Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मदीप with auto(?)entary विभाषाप्रभावृत्ति
- Tác giả
- विमलमित्र
- Thông tin
- GRETIL — P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः / तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम् // अभिध्-d_497 //
यत्खलु सत्त्वोपपत्तिनिर्वर्तकेषु तत्क्षयकरेषु च धर्मेषु ज्ञानमव्याहतं तत्सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । भव्यविशेषौषधवद् द्रष्टव्यम् । मोक्षभव्यानां नानाधातूनां सत्त्वानामनेकधातूनां सर्वक्लेशप्रहाणायौषधविशेषवत्सामान्यप्रतिपक्षविशेषप्रतिपक्षं च सर्वत्र जानीते गतिहेतुं चानेन धातुरेकसन्ताने यो यद्गतचित्तस्तद्वशेन तदवतरणभव्यो ऽभव्यश्च भवति तत्सर्वं यथावत्प्रतिजानातीति सर्वाकारज्ञताप्युक्ता भवति । तदेतत् सफलमार्गप्रहाणाद्दशज्ञानात्मकं भवति । केचित्तु केवलमार्गग्रहणान्नवज्ञानात्मकम् ॥
यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् / प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम् // अभिध्-d_498 //
स्वपरसन्ता निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाको ऽयममुष्यस्वप्ननिमित्तध्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति । यथा खलु भव्यार्थसूचकान् स्वप्नाननेकशो दृष्ट्वा तांश्चार्थानभिनिष्पन्नान् प्रायशः सदृशानपेक्ष्य निश्चयो भवति तद्वदिति । यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति । तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता । किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्बलं संवृतिज्ञानात्मकमेव ॥
सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् / तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते // अभिध्-d_499 //
दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरितावतरणज्ञानपरप्रत्ययो भवति । प्रत्युत्पन्नविषयमप्येवम् । तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते । तदेतत्संवृतिज्ञानात्मकमेव ॥ आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश / अत इदानीं भगवतो विनेयकार्यं किमवशिष्टम् ? आस्रवक्षयः । तस्मिन्यज्ज्ञानं यस्य यदा यैरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित् । अतो ऽस्यैव तद्बलं नान्यस्य । तत्पुनरेतत् षड्ज्ञानस्वभावं दशात्मकं वा । यद्यास्रवक्षये ज्ञानम्, षड्भवन्ति । (jaini_387) परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा । अथ सोपाये क्षये ज्ञानं दर्शनं भवति, दशज्ञानानि भवन्ति ।
उक्तो दशबलस्वभावः ।
आकारनियमो वक्तव्यः । सो ऽयमुच्यते- षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा // अभिध्-d_500 // सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् / अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत् // अभिध्-d_501 // तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति / स्थानास्थानज्ञानबलं षोडशभिराकारैः प्रवर्तते । अन्यैश्च तन्निर्मुक्तैरास्रवक्षयज्ञानबलमपि यदि सोपायं क्षयं विवक्षति तदपि षोडशाकारम् । अथ क्षयमात्रं तत्, षड्ज्ञानमयैराकारैः सर्वत्रगामिनीं प्रतिपज्ज्ञानबलं सप्तमं तदपि तथैव षोडशाकारम् । द्वयं तु पूर्वेनिवासानुस्मृतिच्युत्युपपत्तिज्ञानबलमविभक्ताकारबलम् । द्वितीयं तु कर्मविपाकज्ञानबलमष्टाकारम् । यत्तु समाधिसमापत्तिज्ञानबलं तस्य नवज्ञानस्वभावं तैरेव द्वादशभिराकारैः प्रवर्तते । अन्यद्यन्नोक्तं तदभ्यूह्यम् ।
किं पुनः किं गोचरम् ? सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा // अभिध्-d_502 // सर्वविषयं स्थानास्थानबलम् । आस्रवक्षयज्ञानबलं निर्वाणविषयं वा चतुःसत्यविषयं वा ॥ द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् / कर्मविपाकज्ञानबलं भवविषयम् । सर्वत्रगामिनी प्रतिपत्ज्ञानबलं चतुःसत्यालम्बनम् । अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम् // अभिध्-d_503 // पूर्वेनिवासानुस्मृतिज्ञानबलं ऽअतीताद्यद्धिऽ; धातुगोचरम् ॥ नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् / च्युत्युपपत्तिज्ञानबलं रूपायतनविषयम् अन्यद्यदवशिष्टं तत्संस्कृतधर्मगोचरं द्रष्टव्यम् ।
अत्र पुनः द्व्यपेक्षो बलशब्दो ऽयं बलं त्वप्रतिघाततः // अभिध्-d_504 // पराभिभवापेक्षश्च सर्वाप्रतिघातित्वेन च । यत्खलु अप्रतिहतसामथ्य तद्बलमित्युच्यते । मानसं बलं दशविधं भगवतो व्याख्यातम् ॥
कायिकमप्यभिधीयते- सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् /स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात् // अभिध्-d_505 // नारायणं नाम बलमुच्यते । तच्च भगवतो मर्मणि मर्मणि विद्यते । नागग्रन्थिशङ्कलाशङ्कुसन्धयश्च यथाक्रमं बुद्धप्रत्येकबुद्धचक्रवर्तिनः ।
किं प्रमाणं पुनस्तन्नारायणं बलम् ? यत्खलु दशानामितरहस्तीनां बलं तदेकस्य गन्धहस्तिनः । एवं दशोत्तरवृत्त्या महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां वाच्यम् । ऐरावणसहस्रस्येत्यन्ये । स हि देवोद्यानयात्रासमये त्रयस्त्रिंशच्छिरसमात्मानमभिनिर्मायात्यद्भुतविचित्रोद्यानायायमानानि तावन्त्येव देवकुलान्यनेकसहस्रपरिवाराणि भूर्जपत्रवदादाय गच्छःयेष बलसमुदयस्तस्य । एवं तु वर्णयन्ति मानसबलवदनन्तं कायिकमपि बलं बुद्धानां भगवतामिति । तत्पुनः कायिकं बलं स्पृष्टव्यायतनसंगृहीतम् । गुरुत्वेन बलसंग्रहो लघुत्वेन दौर्बल्यस्येति वर्णयन्ति ।
स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् / आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः // अभिध्-d_506 //
सूत्र उक्तम्- "सम्यक्सम्बुद्धस्य वत मे सत इमे धर्मास्त्वयानभिसम्बुद्धाः" इति विस्तरः । अत्र हि प्रथमद्वितीयाभ्यां स्वार्थसम्पद्भगवतोद्भाविता । पूर्वेण ज्ञानसम्पत् । द्वितीयेन प्रहाणसम्पत् । द्वाभ्यामन्याभ्यां परार्थसम्पदा दर्शिता व्यवदानसंक्लेलोद्भावनात् ।
कतरत्पुनर्वैशारद्यं कति ज्ञानात्मकम् ? तदुच्यते । स्थानास्थानबलरूपमाद्यम् । आस्रवक्षयज्ञानरूपं द्वितीयम् । कर्मस्वकज्ञानबलं तृतीयम् । सर्वत्रगामिनीप्रतिपत्ज्ञानबलं चतुर्थं वैशारद्यम् । तद्यावज्ज्ञानस्वभावान्येतानि वलानि तावत्स्वभावानि यथाक्रमं चत्वारि वैशारद्यानि बोद्धव्यानि ।
सूत्र उक्तम्- "त्रीणीमानि स्मृत्युपस्थानानि यान्यार्यः सेवते" इति विस्तरः । तेषां पुनरिदं लक्षणम्-
श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः / संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा // अभिध्-d_507 //
शुश्रूषकाशुश्रूषकादिभेदाद्विनेयानां त्रैविध्येन व्यवस्थानम् । शुश्रूषकादिवर्गत्रयाभिसन्धेः । स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि त्रीणि स्मृत्युपस्थानानि । स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाणाशुश्रषमाणतदुभययुक्तेषु विनेयसमूहेषु नानन्दो भवत्याघातो वा ॥
महाकरुणा पुनः
संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः / सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा // अभिध्-d_508 //
यदा श्रावकस्यापि करूणा विद्यते प्रत्येकबुद्धस्यापि कस्माद् बुद्धस्यैव महाकृपेत्युच्यते ? यस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महापुरुषलक्षणविद्योतितशरीराध्यासिनी दशबलपरिगृहीता च । तस्माद् बुद्धस्यैव भगवतो महाकृपेत्युच्यते । उक्ता असाधारणगुणाः ॥
श्रावकसाधारणा उच्यन्ते-
अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः / अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः // अभिध्-d_509 //
इतरैरपि सामान्या अप्रमादादयो गुणाः / एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम् // अभिध्-d_510 //
तत्र तावत् ।
अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् / आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी // अभिध्-d_511 //
इह कश्चिदर्हन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति- कथं नाम परे ऽपि इमे सन्तानालम्बनाद् क्लेशान् नोत्पादयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः । चतुर्थं ध्यानं विवृद्धिकाष्ठागतं समापद्य तथा करोति यथास्य चारविहारगतस्य सन्ताने न कश्चित्क्लेशमुत्पादयति ।
प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु / अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः // अभिध्-d_512 //
प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अर्हद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात् ॥
प्रतिसंविदः खल्वपि
विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी / आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी // अभिध्-d_513 //
तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी / तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी // अभिध्-d_514 //
तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु वक्ष्यमाणार्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवर्त्यं ज्ञानं सा धर्मप्रतिसंवित् । तदवद्योत्येषु पौरूषेयापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवर्त्यं ज्ञानं सार्थप्रतिसंवित् । नामकायादिवाचक एव वाक्छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो पग्रहसम्बन्धिनि यदविवर्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित् । धर्मार्थनिरुक्तिषु ध्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवर्त्यं ज्ञानं सा प्रतिभानप्रतिसंवित् ।
त एते षड्गुणाः प्रान्तकोटिकमित्युच्यन्ते ॥
का कति भूमिकाः पुनरासां प्रतिसंविदां का वा कति ज्ञानमयी ? तदवद्योत्यते- अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव / अर्थप्रतिसंवित् सर्वासु भूमिषु कामधातौ यावद्भवाग्रे नवज्ञानस्वभावा निरोधज्ञानं वर्जयित्वा षड्ज्ञानानि निर्वाणस्यैव परमार्थत्वात्, परचित्तदुःखसमुदयमार्गज्ञानानि वर्जयित्वा । प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ // अभिध्-d_515 // प्रतिभानप्रतिसंविदपि सर्वासु भूमिषु दशज्ञानमयी ।
तत्र कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः / धर्मप्रतिसंवित् कामधातौ चतुर्षु ध्यानेषु निरुक्तिप्रतिसंवित् कामधातौ प्रथमे च ध्याने । संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ // अभिध्-d_516 // उभे अप्येते संवृतिज्ञानस्वभावे धर्मनिरुक्तिप्रतिसंविदाविति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः ॥
सप्तमाध्याये
चतुर्थपादः ।
पृथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः । त इम उच्यन्ते-
ऋद्धौ श्रोत्रे ऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये / ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि // अभिध्-d_517 //
ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताभिज्ञेत्युच्यते । केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते । ऋद्धिपाददिव्यश्रोत्रचेतः- पर्यायपूर्वेनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साभिज्ञा । अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा ।
कस्मात्पुनर्विमुक्तिमार्ग एवाभिज्ञा श्रामण्यफलवत् न आनन्तर्यमार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादर्हतश्चास्रवक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात् ॥
आसां पुनः
चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः / सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश // अभिध्-d_518 //
चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा । चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा षड्ज्ञानानि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वाअथवा दशेऽति ॥ षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु / आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु । शेषा मौलीषु चतसृषु ध्यानभूष्विति । यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः // अभिध्-d_519 // सर्वाः अभिज्ञाः यत्नतो लभ्यन्ते वैराग्यतश्च । तत्रानुचिता यत्नतः । उचिता वैराग्यतः । जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते । वैशेषिक्यो यत्नतः । ऽस्वभूम्यधरगोचराऽश्चैताः । ऋद्ध्या स्वभूमिं गच्छत्यधरां च भूमिम् । निर्मितनिर्माणमप्येवम् । दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधोभूमिकं च शब्दं शृणोति । एवं परचित्तज्ञानं पूर्वेनिवासानुस्मृतिज्ञानं च । च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति ॥
कतमा पुनरासां कति स्मृत्युपस्थानानि ?
स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता / ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः // अभिध्-d_520 //
परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा । चित्तचैत्तालम्बना खल्वेषा । ऋद्धिश्रोत्रचक्षुरभिज्ञाः कायस्मृत्युपस्थानं रूपालम्बनत्वात् । ऋद्धिः खलु चतुर्बाह्यायतनालम्बना । दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने ।
कुशलादिभेदेन तु दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः / दिव्यश्रोत्रचक्षुषी किलाव्याकृते । तच्च न । अभिज्ञानां विमुक्तिमार्गस्वभाव्याच्चक्षुःश्रोत्रविज्ञानयोश्चाविकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः । चतुर्षु ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव चक्षुःश्रोत्रं संमुखीभावं गच्छति । यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाभिज्ञेति ।
कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते- अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया // अभिध्-d_521 //
अभिज्ञाफलमत्राभिज्ञाशब्देनोक्तम् । मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाभिजानातीति । सैवाभिज्ञा निरूपकत्वात् ।
कति पुनरासां विद्या ?
तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये / एका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात् // अभिध्-d_522 //
पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षात्क्रियास्तिस्रः खल्वशैक्ष्यो विद्या उच्यन्ते । कस्मादेता एव ? एत एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते । पूर्वेनिवासाभिज्ञाज्ञयापूर्वान्तसंमोहः निवर्तते । च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते । आस्रवक्षयाभिज्ञया मध्याध्वसंमोहः ।
यद्यपि च तिस्रो ऽप्यशैक्षास्तथापि ऽएका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात्ऽ; । अन्त्या वाशैक्षी स्वभावतः सन्तानतश्च । आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते ।
कति पुनरासां प्रातिहार्याणि ?
ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् / हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् // अभिध्-d_523 //
ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः । अनुशासनाप्रतिहार्यं मारेभ्यो ऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति ॥
का पुनरियमृद्धिः ?
समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा / द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते // अभिध्-d_524 //
ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरत्युक्तं सूत्रे । अङ्गपरिगृहीते समाधौ सति सर्वमेतत्प्रातिहार्य मृद्ध्यति । तस्मात्समाधिरेव ऋद्धिः । तस्याः फलमष्टगुणमैश्वर्यमणिमादि ।
यच्च सूत्रे ऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं द्विविधं गतिश्च निर्माणं च । गतिरपि त्रिविधा । तत्र
मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः / अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी // अभिध्-d_525 //
मनोजवाःखलु ऋद्धिर्बुद्धस्यैव । मनस इव जवस्तस्याः । यावता कालेन चक्षुर्विज्ञानं नीलं प्रतिपद्यते यावता कालेन भगवाञ्च्छरीरेण सर्वलोकान्तराणि व्याप्नोत्यनन्तर्द्धिशरीरा हि बुद्धा भगबन्तो ऽनाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य । श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा । आधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते । बाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति । व्याख्यातं समाधिफलम् ॥
गमनं निर्माणमिदानीं वक्तव्म् । तद्द्विविधं कामावचरं रूपावचरं च । तत्र तावत्-
रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते / रूपस्पर्शौ मतौ रूपे स्वेशरीरे ऽथ वा बहिः // अभिध्-d_526 //
कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते । नान्यदीश्वरकर्तृत्ववादाभ्युपगमप्रसंगात् । रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात् । तत्पुनरेतत् स्वशरीरे परशरीरे च द्रष्टव्यम् । एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम् । इत्यष्टविधं निर्माणम् ।
किं खलु निर्माणमभिज्ञया निर्मीयते ? किं तर्हि ?
अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश / आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः // अभिध्-d_527 //
प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च ॥
कथं पुनर्निर्माणचित्तानि लभ्यन्ते ?
तल्लाभो ध्यानवत् ज्ञेयः
यथा खलु ध्यानानि वैराग्यत उपपत्तितः प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि ।
कथं पुनस्तदुत्पद्यते ? शुद्धकाच्च स्वतश्च तत् / शुद्धकाद् ध्यानादनन्तरं निर्माणचित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः । ततः खल्वपि निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । सर्वस्य च निर्मितस्य स्वभूमेनैव निर्माणमधरेणापि भाषणम् // अभिध्-d_528 // न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते । भाषणं तु स्वभौमेनाधरभौमेन च । कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाषते । ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसमुत्थापकचित्तसद्भावात् ॥
किं पुनर्निर्मितनिर्मात्रोः क्रमेण वाग्भाषणं भवत्यथ युगपत् ? तदुच्यते- निर्मात्रैव सहैतेषां भाषणं सुगतादृते / उक्तं हि
"एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः । एकस्य तूष्णीं भूतस्य सर्वे तूष्णीं भवन्ति ते ॥ "
भगवतस्तु इच्छातः पूर्वं पश्चाद्युगपद्वा निर्मिता भाषन्ते । तेषां पुनः एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम् // अभिध्-d_529 //अधिष्ठाय तु निर्माणं भाषन्ते ऽन्येन चेतसा / ऽअधिष्ठाय तु निर्माणंऽ; संस्थाप्येत्यर्थः । अन्येन चेतसा विज्ञप्तिसमुत्पादकाख्येन वाचं प्रवर्तयतीत्यतो ऽपि नास्ति निर्माणान्तर्धानो दोषः । तत्पुनरेतदधिष्ठानं न केवलं जीवत एव । किं तर्हि ? अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः // अभिध्-d_530 // आर्यमहाकाश्यपाधिष्ठानेन तदस्थिशंकलापस्थानश्रवणात् स्थिरस्यास्थिलक्षणस्य न मांसरुधिरादीनामस्ति ॥
किं पुनरेकचित्तेनैकं निर्मितं निर्मिणोत्यथ बहून् ? अजय्येकमनेकेन जयिणस्तद्विपर्ययः / आद्याभिनिर्हारैर्बहुभिर्निर्माणचित्तैरेकं सोपादानं च निर्मितं निर्मिणोति । (jaini_403) र्जितायां त्वभिज्ञायां निर्मातुरिच्छया बहूनप्येकचित्तेन निरूपादानमपि च निर्मिणोति ।
तत्पुतरेतन्निर्माणचित्तं द्विविधं भावनामयमुपपत्तिप्रातिलम्भिकञ्च । तत्र अव्याकृतमभिज्ञोत्थं उपपत्त्य त्वयं त्रिधा // अभिध्-d_531 // यत्खलु भावनाफलं निर्माणचित्तं तदव्याकृतं भवति । उपपत्तिप्रातिलम्भिकं तु कुशलादिना त्रिप्रकारम् । तदुपपत्तिफलं दशातिशययुक्तम् ।
अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते / सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः // अभिध्-d_532 //
यदेततदणिमादिशैक्षान्तं दशविधमैश्वर्यसुखं तदतिशययुक्तमर्हतामेवोपपद्यते ॥
यदि तर्हि त्रयाणामर्हतामेतदैश्वर्यं समानमस्ति कस्तर्हि विशेषः शास्तृशिष्ययोः ? तत्रेदमुपदिश्यते-
ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः / अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम् // अभिध्-d_533 //
दशबलाद्यावेणिकबुद्धगुणचिन्तायां चतुष्प्रत्ययता नद्युत्तरणे गन्धहस्त्य श्वशशकदृष्टान्तैश्च विशेषान्तरं बोद्धव्यमिति ॥
अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥
समाप्तश्च ज्ञानविभागो नाम सप्तमो ऽध्यायः ॥
अष्टमो ऽध्यायः ।
प्रथमः पादः ।
व्याख्याता हि विस्तरशो विदर्शना । शमथ इदानीं वक्तव्यः । स खल्वेष शमथश्चतुर्थध्यानारूप्यसंगृहीतः । तत्र तु साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः / शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते । यस्य खलु धर्मस्याङ्गपरिगृहीततो(स्यो ?) द्रेकात् चित्तचैत्तान्यालम्बनान्तरं न प्रतिपद्यन्ते स धर्मश्चैतसिकः समाधिरित्याख्यायते । तदङ्गभेदेन चतुर्विधमिति वक्ष्यामः । तस्यां पुनश्चित्तस्थितौ ध्यानोक्तिराञ्जसी तत्र भाक्ती तत्सहभूष्वपि // अभिध्-d_534 // समाधिस्वभावं खलु परमार्थेन ध्यानम् । सपरिवारं तु गृह्यमाणं पञ्चस्कन्धस्बभावम् । भक्तिकल्पनया तत्सहभूष्वपि धर्मेषु ताच्छब्द्यम् ॥ संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा / प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति । द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम् // अभिध्-d_535 // द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि ॥
तत्र तावत् ।
सहारूप्यचतुष्ट्वेन समापत्तिर्मताष्टधा / चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः // अभिध्-d_536 //
पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्तिः प्रज्ञाप्यते । चतुःपञ्चेष्वारूप्यसमापत्तिरिति ॥
भेदेन तु समापत्तिद्रव्याणि दश सप्त च / सामन्तकैः सहाष्टाभिर्ध्यानान्तरिकयापि च // अभिध्-d_537 //
अष्टानां खलु समापत्तिभूमीनामष्टानामेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता । एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह- तद्भेदाः खल्विमे ऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः / अन्ये ऽपि खलु समापत्तिभेदास्तदन्तर्गता एव सूत्राभिधर्मोदिता वक्ष्यन्ते । बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम् // अभिध्-d_538 // भगवानेब हि सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृत्तिरिति ॥
त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते-
त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः / तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम् // अभिध्-d_539 //
तत्र मौलानि तावद् ध्यानानि त्रैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्रवभेदात् । एवं त्रयो मौला आरूप्याः । भवाग्रं तु नास्त्यनास्रवम् । कामधातोर्भवाग्रस्य च भवमूलत्वात् ॥
सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् / ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम् // अभिध्-d_540 //
प्रथमध्यानसामन्तं हित्वान्यानि सप्त सामन्तानि द्विप्रकाराण्यन्यत्रानास्रवात् । प्रथमध्यानसामन्तकं तु त्रिप्रकारम् । केचित्तु आस्वादनासंप्रयुक्तं नेच्छन्ति । तद्वद् ध्यानान्तरिका त्रिधेति वर्तते । यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति ॥
किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते-
आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् / अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् // अभिध्-d_541 //
यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते । तृष्णाया आस्वादपर्यायत्वात् । यत्तु न संप्रयुक्तं तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयैकफलत्वात् । यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते । क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च ।
तदेतच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम् । तेन हि तत्समनन्तरातीतमास्वाद्यते । येनास्वादयति तमापन्नो यदास्वादयति तस्माद्व्युत्थितः । अन्योन्यसंसर्गाद्धि तृष्णासमाध्योर्न्नामनिर्वृतिः । तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्यान नाम, अन्यथा विप्रतिषिद्धं स्यात् । न हि कश्चित्तृष्णां समापद्यते, न च समाधिनास्वादयतोति । लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते ॥
आसां पुनः समापत्तीनां ध्यानान्येवाङ्गवर्ति नारूप्याः । कति पुनः कस्य ध्यानस्याङ्गानि ? तदिदं प्रस्तूयते-
अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता / प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम् // अभिध्-d_542 //
प्रथमे तावच्छुभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः । क्लिष्टे चत्वारि सुखं हित्वा ॥
साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः / द्वितीये ऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते // अभिध्-d_543 //
द्वितीये कुशले ध्याने चत्वार्यङ्गानि । आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा ॥
तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः / क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम् // अभिध्-d_544 //
तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्च । क्लिष्टे तु द्वे ऽसमाधिर्वेदनासुखम्ऽ; ॥
अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च / क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः // अभिध्-d_545 //
चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि । अदुःखासुखावेदना उपेक्षा च स्मृतिपरिशुद्धिः समाधिश्च । क्लिष्टे तु द्वे वेदना स्थितिश्च ॥
कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ?
द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च / अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः // अभिध्-d_546 //
द्रव्यतः खल्वेकादश भवन्ति । प्रथमे ध्यानाङ्गानि पञ्च । द्वितीये ऽध्यात्मसंप्रसादो वर्धते । तृतीये समाधिवर्ज्यानि वर्धन्ते । चतुर्थे त्वदुःखासुखावेदनेति ।
ननु च यत् तृतीये ध्याने सुखमुक्तं तथा प्रथमद्वितीययोः..........
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः समाप्तः ॥
अष्टमाध्याये
द्वितीयपादः ।
शमथस्य च / ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः // अभिध्-d_547 //
ध्यानसामन्तकेषु खलु विदर्शनोदृक्ता शमथो न्यूनः । आरूप्येषु सर्वत्र शमथो ऽधिकवृत्तिर्विपश्यना न्यूनतरा । विपश्य पश्यतो संज्ञायामिति वचनादङ्गिन्यपि पश्चादुद्देशो भवति । ततः सिद्धं विपश्यनाः ॥
यदा खलु चत्वार्यपि ध्यानानि विपाकं प्रति नेञ्जन्ते कस्माच्चतुर्थमेवानेज्यमुच्यते ? तत्रापदिश्यते-
वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् / उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते // अभिध्-d_548 //
त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टापक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेज्यं चतुर्थमुक्तं सूत्रे । आभिप्रायिकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे । तथाहि "सुखदुःखयोः प्रहाणात्सौमनस्यदौर्मनस्ययोश्चास्तङ्गमाच्चतुर्थं ध्यानमुपसम्पद्य विहरति" इत्युक्तम् । अभिधर्मे वितर्कविचारप्रीतिसुखान्येवेञ्जितम् ॥
इदमिदानीं वक्तव्यम् । इह ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । प्रीतिर्हि सौमनस्यम् । तृतीये सुखं चतुर्थे उपेक्षा । तत्किंमुपपत्तिध्यानेष्वप्येष एव वेदनानियमः ? नेत्युच्यते । किं तर्हि ?
आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते / सुखोपेक्षे तृतीये ऽन्त्ये उपेक्षैव विदिष्यते // अभिध्-d_549 //
प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः । सुखं त्रिविज्ञानकायिकं, सौमनस्यं मनोभौममुपेक्षा चतुर्विज्ञानकायिकी । द्विंतीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् । तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति ॥
ननु च द्वितीयादिषु ध्यानेषु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् । तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नैष दोषः । स्वभूमिकप्रतिषेधात् । कुतस्तेन तर्हि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते-
दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा / यद्भूमावविचारायामाद्यादव्याकृतं तु तत् // अभिध्-d_550 //
द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति । तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान्न क्लिष्टं वीतरागत्वात् । तद्यथा कश्चिदीश्वरो दरिद्रमित्रगृहं गतः । तेनासौ सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्टं वस्तु हित्वा यत्किञ्चिद् गृह्णीते तद्वदिति । व्याख्यातस्वरूपाणि ध्यानानि ॥
आरूप्याः वक्तव्याः । तदारभ्यते-
खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः / विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः // अभिध्-d_551 //
अनन्ताकाशनिमित्तोद्ग्रहः तत्संज्ञाप्रवृत्तिनिमित्तं पश्चात्तु चतुःस्कन्धालम्बनास्तदन्यतमालम्बना अन्यधर्मालम्बना वा मनस्काराः संमुखीभावं गच्छन्ति । उक्तं हि भगवता- "सर्व्वशो रुपसंज्ञानां समतिक्रमात्प्रतिधसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमानन्त्ययायतनमुपसम्पद्य विहरति" इति ।
कः पुनरासां तिसृणां रूपादिसंज्ञानां विशेषः ? प्रपञ्चरूपसंज्ञाभिरत्र विशेषो बोद्धव्यः । तदस्मादागमाद्विविधाद्या रूपारूप्यस्कन्धाः संगृहीताः । तत्र समापत्तिलक्षणा चित्तानुपरिवर्तिना शीलेन वियुता शेषेनोपपत्ति लक्षणात् । त एत आरूप्याः प्रथमारूप्यसामन्तकं हित्वा विभूतरूपसंज्ञा भवन्ति । प्रथमसामन्तकं तु चतुर्थध्यानाविदूषितवृत्तित्वाद्गाढबन्ध मिति । अतस्तदेकं न विभूतरूपसंज्ञाख्यं लभते ।
कथं पुनर्निर्धार्यते नारूप्येषु रूपमस्तीति ? आगमाद्युक्तितश्च । (jaini_413) आगमस्तावत्- "सर्वशो रूपसंज्ञानां समतिक्रमात्" इत्याविष्कृतमिदम् । अन्यदाप्तवचनम्- "अरूपिणः सन्ति सत्त्वाः" इति । ईषद्रूपत्वादरूपिणोनुदरा कन्यावदिति चेत् । न । सर्वश इत्यपदेशात्, निःसरणोक्तेश्च । उक्तं हि "रूपाणां निःसरणमारूप्याः" इति । यथा हि "यत् किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम् ।" निरोधे खलु सर्वसंस्कृतवियोगो ऽम्युपगम्यते । न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरोधित्वात् ।
युक्तिरपि । रूपाश्रयादीन्यवधूय स्वोद्वेगमुखेन तदाश्रयाद्दस्यूपद्रुततद्वियुक्तदेशाश्रयवत् । उक्तस्तर्ह्यारूप्येभ्यो रूपिषूपपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च । तत्र सभागविपाकहेत्वोरेव तयोरप्यस्तित्वात् कारणत्वं रूपप्रत्ययेन च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात् महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शनाच्चान्योन्यहेतुत्वसिद्धिः ॥
उक्तः प्रयोगप्रथमारुप्यः । द्वितीयो ऽप्युच्यते- तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः / आकाशानन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाधिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । अत्रापि पश्चाच्चतुःस्कन्धालम्बनास्तदन्यतस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति । तद्विक्षिप्तसंज्ञकः विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः // अभिध्-d_552 // स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । अथवा नास्ति किञ्चिंदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतनमित्युच्यते । अनन्ताकारौदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते । अत एवाकिञ्चन्यायतनं परमोपेक्षेत्युच्यते । यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसो ऽनाभोगता संतिष्ठते ॥ तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः / स खलु संक्षिप्तामपि विभुत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्टपरिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सतीं नैवसंज्ञं नासंज्ञमुपसम्पद्यते । अतो नैवसंज्ञानासंज्ञायतनं समापद्यते । न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम् । सर्वैषु चारूप्येषु आदौ तथा प्रयुक्तत्वात् तत्संज्ञा व्यपदिश्यते // अभिध्-d_553 // न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति । व्याख्यातानि मौलान्यष्टौ समापत्तिद्रव्याणि ॥
सामन्तकानां पुनरादिध्यानसामन्तकस्यानागम्याख्यस्य किं रूपम् ? तदपदिश्यते-
सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् / चित्तमार्येतराकारं तदानागम्यमुच्यते // अभिध्-d_554 //
यत्खलु प्रथममौलध्यानप्रवेशोपायचित्तं सवितर्कं सविचारमुपेक्षावेदनासंप्रयुक्तं सानुपरिवर्तकं...............
......अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य द्वितीयपादः ॥ .......
अष्टमाध्याये
तृतीयपादः । ......
..........व्युत्क्रान्तकसमापत्तिं, समापद्यन्ते तदपदिश्यते-
चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् / सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः // अभिध्-d_555 //
चत्वारो हि ध्यायिनो भगवतोक्ताः । "तेषामेकः समापत्तौ विपत्तिसंज्ञी, द्वितीयो विपत्तौ सम्पत्तिसंज्ञी, तृतीयः सम्पत्तौ सम्पत्तिसंज्ञी, चतुर्थो विपत्तौ विपत्तिसंज्ञी" इति । एते हानस्थितिविशेषोत्कर्षध्यानभेददर्शनयोगात् चत्वारो भवन्ति ॥
कः पुनरयं ध्याता कानि वा ध्यानध्येयध्यानफलानि ? तदाविष्क्रियते- ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा / सर्वमेतच्चतुष्टयं पूर्वमेव विस्तरेणाभिहितम् । भवतस्तु असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम् // अभिध्-d_556 // न हि तवैतच्चतुष्टयं सिद्धम् औपनिषदसांख्यवैशेषिकादिपरिकल्पितप्रमातृप्रमाणप्रमेयप्रमाणफलानि पूर्वमेवोक्तदोषाणि ॥
किं पुनः कर्मानुष्ठानान्मोक्षो भवति, आहोस्विज्ज्ञानानुष्ठानादिति ? तत्र ब्रूमः-
कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा / व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च // अभिध्-d_557 //
त्रीणि खलु कर्माणि । दानशीलभावनाख्यान्यनुष्ठाय दश च ज्ञानानि धर्मस्वसामान्यलक्षणसंमोहप्रतिपक्षभूतान्यनुष्ठाय परं ब्रह्म प्राप्नोति नान्यथेति । तदेतदाविष्क्रियते- कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये / तत्र खलु पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता // अभिध्-d_558 // कर्मादिचिन्तायाम् ॥
ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् / अतो ऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ // अभिध्-d_559 //
यस्तु मन्यते पश्वाद्यालंभनादिभिः कर्मभिः भोक्तृभोग्यान्तरपरिज्ञानादिभिश्च मोक्षो भवति स वक्तव्यः ऽखलीनं चर्वयति ।ऽ; यस्मात्
परपीडाप्रवृत्तत्वाद्वधलोभानृतादयः / अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः // अभिध्-d_560 //
हिंसानृतलोभादयो हि दोषाः कुगतिगमनहेतवो न स्वर्गापवर्गगमनोपायाः । शास्त्रचोदिता हिंसा नाधर्म इति चेत् । न । शास्त्रलक्षणापरिज्ञानात् । कथम् ? यस्मात्
युक्तार्थचोदनाद् दुःखत्राणाद्दोषानुशासनात् / शास्त्रमित्युच्यते ऽतो ऽन्यज्ज्ञेयं वातिकभाषितम् // अभिध्-d_561 //
यत्खलु प्रमाणत्रयविरुद्धार्थं वाक्यम्, यच्च पापकेभ्यः कर्मेभ्यः कुगतिगमनहेतुभ्यो निवारणेन त्रायते, यच्च रागद्वेषमोहाननुशास्ति तद्वाक्यं (jaini_418) शास्त्रमित्युच्यते । नान्यदिति । तस्मादन्यदनाप्तवचनम् । न । वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शनात् । प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च द्वे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति । तत्रेदं प्रत्युच्यते-
पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् / दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात् // अभिध्-d_562 //
दृष्टं हि सामर्थ्यं पारसीकशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रैः पापनाशो ऽभ्युपगभ्यते भवद्भिः, न च सर्वस्य विषमं प्रशमयन्ति; तद्गतारिष्टादिना मरणदर्शनात् । यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रेडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति । दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु । एवं मन्त्राणां विषोपशमने सामर्थ्यं भवतु । मा भूत्पापविनाशन इति ।
यदप्युच्यते भवद्भिः । वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवर्त्मन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति । यस्मात् ।
रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते / विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते // अभिध्-d_563 //
तद्यथौषधं विशुद्धकोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य । तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारो ऽपि मोक्षवर्त्मन्यधिक्रियते । न चतुर्वेदो रागद्वेषमोहादिदोषोररीकृतचित्तभूमिरिति । अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम् । तदिदमारभ्यते-
शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् / न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत् // अभिध्-d_564 //
चतुर्विधं खलु शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयम् एवमारुप्यमन्यत्र भवाग्रात् । तद्धि त्रिविधं विशेषभागीयं हित्वा ॥
किं पुनरेषां लक्षणम् ? क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा / यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । तस्मादनास्रवमुत्पद्यते ।
अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ? द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम् // अभिध्-d_565 // हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हानस्थितिभागीये । स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात् । विशेषभागीयस्यापि त्रीण्यन्यत्र हानभागीयात् । निर्वेधभागीयानन्तरं तदेवैकमिति ॥ व्युत्क्रान्तकसमापत्तिरर्हतो ऽकोप्यधर्मणः / स खल्वेषार्हतो ऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च । दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः । समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समाधौ वशित्वमिति ।
कथं पुनरियमुत्पाद्यते ? तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया // अभिध्-d_566 // धर्मभूम्युत्क्रमेणाष्टौ शुद्धकाख्यादनास्रवम् / शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम् // अभिध्-d_567 //
ऽगत्वेऽत्यनुलोममष्टौ भूमीः समापद्य । ऽआगम्येऽति प्रतिलोमे समापद्य । ऽद्विधेऽति सास्रवानास्रवा । ऽजिगीषयेऽति जयं चिकीर्षन्धर्मभूम्युत्क्रमेण जेतुकामः । शुद्धकादनास्रवं ऽशुद्धकाच्च तृतीयं स्वं ।ऽ; ऽनिष्ठाऽ; तु शुद्धादनास्रवम् । स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते । तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्यायतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रतिलोमं च समापद्यते । एष प्रयोगो व्युत्क्रान्तसमापत्तेः ।
यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते । तां च त्रिषु द्वीपेषु समापद्यते ॥
स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः / भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते // अभिध्-d_568 //
भवाग्रं भवाग्रे च संमुखीक्रियते । अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्चेति । ऊर्ध्वो पपन्नो नाधरां समापत्तिं संमुखीकरोति वैयर्थ्यात् । न हि तत्रानास्रवो मार्गो ऽस्ति संसारमूलत्वात् । न च विनानास्रवेण मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते । चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत् । न । युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्वानेकत्वैकत्वोपपत्तेः संसर्गिधर्मित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च..............................................ति ॥
कस्य पुनर्ध्यानस्य प्राप्त्या कतरद्भाव्यते ? तदनुक्रम्यते- बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना / यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते । ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे // अभिध्-d_569 // चरमभविकस्योष्मादिवर्जिते ऽ.....................गिकस्वा(?)नुचितम् । तत्र ध्यानान्तरे प्रथमं सास्रवमेव भाव्यते । उचिते तु वैराग्यलब्धत्वान्न भाव्यते । ऊष्मगतादिषु तु न भाव्यते । तान्येव ध्यानान्तरसंगृहीतानि भाव्यन्ते प्रथमं नानागम्यम् ॥ वीतरागस्य चालब्धे पूर्वसामन्तके तथा / वीतरागस्यानागम्ये ऽप्यलब्धे ऽनुचिते प्रथमं भाव्यते......................अ नागम्यसंगृहीतानि भाव्यन्ते न प्रथमार्यमार्गसादृश्यात् । विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना // अभिध्-d_570 // वीतरागस्य त्वार्यस्य प्रथमस्यानास्रवस्यैव भावनान्यामे वा ऽभिसमयान्तिकक्षणवर्ज्येषु अनास्रवमेव भाव्यते । शैक्षस्य च द्वाभ्यां क्षणाभ्यामक्षविवर्धने भवाग्रे च सप्तदशसु .................. । एवं नवप्रकारतयाकोप्यप्रतिवेधे तत्पृष्ठे च यत्किञ्चिद्भावनामयं संमुखीकरोत्यलब्धं तत्रानास्रवमेव प्रथमं भाव्यते नोभयभावनोच्यते ॥
न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने / आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः // अभिध्-d_571 //
भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते / आकोप्या ................................ // अभिध्-d_572 //
आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि / ज्ञानत्रये त्रयाख्ये च न्यामे ऽनागम्यवर्जिते // अभिध्-d_573 //
शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने / प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च // अभिध्-d_574 //
द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे / विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये // अभिध्-d_575 //
भावना द्विविधस्यापि
........................सु सास्रवानास्रवस्यापि प्रथमस्य ध्यानस्य भावना भवतीति । नोभयस्य तु भावनाम् /अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु // अभिध्-d_576 // यद्यनागम्यं निःश्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते । यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति................भावनया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति ॥
द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः / अभिधर्मनयज्ञाने ज्ञेयानागतभावना // अभिध्-d_577 //
द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम............ ।
ध्यानं कस्य किमालम्बनमित्यत इदमनुक्रम्यते ।
सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् / आरुप्याः कुशला मौला नाधोलोकावलम्बिनः // अभिध्-d_578 //
आस्वादनास्रंप्रयुक्तः स्वभूमिकं भवमालम्बते सास्रवं वस्त्वित्यर्थः । नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णापरिच्छिन्नत्वात् । नानास्रवं कुशलत्वप्रसङ्गात् । कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् । स्वभूम्योर्ध्वभूम्यालम्बनत्वात् । अनास्रवं त्वालम्बनम् । सर्वान्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् ॥
एषाञ्च पुनस्त्रिविधानां ध्यानारूप्याणाम्
ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः / अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः // अभिध्-d_579 //
अनास्रवेणैव ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन । कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात्, न स्वभूमौ (jaini_423) विशिष्टरतरत्वान्नोर्द्ध्वमिति । ध्यानारूप्यसामन्तकेन शुद्धकेनापि क्लेशाः प्रहीयन्ते ऽधोभूमिप्रतिपक्षत्वात् ॥
पुनश्च । सर्वं समाधिं संकलय्य त्रयः समाधय उक्ताः सूत्रे-
सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः / ध्यानान्तरे स चारोधः सद्वयो ऽन्यत्र निर्द्वयः // अभिध्-d_580 //
"सवितर्कः सविचारः समाधिः अवितर्को विचारमात्रो ऽवितर्को ऽविचारः" इति । तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः । सततोधः सवितर्कः सविचारः समाविः । परतस्त्ववितर्को ऽविचारश्च ॥
पुनः
सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः / आर्याकारमतिद्योताः शून्यताद्यः समाधयः // अभिध्-d_581 //
शून्यताभिधेयः समाधिरप्रणिहित अनिमित्तश्च तृतीयः ॥
कतमैः पुनरेत आर्याकाराः..........................वत् षोडशभिराकारैरित्यतस्त्रयो ऽप्यनित्यतादिषोडशाकारमतिद्योताः(?) । प्रत्येकं तु
दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् / अनिमित्तो ऽमृताकारैश्चतुर्भिः संप्रवर्तते // अभिध्-d_582 //
अप्रणिहितः खलु समाधिरनित्यदुःखाकाराभ्यां संप्रयुक्तश्चतुर्भिः समुदयाकारैश्चतुर्भिश्च मार्गाकारैः..............................तानात्माकाराभ्यां संप्रयुक्तः । अनिमित्तः समाधिर्निरोधाकारैश्चतुर्भिर्निरोधाकारादिभिः संप्रयुक्तः ॥
विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः / विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः // अभिध्-d_583 //
रागविरागाच्चेतोविमुक्तिरविद्याविरागात् प्रज्ञाविमुक्तिः । तस्य विमुक्तिद्वयस्य.................आविष्कृतानि । तत्र शून्यतायाः संप्रयुक्तः समाधिः शून्यतासमाधिः । न प्रणिधत्ते भवमित्यप्रणिहितः । दशनिमित्तापगमादनिमित्तं तदालम्बनसमाधिरनिमित्तः ॥ पुनः त्रयो ऽपरसमाध्याख्या शून्यताशून्यतादयः / तेषां त्रयाणां समाधीनामुत्सर्गोपायप्रदर्शनार्थं शून्यताशून्यतादयः त्रयः समाधयो ऽभिधर्मेभिहिताः । द्वयमालम्बते ऽशैक्षं शून्यतो ऽनित्यतस्तथा // अभिध्-d_584 //क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः / शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण । अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितम् अनित्याकारेण । न दुःखतो न हेत्वादितो ऽनास्रवस्य अतल्लक्षणत्वात् । न मार्गाकारैर्दूषणीयत्वात् । अनिमित्तानिमित्तत्वात् समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात् । न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च ।
ते पुनरेते समाधयः एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः // अभिध्-d_585 // तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते । अकोप्यस्यार्हतः एकादशभुवश्च सप्तसामन्तकानि हित्वान्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु ।
पुनः
समाधिभावनाध्यानं सुखाय प्रथमं शुभम् / दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः // अभिध्-d_586 //
"चतस्रः खलु समाधिभावनाः । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते" इति विस्तरः । कुशलं खलु (jaini_426) प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । तदधिकत्वात् अन्यान्यपि ज्ञेयानि । नावश्यं सम्परायसुखविहाराय, परिहीणोर्ध्वोपपन्नः परिनिर्विततदभावात् । दिव्यचक्षुरभिज्ञादर्शनाय समाधिभावना । प्रयोगजाः खलु सर्वे गुणास्त्रैधातुकानास्रवाः प्रज्ञाप्रभेदाय समाधिभावनाः ॥ यो ऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा / यश्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना । सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम् // अभिध्-d_587 // अतश्चतुर्थमेव ध्यानमुक्तमिति ॥
अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः समाप्तः ॥
अष्टमाध्याये
चतुर्थपादः ।
निर्दिष्टाः समाधयः । अतः परं समाधिसन्निश्रिता गुणा निर्दिश्यन्ते ।
अप्रमाणाकि चत्वारि मैत्री करुणा मुदितोपेक्षा च । अप्रमाणाः, सत्त्वाधिष्ठानप्रवृत्तेरप्रमाणपुण्यनिर्वर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च ।
अथाप्रमाणानां कः स्वभावः ?
चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा / मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते // अभिध्-d_588 //
अद्वेषस्वभावा मैत्री । तथा करुणा अद्वेषस्वभावा । कस्तर्ह्येतयोरप्रमाणयोर्विशेषः ? उभयोरद्वेषात्मकत्वे ऽपि मैत्री सत्त्वापरित्यागवर्तिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च । करुणा ताडनपीडनाभिप्रायवर्तिनो द्वेषस्य प्रतिपक्षो दैन्याकारप्रवृत्ता च । इत्यस्ति विशेषः । "सोमनस्यस्वभावामुदिता" इति पौराणाः । उपेक्षाप्यलोभात्मकैव । एषो ऽप्रमाणानां स्वभावः ।
कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ?
व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा / प्रतिपक्षो ऽयमाख्यातो दमनार्थं स्वचेतसः // अभिध्-d_589 //
सूत्र उक्तम्- "मैत्री आसेविता भाविता बहुलीकृता व्यापादप्रहाणाय संवर्तते । करुणा विहिंसाप्रहाणाय । अरतिप्रहाणाय मुदिता कामरागव्यापादप्रहाणायोपेक्षा ॥ "
वृत्तिः पुनर्द्रष्टव्या-
सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा / मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा // अभिध्-d_590 //
द्रष्टव्या वृत्तिरेतेषां
आकारस्तु पुनः कथं प्रतिपत्तव्य इति । तदपदिश्यते- आकारैः सुखितादि भिः / सुखिता वत सन्तु सत्त्वा इति मनसि कुर्वन् मैत्रीं समापद्यते । दुःखिता वत सत्त्वा इति करुणाम् । मोदन्तां वत सत्त्वा इति मुदिताम् । सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते माध्यस्थ्यात् । एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते // अभिध्-d_591 // एभ्यो ऽप्रमाणेभ्य एकेनापि भावितेन ब्रह्मत्वं प्रतिलभ्यत इति ॥
किमालम्बना अप्रमाणाः, कति भूमिका वेत्यपदिश्यते-
नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः / षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु // अभिध्-d_592 //
मैत्रीकरुणामुदितास्त्रयः कामावचरसत्त्वालम्बनाः । उपेक्षा अनियता इति । येषां तावद्भावनामयान्येतानि मुदिता च सौमनस्येन्द्रियं तेषां प्रथमद्वितीययोर्ध्यानयोर्मुदिता । नोर्ध्वं सौमनस्येन्द्रियाभावात् । अन्यानि त्रीण्यप्रमाणानि षट्सु भूमिष्वनागम्ये ध्यानान्तरे चतुर्षु ध्यानेषु । केचित् पुनः चिन्तामयान्यप्येतानि प्रमोद्यं च प्रीतेर्धर्मान्तरं इति तेषां सप्तभूमिका । प्रामोद्यस्य वेदनाद्वयसंयोगित्वात् । उक्तान्यप्रमाणानि ॥
अथ कति विमोक्षाः । विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ /तावाद्यध्यानयोरन्त्ये तृतीयो ऽलोभलक्षणः // अभिध्-d_593 // रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । आध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयो विमोक्षः । शुभं विमोक्षं कायेण साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । तेषां द्वावशुभस्वभावौ प्रथमौ तदाकारत्वाद् भूमितश्च तौ ससामन्तकयोः प्रथमद्वितीययोर्ध्यानयोर्ध्यानान्तरे च । ससामन्तके चतुर्थे ध्याने शुभो विमोक्षः । च चालोभस्वभाव एव न त्वशुभात्मकः, तच्छुभाकारप्रवृत्तत्वात् । सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ॥
चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः / निरोधाख्यसमापत्तिर्विमोक्षः कथितो ऽष्टमः // अभिध्-d_594 //
चत्वारो ऽन्ये विमोक्षाः समाहिताः कुशला एवारूप्याः द्रष्टव्याः । संज्ञावेदितनिरोधस्त्वष्टमो विमोक्षः । वैमुख्यार्थो हि विमोक्षार्थः, निरोधसमापत्तिः; सर्वसालम्बनप्रवृत्तिवैमुख्यात् ॥ तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् / त्रिविधं हि भावाग्रिकं चित्तं संज्ञासूक्ष्मसूक्ष्माख्यभेदात् । एतद्यथाक्रममौदारिकम् । (jaini_431) अतः सूक्ष्मसूक्ष्माख्यं भवाग्रानन्तरं तां समापत्तिं समापद्यन्ते । तथा समापन्नानां तु व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः // अभिध्-d_595 // सास्रवानास्रवत्वात् । तद्व्युत्थानचित्तस्य सास्रवेण चेद्व्युत्तिष्ठते भावाग्रिकेण । अनास्रवेण चेदाकिञ्चन्यायतनभूमिकेन ॥
अथैव विमोक्षाः किं विषयाः ? कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः / कामावचरं रूपावचरमेषामालम्बनं यथायोगमशुभतः शुभतश्च । अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः // अभिध्-d_596 // आरूप्यविमोक्षाणां स्वभूम्यूर्ध्वभूमिकं दुःखमालम्बनं तद्धेतुनिरोधौ च । सर्वचान्वयज्ञानपक्ष्यो मार्ग ऊर्ध्वाधरभूमिसंगृहीतः, अप्रतिसंख्यानिरोधश्च । उक्ता विमोक्षाः ॥
सूत्रे ऽभिभवसंज्ञाख्यं प्रोक्तमायतनाष्टकम् / विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम् // अभिध्-d_597 //
सूत्रे भगवता अष्टौ अभिभवायतनान्याख्यातानि "अध्यात्मं रूपसंज्ञी (jaini_432) बहिर्धा रूपाणि पश्यति सुवर्णदुर्वर्णानि खलु रूपाणि अभिभूय जानाति, अभिभूय पश्यति, एवं संज्ञी च भवतीदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यप्रमाणानि सुवर्णदुर्वर्णानीति विस्तरो यावदिदं द्वितीयमभिभ्वायतनम् । एवमध्यात्ममरूपसंज्ञी बही रूपाणि पश्यति परीत्तान्यप्रमाणानि चेति चत्वारि । अध्यात्ममरूपसंज्ञ्येव च बहिर्धा रूपाणि पश्यति नीलपीतलौहितावदात......."...............
........... अभिधर्मदीपे विभाषाप्रभायां वृत्तौ अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥
अष्टमो ऽध्यायः समाप्तः ॥
अभिधर्मदीपे विभाषाप्रभावृत्तिः समाप्ता ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
