. एषा मध्या क्षांतिर् इत्य् एवम् एकान्नविंशं चित्तशतं भवति. एवम् आत्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्याम् आकारयतः शून्याकारं द्विः संमुखीकरोति. एषास्य मध्या क्षांतिः एवम् एकान्नविंशक्षणशतम्. एवं तृष्णाचरितो द्विप्रकारः. अस्मिमानोपहतः. कौसीद्याधिकश् च वक्तव्या इति. अधिमात्रा तु क्षांतिर् एकम् एव क्षणं. सा यथापुद्गलचरितम् अनित्याकारेण वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा संप्रयुक्तेति. अथ किम् अर्थम् एकैकसत्याकारालंबनह्रासः क्रियते. पूर्वं हि तेन त्रैधातुकं विदूषयता समस्तः प्रतिपक्ष आलंबितः. पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेयत्वात् कामावचर एव दुःखे ऽवतिष्ठत इति. तत्पुरुषकारेण मार्गाकर्षणाद् इति. विना सभागहेतुना. पूर्वस्यानास्रवस्याभावात्. लौकिकाग्रधर्मपुरुषकारेण मार्गसत्यस्याकर्षणात्. सर्वलौकिकश्रेष्ठत्वम् अग्रधर्माणां गम्यते.
सर्वे तु पंच स्कंधाः सपरिवारग्रहणाद् इति. समाहितभूमिदत्वाद् उष्मगतादीनाम् अविज्ञप्तिलक्षणो रूपस्कंधो ऽस्तीति [तिब्. 196अ] पंच स्कंधा उष्मगतादयः सपरिवारग्रहणात् सपरिवारा गृह्यंते इति. मा भूद् आर्यस्येति. प्राप्तिसंमुखीभावात् आर्यपुद्गलस्योष्मगतादीनां फलप्राप्तिप्रयोगभूतानां संमुखीभावो मा भूद् इति प्राप्तयो नोष्मगतादिषु गृह्यंते. न हि प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसंमुखीकरणं न्याय्यम् इति.
त्रिसत्यालंबनोष्मगताकरण इति. दुःखसमुदयमार्गालंबनोष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. यत्नजन्यस्य कार्यस्याकरणे समस्तालंबनत्वेन धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्. प्रतिनियतालंबनत्वेन हि कायस्मृत्युपस्थानादीन्य् असमर्थानीति अनागतानि चत्वारि (अभिध्-क्-व्य् 536) भाव्यंत इति. यस्मात् स्मृत्युपस्थानेन कायवेदनादयो ऽपि दुःखसत्यादिसंगृहीता गृह्यंते. कायस्मृत्युपस्थानादीनि च पूर्वप्रतिलब्धानि भवंतीत्य् अतश् चत्वार्य् अपि भाव्यंते प्राप्त्युत्पादाद् इति. निरोधसत्यालंबने तद् एवोभयथेति. निरोधसत्यालंबने उष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तद् एव चानागतं भाव्यते. न कायस्मृत्युपस्थानादीनि. निरोधसत्ये कायाद्यभावात्. [तिब्. 196ब्] सर्वत्राकाराः सभागा इति. त्रिसत्यालंबनस्य निरोधसत्यालंबनस्य चोष्मगतस्याकरणे सदृशा एवाकारा भाव्यंते. दुःखसत्यालंबने दुःखसत्याकारा एव चत्वारो भाव्यंते. न समुदयसत्याद्याकाराः. समुदयसत्याद्याकारालंबने समुदयसत्याद्याद्याकारा एव चत्वारो भाव्यंते. नान्य इत्यादि. विवर्धन इति. त्रिसत्यालंबने. कायस्मृत्युपस्थानादीनाम् अन्यतमत् प्रत्युत्पन्नं संभवति. मिरोधसत्यालंबने ऽन्त्यं प्रत्युत्पन्नं. उभयत्रानागतानि चत्वारि. आकारः सर्वे ऽपि षोडशापि भाव्यंते. किं कारणं. लब्धत्वात् गोत्राणां संभवस्तश् चतुःसत्यालंबनकायस्मृत्युपस्थानादिजातीनां लब्धत्वाद् इत्य् अर्थः. मूर्धाकरण इति विस्तरः. मूर्धाकरणे सर्वत्रापि धर्मस्मृत्युपस्थानम् एव प्रत्युत्पन्नं. कायादिस्मृत्युपस्थानानाम् आकरणे ऽसामर्थ्यात्. निरोधालंबनविवर्धने ऽपि अंत्यं धर्मस्मृत्युपस्थानं
प्रत्युपन्नम्. इतरेषाम् अयोगात्. त्रिसत्यालंबनविवर्धने तु चतुर्णाम् अन्यतमत् प्रत्युत्पन्नम्. अनागतानि सर्वत्र चत्वारि. आकारा अपि सर्वे. लब्धत्वात् गोत्राणाम् इत्य् अवगंतव्यं. [तिब्. 197अ] क्षांतीनां सर्वत्रांत्यम् इति. आकरणे विवर्धने चांत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तथा ह्य् उक्तं. सर्वस्याः क्षांत्या धर्मेण वर्धनम् इति. अग्रधर्मेष्व् अंत्यम् इति. अग्रधर्मेषु संमुखीक्रियमाणेष्व् अंत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्. अनागतानि चत्वारि अनुत्पत्तिधर्मान्य् एव प्राप्यंते. आकारश् चत्वारि एवेति. अनित्यदुःखशून्यानात्माकाराः. अन्याभावाद् इति. यस्माद् अन्यसमुदयाद्याकारा अग्रधर्मा न संति दुःखमात्रालंबनत्वात्. यथा तर्ह्य् अग्रधर्मास्वभावकायस्मृत्युपस्थानाद्यसंमुखीभावे ऽप्य् अग्रधर्मसमुदाचारावस्थायाम् अनागतानि कायस्मृत्युपस्थानादीनि भाव्यंते. एवम् अग्रधर्मास्वभावसमुदयाद्याद्याकारा आनगता भाव्यंत इति किं नेष्यत इत्य् अतः पुनर् आह. दर्शनमार्गसादृश्याच् चेति. दुःखाकारा एव चत्वारो भाव्यंते. कस्मात्. दर्शनमार्गसादृश्यात्. दर्शनमार्गे हि यस्य सत्यस्य दर्शनं भवति. तदाकारा एव भाव्यंते. दर्शनमार्गसदृश्या ह्य् अग्रधर्माः. किं पुनर् (अभिध्-क्-व्य् 537) एषां दर्शनमार्गेण सादृश्यं अनुश्लेषात्. तथैव प्रथमतः कामावचरदुःखालंबनत्वं [तिब्. 197ब्] तुल्यभूमिकत्वं वा. तथा हि दर्शनमार्गम् अधिकृत्य वक्ष्यति.
सो ऽग्रधर्मैकभूमिक
इति . यद् वा पृथग्जनत्वघाताय दुःखधर्मज्ञानक्षांतेर् आनंतर्यमार्गभूता अग्रधर्मा भवंति. तद् एषां दर्शनमार्गेण सादृश्यं. सदृशा ह्य् आनंतर्यमार्गा विमुक्तिमार्गैर् इति.
(vi.21-23) विध विभाग इति विस्तरः. तस्य धातोर् एतद् यञिरूपं. निश्चित इति. निःशब्दस्यार्थं दर्शयति. कथं पुनर् निश्चितो वेध इत्य् आह. तेन विचिकित्साप्रहाणात् निश्चितः. सत्यानां च विभजनात्. इदं दुःखम् अयं यावन् मार्ग इति. निर्वेध आर्यमार्गः. तस्य भागो दर्शनमार्गैकदेशः. तस्यावाहकत्वेनाकर्षकत्वेन हितत्वात् तस्मै हितम् इति छः. तेन निर्वेधभागीयम् इति भवति.
अनागम्यांतरध्यानभूमिकम्
इति. अनागम्यं चांतरं च ध्यानानि च भूमयो ऽस्येत्य्
अनागम्यांतरध्यानभूमिकं.
नोर्ध्वम् इति. नारूप्येषु निर्वेधभागीयम् अस्ति. दर्शनपरिवारत्वात्. दर्शनमार्गप्रयोगत्वाद् इत्य् अर्थः. तदभावः. दामधात्वालंबनत्वाद् इति. तस्य दर्शनमार्गस्याभावस् तदभावः. क्व. ऊर्ध्वम् इति वर्तते. आरूप्येष्व् इत्य् अर्थः. कस्मात्. काम धात्वनालंबनात्. यस्माद् आरूप्याः कामधातुं [तिब्. 198अ] नालंबंते. आह. किं कामधात्वालण्बनेन दर्शनमार्गेण प्रयोजनम् इति. अत उच्यते. तस्य पूर्वं परिज्ञेयप्रहेयत्वाद् इति. तस्य कामधातोर् दुःखरूपस्य पूर्वं परिज्ञेयत्वात्. समुदयरूपस्य च प्रहेयत्वात्. अत्र च हेतुर् यस्मात् स योगी कामावचरेण दुःखेन विहन्यते. तेन स पूर्वं ततो मोक्षम् अन्वेषत इति. तेषां रूपधातौ पंचस्कंधको विपाक इति. तेषां निर्वेधभागीयानां रूपावचरत्वात् यदि च योगी रूपधाताव् उपपद्येत. ततस् तस्य तत्र पंच स्कंधको विपाको ऽभिनिर्वर्तते. परिपूरिकाण्य् एव च तानीष्टवेदनीयजननात्. नाक्षेपकाणि निकायसभागस्य. भवद्वेषित्वात्. अनित्यादिभिर् आकारैर् भवं द्विषंतीति.
द्वे प्रथमे इति उष्मगतमूर्धस्वभावे.
कामाश्रयाणीति.
यस्माद् इहैव सत्याभिसमयओ नान्यधातौ. नोर्ध्वं हि दृक्पथः असंवेगात्. इह विधा तत्र निष्ठेति चागमाद् इति. त्रिषु द्वीपेषूत्तरकुरुवर्ज्येष्व् इति व्याख्यायते. उत्तरकौरवाणां मृद्विन्द्रियत्वात्. देवेषु संमुखीभाव इति. कामावचरेषु. चतुर्थं निर्वेधभागीयं [तिब्. 198ब्] देवेष्व् अपि. तेष्व् एव च नान्यत्र.
तृईणि निर्वेधभागीयान्य् अन्यत्र अग्रधर्मेभ्यः. इहैव जन्मनि स्त्रीपुरुषेन्द्रियपरावृत्तौ उभयाश्रयाणि स्त्रीपुरुषेन्द्रियाश्रयाणि स्त्रियः पुरुषाश् च लभंते. स्त्रियो ह्य् एतान्य् उत्पाद्य जन्मांतरस्त्रीभावप्रादुर्भावे स्त्र्याश्रयाणि संमुखीकुर्वंति. जन्मांतरपुरुषभावप्रादुर्भावे तु पुरुषाश्रयाणि संमुखीकुर्वंति. न हि तल्लाभिनीनां स्त्रीणां जन्मांतरे स्त्रीभावो न संभवति. पुरुषा अपि तथैव स्त्रीभावे जन्मांतरे सति स्त्र्याश्रयाणि संमुखीकुर्वंति. पुरुषभावे पुरुषाश्रयाणीति. अग्रधर्मान् प्रत्य् आह.
अग्रधर्मान् द्व्याश्रयान् लभते ऽंगनेति.
स्त्र्य् एवोभयाश्रयान् अग्रधर्मान् लभते. न पुरुषः. तथा हि स्त्री तान् लब्ध्वा स्त्र्याश्रयैस् तैस् तदानींतनैः समन्वागता भवति. जन्मांतरपरावृत्तौ च कामधातौ पुरुषाश्रयप्रादुर्भावे पुरुषाश्रयैः स पुरुषः समन्वागत इति. पुरुषस् तु पुरुषाश्रयान् एव लभते. कस्माद् इत्य् आह. स्त्रीत्वस्याप्रतिसंख्यानिरोधलाभाद् इति. तस्मिं जन्मनि स्त्रीत्वं जन्मांतरे ऽपि पुनर् नास्तीत्य् अस्याप्रतिसंख्यानिरोधलाभः. यो ह्य् अग्रधर्मान् उत्पादयति. सो ऽवश्यम् अनंतरं दर्शनमार्गम् उतपादयेन् [तिब्. 199अ] न च दृष्टसत्यस्य पुनः स्त्रीत्वप्रादुर्भाव इति सिद्धांतः.
भूमित्यागाद्
इति विस्तरः. यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकानि. तां भूमिं त्यजन् प्रथमं ध्यानं यवच् चतुर्थं त्यजन्न् आर्यस् तान्य् अपि यथास्वं प्रथमध्यानधूमिकानि यावच् चतुर्थध्यानभूमिकानि त्यजति. नान्यथा न मृत्युना परिहाण्या वा. यथा पृथग्जन इत्य् अर्थः. भूमित्यागः पुनर् भूमिसंचाराद् इति. न वैराग्यत इति दर्शयति. पृथग्जनस् त्व् इति विस्तरः. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति निर्वेधभागीयानि सत्य् असति वा भूमिसंचारे. तथा हि पृथग्जनो यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानस् तानि भूमिसंचारे ऽपि मृत्युनैव त्यजति. अवीतरागस् त्व् असति भूमि संचारे मृत्युना त्यजति. कामधाताव् एवोपद्यते. न त्व् एवम् (अभिध्-क्-व्य् 539) आर्यपुद्गलस् तत् कुशलमूलसंततेर् दर्शनमार्गोपबृंहितत्वात्. पृथग्जन एव तथा त्यजतीति कथं गम्यते. अण्डकललादिगतः पृथग्जनः कायेन समन्वागतः. न कायकर्मणेति शास्त्रे वचनात्.
आचर्यवसुमित्रस् तु व्याचष्टे. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति. सत्य् असति वा भूमिसंचार इति. सकलं ध्यानम् अत्र भूमिग्रहणेन [तिब्. 199ब्] गृह्यते. तत्र पृथग्जनो यदा ब्राह्मकायिकेभ्यश् च्युत्वा ब्रह्मपुरोहितेषूपपद्यते. तदा निकायसभागत्यागेन त्यजति. यदा तु प्रथमात् ध्यानाच् च्युत्वा द्वितीय उपपद्यते. तदा भूमित्यागनिकायसभागत्यागाभ्याम् इति. तद् अयुक्तं. ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात्. कामधातौ हि निर्वेधभागीयान्य् उत्पद्यंते. कामधातुच्यवनाद् एव च तेषां निर्वेधभागीयत्याग इति. आचार्यसंघभद्रेणापि दर्शितम् एतत्. ननु च पृथग्जनो ऽपि यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानो निर्वेधभागीयानि विजह्याद् इति. नास्त्य् एतत्. निकायसभागत्यागाद् एव त्यक्तत्वात्. मरणभवास्थितो हि तानि त्यजति. अंतराभवस्थितेन तु त्यक्तानि. अत ऊर्ध्वम् उपपद्यमानस्य तन् मस्ति यद् विजह्याद् इति. मृत्युनैवेत्य् उच्यत इति. प्रातिमोक्षसंवरवद् इति. यथा प्रातिमोक्षसंवरस् त्यक्तः पुनर् आदीयमानो ऽपूर्व एव लभ्यते. कस्मात्. अनुचितयत्नसाध्यत्वात्. अनुचितत्वात् यत्नसाध्यत्वाच् च. यस्माद् अनादिम् अतिसंसारे नोचितानि भवंति. आर्यमार्गपरिवारत्वात्. तस्मान् न वैराग्यलभ्यानि. यस्माद् यत्नसाध्यानि. तस्मान् न पूर्वत्यक्तानि लभ्यंत इति. सति प्रतिसीमादैशिक इति. सीमा नाम [तिब्. 200अ] मर्यादा. तस्या दैशिको देशयिता प्रणिधिज्ञानलाभी. तस्मिन् सति लब्धविहीनात् परेणोत्पादयति. यद् अनुत्पादितं. तद् उत्पादयतीत्य् अर्थः. असति प्रतिसीमदैशिके मूलाद् एवोष्मगतात् प्रभृतीत्य् अर्थः. एते पुनर् विहानिपरिहाणी इति.
भूमित्यागात् त्यजत्य् आर्य
इत्यादिवचनाद् विहानिर् उक्ता.
आद्ये द्वे परिहाण्या चेति
वचनात् प्रैहाणिर् अप्य् उक्ता. तेनैते इति निर्दिशति.
हानी
इति विहानिपरिहाण्योः सामान्यरूपपरिग्रहाद् उभयोर् ग्रहणं. परिहाणिस् तु दोषकृता. क्लेशकृतेत्य् अर्थः. नावश्यं विहानिर् इति. सा हि गुणकृतापि भवति न केवलं दोषकृता. गुणकृता तद्यथा दर्शनमार्गोत्पत्तौ पृथग्जनत्वस्य (अभिध्-क्-व्य् 540) विहानिः. दोषकृता तु तद्यथा मिथ्यादृष्ट्या कुशलमूलविहानिः. प्रतिसंधिचित्तेन वा केषांचिद् धर्माणां विहानिर् इति. तद् एवं या परिहाणिः. विहानिर् अपि सा. या तु विहानिः. नावश्यम् असौ परिहाणिः. गुणविशेषेभ्य एव हि परिहाणिर् इति.
(vi.24) अनुत्पत्तिधर्मतां प्रतिलभत इति. अप्रतिसंख्यानिरोधं तेषां गत्यादीनां प्रतिलभत [तिब्. 200ब्] इत्य् अर्थः. तां तु यथायोगम् इति. तां त्व् अनुत्पत्तिधर्मतां. यथासंभवं मृद्व्याम् अधिमात्रायां च क्षांतौ प्रतिलभत इति वर्तते. कथं कृत्वा. मृद्व्यां क्षांत्याम् अपायगतीनाम् अनुत्पत्तिधर्मतां प्रतिलभते. अधिमात्रायम् अण्डजसंस्वेदजयोन्योः. मृद्व्याम् असंज्ञित्वोत्तरकुरुमहाब्रह्मोपपत्तीनां. अधिमात्रायां षण्ढपण्डकोभयव्यंजनाश्रयाणाम्. अधिमात्रायाम् अष्टमादिभवानां. अष्टमादिनवमादिभवानां. दर्शनहेयक्लेशानां चानुत्पत्तिधर्मताम् एवेति.
(vi.25) तस्यैव तु गोत्रस्येति. क्षांतिपरिभावितस्य श्रावकगोत्रस्येत्य् आचार्यमतं. तस्य क्षांतिपरिभावितत्वेनाविवर्त्यत्वाद् इत्य् अभिप्रायः.
त्रीण्य् अपीतर
इति. प्रत्येकबुद्धः क्षांतिम् अपि श्रावकगोत्राद् विवर्त्य स्यात्. न हि ते परार्थम् अपायान् अवगाहन्त इत्य् अभिप्रायः. आनिंज्यपटुसमाधित्वाद् इति. अष्टपक्षाल्मुक्तत्वाद् आनिंज्यः समाधिः. अत एव पटुर् उत्तप्ततीक्ष्णेन्द्रियत्वाद् वा.
येषां तु खड्गाद् अन्यो ऽपीति. येषाम् आभिधार्मिकाणां मतेन खड्गाद् अन्यो ऽपि प्रत्येकबुद्धो ऽस्ति. उत्पादितनिर्वेधभागीयमात्रो ऽपि वर्गचारी प्रत्येकबुद्ध इत्य् अभिप्रायः. तेषाम् उष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः खड्गविषाणकल्पस्यैवावधारणात्. [तिब्. 201अ]
(vi.26) क्षिप्रं मोक्षस् त्रिभिर् भवैर्
इति. यः क्षिप्रं मोक्षं प्राप्नोति. स एकस्मिं जन्मनि मोक्षभागीयम् उत्पादयेत्. द्वितीये निर्वेधभागीयानि. तृतीये आर्यमार्ग इति. यस् तु पूर्वस्मिन् जन्मनि संभृतमोक्षभागीयो भवति. स एकस्मिन्न् अपि जन्मनि निर्वेधभागीयान्य् आर्यमार्गं चोत्पादयतीत्य् अवगंतव्यं बीजावरोपणेत्यादि बीजावरोपणं मोक्षभागीयोत्पादनं. सस्याभिवृद्धिर् निर्वेधभागीयोत्पत्तिः. फलोत्पत्तिर् आर्यमार्गः. अस्यां धर्मतायाम् इति. प्रवचनधर्मतायाम्. अवतारपरिपाकविमुक्तयो भवंतीति. अवतारो मोक्षभागीयेन. परिपाको निर्वेधभागीयैः. विमुक्तिर् आर्यमार्गेणेति. तत्प्रणिधानपरिग्रहणाद् इति. (अभिध्-क्-व्य् 541) मनःप्रणिधानपरिग्रहात्. प्रणिधानं पुनश् चेतनाविशेशः. एकभिक्षाम् अपि दत्त्वेति कायकर्म. एकशिक्षाम् अपि चादायेति वाक्कर्म. तच् च मनस्कर्मोत्थानम् इति. त्रिकर्मस्वभावम् अल्पकम् अप्य् एतत् मोक्षाभिलाषबलाधानान् मोक्षभागीयम् आक्षिपति. मोक्षस्य भागः प्राप्तिर् मोक्षभागः. [तिब्. 201ब्] तस्मै हितं मोक्षभागीयम् इति. नान्यत्र प्रज्ञानिर्वेदयोर् अभावाद् यथायोगम् इति. कुरुषु तावद् उभयं नास्ति. अपायेषु निर्वेदो ऽस्ति प्रज्ञा नास्ति. देवेषु प्रज्ञास्ति निर्वेदो नास्तीति. अतो मनुष्येष्व् एव त्रिषु द्वीपेष्व् आक्षिप्यते. नान्यत्र.
(vi.27-28) अभिसमयक्रमस् तु वक्तुम् आरब्ध इति
वृत्तस्थः श्रुतचिंतावान् भावनायां प्रयुज्यत
इत्य् आरभ्य निर्वेधभागीयानुक्रमः. तत्प्रसंगेन मोक्षभागीयोपन्यास इति.
धर्मक्षांतिर् अनास्रवेति.
निर्वेधभागीयैर् अपि धर्मक्षमणम्. अतो निष्यन्देन विशेषणं. यस्या धर्मज्ञानं निष्यंदः. सा धर्मज्ञानक्षांतिः. धर्मज्ञानार्थं क्षांतिर् धर्मज्ञानक्षांतिः. पुष्पफलवृक्षवद् यथा पुष्पार्थं वृक्षः पुष्पवृक्षः. फलार्थं वृक्षः फलवृक्षः. कारिकायां तु धर्मक्षांतिर् इति वचनम् एकदेशग्रहणतो देवदत्तो दत्त इति यथा. सम्यक्त्वं निर्वाणम् इत्य् उक्तम् इति. सम्यक्तवं कतमत्. यत् तत् पर्यादाय रागप्रहाणम् इति विस्तरः. तत्र नियमो नियाम इति. तत्र सम्यक्त्वे नियम एकांतीभावो नियाम इति घञि रूपं. अपि तु नियम इति यमः समुपनिविषु चेत्य् अप्प्रत्ययस्य विभाषितत्वात्. तस्याहिगमनम् अवक्रमणम् इति. [तिब्. 202अ] तस्यैकांतीभावस्याभिगमनं प्राप्तिः. तद् एव विपर्यासस्यापक्रमान् नियामावक्रांतिर् इत्य् उच्यते. तस्यां चेति धर्मज्ञानक्षांतौ. प्रदीपजातिवद् इति. प्रदीपस्येव जातेर् इव चेत्य् अर्थः. यथा प्रदीपस्यानागतस्य तमोविनाशने सामर्थ्यं. जातेश् चानागताया जन्यजनने. तथा पृथग्जनत्वव्यावर्तने सामर्थ्यम् अनागताया धर्मज्ञानक्षांतेर् अभ्युपगम्यते. नान्यद् इति. क्लेशप्रहाणां कारित्रं. लौकिकैर् अग्रधर्मैर् इति अपर इति. पृथग्जनत्वं व्यावर्तत इति प्रकृतं. न. तद्धर्मत्वाद् इति. न युक्तम् एतल् लौकिकैर् अग्रधर्मैस् तद्व्यावर्तन इति. कस्मात्. ते ऽपि हि पृथग्जनधर्माः. कथं पृथग्जनधर्मस्य पृथग्जनधर्मं व्यावर्तिष्यंत इति. तद्विरोधित्वाद् अदोषः. अग्रधर्माणां पृथग्जनन्त्वविरोधित्वात् अदोष एषः. किं. (अभिध्-क्-व्य् 542) यथेत्य् आह. शत्रुस्कन्धारूढतद्घातनवद् इति. यथा शत्रुस्कन्धारूढ एव कश्चिच् छत्रुं घातयेत्. एवं किलाग्रधर्माः पृथग्जनत्वशत्रुस्कन्धारूढास् तद् एव पृथग्जनत्वं घातयेयुर् इति.
उभयैर् इति. लौकिकैर् अग्रधर्मैः [तिब्. 202ब्] क्षांत्या च पृथग्जनत्वं व्यावर्त्यते. कथम् इत्य् आह. आनंतर्यविमुक्तिमार्गसाधर्म्याद् इति. लौकिकानाम् अग्रधर्माणाम् आनंतर्यमार्गेण साधर्म्यं. क्षांतेर् विमुक्तिमार्गेण. यथा ह्य् आनंतर्यमार्गेण क्लेशः प्रहीयते. विमुक्तिमार्गेण प्रहीणः एवं लौकिकैर् अग्रधर्मैः पृथग्जनत्वं विहीयते. क्षांत्या विहीनम् इति.
अनास्रवाधिकारः सर्वत्रेति. तेन ततो ऽत्रैव धर्मज्ञानम् अनास्रवम् इति गम्यते. तद् दुःखे धर्मज्ञानम् इत्य् उच्यते इति. शास्त्रे तेन नाम्ना व्यवहार इत् दर्शयति. समस्तालंबना रूपारूप्यावचरदुःखालंबनत्वात्. प्रथमतो धर्मतत्त्वज्ञानाद् इति. आदितो दुःखादिधर्मतत्त्वज्ञानाद् इत्य् अर्थः. तदन्वयत्वाद् इति. तद्धेतुकत्वाद् इत्य् अर्थः. तथैवानुगमाद् इति. यथैव धर्मज्ञानेनानुगतं परिज्ञातं दुःखादिसत्यं दुःखादिभिर् आकारैः. तथैव रूपारूप्यावचरदुःखाद्यनुगमाद् अन्वयज्ञानम् एतद् इति विस्तरः. एवं समनंतरोत्पत्तिक्रमेण शेषे समुदये रूपारूप्यावचरे ऽन्वयज्ञानक्षांतिर् [तिब्. 203अ] इति विस्तरेण योज्यं.
निकायांतरीया आर्यधर्मगुप्तप्रभृतयः. अभेदेन ह्य् अभिसमय उच्यत इति. षोडश चित्तो ऽयं सत्याभिसमय इति. दर्शनाभिसमय आलंबनाभिसमयः कार्याभिसमयश् चैवं षोडशचित्तक इत्य् अभेदः.
दर्शनाभिसमय इति. दर्शनम् एवाभिसमयः. एवम् आलंबनाभिसमयः कार्याभिसमयश् च. दर्शनाभिसमयो ऽनास्रवया प्रज्ञया. तद् धि भिक्षवो दृष्टं. यद् अनास्रवया प्रज्ञया दृष्टम् इति वचनात्. प्रज्ञैव दर्शनम् इति व्यवस्थाप्यते. आलंबनं ग्रहणं तत्संप्रयुक्तैर् अपि वेदनादिभिर् भवति. अपिशब्दात् प्रज्ञयापि. यस्माच् चित्तचैत्तैः सत्यान्य् आलंब्यंते. कार्यं यस्य सत्यस्य यत् कर्तव्यं. तद्यथा दुःखस्य परिज्ञानं. समुदयस्य प्रहाणं. निरोधस्य साक्षात्करणं. मार्गस्य भावनं. तद् विप्रयुक्तैर् अपि शीलजात्यादिभिर् भवति. अपिशब्दात् प्रज्ञातत्संप्रयुक्तैर् अपि. प्रज्ञासंप्रयुक्तविप्रयुक्तैर् हि तत्कार्यचतुष्टयं [तिब्. 203ब्] क्रियते. जात्यादिभिर् इत्य् आदिशब्दाल् लक्षणांतराणि प्राप्तयश् च गृह्यंते. दुःखे हीति विस्तरः. दुःखे हि दृश्यमाने प्रज्ञया. तस्याभिसमयितुर् दुःखस्य वा त्रिविधो (अभिध्-क्-व्य् 543) ऽभिषमयो यथोक्तः. कथम् इत्य् आह. समुदयादीनां समुदयनिरोधमार्गाणाम् अभिसमयः प्रहाणसाक्षात्करणभावनाद् यथाक्रमं प्रहाणं समुदयस्य क्लेशप्राप्तिच्छेदात्. साक्षात्करणं निरोधस्य तत्प्राप्त्युत्पादात्. भावनं मार्गस्य संमुखीभावात्. आकारभेदाद् इति. प्रत्येकम् एषां दुःखादीनाम् आकारभेदात्. न च दुःखाकारेण समुदयादीनां दर्शनं युज्यते. तदाकारार्थभेदतः. अथाप्य् अनात्माकारेण सर्वेषां सत्यानां दर्शनम् इति ब्रूयात् निकायांतरीयः. शून्यतानात्मते सर्वसत्यानां सामान्यं लक्षणम् इति कृत्वा. न तर्हि सत्यानां दुःखादितो दर्शनं स्यात्. दुःखतः समुदयतो निरोधतो मार्गत इति. तथा च सत्य् अनात्माकारेण सर्वेषां दर्शनम् इति ब्रुवन् सूत्रविरोधः.
यस्मात् सूत्र एवम् उक्तम् आर्यश्रावकस्येति विस्तरः. अथ मन्यसे नास्ति सूत्रविरोधो यस्माद् अभिसमयावस्थायाह् पूर्वं प्रयोगावस्थायाम् [तिब्. 204अ] आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इत्य् एवमादि. अतो ऽनात्माकारेण सर्वेषां दर्शनाद् एकाभिसमय एवेति. तच् चायुक्तम्. अनास्रवेण मनसिकारेण संप्रयुक्तो धर्माणां विचय इति वचनात्. न हि प्रयोगावस्थायाम् अनास्रवमनसिकारः संभवति. भावनामार्ग एवम् इति चेद् य आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इति विस्तरेण. न. यथा दर्शनं भावनात्. नैतद् एवं. यथैव हि पूर्वं सत्यानां दर्शनं. तथैव तेषां पश्चाद् भावनं. भावनामार्गो भवतीत्य् अर्थः. शेषेषु वशित्वलाभाद् इति. अंतरेण प्रयोगं समुदयादिदर्शनसंमुखीभावशक्तिलाभो वशित्वलाभः. तस्माद् इति. अंतरा तु व्युत्थानाम् अस्ति नास्तीति विचार्यं स्याद् इति. शेषेषु वशित्वलाभाद् अंतरा व्युत्थानं प्राप्नोतीति दोषः स्याद् इत्य् अभिप्रायः. उभयथापि च विचार्यमाणे बहूनां सूत्राणां विरोधः. यथा च तेषां विरोधः. तथागमेषु श्रोतव्यः. एकस्य दर्शने शेषाणां कार्याभिसमयवचनाद् इति. यस्माद् अस्त्य् एतत् वचनं. दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः. समुदयादीनां कार्यभिसमयः प्रहाणसाक्षात्करणभावनाद् इत्य् [तिब्. 204ब्] अतो ऽस्माभिर् अप्य् एवम् अभ्युपगमान् नास्ति दोषः. आह. यद्य् अप्य् अभ्युपगम्यत इत्य् अभिसमयः. सूत्रे सत्यानां क्रमेणाभिसमयो विरुध्यते. अत उच्यते. दर्शनाभिशमयं तु प्रतीति विस्तरः. सदृष्टांतानि त्रीणि सूत्राणीति. संयुक्तागमे पठ्यंते. कथं. अनाथपिण्डद आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम्
अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. चतुर्णां गृहपते आर्यसत्यानाम् अनुपूर्वाभिसमयो न त्व् एकाभिसमयः. यो गृहपते एवं वदेद् अहं (अभिध्-क्-व्य् 544) दुःखं आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यामीति विस्तरेण यावद् दुःखनिरोधगामिनीं प्रतिपदम् आर्यसत्यम् अभिसमेष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यद् दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यति पूर्ववत्. यावन् नेदं स्थानं विद्यते. स्थानम् एतद् इति पूर्ववत्. तद्यथा गृहपते य एवं वदेद् अहं कूटागारस्य वा कूटागारशालाया वा वा मूलपादम् अप्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामि. भित्तिम् अप्रतिष्ठाप्य तलकं. [तिब्. 205अ] तलकम् अप्रतिष्ठाप्य च्छदनं प्रतिष्ठापयिष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यत् कूटागारस्येति पूर्ववत्. यावत् स्थानम् एतद् विद्यते. यन् मूलपादं प्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामीति पूर्ववत्. यावद् एवम् एव गृहपते नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीति विस्तरः. अथान्यतरो भिक्षुर् आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. भगवान् आह. चतुर्णां भिक्षो सत्यानाम् इति. पूर्ववद् यावत् तद्यथा भिक्षो य एवं वदेद् अहं चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयम् अभिरोक्ष्यामीति. द्वितीयम् अनभिरुह्य तृतीयं. तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यच् चतुष्कडेवरस्य
सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयकडेवरम् अभिरोक्ष्यति. एवं यावत् तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यति. एवम् इहापि नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीत्यादि. [तिब्. 205ब्] तथार्यानन्द आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. उताहो एकाभिसमय इति. पूर्वसूत्रवत्. यावत्. तद्यथानन्द य एवं वदेद् अहं चतुष्पदिकाया निःश्रेण्याः प्रथमं निःश्रेणीपदम् अनभिरुह्य प्रासादम् अभिरोक्ष्यामीति. मैवं वोच इति स्याद् वचनीयः. विस्तरेण यावद् एवम् एवानन्द य एवं वदेद् अहं दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयसत्यम् अभिसमेष्यामीति विस्तरेण यावन् नेदं स्थानं विद्यत इति. एतानि त्रीणि सूत्राणि. यो दुःख इति विस्तरः. अथ मतं स्याद् यो दुःके निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि स इति सूत्राद् एकाभिसमय इति. कथम्. अशैक्षा हि धर्मा बुद्धः. त एवाशैक्षा धर्मा मार्गः. तस्माद् दुःखाभिसमयान् मार्गो ऽपि तेनाभिसमितो यस्माद् दुःखवद् बुद्धे ऽपि निष्कांक्षो निर्विचिकित्स इति. कांक्षा विचिकित्सेत्य् अनर्थांतरः. अथ वानिश्चयाभिलाषः कांक्षा विमतिर् विचिकित्सा (अभिध्-क्-व्य् 545) यथोक्तलक्षणा. नासमुदाचारावश्यंप्रहाणाभिसंधिवचनाद् इति. नैतद् एवं सूत्राद् एकाभिसमय इति. असमुदाचारस्य [तिब्. 206अ] वश्यंप्रहाणस्य चाभिसंधिवचनात्. दुःखे ऽभिसमिते बुद्धविषये विचिकित्साया असमुदाचारो ऽवश्यंप्रहाणं च भवति. अतो यो दुःखे निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि. स इत्य् उक्तम् अभिसंधिः.
(vi.30अब्) ते पुनः षड्भूमिका इत्य् उक्तं प्राग् इति.
अनागम्यांतरध्यानभूमिकम्
इति वचनात्.
(vi.30च्द्) अनंतर्यशक्यत्वाद् इति. कृत्याश् च शकि लिङ् चेति शक्यार्थे कृत्यप्रत्ययः अंतरयितुं शक्या अंतर्याः. नांतर्याः अनंतर्याः. क्लेशप्राप्तिं ते विच्छिन्दंति. विप्रकृतावस्था सा तेषाम् इष्यते. आनंतर्यमार्गेणेति भावे स्वर्थे वृद्धिविधानं. अनन्तरभावो अनंतरमार्गो वा आनंतर्यं. तस्य मार्गा आनंतर्यमार्गाः. विमुक्तिमार्गाः. विमुक्तिमार्गा इति. विमुक्तौ मार्गा विमुक्तिमार्गाः. क्लेशविमुक्त्यवस्थामार्गा इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवद् इति. यथा द्वाभ्याम् एकेन चौरो निष्कास्यते. द्वितीयेन तदप्रवेशाय कपाटः पिधीयते. एवम् आनंतर्यमार्गेण क्लेशचौरो निष्कास्यते. तत्प्राप्तिच्छेदतः. विमुकित्मार्गेण च विसंयोगप्राप्तिकपाटं पिधीयते. वर्तमानीकरणतः. यदि पुनर् इति विस्तरः. [तिब्. 206ब्] यदि पुनर् द्वितीयेनानंतर्यमार्गेणैव दुःखे ऽन्वयज्ञानक्षांत्या सह विसंयोगप्राप्तिर् उत्पद्येत. नैव दुःखे धर्मज्ञानम् उत्पद्यते. यद् अनेन कर्तव्यं. तद् दुःखे ऽन्वयज्ञानक्षांत्यैव क्रियेतेत्य् अभिप्रायः. प्रहीणविचिकित्सं ज्ञानं तत्रैवालंबने कामावचरदुःखे प्रहीणविचिकित्सं ज्ञानं नोत्पन्नं स्यात्. तत्र हि दुःखे धर्मज्ञानक्षांतिः सविचिकित्सैव वर्तते विचिकित्साया अप्रहीणत्वात्. न च तत्र दुःखे ऽन्वयज्ञानक्षांतिः प्रहीणविचिकित्सेति शक्यते व्यवस्थापयितुं. अतद्विषयत्वात्.
क्षांतिभिर् इति विस्तरः. क्षांतिभिः क्लेशप्रहाणाद् यो ऽयं सास्त्रपाठः. नवसंयोजननिकायाः. दुःखधर्मज्ञानप्रहातव्यः संयोजननिकायः. समुदयधर्मज्ञानप्रहतव्यो निरोधधर्मज्ञानप्रहातव्यो मार्गधर्मज्ञानप्रहातव्यः दुःखान्वयज्ञानप्रहातव्यः समुदयान्वयज्ञानप्रहातव्यो निरोधान्वयज्ञानप्रहातव्यो मार्गान्वयज्ञानप्रहातव्यो भावनाप्रहातव्यश् च संयोजननिकाय इति. सूत्रे ऽप्य् उक्तम्. इति हि भिक्षवो ज्ञानवध्याः क्लेशाः. विद्युदुपमं चित्तम् इति. तस्य विरोधः. न हि तत्र (अभिध्-क्-व्य् 546) क्षांतिप्रहातव्यः संयोजननिकाय इत्य् उक्तं. न क्षांतीनाम् इति [तिब्. 207अ] विस्तरः. नैतद् एवं. कस्मात्. क्षांतीनां ज्ञानपरिवारत्वात्. क्षांतयो ज्ञानस्य परिवारा इत्य् अतः क्षांतिप्रहातव्यः संयोजननिकायो ज्ञानप्रहातव्य उच्यते. राजपरिवारकृतस्य राजकृतव्यपदेशवत्. यथा राजपरिवारकृतस्य कस्यचिद् अर्थस्य राजकृत इति व्यपदेशो भवति. तद्वद् भावनाप्रहातव्यस् तु संयोजननिकायो ज्ञानप्रहातव्य एव. तत्र आनंतर्यमार्गो ऽपि ज्ञानस्वभाव इति. क्लेशप्रहाणे ह्य् आनंतर्यमार्ग एव विशेषेणाधिक्रियते.
(vi.31अब्) अदृष्टसत्यदर्शनाद् इति ज्ञानेन कथम् अदृष्टसत्यदर्शनं भवति. तद् अप्य् अदृष्टे सत्यांतरे सति भवतीति दर्शनमार्गांतरालवर्तिज्ञानं दर्शनमार्गः पारंपर्यम् अभिसंधाय. तेनाप्य् अदृष्टम् इव पश्यतीति. अथ वा अदृष्टदृष्टेर् अडृष्टदर्शनात्. पंचदशक्षणा दर्शनमार्गो यावद् अस्य पुद्गलस्यादृष्टदर्शनं प्रवर्तते. तावद् अस्य क्षणा दर्शनमार्गः. तस्य दृष्टे ऽपि दुःखे अदृष्टदर्शनम् अस्य समुदये प्रवर्तत एवेत्य् आह. भावनामार्ग एव षोडश क्षण इति वाक्याध्याहारः.
ननु च तेनाप्य् अदृष्टं पश्यति किं तद् अदृष्टम् इत्य् आह. मार्गान्वयज्ञानक्षांतिम् इति. मार्गान्वयज्ञानक्षांतिर् आत्मानं विरहय्य शेषम् अन्वयज्ञानपक्ष्यं मार्गम् आलंबते. स्वात्मनि [tib.207b] वृत्तिविरोधात्. तेनोच्यते. मार्गान्वयज्ञानक्षांतिम् अदृष्टां पश्यतीति. सत्यं प्रति चिंतेति विस्तरः. सत्यं प्रति चिन्ता दृष्टं न दृष्टम् इति. न तु क्षणं प्रति दृष्टः क्षणो न वेति. कस्मात्. पंचदशेन क्षणेन यद् अन्वयज्ञानपक्षलक्षणं सत्यं दृष्टं. तद् एव षोडशेनापीति. नास्त्य् अपूर्वदृष्टसत्यदर्शनम् इति. न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते. न ह्य् एकक्षणेनादृष्टेन मार्गान्वयज्ञानक्षांतिलक्षणेन सत्यं तन्मार्गसत्यम् अडृष्टं भवति. लौकिकं दृष्टांतम् आह. यथा नैकलुङ्गेन एकसस्यशलाकया दात्रेणालूनेनाच्छिन्नेन केदारम् अलूनं भवति. किं तर्हि. लूनम् एवेत्य् अर्थः. तथा हि केचित् प्रमादाद् अलूने ऽपि एकलुंगे वक्तारो भवंति लूनम् अस्माभिः केदारम् इति. फलत्वाद् इति विस्तरः. फलत्वाद् इत्यदिहेतुभिर् भावनामार्गम् एव षोडशक्षणं साधयति. भावनामार्गः षोडशः क्षणः. संस्कृतश्रामण्यफलत्वात्. सकृदागामिफलवत् यावद् अर्हत्त्वफलवद् वा. तथा भाविताष्टज्ञानषोडसाकारत्वाद् विहीनप्रतिपन्नकमार्गत्वात् प्राबंधिकत्वाच् च. [तिब्. 208अ] फलांतरवद् एव भावनामार्गः. षोडशे हि क्षणे ऽष्टौ ज्ञानानि भाव्यंते. दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं यावन् (अभिध्-क्-व्य् 547) मार्गे ऽन्वयज्ञानम् इति. आकारा अपि षोडशानित्याद्या भाव्यंते. तद्वद् एव च दर्शनमार्गे ऽष्टज्ञानषोडशाकारभावना नास्ति. तत्र हि सभागज्ञानाकारभावनैव
यथोत्पन्नानि भाव्यंते क्षांतिज्ञानानि दर्शन
इति वचनात्. मार्गान्वयज्ञाने च पूर्वमार्गस्य प्रतिपन्नकमार्गस्य विहानिः. न च दर्शनमार्गे पूर्वमार्गविहानिर् इति. प्राबंधिकं चेदं मार्गान्वयज्ञानं. न च दर्शनमार्गे क्षांतिर् ज्ञानं वा किंचित् प्राबंधिकम् अस्तीत्य् अतो ऽपि मार्गान्वयज्ञानं भावनामार्ग इति. इतरः प्रत्यवस्थानं करोति. दर्शनमार्गः षोडशः क्षणः. अवश्यकापरिहाणित्वात्. दुःखधर्मज्ञानक्षांत्यादिवद् इति. पूर्वपक्षं वा दूषयति. अनुमानपतितधर्मस्वरूपविपर्ययापक्षालो ऽयं पक्ष इति. भावनामार्गत्वे ऽपि साध्यमाने तद् अपरिहाणित्वम् अनेनानुमानेनापततीति. तद् इदम् अंतर्नीतम् अभिसमीक्ष्य पुनर् आह. अपरिहाणिस् त्व् इति विस्तरः. यस्माद् दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वयज्ञानेनाधारप्रतिपक्षेण [तिब्. 208ब्] संधार्यते. यदि च तस्मात् फलमार्गात् षोडशात् क्षणात् परिहाणिः स्यात् स्रोतआपत्तिफलात् परिहाणिः स्यात्. न च स्रोतआपत्तिफलात् परिहाणिर् इत्य् अतो न तस्मात् परिहीयते. इतर आह. अत एवेति. किम् अयम्. अपरिहाणिहेतुर् एवोच्यते. वयम् अप्य् एतम् अर्थम् अभिदध्महे. किम् अयम् उपलब्धिसमम् इति चोत्तरम् उद्ग्राह्यते. आचार्य आह. अत एव दर्शनमार्ग इति चेत्. यदि मन्यसे यत एव दर्शनहेयप्रहाणसंधारणं मार्गान्वयज्ञानेन. अत एव दर्शनमार्ग इति. तन् न. अतिप्रसंगात्. यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसंधारणम् इत्य् अतो दर्शनमार्गः स्यात्. एवं सत्य् अतिप्रसंगः स्यात्. तस्मान् मार्गान्वयज्ञानात् परेण सर्वेण भावनामार्गेण दर्शनहेयप्रहाणसंधारणम् इति सर्व एव दर्शनमार्गः स्यात्. अनिष्टं चैतत्. षोडश एव हि क्षणो दर्शनमार्गो भवधिर् इष्यते. न सप्तदशाष्टदश इत्यादिकः क्षणः
प्रवाहन्यायेनोत्पद्यते. द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो विशेषमार्गसंगृहीतः. तन् नास्ति. ततो ऽपि हि नास्ति परिहाणिः. तद् एवं सत्य् आवश्यकापरिहाणित्वं यो हेतुर् उक्तः. सो ऽनैकांतिक इति दर्शितं भवति. [तिब्. 209अ] तदनैकांतिकत्वाच् चाप्रतिसाधनं तत्. न पूर्वपक्षदूषणं चेति. आह. सप्त ज्ञानानि दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं कस्माद् दुर्शनमार्गो न पुनर् अष्टमं मार्गे ऽन्वयज्ञानम् (अभिध्-क्-व्य् 548) इत्य् अभिप्रायः. दर्शनस्यासमाप्तत्वाद् इति. मार्गान्वयज्ञानक्षांतौ दर्शनं समाप्तं. सर्वेषां सत्यानां तदानीं दृष्टत्वात्. दुःखे धर्मज्ञान उत्पन्ने यद्य् अपि कामावचरं दुःखं दृष्टं. रूपारूप्यावचरदुःखादि तु न तावद् दृष्टम्. एवं यावत्. मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद् दृष्ट इति. सावशेषं दर्शनं न समाप्तम् इति. तदंतरालत्वाद् इति. दर्शनमार्गांतरालत्वात्. तयोर् वा द्वयोः क्षांत्योर् अंतरालत्वात्. तान्य् अपि सप्त ज्ञानानि दर्शनमार्गः. शेषद्रष्टव्यसाकांक्षत्वात् तस्य योगिन इत्य् अभिप्रायः.
(vi.31च्द्, 32) पूर्वं परप्रत्ययेन परोदितेन अर्थानुसरणाद् दुःखादिसत्यप्रतिपत्तेर् इत्य् अर्थः. पूर्वम् इति विशेषणेन भावनाकाले परोपदेशनिरपेक्षम् अर्थानुसरणम् इति कथितं भवति. एवं धर्मानुसारीति. धर्मैर् अनुसारो धर्मानुसारः. सो ऽस्यास्तीति धर्मानुसारी. धर्मैर् अनुसर्तुं शीलम् अस्येति वा. [तिब्. 209ब्] पूर्वं स्वयम् एव सूत्रादिभिर् धर्मैर् द्वादशांगैः प्रवचनैर् अर्थानुसरणात्. पूर्ववद् व्याख्यानं. यावत् पंच प्रकाराः प्रहीणा भवंतीति. यावच्छब्देन यद्य् एको द्वौ त्रयश् चत्वारः पंच प्रहीणाः प्रकारा भवंति. तथैव प्रथमफलप्रतिपन्नकाव् उच्येते. यथा सकलबन्धनौ.
द्वितीये ऽर्वाङ् नवक्षयाद्
इति. द्वितीये इति द्वितीयनिमित्तम् इत्य् अर्थः. चर्मणि द्वीपिनं हंतीति यथा. अर्वाङ् नवक्षयात्. नवप्रकारप्रहाणाद् अधरतः नवप्रकारप्रहाणपरिहारेणार्थाद् उक्तं भवति. यदि तयोः पुद्गलयोस् तस्मात् पंचप्रकारप्रहाणात् परेण षट् सप्तष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. तौ द्वितीयफलप्रतिपन्नकाव् इति. द्वितीय इति वचनात्. प्रतिपन्नकाव् इति चाधिकाराद् एवं पदार्थव्यवस्था लभ्यते. ऊर्ध्वं चेति प्रथमध्यानवीतरागौ. यावद् आकिंचन्यायतनाद् वीतरागौ.
(vi.33) अर्हत्त्वं तु न शक्यम् आदितः प्राप्तुम् इति. अनागामिफलम् अप्राप्यादित एवार्हत्त्वं प्राप्तुं न शक्यते. कस्माद् इत्य् आह. भावनाहेयप्रहाणात्. न हि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणम् अस्तीति. यथा दर्शनमार्गस्वभावेषु पंचदशसु क्षणेषु वर्तमानः अदितस् तृतीयफलप्रतिपन्नकाद् [तिब्. 210अ] अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकः स्यात्. षोडशे तु चित्त उत्पन्ने आदितो ऽनागामिनो ऽर्हन् स्यात्. भावाग्रिकभावनाहेयप्रहाणाद् ध्य् अर्हत्त्वं प्रतिस्थाप्यते. आह. यदि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीति अतो ऽर्हत्त्वं अशक्यं (अभिध्-क्-व्य् 549) पूर्वम् एव. तर्हि पृथग्जनावस्थायाम् एव भावनामार्गेण भवाग्रवैराग्यात् तत्फलप्रतिपन्नकः. तेषु वर्तमानो ऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति. षोडशे तु चित्तक्षण आदितो ऽर्हन्न् इति. अत उच्यते. पूर्वं च भवाग्रवैराग्यसंभवाद् इति. न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसंभवः. उपरिभूम्यभावात्. तस्माद् आदितः प्रतिपन्नको ऽर्हंश् च न स्याद् इति. श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वाद् इति. श्रद्धाधिकत्वेनाधिमोक्षप्रभावितत्वाच् छ्रद्धाधिमुक्तः. श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा. न तु तस्य प्रज्ञा नैवास्ति. तया न तु प्रभावित इति. न तन् नाम लभते. प्रज्ञाधिकत्वेन दृष्टिप्रभावितत्वात् दृष्टिप्राप्तः. न तु तस्य श्रद्धा नासीति पूर्ववद् वाच्यं. अपरे तु पुनः. [तिब्. 210ब्] नैरुक्तविधिम् आलंब्य व्याचक्षते. श्रद्धाधिपत्येन दर्शनहेयेभ्यो मुक्तः श्रद्धाधिमुक्तः. दृष्ट्याधिपत्येन प्राप्तफलो प्राप्तफलाः दृष्टिप्राप्त इति.
(vi.34) यावत् पंचप्रकारघ्नाव्
इति उक्तम्. अतः पृच्छति किं पुनः कारणम् इति विस्तरः. फलविशिष्टो मार्गो न लभ्यत इति. फलाद् विशिष्टो मार्गः सकृदागामिफलप्रतिपन्नकादिः. प्रथमादिप्रकारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्य् अर्थः. यावन् न विशेषाय प्रयुज्यत इति. यावन् नाप्रहीणक्लेशप्रहाणाय फलांतरप्राप्तिनिमित्तं प्रयोगं करोति. तावत् प्रतिपन्नको नोच्यते. यदा प्रयुज्यते. तदा प्रतिपन्नक इत्य् अर्थाद् उक्तं भवति. तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहाणस्य चानास्रवा प्राप्तिर् उत्पद्यत इति सिद्धांतः. एवम् अन्यत्रापि फले वेदितव्यम् इति. षोडशे चित्ते स्रोतआपन्न एवोच्यत इति वचनात्. स्रोतआपन्न उक्त इत्य् अतो ऽन्यत्रापि. सकृदागामिफले अनागामिफले च वेदितव्यं. लौकिकेन मार्गेण प्रहीणाष्टप्रकारो ऽपि षोडशे चित्ते सकृदागाम्य् एवोच्यते. नानागामिफलप्रतिपन्नकः. यस्मात् फले फलविशिष्टस्य मार्गस्य लाभो नास्तीति. एवं कामवीतराग ऊर्ध्वं वा षोडशे चित्ते नार्हत्त्वफलप्रतिपन्नक उच्यते. यस्मात् फले फलविशिष्टस्येति [तिब्. 211अ] पूर्ववत्. यस् तु तृतीयध्यानवीतराग इति विस्तरः. तृतीयध्यानवीतरागः अधरां भूमिं निश्रित्यानागम्यं ध्यानांतरं प्रथमं द्वितीयं वा ध्यानं निश्रित्य नियामम् अवक्रामतीत्य् अस्ति संभवः. सो ऽवश्यं फलविशिष्टं मार्गं संमुखीकरोति तृतीयध्यानसंगृहीतं वा. यतस् तृतीयध्यानसंगृहीतम् अनास्रवं सुखेन्द्रियं लभ्यते. अस्ति हि सम्भावना यद् असौ फलविशिष्टमार्गं संमुखीकुर्यात्. यस्माद् अस्य तृतीयध्यानभूमिकः क्लेशः प्रहीण इति. तेन सो ऽवश्यं फलविशिष्टं मार्गं (अभिध्-क्-व्य् 550) संमुखीकरोतीति नियम्यते.
अन्यथा हि यदि न संमुखीकरोतीत्य् अर्थः. स तस्माद् ऊर्ध्वोपपन्नः. स आर्यः. तस्मात् तृतीयध्यानाद् ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु वा सुखेन्द्रियेणासमन्वागतः स्यात्. यद् धि सास्रवं सुखेन्द्रियं. तद् भूमिसंचारात् त्यक्तं. यद् अपि चानास्रवं. तद् अपि. यदि न संमुखीकृतं स्याद् उभयेनापि सुखेन्द्रियेनासमन्वागतः स्याद् आर्याणां चोर्ध्वोपपन्नानाम् अवश्यं सुखेन्द्रियेणासमन्वागम उक्तः. सुखेन्द्रियेण चतुर्थध्यानारूप्योपन्नः पृथग्जनो न समन्वागतः. आर्यस् तु समन्वागत इति वचनात्. यश् चापि सौमनस्येन्द्रियेण समन्वागतः. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःसुखसौमनस्येन्द्रियैर् इत्य् एवमादिवचनाच् च. [तिब्. 211ब्] अत्र ब्रूमः. अस्त्य् एष विभाषायां लिखितपक्षः. स तु न स्थापनापक्षो लक्ष्यते. अपर आहुर् इति वचनात्. यो हि चतुर्थध्यानलाभी षण्णां भूमीनाम् अन्यतमां भूमिं निश्रित्य नियामम् अवक्रामति. स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन यावच् चतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति. तथा वीतरागत्वात्. यस् तृतीयध्यानलाभी. स पंचभूमिकेन. चतुर्थध्यानभूमिकं हित्वा. एवं यो द्वितीयध्यानलाभी. स चतुर्भूमिकेन. तृतीयचतुर्थभूमिके हित्वा. यस् तु वीतरागः प्रथमध्यानलाभी वा द्वितीयालाभी. स यद्य् अनागामिफलं प्राप्नोति. त्रिभूमिकेनासाव् अनागामिफलेन समन्वागतः. अनागम्यध्यानांतरप्रथमध्यानभूमिकेन. सर्वजघन्यो ऽपि ह्य् अनागाम्य् अवश्यम् एव त्रिभूमिकेनानागामिफलेन समन्वागत इति वर्णयंति. तस्माद् अपरपक्षापेक्षयैवम् उक्तम् आचार्येणेति युक्तं स्यात्.
(vi.35अब्) एवं तावद् भूयःकामवीतरागाणाम् इति. भूयोवीतरागाणां. कामवीतरागाणां च. तत्र भूयोवीतरागो यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. यस्य [तिब्. 212अ] नव प्रकाराः प्रहीणाः. स कामवीतरागः. भूयोवीतरागाणां पुद्गलव्यवस्था
द्वितीये ऽर्वाङ् नवक्षयाद्
इति वचनात्. कामवीतरागाणां
कामाद् विरक्ताद् ऊर्ध्वं चेति
वचनात्. यथैते कामधाताव् इति.
यावत् पंचप्रकारघ्नौ. द्वितीये ऽर्वाङ् नवक्षयात्.
कामाद् विरक्ताव्
इति वचनात्. कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः. चेलाद् इति वस्त्रात्. एष दृष्टांतयोग इति. द्र्स्तांतयुक्तिर् दृष्टांतयोगो दृष्टांतप्रकार इत्य् अपरे. (अभिध्-क्-व्य् 551) तद् एवम् अनया युक्त्यानेन वा प्रकारेणान्यो ऽपि दृष्टांतो वक्तव्य इति सूचयति. अन्यथा ह्य् एष दृष्टांत इत्य् एव ब्रूयात्. अनादिसंसार इति. अनादौ संसारे. स्वहेतुपरंपरया ध्यापिता अभिवर्धितास् ततश् चाधिमात्रप्रमाणम् एतेषाम् इत्य् अभिप्रायः. तेषां क्लेशानाम् उन्मूलनात् प्राप्तिच्छेदतः. मूलसधर्मिण्यो हि प्राप्तयस् तत्प्रबंधत्वात् क्लेशानां तृवृत्कर्षनिष्कर्षणवद् इति. यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्तादीनां दोषाणां निष्कर्षणं. एवं क्षाणिकमृदुकेनाप्य् आर्यमार्गेण क्लेशानां. यथा च क्षणिकेनाल्पेन प्रदीपेन [तिब्. 212ब्] महतस् तमसो घातः. तद्वत् क्लेशानाम् इति.
(vi.35च्द्) सप्तकृत्वः परमं जन्मास्येति. सप्तकृत्वो जन्मप्रकर्षणास्य. नातः परम् इत्य् अर्थः. तेन मार्गेण निर्वाणगमनाद् इत्य् अर्थः. स्रोतसा हि लोके गम्यते.
आद्यमार्गलाभाच् चेत्. आद्यो ऽनास्रवो मार्गो दर्शनमार्गस् तस्य लाभाच् चेत् स्रोतआपन्नः. अष्टमको ऽपि स्यात्. स्रोतआपत्तिफलप्रतिपन्नको ऽपि स्याद् इत्य् अर्थः. तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानाम् अर्हत्प्रतिपन्नकादीनां स्रोतआपत्तिफलप्रतिपन्नो ऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी वा तस्याप्य् आद्यमार्गलाभात् सो ऽपि स्रोतआपन्नः स्यात्. आद्यफललाभाच् चेत्. अथ मतं अपूर्वफलस्य लाभात् स्रोतआपन्न इति. भूयोवीतरागो ऽपि स्यात्. यः प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी. सो ऽपि स्रोतआपन्नः स्यात्. तस्याप्य् अपूर्वफललाभात्. एवं कामवीतरागो ऽपि स्यात्. तस्यापि तद् आद्यं फलम् इति. इदानीं परिहार [तिब्. 213अ] उच्यते. सर्वफलप्रापिणम् अधिकृत्याद्यफललाभाद् इति. सर्वफलम् इति. स्रोतआपत्तिफलादीनि चत्वारि. तत्प्राप्तुं शीलम् अस्येति सर्वफलप्रापी. सर्वफलप्राप्ति अस्यासीति वा सर्वफलप्रापी. तम् अधिकृत्य तम् अभिसंधायाद्यफललाभाद् अपूर्वफललाभात् स्रोतआपन्न उच्यते. किं पुनः कारणम् इति विस्तरः. कस्मात् स एव स्रोतआपन्न उच्यते. नाष्टमकः स चापि ह्य् आर्यमार्गस्रोतआपन्न इति. प्रतिपन्नकफलमार्गलाभाद् इति विस्तरः. यस्मात् तेन सर्वफलप्रापिणा प्रतिपन्नकमार्गः पंचदशक्षणस्वभावः. भावनामार्गश् च षोडशक्षणो लब्धः. अष्टमकेन तु प्रतिपन्नकः मार्ग एव लब्ध इति. इतश् च दर्शनभावनामार्गलाभात्. यस्माच् च तेन दर्शनमार्गश् च स एव भावनामार्गश् च स एव लब्धः. अष्टमकेन तु दर्शनमार्ग एवेति. सकलस्रोतोऽभिसमयाच् च मार्गान्वयज्ञाने. यस्माच् चानेन सकलं स्रोतोऽभिसमितं मार्गान्वयज्ञानक्षांतिक्षणस्यापि
दर्शनान् न त्व् अष्टमकेन. तस्माद् (अभिध्-क्-व्य् 552) एभिः कारणैः सर्वफलप्राप्य् एव स्रोतआपन्न इत्य् उच्यते नाष्टमकः. प्रकर्षगतेर् हि तथा वचनं. तद्यथा लोके यः प्रकर्षेण भासं करोति. स भास्कर उच्यते. न खद्योतकः. [तिब्. 213ब्] तद्वत्. तस्माद् अन्यान् इति. तस्मात् सांप्रतिकाद् भवाद् अन्यान्. सप्तस्थानकौशलसप्तपर्णवद् इति. यथा सप्तकसामान्यात् सप्तस्थानकुशलो भिक्षुर् उक्तः सूत्रे. कथं. विस्तरम् उक्त्वाह. कथं च भिक्षवो भिक्षुः सप्तस्थानकुशलो भवति. रूपं यथाभूतं प्रजानाति. रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादम् आदीनवं निःसरणं यथाभूतं प्रजानाति. एवं वेदनां संज्ञां संस्कारान् विज्ञानं यथाभूतं प्रजानाति. विज्ञानसमुदयं विस्तरेण यावन् निःसरणं यथाभूतं प्रजानातीति. एवम् अनेन न्यायेन पंचसप्तकानि पंचत्रिंशद् इति. पंचत्रिंशत् कुशलः प्राप्नोति. सप्तपर्णवच् च. यथा च पत्त्रिकायां पत्त्रिकायां सप्तपर्णसादृश्याद् अनेकशतपत्त्रो ऽपि सन् स वृक्षः सप्तपर्ण इत्य् उच्यते. तद्वत्. प्रथमो दृष्टांतः प्रवचने सिद्धः. द्वितीयो लोक इति दृष्टांतद्वयोपन्यासे प्रयोजनम्. यदि सप्तकसामान्यात् सप्तकृत्वः परम इति व्याख्यायते.
यत् तर्हि सूत्र उक्तं. तद् विरुध्यत इत्य् अतो ऽपव्याख्यानम् एतद् इत्य् अभिप्रायः. एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीत्य् अविरोधः. यथारुतं वा कल्प्यमान इति. सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य [तिब्. 214अ] दुःखस्यांतं करोतीति देवमनुष्यवचनाद् अंतराभवो ऽपि न स्यात्. इष्यते च देवमनुष्यगत्योः सप्तभवाभिनिर्वर्तनम्. अंतराभवास् तु न गण्यांत इति. यदि अंतराभवैः सह सप्तभवा गण्येरन् जन्मचतुष्टयम् एवास्य स्यात्. तद् एवानेनानिष्टापत्तिवचनेन तदात्मीयं व्याख्यानम् एकस्यां गताव् इति समर्थयति. इतर आह. एवम् अप्य् ऊर्ध्वंस्रोतस इति विस्तरः. यद्य् एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीति व्याख्यापयसि. कथं तर्हि ऊर्ध्वस्रोतसो ऽष्टमभवाभिनिर्वृत्तिर् एकस्यां गतौ भवति. भवाग्रपरमस्येति विशेषणं किम् अर्थम्. अकनिष्ठपरमस्यापि अष्टमभवाभिनिर्वृत्तिः संभवति.
स प्लुतो ऽर्धप्लुतः सर्वश् च्युतश् चान्यो भवाग्रग
इति वचनात्. स चापि वक्तव्यः. भवप्रकर्षविवक्षायां तु भवाग्रपरमग्रहणम् इत्य् अभिप्रायं लक्षयामः. कामधात्वभिसंधिवचनाद् इति. कामधातौ चैका गतिर् मनुष्यगतिः. देवगतिर् वा. तस्याम् अष्टमभवं नाभिनिर्वर्तयति. न तु रूपारूप्यधात्वोर् इति. किम् अत्र ज्ञापकं. सूत्रं युक्तिर् वा. कामधातुम् अधिकृत्येदम् उक्तम् इति. [तिब्. 214ब्] सूत्रम् आगमः. (अभिध्-क्-व्य् 553) युक्तिर् अत्रानुमानं. येन चोदकेनैवं चोदितं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वेति. स एव पुनर् आह. इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु इति विस्तरः. प्रत्येकं देवमन्युष्येषु सप्तकृत्वः संसृत्येति. न पुनर् उभयेष्व् एव देवमनुष्येषु सप्तकृत्व इति. तद् उक्तं भवति. यो मनुष्येषु दृष्टसत्यः. स देवेषु त्रिष्कृत्वः संसृत्य मनुष्येषु च त्रिष्कृत्व एव ततो देवान् आगम्य परिनिर्वातीति. यो वा देवेषु दृष्टसत्यः. स तथैव. स मनुष्येषु त्रिष्कृत्वो देवेषु च त्रिष्कृत्व एव संसृत्य ततो मनुष्यान् आगम्य परिनिर्वातीति. एवं हि पठ्यते सप्तकृत्वो देवांश् च मनुष्यांश् चेति. सामान्यरूपेण हि पठ्यते. न प्रत्येकम् इति विशिष्य पठ्यत इत्य् अर्थः. एवं वैभाषिकपक्षे संशयावस्थे कृते आचार्यः समर्थयन्न् आह. प्रत्येकम् अपि तु काश्यपीया इति विस्तरः. काश्यपीया निकायांतरीयाः. त एवं पठन्ति. सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यान् इति. एवं प्रत्येकमर्थो लभ्यते. तद् अनेनोभयम् अपि परिहृतं भवति. यद् उक्तं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वा कामधातुम् अधिकृत्येदम् उक्तम् इति. यच् चोक्तम् इह चैव किं ज्ञापकं. प्रत्येकं देवमनुष्येषु सप्तकृत्व इति. [तिब्. 215अ] प्रत्येकमर्थपरिग्रहेणैव हि
कामधात्वभिसंधिर् अपि सूचितो भवति. न हि रूपारूप्यधात्वोः सप्तकृत्वो देवमनुष्येषु संसरणं युज्यते. तत्रोपपन्नानाम् अनागामिनां मनुष्यानागमनात्. युक्तिर् अप्य् अत एव गम्यते. यत्रैव सप्तकृत्वोभवपरम उक्तः. तत्रैव भूमाव् अष्टमभवप्रतिषेध उपपद्यते नान्यत्रेति. नात्राभिनिवेष्टव्यम् इति. इह चैव किं ज्ञापकम् इति. तज्जातीय इति. तत्प्रकारः. येन तावता कालेनावश्यं संततिपरिपाकान् नाष्टमं भवम् अभिनिर्वर्तयति. सप्तपदाशीर्विषदष्टवत्. सप्तपदाशीर्विषेण तेन दष्टो यथा सप्तपदानि गत्वा म्रियते. न परेण नार्वाक्. विषजातिः सा तादृशी. चातुर्थकज्वरवच् च. यथा चातुर्थको ज्वरश् चतुर्थ एवाहनि भवति. न परेण नार्वाक्. रोगजातिः सा तादृशी. तद्वत्. द्वे अवरभागीये इति. कामच्छन्दव्यापादौ. कामावीतरागत्वाद् एतौ भवतः. पंचोर्ध्वभागीयानीति.
द्वौ रागौ रूप्यरूपिजौ औद्धत्यमानमोहाश् चेति.
यतो ऽर्वाण् निर्वाणं च न प्राप्नोति. न चाष्टमं भवम् अभिनिर्वर्तयतीति. [तिब्. 215ब्] सप्तसंयोजनावशेषत्वाद् इत्य् अहेतुर् एष इत्य् आचार्यसंघभद्रः. न ह्य् ऊर्ध्वभागीयानि कामधातौ जन्माभिनिर्वर्तयितुं समर्थान्य् ऊर्ध्वभूमिकत्वाद् इति. एतद् धेतुवादिनः पुनर् आहुः. यद्य् अपि तान्य् ऊर्ध्वभूमिकानि. तत्प्राप्तिसामर्थ्यात् तु तावतां भवानाम् अभिनिर्वृत्तिर् भवति. (अभिध्-क्-व्य् 554) न हि तानि ऊर्ध्वम् अपि विपाकहेतुत्वेन व्यवस्थाप्यंते. अव्याकृतत्वाद् इति. अंतरेणेत्य् अंतरार्वाग् इत्य् अर्थः. धर्मताप्रतिलंभिकम् इति. अशैक्षमार्गसामर्थ्यप्रतिलंभिकम् इत्य् अर्थः. स हि तस्य स्वभावो यद् भिक्षुलिंगेन योजयतीति.
अविनिपातधर्मेति. सूत्रे पठ्यते. स्रोतआपन्नो भवन्न् अविनिपातकधर्मा नियतं संबोधिपरायणः सप्तकृत्वःपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यांतं करोतीति. कस्माद् एवं भवतीत्य् आह. तद्गामिककर्मानुपचयाद् इति. विनिपातो ऽपायो नरकादिः. तं गच्छतीति तद्गामि. तद्गाम्य् एव तद्गामिकं. किं. कर्म. तस्यानागतस्यानुपचयाद् आर्यावस्थायां. उपचितविपाकदानवैगुण्याच् च संततेः. पृथग्जनावस्थायाम् उपचितस्यानियतवेदनीयस्य तद्गामिकस्य कर्मणो विपाकदानवैगुण्यात् संततेः. अविनिपातधर्मा भवतीत्य् उच्यते. [तिब्. 216अ] ईदृशी तस्य स्कंधसंततिः परावृत्ता. यद् असौ तद्गामिकस्य कर्मण उपचितस्य विपाकदानवैगुण्येनावस्थितेति. कस्मात् पुनः सा स्कंधसंततिर् उपचिततद्गामिककर्मविपाकदानवैगुण्येनावस्थितेति. तत उच्यते. बलवत्कुशलमूलाधिवासनाद् इति. यस्माद् असौ स्कंधसंततिर् बबवद्भिः. कुशलमूलैर् अधिवासिता परिभाविता. कथं च पुनर् बलवत्कुशलमूलाधिवासिता. प्रयोगाशयशुद्धितः. प्रयोगशुद्धित आशयशुद्धितश् च. तत्र प्रयोगशुद्धिर् आर्यकांतानि शीलानि. आशयशुद्धिर् बुद्धादिष्व् अवेत्यप्रसाद इति. क्षांतिम् अपि नोत्पादयेद् इति. क्षमणम् अपि नोत्पादयेत्. चित्तम् अपि नोत्पादयेत्. प्राग् एव प्रयोगम् इत्य् अभिप्रायः. अथ वा. अपायनियते तु कर्मणि सत्य् असौ पुद्गलः क्षांतिम् अपि निर्वेधभागीयलक्षणां नोत्पादयति. किम् अंगानास्रवं मार्गम् इति. यथा बलवत्कुशलमूलाधिवासिता उपचिताकुशलविपाकदानविगुणा भवति. तच् छ्लोकेनोपदर्शयति.
कृत्वाबुधो ऽल्पम् अपीति
सर्वम्.
अबुधो ऽल्पम् अपि
पापं
कृत्वा
अधः प्रयात्य्
अपायं.
बुधः
पुनर्
महद् अपि
पापं कृत्वा
प्रजहात्य् अनर्थम्
अपायं. तद् अर्थद्वयं यथाक्रमं [तिब्. 216ब्] दृष्टांतद्वयेन साधयति.
लोहम् अल्पम् अपि संहतं
पिण्डरूपावस्थितम्
उदके मज्जत्य्
असंस्कृतत्वात्.
तद् एव
पुनर् लोहं
पात्रीकृतं
सन्
महज्
जातम् उदके
प्लवते
तरति. तदभिसंस्कारगुणात्. एवम् अबुधो गुणैर् अपात्रीकृतत्वान् मज्जति. न तु बुधो गुणैः पात्रीकृतत्वाद् इति.
यस्मात् परेण दुःखं नास्तीति. यस्माद् दुःखात् परेण दुःखं नास्ति भवांतरसंगृहीतं. स दुःखस्यांतो दुःखावसानम् इत्य् अर्थः. अन्यथा हि मरणकाले दुःखस्यांतो भवति. सप्रतिसंधिकं तु तद् दुःखम्. अत आह. अप्रतिसंधिकं दुःखं करोतीत्य् अर्थ इति. कथं निर्वाणं करोतीति. नित्यत्वात् करणं न युज्यत इत्य् अभिप्रायः. तत्प्राप्तिविबंधापनयनाद् इति. निर्वाणप्राप्तिविबंधापनयनात्. तत्प्राप्तेर् विबंधः क्लेशप्राप्तिर् उपधिर् वा तदपनयनान् निर्वाणं करोति. तद्यथाकाशं मण्डपावस्थाने न लक्ष्यते. सति तस्य विबंधे. तदपनयनान् नित्यम् अप्य् आकाशं करोतीत्य् उच्यते. तेनाह. यथाकाशं कुरु मण्डपं पातयेति भवंति वक्तार इति. अन्यो ऽपि वेति पृथग्जनः परिपक्वसंतानः न तु नियत इति. कदाचिद् इहैव परिनिर्वायात् अंतराभवेषु चेत्य् अतो नोच्यते.
(vi.36) द्वित्रिजन्मेति.
द्वे वा त्रीणि वा जन्मान्य् अस्येति [तिब्. 217अ] द्वित्रिजन्मा. केचिद् एवं पठंति. द्वित्रजन्मेति. द्वे वा त्रीणि वा द्वित्राणि. संख्ययाव्ययासन्नादूराधिकसंख्याः (अभिध्-क्-व्य् 556) संख्येय इति समासः. बहुव्रीहौ संख्येये डज् इति समासांतः. द्वित्रान्यजन्मान्य् अस्येति द्वित्रजन्मेति. श्लोके तु द्वयोर् ग्रहणम् इति. क्लेशप्रहाणजन्मनोः. कस्माद् इत्य् आह. स्रोतआपन्नस्यानुपूर्विकस्य दर्शनप्रहातव्येषु प्रहीणेषु भावनाप्रहातव्यानां क्लेशानाम् एकस्य प्रकारस्य यावच् चतुर्णां पश्चात् प्रहाणे सति. तत्प्रतिपक्षस्यैकद्वित्र्यादिक्लेशप्रकारप्रतिपक्षस्यानास्रवस्येन्द्रिगस्य लाभस् तस्यानुक्तसिद्धत्वात् श्लोकेन तस्याग्रहणं. न हि विना प्रतिपक्षेण क्लेशप्रकारप्रहाणम् अस्ति. लौकिकेनापि हि मार्गेण तस्यार्यस्य क्लेशप्रकारप्रहाणे ऽनास्रवस्य तत्प्रतिपक्षस्येन्द्रियस्य लाभो भवति. जन्म तु कदाचिद् अल्पीयः स्यात्. यदीहैव परिनिर्वायात् अंतराभवे उपपद्य वा. किं कारणं. परेण भव्यत्वात्. स्रोतआपत्तिफलात् परेण सकृदागामित्वस्य यावद् अर्हत्त्वस्य भव्यत्वात्. अतो ऽस्य जन्मनो ग्रहणं.
द्वित्रिजन्मा कुलंकुल
इति.
नियमार्थम् इदम् इह विचार्यते. य एकद्विविधमुक्तः. स किं भवति. कुलंकुल इत्य् एके.
त्रिचतुर्विधमुक्त-
ग्रहणं तु उदाहरणार्थः. परिमाणार्थं वा नातः परेणेति. एकद्विविधमुक्तः पंचषट्जन्मेत्य् अपरे. [तिब्. 217ब्] त्रिचतुर्विधमुक्त इति विशेषपरिग्रहात्. नैतद् व्याख्यानकारैर् विचारितम् इति विचार्यम् एतत्.
कस्मान् न पंचप्रकारप्रहाणात्. किं. कुलंकुलो भवतीत्य् अधिकारः. तत्प्रहाण इति विस्तरः. पंचप्रकारप्रहाणे षष्ठयापि प्रकारस्यावश्यं प्रहाणात्. कस्माद् इत्य् आह. न हि तस्यैकः प्रकारः षष्ठः फलं सकृदागामिफलं विघ्नयितुं समर्थ इति. एकवीचिकस्येवेति. विपरीतदृष्टांत एषः. यथैकवीचिकस्यैकः प्रकारो नवमो ऽनागामिफलं विघ्नयितुं समर्थः. नैवम् अस्य स्रोतआपन्नस्य षष्ठः प्रकारः सकृदागामिफलं विघ्नयितुं समर्थ इति. कस्माद् इत्य् आह. धात्वनतिक्रमाद् इति. एकवीचिको हि कामधातुम् अतिक्रामति. अतो ऽस्यैको ऽपि प्रकारो नवमः फलं विघ्नयितुं समर्थो धात्वतिक्रमस्य दुष्करत्वात्. सकृदागामी तु धातुं नातिक्रामतीति. न तस्यैकः क्लेशः प्रकारः षष्ठः फलं विघ्नयितुं समर्थ इति.
तत्र वान्यत्र वा देवनिकाय इति. तद्यथा त्रायस्त्रिंशेषु सत्यानि दृष्ट्वा द्वे त्रीणि वा कुलानि संसृत्य. तत्रैव त्रायस्त्रिंशेषु परिनिर्वाति. अन्यत्र वा. (अभिध्-क्-व्य् 557) चातुर्महाराजकायिकेषु यामेषु वा परिनिर्वाति. एवम् अन्यत्रापि योज्यं. रागद्वेषमोहानां तनुत्वाद् इत्य् उच्यत इति सूत्रे. कथं. त्रयाणां सम्योजनानां [तिब्. 218अ] प्रहाणात् रागद्वेषमोहानां च तनुत्वात् सकृदागामीभवतीति. मृदुप्रकारावशेषत्वाद् इति. मृद्वधिमात्रो मृदुमध्यो मृदुमृदुर् इत्य् एतन्मात्रावशेषत्वात्.
(vi.37) क्षीणसप्ताष्टदोषांश
इति. दोषांशो दोषावयवः सप्ताष्टप्रकारलक्षणः. इन्द्रियत इति चात्र तृतीयं कारणं न सूत्रितं तथैव व्याख्येयं. कथम् अस्येति विस्तरः. कथम् अस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थो न हि कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति. उच्यते. धात्वतिक्रमात्. यस्माद् असौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रांतो भवति. न पुनस् तत्रोपपद्यते. स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्य् अतस् तद्विपाकनिष्यन्दफलभूम्यतिक्रमात् फलं विघ्नयितुं समर्थो भवति. अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठंत इत्य् उक्तं प्राक्.
क्षांत्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृद्
इति. इह तु क्लेशेषु योजयितव्यं. अत एवाह. यथा कर्माणि. एवं क्लेशा इत्यादि. तस्यवैकजन्मव्यवहितत्वाद् इति. तस्य क्षीणसप्ताष्टप्रकारस्य सकृदागामिनः. एकेन जन्मना वावहितत्वान् निर्वाणस्य. एकेन वा क्लेशप्रकारेण व्यवहितम् अस्यानागामिफलम् इत्य् [तिब्. 218ब्] एकवीचिकः. न तावत् कुलंकुलो भवत्य् एकवीचिको वेति. लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तो ऽपि न तावत् कुलंकुलो भवति. क्षीणसप्ताष्टप्रकारो ऽपि न तावद् एकवीचिको भवति. तत्प्रतिपक्षानास्रवेन्द्रियलाभस्याभावात्. अत एवाह. यावत् फलविशिष्टो मार्गो न संमुखीकृत इति. फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा संमुखीकृते तदानास्रवेन्द्रियलाभात्. कुलंकुलो भवत्य् एकवीचिको वेत्य् अर्थाद् उक्तं भवति. पंचानाम् इति विस्तरः. पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् अनागामीत्य् उच्यते सूत्रे. प्रहाणसंकलनात्. सत्कायदृष्ट्यादीनां प्रहाणैकत्वव्यवस्थापनात् द्वे त्रीणि वा पूर्वं प्रहीणानीति. यदि तावत् कामवीतरागो नियामम् अवक्रामति. द्वे पूर्वं प्रहीणे लौकिकेन मार्गेण. कामच्छन्दो व्यापादश् च. सत्कायदृष्ट्यादीनाम् अपर्यादाय प्रहाणात्. अथानुपूर्विकः. त्रीणि पूर्वं प्रहीणानि. केन. दर्शनमार्गेण सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च. तस्मात् साकल्येन पंचानां प्रहाणाद् इत्य् उच्यते.
(vi.38, 39) सो ऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिर्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
