Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(v.52) वितथात्मसंदर्शनतयेति. वितथस्यात्मनः संदर्शनतया महाब्रह्मा आयुष्मंतम् अश्वजितं वंचयितुं प्रवृत्तः. कुत्रेमानि ब्रह्मन् महाभूतान्य् अपरिशेषं निरुध्यंत इति पृष्टो [तिब्. 156अ] ऽप्रजानन् क्षेपम् अकार्षीत्. अहम् अस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् इति मायया वंचयितुम् आरब्धः. अथ स महाब्रह्मा आयुष्मंतम् अश्वजितं करे गृहीत्वा एकांते अस्थाद् एकांतस्थितश् चेदम् उक्तवान्. विद्यमाने तथागते मां प्रष्टव्यं मन्यसैतीदम् अस्य शाठ्यं दृश्यते. स्वपरिषल्लज्जया ह्य् आत्मीयज्ञानतां निगूहमानः स तथा कृतवान् इति. उक्तम् अपि शाठ्यम् इति तथा हि
कौकृत्यमिद्धाकुशलान्य् आद्ये ध्याने न संत्य् अत
इति. अत्रोक्तम् अपि प्रसंगेनेति
परेणाव्याकृतास् तत
इति प्रसंगेनेति. पंचापनीयेति मायाशाठ्यस्त्यानौद्धत्यमदान्.
(v.53) तेहि सकले मनोभूमिके इति. मानमिद्धे.
उपक्लेशाः स्वतंत्राश् चेति
ईर्ष्यामात्सर्यादयः. ये च क्लेशमहाभूमिकेषूक्ता इत्य् आश्रद्ध्यकौसीद्यप्रमादा एव. नान्ये स्त्यानौद्धत्ययोर् इहैव पूर्वं गृहीतत्वात्. मोहस्य क्लेशग्रहणेन ग्रहणात्.
(v.54,55) सुखाभ्याम्
इति. सुखवेदनास्वभावाभ्याम् इन्द्रियाभ्याम् इत्य् अर्थः. हर्षदैन्याकारवर्तित्वाद् इति. हर्षाकारवर्ती रागो दैन्याकारवर्ती द्वेष इति यथासंख्येन. [तिब्. 156ब्] षड्विज्ञानभूमिकत्वाच् चेति. पंचविज्ञानभूमिकत्वाद् रागः सुखेन्द्रियेण संप्रयुक्तः. द्वेषश् च दुःखेन्द्रियेण. मनोविज्ञानभूमिकत्वात् तु रागः सौमनस्येन्द्रियेण. द्वेषश् च दौर्मनस्येन्द्रियेण संप्रयुक्तः. पुण्यकर्मणां पापकर्मणां च यथाक्रमं इति. पुण्यकर्मणां मिथ्यादृष्टिर् दौर्मनस्येन संप्रयुक्ता. पुण्यक्रियाया नैरर्थक्यदर्शनात्. पापकर्मनां मिथ्यादृष्टिः सौमनस्येन सस्ंप्रयुक्ता. स्वकृतपापवैफल्यदर्शनात्. चतस्रो दृष्टय इति. सत्कायदृष्टिर् अंतग्राहदृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्सश् च. कथम् उच्छेददृष्टिः सौमनस्येन संप्रयुक्ता. तस्याभिनतत्वात्. उपेक्षा संतिष्ठत इति विनाशावस्थायां मन्दत्वात्. यस्यां भूमौ यावन्तीन्द्रियाणीति.
सौमनस्यसुखोपेक्षाः उपेक्षासुमनस्कजे. सुखोपेक्षे उपेक्षा च विदो ध्यानोपपत्तिषु
इति अवगंतव्यं. तत्रप्य् ऊर्ध्वभूमिषु. चतुर्विज्ञानकायिकाः प्रथम एव ध्याने. चक्षुःश्रोत्रकायमनोविज्ञानभूमिकाः. प्रथमे हि ध्याने त्रिविज्ञानकायिकं सुखेन्द्रियम् अस्ति. [तिब्. 157अ] मनोविज्ञानकायिकं सौमनस्येन्द्रियं. चातुर्विज्ञानकायिकं उपेक्षेन्द्रियं. तत ऊर्ध्वं मनोभूमिकम् एव. द्वितीये ध्याने सौमनस्योपेक्षेन्द्रिये. तृतीये सुखोपेक्षेन्द्रिये. चतुर्थे ध्याने आरूप्येषु चोपेक्षेन्द्रियम् एव. तत्र सर्वे ऽप्य् अनुशया यथायथं वेदनेन्द्रियेण संप्रयुक्ताः. तत्र शमथस्निग्धसंतानत्वात् हर्षदैन्याकारव्यवस्था नास्ति. दैन्याकारवर्तित्वाद् एषां कौकृत्यादीनां न सौमनस्येन संप्रयोगः. मनोभूमिकत्वा न दुःखेन्द्रियेण.
(v.56-57) लोभान्वयत्वेनेति. लोभहेतुदत्वेन. लोभसमुत्थेनेत्य् अर्थः.
मदः सुखाभ्याम्
इति. सुखसौमनस्याभ्यां. तृतीये ध्याने सुखेनेति. मदस्य मानसत्त्वात्. यथा अविद्याया इति. यथा अविद्यायाः न क्वचित् क्लेशे उपक्लेशे वा संप्रयोगप्रतिषेधो ऽस्ति. एवम् उपेक्षाया अपीति. अकुशलमहाभूमिकत्वात् आह्रीक्यानपत्राप्ययोः.
अकुशले त्व् आह्रीक्यम् अनपत्रपेति
वचनात्. क्लेशमहाभूमिकत्वाच् च स्त्यानौद्धत्ययोः. षड् विज्ञानकाया अकुशलाः क्लिष्टाः संभवंतीत्य् अतः पंचभिर् अपीन्द्रियैः संप्रयोग एषां [tib.157b] संभवतीति.
(v.58) किं त्रैधातुक्यस्त्यानौद्धत्यविचिकित्सा गृह्यंत इति. आसां त्रैधातुकत्वात् ता एव निष्कृष्य पृच्छ्यंते. केवलो ऽयम् इति विस्तरः अकुशला राशिर् इति भिक्षवो यद् उत पंच निवरणानीति ते सम्यग् वदमाना वद्युः. तत् कस्य हेतोः. केवलो ऽयं भिक्षवः परिपूर्णाकुशलराशिर् यद् उत पंच निवरणानीति विस्तरेणैकांताकुशलत्ववचनात्. कामे निवरणानि नान्यत्रेति. वृत्तिसूत्रपदयोर् एकवाक्यता. निवरणानीति ध्यानसमापत्त्यादीनाम् आवरणानीत्य् अर्थः.
एकविपक्षाहारकृत्यत
इति. एकविपक्षाहारकृत्यत्वाद् इत्य् अर्थः. अंतरेणापि हि भावप्रत्ययं भावप्रधाने निर्देशो भवेत्. अथ वा एकं विपक्षाहारकृत्यं एकविपक्षाहारकृत्यं. तत इति. विपक्षः प्रतिपक्ष इति. श्लोकबन्धानुगुण्येन प्रतिपक्ष इह विपक्षो ऽभिप्रेतः. क्लेशविरुद्धः पक्षो विपक्ष इति कृत्वा. अभिधर्मे तु कृष्णः पक्षो विपक्षः शुक्लविरुद्धः पक्षो विपक्षः. शुक्लपक्षः प्रतिपक्ष इति प्रतीतं.
भक्ते असमतेति. अतिबहुभुक्त्वाहारस्य यः कायोपरोधः. अनाहार इति प्रतिपक्षः.
स्त्यानमिद्धेन प्रज्ञास्कन्धस्य. किं. विघात इति प्रकृतं. [तिब्. 158अ]
एतस्यां तु कल्पनायाम् इति विस्तरः. शीलस्कंधः समाधिस्कंधः प्रज्ञास्कन्ध इति. ययानुपूर्व्या स्कन्धा व्यवस्थिताः. तयैवानुपूर्व्या तद्विपक्षभूतानि निवरणानि पठ्येरन्. कामच्छन्दो व्यापादः औद्धत्यकौकृत्यं स्त्यानमिद्धं विचिकित्सा चेति. औद्धत्यकौकृत्यनिवरणस्य पूर्वं ग्रहणं प्राप्नोति. समाधिस्कंधस्य प्रज्ञास्कंधात् पूर्वम् उक्तत्वात्. न चैवम् अतो नैतत् कारणम् इत्य् अभिप्रायः. किं पुनर् अत्र कारणम् इत्य् आह. अतो यथासंख्यम् एताभ्यां स्त्यानमिद्धेन औद्धत्यकौकृत्येन च निवरणाभ्यां समाधिप्रज्ञास्कंधयोर् उपघात इति. कथम् इत्य् आह. समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद् भयं समानरूपकल्पत्वात्. एवं धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्याद् भयम् इति.
अन्ये त्व् अन्यथा वर्णयंतीति पूर्वाचार्यः. [तिब्. 158] चारगतस्येति पिण्डपातार्थं परिभ्रमतः. निमित्तग्राहात्. स्त्रीरूपम् इति स्त्रीशब्द इति वा ग्रहणात्. विहारगतस्य प्रतिसंलीनस्य स्थितस्य वा निषण्णस्य वा चंक्रम्यमाणस्य वा. तत्पूर्वकौ प्रियाप्रियविषयनिमित्तग्राहपूर्वकौ प्रियाप्रियविषयपूर्वकौ वा. यथाक्रमं शमथविपश्यनयोर् अंतरायं कुरुत इति. शमथस्य स्त्यानमिद्धम् अंतरायं करोति. प्रत्यासन्नरूपतया स्त्यानमिद्धोपस्थानात्. विपश्यनाया औद्धत्यकौकृत्यविचिकित्से अंतरायं (अभिध्-क्-व्य् 498) कुरुतः. औद्धत्यकौकृत्यस्य कृतद्वंद्वैकवद्भावस्य विचिकित्सया सह पुनर् द्वंद्वः. औद्धत्यकौकृत्यं च विचिकित्सा च औद्धत्यकौकृत्यविचिकित्से इति. विचिकित्सा तु पुनर् व्युत्थितस्यापि तस्य धर्मनिध्यानकाले ऽंतरायं करोति.
अपरे पुनर् एवं पाठं पठंति. स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सा चेति. एवं च व्याचक्षते. स्त्यानमिद्धं शमथस्यांतरायं करोति. औद्धत्यकौकृत्यं विपश्यनायाः. विचिकित्सा च व्युत्थितस्य धर्मनिध्यानकाले ऽंतरायं करोतीति.
(v.59) विसभागधातुसर्वत्रगाणाम् इति. विस्तरः. विसभागधातुसर्वत्रगाणां दुःखसमुदयदर्शनहेयत्वेन द्विभेदानां मिथ्यादृष्ट्यादीनां. यद् आलंबनं परिज्ञायते दुःखसमुदयान्वयज्ञानपक्षेण मार्गेण रूपारूप्यधात्वालंबनावस्थायां. न ते तदा प्रहीयंते. दुःखधर्मज्ञानेन समुदयधर्मज्ञानेन च यथायोगं पूर्वम् एव प्रहीणत्वात्. धर्मज्ञानवध्या हि ते कामावचरत्वात्. निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालंबनानां [तिब्. 159अ] दृष्टिपरामर्शादीनां यदालंबनं निरोधमार्गदृग्दृग्घेयं मिथ्यादृष्ट्यादिकं दुःखसमुदयसत्यस्वभावं दुःखसमुदयधर्मज्ञानपक्षेणान्वयज्ञानपक्षेण वा यथाधातु परिज्ञायते. न ते तदा प्रहीयंते. निरोधमार्गदर्शनप्रहेयत्वाद् इति. न च तथा तेषाम् आलंबनं परिज्ञायते पूर्वम् एव ज्ञातत्वात्. कथम् एषां प्रहाणम् आलंबनपरिज्ञानात् तत्प्रहाणं न युज्यत इत्य् अभिप्रायः. तत्रालंबनपरिज्ञानात् कामावचराः स्वधात्वलंबना रूपारूप्यावचराश् च दुःखसमुदयदृग्घेयाः प्रहीयंते. तत्र विसभागधात्वालंबनानाम् आलंबनं परिज्ञया पश्यतः प्रहाणां दुःखसमुदयान्वयज्ञानक्षांत्योर् युगपद् द्विधात्वालंबनत्वात्. स्वभूम्यालंबनानाम् इति विशेषणं. विसभागधातुसर्वत्रगनिरासार्थं. तदालंबनसंक्षयाद् इति. विसभागधातुसर्वत्रगा आलंबनम् एषां सत्कायदृष्ट्यादीनाम् इति. तदालंबनाः सभागधातुसर्वत्रगाः. तेषां क्षयात् प्रहाणात्. ते विसभागधातुसर्वत्रगाः प्रहीयंते. [तद्धेतुत्वेनोपस्तंभप्रहाणाद् विसभागधातुसर्वत्रगानां प्रहाणम् आलंबनप्रहाणा]. आलंबनप्रहाणाद् इति. दृष्टिपरामर्शाद्यालंबनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात्. ते ऽपि दृष्टिपरामर्शादयः सास्रवालंबनाः प्रहीयंते.
प्रतिपक्षोदयात् क्षय
इति. भावनाहेयानां प्रतिपक्षोदयाद् एव क्षयः नालंबनपरिज्ञानादिभ्य (अभिध्-क्-व्य् 499) इति दर्शयति. पश्चात् प्रवेदयिष्याम इति.
नवप्रकारा दोषा हि भूमौभूमौ तथा गुणा
इत्य् अत्र वक्ष्यति.
(v.60अब्) प्रहाणप्रतिपक्ष आनंतर्यमार्ग इति. [तिब्. 159ब्] विपक्षप्रतिद्वंद्वी पक्षः प्रतिपक्षः. प्रहाणाय प्रतिपक्षः प्रहाणप्रतिपक्षः. विमुक्तिमार्गो ऽपि हि प्रतिपक्षो न तु प्रहाणायेत्य् अत इत्थं विशेषणं. प्रहीयते वानेनेति प्रहाणं. प्रहाणश् चासौ प्रतिपक्षश् च प्रहाणप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतिः. आधारप्रतिपक्षस् तस्मात् परेणेति. तस्माद् आनंतर्यमार्गात् परेण. यो मार्गो विमुक्तिमार्गः. स ह्य् आधारः प्रहाणस्य तत्प्राप्त्याधारणात्. आधार्यते ऽनेनेत्य् आधारः. स एव प्रतिपक्षः आधारप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतेः परं दुःखधर्मज्ञानम् इति तेनोच्यते. येन तत्प्रापितम् इति विस्तरः. येन मार्गेण तत्प्रापितम् आनंतर्यमार्गप्रापितं प्रहाणम् आधार्यते. तत्प्राप्त्यनुच्छेदात्म आधारप्रतिपक्ष इति. दूरीभावप्रतिपक्ष इति विस्तरः. क्लेशप्राप्तिर् दूरीभवति येन स दूरीभावः. स एव प्रतिपक्षो दूरीभावप्रतिपक्षः. दूरीभवनं वा दूरीभावः. तस्मै प्रतिपक्षो दूरीभावप्रतिपक्षः. विमुक्तिमार्गात् परेण यो मार्ग इति. यो ऽसौ विमुक्तिमार्गो दुःखे धर्मज्ञानं. तस्मात् परेण यो मार्गो दुःखे ऽन्वयज्ञानक्षांत्यादि. स दूरीभावप्रतिपक्ष इति दर्शयति.
विमुक्तिमार्गो ऽपीत्य् अपर इति. [तिब्. 160अ] स चाप्य् आद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष इत्य् उच्यते. सो ऽपि हि तां क्लेशप्राप्तिं दूरीकरोति. एवं च सति विमुक्तिमार्ग आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वच नामद्वयं लभत इत्य् उक्तं भवति. तं धातुं दोषतो दर्शनाद् विदूषयतीति. अनित्यादिभिर् आकारैर् येन तं धातुं विदूषयतीत्य् अर्थः. तद् एवं सति यो ऽपि दुःखसमुदयालंबनः प्रहाणप्रतिपक्षादिः. स चापि विदूषणाप्रतिपक्ष इति दर्शितं भवतीति. अपि त्व् इयम् आनुपूर्वी साध्वी भवेद् इत्य् आचार्यः. सोपानन्यायसमाश्रयात् लक्षणासांकर्याच् चेयम् आनुपूर्वी साध्वीति दर्शयति. दुःखसमुदयालंबनः प्रयोगमार्ग इति. प्रयोगमार्ग एवोष्मगतादि गृह्यते. नानंतर्यमार्गादि. प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात्. सर्वानंतर्यमार्ग इति. पश्चात्कालीनो ऽपि यो ऽन्यः. विमुक्तिमार्गः सर्व इत्य् एव चाधिक्रियते. विशेषमार्गस् तु य एतत्त्रयव्यतिरिक्तः. स इह गृह्यते.
(v.60च्द्) न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यत इति. स्वकलापात् विवेचनाशक्यत्वात्. [तिब्. 160ब्] अनागतस् तावच् छक्येतालंबनाद् विवेचयितुं. विवेचितस्य
(अभिध्-क्-व्य् 500) तस्य न पुनस् तद् वस्त्व् आलंब्योत्पत्तिर् इत्य् अतः कारणात्. अतीतस् तु कथं यद् वस्त्वालंब्योत्पन्नः. न ह्य् आलंबितं वस्त्व् अनालंबिनीकर्तुं शक्यते. एषो ऽपि नैकांत इति. चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते.
आलंबनपरिज्ञानात् तदालंबनसंक्षयात् आलंबनप्रहाणाच् च प्रतिपक्षोदयात् क्षय
इति. तस्माद् आलंबनपरिज्ञानाद् इति नायम् एकांतः. तस्माद् वक्तव्यम् एतद् इति परिहर्तव्यम् एतद् इत्य् अर्थः. अत्राचार्यसंघभद्रः परिहरति. आलंबनात् क्लेशाः प्रहातव्याः. आलंबनपरिज्ञानबलेन हि क्लेशाः प्रहीयंते. द्विविधं चानुशयालंबनं. संयोगवस्तु असंयोगवस्तु च. तत्र संयोगवस्तुविषयाणाम् अनुशयानां तदनुशयबलोत्पादितानाम् अतद्विषयाणाम् अपि पुद्गलस्य संताने प्राप्तिर् अक्लिष्टचित्तस्याप्य् अविच्छेदेन प्रवर्तते. अनागतातीतक्लेशहेतुफलभूता. एवम् असंयोगवस्तुविषयाणाम् अतद्विषयाणाम् अपि च तद्विषयक्लेशपृष्ठसमुदाचरिणां क्लेशानां प्राप्तिर् वेदितव्या. सा ह्य् अनागतानाम् उत्पत्तौ प्रत्ययगमनाद् धेतुभूता भवति. अतीतानां च निष्यन्दभावात् [तिब्. 161अ] फलभूता. सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा. तदाधारितत्वात् क्लेशानाम्. अतो येनालंबनेनोत्पन्नाः क्लेशा अन्यालंबनान् अपि क्लेशान् प्रवर्तयंति. तदालंबनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशास् तदालंबना अपि संतो हेतुफलापक्रांताः प्रहीणा इत्य् उच्यंते. तद् यस्माद् अपरिज्ञाते कस्मिंश्चित् क्लेशविषये अतद्विषयाणाम् अपि क्लेशानां तद्विषयक्लेशबलेनप्राप्तिर् अनागतातीतक्लेशहेतुफलभूता संततौ प्रवर्तते यथा वस्तु. तस्माद् आलंबनात् क्लेशाः प्रहातव्या इत्य् अभिमतं इति.
ननु च तदालंबनप्रहाणादिभिर् अपि क्लेशाः प्रहीयंत इत्य् अभिप्रेतं. किम् इदम् उक्तम् आलंबनपरिज्ञानबलेन क्लेशाः प्रहीयंत इति. ते ऽपि दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंते. तद्भावाभावयोगे तद्भावाभावयोगात्. येषाम् अपि हि प्रतिपक्षोदयात् प्रहाणम् उच्यते. ते ऽपि भावनाहेयाः. क्लेशा आलंबनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंत इत्य् अवगंतव्यं. व्यवस्थामात्रं तु तद् यद् उक्तं. तदालंबनप्रहाणादिभिर् [तिब्. 161ब्] अपि क्लेशाः प्रहीयन्त इत्य् अभिप्रायो लक्ष्यते.
स्वासांतानिकः प्राप्तिच्छेदाद् इति विस्तरः. स्वसंतानक्लेशः प्राप्तिविगमात् प्रहीणो वक्तव्यः. परसंतानक्लेशस् तु न प्राप्तिच्छेदात्. स्वसंताने तत्प्राप्त्यभावात्. किं तर्हि तदालंबनस्वासांतानिकक्लेशप्रहाणात्. पारसांतानिकक्लेशालंबनस्वासांतानिकक्लेशप्राप्तिच्छेदाद् इत्य् अर्थः. सर्वं (अभिध्-क्-व्य् 501) रूपं कुशलाकुशलाव्याकृतं. अक्लिष्टश् च धर्म इत्य् अरूपी कुशलसास्रवं अनिवृतव्याकृतश् च. तथैव तदालंबनस्वासांतानिकक्लेशप्रहाणात् प्रहीणो वक्तव्य इति.
(v.61) भूतशीलप्रदेशाध्वद्वयानाम् इव दूरतेति.
इवशब्दो ऽत्रोदाहारणं. तद्यथार्थे द्रष्टव्यः. वैलक्षण्याल् लक्षणदूरता. तद्यथा भूतानां. भिन्नलक्षणो हि पृथिवीधातोर् अब्धातुस् तस्मात् पृथिवीधातोर् अब्धातुर् दूरे भवति. विपक्षत्वाद् विपक्षदूरता. तद्यथा शीलस्य दौःशील्यं. देशविच्छेदात् देशदूरता. तद्यथा प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात्. कालतः कालदूरता. तद्यथाध्वद्वयस्यातीतानागतलक्षणस्य. [तिब्. 162अ] तद् ध्य् अतीतानागतं दूरम् उच्यते. क्वोच्यते. अभिधर्मे. एवं ह्य् आह. दूरे धर्माः कतमे. अतीतानागता धर्माः. अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति. तद् दूरम् इति. तद् अतीतानागतम्.
उत्पद्यमानं चेति. उत्पादाभिमुखम् अनागतं चेत्य् अर्थः. न चिरभूतभावित्वेनेति. न चिरभूतत्वेनातीतं नापि चिरभावित्वेनानागतं दूरम् इत्य् अर्थः. वर्तमानम् अप्य् एवं दूरं प्राप्नोतीति. अध्वनानात्वेन प्रत्युत्पन्नो ऽध्वतया वर्तमानम् अपि दूरं प्राप्नोति. यथातीतानागतम् अतीतानागताध्वतया. अकारित्रात् तर्हि तद् दूरम् इति. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतम् इति. तद् अतीतानागतं दूरम् उच्यते. असंस्कृतस्य कथम् अंतिकत्वम् इति. तस्य कारित्राभावाद् अंतिकत्वं न स्यात्. तच् चेष्यते अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति शास्त्रपाठात्. सर्वत्र तत्प्राप्तेर् इति. सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्याप्रतिसंख्यानिरोधस्य प्राप्त्युत्पादात्. अतीतानागते ऽपि [तिब्. 162ब्] प्रसंग इति कुशलादेर् अतीतानागतस्य सर्वत्र देशे प्राप्तिः संभवतीत्य् अतीतानागते ऽप्य् अंतिकत्वप्रसंगः. आकाशं च कथम् इति. आकाशं च कथम् अंतिकं. न हि तस्य प्राप्तिर् अस्तीति. अतीतानागतम् अन्योन्यम् इति. अतीताद् अनागतं दूरम् अनागताच् चातीतम् इत्य् अर्थः. असंस्कृतं चाव्यवहितत्वाद् इति. न केनचिद् व्यवहितं. यथा वर्तमानेनातीतानागतम् इति. एवं तस्यांतिकत्वं. एवम् अपीति. अस्याम् अपि कल्पनायां. यद् अनंतरम् अतीतानागतं. तद् वर्तमानस्यांतिकत्वाद् उभयं प्राप्नोति. दूरम् आसन्नं चेति. तद् ध्य् अतीतं वर्तमानांतरितत्वाद् अनागताद् दूरं. वर्तमानाच् चाव्यवहितत्वाद् अंतिकम् इति प्राप्नोति. इत्य् एवम् अनागतम् अपि नेयं.
एवं तु युक्तं स्याद् इति. स्वमतम् आचार्यस्य. धर्मस्वलक्षणाद् अनागतं दूरं. कस्मात्. असंप्राप्तत्वात्. यस्माद् अनागतेन स्वलक्षणं न संप्राप्तम् (अभिध्-क्-व्य् 502) इति. अथ वा यस्मात् तत्स्वलक्षणम् असंप्राप्तम् अनुपस्थितम् इति. अतीतं च. किं धर्मस्वलक्षणाद् दूरं. तत्प्रच्युतत्वात्. यस्मात् तद् धर्मस्वलक्षणं. तस्माद् अतीतात् प्रच्युतं. तद् ध्य् अतीतं यद् धर्मस्वलक्षणात् प्रच्युतम् इति.
(v.62) प्रतिपक्षोदयात् क्षय
इत्य् उक्तम्. अतः पृच्छति. किं मार्गविशेषगमनाद् इति विस्तरः. प्रहाणविशेष [तिब्. 163अ] इति. विशिष्यते प्रहाणम् इत्य् अर्थः. प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्न् अभिप्रेत इति. तस्य विसंयोगप्राप्तिसहोत्पादाद् आनंतर्यमार्गे हि न तावद् विसंयोगप्राप्तिर् अस्ति. उत्पादाभिमुखत्वात्. विमुक्तिमार्गो ऽपि हि प्रतिपक्ष इति शक्यते व्यवस्थापयितुं. मुख्यप्रतिपक्षेणानंतर्यमार्गेण सहैककार्यत्वात्. तथा ह्य् उक्तम् उभाभ्यां हि तस्य प्राप्तिः विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वाद् इति. फलानि चत्वारीति. चतुर्ग्रहणम् एकान्ननवतिफलप्रतिपत्तिनिरासार्थं. पुरुषकारादिपंचफलप्रतिपत्तिनिरासार्थं वा. फलप्राप्तिर् अपि विमुक्तिमार्गावस्थायाम् एव गृह्यते. विसंयोगलाभास्तित्वयोगाद् इन्द्रियविवृद्धिः इन्द्रियसंचार इति. इन्द्रियाधिक्यप्रतिपत्तिनिरासार्थम् एतद् अर्थप्रदर्शनं इन्द्रियविवृद्धिर् इत्य् उच्यते. फलप्राप्तिवचनेनैव सिद्धेर् इत्य् आचार्यसंघभद्रः. अत्र ब्रूमः. सत्यं फलप्राप्तिर् एवेन्द्रियविवृद्धिः. फलप्राप्तिविशेषस् तु प्रदर्शयितव्यो यत्र पुनर् विसंयोगफललाभो भवति. अन्यथा हि फलप्राप्तिवचनम् अपि न कर्तव्यं स्यात्. प्रतिपक्षोदयवचनेनैव तत्सिद्धेः. [तिब्. 163ब्] इत्य् अलम् अनयातिखलिनिकया. केषांचिद् यावद् द्वयोर् इति. केषांचित् क्लेशानां षट्सु कालेषु विअंयोगलाभः. यावच्छब्देन केषांचित् पंचसु. केषांचिच् चतुर्षु. केषांचित् त्रिषु. केषांचिद् द्वयोर् इति. केषांचिद् द्वयोर् इति. केषांचिद् एकास्मिन् काल इति नोक्तं. पुनःप्राप्तस्य विसंयोगस्याधिकृतत्वात्. संभवति हि भावाग्रिकस्य नवमस्य प्रकारस्यैकस्मिन्न् एव काले तीक्ष्णेन्द्रियस्य विसंयोगलाभः. स तु न पुनर्लाभ इति
नोच्यते. तत्र तावन् मृद्विन्द्रियस्य षट्सु कालेषु विसंयोगलाभः. दुःखसमुदयनिरोधदर्शनहेयानां कामावचराणां मार्गदर्शनहेयानां प्रतिपक्षोदयकाले. स्रोतआपत्तिफलकाले सकृदागामिफलकाले ऽनागामिफलकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति षट्सु कालेषु विसंयोगलाभः. संभवं च प्रत्य् एवम् उच्यते. न हि मृद्विन्द्रियो ऽवश्यम् इन्द्रियाणि संचरति. तस्यैव मृद्विन्द्रियस्य रूपारूप्यावचराणां मार्गदर्शनहेयानां मार्गान्वयज्ञानकाले प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वा गृहीते प्रथमतो विसंयोगलाभः. पुनः सकृदागामिफलप्राप्तिकाले (अभिध्-क्-व्य् 503) यावद् इन्द्रियसंचारकाल इति पंचसु कालेषु. भावनाहेयानाम् अपि तस्यैवे कामावचराणां पंचप्रकाराणां अधिमात्राधिमात्रस्य यावन् मध्यमध्यस्य. [तिब्. 164अ] तेष्व् एव स्रोतआपत्तिफलकालवर्ज्येषु पंचसु कालेषु विसंयोगलाभः. मध्यमृदोस् तु षष्ठस्य प्रकारस्य तस्यैव चतुर्षु कालेषु. प्रतिपक्षोदयफलप्राप्तिकालयोर् एकत्वात्. तस्मिन्न् अन्यतरस्मिन्. अनागामिफलकाले. अर्हत्त्वफलप्राप्तिकाले. इन्द्रियसंचारकाले चेति. तस्यैव मृद्वधिमात्रस्य मृदुमध्यस्य च सप्तमाष्टमयोः प्रकारयोः प्रतिपक्षोदयकाले ऽनागामिफलकाले यावद् इन्द्रियसंचारकाले वेति चतुर्ष्व् एव कालेषु विसंयोगलाभः. तस्यैव मृदुमृदोर् अंत्यस्य प्रकारस्य प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वैकतरस्मिन्. अर्हत्त्वफलकाले. इन्द्रियसंचारकाले चेति त्रिषु कालेषु विसंयोगलाभः. तस्यैवार्हत्त्वफलं प्राप्नुवतो ये नवप्रकारा रूपारूप्यावचराः क्लेशा भावनाप्रहातव्याः प्रहीणाः अधिमात्रधिमात्रो यावन् मृदुमृदुर् इति. तेषां
भावाग्रिकं मृदुमृदुप्रकारम् अंत्यं हित्वा सर्वेषां त्रिष्व् एव कालेषु विसंयोगलाभः. प्रतिपक्षोदयकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति. यस् त्व् अस्यैवारूप्यावचरो मृदुमृदुर् अंत्यः क्लेशप्रकारः. तस्य प्रतिपक्षोदयार्हत्त्वफलप्राप्तिकालैकत्वात्. प्रतिपक्षोदयकाल इति वार्हत्त्वफलकाल इति वा अन्यतरस्मिन्न् इन्द्रियसंचारकाले चेति. [तिब्. 164ब्] द्वयोः कालयोर् विसंयोगलाभ इति. एवं तावन् मृद्विन्द्रियस्योक्तं. तीक्ष्णेन्द्रियस्य पुनः केषांचित् क्लेशानां पंचसु कालेषु. केषांचिद् यावद् द्वयोर् इति वक्तव्यं. इन्द्रियसंचारकालम् एकम् अपास्य. तस्य हि सर्वत्रेन्द्रियसंचारो नास्ति. तस्यैकस्मिन्न् एव काले क्लेशानां विसंयोगलाभो ऽस्ति. भावाग्रिकस्य भावनाहेयस्य मृदुमृदोः प्रकारस्य. स तु पुनर्लाभो न भवतीति न वक्तव्य इति पश्यामः.
(v.63, 64) फले हेतूपचाराद् इति. प्रहाणं फलं परिज्ञा ज्ञानस्वभावो हेतुः तस्मिन् प्रहाणे. फले हेतूपचारः. प्रहाणं परिज्ञेति. तद्यथा षड् इमानि स्पर्शायतनानि पूर्वम् अभिसंस्कृतान्य् अभिसंचेतितानि पौराणं कर्म वेदितव्यं इति. कः पुनः प्रहाणं परिज्ञाशब्देनापदिशते. सूत्रे एवं हि पठ्यते. परिज्ञेयांश् च वो भिक्षवो धर्मान् देशयिष्यामि. परिज्ञां च परिज्ञावन्तं च पुद्गलं. परिज्ञेया धर्माः कतमे. पंचोपादानस्कन्धाः. परिज्ञा कतमा. यद् अत्र च्छन्दरागप्रहाणं. छन्दरागसमतिक्रमः. इयम् उच्यते परिज्ञेति विस्तरः.
कामाद्यप्रकारद्वयसंक्षय
एकेति.
अनास्रववियोगाप्तेर् भवाग्रविकलीकृतेः हेतुद्वयसंउद्घातात् [तिब्. 165अ] परिज्ञा धात्वतिक्रमात्
ity atra parijñāvyavasthāpane kāraṇaṃ vakṣyate. avarabhāgīyaprahāṇam iti. kāmadhātvāsravaprahāṇam ity arthaḥ. iyam eva cāsyāḥ saṃjñā. rūpāsravaprahāṇam iti. rūpadhātvāsravaprahāṇam ity arthaḥ. rūparāgakṣayaparijñety asyā nāma. yady apy anyeṣāṃ kleśopakleśānāṃ mānādīnāṃ rūpāvacarāṇāṃ prahāṇam iyaṃ parijñā vyavasthāpyate. rāgasya tu tatra prādhānyād ūrdhvabhāgīyasya saṃyojanasya prahāṇaṃ rūparāgakṣayaparijñety uktaṃ. sarvasaṃyojanaparyādāna [kun tu sbyor ba thams cad yoṅs su grugs paḥi] yoṅs su śes paḥo. ṣes bya ba ḥdi ni zag pa thams cad spaṅs paḥi miṅ yin no. yoṅs su śes pa ni tha dad par bstan la. ṣes bya ba ni bsgroms pas spaṅ bar bya ba gzugs na spyod pa rnams spaṅs pa ni gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa yin no. gzugs med par nams kyi ni kun tu sbyor ba thams cad yoṅs su grugs paḥi yoṅs su śes pa yin no. ṣes ḥbyuṅ baḥi phyir ro. mthoṅ baḥi spaṅ bar bya bar nams kyi ni ma yin te. ṣes bya ba ni ciḥi phyir gzugs daṅ gzugs med pa na spyod paḥi mthoṅ bas spaṅ bar bya bar nams kyi yoṇs su śes pa so sor mi bstan te. de bṣin du gzugs daṅ gzugs med pa na spyod pa mthoṅ bas spaṅ bar bya bar nams spaṅs pa yaṅ yoṅs su śes pa gsum yin te. ṣe ḥbyuṅ baḥi phyir ro. bsgom pa spaṅ bar bya bar nams kyi gñen po mi ḥdra baḥi phyir ro ṣes bya ba ni ḥdi ltar sa daṅ sa na gzugs na spyod [tib. 165b] paḥi bsgom pas spaṅ bar bya ba rnam pa dguḥi gñen po bar chad med pa daṅ rnam par grol baḥi lam zag pa med pa mi lcogs pa med pa la sogs paḥi sa daṅ zag pa daṅ bcas pa bsam gtan gñis paḥi
ñer ba stogs kyis bsdus pa nas nam mkhaḥ mthaḥ yas skye mched kyi ñer bsdogs kyis bsdus paḥi bar rnam pa dgu yod la gzugs med pa na spyod pa rnams kyi gñen po bar chad med paḥi lam daṅ. rnam par grol baḥi lam in ci rigs par zug pa med paḥi sa ḥog ma pa ḥam. ci rigs par zag pa daṅ bcas pa goṅ maḥi ñer bsdogs kyis bsdus pa dag yod de. gṣan kho na yin pas gñen po mi ḥdra baḥi phyir ḥdi dag gis yoṅs su 'śes pa tha dad par stan to. mthoṅ bas spaṅ bar bya ba rnams kyi gñen po ni ḥdra ste. rjes su śes paḥi bzod pa la sogs pa gzugs na spyod par nams kyi gñen po de dag ñid gzugs med par nams kyi yaṅ yin pas yoṅs su śes pa tha tad du rnam par mi bṣag go.
(v.64-66) tha maḥi cha daṅ mthun pa spaṅs pa la sogs pa yoṅs su śes pa ste ṣes bya ba ni tha maḥi cha daṅ ṃthun pa spaṅs paḥi yoṅs su śes pa daṅ. gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa daṅ. kuntu sbyor ba thams cad yoṅs su gtugs paḥi yoṅs su śes paḥo. ḥdi dag ni bsgom paḥi lam gyi ḥbras bu yin paḥi phyir śes paḥi ḥbras bu yin te. bsgom paḥi lam la bzod pa dag ni med do.
ji ltar yoṅs su śes pa bzod paḥi ḥbras bu yin ṣes bya ba ni yoṅs su śes pa daṅ śes pa ṣes bya ba don gcig ste. śes pa daṅ yoṅs su śes pa ni zag pa med paḥi ye śes yin no ṣes ḥbyuṅ baḥi phyir ro. bam po bṣi bcu rtsa bṣi pa.
dri med bzod rnams śes pa med.
ṣas ḥbyuṅ bas bzod pa ni śes paḥi ṅo bo [tib. 166a] ñid yin par yaṅ mi ruṅ na. de ji ltar yoṅs su śes pa bzod paḥi ḥbras bu yin te. ḥbras bu la rgyu btags byas na yaṅ mi ruṅ ṅo sñam du bsam pa yin no. ḥdir bzod pa rnams ni śes paḥi ḥkhor can yin paḥi phyir ṣes bya ba smos te. ḥdi dag la ḥkhor śes pa yod pas na śes paḥi ḥkhor can te. bzod par nams so. deḥi phyir śes paḥi ḥbras bu yaṅ bzod par nams kyi ḥbras bu ṣes byaḥo. rgyal baḥi ḥkhor la rgyal po ñe bar btags pa bṣin te dper na rgyal poḥi ḥkhor la rgyal po ñe bar btags paḥi phyir ḥkhor gyis byas pa la yaṅ rgyal pos byas pa ṣes byaa daṅ ḥdra ḥo. śes pa daṅ ḥbras bu gcig phyir ro ṣes bya ba ni bzod pa dag ni śes pa daṅ lhan cig ḥbras bu gcig pa yin te. bzod pa dag gi ḥbras bu gaṅ yin pa de ñid śes rnams kyi yin pas bzod paḥi ḥbras bu yaṅ yoṅs su śes par ruṅ ṅo.
मि ल्चोग्स् मेद् ःब्रस् थम्स् चद् दो
ṣes bya ba ni ḥdi ltar mi lcogs paḥi sa paḥi lam gyis khams gsum paḥi mthoṅ ba daṅ bsgom pas spaṅ bar bya baḥi zag pa rnams spaṅ ba srid de.
zag med mi lcogs med pa yis. thams cad las ni ḥdod chags bral.
ṣes ḥbyuṅ baḥi phyir ro. gzugs daṅ gzugs med pa na ñon moṅs pa spaṅs paḥi raṅ bṣin gaṅ dag yin paḥo. ṣes bya ba ni bye brag tu smra ba rnams na re gzugs daṅ gzugs med pa na spyod paḥi mthoṅ bas spaṅ bar bya ba rnams spaṅs pa ji skad bśad paḥi yoṅs su śes pa gsum daṅ. bsgom pas spaṅ bar bya ba gzugs na spyod pa rnams spaṅs pa gzugs kyi ḥdod chags zad paḥi yoṅs su śes pa daṅ gzugs med pa na spyod pa rnams spaṅs pa kun tu sbyor ba thams cad yoṅs su gtugs paḥi [tib. 166b] yoṅs su śes pa ṣes bya ba lṅa ste. bsam gtan gyi dṅos gṣi la brten nas gzugs daṅ gzugs med pa na spyod paḥi ñon moṅs pa spoṅ ba srid paḥi phyir ro. ḥdod pa na spyod paḥi ñon moṅs pa spaṅs pa ni bsam gtan gi dṅos gṣiḥi ḥbras bu ma yin te. bsam gtan gyi dṅos gṣi rnams ni ḥdod paḥi (abhidh-k-vy 506) khams kyi gñen po ma yin paḥi phyir ro. de lta bas na ḥdod chags daṅ bral ba rnams la bral baḥi thob pa zag pa med pa yod du zin kyaṅ tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa bṣin du ḥdod pa na spyod pa mthoṅ bas spaṅ bar bya ba spaṅs pa ni bsam gtan gyi dṅos gṣiḥi ḥbras bu ma yin no ṣes zer ro. btsun pa dbyaṅs sgrogs kyi lugs kyis ni brgyad de. ṣes bya ba ni btsun pa dbyaṅs sgrogs de ni ḥdod paḥi ḥdod chags daṅ bral baḥi gaṅ zag gi yaṅ ḥdod pa na spyod pa mthoṅ bas spaṅ bar bya ba rnams spaṅ spa yoṅs su śes pa gsum gyi ṅo bo ñid ḥphag paḥi lam gyi ḥbras bu yin par ḥdod do. ciḥi phyir ṣe na. bral baḥi thob pa zag pa med pa rñed paḥi phyir te. bsam gtan gyi dṅos gṣi la rten nas ṅes pa ḥjug pa na yaṅ ma thoṅ
bas spaṅ bas spaṅ bar bya baḥi zag pa sṅon ḥjig rten paḥi lam gyis spaṅs pa rnams kyis bral baḥi thob pa zag pa med pa yaṅ ḥthob la de la na mthoṅ baḥi lam gyis nus pa yod pas gzugs daṅ gzugs med pa ba spyod paḥi mthoṅ bas spaṅ bar bya ba spaṅs pa bṣin du. ḥdod pa na spyod paḥi mthoṅ bas spaṅ bar bya ba sṅon spaṅs paḥi yoṅs su śes pa yaṅ dṅos gṣi bsam gtan gyi ḥbras buḥo ṣes bya bar rnam pa bṣag go. de lta ba sna ḥdod pa na spyod paḥi mthoṅ bas spaṅ bar bya ba spaṅs paḥi yoṅs su śes pa gsum po ḥdi dga daṅ sṅar bśad pa gzugs daṅ gzugs med paḥi yoṅs su śes pa daṅ bcas pa yoṅs su śes pa brgyad bsam gtan gyi ḥbras bu yin [tib. 167a] no. śes bya ba ni btsun pa dbyaṅs sgrogs kyi gṣuṅ lugs yin no. tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa ni mi lcogs pa med paḥi ḥbras bu kho na yin no. ṣes bya ba ni ḥdod pa las ḥdod chags ma bral ba ni mi lcogs pa med pa kho nas tha maḥi cha daṅ mthun pa spoṅ bar byed kyi dṅos gṣis ni ma yin te. de na ma thob paḥi phyir ro. ḥdod chags daṅ bral ba ston du ḥgro ba yaṅ gaṅ gi tshe bsam gtan la brten nas ñes pa la des kyaṅ so soḥi skye boḥi snas skabs na ḥjig rten paḥi lam gyis ḥdod pa na spyad paḥi ñon moṅs pa thams cad spaṅs pas de bsam gtan gyi dṅos gṣiḥi ḥbras bu ma yin no. sems kyi skad cig ma bcu drug la deḥi tha maḥi cha daṅ mthun pa spaṅs pa yoṅs su śes pa bsam gtan gyi dṅos gṣi la brten par yaṅ rnam par bṣag mod kyi deḥi ḥbras bu ṣes bya bar rnam par bṣag pa ni ma yin no. ḥo na ci ṣe na. gnas skabs de na tha maḥi cha daṅ mthun pa
spaṅs pa ḥjig rten paḥi lam gyis thob paḥi bral baḥi thob pa zag pa med pa yaṅ ḥthob pas de spaṅ spaḥi yoṅs su śes par rnam par bṣag ste. deḥi tshe ni mthoṅ bas spaṅ bar bya ba sṅa ma spaṅs pas sṅar mthoṅ baḥi lam gyis spaṅ bar bya ba spaṅs pa gaṅ yin pa daṅ. sṅar spaṅs pa tha maḥi cha daṅ mthun pa spaṅs pa bsdoms nas tha maḥi cha daṅ mthun pa spaṅs paḥi yoṅs su śes pa gcig tu rnam par bṣag ste.
खम्स् लस् ःदोद् छग्स् ब्रल् ब दङ् ःब्रस् बु थोब् फ्यिर् दे दग् ब्स्दोम्स् षेस् थम्स् चद् ब्स्दोम्स् पःइ ग्तन् त्स्हिग्स् योद् पःइ फ्यिर् रो. दे ल्त बस् न थ मःइ छ दङ् म्थुन् प स्पङ्स् पःइ योङ्स् सु शेस् प दे नि मि ल्चोग्स् प मेद् पःइ ःब्रस् बु खो नर् र्नम् प ब्षग् गि. द्ङोस् ग्षिःइ ःब्रस् बु नि म [तिब्. 167ब्] यिन् ते. ःदि ल नि ब्ये ब्रग् तु स्म्र ब दङ्. ब्त्सुन् प द्ब्यङ्स् स्ग्रोग्स् क्यि ग्षुङ् लुग्स् म्थुन् नो.
bsam gtan khyad par can yaṅ bsams bṣin du blta bar byaḥo ṣes bya ba ni bsam gtan khyad par can gyi zag pa med pas kyaṅ ñon moṅs pa spoṅ bar ḥgyur te. de lta bas na mi lcogs pa med pa daṅ. dṅos gṣiḥi bsam gtan rnams kho naḥi ḥbras bu kho na bśad kyi. bsam gtan khyad par can gyi ni ma yin no. deḥi phyir bsam gtan khyad par can yaṅ bsam gtan bṣin du blta bar byaḥo ṣes bya ba smos te. bsam gtan khyad par can ni bsam gtan daṅ po kho na rtog pa daṅ bral bas khyad par du ḥphags paḥi phyir ro. [nam mkhaḥ mthaḥ yas skye mched kyi ñer bsdogs kyi ṣes ba ba ni.] dhyānāṃtaraṃ bhavatīti. ākāśānaṃtyāyatanasāmaṃtakasyeti. laukikasyāpi tasya parijñā phalaṃ vyavasthāpyate. āryasyaivānāsravavisaṃyogaprāptisaṃbhavāt.
मौलारूप्यत्रयस्य चेत्य्
अनास्रवस्य.
लौकिकस्य मार्गस्य द्वे
इति. आर्यस्य लौकिकेन मार्गेण कामरूपधातुवैराग्ये.
अन्वयज्ञानस्यापि द्वे
इति. भावनामार्गसंगृहीतस्य. पश्चिमे रूपरागक्षयसर्वसंयोजनपर्यादानअपरिज्ञे.
धर्मज्ञानस्य तिस्र इति. भावनामार्गसंगृहीतस्य.
धर्मज्ञानं निरोधे यन् मार्गे वा भावनापथे त्रिधातुप्रतिपक्षस् तद्
इति. तस्य पश्चिमास् तिस्रः फलम् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. कस्माद् इत्य् आह. [तिब्. 168अ] त्रैधातुकभावनाहेयप्रतिपक्षत्वाद् इति.
षट् तत्पक्षस्य पंच वेति.
तयोर् धर्मज्ञानान्वयज्ञानयोः पक्षस्य. षट् पंच च यथायोगं पक्षग्रहणेन क्षांतिज्ञानयोर् ग्रहणं. या एव धर्मज्ञानक्षांतिज्ञानानाम् (अभिध्-क्-व्य् 508) इति. धर्मज्ञानक्षांतीनां धर्मज्ञानानां चेति समासः. धर्मज्ञानक्षांतीनां कामावचरदर्शनहेयप्रहाणस्वभावा यथोक्तस् तिस्रः परिज्ञाः फलं. धर्मज्ञानानाम् इति भावनामार्गे. दुःखसमुदयज्ञानसंगृहीतानाम् एकावरभागीयप्रहाणपरिज्ञा. निरोधमार्गसंगृहीतानां तु तिस्रो ऽप्य् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. या एवान्वयक्षांतिज्ञानानाम् इति. अन्वयज्ञानक्षांतीनां अन्वयज्ञानानां च. ताश् च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास् तिस्रः परिज्ञाः द्वे च पश्चिमे इति.
(v.67) कस्मान् नैकैकं प्रहाणम् इति. दुःखदर्शनहेयप्रहाणसमुदयदर्शनहेयप्रहाणं विस्तरेण यावद् भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणम् इति कस्मान् न गृह्यते.
अनास्रववियोगाप्तेर् [तिब्. 168ब्]
इति. अनास्रवविसंयोगप्राप्तेर् इत्य् अर्थः.
भवाग्रविकलीकृतेर्
इति. भवाग्रप्रदेशप्रहाणाद् इत्य् अर्थः.
हेतुद्वयसमुद्घाताद्
इति. दुःखसमुदयदर्शनहेयसर्वत्रगहेतुद्वयप्रहाणाद् इत्य् अर्थः. तत्प्रहाणं
परिज्ञेति.
एभिः कारणैः प्रकृष्टं तत्प्रहाणम् इत्य् अत्र परिज्ञेति व्यवस्थाप्यत इत्य् अभिप्रायः. अन्येषु धर्मान्वयज्ञानेष्व् इति. समुदयधर्मज्ञानम् आरभ्य यावत् क्षयज्ञानम् इत्य् एतेषु धर्मज्ञानान्वयज्ञानेषु. ज्ञानफलं तु प्रहाणम् इति. भावनामार्गे. तद् धि न क्षांतिफलम् इति.
धात्वतिक्रमाद्
इति. चशब्दो लुप्तनिर्दिष्टः. धात्वतिक्रमाच् चेति. अत एव विव्रियते चतुर्थाच् चेति. यदा धातुं समतिक्रामतीति. कामधातुं रूपधातुम् आरूप्यधातुं वा समतिक्रामति. तदा परिज्ञाख्यां लभत इति वाक्यशेषः. कस्मात्. कृत्स्नधातुवैराग्यात्. कृत्स्नस्य धातोर् वैराग्यात्. न विकलीकरणमात्रत्वात्. तदा हि सुष्ठु प्रहाणम् इत्य् अभिप्रायः.
उभयसंयोगविसंयोगम् इति. आलंब्यालंबकक्लेशलक्षणः संयोग उभयसंयोगः. तस्माद् विसंयोग उभयसंयोगविसंयोगः. तत् पंचमं कारणम् आहुर् आभिधार्मिकाः. [तिब्. 169अ] अनेन च कारणेन प्रहाणं परिज्ञेत्य् उच्यत इति. यः प्रकारः प्रहीण इति दुःखदर्शनप्रहातव्यो यावं मार्गदर्शनप्रहातव्यो भावनाप्रहातव्यश् च. यदि तत्र प्रहीणे (अभिध्-क्-व्य् 509) प्रकारे अन्येन तदालंबनेन क्लेशेन दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति. एवम् इदम् अपि पंचमं कारणं प्रहाणस्य परिज्ञाविधाने आहुर् अपरे. स तु नान्यद् इति विस्तरः. स तूभयसंयोग उभयहेतुसमुद्घातात् दुःखदर्शनप्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद् धातुसमतिक्रमाच् च नान्यः. तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्व् अपि न तावद् अस्ति हेतुद्वयसमुद्घातो यावत् तदालंबनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुर् अप्रहीणो भवति. भावनाप्रहातव्येषु च प्रहीणेष्व् अपि यावद् अष्टासु प्रकारेषु न तावद् धात्वतिक्रमो ऽस्ति यावन् न नवमस्यापि प्रकारस्य प्रहाणम् इत्य् अतो न पुनर् ब्रूमः.
(v.68) नैकयेति
विस्तरः. पृथग्जनस् तावन् नैव समन्वागतः. अनास्रवविसंयोगप्राप्त्यभावात्. आर्यो ऽपि दर्शनमार्गस्थो यावत् समुदयधर्मज्ञानक्षांतौ. यावच्छब्देन दुःखधर्मान्वयज्ञानक्षांतिज्ञानेषु समुदयधर्मज्ञानक्षांतौ च नैव समन्वागतः. हेतुद्वयस्याप्रहीणत्वात्. समुदयधर्मज्ञान एकया समन्वागतः समुदयान्वयज्ञानक्षांताव् अप्य् एकयैव समन्वागत इत्य् अवगंतव्यं. समुदयान्वयज्ञाने द्वाभां पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च. निरोधधर्मज्ञानक्षांताव् अपि द्वाभ्याम् एव. निरोधधर्मज्ञाने तिसृभिर् इति नेयं. यावत् पंचभिर् दर्शनास्थः समन्वागतो न षड्भिः षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात्. मार्गान्वयज्ञाने षड्भिर् इति. पूर्वोक्ताभिश् च रूपारूप्यावचरमार्गदर्शनप्रहाणपरिज्ञया च. ननु च पश्चाद् वक्ष्यति.
चतुःफलव्यवस्था तु पंच कारणसंभवात् पूर्वत्यागो ऽन्यमार्गाप्तिः क्षयसंकलणं फले ज्ञानाष्टकस्य लाभो ऽथ षोडशाकारभावनेति.
भवति प्रहाणसंकलनं. न तु परिज्ञासंकलनम् इत्य् अविरोधः. यावत् कामवैराग्यं न प्राप्त इति. यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे [तिब्. 170अ] यावद् अष्टमप्रकारप्रहाणे ऽपि षड्भिर् एव समन्वागतः. परिहीणो ऽपि तत इति. कामवैराग्यपरिहाण्या हि तत्संकलनविगतः. कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वेति. अभिसमयात् पूर्वं पश्चाद् वा. कथं. लौकिकेन मार्गेण कामवीतरागो भूत्वा नियामम् अवक्रांतो मार्गे ऽन्वयज्ञाने एकयावरभागीयप्रहाणपरिज्ञया समन्वागतः. यस्माद् असाव् आर्यः षोडशक्षणं प्राप्तो ऽनागाम्य् एव भवति. न स्रोतआपन्नः. सकृदागामी (अभिध्-क्-व्य् 510) वा. पंचावरभागीयप्रहाणाच् चानागामी इति पठ्यते. तस्माद् दर्शनहेयप्रहाणानां पंचावरभागीयप्रहाणस्य च संकलनाद् एकयैवावरभगीयप्रहाणपरिज्ञया समन्वागतः. पश्चाद् वाभिसमयाद् आनुपूर्विकः कामवैराग्यप्राप्त एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः. अर्हत्त्वप्राप्त एकयैवेति. तदा परिज्ञासंकलनात्. परिहीणो ऽपि रूपावचरेणेति. विशेषणं कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थम् आरूप्यावचरेण च परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थम् इति. रूपवैराग्यं [तिब्. 170ब्] प्राप्तो द्वाभ्याम् इति. अनागामी रूपवीतराग इत्य् अर्थः. धातुवैराग्येण कस्मान् न संकलनं भवति. फलप्राप्त्यभावात्. धातुवैराग्यफलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनम् इष्यते. न केवलेन परिहीणो ऽपि. आरूप्यावचरेणेत्य् अर्हत्त्वप्राप्तिसंकलितयोर् अवरभागीयप्रहाणरूपरागक्षयपरिज्ञयोर् आरूप्यावचरेण क्लेशेनार्हत्त्वात् परिहाणौ पुनर्लाभात्. रूपावचरेण तु परिहाणाव् एकया समन्वागतः स्यात्. कामावचरेण च षढिः समन्वागतः स्याद् इत्य् आरूप्यावचरपर्यवस्थानग्रहणं.
(v.69अब्) अनागाम्यर्हतोर् इति. कामवीतरागानागामीह विवक्षितः. रूपवीतरागानागामिनः परिज्ञाद्वयसमन्वागमवचनात्. न भूयस्य इति. न बहुतराः. आनुपूर्विकस्रोतआपन्नवद् इत्य् अभिप्रायः. द्वाभ्यां कारणाभ्याम् इति व्याख्यातं. संकलनम् इति को ऽर्थः एकत्वेन व्यवस्थापनम् इति यो ऽर्थः. तयोश् चावस्थयोर् इति. कामवीतरागानागाम्यर्हत्त्वावस्थयोर् एतद् उभयं. धातुवैराग्यं फलप्राप्तिश् चेति. एकपरिज्ञोच्यत इति. रूपवीतरागस्यानागामिन [तिब्. 171अ] एकावरभागीयप्रहाणपरिज्ञा अर्हतो ऽप्य् एका सर्वसंयोजनपर्यादानपरिज्ञेति.
(v.69च्द्) एकां द्वे
इति विस्तरः.
एकां
कश्चिज् जहातीति
त्यजतीत्य् अर्थः.
कश्चिद्
द्वे
कश्चित्
पंच
कश्चित्
षट्
जहाति. आप्नोति वा
कश्चिद् एकां कश्चिद् द्वे कश्चित् षट्. कश्चित् पंचाप्नोतीत्य् एतन् नास्ति. अत आह.
पंच नेति.
पंच नैव कश्चिद् आप्नोति. इति सूत्रार्थनयः. वृत्तिस् तु विव्रियते अर्हत्त्वात् परिहीयमाणो येन केनचित् चित्तेन सर्वसंयोजनपर्यादानपरिज्ञाम् एकां त्यजति. संकलने तस्या एकैकस्या अर्हत्त्वावस्थायाम् अस्तित्वात्. एवं कामवैराग्यात् परिहीयमाणो रूपवीतरागो ऽनागामी एकाम् एवावरभागीयप्रहाणपरिज्ञां. द्वे परिज्ञे त्यजतीति. अवरभागीयप्रहाणपरिज्ञां. रूपरागक्षयपरिज्ञां च. को ऽसाव् इत्य् आह. अनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाण इति. पंच त्यजति वीतरागपूर्वी मार्गान्वयज्ञान [तिब् 171ब्] इति. अभिसमयचित्ते षोडशे. स ह्य् अवरभागीयप्रहाणपरिज्ञालाभे. लौकिकमार्गप्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पंच परिज्ञाः पंचदशक्षणलब्धास् त्यजति. षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति. किं तु धातुवैराग्यफललाभतो ऽत्रावरभागीयप्रहाणपरिज्ञायां संकलितेति नष्टरूपेव सा नोपन्यस्यते. आनुपूर्विको यो न वीतरागपूर्वी कामवैराग्यात् कारणात् षट् त्यजति. यास् त्रैधातुकानां दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः.
लाभो ऽप्य् एवम् इति. कश्चिद् एकां लभते. पंचेति मुक्त्वा. यावत् षट् लभते. यः कश्चिद् अपूर्वं लभत इति. दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां परिज्ञानां यो प्रतिलब्धपूर्वां प्रतिलभते प्रथमतः. स ताम् एकां लभते. भावनामार्गे ऽपि हि वीतरागपूर्वी दर्शनमार्गांते अवरभागीयप्रहाणपरिज्ञाम् एकां लभते. आनुपार्विको ऽपि कामवैराग्ये नवमे विमुक्तिमार्गे ताम् एव लभते. अर्हन्न् अप्य् अन्याम् लभत इति. केवलाद् आरूप्यवैराग्यात् परिहीयत इति. नान्यवैराग्याद् इति दर्शयति. स ह्य् अवरभागीयप्रहाणपरिज्ञां [तिब्. 172अ] रूपरागक्षयपरिज्ञां च लभते. कश्चित् षड् यो ऽनागामिफलात् परिहीयत इति. आनुपूर्विको ऽनागामी. न हि वीतरागपूर्विणः परिहाणिर् अस्ति. तद्वैराग्यस्य द्विमार्गप्रापणात्. अत एव च नैव कश्चित् पंच लभते. वीतरागपूर्विणो हि यदि परिहाणिर् अभविष्यत्. स एव युगपत् पंच परिज्ञा अलप्स्यतेति.
आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याक्यायाम् अनुशयनिर्देशो नाम पंचमं कोशस्थानं समाप्तं.
(अभिध्-क्-व्य् 512) ब्लन्क्
वि (पुद्गलमार्गनिर्देशो नाम षष्ठं कोशस्थानम्)
(vi.1) पंचमस्य षष्ठस्य च कोशस्थानयोः संबंधम् उपदर्शयन्न् इदम् उपन्यस्यति. उक्तं यथाप्रहाणम् इत्यदि. यथाप्रहाणं परिज्ञा लभत इति. फले हेतूपचाराद् इति वचनात्. तद् अपि च
क्लेशप्रहाणम् आख्यातम्
उक्तं. कथम् इत्य् आह.
सत्यदर्शनभावनाद्
इति. द्वंद्वैकवद्भावनिर्देशः. सत्यानां दर्शनाद् भावनाच् च भावनाया इति वा. सत्यदर्शनभावनात् कारणाद् दर्शनहेया भावनाहेयाश् च क्लेशा इति विस्तरेणोक्तं
दशैत सप्त सप्तष्टौ त्रिद्विदृष्टिविवर्जिताः यथाक्रमं प्रहीयंते कामे दुःखादिदर्शनैः. चत्वारो भावनाहेया
इत्य् आदिना. [तिब्. 172ब्] सत्यदर्शनं च दर्शनमार्गेण सत्यभावनं च भावनामार्गेणेत्य् अत इदम् उच्यते. ताव् इदानीं दर्शनभावनामार्गौ किम् अनास्रवौ सास्रवाव् इति. मार्गनिर्देशोपन्यास इति संबन्धः. त्रैधातुकप्रतिपक्षत्वाद् इति दर्शनमार्गस्य. लौकिकत्वे सति भवाग्रप्रतिपक्षो न स्याद् इति. किं च नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच् च. न भावनामार्गवत्. न हि लौकिकस्यैषा शक्तिर् अस्ति. त्रैधातुकप्रहाणे च प्रकारप्रहाणे च. यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे शक्तिः. भावनाहेयानाम् अपि लोकोत्तरेण सकृत्प्रहाणप्रसंगः. लोकोत्तरेणैव सकृत्प्रहाणम् इत्य् अवधार्यते. न तु सकृत्प्रहाणम् एव लोकोत्तरेणेति अतो न तत्प्रसंगः. भावनाहेया हि क्लेशा दृढाः सवस्तुकत्वात्. अतो लोकोत्तरेणाप्य् एषां न सकृत्प्रहाणं.
(vi.2) इतरथा हीति. यदि यथाभिसमयं निर्देशो नाभिप्रीयेत. पूर्वं हेतुनिर्देशः समुदयसत्यनिर्देशः. हेतूनां लोके पूर्वं दृष्टत्वात्. यथा स्मृत्युपस्थानध्यानादीनाम् इति. तद्यथा स्मृत्युपस्थानादीनाम् उपपत्त्यनुकूला देशना. कायस्मृत्युपस्थानं हि पूर्वम् उत्पद्यते. यथौदारिकालंबनतः [तिब्. 173अ] सूक्ष्मौदारिकप्रचारतो वा पूर्वोत्तरहेतुफलभावतो वा. ततो वेदनास्मृत्युपस्थानं. ततश् चित्तस्मृत्युपस्थानम् इत्य् एषाम् उपपत्त्यनुकूला देशना एवं ध्यानानाम्. आदिशब्देन विमोक्षाभिभ्वायतनकृत्स्नायतनादीनाम् अप्य् उपपत्त्यनुकूला देशना. केषांचित् प्ररूपणानुकूलेति. प्रदर्शनानुकूला अवबोधानुकूलेत्य् अर्थः. यथा सम्यक्प्रहाणानाम् इति. कृष्णशुक्लपक्षयोः प्रत्येकम् उत्पन्नानुत्पन्नभेदतः. उत्पन्नं हि सुखावबधं नानुत्पन्नं. कृष्णपक्षो वा विनेयजनेन सुखम् अवबुध्यते. कथम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते. वीर्यम् आरभते चित्तं प्रगृह्णाति प्रणिदधाति. अनुत्पन्नानाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां स्थितये असंमोषतायै छन्दं जनयतीति पूर्ववत्. न ह्य् एष नियमो यत् पूर्वम् उत्पन्नानां प्रहाणाय छन्दं जनयति. पश्चाद् अनुत्पन्नानाम् अनुत्पादायेति. किं तर्हि. पूर्वं चानुत्पन्नानाम् अनुत्पादाय छन्दं जनयति. [तिब्. 173ब्] पश्चाच् चोत्पन्नानां प्रहाणायेत्य् एतद् उदाहरणं. एवं शुक्लपक्षो ऽपि योज्यः. सत्यानां त्व् अभिसमयानुकूलेति हेतुफलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसंग इति दर्शयति. यत्र हि सक्त
इति. दुःखसत्ये. येन बाध्यत इति तेनैवं. यतश् च मोक्षम् इति. तत एव दुःखसत्यात्. तद् एवादौ पयोगावस्थायां. कस्माद् इत्य् आह. व्यवचारणावस्थायां परीक्षावस्थायां निर्वेधभागीयावस्थायाम् इत्य् अर्थः. व्याधिं दृष्ट्वेति. व्याधिर् दुःखसत्यस्योपमानं. तन्निदानं समुदयसत्यस्य. तत्क्षयो निरोधसत्यस्य. तद्भेषजं मार्गसत्यस्योपमानं. सूत्रे ऽप्य् एष सत्यानां दृष्टांत इति. व्याध्यादिसूत्रे. कथं. चतुर्भिर् अंगैः समन्वागतो भिषक् शल्यापहर्ता राजार्हश् च भवति राजयोग्यश् च राजांगत्वे च संख्यां गच्छति. कतमैश् चतुर्भिः. आबाधकुशलो भवति. आबाधसमुत्थानकुशलः. आबाधप्रहाणकुशलः. प्रहीणस्य चाबाधस्यायत्याम् अनुत्पादकुशलः. एवम् एव चतुर्भिर् अंगैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरो भिषक् शल्यापहर्तेत्य् उच्यते. कतमैश् चतुर्भिः. इह भिक्षवस् [तिब्. 174अ] तथागतो ऽर्हन् सम्यक्संबुद्ध इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. (अभिध्-क्-व्य् 515) इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानातीति. पूर्वावेधाद् इति. पूर्वाक्षेपात्. दृष्टभूमिनिःसंगाश्वप्रसरणवद् इति. यथा भूमौ दृष्टायां निःसंगम् अश्वस्य प्रसरणं. तद्वत्. अश्वधावनवद् इति केचित् पठंति. धावि प्रकृत्यंतरं व्याचक्षते. इणो बोधनार्थत्वाद् इति. सर्वो गत्यर्थो बोधनार्थो ऽपि भवतीति. द्रव्यतो ऽपीत्य् अपिशब्दान् नामतो ऽपीति दर्शितं. अविपरीतत्वाद् इति. यस्मात् तद् आर्याणाम् अन्येषां चाविपरीतं. दुःखम् एव नान्यथा. आर्यैस् तु यथैतानि सत्यानि. तथा दृष्टानि. दुःखसत्यं दुःखत
अनित्यतः शून्यतो ऽनात्मतश् च. एवं यावन् मार्गो मार्गतः न्यायतः प्रतिपत्तितो नैर्याणिकतश् च. नान्यैर् अनार्यैः एवं दृष्टानि. अत आर्याणाम् एतानि सत्यान्य् उच्यंते. न त्व् अनार्याणां सत्यान्य् उच्यंते. कस्मात्. विपरीतदर्शनात्. ते हि दुःखम् अदुःखत [तिब्. 174ब्] इत्य् एवमादिभिर् आकारैर् दुःखसत्यं पश्यंति. सम्दयम् असमुदयत इत्य् एवमादिभिः. निरोधम् अनिरोधत इत्य् एवमादिभिः. मार्गम् अमार्गत इत्य् एवमादिभिर् इति.
तत् परे दुःखतो विदुर्
इति. तद्यथा निरोधसत्यं व्यथंते ऽपुनर्भवात् प्रपाताद् इव बालिशा इति.
आर्यास् तु दुःखतो विदुर्
इत्य् उपादानस्कंधपंचकः.
द्वे आर्याणां सत्ये इति. दुःखसम्दयसत्ये अविपरीतदर्शनात्. द्वे आर्ये. कुशलतयानास्रवतया च. आर्याणां च सत्ये. अविपरीतदर्शनात्. एवम् एकशेषनिर्देशाच् चार्यसत्ये इति भवति.
(vi.3) यदा वेदनैकदेशो दुःखस्वभाव इति. वेदनास्कन्धैकदेशो दुःखदौर्मनस्यस्वभावः.
यथायोगम् अशेषत
इति. मनआपा अपि विपरिणामदुःखतया संस्कारदुःखतया च दुःखा. अमनआपा दुःखदुःखतया संस्कारदुःखतया च. तदन्ये दुःखाः संस्कारदुःखतयैवेति यथायोगार्थः. मन आप्नुवंतीति मनआपाः. पुनः संधिकरणं चात्रेति व्याख्यातं. तेभ्यो ऽन्य इति मनआपामनआपेभ्यो ऽन्य इति.
तिस्रो वेदना यथाक्रमम् इति. सुखा वेदना [तिब्. 175अ] मनआपा दुःखा अमनआपा अदुःखसुखा नैव मनआपा नामनआपेत्य् अर्थः. तद्वशेनेति. वेदनावशेन. अवेदनास्वभावा अपि रूपशब्दादयस् तदनुकूलत्वान् मनआपादिसंज्ञां लभंते. विपरिणामेन दुःखतेति. अनित्यताविपरिणामेनेत्य् (अभिध्-क्-व्य् 516) अर्थः यथोक्तं.
हा चैत्ररथ हा वापि हा मंदाकिनि हा प्रिये इत्य् आर्त्ता विलपंतो ऽपि गां पतंति दिवोकस
इति. दुःखस्वभावेनैवेति. उपघातस्वभावेनेत्य् अर्थः. दुःखा वेदना उत्पाददुःखा स्थितिदुःखेति. नन्व् एषा अर्थापत्तितो विपरिणामसुखा प्राप्नोति. तथा च सति लक्षणसंकरः स्यात्. नेदम् अस्या लक्षणं. किं तर्हि विदूषणार्थम् अयम् उपदेश इति. अथ वा भवत्व् एव सात्त्र. येन रूपेण विदूष्यते. तद् एवापेक्षते इति. दुःखैव भवति. यथा सुखा वेदना उत्पादस्थितिसुखत्वात् सुखापि सती विपरिणामदुःखतया दुःखेत्य् एव विदूष्यते विदूषणीयत्वेनाभिप्रीयमाणत्वाद् इति. संस्कारेणैव दुःखतेति. संस्करणेनैव जननेनैवेत्य् अर्थः. यद् अनित्यं. तद् दुःखं. यन् न नियतस्थितं. तद् दुःखं. यज् यायते विनश्यति च. तद् दुःखम् [तिब्. 175ब्] इत्य् अर्थः. तेनोक्तं. प्रत्ययाभिसंस्करणाद् इति. प्रत्ययैर् अभिसंस्क्रियते यस्मात्. तस्मात् तद् दुःखम् इति. वेदनावत् तद्वेदनीया अपि संस्कारा वेदितव्या इति. सुखवेदनीयानां संस्काराणां विपरिणामेन दुःखता. सुखवेदनीयाः संस्कारा उत्पादसुखाः स्थितिसुखा विपरिणामदुःखा इति. दुःखवेदनीयानां संस्काराणां दुःखवेदनीयस्वभावेनैव दुःखता. दुःखवेदनीयाः संस्कारा उत्पाददुःखा स्थितिदुःखा इति. अदुःखासुखवेदनीयानां संस्काराणां संस्कारेणैव दुःखता. प्रत्ययाभिसंस्करणात्. यद् अनित्यम्. तद् दुःखम् इति.
दुःखम् एव दुःखता दुःखदुःखता. यावद् इति वचनात् विपरिणाम एव दुःखता विपरिणामदुःखता संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम्. अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन. स एव ह्य् अत्रार्थो ग्रहीतव्यः. असाधारणत्वाद् इति विस्तरः. मनआपाः संस्काराः असाधारणा दुःखदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् विपरिणामदुःखतोक्ता. अमनआपाश् चासाधारणा विपरिणामदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् दुःखदुःखतोक्तेति. [तिब्. 176अ] सर्वे तु मनआपादयः संस्कारदुःखतया दुःखाः तस्या व्यापिनीत्वात्. यदि सर्वे ऽपि तथा दुःखाः कस्मात् सर्वे (विपरिणामदुःखतया) न पश्यंतीति अत आह. तां त्व् आर्या एव पश्यंति नान्ये. कथम् इतीदम् उपन्यस्यते आह चात्रेति सर्वम्.
एवं तर्हीति यदि संस्कारदुःखतया सर्वे ऽपि संस्कारा दुःखाः मार्गे ऽपि संस्कारदुःखताप्रसंगः. संस्कृतत्व्ता प्रत्ययजनितत्वाद् इत्य् अर्थः. (अभिध्-क्-व्य् 517) प्रतिकूलं हि दुःखम् इति लक्षणान् मार्गो न दुःखम् इति. किम् इदम् अन्यद् एवोच्यते. पूर्वम् उक्तं प्रत्ययाभिसंस्करणात् सर्वसंस्कारा अनित्याः. यच् चानित्यं. तद् दुःखम् इति. मार्गश् च प्रत्ययाभिसंस्कृतत्वाद् अनित्यः. तस्माद् दुःखम् इति प्रसज्येत्. यदि हि प्रतिकूलतैव दुःखलक्षणम् इष्येत्. तत् पूर्वोक्तम् अलक्षणं स्यात्. तच् चेद् दुःखतालक्षणम्. इदम् अलक्षणम् इति. नैष दोषः. कथं. यद् अनित्यम् आर्याणां प्रतिकूलं. तद् दुःखम् इत्य् अयम् अत्राभिप्रेतो ऽर्थः. किं चानित्यम् आर्याणां प्रतिकूलं यत् सास्रवं वस्तु. कस्मात् पुनर् अनास्रवो मार्गस् तथैवानित्यो ऽपि न चार्याणां प्रतिकूल [तिब्. 176ब्] इत्य् अत आह. न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनाद् इति. अविशेषाभिधाने ऽपि हि लोके विशेषप्रतिपत्तिर् दृष्टा. तद्यथा गमनाद् गौः न च गमनान् महिषो ऽपि गौर् भवति. एवं ह्य् अर्थे नियते गौः [कास्मिंचिद् भवति.] कस्माद् भवति. यस्मात् गच्छतीति. एवम् इहापि यत् सास्रवं वस्तु. तत् प्रतिकूलम् आर्याणां. कस्मात्. अनित्यत्वाद् इति. यद् एव दुःखतो दृष्टम् इति. सास्रवं वस्तु. तस्यैव निरोधं शांततः पश्यंति. न मार्गस्येत्य् अवगंतव्यं. मुद्गादिभावे ऽपि माषराश्यपदेशवद् इति. माषराशौ मुद्गमसूरकलायादिसद्भावे ऽप्य् अल्पत्वान् मुद्गादीनां माषराशिर् इति लोके व्यपदेशो दृश्यते. तद्वत्. परिषेकसुखाणुकेनेति. सुखं च तद् अणुकं च सुखाणुकं. परिषेकेण सुखाणुकं परिषेकसुखाणुकं. तेनाह खल्व् अपीति. भदन्ककौमारलातः दुःखसंतत्यां.
दुःखस्य च हेतुत्वाद्
इति. सुखं दुःखस्य हेतुर् दुःखवेदनीयेन कर्मणा संप्रयुक्तत्वाद् इति.
दुःखैश् चानल्पकैः समुदितत्वात्.
यस्माच् चातिबहुभिर् दुःखैः परसेवाकृत्यादिकृतैः समुदितं सुखम् [तिब्. 177अ] उत्पद्यते.
दुःखे च सति तदिष्टेः.
यस्माच् च क्षुत्पिपासादिकृते दुःखे सति. भोजनपानादिकृतं सुखं इष्टं. नान्यथा. अत एभ्यः कारणेभ्यो
दुःखम् इति सुखं व्यवस्यंतीति.
सहैव तु सुखेनेति. तुशब्दः पूर्वपक्षव्यावर्तनार्थः. संस्कारदुःखतैकरसत्वाद् इति. संस्काऋअदुःखतैकप्रकारत्वात्. कथम् इदानीं सुखस्वभावाम् इति. कथम् अदुःखस्वभावां वेदनां दुःखतः पश्यंति. अनित्यतया प्रतिकूलत्वाद् इति. अनित्यत्वात् प्रतिकूलं प्रतिकूलत्वाद् दुःखतः पश्यंतीत्य् (अभिध्-क्-व्य् 518) अर्थः. यथा रूपसंज्ञादीन्य् अपीति. यथा रूपसंज्ञासंस्कारविज्ञानान्य् अपि दुःखतः पश्यंति. न च तान्य् एवं दुःखानि. यथा दुःखा वेदना. तस्या उपघातकस्वभावत्वात्. तेषां वा तल्लक्षणत्वात्. यस् तु मन्यत इति भदन्तकुमारलातः. तस्य भदन्तस्यासौ समुदयाकारः स्यान् न दुःखाकारः. दुःखहेतुतो दर्शनात्. किं चार्याणां चानागामिनां रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तते. नैव प्रवर्तते इत्य् अर्थः. न हि तेषाम् अनागामिनां दुःखवेदनाहेतुः दुःखाया वेदनाया हेतुः. [तिब्. 177ब्] के. स्कंधा रूपारूप्यावचराः. कस्मान् न हेतुः. पुनर् दुःखस्थानानागमनात्. संस्कारदुःखत च सूत्रे किम् अर्थम् उक्ता भवेद् इति. यदि दुःखहेतुत्वात् सुखम् अपि दुःखतः पश्यंति. येयं संस्कारदुःखतोक्ता यद् अनित्यं. तद् दुःखम् इति. सा किंप्रयोजना दुःखहेतुत्वेनैव तत्प्रयोजनसिद्धेः. दुःखहेतुवाद्य् आह. यदि तर्हीति. यदि यद् अनित्यं. तद् दुःखम् इत्य् अनित्यत्वाद् दुःखतः पश्यंति न दुःखहेतुत्वाद् अनित्यदुःखाकारयोः कः प्रतिविशेषः.
अत्राचार्य आह. उदयव्ययधर्मित्वाद् इति विस्तरः. यथा प्रतिकूलत्वाद् दुःखं. तथा तत् प्रतिपादयन्न् आह. अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्य् अनित्याकारो दुःखाकारम् आकर्षतीति. तद् उक्तं भवति. यद् इदम् उक्तं यद् अनित्यं. तद् दुःखम् इति. नाकारैकत्वाद् एवम् उक्तं. अप्य् त्व् अनित्यं तत् सुखं पश्यतां प्रतिकूलं भवति. प्रतिकूलत्वाद् दुःखतः पश्यंतीति.
एकीया इति भदंतश्रीलातादयः. इदम् अत्र दुःखस्येति. इदम् अत्र दुःखस्य लक्षणम् इत्य् अर्थः. सुखा वेदना दुःखतो द्रष्टव्येति. अपरं सूत्रपदं. शीतोष्णादय [तिब्. 178अ] इति. आदिशब्देनाम्लमधुरादयो गृह्यंते. अत्युपयुक्ता अतिपरिभुक्ताः. अकालोपयुक्ताश् चेति. तद्यथा शीता हेमंते उष्णा गृईष्मे. समेन वेति. सुखहेतुना. एवम् ईर्यापथविकल्पे ऽपि वक्तव्यम् इति. य एव हि शयनादय इष्यंते सुखहेतवः. त एवेति सर्वं यावद् व्यक्तिम् आपदयंत इति वक्तव्यं. दुःखप्रतीकारे च सुखबुद्धेः. किं. नास्ति सुखा वेदनेति प्रकृतं. दुःखविकल्पे च. किं. सुखबुद्धेः. तथैव नास्ति सुखा वेदनेति. दुःखप्रतीकारे सुखबुद्धिं प्रतिपादयन्न् आह. न हि तावत् सुखम् इति विस्तरः. दुःखविकल्पेनेति प्रतिपादयन्न् आह. दुःखविकल्पे च बाला इति विस्तरः. अंसाद् अंसं भारं संचारयंतो भारवाहका दुःख एवावस्थिते भारातिक्रामणे सुखम् इति बुद्धिम् उत्पादयंति.
एष एव च न्याय इत्य् आचार्यः. अनभिप्रीतं भवत्य् आर्याणाम् इति कामसुखं. (अभिध्-क्-व्य् 519) अन्यथानभिप्रेतत्वाद् इति. प्रमादपदत्वादिनाकारांतरेण. तदर्थं दर्शयन्न् आह. या हि वेदनेति विस्तरः. प्रमादपदम् इति. कुशलप्रच्युतिकारणम् इत्य् अर्थः. महाभिसंस्कारसाध्यां च विपरिणामिनीं च. [तिब्. 178ब्] समनंतरदुःखोत्पादिनीम् अदुःखासुखोत्पादिनीं चेत्य् अर्थः. न्यूनरूपत्वम् आपन्नाम् इति वा. अनित्यां च विनाशिनीं चेत्य् अर्थः. न तु खलु स्वलक्षणाकारेणेति. अनुग्राहकस्वलक्षणाकारेण आर्याणाम् अपि हि सुखवेदनानुग्राहकेभ्य विसंवादः. यदि चासौ सुखा वेदना स्वेनात्मनानुग्राहकात्मनानभिप्रेता भवेत् नैव तस्यां सुखायां वेदनायां कस्यचिद् रागो भवेत्. दुःखवेदनावद् इत्य् अभिप्रायः. यतो वैराग्यार्थम् इति. यतः कारणात् वैराग्यार्थम् आकारांतरेणापि दोषवतीं पश्येयुः. अन्यथानायासेनैव रागाभावसिद्धेः वैराग्यार्थं प्रयत्नो ऽनर्थकः स्यात्. उक्तं चेदं भगवतेति स्थविरानन्दवचनम् एवैतत् सूत्रपदं. एवं हि सो ऽप्रक्ष्यद् इति. यत्किंचिद् वेदितम्. इदम् अत्र दुःखस्येति एतद् अयुक्तरूपं वचनम् इति पश्यं स्थविरानन्दस् तद् एव पृष्टवान्. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विरुद्धम् एवेति कृत्वा. यदि तु तिस्रो वेदना इत्य् एतद् अयुक्तरूपम् अद्रक्ष्यत्. तद् एवाप्रक्ष्यत् किं नु संधाय भगवता भाषितं तिस्रो वेदना इत्य् एतद् विरुद्धम् एवेति कृत्वा. भगवान् [तिब्. 179अ] अपि चैवं व्याकरिष्यद् इदं मया संधाय भाषितं तिस्रो वेदना इति. न त्व् एवं व्याकरिष्यत्. संस्कारानित्यताम् आनन्द संधाय मया भाषितं. संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति.
न त्व् एवम् आह. पुनश् च तिसृणां वेदनानां वचनात् तस्मात् संत्य् एव स्व्भावतस् तिस्रो वेदनाः. इदं तु संधाय मया भाषितं यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति वेदनाद् आभिप्रायिकम् एतद् वाक्यं दर्शयति भगवान्. यत्किंचिद् वेदितम् अत्र दुःखस्येति संस्कारविपरिणामताभिप्रायात्. विपरिणामानित्यधर्मित्वाद् इति. विपरिणामधर्मित्वाद् अनित्यधर्मित्वाच् च. विपरिणामः पुनर् अन्यथात्वं. कामगुणा इति. इष्टानां रूपशब्दगन्धरसस्प्रष्टव्यानाम् इयं संज्ञा. उपपत्तेर् अपीष्टस्य जन्मनः संज्ञा. एवम् उपपत्तिं अल्पसुखां बहुदुःखाम् एकांतसुखां पश्यतो विपर्यासः.
लोकानुवृत्त्येति. चेत्. अथ मतं लोकस्य वेदनां व्यवस्यतो ऽनुवृत्त्या तिस्रो वेदना इति वचनं. तन् न भवति. सर्ववेदितदुःखत्वस्य संधाय भाषितम् इति भगवतो वचनात्. संस्कारानित्यताम् आनन्द मया संधाय भाषितं संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येत्य् [तिब्. 179ब्] अतो न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. किं तर्हि. स्वलक्षणतो (अभिध्-क्-व्य् 520) निधार्येत्य् अभिप्रायः. यथाभूतवचनाच् च. न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. कथम् इत्य् आह. यच् च सुखेन्द्रियं यच् च सौमनस्येन्द्रियं. सुखैषा वेदना द्रष्टव्येति. विस्तरेणोक्त्वेति. यच् च दुःखेन्द्रियं यच् च दौर्मनस्येन्द्रियं. दुःखैषा वेदना. यद् उपक्षेन्द्रियम्. अदुःखासुखैषा वेदना इत्य् एवंआदिना विस्तरेणोक्त्वा येनेमानि पंचेन्द्रियाण्य् एवं यथाभूतं सम्यक्प्रज्ञया दृष्टानीति. इदम् अत्र वेदनात्रयसद्भावे ज्ञापकं. यथाभूतम् इत्य् अध्यारोपापवादाभावात्. लोको ऽपि च कथं दुःखां वेदनां त्रिविधां सुखां दुःखाम् अदुःखासुखां व्यवस्येद् दुःखस्वाभाव्येन दुःखव्यवसायस्यैव प्राप्तेः. मृद्वधिमात्रमध्यास्व् इति विस्तरः. अथ मतं मृदुनि दुःखे सुखबुद्धिर् अधिमात्रे दुःखबुद्धिः मध्य अदुःखासुखबुद्धिर् इति. अत्र ब्रूमः. सुखस्यापि त्रिविधत्वाद् इति विस्तरः. [तिब्. 180अ] मृदुमध्याधिमात्रभेदेन मृद्वादिषु दुःखेषु मृदुमध्याधिमात्रेषु. अधिमात्रादिसुखबुद्धिः स्याद् अधिमात्रमध्यमृदुः सुखबुद्धिः स्याद् इत्य् अर्थः. कथं. मृदुनि दुःखे अधिमात्रसुखबुद्धिः. मध्ये मध्यसुखबुद्धिः. अधिमात्रे मृदुसुखबुद्धिर् इति. न चाधिमात्रे दुःखे मृदुसुखबुद्धिर् युक्ता. किं कारणं.
अधिमात्रम् एव तद् दुःखं न स्याद् यदि तत्र मृदुसुखबुद्धिः स्यात्. मृदुनि च दुःखे यद्य् अधिमात्रसुखबुद्धिः कथं तस्य दुःखस्य मृदुत्वं. न हि तथा व्यक्तस्यानुभवस्य मृदुत्वं युज्यत इति. अदुःखासुखानंतरं सुखानुभवं पश्यन्न् आह. यदा गंधरसस्प्रष्टव्यविशेषजम् इति. मध्यं हि दुःखम् अदुःखासुखं भवतां. न मृदुप्रकारम्. अतो वक्तव्यं. तदा कतमद् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर् भवतीति. विषयबलाद् एव हि तत् सुखम् उत्पद्यते. मृदुदुःखसमनंतरप्रत्ययबलाद् अधिमात्रदुःखसमनंतरप्रत्ययबलाद् वेति. किं च यदि मृदुनि दुःखे सुखबुद्धिर् इति मन्यसे. अनुत्पन्नविनष्टे च तस्मिन् मृदुनि दुःख इति. [तिब्. 180ब्] अनुत्पन्ने विनष्टे च तस्मिन् मृदुनि दुःखे. सुतरां सुखबुद्धिः स्यात् अशेषदुःखापगमात्. यस्माद् अशेषं दुःखम् अपगतं. सशेषापगते ऽपि हि दुःखे सुखबुद्धिम् इच्छसि. किम् अंगाशेषापगत इत्य् अभिप्रायः. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् इति. यथा गन्धरसस्प्रष्टव्यविशेषजं सुखम् उक्तम्. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यं. कथम्. मृदुनि रागदुःखे कामसुखबुद्धिर् भवति. अनुत्पन्ने विनष्टे च तस्मिन् रागदुःखे सुतरां कामसुखं स्यात्. न चैवं दृष्टम् इति. कथं च नामेति विस्तरः. कथं च नामैतद् योक्ष्यते. यन् मृदुनि (अभिध्-क्-व्य् 521) वेदिते यन् मृदुनि दुःख इत्य् अर्थः. तीव्रानुभवो गृह्यत इति वक्तव्यं. सुखं गृह्यते. मध्ये पुनर् अव्यक्त इति. मध्यदुःखे अदुःखासुखा वेदना गृह्यते इत्य् अर्थः. मृदुनि दुःखे तेनाव्यक्तेन भवितव्यम् इत्य् अभिप्रायः. त्रिषु चेति विस्तरः. त्रिषु च ध्यानेषु
प्रथमद्वितीयतृतीयेषु सुखवचनात्. सुखा वेदना तत्रेति सूत्रे वचनात्. मृदुदुःखं स्यात्. किं कारणं. मृदुनि दुःखे सुखबुद्धिर् इति तवाभिप्रायात्. ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु चादुःखासुखवचनात् [तिब्. 181अ] सूत्रे. मध्यं दुःखं स्यात्. कस्मात्. मध्ये दुःखे अदुःखासुखम् इति तवैवाभिप्रायात्. इत्य् अतो न युज्यते मृद्वादिषु दुःखेषु सुखादिवेदनाव्यवस्थानं. कथं हि नामाधोध्यानेषु मृदु दुःखम्. ऊर्ध्वे पुनर् मध्यम् इति युज्यते. रूपं चेन् महानामन्न् इति. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतं न सौमनस्यं न सौमनस्यानुगतं न सुखवेदितं हेतुर् अपि न प्रज्ञायते रूपे संरागाय. यस्मात् तर्हि अस्ति रूपं सुखं सुखानुगतं पूर्ववद् अतो रूपे हेतुः प्रज्ञायते यद् उत संरागायेति.
सुखहेत्वव्यवस्थानाद् इत्य् अत्र ब्रूमः. यदि सुखहेत्वव्यवस्थानान् न सुखम् अस्ति वः. दुःखम् अप्य् असत् स्यात् दुःखहेत्वव्यवस्थानात्. अपि च व्यवस्थित एव सुखहेतुः. कथम् इत्य् आह. आश्रयविशेषापेक्षो हीति विस्तरः. यदि हि केवल एव विषयो हेतुः स्यात् स्याद् एवाव्यवस्थितो हेतुः. न तु केवलो विषयो हेतुः. यस्माद् आश्रयविशेषो ऽपि हेतुर् इति. स एवाग्निर् इति. तद्यथा स एवाग्निः पाक्यभूतविशेष [तिब्. 181ब्] ईषत्पक्वावस्थे तण्डुलसमूहे स्वादुपाकहेतुर् भवति. अभिमतौदनपाकहेतुत्वात्. स एवास्वादुपाकहेतुः. तद्दाहहेतुत्वाद् इत्य् अर्थः. न तु या पाक्यभूतावस्थां प्राप्य स्वादुपाकहेतुर् आसीत्. तां पुनः प्राप्य पश्चान् न हेतुः स्वादुपाकस्य तादृशस्येत्य् अर्थः. एष दृष्टांतः तस्य पूर्वोक्तस्य दार्ष्टांतिकस्यार्थस्य. ध्यानेषु च कथं न व्यवस्थितः सुखहेतुर् इति. न हि तद् एव ध्यानं प्रथमं यावत् तृतीयं चिरकालम् अपि समापन्नानां दुःखहेतुर् भवतीति. ध्यानजे च सुखे कस्य प्रतीत्कार इति. न हि ध्यानेषु दुःखम् अस्तीति. आदिशब्देनेदम् अपि वक्तव्यं. यदि दुःखप्रतीकारेषु सुखबुद्धिः स्यात्. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतम् इत्य् एवमादि नोक्तं स्याद् इति. सुखम् एवोत्पद्यत इति. सुखैव सा वेदनोत्पद्यते. न सा दुःखा वेदना सुखत्वेन कल्पितेति. यावद् असौ तादृशी कायावस्थेति. सुखोत्पत्त्यनुकूला. अन्यथा हि यद्य् अवस्थांतरजं सुखम् एव नोत्पद्यते यावद् असौ (अभिध्-क्-व्य् 522) तादृशी कायावस्था नांतरीयते. अन्यथा पश्चाद् भूयसी सुखबुद्धिः स्यात्. अंते कुत इति विस्तरः. अथ मतं पानभोजनाद्यंते कुतो दुःखबुद्धिः स्यात् यदि
तस्यादितत्प्रारंभो नासीद् इति. अत्र ब्रूमः. कायपरिणामविशेषात्. [तिब्. 182अ] कायस्य तादृशः परिणामविशेषाः पश्चाद् उत्पद्यते पानाद्यासेवनात् यत् सुखोत्पत्त्यवस्थायां दुःखं नोत्पद्यते. अंते तूत्पद्यत इति. किम् एवेत्य् आह. मद्यादीनाम् अंते माधुर्यशुक्ततावद् इति. यथा मद्यक्षीरादीनां तादृशः पश्चात्परिणामवीशेषो भवति. यत् पूर्वं मधुरतावस्थायां माधुर्यस्याविद्यमाना शुक्तता अम्लता अंते उत्पद्यते. अथ वा यथा मद्यादीनां परीणामवीशेषान् माधुर्यम् एषाम् आदौ भवति. आम्लं वा. तच् चिकित्सौषधकृतात् परिणामविशेषान् माधुर्यं भवति. परिणामविशेषाद् एव च पश्चाच् छुक्तता. माधुर्यम् इह सुखस्योदाहरणं. शुक्तता दुःखस्येति.
यत् तु समुदयसत्यं. तद् एवोच्यत इति. हेतुभूताः शमुदयसत्यम् इति वचमात्. प्रथमे वा कोशस्थाने
दुःखंसमुदयो लोक
इति वचनात्. शूत्रे हि तृष्णैवोक्तेति. समुदयसत्यं कतमत्. यासौ तृष्णा नन्दीरागसहगता तत्रतराभिनन्दिनीति. वैभाषिक आह. प्राधान्याद् इति. अन्यत्रान्यस्यापि वचनात्. [तिब्. 182ब्] अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर् वचनाद् अन्ये ऽपि समुदय इति.
अभिसंपराये
आयत्यां परलोक इत्य् अर्थः. पुनश् चोक्तम् अन्यत्र शूत्रे. यतश् च भिक्षवः पंच बीजजातान्य् अखण्डानि अच्छिद्राणी अपूतीनि अवातातपहतानि नवानि साराणि सुखशयितानि. पृथिवीधातुश् च भवत्य् अब्धातुश् च. एवं तानि बीजानि वृद्धिं विरूढिन् विपुलताम् आपद्यंते. इति हि भिक्षव उपमेयं कृता यावद् एवास्यार्थस्य विज्ञप्तय इतीमं दृष्टांतम् उपन्यस्येदम् उक्तं. पंच बीजजातानीति भिक्षवः सोपादानस्य विज्ञानस्यैतद् अधिवचनं पृथिवीधातुर् इति चतसृणां विज्ञानस्थितीनाम् एतद् अधिवचनम् इति. बीजं पुनर् हेतुः. यश् च हेतुः. स समुदयः विज्ञानस्थितयो ऽपि प्रतिष्ठाहेतुः. तस्माद् इति. यतः कर्मादीनाम् अपि हेतुत्ववचनात् समुदयसत्यत्वं सिद्धं. तस्माद् आभिप्रायिकः. अभिप्राये भवः अभिप्रायेण वा दीव्यतीत्य् आभिप्रायिकः सूत्रे निर्देशः तृष्णाधिकृतं पुद्गलम् अधिकृत्य कृत इत्य् अभिप्रायः. लाक्षणिकस् त्व् अभिधर्मे लक्षणे भवो लाक्षणिको निर्देशो ऽभिधर्मे. सर्वं सास्रवं वस्तु समुदय इति सास्रवस्य स्कंधपंचकस्य समुदयसत्यत्वलक्षणयोगात्. स एव वैभाषिकस् तृष्णादीनाम् आभिप्रायिकं समुदयसत्यत्वं विवक्षुर् [तिब्. 183अ] (अभिध्-क्-व्य् 523) आह. अपि त्व् इति विस्तरेण. अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे. उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत् कर्म च तृष्णा चाविद्या चोक्ता. उपपत्तिहेतुः कर्म. अभिनिर्वृत्तिहेतुस् तृष्णा भवेषु. तयोः पुनस् तद्धेत्वोः कर्मतृष्णयोर् अविद्या हेतुर् इत्य् आह. कथम् एतद् गम्यते. गाथायाम् उपपत्तिहेतुः कर्माभिनिर्वृत्तिहेतुस् तृष्णेति. कर्म हेतुर् उपपत्तये तृष्णा हेतुर् अभिनिर्वृत्तय इति सूत्रात्. सूत्रांतरे वचनाद् इति.
सहेतुसप्रत्यय इति विस्तरः. अत्र सूत्रे क्रमेण वा. कारणपरंपराक्रमेण वा. गाथायाम् एष निर्देशः. कर्मतृष्णाविद्या संकाराणां चक्षुरादीनां हेतुर् अभिसंपराय इति. तद् एतद् उक्तं भवति. कर्म हेतुर् उपपत्तय इति. अतो वा सूत्रात्. सहेतुसप्रत्ययक्रमसूत्राद् वा. अयं ईदृशः गाथार्थ इति. कथं चक्षुर् भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवश् चक्षुषो हेतुः कः. प्रत्ययः. किं निदनं. चक्षुषो भिक्षवः कर्म हेतुः. कर्म प्रत्ययः कर्म निदानं. कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवः कर्मणो हेतुः. कः प्रत्ययः. किं निदानं. [तिब्. 183ब्] कर्मणो भिक्षवस् तृष्णा हेतुः. तृष्णा प्रत्ययः. तृष्णा निदानं. तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवस् तृष्णाया हेतुः. कः प्रत्ययः. किं निदानं. तृष्णाया भिक्षवो ऽविद्या हेतुः. अविद्या प्रत्यय्ः. अविद्या निदानं. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविद्याया हेतुः. कः प्रत्ययः किं निदनं. अविद्याया भिक्षवः अयोनिशोमनस्कारो हेतुः. अयोनिशोमनस्कारः प्रत्ययः. अयोनिशोमनस्कारो निदानम् इति. बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽप्य् उक्ता विज्ञानं बीजं. तस्य क्षेत्रं वेदनादयः स्कन्धाः. ते ऽप्य् उक्तः समुदयसत्यं. न केवलं तृष्णादय इत्य् आभिप्रायिकः सूत्रे निर्देश इति साधितं. सर्वस्य च दुःखस्य लाक्षणिकः समुदयभाव इति. योन्यादिप्रकारभेदेनेति. आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते. अभेदेनेति. धातुगत्य्योन्यादीनां. तयोर् यथाक्रमम् इति. उपपत्तेः कर्म हेतुर् अभिनिर्वृत्तेस् तृष्णेति. तद्यथा बीजम् इति विस्तरः.
शालिबीजं शाल्यंकुरोपपादनस्य हेतुः यवबीजं यवांकुरोपपादनस्येत्यादि. आपः पुनर् अभेदेन. यथा शाल्यंकुरप्ररोहस्य हेतुः. एवं यवांकुरस्यापीत्यादि. अतस् ताः सर्वांकुरप्ररोहमात्रस्य हेतुर् इति विना तृष्णया जन्माभावाद् इति. अत्र साधनं. हेतुर् जन्मनस् [तिब्. 184अ] तृष्णा. तद्भावाभावभाव्यभावित्वात्. तक्यथा बीजम् अंकुरस्य. संततिनामनाच् चेत्य् अस्यार्थं विवृण्वन्न् आह. यत्र च सतृष्णेति विस्तरः. यत्र विषये रूपादौ सतृष्णा. का. चित्तसंततिः. तत्राभीक्ष्णं चित्तसंततिं नमंतीं पश्यामः. तस्नात् पुनर्भवे ऽप्य् एवम् इति. पुनर्भवे ऽप्य् एवं सतृष्णा चित्तसंततिः. (अभिध्-क्-व्य् 524) तस्मात् तन् नमतीति. यत्र च नमति. तत्र च प्रवर्तत इति व्यवस्यामः. साधनं चात्र प्रवर्तते. पुनर्भवे चित्तसंततिः. सतृष्णानमनात्. रूपादिविषयवत्. शुष्कमसूरोपस्नानलेपांगवद् इति. मसूर उपस्नानं. तस्य लेपः शुष्कः. मसूरोपस्नानलेपो ऽस्येति शुष्कमसूरोपस्नानलेपम् अंगं. तद्वद्. यथा शुष्केण मसूरोपस्नानलेपेनागृहीतम् अंगं. एवं तृष्णयात्मभाव इति दर्शितं भवति. एषा युक्तिर् इति. तृष्णाभिनिर्वृत्तिहेतुर् इति.
(vi.4) अत्रार्थे द्वे अपि सत्य इति सत्यप्रसंगेनेदम् उच्यते.
घटांबुवद्
इति. दृष्टांटद्वयोपन्यासो भेदद्वयोपप्रदर्शनार्थः. उपक्रमभेदिनश् च घाटादयः. बुद्धिभेदिनश् च जलादय इति. जलादिषूपक्रमेण रसाद्यपकर्षणानुपपत्तेः. अथ वा द्विविधा संवृतिः. [तिब्. 184ब्] संवृत्यंतरव्यपाश्रया द्रव्यांतरव्यपाश्रया च. तत्र यासौ संवृत्यंतरव्यपाश्रया. तस्यां भेदो ऽपि संभवति अन्यापोहो ऽपि. या त्व् असौ द्रव्यांतरव्यपाश्रया. तस्याम् अन्यापोह एव संभवति न भेदः. न हि परमाणोर् अष्टद्रव्यकस्यावयवविश्लेषः शक्यते कर्तुम् इति. संवृतिसद् इति. संव्यवहारेण सत्. परमार्थसद् इति. परमार्थेन सत्. स्वलक्षण सद् इत्य् अर्थः. एवं वेदनाद्यो ऽपि द्रष्टव्या इति. वेदनाचेतनासंज्ञादयो ऽपि द्रव्यसंत एव द्रष्टव्याः. कथं. वेदनादीन् धर्मान् अपोह्य बुद्ध्या वेदनास्वभावे बुद्धिर् भवतीति. द्रव्यसती वेदना. एवं संज्ञाचेतनादयो ऽपि योज्याः. घटश् चांबु चास्तीति ब्रुवंतः सत्यम् एवाहुः. न मृषेति. संवृतिसत्यस्य वचने प्रयोजनं दर्शयति. उक्तं च.
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना. लोकसंवृतिसत्यं च सत्यं च परमार्थत
इति. तथा परमार्थसत्यम् इति. परमस्य ज्ञानस्यार्थः परनार्थः. परमार्थश् च सत्यं च तत् परनार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते. तथा संवृतिसत्यं. संवृत्या संव्यवहारेन ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यं. त्रिविधं हि योगाचाराणां सत्. [तिब्. 185अ] परमार्थसंवृतिसत् द्रव्यसच् च. द्रव्यतः स्वलक्षणतः सद् द्रव्यसद् इति.
(vi.5) वृत्तस्थ
इति विस्तरः. वृत्तं शीलं. तद् अव्यासंगकारणम् अविक्षेपकारणम् आचारकारणं च. सत्यदर्शनस्यानुलोमम् इति. यच् छ्रुतं सत्यदर्शनाधिकारिकं (अभिध्-क्-व्य् 525) तच् छ्रुतम् उद्गृह्णाति पठति. अर्थं वा शृणोति तदर्थं श्रोत्रद्वारेण विजानाति. कथम्. उभयालंबना चिन्तामयीति दर्शयन्न् आह. कदाचिद् व्यंजनेनार्घम् आकर्षति. व्यंजननिर्वृत्तेन नाम्नार्थम् आकर्षत्य् अयम् अस्य नाम्नो ऽर्थ इति. कदाचिद् अर्थेन व्यंजनम् आकर्षति. इदम् अस्याभिधेयस्यार्थस्य व्यंजनं नामेत्य् अर्थः. अयं हि व्यंजनशब्दो नाम्नि प्रयुक्तः. सूत्रे ऽपि चोक्तं. स्वर्थं सुव्यंजनम् इति. अस्यां तु कल्पनायाम् इति विस्तरेणाचार्यः. चिन्तामयी प्रज्ञा न सिध्यतीति. श्रुतभावनामयीलक्षणसंकीर्णं लक्षणम् उच्यते. नासंकीर्णम् इति न सिध्यति. युक्तिनिध्यानज इति. युक्त्या निध्यानं नितीरणं. ततो जात इति. हेतौ मयड्विधानाद् इति. आप्तवचनं श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः. अत्र मयड्विधानं. श्रुतहेतुका प्रज्ञा श्रुतमयीति. एवं युक्तिनिध्यानं चिन्ता सहेतुश् चिन्तामय्याः. अत्र मयड्विधानात्. समाधिर् भावना सहेतुर् भावनामय्याः. अत्र मयड्विधानं. तत्प्रकृतिवचने मयड् इति लक्षणात्. तस्य विकार इति वा लक्षणात्. औपचारिकस् तु विकारः. श्रुतविकार इव श्रुतमयीति लक्षणांतरं चोपसंख्यातव्यं. अन्नमयाः प्राणास् तृणमय्यो गाव इति लोके प्रयोगदर्शनात्.
(vi.6-8) संसर्गाकुशलवितर्कदूरीकरणाद् इति. संसर्गदूरीकरणं यद् अद्वितीयविहारित्वं. तस्मात् कायेन [तिब्. 185ब्] व्यपकृष्टो भवति. अकुशलवितर्कदूरीकरणं यत् क्लिष्टवितर्कविवर्जनं. तस्माच् चित्तेन व्यपकृष्टो भवति. लब्धेनाप्रणीतेनाप्रभूतेन परितास इति. परितासो दौर्मनस्यं. तेन हि परितस्यति. उपक्षीयत इत्य् अर्थः. अप्रणीतत्वाद् अप्रभूतत्वाद् वा. तेन लब्धेन परितासो ऽसंतुष्टिः. अलब्धे तु प्रणीते ऽपि वा प्रभूते ऽपि वा इच्छाभिलाषा महेच्छतेत्य् आचार्यमतं. कामावचर्याव् एवेति. लोभाकुशलस्वभावत्वात्.
प्रहाणभावनारामता निरोधमार्गारमता. सा न संतुष्टिस्वभावेति. कथं चतुर्थो ऽप्य् अयम् आर्यवंशो भवत्य् अलोभस्वभाव इत्य् अत आह. भवकामरागवैमुख्याद् इति. भवरागवैमुख्यात्. कामरागवैमुख्याच् च. वैमुख्यं चालोभ इति. परित्यक्तस्ववृत्तिकर्मांतेभ्य इति. परित्यक्तस्ववृत्तिभ्यः परित्यक्तस्वकर्मांतेभ्यश् च. तत्र वृत्तिजीविका यया जीव्यते अन्नपानादिना. कर्मांतः कृषिशिल्पादिः. इति भवविभवहेतोर् इति. इतिशब्दो भवविभवप्रकाराभिद्योतकः. तत्र भवप्रकारे तृष्णा अहो बताहं इन्द्रः स्यां चक्रवर्ती स्याम् इति एवमादि. [तिब्. 186अ] विभवतृष्णापि विणाशतृष्णा. अहो बतोच्छिद्येयं न भवेयं परं मरणाद् इत्यादि.
(vi.9) स्मृतिर् एव स्मृतम् इति. भावे क्तविधानम् इति दर्शयति. अवतारस् तीर्थं येनावतरति. प्रत्यासन्नम् अत्यर्थं रागचरित इति. यस्याल्पेन रागः शीघ्रम् उपतिष्ठते. स प्रत्यासन्नं रागचरितः. यस्याधिमात्रो रागः. सो ऽत्यर्थं रागचरितः.
अविचित्रालंबनत्वाद् इति. वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः.
अबहिर्मुखत्वाद् अंतर्मुखत्वात्. एषा वितर्कोपच्छेदाय संवर्तत इति प्रकृतं. तद्विषयोपनिध्यानाद् इति. चक्षुर्विषयनिरूपणाद् इत्य् अर्थः. (vi.10, 11) विनीलकाद्याकारालबनाम् इत्य् आदिग्रहणेन विपूयकादिग्रहणं. विपटुमकम् इति यद् उत्पन्नक्रिमिकं. चतुर्विधं रागवस्तु नास्तीति. वर्णसंस्थानस्पर्शोपचारात्मकम्. अधिमुक्तिप्रादेशिकमनसिकारत्वाद् इति. अधिमुक्तिमनसिकारत्वात् प्रादेशिकमनसिकारत्वाच् चेत्य् अर्थः. अधिमुक्तिप्रधानो ऽयं मनसिकारः. प्रादेशिकश् चायम् अव्यापीत्य् अर्थः. न ह्य् अशुभा पंचस्कन्धालंबना. सकलभूम्यालम्बना वा. किं तर्हि. रूपस्कन्धैकदेशालंबना [तिब्. 186ब्] तद्भावात्. नाशुभया क्लेशप्रहाणं विष्कंभणामात्रं तु भवतीत्य् अर्थः. स्वांगावयवे चित्तम् उपनिबध्नातीति वचनात् न तावत् स्त्र्यंगावयवे प्रयोगकाल एव संरागहेतुपरिहारात्. अस्थि विशोधयन्न् इति. अस्थिनो मांसम् अपनयन् सकलाम् अस्थिशंकलां पश्यति. यथोक्तं.
यो भवेन् नवको भिक्षुः शैक्षो ऽसंप्राप्तमानसः गच्छेद् असौ शिविपथिकां हंतुं रागं यदीच्छति ततो विनीलकं पश्येत् ततः पश्येद् विपूयकं. ततो व्याध्मातकं पश्येद् अस्थिशंकलिकाम् अपीति.
अत्र समासतो ऽशुभायां वर्तमानो योगाचारस् त्रिविधः. आदिकर्मिकः कृतपरिजयः अतिक्रांतमनसिकारश् च. तत्र संक्षेपचित्त आदिकर्मिको योगाचार एकस्मिन् पादांगुष्ठे मन उपनिबध्य पादांगुष्ठं क्लिद्यमानं पश्यत्य् एतन् मांसम् एवं यावत् सर्वं शरीरम् अस्थिशंकलाम् अधिमुच्यते. कृतपरिजयस् तु तथैव यावत् कपालार्धं. अतिक्रांतमनसिकारस् तथैव यावद् भ्रुवोर् मध्ये चित्तं धारयति. विस्तरचित्तस् तु आसमुद्रास्थिविस्तारः संक्षेपाद् आदिकर्मिक इत्य् एवमादित्रिविध इति. एवं च कृत्वा चतुष्कोटिकः प्रश्नो भवतीति. जिताजितमनस्कारयोर् इति विस्तरः. [तिब्. 187अ] प्रथमा कोटिर् जितमनस्कारस्य स्वकायालंबना अशुभा आलंबनपरीत्ततया परीत्ता कायस्याल्पत्वात्. (अभिध्-क्-व्य् 527) न वशितापरीत्ततया जितमनस्कारत्वाद् अतिक्रांतमनसिकारत्वाद् इत्य् अर्थः. द्वितीया कोटिर् अजितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. वशितापरीत्तततया परीत्ता अजितमनस्कारत्वात्. नालंबनपरीत्ततया समुद्रपर्यंतालंबनत्वात्. तृतीया कोटिर् अजितमनस्कारस्य स्वकायालंबना अशुभा. आलंबनपरीत्ततयापि परीत्ता कायस्याल्पत्वात्. वशितापरीत्ततयापि अजितमनस्कारत्वात्. चतुर्थी कोटिर् जितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. नाप्य् आलंबनपरीत्ततया परीत्ता समुद्रपर्यंतालंबनत्वात्. नापि वशितापरीत्ततया जितमनस्कारत्वात्.
(vi.12) स सामांतकध्यानांतरेष्व् इति. सामंतकेषु ध्यानांतरे चतुःषु ध्यानेषु कामधातौ चेति दश भूमिका. ध्यानसामंतकानां चतुष्ट्वात्. अत एवार्थालंबनेति. वर्णसंस्थानालंबनत्वाद् अर्थालंबना. न तु नामालंबनेत्य् अभिप्रायः. नाम्नैव सिद्धम् अशुभाकारेत्य् आकारार्थं न सूत्रयितव्यम् इत्य् अभिप्रायः. यदध्विका तदध्विकालंबनेति. चक्षुर्विज्ञानवद् अतीताया अतीतम् आलंबनम् एवं यावत् प्रत्युत्पन्नायाः प्रत्युत्पन्नम् इति. स्वालंबननियतत्वात्. अधिमुक्तिमनसिकारत्वान् न सूत्रितं. उचितानुचितत्वाद् इति. अनादिम् अतिसंसारे उचितत्वाद् वैराग्यलाभिकी. अनुचितत्वात् प्रायोगिकी.
(vi.13) कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि. [तिब्. 187ब्] तद्बलाधानवृत्तित्वात्. तस्याः स्मृतेर् बलस्याधानेन वृत्तिर् एषाम् इति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि कायप्रज्ञाद्रव्यादीनि स्मृत्युपथानीत्य् उच्यंते. तद्वद् आनापानप्रज्ञा स्मृतिबलाधानवृत्तित्वाद् आनापानस्मृतिर् इत्य् उच्यते. पंचसु भूमिष्व् इति. त्रिषु सामंतकेषु चतुर्थसामंतकवर्ज्येषु. ध्यानांतरे. कामधातौ चेति पंचसु भूमिषु. किं कारणं. उपेक्षासंप्रयोगित्वात्. यस्मात् प्रथमध्याने सामंतकादिषूपेक्षावेदना भवति. चतुर्थध्याने सामंतके तु यद्य् अप्य् उपेक्षास्ति. सा त्व् अभूमिर् आश्वासप्रश्वासानां. अथ किम् अर्थम् एषोपेक्षा संप्रयोगिण्य् एवावधार्यत इति. अतो ब्रवीति वितर्कानुगुणत्वाद् इति. तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृतेस् ताभ्यां सुखदुःखाभ्याम् असंप्रयोगः. सुखसौमनस्ययोश् चावधानपरिपंथित्वात्. आभोगप्रत्यनीकत्वात्. तस्याश् चानापानस्मृतेर् अवधानसाध्यत्वात् ताभ्याम् असंप्रयोग इति. वितर्कानुगुणत्वात्.
किलेति. किलशब्दः परमतद्योतकः. तेनेदं पक्षांतरम् उपन्यस्यते ये तु मौलेष्व् इति विस्तरः. परेणेति. चतुर्थाद् ध्यानाद् आरभ्य. [तिब्. 188अ]
कामधात्वाश्रयेति. तत्र वितर्कभूयस्त्वात्. प्रायोगिकी अनुचितत्वात्. वैराग्यलाभिकी उचितत्वात्. इदंधर्माणाम् इति. अयं धर्मो बौद्ध एषाम् (अभिध्-क्-व्य् 528) इति इदंधर्माणः. तेषाम् एव बौद्धानाम् इत्य् अर्थः. उपदेशाभावाद् इति. बाह्यानां हि प्राणायामोपदेशो ऽस्ति नानापानस्मृत्युपदेश तित्. स्वयं च सूक्ष्मधर्मानभिसंबोधाद् इति. उपदेशम् अंतरेण यस्माद् बाह्यानां नास्ति स्वयं सूक्ष्मधर्माभिसंबोधः. सूक्ष्मत्वं पुनर् अस्याः षट्कारणयुक्तत्वात्. कायं चित्तं वाध्युपेक्ष्येत्य् अनासज्येत्य् अर्थः. वितस्तिव्यामांतरम् इति. बलवद्दुर्बलप्राणियोगात्.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
