Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्फुटार्था अभिधर्मकोशव्याख्या
- Tác giả
- यशोमित्र
- Thông tin
- GRETIL — Unrai Wogihara: Sphuṭārthā Abhidharmakośavyākhyā by Yaśomitra, Tokyo 1932-1936.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति. मरणवद् उत्पत्तिवद् विशिष्टवद् आत्मान्यतादिवद् इति. यथासंख्यम् एकांशव्याकरणादिषूदाहरणानि. मरिष्यंतीति मरणोदाहरणम् एकांशव्याकरणे. सक्लेशा जनिष्यंते न निःक्लेशा इत्य् उत्पत्त्युदाहरणं विभज्यव्याकरणे. कान् अधिकृत्य प्रश्नयसीति विशिष्टतोदाहरणं परिपृच्छाव्याकरणे. किम् अन्यः स्कन्धेभ्यः सत्त्व इति [तिब्. 126ब्] आत्मान्यतोदाहरणं स्थापनीयव्याकरण इति. किं सर्वसत्त्वा मरिष्यंतीत्य् एकांशेन व्याकर्तव्यम् इति. यथोक्तं भगवता अल्पकं भिक्षवो मनुष्याणां जीवितं. गमनीयः सम्परायः. चरितव्यं कुशलं. नास्ति जातस्यामरणम् इति. किम् अन्यः स्कन्धेभ्यो सत्त्वो ऽनन्य इति स्थापनीय इति. यथोक्तं भगवता. किं तु भो गौतम स करोति स प्रतिसंवेदयते. अव्याकृतम् एतत् ब्राह्मण. अन्यः करोत्य् अन्यः प्रतिसंवेदयते. अव्याकृतम् एतद् ब्राह्मण. स करोति स प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. अन्यः करोति अन्यः प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. तत् को ऽत्र खल्व् अस्य भवतो गौतमस्य भाषितस्यार्थः. स करोति स प्रतिसंवेदयत इति ब्राह्मण शाश्वताय परैति. अन्यः करोति अन्यः प्रतिसंवेदयत इति उच्छेदाय परैति. एतावंताव् अनुगम्य तथागतो मध्यया प्रतिपदा धर्मं देशयतीति.
अपर आहेति भदंतरामः. इदम् अप्य् एकांशेन व्याकर्तव्यं. न सर्वे जनिष्यंत इति. न केवलम् इदम् एकांशेन व्याकर्तव्यं. सर्वे सत्त्वा मरिष्यंतीति यस् तु पृच्छेद् इति विस्तरेणाचार्यः. यस् तु पृच्छेद् अनेन प्रकारेण ये मरिष्यंति. किं ते जनिष्यंत इति. तस्य विभज्यव्याकरणं स्यात्. न सर्व जनिष्यंते. किं तर्हि. सक्लेशा जनिष्यंते. न निःक्लेशा [तिब्. 127अ] इति. तस्माद् यद् उक्तम् इदम् एकांशेन व्याकर्तव्यं न सर्वे जनिष्यंत इति. तन् नोपपद्यते. तेन युज्यत एव वैभाषिकोदाहरणम् इत्य् अभिप्रायः. स एव भदन्तराम आह. मनुष्येषु चोभयम् अस्ति. हीनत्वं विशिष्टत्वं च. एतद् उभयम् आपेक्षिकम् अस्तीत्य् उभयम् एकांशेन व्याकर्तव्यं तत्यथा किं (अभिध्-क्-व्य् 466) विज्ञानं कार्यं कारणम् इति प्रश्न एकांशेन व्याक्रियते. हेतुफलापेक्षया कारणं कार्यं चेति. तत्र यद् उक्तं किं मनुष्यो हीनो विशिष्ट इति. परिपृच्छ्य व्याकर्तव्यं कान् अधिकृत्य प्रश्नयसीति. तद् अयुक्तं. यस्माद् अयम् एकांशेन व्याकरणीयः प्रश्न इति. एकांतेन तु पृच्छत इत्य् आचार्यो वैभाषिकपक्षं समर्थयति. एकांतेन तु पृच्छतः किं मनुष्यो हीन एव विशिष्ट एवेति. नैकांतव्याकरणाद् धीन इति वा विशिष्ट इति वा. विभज्यव्याकरणं युज्यते कान् अधिकृत्य प्रश्नयसीति. तत्र तद् उक्तं मनुष्येष्व् एवोभयम् अस्तीति विस्तरेण. तद् अयुक्तं. स एवाह. स्कंधेभ्यो ऽन्यः सत्त्व इति सर्वं. यस् तु स्थापनीय इत्य् आचार्यः वैभाषिकनयेनोक्तम् [तिब्. 127ब्] एतच् चतुर्विधस्योदाहरनं.
आभिधार्मिका आहूर् इति. षट्पादभिधर्ममात्रपाठिनः. दुःखप्रज्ञप्तिर् यावन् मार्गप्रज्ञप्तिर् इति. चतुर्णाम् आर्यसत्यानां प्रज्ञप्तिः यथासूत्रं. अर्थोपसंहितत्वाद् इति. अर्थप्रतिसंयुक्तत्वाद् इत्य् अर्थः. एतद् एव शठस्येति. एतद् एव विभज्यव्याकरणीयप्रश्नवचनं. शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदितव्यं. भदन्तराम आह. यदा ताव् इति विस्तरः. यदा तौ शठाशठौ न किंचित् पृच्छतः. केवलम् अध्येषयतो धर्मान् वदेति. तयोश् च शठाशठयोर् न किंचिद् व्याक्रियते इमे धर्मा रूपादयः सविस्तरप्रभेदा इति. केवलं परिपृछ्येते कतमान् वदामीति. तद् कथम् अनयोः शथाशठयोः प्रश्नो भवति. कथं च व्याकरणम् आभिधार्मिकस्य. यो हीति विस्तरेणाचारः. यो हि पन्थानं ब्रूहीति तदनभिज्ञ आह. किं तेन पंथा न पृष्टो भवति. अध्येषणमुखेनैवास्य इत्य् अभिप्रायः. यथा हि पन्थानं ब्रूहीति ब्रुवतोक्तं भवति कतमः पन्था इति. एवं धर्मान् वदेति ब्रुवतोक्तं भवति कतमे धर्मा इति. परिपृच्छ्यैव च व्याकरणात् बहवो धर्माः कतमान् वदामीति परिपृच्छ्यैव तस्य प्रश्नस्य तेषां वा धर्माणां व्याकरणात्. धर्मबहुत्वं व्याकृतम् इति कृत्वा. कथं न परिपृच्छाव्याकरणम् इति. परिपृच्छ्यव्याकरणम् [तिब् 128अ] इत्य् अर्थः. तत्र यद् उक्तं तयोश् च न किंचित् व्याक्रियते केवलं परिपृछ्येते यावत् कथं च व्याकरणम् इति. तद् अयुक्तं. आचार्य आह. सूत्रान्ताद् एवेति विस्तरः. एवं तु सूत्रे व्याकृतं. संस्कृतेन व्यवस्थाप्य पठ्यते. संचेतनीयं कर्म कृत्वा किं प्रतिसंवेदयते. किं सुखं दुःखम् अदुःखासुखम् इत्य् एवं पृष्टेन विभज्यव्याकरणीयः
(अभिध्-क्-व्य् 467) प्रश्नः. संचेतनीयस्य कुशलादिभेदात्. कुशलसास्रवं संचेतनीयं कर्म कृत्वा सुखम् अदुःखासुखं वा प्रतिसंवेदयते. अकुशलसंचेतनीयं कर्म कृत्वा दुःखं प्रतिसंवेदयत इति. सचेद् एवं वदेद् औदारिकम् इति रूपि. विस्तरः प्रभेदो न भवति यावद् अन्यो जीव इति. यावच्छब्देन सर्वं वक्तव्यं. न भवति तथागतः परं मरणाद्. भवति च न भवति च तथागतः परं मरणात्. नैव भवति न न भवति तथागतः परं मरणात्. स जीवस् तच् छरीरम्. अन्यो जीवो ऽन्यच् छरीरम् इति.
(v.23, 24) स तेन तस्मिं संयुक्त इति. पुद्गलस् तेनानुशयेन बद्ध इति ज्ञायत एवेत्य् अर्थः. स्वलक्षनाक्लेशाश् [तिब्. 128ब्] चेति. स्वलक्षणं सुखवेदनीयादि वस्तु. तत्र रागः सुखवेदनीयम् एव वस्तु आलंब्योत्पद्यत इति. स्वलक्षणक्लेश इत्य् उच्यते. तेन सुखवेदनीयेन वस्तुनालंब्यमानेनोन्नतिर् भवतीति मानो ऽपि स्वलक्षणक्लेशः. तथा दुःखवेदनीयं वस्त्व् आलंब्य प्रतिघ उत्पद्यत इति प्रतिघो ऽपि स्वलक्षणक्लेश इत्य् उच्यते. सामान्यक्लेशाश् च. दृष्टिविचिकित्सादयः सामान्याः सामान्येन वा क्लेशाः सामान्यक्लेशाः. एते ह्य् अविशेषेण सुखवेदनीयादिके वस्तुन्य् उत्पद्यंत इति. अतस् तद् आलंब्य उत्पन्नाः सामान्यक्लेशा इत्य् उच्यंते.
अतीतप्रत्युपस्थितैर्
इति. अतीतवर्तमानैः. रागप्रतिघमाना यस्मिं वस्तुन्य् उत्पन्ना इति विस्तरः. एते रागादयः षड्विज्ञानकायिका अप्य् अविशेषाभिध्यानाद् यथायोगं यस्मिं वस्तुन्य् उत्पन्नास् त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद् भावनाप्रहातव्ये. न च प्रहीणाः. तस्मिन् वस्तुनि तै रागादिभिः संयुक्तः. दाम्नेव बलीवर्दः कीलके. एते हि स्वलक्षणक्लेशत्वान् न सर्वस्य पुद्गलस्यावश्यं सर्वत्रोत्पद्यन्त इति. कस्यचित् कस्मिंश्चिद् उत्पद्यंत इत्य् अर्थः. अतो
यत्रोत्पन्नाप्रहीणास् त
इति तद्विशेषणं. अप्रहीणा इति विशेषणं. यस्माद् यै रागादिभिर् यस्मिन् वस्तुनि [तिब्. 129अ] संयुक्त आसीत्. यदि ते प्रहीणा भवेयुर् न तैः सर्वत्र संयुक्तः. प्रहीणेन निरनुशयविषयत्वात्.
सर्वत्रानागतैर् एभिर् मानसैर्
इति मानसग्रहणं.
स्वाध्विके परैर्
इति पंचविज्ञानकायिकानाम् अन्यथा व्यवस्थाप्यमानत्वात्. रागप्रतिघविशेषणं (अभिध्-क्-व्य् 468) चैतत्. मानस्यावश्यं मानसत्वात्. एभिर् अनागतैः सर्वत्र त्रैयध्विके पंचनैकायिके ऽपि यथास्वं संयुक्तः. न हि तत् सास्रस्वं वस्तु. यत् स्वलक्षणक्लेशेनापि रागेण न सरागं. द्वेषेन च न सद्वेषं. मानेन च न समानं. सर्वसास्रववस्त्वालंबना हि यथास्वं अपरिमिता अनागता रागादयो भवंति. अन्यै रागप्रतिघैर् अनागतैर् अनागत एव वस्तुनि संयुक्त इति. सर्वे चित्तचैत्ता आलंबने नियता इति. तैर् उत्पत्तिधर्मिभिर् अनागत एव वस्तुनि संयुक्तः. वर्तमानविषयत्वात् पंचानां विज्ञानकायानां. रागप्रतिघैर् इति मानवचनं मानानां मानसत्वात्.
समानमिद्धा दृग्घेया मनोविज्ञानभूमिका
इति वचनात्. पंचविज्ञानकायिकैर् अपि न केवलं मानसैर् इत्य् अपिशब्दो द्योतयति. तैर् अनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः. एते ह्य् अनुत्पत्तिधर्मिणो ऽनागत एवाध्वनि व्यवतिष्ठंते. [तिब्. 129ब्] एषां चालंबनानि संचरंति. ससंप्रयोगा हि क्लेशाः सुवर्चलावद् अनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठंते. तथा ह्य् अनुत्पत्तिधर्मिणो नैवालंबनम् आलंब्योत्पद्यंत इति. अतः केषांचिद् आलंबनम् अतीतं. केषांचिद् वर्तमानं. केषांचिद् अनागतं भवति. न ह्य् आलंबनानुत्पत्तित एव तेषाम् अनुत्पत्तिः. किं तरि. प्रत्ययवैकल्यात्. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति सिद्धांतः.
शेषैस् तु सर्वैः सर्वत्र संयुत
इति. त्रैयध्विकैर् अपि दृष्ट्यादिभिर् अनेकनैकायिकैर् अपि त्रैयध्विके पंचप्रकारे ऽपि वस्तुनि संयुतः संयुक्त इत्य् अर्थः. किं कारणम् इत्य् आह. सामान्यक्लेशत्वाद् इति. एते हि सर्वस्य सर्वस्मिन् संभवंति. पंचोपादानस्कंधालंबनत्वात्.
(v.25) कथं तत्र तेन च संयुक्त इति. कथम् अतीतानागते वस्तुनि. तेन चातीतानागतेनानुशयेन संयुक्त इति. विसंयुक्तो वा. कथं वा अप्रहीणप्रहीणावस्थायां व्यवस्थाप्यंते. संस्कृतलक्षणयोगाद् इति. यस्मात् संस्कृतलक्षणानि जात्यादीनि संस्काराणाम् अर्थसंचाराय प्रवर्तन्ते. अतस् तेषां अशाश्वतत्वं प्रतिज्ञायते. रूपं चेद् भिक्षव इत्य् अस्य सूत्रस्यायम् आदितः पाठः. रूपम् अनित्यम् अतीतानागतं. कः पुनर् वादः प्रत्युत्पन्नस्य. एवंदर्शी श्रुतवान् आर्यश्रावकः अतीते रूपे ऽनपेक्षो भवति. अनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नस्य रूपस्य निर्विदे [तिब्. 130अ] विरागाय निरोधाय प्रतिपन्नो भवति. अतीतं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको अतीते रूपे ऽनपेक्षो ऽभविष्यत्. यस्मात् तर्ह्य् अस्त्य् अतीतं रूपं. तस्माच् (अभिध्-क्-व्य् 469) छ्रुतवान् आर्यश्रावको अतीतरूपे ऽनपेक्षो भवति. अनागतं चेद् रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत्. यस्मात् तर्ह्य् अस्त्य् अनागतं रूपं. तस्माच् छ्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यद् इति विस्तरः. न श्रुतवान् आर्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यद् इति. निर्विषयत्वाद् वैराग्यकाले ऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर् न स्याद् इत्य् अर्थः. यदातीतं रूपम् अपेक्ष्यते. तदा तत्रासक्तिर् इति. अभ्यनन्दिष्यद् इत्य् अभ्यलषिष्यत्. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावकः प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो ऽभविष्यद् इत्य् एतन् नोक्तम् उभयपक्षप्रसिद्धत्वात्.
द्वयाद्
इति पूर्वं कण्ठत उक्तम् इति प्रदर्शितम्. इदानीम् अर्थतो न कण्ठत इति विशेषः. [तिब्. 130ब्] न द्वयं प्रतीत्य मनोविज्ञानं स्यात्. यद् अतीतानागतालंबनम् इति विशेषः. ततो विज्ञानम् एव न स्यात् आलंबनाभावाद् इति. विज्ञेये सति विज्ञानम् इति कृत्वा. साधनं चात्र. सदालंबनम् एव मनोविज्ञानम्. उपलब्धिस्वभावत्वात्. चक्षुर्विज्ञानवद् इति.
फलाद्
इति. विद्यमानस्वलक्षणं शुभाशुभम् अतीतं कर्म. विपक्तिकाल उत्पद्यमानफलत्वात्. वर्तमानधर्मवद् इति.
(v.26) भावान्यथात्वं भवतीति. अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवतीत्य् अर्थः. न द्रव्यान्यथात्वं. न रूपादिस्वलक्षणस्यान्यथात्वम् इत्य् अर्थः. अनागतो हि वर्तमानम् अध्वानं प्रतिपद्यमानो ऽनागतभावं जहाति. वर्तमानभावं प्रतिलभते. वर्तमानो ऽप्य् अतीतं. सुवर्णं क्षीरं चेति दृष्टांतद्वयं यथाक्रमं आकृतिगुणान्यथात्वज्ञापनार्थं. लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः. अत एवाह. धर्मो ऽध्वसु प्रवर्तमानो ऽतीतो ऽतीतलक्षणयुक्तः. अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्याम् अवियुक्त इति विस्तरः. यद्य् अनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. एवं सति नानागतम् एवोत्पन्नम् अतीतम् वेति स्यात्. अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. नानागतं वर्तमानं चातीतं स्यात्. वर्तमानम् अतीतानागताभ्यां वियुक्तं स्यात्. अनागतम् एव वर्तमानं वर्तमानम् एवातीतं स्यात् लब्धवृत्तिना हि लक्षणेन युक्तो व्यवस्थाप्यते. तदन्येनावियुक्तो न विरहित इत्य् अर्थः. अत एवोदाहरति. (अभिध्-क्-व्य् 470) तद्यथा. पुरुष एकस्यां स्त्रियां रक्तः [तिब्. 131अ] शेषास्व् अविरक्त इति. एकस्यां स्त्रियाम् अस्य रागाध्यवसानं वर्तते. शेषासु स्त्रीषु रागप्राप्तिर् एवास्ति. न समुदाचार इति. अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः. यस्याम् अवस्थायां सो धर्मः कारित्रं न करोति. तस्याम् अनागत उच्यते. यस्यां करोति. तस्यां वर्तमानः. यस्यां कृत्वा निरुद्धः. तस्याम् अतीत इत्य् अवस्थां अवस्थां प्राप्य अन्यो ऽन्यो निर्दिश्यते. अनागतावस्थां प्राप्यानागतो यावद् अतीतावस्थां प्राप्यातीत इति. अवस्थान्तरतः. न द्रव्यांतरत इति अभिन्नलक्षणो ऽनागताद्यवस्थाप्राप्तो
ऽनागतादिशब्दनिर्देशः केवलं भवतीत्य् अर्थः. अत एवोदाहरति. यथैका वर्तिकेति विस्तरः. यथैका गुलिका एकांके निक्षिप्ता एकस्थाने स्थापिता एकम् इत्य् उच्यते. एवं शतांके शतं. सहस्रांके सहस्रम् इत्य् उच्यते. अवस्थांतरापेक्षया. न पुनस् तस्याः स्वभावान्यथात्वं. किं तर्हि. स्थानांतरविशेषात् संख्याभिद्योतकं संज्ञांतरम् उत्पद्यत इति. पूर्वापरम् अपेक्ष्यान्योन्य उच्यत इति. पूर्वम् अपरं चापेक्ष्यतीतानागतवर्तमाना उच्यंत इत्य् अर्थः. पूर्वम् एवातीतं वर्तमानं वापेक्ष्यानागत [तिब्. 131ब्] इति. पूर्वं वातीतं अपरं वानागतम् अपेक्ष्य वर्तमान इति. अपरम् एव वर्तमानम् अनागतं वापेक्ष्यातीत इति. पूर्वापरापेक्षो ऽन्यथान्यथिकस्य व्यवहारः. अत एवोदाहरति. यथैका स्त्री माता वोच्यते दुहिता चेति. यथैका स्त्री दुहितरम् अपेक्ष मातेत्य् उच्यते. मातरम् अपेक्ष्य दुहिता चेति. पूर्वापरापेक्षया न द्रव्यांतरतः. सांख्यपक्षे निक्षेप्तव्य इति. यः सांख्यपक्षे प्रतिषेधः. स एव तत्पक्षस्य प्रतिषेधः. सांख्यपक्षः प्रतिषिद्ध इत्य् अभिप्रायः. द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसंकरः प्राप्नोति. यो ऽतीताध्वाभिप्रेतः. स वर्तमानः अनागतो ऽपि प्राप्नोति. कथं कृत्वा. ऽतीते अतीतलक्षणयुक्तो भवन्न् अनागतवर्तमानलक्षणाभ्याम् अवियुक्तः. युक्त एवेत्य् अर्थः. अनागतो ऽप्य् अनागतलक्षणयुक्तः अतीतवर्तमानलक्षणाभ्याम् अवियुक्तः. वर्तमानो ऽपि वर्तमानलक्षणयुक्तो ऽतीतानागतलक्षणाभ्याम् अवियुक्त इति कृत्वा. एकैकस्य त्रिलक्षणयोगात् अतीतो ऽनागतो वर्तमानश् च प्राप्नोति. इत्य् एवम् अनागतवर्तमानाव् अपि योज्यौ. किम् अत्र साम्यम् इति. पुरुषस्य कस्यांचित् केवलं समन्वागमः.
किम् एवं धर्मस्यैकं लक्षणं विद्यते. इत एव लक्षणे [तिब्. 132अ] न विद्येते. यत एवम् उदाह्रियत इति असाम्यं. चतुर्थस्यापि भदंतबुद्धदेवस्यापि एकस्मिन्न् एवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्तीति. एकस्मिन्न् एवतीते (अभिध्-क्-व्य् 471) ऽध्वनि पूर्वापरक्षणव्यवस्थास्ति. तत्र पूर्वपश्चिमौ क्षणाव् अतीतानागतौ. पूर्वः क्षणो ऽतीतः पश्चिमो ऽनागतः. मध्यमः प्रत्युत्पन्नः. इत्य् अतीते ऽध्वनि त्रयो ऽध्वानः प्राप्नुवंति. अत एषां सर्वेषां
तृतीयः शोभन
इति वैभाषिकः. कथं कृत्वा शोभन इत्य् आह. यस्मात् तस्य
अध्वानः कारित्रेण व्यवस्थिताः.
कारित्रं पुनः चक्षुरादीनां दर्शनादीनीति. रूपादीनाम् अपि स्वेन्द्रियगोचरत्वं कारित्रं. गद्य् एवम् इति विस्तअरः. यदि कारित्रेण व्यवस्थापिताः. तत्सभागस्य चक्षुषः किं कारित्रं. यद् धि कारित्रलक्षणं स्वकर्म न करोति तत् तत्सभागः. तस्य च नास्ति कारित्रं दर्शनलक्षणं. कथं तत् प्रत्युत्पन्नम् इत्य् अभिप्रायः. फलदानप्रतिग्रह इति. तच् चक्षुः स्वनिष्यन्दफलं परिगृह्णाति आक्षिपति. फलं च ददाति निष्यन्दफलम् अनंतरं ददाति. पुरुषकारफलं च. यद्य् अपि दर्शनकारित्रं न करोति. अन्यत् तु फलं करोतीति. तस्य फलदानपरिग्रहसद्भावात् तत् प्रत्युत्पन्नम् इति व्यवस्थाप्यते. [तिब्. 132ब्] अतीतानाम् अपि तर्हि सभागहेत्वादीनाम् इति. आदिशब्देन विपाकहेत्वादीनां परिग्रहणं. तेषां फलदानात्.
वर्तमानाभ्यतीतौ द्वाव् एको ऽतीतः प्रयच्छति
इति वचनात्. कारित्रप्रसंगः. कारित्रम् अस्तीति. ततश् चैषां सभागहेत्वादीनां अतीतानां वर्तमानत्वप्रसंगः. वर्तमानवत् कारित्रसद्भावाद् इति लक्षणसंकरः. ब्रूयास् त्वं येषां फलपरिग्रहः फलदानं चोभयम् अस्ति. ते वर्तमानाः. येषां त्व् एकतरं. न ते वर्तमाना इति. तत इदम् उच्यते. अर्धकारित्रस्य वेति. प्रसंग इत्य् अधिकृतं. अर्धकारित्रस्य वा प्रसंगः. अर्धवर्तमाना इति वा ते ऽतीताः प्रसज्यंते. उपरतफलपरिग्रहकारित्रत्वाद् धि ते ऽतीतलक्षणयुक्ताः. वर्तमानफलदानकारित्रत्वाच् च वर्तमानलक्षणयुक्ता इति. स एव लक्षणसंकरदोषः. एतद् ध्य् अतीतादीनाम् अध्वनां लक्षणम् इष्टं. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतं प्राप्तानुपरतकारित्रं वर्तमानम् इति.
(v.27) किं विघ्नम्
इति. नपुंसकलिंगम् एतच्छब्दरूपं. को विबन्ध इत्य् अर्थः. को विघ्नो ऽस्येति किं विघ्नं कारित्रम् इत्य् अपरे. प्रत्ययानाम् असामग्र्यम् इति चेत्. तत्रैतत् स्यात्. प्रत्ययानां हेतुसमनंतरादीनाम् असामग्र्यम्. अतो न सर्वदा कारित्रं करोतीति. न. नित्यम् अस्तित्वाभ्युपगमात्. [तिब्. 133अ] न प्रत्ययानाम् असामग्र्यं कल्पयितुं युज्यते. यस्माद् इह भवद्भिर् नित्यं प्रत्ययानाम् (अभिध्-क्-व्य् 472) अस्तित्वम् अभ्युपगम्यते. सताम् अविनाशात्. यच् च तत् कारित्रम् अतीतम् इति विस्तरः. यच् च कारित्रम् अतीतम् उच्यते अनागतं प्रत्युत्पन्नम् इति चोच्यते सिद्धांते उपरतकारित्रम् अतीतम् इत्य् एवमादिवचनात्. किं कारित्रस्याप्य् अन्यत् कारित्रम् अस्ति. यतस् तस्यातीतादित्वं कथ्यते. यद्य् अस्त्य् अनवस्थाप्रसंगः. न चेद् अस्ति अथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया एवं भावानाम् अप्य् अनागतादित्वं भविष्यति. किं कारित्रकल्पनया. कथं तद् अतीतम् इत्यादि. अथ तन् नैवातीतम् इति विस्तरः. यन् नैवातीतं नाप्य् अनागतं न प्रत्युत्पन्नं तद् असंस्कृतम् इत्य् असंस्कृतत्वान् नित्यम् अस्तीति प्राप्तं. कारित्रम् इत्य् अधिकृतं. ततः किम् इत्य् आह. अतो न वक्तव्यं. यदा कारित्रं न करोति धर्मस् तदानागत इति. कारित्रस्य कर्तुम् अशक्यत्वप्राप्तेः. स्याद् एष दोष इति विस्तरः. स्याद् एष दोषः कारित्रस्यान्यत् कारित्रम् इत्य् अतिप्रसंगो ऽसंस्कृतत्वप्रसंगो वा यदि धर्मात् कारित्रम् अन्यत् स्यात्. तत् तु खलु नान्यद् इति. नैष दोषः. तेनैवात्मनेति. यः प्रत्युत्पन्नस्य स्वभावः. तेनेत्य् अर्थः. किम् अस्य पूर्वं नासीद् इत्य् अनागतावस्थायां. यदि कारित्रम् अनन्यत्वाद् धर्म एव नासीद् इत्य् उक्तं भवत्. किं च पश्चान् नास्तीत्य्
अतीतावस्थायां. यदि कारित्रं [तिब्. 133ब्] धर्म एव नास्तीत्य् उक्तं भवेत्. धर्मकारित्रयोर् अनन्यत्वात्. यद्य् अभूत्वा भवतीति नेष्यते प्रत्युत्पन्नो न सिध्यति. भूत्वा च पुनर् न भवतीति यदि नेष्यते अतीतो ऽध्वा न सिध्यति. अनागतस् तु यो न तावद् अभूत्वा भवतीत्य् अर्थाद् गम्यते एवम् अध्वत्रयं सिध्यत्य् अतो ऽन्यथा न सिध्यतीत्य् वाक्यार्थः. उत्पादविनाशयोर् अयोगाद् इति. सर्वकालास्तित्वाद् उत्पादविनाशयोर् अयोगः. तस्माद् वाङ्मात्रम् एतत् संस्कृतलक्षणयोगान् न शाश्वतत्वप्रसंग इति. अपूर्वैषा वाचो युक्तिर् इति. पूर्वापरविरुद्धैषा वाचो युक्तिर् इत्य् अर्थः. सर्वदा चास्त्य् उत्पादविनाशाभ्यां च युज्यत इति.
स्वभावः सर्वदा चास्तीति.
यद् रूपादेः स्वलक्षणं. तत् सर्वस्मिन् काले विद्यत इतीष्यते. यदि रूपादेः स्वभावः सर्वदास्ति तेन रूपादिभावो नित्यः प्राप्नोति. अत आह.
भावो नित्यश् च नेष्यते.
एवं सति तस्मात् स्वभावाद् भावो नूनम् अन्य इति. अत आह.
न च स्वभावाद् भावो ऽन्य
इति. तद् इदमिच्छामात्रत्वात्
व्यक्तम् ईश्वरचेष्टितं.
नात्र युक्तिर् अस्ति. अतीतं तु यद् भूतपूर्वम् इति. न स्वलक्षणेनास्तीति दर्शयति. (अभिध्-क्-व्य् 473) अनागतं यत् सति हेतौ भविष्यतीति. अविद्यमानम् [तिब्. 134अ] अपि हेतुसद्भावाद् व्यवस्थाप्यत इति दर्शयति. एवं हि कृत्वास्तीत्य् उच्यत इति. भूतपूर्वं भविष्यति चेति कृत्वा. न तु पुनर् द्रव्यत एवं भवति. हेतुफलापवाददृष्टिप्रतिषेधार्थम् इति. हेत्वपवाददृष्टिप्रतिषेधार्थम् अस्त्य् अतीतम् इत्य् उक्तं. फलापवाददृष्टिप्रतिषेधार्थम् अस्त्य् अनागतम् इति. आसीद् अतीतं भविष्यत्य् अनागतम् इति वक्तव्ये ऽस्तीति वचनम् अस्तिशब्दस्य निपातत्वात्. त्रिकालविषयो हि निपातः. आसीदर्थे भविष्यदर्थे ऽपि वर्तते. यथास्ति दीपस्येति विस्तरः. यथास्ति दीपस्य प्राग् अभावो ऽस्ति पश्चाद् अभाव इति वक्तारो भवंति. न च द्रव्यतो ऽस्ति. यथा चास्ति निरुद्धः. स प्रदीपो न तु मया निरोधित इति वक्तारो भवंति. न चास्तिप्रयोगान् निरुद्धो ऽप्य् असाव् अस्तीति. ननु च वैधाषिकस्य निरुद्धो ऽप्य् असाव् अस्तीति. सत्यम् अस्ति. न तु प्रदीपरूपताम् एव भिभ्राणः सो ऽस्ति. एवम् अतीतानागतम् अस्तीत्य् उक्तं असत्य् अपि द्रव्यसत्त्वे. अन्यथा ह्य् अतीतानागत एव न सिध्येत्. यदि तेनैव लक्षणेन विद्येतातीतानागत एव न सिध्येद् इत्य् अर्थः. यद्य् अतीतं भूतपूर्वं यत् तर्हि लगुडशिखीयकान् इति विस्तरः. लगुडशिखीयकैः परिव्राजकैर् नार्यो निदानं. नालंदाया [तिब्. 134ब्] बुद्धभाषितं च सूत्रं. संयुक्तकागमे च. आर्यमहामौद्गल्यायनश् च मारित इत्य् आहुर् अभियुक्ताः. यतो नो मारित इत्य् अत्र सूत्र एवं पठ्यते. लगुडशिखीयकाः परिव्राजका आनंतर्यकारिणो यत् कर्माभ्यतीतं. तन् नास्तीत्य् एवंवादिन इति विस्तवः. किं
ते लगुडशिखीयकाः परिव्राजकास् तस्य कर्मण आनंतर्यस्य भूतपूर्वत्वं नेच्छंति. एतद् उक्तं भवति. इच्छंति स्म ते तस्य कर्मणो भूतपूर्वत्वं. किं तु न द्रव्यम् इति तस्मिं कर्मणि ते विप्रतिपन्नाः. नास्ति तत् कर्माभ्यतीतम् इति. यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे. तत् कर्माभ्यतीतम् अस्तीति विस्तरेण. तस्माद् अस्ति स्वभावेनातीतम् इति विस्तरः. तत्र पुनः सूत्रे यद् भूतपुर्वं कर्म. न तद् एवातीतम् इत्य् अभिसंधायोक्तं तत् कर्मास्तीति. किं तर्हि. तदाहितं तेन भूतपूर्वेण कर्मणा आहितम् अर्पितं. तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् इत्य् अनेनाभिप्रायेणोक्तम् इति. कथं गम्यत इत्य् आह. अन्यथा हि स्वेन भावेन विद्यमानम् अतीतं न सिध्येद् इति. स्वलक्षणेन विद्यमानं तत् कर्म प्रत्युत्पन्नलक्षणेन विद्यमानम् अतीतम् इति न सिध्येत्. प्रत्युत्पन्नम् एव सिध्येद् इत्य् अभिप्रायः. तदाहितम् इति विस्तरेणैवम् (अभिध्-क्-व्य् 474) उच्यमाने ऽभ्यतीतं तत् कर्मास्तीति सिध्यति. इत्थं चैतद् एवम् इति. यथानागतं [तिब्. 135अ] द्रव्यतो नास्त्य् अतीतं चेति. वर्तमाने ऽध्वनीति विस्तरः. वर्तमानभावेनाभूत्वा भवतीत्य् अर्थः. न. अध्वनो भावाद् अनर्थांतरत्वात्. नैव तद् एवम्. अध्वनः प्रत्युत्पन्नस्य भावाच् चक्षुःसंज्ञकाद् अनर्थांतरत्वात्. अद्रव्यांतरत्वाद् इत्य् अर्थः. य एव वर्तमानो ऽध्वा. स एव भावः. तत् कथं स एव वर्तमानः स्वात्मन्य् अध्वय् अभूत्वा भविष्यति. तथा ह्य् उक्तं
त एवाध्वा कथावस्त्व्
इति. अथ स्वात्मनि चक्षुषि चक्षुर् अभूत्वा भवति सिद्धम् इदम् अनागतं चक्षुर् नास्तीति. आलंबनमात्रम् इति. मात्रशब्दो जनकत्वव्यावर्तनार्थः. तद्रूपोत्पत्तेर् आलंबनं धर्मा इत्य् अभिप्रायः. यद् अनागतं सहस्रैर् इति. संनिकृष्टम् अप्य् अनागतं जनकं न युज्यते. किम् अंगातिचिरेण कालेन यद् भविष्यति. न हि पूर्वकालीनस्य फलस्य पश्चात्कालीनो हेतुर् युज्यत इति. निर्वानं चेति. निर्वाणं हि विज्ञानं निरुद्धान् न जनयेत्. संसारप्रवृत्तिनिरोधाद् इत्य् अभिप्रायः. अभूद् भविष्यति चेति. यद् वर्तमानावस्थायां रूपम् अभूत् भविष्यति च. तद् आलंबनम् इत्य् अर्थः. कथं ज्ञायते एवं तद् आलंब्यते न पुनर् अस्तीत्य् [तिब्. 135ब्] अत आह. न हि कश्चिद् अतीतं रूपं वेदनां वा स्मरन्न् अस्तीति पश्यति. किं तर्हि. अभूद् इति स्मरति तद् रूपं यथादृष्टं यथानुभूतां च वेदनां चक्षुर्विज्ञानानुभवबलेन. यथा खल्व् अपीति विस्तरेणाचार्य एवोपचयहेतुम् आह. वर्तमानरूपम् इव भूतं भविष्यच् च गृह्यत इत्य् अभिप्रायः. यदि च तथैवास्तीति यथा वर्तमानं. वर्तमानं तत् प्राप्नोति. अथ नास्ति तत् तथैव असद् अप्य् आलंबनं भवतीति सिद्धं. वर्तमानवद्रूपस्याभावात्. तस्य च स्मर्यमाणत्वात्. तद् एव तद्विकीर्णम् इति. यद् एव तद् वर्तमानं. तद् एव विकीर्णम् अतीतानागतं. न. विकीर्णस्याग्रहणाद् इति. न युक्तम् एतत्. विकीर्णस्याग्रहणात्. पूर्वं न विकीर्णम् इदानीं विकीर्णम् एतद् रूपम् इत्य् एवम् अस्याग्रहणात्. यदि च तत् तद् एवेति विस्तरः. यदि च वर्तमानावस्थायां पिण्डीभूतं रूपं. तद् अतीतावस्थायाम् अनागतावस्थायां च परमाणुशो विभक्तम् अतो न वर्तमानवत् गृह्यते. एवं सति तादवस्थ्यान्
नित्याः परमाणवः स्युः. अनागताः प्रत्युत्पन्ना अतीताश् च त एव त इति. एवं च सति परमाणुसंचयविभागमात्रम् एव प्राप्नोति. न तु कश्चिद् उत्पादो नापि निरोध इत्य् आजीविकानां पाषण्डिनां वादः परिगृहीतो भवति. तथा चेष्यमाणे सूत्रम् अपास्तं भवति. चक्षुर् भिक्षव उत्पद्यमानम् (अभिध्-क्-व्य् 475) न कुतशिच्द् आगच्छति. निरुध्यमानं न क्वचित् संनिचयं गच्छति. इति हि भिक्षवश् चक्षुर् [तिब्. 136अ] अभूत्वा भवति भूत्वा च प्रतिविगच्छतीति. कथक्ं पुनर् इदं सूत्रम् अपविद्धं विरोधितं भवति. यस्माच् चक्षुर् उत्पद्यमानं स्वेन रूपेण न कुतश्चिद् आगच्छतीत्य् एतत् पदं बाधितं भवति. निरुध्यमानं न क्वचित् संनिचयं गच्छतीत्य् एतद् अपि पदं बाधितं भवति. अतीते ऽध्वनि तत्परमाणूनां विप्रकीर्णसंचितत्वाभ्युपगमात्. अपरमाणुसंचितानाम् इति. वेदनादीनाम् अपरमाण्वात्मनां कथं विप्रकीर्णत्वं. मूर्तानां हि संचितत्वं विप्रकीर्णत्वं वाभवद् भवेन् नामूर्तानां. ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्त इति. वर्तमानरूपा एव स्मर्यन्ते. यदि च ते तथैव संति. यथा वर्तमाना नित्याः प्राप्नुवंति. अथ न संति तद्रूपाः असद् अप्य् आलंबनम् इति सिद्धं. त्रयोदशम् अप्य् आयतनम् आलंबनं स्याद् इति. त्रयोदशानाम् आयतनानां पूरणं त्रयदशम् आयतनं. तद् विज्ञानस्यालंबनं स्यात्. असदालंबनत्व इष्यमाणे तदालंबनं वा विज्ञानं स्यात्. एवं वैभाषिकेणोक्ते आचार्य आह. अथ त्रयोदशम् इति विस्तरः. एतद् एव नामेति वैभषिकाः. यद् एतन् नाम त्र्योदशम् आयतनम् इति. तद् आलंबनं. एवं तर्हि नामैव नास्तीति [तिब्. 136ब्] प्रतीयेत. नाभिधेयं त्रयोदशायतनाभावलक्षणं. किं
च यश् च शब्दस्य प्रागभावम् आलंबते. किं तस्यालंबनं. भवतीति वाक्यशेषः. एवं प्रकृते वैभाषिक आह. शब्द एवालंबनम् इति प्रकृतं. एवं तर्हीति विस्तरेणाचार्यः. यः शब्दस्य प्रागभावम् आलंबते. शब्द एव तेनालंबितो भवति. न प्रागभावः. प्राप्तम् इदं भवति. यः शब्दाभावं प्रार्थयते. तस्य शब्द एव कर्तव्यः स्याद् इति. अनागतावस्थ इति चेत् स्यान् मतं. यस्यासौ प्रागभावः. सो ऽनागतावस्थस् तेनालंब्यते. तस्माद् यः शब्दाभावं प्रार्थयते. न तस्य शब्द एव कर्तव्यः स्याद् इति. तद् उच्यते. सति कथं नास्तीति बुद्धिर् इति. विद्यमाने तस्मिं शब्दे यस्यासौ प्रागभावः कथम् अस्य नास्तिबुद्धिर् या प्रागभावम् आलंबते. वर्तमानो नास्तीति चेत्. तत्रैतत् स्यात् वर्तमानो नास्तीत्य् एवं तदालंबनान् नास्तिबुद्धिस् तस्योत्पद्यत इति. न. एकत्वात्. यद् एव तद् अनागतं. तद् एव वर्तमानं भवति. न तस्माद् अन्यद् इति. कथं तस्मिन्न् एव वर्तमाने नास्तिबुद्धिर् उत्पद्यते. यो वा तस्य विशेषः. यो वा तस्यानागतस्य पश्चाद् विशेषो वर्तमानावस्थायां भवति. तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धिर् उत्पद्यते. ऽतस्याभूत्वाभावसिद्धिः. तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः. तस्य सिद्धिर् इति. [तिब्. 137अ] भावश् चाभावश् चेति. भावो वर्तमानावस्थ्यायाम् अभावो ऽतीतानागतावस्थयोः. इति विज्ञानस्योभयम् आलंबनं भवति. यद्य् अभावो विज्ञानस्यालंबनं यत् तर्हीति विस्तरः. (अभिध्-क्-व्य् 476) बोधिसत्त्वेन चरमभविकेनैवम् उक्तं. यल् लोकेनास्ति. तज् ज्ञास्यामीत्य् एष संभवो नास्तीति वचनाद् अभावालंबनं न भवतीति दर्शितं भवति. आचार्यो ऽन्याभिप्रायताम् अस्य सूत्रस्य
दर्शयन्न् आह्. अपरे आभिमानिका इति विस्तरः. अपरिशुद्धसमाधयो ऽपरे आभिमानिका भवंति. असंतम् अप्य् अवभासं दिव्यचक्षुरवभासं प्रयोगावस्थायां संतम् इत्य् एव पश्यंति. अहं तु सन्तम् एवावभासं पूर्वरूपं दिव्यचक्षुषो ऽस्तीति पश्यामीत्य् अयं तत्र सूत्रे ऽभिप्रायः. कुतो ऽस्य विमर्श इति. सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतो ऽस्य विमर्शविचारः संदेहो वा स्यात्. यद् उत लोके नास्तीति विस्तरेण य उक्तः. सदसदालंबने तु बुद्धीनाम् अयं विमर्शः संभवति. नान्यथा. को वा विशेष इति. को वा बोधिसत्त्वस्यान्येभ्यो विशेषः यदि ते ऽपि सन्तम् एवावभासं पश्यंति नासंतं. सदसदालंबनत्वे हि बुद्धीनाम् अयं विशेषो भवति. इत्थं चैतद् एवं [तिब्. 137ब्] सत्. असदालंबना बुद्धय इति. सच् च सतो ज्ञास्यत्य् असच् चासत इतीदम् अत्रोदाहरणं. सच् च वस्तु सत्त्वतः परैष्यति ज्ञास्यति असच् चासत्त्वत इत्य् असदालंबना बुद्धय इति सिद्धं. तस्माद् अयम् अप्य् अहेतुर् इति. यद् एतद् बोधिसत्त्वेनोक्तम् इति. तत्पूर्वकाद् इति. कर्मपूर्वकात् चित्तसंतानविशेषात्. आत्मवादप्रतिषेध इति. शास्त्रावसाने वात्सीपुत्रीयमतप्रतिषेधे. उत्पादस् तर्हि अभूत्वा भवतीति. उत्पादः पूर्वं नास्तीदानीं भवतीति सिद्धो ऽपूर्वप्रादुर्भावः. उत्पादस्योत्पादवता सह तुल्यवार्त्तत्वात्. अथ सर्व एवस्तीति. उत्पादो ऽपि यद्य् अस्ति न केवलं हेतुर् अनागतं च फलम् इत्य् अभिप्रायः. कस्येदानीं क्व सामर्थ्यम् इति. कस्य हेतोः क्व फले सामर्थ्यं. हेतुश् च यथोक्तः उत्पादः फलं चानागतम् अस्तीति. वर्तमानीकरण इति वैभाषिकः. किम् इदानीं वर्तमानीकरणम् इति विस्तरेणाचार्यः. नोत्पादो वर्तमानीकरणं.
तस्य विद्यमानत्वात्. अत एवं पृच्छति. देशांतराकर्षणं चेत्. यदि मन्यसे हेतुना फलस्य देशांतराकर्षणं वर्तमानीकरणम् इति. अत्र ब्रूमः. नित्यं प्रसक्तं फलम् इति वाक्यशेषः. केवलं देशांतराद् देशांतराकर्षणं. न किंचिद् अपूर्वम् उत्पद्यत इति. नित्यं प्रसक्तं. अरूपिणां च [तिब्. 138अ] वेदनादीनां. कथं तद्देशांतराकर्षणा. अमूर्तत्वेनादेशस्थत्वान् न तद् युज्यत इत्य् अभिप्रायः. यच् च तदाकर्षणं क्रियासंज्ञकं. तद् अभूत्वा भूतम् इत्य् अभूत्वाभावसिद्धिर् इत्य् अभिप्रायः. स्वभावविशेषणं चेत्. यदि मन्यसे हेतुना स्वभावो ऽस्य फलस्य विशेष्यते. तेन फलविशेषणं. भवतीति. अत्र ब्रूमः. सिद्धम् अभूत्वाभवनम् इति. सिद्धम् अभूत्वा विशेषणस्य (अभिध्-क्-व्य् 477) भवनं प्रादुर्भाव इति. अध्वत्रयं वा. किं. सर्वम् अस्तीत्य् अधिकृतं. यथात्र तद् अस्ति तथोक्तम् इति. यद् भूतपूर्वं तद् अतीतं. यत् सति हेतौ भविष्यति. तद् अनागतं. यद् भूत्वाविनष्टं. तत् प्रत्युत्पन्नम्. इत्य् एवं सर्वास्तिवादः शासने साधुर् भवति. कथं तेन तस्मिं वा संयुक्ता इति. कथं तेनातीतानागतेन क्लेशेन तस्मिन् वा अतीतानागते वस्तुनि कथं संयुक्त इति. तज्जतद्धेत्वनुशयभावात् क्लेशेनेति. तस्माद् अतीताज् जातस् तज्जः. तस्यानागतस्य हेतुस् तद्धेतुः. तज्जश् चासौ तद्धेतुश् च तज्जतद्धेतुः. तज्जतद्धेतुर् अनुशयो बीजं तज्जतद्धेत्वनुशयः. तस्य भावात्. अतीतेनानागतेन च क्लेशेन यथाक्रमं संयुक्तः. तद् अतीतानागतं वस्त्व् आलंबनम् अस्येति तदालंबनः क्लेशस् तस्यानुशयः. तस्य भावाद् अतीते ऽनागते च वस्तुनि यथाक्रमं संयुक्त इति
धर्मतेति. [तिब्. 138ब्] धर्माणां स्वभावः. अतीतादिकाध्वव्यवस्थाने सति तत्संव्यवहारव्युत्पादनार्थम् आह. अस्ति पर्याय इत्यादि. अस्ति वचनक्रमः. यद् उत्पद्यते. तन् निरुध्यत इत्य् उक्त्वा. दृष्टांतम् आह. रूपम् उत्पद्यते रूपं निरुध्यते द्रव्यानन्यत्वात्. अन्यद् उत्पद्यते ऽन्यन् निरुध्यते. अनागतम् उत्पद्यते ऽन्यद् उत्पादाभिमुखत्वात्. वर्तमानं निरुध्यते ऽन्यन् निरोधाभिमुखत्वात्. अध्वाप्य् उत्पद्यते उत्पद्यमानस्य धर्मस्याध्वसंगृहीतत्वाद् अध्वस्वभावत्वाद् इत्य् अर्थः.
त एवाध्वा कथावस्त्व्
इति लक्षणात्. अध्वनो ऽप्य् उपादानरूपाद् उत्पद्यते धर्मः. कस्माद् इत्य् आह. अनेकक्षणिकत्वाद् अनागतस्याध्वन इति. यस्माद् अनेकेषां क्षणानाम् अनागतानां राशिरूपाणां कश्चिद् एव क्षण उत्पद्यते. अतो ऽध्वनो ऽप्य् उत्पद्यत इत्य् उच्यते.
(v.28) प्रसंगेनागतम् इति.
शेषैस् तु सर्वैः सर्वत्रेति
प्रसंगेनागतम् अतीतानागतविचारणं. यद् यस्तु प्रहीणम् इत्यादि. इह प्रहाणं प्राप्तिविगमात्. विसंयोगस् तदालंबनक्लेशप्रहाणात्. दर्शनभावनामार्गाव् अधिकृत्य
प्रहीणे दुःखदृग्घेय
इत्यादि. प्राक् प्रहीणे इत्यादि.
शेषसर्वगैर्
इति. समुदयदर्शनप्रहातव्यैः सर्वत्रगैः.
शेषैस् तद्विषयैर् मलैर्
इति. प्रहीणप्रकारविषयानुशयैर् इत्य् अर्थः. तद्यथाधिमात्राधिमात्रे प्रकारे प्रहीणे ऽधिमात्रमध्यादिभिः शेषैर् अप्रहीणैर् अनुशयैः संयुक्तः. तथा ह्य् असाव् अधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तो ऽपि स संयुक्त एव तैः शेषैर् इति.
(v.29-31) पिण्डविभाषां कुर्वंति. संक्षेपव्याख्यां कुर्वंतीत्य् अर्थः. के. वैभाषिकाः. षोडशेति. कामावचराः पंच प्रकाराः. [तिब्. 139अ] दुःखसमुदयनिरोधमार्गदर्शनप्रहातव्याश् चत्वारो भावनाप्रहातव्यश् च पंचमः. एवं यावद् आरूप्यावचराः पंच प्रकारा इति पंचदश. अनास्रवश् च षोडश इति षोडश धर्माः. इमे च धर्माः ये दर्शनप्रहातव्याः. ते चतुःस्कन्धस्वभावाः. ये भावनाप्रहातव्याः. ते पंचस्कन्धस्वभावाः. कथं. या वेदना यैर् दर्शनप्रहातव्यैर् अनुशयैः संप्रयुक्ताः. स वेदनास्कन्धः. याः संज्ञाः. स संज्ञास्कन्धः. ये ऽनुशयाः ये च तत्संप्रयुक्ताश् चेतनादयो याश् चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जातिजरास्थित्यनित्यताश् च विप्रयुक्ताः. स संस्कारस्कन्धः. यच् चैभिः संप्रयुक्तं मनोविज्ञानं. स विज्ञानस्कन्धः. इति चतुःस्कन्धस्वभावा दर्शनप्रहातव्याः. भावनाप्रहातव्याः पुनर् अतो ऽन्ये सास्रवा धर्माः. कथं. बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूपस्कन्धः. अनास्रवदर्शनप्रहातव्यवर्ज्याश् च वेदनासंज्ञासंस्कारविज्ञानस्कन्धा इति पंचस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः. चित्तान्य् अपि षोडशैतान्य् एवेति. कामावचरं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् [तिब्. 139ब्] इति पंच चित्तानि. एवं रूपावचराण्य् आरूप्यावचराणि च पंचपंच अनास्रवं च चित्तम् इति षोडश चित्तानि. तानि तत्षोडशधर्मालंबनानि वर्ण्यंते. अमुष्मिन्न् इयंतो ऽनुशया इति. अमुष्मिं धर्मे इयंतो ऽनुशया ये तेन चित्तेन संप्रयुक्ता आलंबनतः संप्रयोगतो वानुशेरत इत्य् एतद् अभ्यूहितव्यं. दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजा
इति. दुःखसमुदयदर्शनभावनाप्रहेयाः कामावचरा इत्य् अर्थः. एषा विग्रह जातिर् इति. स्वकत्रयं चैकरूपाप्तं चामलं च. स्वकत्रयैकरूपाप्तामलानि विज्ञानानि.
स्वकत्रयैकरूपाप्तामलविज्ञानि.
तेषां
गोचराः.
कामावचरास् तावद् इति विस्तरः. कामावचरा दुःखसमुदयदर्शनप्रहातव्या (अभिध्-क्-व्य् 479) यथाक्रमं दशसप्तानुशयाः. तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. भावनाहेयाश् चतुरनुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. सर्वं सास्रवं रूपं. अन्ये चाक्लिष्टा धर्माः. एते धर्माः पंचानां चित्तानाम् आलंबनं. केषाम् इत्य् आह. स्वधातुकानां त्रयाणां तेषाम् एवेति. कामावचराणां दुःखसमुदयदर्शनभावनाहेयानां. [तिब्. 140अ] कथं कृत्वा. दुःखदर्शनहेयास् तावद् दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसंप्रयुक्तस्य. समुदयदर्शनप्रहातव्यस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य च कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालंबनावस्थायां. रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायां. अनास्रवस्य च धर्मज्ञानपक्षस्य चेति पंचानां चित्तानाम् आलंबनं भवंति. न कामावचरयोर् निरोधमार्गदर्शनहेययोश् चित्तयोर् आलंबनम्. अनास्रवालंबनयोश् चित्तयोर् निरोधमार्गालंबनत्वात्. सास्रवालंबनयोर्श् च निरोधमार्गदर्शनहेयमात्रालंबनत्वात्. नोर्ध्वभूमिकानां क्लिष्टानां. अधरभूमिकानालंबनत्वात्. नारूप्यावचरस्य कुशलस्य. चतसृभिर् दूरताभिर् दूरत्वात्. एवं समुदयदर्शनहेया द्विप्रकारस्य समुदयदर्शनहेयस्य. दुःखदर्शने हेयस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पंचानाम् एवालंबनं भवंति. व्याख्यानं च पूर्ववद् एव कर्तव्यं. भावनाहेया अपि पंचानाम् एवालंबनं भवंति. दुःखसमुदयदर्शनहेययोः [तिब्. 140ब्] सर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च कुशलाकुशलाव्याकृतस्य यथासंभवं. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पूर्ववद् एव वाच्यं.
स्वकाधरत्रयोर्ध्वैकामलानाम्
इति. स्वकानाम् अधराणां च त्रयं स्वकाधरत्रयं च ऊर्ध्वैकं चामलं चेति विग्रहः. रूपावचरास् त एव त्रिप्रकारा धर्मा इति. दुःखसमुदयदर्शनभावनाहेयास् तेषाम् अधिकृतत्वात्. ते ऽष्टानां चित्तानाम् आलंबनं. स्वधातुकानां त्रयाणां तेषाम् एव दुःखसमुदयदर्शनभावनाहेयानां पूर्ववद् व्याख्येयं. अधरधातुकानां त्रयाणां तेषाम् एव. तेषां दुःखसमुदयदर्शनहेययोर् विसभागधातुसर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च श्रुतमयस्य च चिन्तामयस्य वा. ऊर्ध्वधातुकस्यैकस्य भावनाहेययैवाकाशानांत्यायतनसामन्तकसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्येति.
त्रिधात्वाप्तत्रयानास्रवगोचरा इति. त्रिधात्वाप्तानां त्रयाणाम् अनास्रवस्य च गोचराः. त एवेति त एव दुःखसमुदयदर्शनभावनाहेया [तिब्. 141अ] अधिकृताः. त्रिप्रकराणां तेषाम् एवेति. कामरूपावचराणां दुःखसमुदयदर्शनहेयानां विसभागधातुसर्वत्रगसंप्रयुक्तानां चतुर्णां भावनाप्रहातव्ययोर् द्वयोर् यथायोगं. स्वधातुकानां च त्रयाणां. कतमेषां. सर्वत्रगासर्वत्रगसंप्रयुक्तयोर् यथायोगं द्वयोर् भावनाप्रहातव्यस्य चानास्रवस्य चेति. दशानां चित्तानाम् आलंबनं भवंति.
निरोधमार्गदृग्घेयाः सर्वस्वाधिकगोचरा
इति. सर्वग्रहणं त्रैधातुकोपसंग्रहार्थं.
स्वस्याधिकस्य गोचरा
इति वचनात् पूवोक्तानां च गोचरा इत्य् अर्थाद् उक्तं भवति. अथ वा स्वेनाधिकानि स्वाधिकानि. स्वाधिकानां गोचराः स्वाधिकगोचरा इति. तस्याधिकस्येति. रागादिसंप्रयुक्तस्य. न मिथ्यादृष्ट्यादिसंप्रयुक्तस्य. तस्य नित्यं निरोधमार्गालंबनत्वात्. पूर्वोक्तानां पंचानाम् इति. कामावचराणां त्रयाणां. द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. रूपावचरस्य भावनाप्रहातव्यस्यैव. अनास्रवस्य चेति. मार्गदर्शनप्रहातव्या अप्य् एवम् इति. किम् एवं. [तिब्. 141ब्] षण्णां चित्तानाम् आलंबनम् इति. नवानाम् एकादशानां च चित्तानाम् आलंबनं भवतीति. रूपावचरा निरोधमार्गदर्शनप्रहातव्या नवानां चित्तानाम् आलंबनं भवंति. आरूप्यावचरा एकादशानाम् इति. कथं. रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाहेयानां त्रयाणां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. आरूप्यावचरस्य भावनाप्रहातव्यस्याकाशानंत्यायतनसंगृहीतस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य. इति नवानां प्रत्येकम् आलंबनं भवंति. आरूप्यावचरा अपि निरोधमार्गदर्शनप्रहातव्या धर्माः प्रत्येकम् एकादशानां चित्तानाम् आलम्बनं भवंति. कामरूपावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां षण्णां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तकभावनाप्रहातव्यानां. निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येकम् अधिकस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. इत्य् एकादशानाम् आलंबनं भवंति.
अनास्रवास् त्रिधात्वंत्यत्रयानास्रवगोचरा
इति. अनास्रवा निरोधादयः. त्रिषु धातुषु [तिब्. 142अ] यान्य् अन्त्यानि त्रयाणि (अभिध्-क्-व्य् 481) निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणानि. तेषां यथायोगम् अनास्रवस्य च गोचराः. कथं. प्रतिसंख्यानिरोधार्यमार्गौ तावत् तदालंबनानां मिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तानां भावनाप्रहातव्यानाम् अनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगम् आलंबनं. आकाशाप्रतिसंख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालंबनम् इति वेदितव्यं. आचार्यगुणमतिवसुमित्रौ तु व्याचक्षाते आकाशाप्रतिसंख्यानिरोधौ भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालंबनम् इति. तद् अयुक्तं.
मिथ्यादृग् विमती ताभ्यां युक्ताविद्याथ केवला निरोधमार्गदृग्घेयाः षड् अनास्रवगोचरा
इति नियमात्. अतो न क्लिष्टचित्तस्य भावनालंबनम् इति सिद्धांतः.
पंचाष्टदशविज्ञानदशविज्ञानगोचरा
इति. कामावचराः दुःखसमुदयदर्शनभावनाहेयाः पंचानां गोचराः. रूपावचरा अष्टानाम्. आरूप्यावचरा दशानाम्. अमला अपि दशानाम् एवेति. पूर्वव्याख्यानानुसारेण योज्यं. एतान्य् एव षोडश चित्तानि षट्त्रिंशद् भवंति. कामधातौ दुःखसमुदयदर्शनहेयम् असर्वत्रगसंप्रयुक्तं सभागविसभागसर्वत्रगसंप्रयुक्तं च. एवं रूपधातौ दुःखसमुदयदर्शनहेयं प्रत्येकं त्रिप्रकारं. आरूप्यधाताव् अन्यत्र विसभागधातुभूमिसर्वत्रगसंप्रयुक्तात्. निरोधमार्गदर्शनहेयं धातुत्रये ऽपि प्रत्येकं द्विधा सास्रवानास्रवालंबनत्वात्. भावनाहेयम् अपि क्लिष्टाक्लिष्टभेदात् द्विप्रकारं. अनास्रवम् अपि धर्मज्ञानपक्षम् अन्वयज्ञानपक्षं चेति द्विधा.
कामावचरं भावनाप्रहातव्यम् इति. पंचविज्ञानकायिकं सुखेन्द्रियं. रूपावचरं पंचप्रकारम् [तिब्. 142अ] इति. प्रथमध्यानभूमिकं त्रिविज्ञानकायिकं. तृतीयध्यानभूमिकं मानसम् इत्य् अभिसमस्य यथायोगं पंचप्रकारं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यं. अनास्रवं च तृतीयध्यानभूमिकम् एव.
कामावचरस्य चतुःप्रकारस्येति. दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य. दुःखसमुदयदर्शनहेययोः सुखेन्द्रियम् आलंबनं भवति. यस्माद् दुःखसमुदयसत्यसंगृहीतं स्वभूमिकम् ऊर्ध्वभूमिकं वा सुखेन्द्रियं सत्कायमिथ्यादृष्ट्यादीनाम् आलंबनं भवति. मार्गदर्शनहेयस्य च मिथ्यादृष्ट्यादिसंप्रयुक्तस्य मार्गसत्यसंगृहीतं सुखेन्द्रियम् आलंबनं. भावनाहेयरागादिसंप्रयुक्तस्य च चित्तस्य (अभिध्-क्-व्य् 482) तत्पंचविज्ञानकायिकं सुखेन्द्रियम् आलंबनम्. इति चतुष्प्रकारस्यास्य तद् आलंबनं. न तु निरोधदर्शनहेयस्य चित्तस्य. तत्र मिथ्यादृष्ट्यादीनां निरोधालंबनत्वात्. दृष्टिपरामर्शादीनां च स्वनिकायालंबनत्वात्. तत्र च सुखेन्द्रियाभावात्. तेनोच्यते ऽन्यत्र निरोधदर्शनहेयाद् इति. रूपावचरस्य पंचप्रकारस्येति. यस्मात् तृतीयध्यानसंगृहीतं पंचप्रकारं सुखेन्द्रियं भवति. मार्गदर्शनभावनाहेयस्येति. आरूप्यावचरस्य मार्गदर्शनहेयस्य मिथ्यादृष्ट्यादिसंप्रयुक्तस्य चित्तस्य मार्गसंगृहीतं सुखेन्द्रियम् आलंबनं. तद् एव च भावनाहेयस्य कुशलस्य चित्तस्यालंबनम्. अनास्रवस्य च सर्वम् अप्य् आलंबणं [तिब्. 143अ] भवति. तत्र यथासंभवम् इति. यस्माद् अनास्रवे अनुशया नानुशेरते. यस्मात् क्वचिद् एव केचिद् अनुशेरते. तस्माद् यथासंभवम् इत्य् उच्यते. तत्र विज्ञाने कामावचराश् चत्वारो निकायाः. तद्यथा निथ्यादृष्टिसंप्रयुक्ते सुखेन्द्रियालंबने दशापि दुःखदर्शनप्रहातव्या अनुशया आलंबनतो ऽनुशेरते संप्रयोगतो वा यथासंभवं. एवं समुदयदर्शनप्रहातव्याः. मार्गदर्शनप्रहातव्या अपि तत्र सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते.
मार्गसुखेन्द्रियालंबने हि मिथ्यादृष्ट्यादिसंप्रयुक्ते विज्ञाने मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयो ऽप्य् आलंबनतो ऽनुशेरते. तस्मात् सो ऽपि निकायस् तत्रानुशेते. भावनाहेयो ऽपि निकायो ऽत्रानुशेते. तत्र रागादीनां सुखेन्द्रियालंबनविज्ञानालंबनयोगात्. निरोधदर्शनप्रहातव्यनिकायस् तु तत्र नानुशेते. सुखेन्द्रियालंबनविज्ञानाभावात्. रूपावचराः संस्कृतालंबना इति. रूपावचरं सुखेन्द्रियालंबनं पंचप्रकारम् अस्ति. तत्र चत्वारो निकाया अनुशेरत इति सुगमम् एतत्. निरोधदर्शनप्रहातव्यास् [तिब्. 143ब्] तु संस्कृतालंबनाः कथम् अनुशेरते. तृतीये ध्याने दृष्टिपरामर्शादयः सुखेन्द्रियेण संप्रयुज्यंते. ते चान्योन्यालंबनाः. ते तत्र सुखेन्द्रियालंबनविज्ञाने संप्रयोगत आलंबनतो वानुशेरते. आरूप्यावचरौ द्वौ निकायाव् इति. मार्गदर्शनभावनाहेयनिकायौ. मार्गसुखेन्द्रियालंबने मिथ्यादृष्ट्यादिसंप्रयुक्ते मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयस् तु तत्रालंबनतो ऽनुशेरते. भावनाहेयो ऽपि निकायो ऽनुशेते. भावनाहेयं हि कुशलं चित्तं मार्गम् आलंबते. तत्र स रागादिनिकायो ऽनुशेते. सर्वत्रगाश् चारूप्यावचरा अनुशयास् तत्रैव विज्ञाने मार्गालंबनमिथ्यादृष्ट्यादिसंप्रयुक्ते वा विज्ञाने ऽनुशेरत इति विज्ञातव्यं.
तस्यैव द्वादशविधस्येति. कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात्. (अभिध्-क्-व्य् 483) रूपावचरस्य पंचप्रकारस्यारूप्यावचरस्य च द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य चेत्य् अन्योन्यालंबनयोगतस् तस्य सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत् सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. कतमस्येत्य् आह. दुःखसमुदयदर्शनप्रहातव्यस्येति. [तिब्. 144अ] आरूप्यावचरस्य सर्वत्रगसंप्रयुक्तस्य हि दुःखसमुदयदर्शनहेयभेदात् द्विप्रकारस्य चित्तस्यारूप्यावचरमार्गदर्शनहेयमिथ्यादृष्ट्यादिसंप्रयुक्तं विज्ञानं मार्गालंबनं चारूप्यावचरं भावनाहेयं कुशलम् आलंबनं भवति. एवम् इदं चतुर्दशविधं सुखेन्द्रियालंबनविज्ञानालंबनं तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति. पूर्वं सर्वत्रगा एवारूप्यावचराः सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते. सुखेन्द्रियालंबनालंबने तु सकलाव् अप्य् आरूप्यावचरौ दुःखसमुदयदर्शनहेयौ निकायाव् अनुशयाते. तस्मात् तत्र सर्वत्रगसंप्रयुक्ते चित्ते दुःखसंउदयदर्शनहेया अनुशयाः संप्रयोगत आलंबनतो वा यथायोगम् अनुशेरते. शेषास् तु पूर्ववद् योज्याः.
अनया वर्तन्यान्यद् अपि गंतव्यम् इति. अनेन वर्त्मनान्यद् अपि बोद्धव्यं. कथं. दुःखेन्द्रियालंबने कत्य् अनुशया अनुशेरत इति प्रश्न आगते विचारयितव्यं. दुःखेन्द्रियम् एकविधं कामावचरं भावनाप्रहातव्यं पंचविज्ञानकायिकत्वात्. तत् समासतः पंचविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य [तिब्. 144ब्] त्रिप्रकारस्य. दुःखसमुदयदर्शनहेययोः सर्वत्रगसंप्रयुक्तयोर् विज्ञानयोर् भावनाप्रहातव्यस्य च. रूपावचरस्य च भावनाप्रहातव्यस्य. अनास्रवस्य च. इदं पंचविधं दुःखेन्द्रियालंबनं विज्ञानं. तत्र यथासंभवं कामावचरास् त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः. तत्र हि सर्वत्रगसंप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत आलंबनतो वा यथासंभवम् अनुशयाते. भावनाहेये च भावनाहेयो निकायो ऽनुशेते. रूपावचर एको भावनाहेयः. तत्र भावनाहेये चित्ते ऽनुशेते. सर्वत्रगाश् च रूपावचरास् तत्रैवेत्य् अवगंतव्यं. दुःखेन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनर् दुःखेन्द्रियालंबनं पञ्चविज्ञानं कतमस्य विज्ञानस्य आलंबनं. तस्यैव पंचविधस्यान्योन्यालंबनयोगेन. कामावचरस्य च भूयो मार्गदर्शनहेयस्य अनास्रवालंबनस्य. रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालंबनं भवति. तेन हि रूपावचरं दुःखेन्द्रियालंबनं कुशलं भावनाप्रहातव्यम् (अभिध्-क्-व्य् 484) आलंब्यते. आरूप्यावचरम् अप्य् आकाशानंत्यायतनसामन्तकसंगृहीतौदारिकाद्याकारं [तिब्. 145अ] दुःखेन्द्रियालंबनम् आलंबते. तद् इदम् अष्टविधं दुःखेन्द्रियालंबनालंबनं विज्ञानं. तत्र कामावचराश् चत्वारो
निकायाः. दुःखसमुदयमार्गदर्शनभावनाहेयाः. रूपावचरास् त्रयो निकायाः. दुःखसमुदयदर्शनभावनाप्रहातव्याः. आरूप्यावचर एको भावनाप्रहातव्यः. सर्वत्रगाश् चानुशया अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबने विज्ञाने कत्य् अनुशया अनुशेरत इति प्रश्ने विचारयितव्यं. तत् पुनः सौमनस्येन्द्रियालंबनं विज्ञानम् एकादशविधं. कामरूपावचरं पंच प्रकारम् अनास्रवं चेति. तद् एतत् समासतस् त्रयोदशविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य पंचप्रकारस्य संस्कृतालंबनस्य तस्य संस्कृतत्वात्. एवं रूपावचरस्य. आरूप्यावचरस्य तु द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य. अनास्रवस्य च. इदं त्रयोदशविधं सौमनस्येन्द्रियालंबनविज्ञानं. तत्र यथासंभवं कामावचररूपावचराः पंचनिकायाः संस्कृतालंबनाः. आरूप्यावचरौ द्वौ निकायौ. सर्वत्रगाश् चानुशयाः अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनः सौमनस्येन्द्रियालंबनं [तिब्. 145अ] त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालंबनं. तस्यैव त्रयोदशविधस्य. आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य. इदं पंचदशविधं सौमनस्येन्द्रियालंबनं विज्ञानं. तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा. कामावचररूपावचराः संस्कृतालंबनाः. आरूप्यावचराश् चत्वारो निकायाः अन्यत्र निरोधदर्शनहेयात्. अनुशया अनुशेरत इति विज्ञातव्यं. अनया दिशा अन्यद् अपि गंतव्यम् इति.
(v.32) द्विधा सानुशयं क्लिष्टम्
इति. अनुशयानैर् अननुशयानैश् चानुशयैः सानुशयं क्लिष्टम् इत्य् अर्थः. तत्सहितत्वात् सदावस्थितत्वात्. अक्लिष्टं चित्तम् अनुशयानैर् एव सानुशयं विवेचयितुं शक्यत्वात्. तथा हि वक्ष्यति
प्रहातव्यः क्लेश आलंबनात्मत
इति.
(v.33) सर्वस्य सर्वानंतरम् उत्पत्तिसंभवान् नास्त्य् एषाम् उत्पत्तौ सार्वजन्यः क्रमनियमः. दुःखतः स्कन्धान् अपोह्येति. नेदं दुःखम् इत्य् आत्मतो ऽभिनिवेशात्. रूपम् आत्मेत्य् एवंदृष्टिकस्य वेदनाद्यात्मग्राहदृष्टिः (अभिध्-क्-व्य् 485) प्रत्यनीका.
(v.34) अप्रहीणो भवत्य् अपरिज्ञात इति. अप्रहीणस् तत्प्राप्त्यनुच्छेदात्. अपरिज्ञातस् तत्प्रतिपक्षस्य चानुत्पत्तेः. कामरागपर्यवस्थानीया इति. पर्यवतिष्ठते एभिर् इति पर्यवस्थानीयाः स्नानीयवत्. कामरागस्य पर्यवस्थानीया अनुकूला इति. कामराग एव वा पर्यवस्थानं [तिब्. 146अ] कामरागपर्यवस्थानं. तस्मै हिताः कामरागपर्यवस्थानीयाः. ते पुना रूपादयो विषयाः आभासगता भवंतीति. विषयरूपताम् आपन्ना भवंतीत्य् अर्थः. तत्र चायोनिशोमनस्कार इति. तत्र चाभासगतेषु विषयेषु विपरीतः समनंतरप्रत्यय इत्य् अर्थः. हेतुविषयप्रयोगबलानीति. हेतुबलं कामरागोत्पत्तये कामरागानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. कामरागपर्यवस्थानीया विषयबलं. तत्र चायोनिशोमनस्कारः प्रयोगबलं. एवम् अन्यो ऽपि क्लेश उत्पद्यत इति. प्रतिघानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. प्रतिघपर्यवस्थानीया धर्मा आभासगता भवंति. तत्र चायोनिशोमनस्कार इत्य् एष नयः.
(v.35-38) चत्वारो योगा एत एवेति. कामयोगो भवयोगो दृष्टियोगो ऽविद्यायोगश् चेति.
विना मोहेनेति.
अविद्यास्रवस्य पृथगुक्तत्वात्. सह पर्यवस्थानैर् आह्रीक्यादिभिर् वक्ष्यमाणैः एकचत्वारिंशद् द्रव्याणि. एकत्रिंशद् अनुशया इति. द्वादश दृष्टयः. दुःखदर्शनप्रहात्व्या पंच. समुदयदर्शनप्रहातव्ये द्वे. निरोधदर्शनप्रहातव्ये द्वे एव. [तिब्. 146ब्] तिस्रो मार्गदर्शनप्रहातव्याः. चतस्रो विचिकित्साः. पंच रागाः. एवं प्रतिघा मानाश् च. दश पर्यवस्थानानीत्य् एवम् एकचत्वारिंशत्.
अनुशया एवेति.
एवकारः पर्यवस्थाननिरासार्थः. षड्विंशतिर् अनुशया इति. द्वादश दृष्टयश् चतस्रो विचिकित्साः पंच रागाः पंच माना इति. ननु च तत्राप्य् अस्ति पर्यवस्थानद्वयम् इति. तत्र रूपारूप्यधात्वोः.
स्त्यानौद्धत्यमदा धातुत्रय
इति वचनात्. कस्माद् इह तस्याग्रहणम् इति. तस्य पर्यवस्थानद्वयस्य. अस्वातंत्र्याद् इति. कथम् अस्वातंत्र्यं. रागादिसंप्रयोगित्वाद् ईर्ष्यादिवद् अविद्यामात्रासंप्रयोगित्वाच् च. एतद् धि द्वयं रागादिभिः संप्रयुज्यते. न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः. स्वतंत्राः. अविद्यामात्रेण संप्रयोगाद् इति. ते ह्य् उभये ऽपीति. रूपारूप्यावचरा अपीत्य् अर्थः. अंतर्मुखप्रवृत्ता इति. न विषयप्रधाना इत्य् अर्थः. येनैव च कारणेन भवराग उक्त इति.
अन्तर्मुखत्वात् तन्मोक्षसंज्ञाव्यावृत्तये कृत
इति. अनेन च भवास्रव इति. अविद्यास्रव इति सिद्धम् इति. अविद्या पूर्वोक्ताभ्याम् आस्रवाभ्यां बहिष्कृता. तस्मात् सा त्रैधातुक्य् अपि अविद्यास्रव इति सिद्धम् एतत्. पंचदशद्रव्याणीति. त्रिष्व् अपि धातुष्व् अविद्यायाः प्रत्येकं पंचप्रकारत्वात्. सर्वेषां तेषाम् इति. कामास्रवादीनां संसारस्य च. उक्तो ह्य् अविद्या हेतुसंरागायेत्यादि.
याः काश्चन दुर्गतयः अस्मिन् लोके परत च अविद्यामूलिकाः सर्वा इच्छालोभसमुत्थिता
इति च.
तथौघयोगा
इति. आस्रवा [तिब्. 147अ] एवौघा योगाश् च भवंति. केवलं
दृष्टयः पृथग् अवस्थाप्यन्ते.
कथम् इति विव्रियते. कामास्रव एव कामौघः कामयोगश् च. एवं भवास्रव एव भवौघो भवयोगश् च. अविद्यौघयोगस् तु पूर्ववद् एवावगंतव्यः. दृष्टियोग इह चतुर्थ उक्तः. तेनाह अन्यत्र दृष्टिभ्य इति. ताः किलेति. किलशब्दः परमतद्योतकः. विनेयजनवशात् तु दृष्टियोगः पृथग् उक्त इत्य् अभिप्रायो युज्यते. आस्रवेषु दृष्टयः किमर्थं न पृथग् स्थापिता इत्य् आह.
नास्रवेष्व् असहायानाम्
इत्यादि. असहायानां दृष्टीनाम् आस्यानुकूलता अवस्थानानुकूलता चलत्वात् पटुत्वाच् च न भवति. नासनानुकूलतेत्य् अर्थः. आसेति रूपे प्राप्ते आपिशलेष्ट्या आस्येति रूपं भवति. तद् इदम् उक्तं भवति. यस्माद् एता दृष्टयो ऽसहाया नासनानुकूलाः ससहायास् त्व् आसनानुकूला भवंति. तस्मात् ससहाया एवैता आस्रवेषूक्ताः. मिश्रीकृत्योक्ता इत्य् अर्थः. किमर्थम् इत्य् आह. आसयंतीत्य् आस्रवाणां निर्वचनं पश्चाद् वक्ष्यतीत्य् अत आसनार्थम् आस्रवेषु भवितव्यम् इत्य् अभिप्रायः. तद् एवं कामौघ एकान्नत्रिंशद् द्रव्याणीति. द्वादशदृष्ट्यपनयनान् नास्रववद् एकचत्वारिंशद् द्रव्याणि भवंति. किं तर्ह्य् एकान्नत्रिंशद् द्रव्याणि भवंति. कथम् इत्य् आह. रागप्रतिघमाना इति सर्वं. भवौघो [तिब्. 147ब्] ऽष्टाविंशतिर् द्रव्याणीति. भवास्रवो द्वापंचाशद् द्रव्याण्य् उक्तानि. ततश् चतुर्विंशतिर् दृष्टीर् अपनीयाष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिर् इति द्विधातुका रागा दश भवंति. माना अपि दशेति विंशतिः. दृष्ट्योघः (अभिध्-क्-व्य् 487) षट्त्रिंशद् द्रव्याणीति. त्रिषु धातुषु त्रिद्वादश दृष्टय इति. अविद्यौघः पंचदश द्रव्याणि. पूर्ववत्. ओघवद् योगा इति. कामयोग एकान्नत्रिंशद् द्रव्याणि. रागप्रतिघमानाः पंचदश विचिकित्साश् चतस्रः दश पर्यवस्थानानीति. भवयोगो ऽष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिः विचिकित्सा अष्टौ दृष्टियोगः षट्त्रिंशद् द्रव्याणि. अविद्यायोगः पंचदश द्रव्याणि.
यथोक्ता एव साविद्या
इति विस्तरः. के यथोक्ताः. योगा इत्य् अधिकृतं तस्माद् विव्रियते. कामयोग एव सहाविद्यया कामोपादानम् इति. अविद्या कामोपादानात्मवादोपादानयोर् यथास्वम् अंतर्भाव्यते.
द्विधादृष्टेः
पृथक्करणाच् चतुष्ट्वं. कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानम् इति. दृष्टियोगाच् छीलव्रतं निष्कृष्येति. षट्त्रिंशद्द्रव्यकाद् दृष्टियोगात् धातुभेदेन षच्छीलव्रतपरामर्शान् निष्कृष्य. दृष्ट्युपादानं त्रिंशद् द्रव्याणि. शीलव्रतोपादानं षड् द्रव्याणि कामधातौ द्वे एवं रूपधाताव् [तिब्. 148अ] आरूप्यधातौ चेति. मार्गप्रतिद्वंद्वाद् इति. सांख्ययोगज्ञानादिभिर् मोक्षप्राप्तिदर्शनान् मार्गप्रतिद्वंद्वभूतं शीलव्रतोपादानं. उभगपक्षविप्रलंभनाच् चेति विस्तरः. गृहिप्रव्रजितपक्षविप्रलंभनाच् चेत्य् अर्थः. अनशनादिभिर् इति. आदिशब्देन जलाग्निप्रपतनमौनवीरादानादिर् गृह्यते. अनशनादीनि शीलव्रतसंगृहीतानीष्टविषयपरिवर्जनं च. इष्टविषयपरिवर्जनेनेति. रसपरित्यागभूमिशय्यामलपंकधारणनग्नचर्याकेशोल्लुंचनादिना शुद्धिप्रत्यागमनात्.
अविद्या तु ग्राहिका नेति मिश्रितेति.
न केवलाविद्या भवम् उपाददाति. कस्माद् इत्य् आह. असंप्रख्यानलक्षणतया अपटुत्वाद् इति. मिश्रिता त्व् अन्यक्लेशसंपर्कवशाद् उपाददातीत्य् अभिप्रायः. एतः किलेति. किलशब्दः परमतद्योतकः. तेन स्वमतम् उच्यते. सूत्रे तु भगवतोक्तम् इति विस्तरेण. एवं यावद् दृष्टियोग इति. कथं. दृष्टियोगः कतमः. विस्तरेण यावद् यो ऽस्य भवति दृष्टिषु दृष्टिरागो दृष्टिच्छन्दो दृष्टिस्नेह इति पूर्ववत्. छन्दरागश् चोपादानम् उक्तं सूत्रांतरेषु. कथम्. उपादानं कतमत्. यो ऽत्र छन्दराग इति. एतद् आचार्यमतं. तद् उक्तं भवति राग एवात्र योगः. [तिब्. 148ब्] उपादानं वा. नान्ये क्लेशा इति. तेनोच्यते कामादिषु यश् छन्दराग इति.
(v.39) अणव
इति विस्तरेण. अणवः शेरते इत्य् अनुशयाः. नैरुक्तेन विधिनास्य सिद्धिः.
सूक्ष्मप्रचारत्वाद् इति. सूक्ष्मप्रवृत्तित्वाद् इत्य् अर्थः. कथं पुनः सूक्ष्मा प्रवृत्तिः. अरूपिणां दुर्विज्ञानतया. आलंबनतश् छिद्रान्वेषिशत्रुवत् दृष्टिविषवच् च. संप्रयोगतो ऽयोगुडोदकसंतापवत् स्पर्शविषवच् च. उभयतो धात्र्यः कुमारकम् अनुशेरते. एवम् एते ऽप्य् आलंबनात् संप्रयुक्तेभ्यो वा स्वाम् संततिं वर्धयंतः प्राप्तिभिर् उपचिंवंति. अनुबध्नंतीति. अनुक्रान्तेश् चातुर्थकज्वरवन् मूषिकाविषवच् चेत्य् अन्ये. अप्रयोगेण अनाभोगेन. प्रतिनिवारयतो ऽपि निषेधयतो ऽपि पुद्गलस्य पुनःपुनः संमुखीभावाद् अनुबध्नंत्य् अतो ऽनुशया इति. आसयंति संसार इत्य् आस्रवा इति. नैरुक्तो विधिः. आसनार्थो वा. आस्रवंति भवाग्राद् यावद् अवीचिम् इति. षड्भिर् आयतनव्रणैश् चक्षुरादिभिर् आयतनैर् व्रणभूतैर् आस्रवंति क्षरंति. भवाग्राद् यावद् अवीचिं गच्छंति. भवाग्रावीतरागस्याप्य् आवीचिकक्लेशसमुदाचारात् तदुत्पन्नस्य वा तत्रोत्पत्तिसंभवात्. क आस्रवंति. अनुशयाः. आस्रवंतीत्य् आस्रवा इत्य् अच्प्रत्ययः. हरंतीत्य् ओघाः. श्लेशयन्तीति योगाः. उपगृह्णंतीत्य् उपादानानीत्य् अर्थप्रदर्शनम्. एतद् उक्तं वैभाषिकैः. वहन एतद् रूपम् ओघा इति. वहंति हरंति गत्यंतरं विषयांतरं वेति ओघाः. योजयंति श्लेषयंति गत्यन्तरे विषयांतरे वेति योगाः. उपाददत्य् उपगृह्णंति पुनर्भवे कामादिषु वा विज्ञानसंततिं इत्य् उपादानानीति. एवं तु साधीयः स्याद् इति. एवं तु साधुतरं स्याद् इत्य् आचार्यः. [तिब्. 149अ] कथम् इत्य् आह. आस्रवति गच्छत्य् एभिर् अनुशयैः संततिर् विज्ञानसंततिर् विषयेष्व् इत्य् आस्रवाः. करणसाधनं. महताभिसंस्कारेण कुशलैर् धर्मैश् चित्तसंतानः प्रतिस्रोतो नीयते विषयेभ्यो
निवार्यते. तेषाम् एव संस्काराणां प्रतिप्रश्रब्ध्येति. तेषाम् एव प्रयत्नानां व्युपरमेणेत्य् अर्थः. अधिमात्रवेगत्वाद् ओघा इति. ओघसाधर्म्यं दर्शयति. ओघ इवौघा इति कृत्वा. तदनुविधानाद् इति. रागाद्यनुविधानात्. नाधिमात्रसमुदाचारिणो हि योगा इति. ओघयोगानां नानाकरणं दर्शयति. ये हि नाधिमात्रसमुदाचारिणः. ते योगाः. ये त्व् अधिमात्रसमुदाचारिण एव. त ओघा इति. कथं च ते योगा इत्य् आह. विविधदुःखयोजनाज् जात्यादिभिर् विविधैर् दुःखैर् योजनाद् इत्य् अर्थः. अभीक्ष्णानुषंगतो वा. यस्माद् वा संतताव् अभीक्ष्णं युज्यंते. तस्माद् योगा इति. कामाद्युपादानाद् इति. यैः कामादयः उपादीयंते. तानि कामाद्युपादानानि छन्दरागात्मकानि.
(v.40अब्) त एवानुशयाः पुनर् यावत् पर्यवस्थानभेदेन पंचधा भित्त्वोक्ता इति. त एवानुशया आस्रवादिभेदेन चतुर्धोक्ताः. संयोजनबंधनानुशयोपक्लेशपर्यवस्थानभेदेन [तिब्. 149ब्] पुनः पंचधा भित्त्वोक्ताः सूत्रे ऽभिधर्मे च. ननु चानुशयव्यतिरिक्तान्य् आह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यंते. कथम् इदम् उच्यते. अनुशया एव पर्यवस्थानानीति. सत्यं भवंति तद्व्यतिरिक्तानि. अव्यतिरिक्तान्य् अपि त्व् इष्यन्ते. तथा हि वक्ष्यति. क्लेशो ऽपि हि हर्यवस्थानं. कामरागपर्यवस्थानप्रत्ययं दुःखं प्रतिसंवेदयत इति सूत्रे वचनाद् इति.
(v.40च्द्-42) एवम् अन्यान्य् अपि यथासंभवं योज्यानीति. प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामावचराणि. मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रैधातुकानि. दृष्टिसंयोजनं तिस्रो दृष्टय इति. सत्कायांतग्राहमिथ्यादृष्टयः. परामर्शसंयोजनं द्वे दृष्टी इति. दृष्टिशीलव्रतशीलव्रतपरामर्शौ. अत एवोच्यत इति. यत एव तिस्रो दृष्टयो दृष्टिसंयोजनं द्वे दृष्टी परामर्शसंयोजनम्. अत एवोच्यते. स्याद् दृष्टिसंप्रयुक्तेष्व् इति विस्तरेण प्रश्नः. दृष्टिसंप्रयुक्तेष्व् इति. परामर्शदृष्टिसंप्रयुक्तेषु वेदनादिषु. अनुनयसंयोजनेन संयुक्तो रागेण. न दृष्टिसंयोजनेन सत्कायदृष्ट्यादिलक्षणेन. न च तत्र दृष्ट्यनुशयो नानुशयीतेति. न च तत्र दृष्टिसंप्रयुक्तेषु धर्मेषु दृष्ट्यनुशयो नानुशयीत. [तिब्. 150अ] किं तर्हि. अनुशयीत. द्विः प्रतिषेधः प्रकृतिं गमयति. आह स्याद् इति विस्तरेण प्रश्नविसर्जनं. समुदयज्ञान उत्पन्न इति विशेषणं सर्वत्रगदृष्टिसंयोजनप्रहाणसंदर्शानर्थं. निरोधज्ञाने ऽनुत्पन्न इति. परामर्शदृष्टिद्वयाप्रहाणेन तत्संप्रयोगसत्ताप्रदर्शनार्थं. निरोधमार्गदर्शनप्रहातव्येषु यावद्धर्मेष्व् इति. वेदनादिषु. तेषु ह्य् अनुनयसंयोजनेन निरोधदर्शनहेयेन मार्गदर्शनहेयेन वा संयुक्तः. कीदृशेन. तदालंबनेन. यस्माद् असाव् एतान् निरोधदर्शनमार्गप्रहातव्यान् दृष्टिपरामर्शशीलव्रतपरामर्शसंप्रयुक्तान् वेदनादिधर्मान् आलंब्य राग उत्पद्यते. तस्माद् आलंबनतस् तेन संयुक्तः. दृष्टिसंयोजनेनासंयुक्तः. कस्माद् इत्य् आह. सर्वत्रगस्य दुःखसमुदयदर्शनहेयस्वभावस्य समुदयज्ञानोत्पत्तेः प्रहीणत्वात्. असर्वत्रगस्य च तदालंबनसंप्रयोगिणो
दृष्टिसंयोजनस्याभावाद् इति. यद्य् अपि ह्य् असर्वत्रगं मिथ्यादृष्टिस्वभावं निरोधमार्गदर्शनप्रहातव्यं दृष्टिसंयोजनम् अस्ति. न तु तत् परामर्शदृष्टिसंप्रयुक्तवेदनादिधर्मालंबनम्. अनास्रवालंबनत्वात्. तस्मान् नालम्बनतो [तिब्. 150ब्] दृष्टिसंयोजनेन संयुक्तः. न चापि तत् तैर् वेदनादिभिः संप्रयोगि. तत्पृथक्कलापत्वात्. (अभिध्-क्-व्य् 490) तस्मात् संप्रयोगतो ऽपि न तेन संयुक्तः. दृष्ट्यनुशयश् च तेष्व् अनुशेते. कीदृशस् स इत्य् आह. ते एव परामर्शदृष्टी संप्रयोगत इति. दृष्टिपरामर्शः शीलव्रतपरामर्शो वा तेषु वेदनादिषु धर्मेषु संप्रयोगतो ऽनुशेते. स्वकलापसंभूतत्वात्. न च तत्र दृष्टिसंयोजनम् अनुशेते. तयोर् दृष्टिसंयोजनम् इत्य् असंज्ञितवान् न दृष्ट्यनुशयग्रहणे पंचदृष्टिग्रहणम् भवति. दृष्टिसंयोजनग्रहणे तु सत्कायांतग्राहमिथ्यादृष्टीनाम् एव ग्रहणं. न परामर्शदृष्ट्योर् इत्य् अवगंतव्यं.
दृष्टिसंयोजनांतरम्
इति. परामर्शदृष्टी. अष्टादश द्रव्याणि तिस्रो दृष्टयो भवंतीति वाक्यशेषः. अष्टादशसंख्येयद्रव्याः सत्कायांतग्राहमिथ्यादृष्टय इति वाक्यार्थः. अष्टादशैव द्रव्याणीति प्रकृतं. द्वे परामर्शदृष्टी भवंति. कथं. कामधातौ सत्कायांतग्राहदृष्टी द्वे. ते च दुःखदर्शनप्रहातव्ये एवेष्टे. मिथ्यादृष्टिश् चतुःप्रकाराः. दुःखदर्शनप्रहातव्या यावन् मार्गदर्शनप्रहातव्या. इत्य् एवं कामधातौ षड् भवंति. यथा कामधातौ षड् एवं रूपधाताव् आरूप्यधातौ [तिब्. 151अ] चेत्य् अष्टादश भवंति. अष्टादशैव द्वे परामर्शदृष्टी. कथं. कामधातौ दृष्टिपरामर्शो दुःखदर्शनप्रहातव्यो यावन् मार्गदर्शनप्रहातव्य इति चतुःप्रकाराः. शीअव्रतपरामर्शो ऽपि दुःखदर्शनप्रहातव्यः. मार्गदर्शनप्रहातव्यश् चेति द्विप्रकारः. इत्य् एवं कामधातौ षड् भवंति. यथा कामधाताव् एवं रूपधाताव् आरूप्यधातौ च. इत्य् एवम् अष्टादशैव द्रव्याणि भवंति. न शेषा इति दृष्टयः. ग्राह्यग्राहकभेदाद् इति. दृष्टिसंयोजनं ग्राह्यं. परामर्शसंयोजनं ग्राहकम् इति. यत इति. यतः कारणात्. एकांताकुशलत्वस्वातंत्र्यलक्षणात्.
एषूक्तम्
इति. एष्व् आह्रीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम्
ईर्ष्यामात्सर्यम्
उक्तं. न ह्य् अन्यत् पर्यवस्थानम् एवंजातीयकम् इति. अनाह्रीक्यानपत्राप्यम् अप्य् एकांताकुशलं. न तु स्वतंत्रं रागादिक्लेशसंप्रयोगात्. कौकृत्यम् अपि स्वतंत्रम् अविद्यामात्रसंप्रयोगात्. न त्व् एकांताकुशलं. तद् धि कुशलम् अपि. स्त्यानौद्धत्यमिद्धान्य् अप्य् अस्वतंत्राणि रागादिसंप्रयोगात्. [तिब्. 151ब्] न त्व् एकांताकुशलानि. कुशलव्याकृतान्य् अपि हि तानि भवंति. यत्रैतद् उभयम् इति. यत्रैकांताकुशलत्वं च स्वातंत्र्यं चेत्य् एतद् उभयं स्यात्. तद् एवंजातीयकम् अन्यत् पर्यवस्थानं नास्तीत्य् अभिसंबन्धः. (अभिध्-क्-व्य् 491) यस्य पुनर् दशेति. यस्य वैभाषिकस्य दश पर्यवस्थानानि. तस्य क्रोधम्रक्षाव् अप्य् उभयप्रकाराव् एकांताकुशलौ स्वतंत्रौ चेति. तस्मान् न भवत्य् अयं परिहार इति. कस् तर्हि परिहारस् तस्य इति. अत्राचार्यसंघभद्र आह. अभीक्ष्णसमुदाचारित्वाद् ईर्ष्यामात्सर्ययोः पृथक्संयोजनम् इति. अत एव च षट्त्रिंशत्संयोजनत्वे ऽपि कामधातूपपन्नानां ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इत्य् उक्तम्. आधिक्येन हि सुगताव् एतत् क्लेशद्वयं बन्धनम् इति. अथ वा.
अल्पेशाख्याल्पभोगकारणत्वात् सर्वसूचनात् द्विपक्षसंक्लेशत्वाच् च. मात्सर्येर्ष्ये पृथक् कृते.
यद् अयं सुगताव् अप्य् उपपन्नः प्रगाढं परिभवम् उद्वहति. तत्रेर्ष्यामात्सर्ये कारणं. तथा ह्य्
अल्पेशाख्यो ऽल्पभोगश् च बन्धनाव् अप्य् उभयान् मत
इति. द्विविधाश् चोपक्लेशाः संतापसहगताः. आमोदसहगताश् च. त आभ्यां सर्वे सूचिता भवंति. गृहिपक्षश् चाभ्यां भोगाधिष्ठानाभ्याम् अतीव क्लिश्यते. प्रव्रजितपक्षो ऽपि धर्माधिष्ठानाभ्यां. देवासुरपक्षौ वा भिन्नोदरहेतोर् अत्यर्थं क्लिश्यतः. अत एवोक्तं भगवता. ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इति. [तिब्. 152अ] तस्माद् दशभ्यः पर्यवस्थानेभ्य एतद् एव द्वयं संयोजनम् इति.
(v.43-44) अवरो हि भागः कामधातुर् इति. त्रैधातुकसमुदायापेक्षया कामधातुर् अवरो निहीनो धातुर् एकांतसमाहितत्वात्. अकुशलधर्मापायगतिदुःखदौर्मनस्यसद्भावात्. घनक्लेशत्वाच् च.
द्वाभ्यां कामानतिक्रम
इति. तदप्रहाणे कामधात्वनतिक्रमात्. दौवारिकानुचरसाधर्म्याद् इति. दौवारिकसधर्मणौ कामछन्दव्यापादौ. तौ हि कामधातुबन्धनागारान् निःक्रमणं न दत्तः. दौवारिकवत्. अनुचरसधर्माणः सत्कायदृष्ट्यादयः. यथा हि दौवारिकप्रमादे बन्धनागारात् पुरुषो निष्क्रांतो ऽपि दौवारिकानुचरैर् निवर्त्यते. तथेहाप्य् अमीभिर् इति. त्रिभिः. सत्त्वावरताम् इति. पृथग्जनत्वलक्षणां सत्त्वावरतां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनैर् नातिक्रामति. द्वाभ्यां कामछन्दव्यापादाभ्यां. धात्ववरतां कामधातुस्वभावां नातिक्रामति. नातिवर्तते. आर्येभ्यो ह्य् अवराः पृथग्जनाः. धातुषु च कामधातुर् अवरः. तस्माद् एव तान्य् अवरभागीयानि (अभिध्-क्-व्य् 492) अपरे योगाचाराः.
पर्यादाय त्रिसंयोजनप्रहाणाद् इति. निरवशेषतः सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासम्योजनप्रहाणाद् इत्य् अर्थः. षट् क्लेशाः [तिब्. 152ब्] प्रहीणा इति. पंच दृष्टयो विचिकित्सा च. न तु रागादय उक्ताः सवशेषत्वात्. तिस्रो दृष्टीर् अपहायेति. अंतग्राहमिथ्यादृष्टिदृष्टिपरामर्शदृष्टीः. त्रयम् एवाहेति. सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सात्रयम् एवाह. क आह. भगवान्. तथा हि सूत्रे पठ्यते. कियता भदंत स्रोतआपन्नो भवति. यतश् च महानामन्न् आर्यश्रावकः इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथभूतं प्रजानाति. त्रीणि चास्य संयोजनानि प्रहीणानि भवंति परिज्ञातानि. तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विव्चिकित्सा च. स एषां त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नो भवत्य् अविनिपातधर्मा संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य दुःखस्यांतं करिष्यतीति. सर्वम् एतद् वक्तव्यं स्यात्. भवेद् इत्य् अर्थः. त्रिप्रकाराः किल क्लेशा इति. दर्शनहेया इहाधिकृताः. एकप्रकाराः सत्कायांतग्राहदृष्टयः दुःखदर्शनमात्रप्रहेयत्वात्. द्विप्रकाराः शीलव्रतपरामर्शाः. चतुष्प्रकाराः विचिकित्सामिथ्यादृष्टिपरामर्शाः. तत्र सत्कायदृष्टिर् मुखम् एकप्रकाराणां. अतः सत्कायदृष्टिग्रहणाद् अन्तग्राहदृष्टिर् [तिब्. 153अ] अपि गृहीता भवति. विचिकित्सा मुखं चतुःप्रकाराणां. अतस् तद्ग्रहणान् मिथ्यादृष्टिपरामर्शानां ग्रहणं भवति. शीलव्रतपरामर्शस् तु साक्षाद् एव गृहीतः. ये तु रागादयो दर्शनहेयाः. ते ऽपि तदालंबनत्वात् गृहीता एवेति शक्यते वक्तुम् इति. अंतग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति. आत्मनः शाश्वतोच्छेदानुग्रहणात्. दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तित इति. येन शुद्धिं प्रत्येति. तस्याग्रतो ग्रहणात्. मिथ्यादृष्टिर् विचिकित्साप्रवर्तितेति. संशयितस्य मिथ्याश्रवणचिन्तनान् मिथ्यानिश्चयोत्पत्तेः. अतो मूलग्रहणान् मूलसंभूतग्रहणसिद्धिर् इत्य् अंतग्राहदृष्ट्यादयो ऽप्य् उक्तरूपा वेदितव्याः.
अपरे पुनर् आहुर् इत्य् अयम् एवाचार्यः. मार्गविभ्रमः कथम् इत्य् आह. अन्यमार्गसंश्रयणाद् इति.
(v.45) अवरभागीयसंयोजनवचनाद् अन्यभागीयम् अप्य् अस्तीत्य् अर्थाद् उक्तं भवति. अत इदम् उच्यते.
पंचधैवोर्ध्वभागीयम्
इति. संयोजनप्रसंगः.
(v.46) संयोजनादिभेदेन पुनस् ते पंचधोदिता
इत्य् अनेन संबंधेन संयोजननिर्देशानंतरं बंधननिर्देशावसरो ऽपरपर्यायः. रागो बन्धनं सर्व इति. सर्व इति प्रकारतो धातुतश् च. सर्वद्वेषः. किं सर्वः. प्रकारत एव [तिब्. 153ब्] मोहः सर्वः प्रकारतो धातुतश् च. आलंबनसंप्रयोगाभ्याम् इति. स्वपरसांतानिक्यां सुखायां वेदनायां यथायोगं रागो ऽनुशेते. दुःखायां वेदनायां द्वेषः आलंबनसंप्रयोगाभ्याम् इत्य् एव. अदुःखासुखायां मोहः ताभ्याम् इत्य् एव. ननु च रागद्वेषाव् अप्य् अदुःखासुखायां यथायोगं तथैवानुशयाते. कस्मान् मोह एवोच्यत इति आह. न तथा रागद्वेषाव् इति. रागद्वेषाव् अप्य् अनुशयाते. न तु तथा यथा मोहः. मोहो ह्य् अपटुत्वाद् अपट्व्याम् अदुःखासुखायां वेदनायाम् अनुकूलत्वात् सुतराम् अनुशेत इति. स्वासांतानिकालंबनतो वा नियम इति. स्वासांतानिकसुखाद्यनुभूतिसामर्थ्यात् तथा नियमः. स्वसंतानवेदनायां हि सुखायां रागो दुःखायां द्वेषो ऽदुःखासुखायां मोहः संप्रयोगत इति.
अपरे तु व्याचक्षते. न तथा रागद्वेषाव् इति. सुखायां यथा रागो ऽनुशेते न तथा द्वेषः. किं पुनः सुखायाम् अपि द्वेषो ऽनुशेते. अनुशेते शत्रुसुखे आलंबनतः. यथा च दुःखायां द्वेशो ऽनुशेते [तिब्. 154अ] न तथा रागः. किं पुनर् दुःखायाम् अपि रागो ऽनुशेते. अनुशेते शत्रुदुःखे आलंबनतः. स्वासांतानिकालंबनतो वा नियम इति. अथ वा स्वासांतानिके सुखे आलंबनतः संप्रयोगतो वा रागो ऽनुशेते. न परसांतानिके शत्रुसुखे. एवं दुःखे स्वासांतानिके द्वेशो ऽनुशेते आलंबनतः संप्रयोगतो वा. न पारसांतानिके शत्रुदुःखे. इत्य् एवं स्वासांतानिकालंबनतो नियमः. सुखायां वेदनायां रागो ऽनुशेतो. आलंबनसंप्रयोगाभ्यां दुःखायां द्वेष इति.
(v.46) चित्तोपक्लेशनाद् इति. चित्तक्लिष्टकरणात्.
ये ऽप्य् अन्ये चैतसा
इति. क्लेशेभ्यो ऽन्य इत्य् अर्थः. त उपक्लेशा एवेति. क्लेशसमीपरूपाः. क्लेशो वा समीपवर्त्य् एषाम् इति. क्लेशप्रवृत्त्यनुवृत्तेर् अपरिपूर्णक्लेशलक्षणत्वाच् चोपक्लेशाः. उपक्लेशाश् चैतसा एव ते न चित्तविप्रयुक्ताः. ये क्षुद्रवस्तुके पठिता इति. क्षुद्रवस्तुके प्रवचनभागे ये पठिताः. न तु चेतनादय एवेत्य् अभिप्रायः. तद्यथा अरतिर् [तिब्. 154ब्] विजृंभिका चेतसो लीनत्वं तन्द्री भक्षे ऽसमता नानात्वसंज्ञा अमनसिकारः कायदौष्ठुल्यं शृंगी भित्तिरीका अनार्दवता अनार्दवता अस्वभावानुवर्तिता कामवितर्को व्यापादवितर्को विहिंसावितर्को ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्को ऽवमन्यनाप्रतिसंयुक्तो वितर्कः कुलोदयताप्रतिसंयुक्तो वितर्कः शोकः दुःखं दौर्मनस्यम् (अभिध्-क्-व्य् 494) उपायास इति. [तन्द्रीति जडता.]
(v.47-49अब्) तत्राह्रीक्यानपत्राप्ये व्याख्याते इति.
अह्रीर् अगुरुतावद्ये भयादर्शित्वम् अत्रपेति.
धर्मामिषेति विस्तरः. धर्मस्यामिषस्य कौशलस्य च प्रदाने विरोधी चित्तस्याग्रहो मात्सर्यं. मा मत्तः सरत्व् इत्य् आकारो मत्सरः. मत्सर एव मात्सर्यं. मत्सरिणो वा भावो मात्सर्यं. कौकृत्यं स्त्यानं च व्याख्याते इति. कुकृतभावः कौकृत्यं. इह तु तदालंबनो धर्मः कौकृत्यं. कायचित्ताकर्मण्यता स्त्यानम् इति. चित्ताभिसंक्षेपो मिद्धम् इत्य् एतावत्य् उच्यमाने समापत्ताव् अपि प्रसंग इत्य् अतो विशेष्यते. कायसंधारणासमर्थ इति. तत् तु क्लिष्टम् एव पर्यवस्थानं. कौकृत्यं चेति. यत् क्लिष्टं मिद्धं. तत् पर्यवस्थानं. यत् तु कुशलम् अव्याकृतं वा न तत् [तिब्. 155अ] पर्यवस्थानं. त्रिविधं हि मिद्धम् इष्यते. कौकृत्यं च. यत् क्लिष्टं. तत् पर्यवस्थानं. न कुशलं. कुशलाकुसलं हि तद् इष्यते. व्यापादविहिंसावर्जितः सत्त्वासत्त्वयोर् आघातः क्रोध इति. सत्त्वविषये आघातविशेषो व्यापादः. अमी भवंतः सत्त्वा हन्यंतां वा बध्यंतां वा शीर्यंतां वा अनयेन व्यसनम् आपद्यंताम् इत्य् आकारप्रवृत्तो व्यापादः. सत्त्वाकर्षणसंत्रासनतर्जनादिकर्मप्रवृत्ता विहिंसा. ताभ्याम् अन्यः सत्त्वासत्त्वयोर् आघातः क्रोधः. तद्यथा शिक्षाकामस्य भिक्षोश् चित्तप्रकोपः. कंटकादिषु च प्रकोप इति. यथाक्रमं ज्ञाताज्ञातानाम् इति. राजादिभिर् ज्ञातानां म्रक्षवतां पुद्गलानां म्रक्षस् तृष्णानिष्यन्दः. मा मे लाभसत्कारो न भवैष्यतीति. अज्ञातानाम् अविद्यानिष्यन्दः कर्मस्वकताम् अश्रद्दधानः तद् अवद्यं प्रच्छादयति. न परस्यांतिके विशुद्ध्यर्थं देशयतीत्य् एवम् उभयनिष्यन्दो म्रक्ष इत्य् एके. कथम् अनपत्राप्यम् अविद्यानिष्यन्दः. यस्माद्
अवद्ये भयादर्शित्वम् अत्रपेति. [तिब्. 155ब्] कौकृत्यं विचिकित्साजम्
इति. यत् क्लिष्टं. तद् एव पर्यवस्थानाधिकारात्.
(v.49च्द्, 50) क्लेशमला
इति. यथा शरीरान् मला जायंते एवम् इमे मायादयो मला इव क्लेशेभ्य उत्पद्यंते. क्षिपति प्रेरति. मदः पूर्वोक्तः
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतस
इति.
(v.51) यश् च यद्दर्शनहेयसंप्रयुक्त इति. यस्य सत्यस्य दर्शनं यद्दर्शनं. यद्दर्शनेन हेयो यद्दर्शनहेयः. तेन संप्रयुक्तो यद्दर्शनहेयसंप्रयुक्तः. स तद्दर्शनहेयः. स तस्य सत्यस्य दर्शनेन हेयः. कः. आह्रीक्यादिः. तदन्ये भावनाहेया एव.
तेभ्यो ऽन्य
इति. आह्रीक्यादिभ्यो ऽन्ये ईर्ष्यादयो भावनाहेया एव. न दर्शनहेयाः.
स्वतंत्राश् चैते.
न रागादिपरतंत्रा इत्य् अर्थः.
(v.52) स्त्यानौद्धत्यमिद्धान्य् अकुशलाव्याकृतानीति. पर्यवस्थानाधिकारान् मिद्धं कुशलम् अपीति नोच्यते.
परेणाव्याकृतास् तत
इति. यथासंभवम् इति. कामधातोः परेण यावंतः संभवंति. ते पुनर् मायाशाठ्यादयः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
