Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मदीप with auto(?)entary विभाषाप्रभावृत्ति

Tác giả
विमलमित्र
Thông tin
GRETIL — P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भवास्रवः चतुष्पञ्चाशद् द्रव्याणि । रागमानौ विंशतिः । अष्टौ विचिकित्साः । चतुर्विंशति दृष्टयो ऽविद्यां हित्वा । द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात् ।

अविद्यास्रवः पञ्चदशद्रव्यानि । तानि पिण्डेनाष्टोत्तरं द्रव्यशतमास्रवाणां स्वभावः । तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात् // अभिध्-d_361 // कामास्रव एव खलु कामौघः कामयोगश्च । दृष्टी वर्जयित्वा । दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते । हरणश्लेषणकार्यप्रधानभूता हि दृष्टयः । यथा हि सर्वे क्लेशाः दृष्टिवर्ज्याः, अपहरन्ति श्लेषयन्ति च (jaini_299) तथैवैकाकिन्यो ऽपि दृष्टय इति । तदेवं सति कामौघ एकान्नत्रिंशत् द्रव्याणि । रागप्रतिघमानाः पञ्चदश । विचिकित्साश्चतस्रः । दश पर्यवस्थानानीति ।

भवौघो ऽष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिः । विचिकित्सा अष्टौ । दृष्ट्योघः षट्त्रिंशद् द्रव्याणि । अविद्यौघः पञ्चदशद्रव्याणि । एवमेव योगा द्रष्टव्याः ॥

साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये / चतस्रो ऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात् // अभिध्-d_362 // शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः / तत्र कामयोग एव सहाविद्यया कामोपादानं चतुस्त्रिंशद् द्रव्याणि । रागप्रतिघमानाविद्या विंशतिः । विचिकित्साश्चतस्रः । दशपर्यवस्थानानि ।

भवयोग एव सहाविद्यया आत्मवादोपादानम्, अष्टात्रिंशद् द्रव्याणि । रागमानाविद्यास्त्रिंशत् । विचिकित्सा अष्टौ ।

दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्युपादानं त्रिशद् द्रव्याणि । शीलव्रतोपादानं षड्द्रव्याणि । कस्मात्पुनरेतद् दृष्टिभ्यो निष्कृष्टम् ? ऽकुमार्गादिसमाश्रयात् ।ऽ; मार्गप्रतिद्वन्द्वभूतं ह्येतदुभयपक्षविप्रलभ्भकं च । गृहिणो ऽपि ह्यनेन विप्रलब्धाः अनशनादिभिः स्वर्गमार्गसंज्ञया । प्रव्रजिता अपीष्टविषयविवर्जने शुद्धिप्रत्यागमनादिति ।

ऽशेषास्त्रैधातुकाः ।ऽ; दृष्टयो दृष्ट्युपादानम् । त्रैधातुकाश्च शीलव्रतपरामर्शाः परामर्शोपादानम् । कामास्रवस्तु एकधातुकः । भवास्रवस्तु द्विधातुकः । तस्मादेव तत् ऽअन्त्यम्ऽ; द्वयं सार्वधातुकमेव । ऽआत्मभावप्रवृत्तितः ।ऽ; आत्मभावालम्बनप्रवृत्तं खल्वेतदिति ।

ते खल्वेते अनुशयाः संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः // अभिध्-d_363 // संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः ।

नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च / द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् // अभिध्-d_364 //

शेषाण्यनुशयाः पञ्च

नव खलु सयोजनानि सूत्र उक्तानि- अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्यामात्सर्यसंयोजनानि ।

तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि यथायोगं वक्तव्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः परामर्शसंयोजनं द्वे दृष्टी ।

किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम् ? द्वे पुनर्दृष्टी परामर्शसंयोजनं पृथगिति ? तदुच्यते- ऽद्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् ।ऽ; अष्टादशद्रव्याणि खलु तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । द्वयोश्च नामसामान्यम् । तस्मादेतद् द्वयमेकं संयोजनमुक्तमिति ।

पुनरप्यन्यत्र भगवान्संयोजनम्

पञ्चधा पञ्चधा पुनः / जगादावरभागीयमूर्ध्वभागीयमेव च // अभिध्-d_365 // आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः / तत्र पञ्च संयोजनान्यवरभागीयानि । तद्यथा- सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एते हि कामधातुहितत्वादवरभागीया इत्युच्यन्ते । अवरा हि कामधातूरेतानि च तदनुगुणानि । यस्मात् द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः // अभिध्-d_366 // कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिस्त्रिभिरतिक्रान्तो ऽपि पुनरावर्तते दौवारिकानुचरसाधर्म्यात् ।

अन्ये पुनराहुः- त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति ।

यदा खलु स्त्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे षट् क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ? तदुच्यते-

द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् / सर्वदृग्घेयभाक्त्वे ऽपि त्रयमेतदुदाहृतम् // अभिध्-d_367 //

प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत् । तत्र सत्कायदृष्ट्या तत्प्रवर्तितान्तग्राहदृष्टिर्गृहीता । शीलव्रतपरामर्शेण दृष्टिपरामर्शः प्रवर्तितः । विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता । अतो हेतुग्रहणात्कार्यग्रहणं वेदितव्यम् ।

अथवा त्रिविधा क्लेशाः- एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्च । तत्र सत्कायदृष्ट्या एकप्रकारा गृहीताः । शीलव्रतपरामर्शेन द्विप्रकाराः । विचिकित्सया चतुष्प्रकाराः गृहीता भवन्तीति ॥

वयं ब्रूमः-

सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः / तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना // अभिध्-d_368 //

सत्कायदृष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम् । अतस्तयोत्खातया सर्वानर्थवृक्षस्योत्सादनं भवति । मार्गस्य च सद्भूतस्य प्रत्यर्थिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः । तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति । सम्यग्दृष्ट्यादिमार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा । (jaini_304) तया प्रहीणया सम्यग्दृष्टिसंकल्पपुरःसरो मार्गो निर्विबन्धः प्रवर्तते । इत्यष्टाशीत्यनुशयप्रहाणे ऽपि सति त्रयाणामेव ग्रहणम् ।

वैभाषाः पुनः पश्यन्ति- मोक्षान्तरायाः त्रयोद्भावनाः । यथा खलु त्रयो ऽन्तराया मार्गगमने भवन्त्यगन्तुकामतान्यमार्गग्रहणं मार्गबहुत्वसंदेहाच्च मार्गगमनाप्रतिपत्तिः । एवं मोक्षगमने त्रयो ऽन्तराया भवन्ति । सत्कायदृष्ट्या मोक्षादुत्त्रासं गतस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्यमार्गग्रहणात् मार्गविभ्रान्तिः । विचिकित्सा मार्गसंशये सति मार्गाप्रतिपत्तिरित्येषां मोक्षगमनान्तरायाणां प्रहाणं स्त्रोतआपन्नस्य द्योतयद्भगवान्क्लेशत्रयस्यैव ग्रहणमकार्षीदिति ॥

यथा च पञ्चविधमवरभागीयं संयोजनमुक्तवांस्तथा पञ्चोर्ध्वभागीयानिसंयोजनान्याख्यातवान् सूत्रे । द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः / पञ्च खलुर्ध्वभागीयानि संयोजनानि । तद्यथा- रूपरागः, आरूप्यरागः, औद्धत्यम्, मानो ऽविद्या च । एषामप्रहीणानां ऊर्ध्वधातुद्वयं नातिक्रामन्ति सत्त्वाः । समाप्तः संयोजनाधिकारः ।

बन्धनानीदानीमुच्यन्ते । त्रीणि बन्धनानि । रागो बन्धनं द्वेषो मोहो (jaini_305) बन्धनम् । एभिस्त्रैधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम् । कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते- त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम् // अभिध्-d_369 // त्रिवेदनावशात्खलु बन्धनत्रयमुक्तम् । तत्र सुखायां वेदनायां रागो ऽनुशेरते । दुःखायां द्वेषः । अदुःखासुखायां मोहः । एते च त्रयो मूलक्लेशाः षड्विज्ञानभौमाः पञ्चप्रकाराः । तस्मादेते दृढत्वाद् बन्धनशब्देनोक्ताः ॥

पुनरन्ये भगवता सूत्रे-

द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः / अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा // अभिध्-d_370 //

तत्र गृही अभिध्यया विषयेषु ग्रथितस्तद्व्याघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते । प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शेन दृष्टिपरामर्शाख्येन बध्यते । इति चत्वारो भवन्ति ॥

उक्ताः क्लेशाः ।

उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः / सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः // अभिध्-d_371 //

ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात् । इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः । ये ऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः ते ऽप्युपक्लेशा इत्याख्यायन्ते ॥

के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्- मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः / त इमे उच्यन्ते- शाठ्योपनाहप्रदाशमायामदविहेठनाः // अभिध्-d_372 // तत्र चित्तकौटिल्यं शाठ्यं चित्तस्यानृजुता वक्रीभावः । उपनाहः प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्ध्रावधानता । सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः । पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चनामाया । चित्तस्मयो मदः । सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः । सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम् । उक्ताः षट् क्लेशमलाः ॥

दश पर्यवस्थानान्युच्यन्ते ।

म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः / मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः // अभिध्-d_373 //

एते ह्यनुबन्धादार्ढ्यान्नानुशयाः । न ह्येषामनुबन्धदार्ढ्यमस्त्यनुशयास्तु दृढानुबन्धाः । तस्मादेतानि कालान्तरमात्रं चित्तपर्यवस्थापनात् पर्यवस्थानानीत्युच्यन्ते ।

अवद्यं छादयतः चित्तापलेपो म्रक्षः, चित्तं म्रक्षयतीति म्रक्षः । परसम्पत्त्यमर्षणमीर्ष्या । अकार्यं कुर्वतः स्वात्मानमवेक्ष्यालज्जनाह्रीः । (jaini_309) परमपेक्ष्यालज्जनानपत्राप्यम् । कायाकर्मण्यता स्त्यानं तन्द्रीपर्यायवचनम् । कायचित्ताकर्मण्यता मिद्धं चित्ताभिसंक्षेपः स्वप्नाख्यः, स तु क्लिष्ट एव पर्यवस्थानम् । चित्ताव्युपशान्तिरौद्धत्यम् । परापकारनिमित्तोद्भवो ऽपरित्यागयोगेन चण्डीभावः क्रोधः । स्ववस्तुन्याग्रहो मात्सर्यम्, मत्तो मा सरेदेतदिति निरुक्तिः । कुकृतभावः कौकृत्यम् । इत्येनानि दश पर्यवस्थानानि ॥

अथैषामुपक्लेशमलपर्यवस्थानानां कः कस्य रागादेर्मूलक्लेशस्य निष्यन्दः ? तदिदमारभ्यते ॥ एभ्यो ऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः / इमे खलूपक्लेशाः रागनिष्यन्दाः । यदुत- अह्रीक्यौद्धत्यमदमात्सर्यकुहनालपनानैमित्तिकतानैष्पेशिकता लाभेन लाभस्य निश्चिकीर्षता पापेच्छता महेच्छतेच्छस्विता कामज्ञातिजनपदवितर्कपापमित्रतादयः ।

तत्राह्रीक्यानपत्राप्यमदा व्याख्यातलक्षणाः । लाभसत्कारयशोलोभादभूतगुणदर्शनार्थमीर्यापथविकल्पकृच्चैत्तविशेषः कुहना । लाभाद्यर्थमेव गुणप्रियालपनकृल्लपना । उपकरणार्थित्वनिमित्तदर्शनकृच्चैत्तविशेषो नैमित्तकता । परगुणवद्दोषवचननिष्पेषणकृदेव चैतसिको नैष्पेषिकता । लब्धलाभख्यापनेनान्यलाभनिश्चकीर्षणता लाभेन लाभस्य निश्चिकीर्षता । परैरभूतगुणसम्भावनेच्छा पापेच्छता । लाभसत्कारपरिवारप्रार्थना महेच्छता ।

लोभात्परैर्भूतगुणसम्भावनेच्छा इच्छस्विता । कामरागप्रतिसंयुक्तो वितर्कः कामवितर्कः । ज्ञातिस्नेहपरीतस्य तदावाहविवाहकृषिवणिग्राजसेवादीनां गृहसन्धारणमुपजीवनोपायानां राजतस्करादिभयप्रशमनोपायानां च वितर्काणां वितर्कः ज्ञातिवितर्कः । पर्याप्तजीवितोपकरणापरितुष्टस्य लोकमित्रता, छन्दरागापहृतचेतसस्तेषां जनपदानां भूमिरमणीयतासुभिक्षक्षेमताप्रचुरगोरसेक्षुविकारगोधूमशाल्यादीनां वितर्कणाज्जनपदवितर्कः शीलदृष्ट्याचारविपन्नानां रतिकृता संसेवा पापमित्रता । म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः // अभिध्-d_374 // तत्र ऽम्रक्षानपत्रपास्त्यानमिद्धाःऽ; । ऽआदिऽग्रहणाल्लयः, अमनसिकारोदनादरता, दौर्वचस्यं तन्द्री भक्तासमतेत्येवमादयः ।

तत्र लयोनाम दोषगुणत्यागार्जनं प्रति आत्मपरिभवजश्चित्तसंकोचः । कुशलासमन्वाहार औदासीन्ययोगेणामनसिकारः । गुणेषु गुणवत्सु चाबहुमानवृत्तिरनादरता । (jaini_311) धर्मानुशास्तृषु सासूयितप्रतिमन्त्रकृद्दौर्वचस्यम् । जृम्भिकोद्गमादक्षिवर्त्मस्तम्भनिद्रास्पदः चैत्तविशेषः स्त्यानाख्या तन्द्री । कुशलपक्षानुकूलभोजनसमताप्रतिवेधश्चेतसो भक्तासमता ॥ कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः / कौकृत्यं खलु यथोक्तलक्षणं विचिकित्सासमुत्थितम् । क्रोधाद्या द्वेषनिष्यन्दाः । ऽआदिऽशब्दादीर्ष्याक्षान्त्युपनाहप्रदाशसंरम्भादयः ।

तत्रेर्ष्या पूर्वोक्तलक्षणा । सह्यासहिष्णुताक्षान्तिः । रन्ध्रावधानानिवृत्तिरुपनाहः । संतोषमानस्याप्यदृढग्राहिता प्रदाशः । परान्विमर्दिषतः पाणिपादौष्ठकपोलशरीरकम्पयोनिर्भ्रान्तमनसः क्षोभः संरम्भः । निमित्तमात्रेण सातत्यविहेठनकृच्छृङ्गी । निस्तनतो ऽभीक्ष्णविवादकृत्यं स्तम्भनता । काम्यान्विषयाननुस्मरतो रतिविपरीतमनसः प्रवृत्तिररतिः । चित्तापैशल्यमनार्जवता । व्यापादार्थ प्रयुक्तो वितर्को व्यापादवितर्कः । विहिंसासंप्रयुक्तो वितर्कः विहिंसावितर्कः । प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः // अभिध्-d_375 //कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः / तत्र दोषप्रवणस्य गुणानभिसंमुख्यं प्रमादः । पूजार्हेष्वसंनतिः स्तम्भः । परानुरोधात्पापानुवृत्तिकृच्चैत्तो मार्द्वक्ष्यम्(?) । पराभिसन्धानाय मिथ्योपदर्शनकृच्चैत्तो माया । चित्तकौटिल्यं शाठ्यम् । क्लेशसमुत्थितः कायस्यानमनविनमनकृच्चैत्तो विजम्भिका । क्लेशकृता विविधालम्बनसंज्ञा नानात्वसंज्ञाः । अतिवीर्यभक्तासमतानिर्जातकायवैषम्याबाधः कायदौष्ठुल्यम् । कल्याणमित्राणां गुणेष्वननुशिक्षा असभागानुवर्तनता । क्लेशसमुत्था परसम्पद्वितर्कणा, परोदयप्रतिसंयुक्तो वितर्कः । इत्येवमादयो व्यामिश्रसमुत्थिता द्रष्टव्याः । प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः // अभिध्-d_376 // पूर्वोक्तलक्षणः प्रदाशः परामर्शनिष्यन्दः । शाठ्यं दृष्टिसमुत्थितमिति ॥

अथ कः क्लेशः कया वेदनया संप्रयुज्यते ? तदिदमारभ्यते- सौमनस्येन रागस्य संप्रयोगः सुखेन च / रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः । द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते // अभिध्-d_377 // संयोग इति वर्तते । प्रतिघः खलु दुःखदौर्मनस्याभ्यां संप्रयुक्तः ॥

सर्वैर्मोहस्य

मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः । वित्तिभ्यां चैतसीभ्यामसद्दृशः / मिथ्यादृष्टिर्हि दौर्मनस्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम् ।

काङ्क्षा च दौर्मनस्येन

सांशयितो हि निश्चयाकाङ्क्षी दौर्मनस्येन संबध्यते । शेषाणां सुमनस्तया // अभिध्-d_378 // शेषास्त्वनुशयाः- चतस्रो दृष्टयः, मानश्च । हर्षाकारवृत्तित्वात्सौमनस्येन संप्रयुक्ताः ॥

उपेक्षया तु सर्वेषाम्

सर्वे ऽप्यविशेषेणानुशया उपेक्षया संप्रयुज्यन्ते । प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति । कामाप्तानामयं विधिः / कामावचराणां खल्वनुशयानामेष विधिः द्रष्टव्यः । इतो ऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः // अभिध्-d_379 // यस्यां यस्यां भूमौ यावन्तीन्द्रियाणि सन्ति तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ॥

उक्ताः क्लेशानामिन्द्रियसंप्रयोगः । उपक्लेशानामुच्यते-

ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः / प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च // अभिध्-d_380 //

दौर्मनस्येन खल्वीर्ष्याकौकृत्यक्रोधप्रदाशोपनाहविहिंसाः संप्रयुज्यन्ते ॥ मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् / प्रार्थ्यमानो ह्यप्रयच्छन् परस्य जह्रीयमानो दुर्मनायते । केचित्पुनः व्याचक्षते- सौमनस्येन संप्रयुज्यते लोभान्वयत्वेन हर्षाकारवर्तित्वात् । द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च // अभिध्-d_381 // दौर्मनस्यसौमनस्याभ्यां मायाशाठ्यमिद्धानि संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । कदाचिद्दुर्मनाः । एवं यावत्स्वपीति ॥ मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते / तृतीये ध्याने सुखेनाधस्तात्सौमनस्येनोर्ध्वं चोपेक्षया । ऽतुऽशब्दस्य विशेषणत्वादयं विशेषो लभ्यते । आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः // अभिध्-d_382 // पञ्चभिरपीन्द्रियैः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते । एषां चतुर्णां पर्यवस्थानानामकुशलमहाभूमिकत्वात् क्लेशमहाभौमिकत्वाच्च ॥

इदमिदानीं वक्तव्यम् । क एषां किं प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्यः- आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः // अभिध्-d_383 // ..........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥

..........पञ्चमोध्यायः समाप्तः ॥

षष्ठो ऽध्यायः

प्रथमः पादः..... ..............र्वौदारिकम् । अतस्तुत्पूर्वम् । ततो वेदनास्मृत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत् । ततः चित्तस्मृत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम् । धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम् । अत एवोत्पत्तिक्रमोपि तथैव ।

प्रायेण हि सत्त्वाः रूपाद्युपभोगरतत्वात् मोक्षविमुखा भवन्ति वेदनाभिनन्दित्वात्, सा चाभिनन्दना चित्तस्यादान्तत्वात् । तच्चादान्तत्वं रागादिभिः । श्रद्धादिभिश्च दान्तत्वं भवति ।

चतुष्ट्वमपि चतुर्विपर्यासप्रतिपक्षत्वात् । अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा । दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा । अनित्ये नित्यसंज्ञाविपर्यासप्रतिपक्षश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात् । अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा । धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते । ऽआदिऽशब्दाच्चतुराहारपञ्चस्कन्धप्रतिपक्षत्वाद्यथायोगम् ॥

स तदानीं योगाचारः समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः / सम्भिन्नालम्बनं हि धर्मस्मृत्युपस्थानं त्रिचतुष्पञ्चस्कन्धालम्बनत्वात् । (jaini_317) पञ्चस्कन्धालम्बनमेव तु सामान्यालम्बनमिति निर्दिश्यते । तेन तु चत्वार्यपि स्मृत्युपस्थानान्यभिसमस्यानित्यतो दुःखतः शून्यतो ऽनात्मतश्चेति चतुर्भिराकारैः प्रत्यवेक्षते । ततः पुनर्योगी कायं परमाणुसंघातक्षणसन्तानभेदेन प्रभिद्य परमाणुशः क्षणशश्च निरीक्षते । कललादीनां वा बीजाद्यशुच्यङ्गानि पृथङ्मिश्रीभूतानि च योगी रूपाणि निमित्तेषु पश्यति । तदूर्ध्वं तस्यानित्यत्वादिभिः सामान्यलक्षणेन यथायोगं सर्वधर्मकजातीयत्वाधिमोक्षे सत्यहंकारममकारविष्कम्भनप्रहाणं भवति । तन्प्रहाणाद्रागादयोपि दोषाः श्रुतचिन्तामयाभ्यां ज्ञानाभ्यां विष्कम्भ्यन्ते ।

कतमेन पुनरत्र स्मृत्युपस्थानेन क्लेशात्यन्तक्षयो भवति ? ब्रूमः । क्लेशात्यन्तक्षयो ऽन्त्येन संभिन्नालम्बनेन वा // अभिध्-d_384 // संसर्गस्मृत्युपस्थानेन खलु ऽसंभिन्नालम्बनेन अत्यन्तक्लेशप्रहाणं क्रियते । ऽवाऽ; शब्दो विकल्पार्थः ॥

यस्मात्- असंभिन्नार्थ विषयं त्रयमेतद् द्विधेष्यते / सास्रवानास्रवभेदात् । ततः पुनः स्कन्धाननित्यादिना तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम् // अभिध्-d_385 //स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् / एषा च स्मृत्युपस्थानकुशलमूलनिष्ठा । तस्य खल्वनित्याकारमभ्यस्यतः सर्वसंस्कारेषु प्रतिक्षणमुदयव्ययदर्शनमुत्पद्यते, ऽचक्रभ्रमरिकादिवदिऽति । स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते // अभिध्-d_386 // तस्य प्रतिक्षणं उत्पादव्ययं पश्यतः एवं भवति- कथं चैते संस्काराः सन्तानेन प्रवर्तन्ते नोच्छिद्यन्ते । स प्रतीत्यसमुत्पादं पश्यति त्रैयध्विकानां संस्काराणां हेतुफलसम्बन्धनियमावस्थितानाम् । ततः पुनः प्रतीत्यसमुत्पादम् ॥

सत्येषु पातयित्वतं तदा कश्चित्परीक्षते / तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः // अभिध्-d_387 //

एकैकमङ्गं सत्येषु पातयित्वानित्यतो दुःखतश्च प्रत्यवेक्ष्य

अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् / दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते // अभिध्-d_388 //

तत्र स्वतन्त्रकर्तृविरहित्वाच्छून्यान्पश्यति स्ववशेन विना सहकारिभिः प्रत्ययैः क्रियाकरणात्, पराधीनजन्मत्वाच्चानात्मानं पश्यति ऽदृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवतेऽ; ॥

तदभ्यस्यतः अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः / न ह्यत्र कश्चित्पुरुषो वा परमेष्ठी वेश्वरः स्वतन्त्रश्चैकश्च विद्यते, परतन्त्रजन्मप्रसरा एव सर्वसंस्काराः स्वसामान्यलक्षणाधिष्ठितस्वभावाः, इति परीक्ष्यमाणस्य सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते // अभिध्-d_389 // यथोक्तम्-

"सर्वधर्मा अनात्मानः पश्यति प्रज्ञया यदा । तदा निर्विद्यते दुःखादेष मार्गो विशुद्धये ॥ "

अथ कस्मादिह शून्याकारो न देशितः ? तदुच्यते-

स्वभावेनाविशून्यत्वाद् धर्ममुद्रा उदाहृता / तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः // अभिध्-d_390 //

न खलु संस्काराः स्वभावेन शून्याः पृथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धृत्यादिक्रियायाश्च प्रत्यक्षत्वात् । रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात् । तेषां च सामर्थ्यं यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शनात सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्च ऽशून्याकारोऽ; नोक्तः । तस्मादिहापि नोच्यते । अथवातदुक्त्या च तदुक्तेः ।ऽ; अनात्माकारोक्त्या च शून्यताप्युक्ता भवति ॥

तदेवं नैरात्म्ये स्थिरमतिः

गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् / स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते // अभिध्-d_391 //

धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु

प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः / क्रमेण जायते पश्चात्कौशलं स्थानसप्तके // अभिध्-d_392 //

"रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य ।" उक्तं हि भगवता- ऽसप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति" इति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥

षष्ठाध्याये

द्वितीयपादः ।

तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारन्यायेन

निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् / श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः // अभिध्-d_393 //

आकारपतितं ज्ञानं ततः शमनियामकम् / भावनामयमूष्माख्यं जायते सानुवर्तकम् // अभिध्-d_394 //

तत्खलूष्मगतं प्रकर्षितत्वात् षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेर्निमित्तभूतं धूमाग्निवत् । तस्मिंश्च लब्धे शमः प्रत्यासन्नीभवति । अतस्तत् ऽशमनियामकं भावनामयम्ऽ; इति । ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्पकपुष्पतिलतैलवदिति । ऽसानुवर्तकंऽ; च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते- स्कन्धमात्रकमेवेदं सत्कायदृष्टेर्वस्तुभूतं नात्रात्मास्त्यात्मीयं वा ॥

ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः / ऊष्मभ्यो ऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः // अभिध्-d_395 //

तदूर्ध्वं ततो मूर्धानस्तथैव षोडशाकाराः । तेषां पुनरयं विशेषः । (jaini_322) मिथ्यादृष्टिशक्त्युपघातित्वम्, तदुपघातात् कुशलमूलानि न समुच्छिन्दन्ति । ऊष्मभ्यो ऽधिको विशेषः रत्नत्रयश्रद्धाविवर्धिनश्च । तेषु खल्वधिमात्रेण बुद्धादिषु रत्नेषु त्रिष्वाकारतः प्रसादो ऽभिवर्धते, न स्कन्धशः, प्रागेवोष्मगतेषु तद्बुद्धिपरितोषात् । मूर्धसू.............. ........नेत्वस्मिन्नुभयत्रापि पश्चिमा // अभिध्-d_396 // विन्यासे विवर्धने चैव धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं तदेव चानागतं भाव्यते ॥ भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः / न खलु स्कन्धोपरमदर्शिनः स्कन्धमतिर्भाव्यते । आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत् // अभिध्-d_397 // यादृशाः प्रत्युत्पन्नास्तादृशा एवानागता भाव्यन्ते ॥

द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने / चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने // अभिध्-d_398 //

अनागतास्तु भाव्यन्ते चतस्रो ऽप्यत्र निश्चयात् / मोक्षे ऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः // अभिध्-d_399 //

निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते ॥ आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः / गोत्राणि खलु लब्धानि निरोधसत्यतो ऽत्र षोडशाप्याकारा भाव्यन्ते । गोत्रलाभे तु विज्ञेया सभागाकारभावना // अभिध्-d_400 // प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि । तेनात्र न विसभागाकारभावना ॥

सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने / धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः // अभिध्-d_401 //

मूर्धाकारविन्यासे ऽनिरोधाकिरणैधनेऽ; च धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते ॥

आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः / सर्वाभ्यो ऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने // अभिध्-d_402 //

अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् / आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने शृणु // अभिध्-d_403 //

सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः / आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः // अभिध्-d_404 //

प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः / अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात् // अभिध्-d_405 //

आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः / यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि // अभिध्-d_406 //

अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत् / चतस्रो ऽनागतास्तद्वत् षोडशाकारभावनाः // अभिध्-d_407 //

तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये / श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च // अभिध्-d_408 //

एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या ॥

बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः / भूतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः // अभिध्-d_409 //

आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः / अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् // अभिध्-d_410 //

तिस्रस्तु नवमे विद्यात् मौलभूमिप्रवेशतः / सामन्तकप्रयोगे तु चतस्रो ऽन्त्याथवा भवेत् // अभिध्-d_411 //

दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव च / प्रथमां संमुखीभूतां चतस्रः खल्वनागताः // अभिध्-d_412 //

परचित्ते तृतीया तु चतस्रश्चाप्यनागताः / प्राङ्निवासाप्रमाणानामन्त्यां सर्वास्त्वनागताः // अभिध्-d_413 //

आरूप्याणां विमोक्षाणां तिसृभ्यो ऽन्यतमां वदेत् / संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत् // अभिध्-d_414 //

आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् / तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु // अभिध्-d_415 //

आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च / सर्वेभ्यो ऽन्यतराभूताश्चतस्रश्चाप्यनागताः // अभिध्-d_416 //

आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः / ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत् // अभिध्-d_417 //

अन्त्यपूर्वनिवासादौ च धर्मप्रतिसंविदि / तथापरसमाध्यादावरणायां तथैव च // अभिध्-d_418 //

आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा / सर्वाभ्यो ऽन्यतराभूताश्चतस्रः खल्वनागताः // अभिध्-d_419 //

ब्रूयात्तु सूक्ष्मसूक्ष्मे ऽन्त्यां भूतां तिस्रस्त्वनागताः / समासेनेयमाख्याता स्मृत्युपस्थानभावना // अभिध्-d_420 //

निर्वेधभागीयानधिकृत्य एतन्निर्वेधभागीयं चतुर्धा भावनामयम् / परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात् भावनामयं न श्रुतमयं चिन्तामयम् । कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय (jaini_328) भगवतोक्तम्- "च्युतौ बतेमौ मोहपुरुषावस्माद्धर्मविनयाद्यत्र नामानयोः मोहपुरुषयोरूष्मगतमपि नास्ति" इति । तच्चैतत्सर्वम् षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः // अभिध्-d_421 // ऽषड्भौमंऽ; दर्शनमार्गवतो, ऽषोडशाकारंऽ; दर्शनमार्गवत् सानुपरिवर्तकं । ऽपञ्चस्कन्धं विनाप्तिभिः ।ऽ; प्राप्तयः खलु नोष्मागतादिस्वभावाः । तत्स्वाभाव्ये (jaini_329) हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात् । न चेष्यते । सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति ।

आह । के पुनस्ते षोडशाकाराः येषां भावनया स्त्रोतआपन्नो भवति ? तदुच्यते । चतुर्भिराकारैरनित्यदुःखशून्यानात्माकारैः दुःखं परीक्षते । तत्र बोधिसत्त्वादृते तृष्णाचरितः प्रायो ऽनित्याकारेण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितो ऽनात्माकारेण ।

हेतुसमुदयप्रभवप्रत्ययतः समुदयम् । हेतुतः अहेतुदृष्टिचरितः । समुदयतः एककारणदृष्टिचरितः प्रभवतो नित्यकारणदृष्टिचरितः । प्रत्ययतो ऽबुद्धिपूर्वकृतदृष्टिचरितः ।

निरोधशान्तप्रणीतनिःसरणतो निरोधम् । एभिश्चतुर्भिर्निरोधः । नास्ति मोक्ष इत्येवं दृष्टिचरितो निरोधतः शरीरादिमत इत्येवं चरितः शान्ततः । विषयसुखचरितः प्रणीततः । ध्यानादिसुखचरितो निःसरणतः ।

मार्गन्यायप्रतिपन्नैर्याणिकतो मार्गम् । एभिश्चतुर्भिर्मार्गः । नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः । कष्टतपोभिरित्येवं दृष्टिचरितो न्यायतः । लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः । असकृल्लौकिकमार्गपरिहाणिको नैर्याणिकतः । इत्येवमादिते(के?) समये व्यभिचरणकाले त्वेकोपि सर्वैः (jaini_330) परीक्षते । रोगगण्डशल्याघाताकारादिभिर्न तु तैरत्यन्तप्रहाणमित्यतः षोडशैवार्याकारा इत्युच्यन्ते । पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि ॥

निर्वेधभागीयेभ्यः पुनः

पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः / स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते // अभिध्-d_422 //

इति प्रागाविष्कृतमेतत् ॥

धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् / ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम् // अभिध्-d_423 //

लौकिकेभ्यः खल्वग्रधर्मेभ्यो निरास्रवा लोकोत्तरा धर्ममात्रेक्षणदृष्टिरुत्पद्यते । (jaini_332) सूत्र उक्तम् "लौकिकाग्रधर्मानन्तरं समं नियाममवक्रामति (jaini_333) यदवक्रान्तौ पृथग्जनभूमिं समतिक्रामति" इति । तदनन्तरं दुःखे धर्मज्ञानं (jaini_334) निश्चयात्मकम् । क्षान्त्या वा संयोगप्राप्तिं छिनत्ति ज्ञानेन विसंयोगप्राप्तिमावहतीति (jaini_335) विशेषः । एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा / द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखे ऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते । एवं त्रिष्वपि सत्येषु द्रष्टव्यम् । अत्र पुनः अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः // अभिध्-d_424 // अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः यस्त्वसौ स्थापितः स खलु क्षणो ऽन्त्यो भावनामार्गात् फलमेषो ऽर्थसिद्धितः // अभिध्-d_425 // योगाचार्यस्य खल्वभि............... ................... स्त्रोताश्चेति पञ्चभवन्ति ॥

अत्र पुनर्य एष पञ्चमः स खलु ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः / शुद्धावासोपपत्तिः खलु ध्यानव्यवकिरणफला । चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायको ऽपरः // अभिध्-d_426 // ऊर्ध्वगस्यानागामिनः पञ्चधा भेद उक्तः । आरूप्यगामी तु चतुर्धा निर्दिश्यते पूर्वोक्तेभ्यः अन्तरापरिनिर्वायिणमपास्य । इत्येते षड् भवन्ति । दृष्टधर्मनिर्वायकः सप्तम इहैव जन्मनि यः परिनिर्वाति ॥ पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव / एते खलु रूपोपगाः पञ्चानागामिनस्त्रयो भवन्ति । अन्तरोपपद्यपरिनिर्वायिणमू(न्नू ?)र्ध्वस्त्रोताश्च । (jaini_340) द्वितीयाद्या हि त्रयो ऽनागामिनः सर्व एवोपपद्य परिनिर्वायिणो भवन्ति । अनुपपन्नानां परिनिर्वाणात् । तेषां प्रत्येकं त्रिधा भेदान्नवानागामिनो भवन्ति । कथमिति ? अन्तरापरिनिर्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिनिर्वाणभेदात् । उपपद्यपरिनिर्वायिणः उपपद्य साभिसंस्कारानभिसंस्कारभेदादूर्ध्वस्त्रोतसः प्लुतादिभेदात् । तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः // अभिध्-d_427 //

तेषां पुनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः । त्रयाणां तावत्कर्मतः, अभिनिर्वृत्युपपत्त्यपरपर्यायवेदनीयकर्मोपचितत्वात् । क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात् । इन्द्रियतो ऽधिमात्रमध्यमृद्विन्द्रियभेदात् ॥

यदि तर्हि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिताः ? तदपदिश्यते- षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता /

द्वौ खल्वत्रानागामिनौ त्रिधा त्रिधा भित्त्वा षड्धा व्यवस्थापितौ । (jaini_342) तृतीयस्तूर्ध्वस्त्रोतानाकुलीकरणार्थमभेदेनैवोक्तः । इति सप्तधा देशिता सत्पुरुषगतिः ।

कस्मात् पुनः स्त्रोतआपन्नसकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पुरुषसूत्रोद्देशे लक्षणेपि सति तदुच्यते- सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः // अभिध्-d_428 // यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती । इतरयोस्तु कुशलाकुशले वृत्तिः । यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मात्तस्यैव सा गतिर्देशिता नेतरयोरिति ॥

किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह । यस्मात्- परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः / रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमने ऽस्ति संभवः । कामधातौ तु परावृत्तजन्मार्यो न धात्वन्तरं गच्छति तत्रैव जन्मनि परिनिर्वाणात् ।

यश्चैष कामधातौ परिवृत्तजन्मार्य उक्तः एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक् // अभिध्-d_429 // ऊर्ध्वधातूपपन्नः ऊर्ध्वगतिरार्य इत्यपि कृतं द्वयोरप्यनयोर्नास्तीन्द्रियसंचारो न परिहाणिः । जन्मान्तरपरिवासेनार्यमार्गस्य सन्ततौ दृढतरनिवेशात्, आश्रयविशेषलाभादार्यस्य जन्मान्तरे रूपारूप्यप्रवेशेन्द्रियसंचारपरिहाणयो न सन्ति ॥

अथ यदुक्तं ध्यानव्यवकिरणादिति तत्र कतमद्ध्यानमादौ व्यवकीर्यते ? अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् / चतुर्थे हि प्रश्रब्धिसुखोत्कटः समाधिः सर्वकर्मण्यो यतस्तत्संमुखीभावात्, आश्रयस्योपचये सत्यामृताभिवृद्धिः येन शक्नोति ध्यानानि व्यवकरितुम् ।

कथं पुनर्ध्यानानि व्यकीर्यन्ते ? आदौ तावदनास्रवं प्रवाहयुक्तं चतुर्थं ध्यानं समापद्यते । तस्माद्व्युत्थाय तदेव सास्रवं प्रवाहयुक्तं समापद्यते । (jaini_345) पुनश्च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा यावत्क्षण द्वये तिष्ठतीत्येष प्रयोगः ।

सिद्धिस्तु क्षणद्वयमिस्रणात् । यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेकं लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणान्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणान्निष्पन्ना भवति ध्यानव्यवकिरणा ।

किमर्थं पुनर्ध्यानव्यवकिरणम् ? तदुच्यते- उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च // अभिध्-d_430 // त्रिभिः कारणैर्ध्यानानि व्यवकीर्यन्ते । उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च । तत्र दृष्टिप्राप्तः उपपत्त्यभिलाषसमापत्तिप्रियताभ्याम् । श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरूतया च । (jaini_346) असमयविमुक्तो ऽप्यर्हन् दृष्टधर्मसुखविहारार्थम् । समयविमुक्तश्च क्लेशभीरुतया चेति ॥

यच्चैतद्व्यवकिरणमुक्तम्, तत्पाञ्चविध्यतः पञ्च शुद्धावासभुवः स्मृताः / तद्धि चतुर्थध्यानव्यवकिरणं पञ्चप्रकारं मृदुमध्याधिमात्रतर मधिमात्रतमभेदात् । अतो हेतुपाञ्चविध्यात् फलमपि पञ्चविधं भवति ।

एताः पुनः शुद्धावासभूमयः न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः // अभिध्-d_431 // भवाग्रमुपादाय ब्रह्मलोकमिन्द्रलोकं यावदवीचिमुपादाय सर्वबालपृथग्जनैरदृष्टपूर्वमन्यत्र शुद्धावासेभ्य इति ।

अभिधर्मप्रदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥

षष्ठाध्याये

तृतीयपादः । यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ / यः खलु निरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते । (jaini_349) निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । स खलु धर्मः कायाश्रयेणोपजायते । तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते । भवाग्राष्टांशहा यावदर्हत्त्वप्रतिपन्नकः // अभिध्-d_432 // प्रथमध्यानवैराग्यादेकप्रकारमारभ्य यावद्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नकोद्रष्टव्यः ॥ यश्चानन्तर्यमार्गे ऽन्त्ये वज्रौपम्याह्वयेस्थितः / नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे ऽन्त्ये ऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः । तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा // अभिध्-d_433 // तस्य वज्रोपमस्य समाधेर्बलादुत्थितं तद्बलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहैकालम्बनं भवति न वा । क्षयज्ञानस्य चतुःसत्यालम्बनत्वात् ॥

तदवाप्तेरशैक्षो ऽसावर्हंस्त्रैलोक्यसत्कृतः / सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः // अभिध्-d_434 //

स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां पारगमनात् सब्रह्मकस्यापि लोकस्य पूजामर्हतीत्यर्हन्निरुच्यते ॥

एषां पुनस्त्रयाणां मार्गाणां कतमः सास्रवो कतमो निरास्रवः ? तदुच्यते-

भावनाख्यो द्विधा मार्गः समलामलभेदतः / दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः // अभिध्-d_435 //

आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् / अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः // अभिध्-d_436 //

कतमत्पुनः कतमां भूमिमत्येति ? तदपदिश्यते- भवाग्रं निर्मलो ऽत्येति........ // अभिध्-d_437 // ..........तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च । शैक्षस्य तु षडारूप्यत्रयं हित्वा । किं पुनरत्र कारणम् ? सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते / इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगृहीतं फलमात्रमेव प्रतिलभते । यश्चाशैक्षः आरूप्यभूमिं निःश्रित्येन्द्रियाणि संचरति नियतमनागामिफलविशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम् । इत्येतत् कारणम् ।

यदुक्तं भगवता- "क्लेशान् प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परिपूर्णशैक्षः" इति । कियता परिपूर्णशैक्षो भवति ? शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः // अभिध्-d_438 // शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति । समापत्तीन्द्रियफलैः । तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात् । तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छैक्षस्य ।

अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्तिभ्याम् । तद्यथोभयभागविमुक्तस्य असमयविमुक्तस्येति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः ॥

षष्ठाध्याये

चतुर्थपादः ।

लौकिकलोकोत्तरदर्शनभावनाशैक्षाशैक्षमार्गभेदेनानेकविधो मार्ग उक्तः । स तु

विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः / आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ // अभिध्-d_439 //

तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः । तस्यानन्तरमानन्तर्यमार्गः येन क्लेशाञ्जहाति । विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते (jaini_355) सन्ताने विसंयोगप्राप्तिसहायोत्पद्यते । विशेषमार्गो यस्तदूर्ध्वमन्यकुशलमूलप्राप्त्यर्थमुत्कर्षगमनलक्षणः ॥

पुनर्मार्गो भगवता मोक्षपुरप्रतिपादनात् प्रतिपच्छब्देनोक्तः "चतस्रः प्रतिपदः । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति सुखा क्षिप्राभिज्ञा । अस्ति दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा ।" तासां पुनरिन्द्रियतो भूमितश्च व्यवस्थानं तदिदं प्रदर्श्यते-

तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा / क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात् // अभिध्-d_440 //

मौलेषु खलु चतुर्षु ध्यानेषु यो मार्गः सा सुखाप्रतिपत् । सा च तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा तत्रायत्नवाहित्वात् । नैर्याणवत्सुखा तत्रायत्नवाहित्वात् शमथविदर्शनयोः साम्यात् । तत्रैव सा मृद्विन्द्रियस्य धन्धाभिज्ञा । अन्यासु तु पञ्चसु भूमिष्वनागम्यध्यानान्तरिकारूप्यत्रयसंगृहीतास्वनङ्गपरिगृहीतत्वात् । शमथविदर्शनान्यूनत्वात् अनागम्यध्यानान्तरिकयोरारूप्यत्रये (jaini_356) चानास्रवो मार्गः तीक्ष्णेन्द्रियस्य प्रतिपत्, दुःखा क्षिप्राभिज्ञा । मृद्विन्द्रियस्य दुःखा धन्धाभिज्ञा ।

कथं पुनरार्यमार्गो दुःखो भवति ? नासौ दुःखात्मकः न दुःखसंप्रयुक्तः ? नैष दोषः । यत्नवाहित्वाभिसन्धेर्विवक्षितत्वात् ॥

पुनरप्येष मार्गो बोधिपक्ष्यशब्देनोच्यते "सप्तत्रिंशद्बोधिपक्ष्या धर्माः । (jaini_357) चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारो ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गान्यष्टाङ्गो मार्गः" इति ।

का पुनरियं बोधिः ?

क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि / दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः // अभिध्-d_441 //

सा पुनरेषा बोधिः क्षयानुत्पादज्ञानरूपासती पुद्गलभेदेन त्रिधा भिद्यते । (jaini_358) तिस्रो बोधयः । बुद्धप्रत्येकबुद्धश्रावकबोधयः । उत्तमनिर्वाणाङ्गभूता तद्धि तिसृणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात् । मृदुमध्याधिमात्राः सप्तत्रिंशद्बोधिपक्ष्या धर्माः मृदुमध्याधिमात्रभेदभिन्ना महायानम् । मृदुमध्याधिमात्रभेदभिन्नं बुद्धप्रत्येकबुद्धश्रावकयान मित्युच्यते ।

तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयः ऽसप्तत्रिंशन्नामतःऽ; । द्रव्यतस्त्वेकादश । श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कर्मान्ताश्च षडिति । अत इदमुच्यते-

सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् / सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया // अभिध्-d_442 //

बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः / वीर्यं सम्यक्प्रधानाख्यं ऋद्धिपादा मनस्थितिः // अभिध्-d_443 //

कथं पुनरेकं वीर्यं चतुर्धा निर्दिश्यते ? तदपदिश्ते-

दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् / सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम् // अभिध्-d_444 //

उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय यद्वीर्यम्, गुणानां च स्मृत्युपस्थानर्धिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीर्यं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति ॥

छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः / ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः // अभिध्-d_445 //

छन्दमधिपतिं कृत्वा यो निष्पद्यते समाधिः स छन्दसमाधिः । कुशलमूलच्छन्दमूलकत्वात् समाध्यादिगुणनिष्पत्तेः, तस्मादसौ छन्दसमाधिरित्युच्यते । तत्प्रभवाः सर्वा गुणर्धयः । एवं वीर्यं चित्तं मीमांसामधिपतिं कृत्वा निष्पन्नः समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः । प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रस्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यचित्तमीमांसापरिग्रहः सामर्थ्यात् । कुशलधर्मच्छन्दे ह्यसति कुतस्तत् प्राप्त्यारम्भः ? आरब्धेपि च वीर्ये यदि न तत्प्रगुणमेव चित्तं भवति न कार्याभिनिष्पत्तिर्भवति । यथारणीमभिनिर्मथ्याप्यन्तरायव्युपरमो भवति पुनः शैत्यमापद्यते तद्वदिति । वीर्यानुवृत्तये चित्तमधिपतिमिष्यते । तत्प्रवणेपि चित्ते यदि सूक्ष्मान् समाध्युपक्लेशान्नोपलक्ष्य परिवर्जयति यदि समाध्यनुगुणान्, गुणांस्तु सामान्यलक्षणशक्तिक्रियानुत्तमार्थाङ्गभूतानुपलक्ष्य, प्रज्ञया नोपचिनोति तस्यान्यायारब्धवीर्ये त्रयमप्येतन्न प्रयोजननिष्पत्तये भवति । एवं छन्दवीर्यश्रद्धास्मृतिबुद्धिप्रस्रब्धिचेतनोपेक्षाख्यानामष्टाणां प्रहाणसंस्काराणां समाधिपरिग्रहसामर्थ्यं यथायोगमवगन्तव्यम् ॥

प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् / कथितं बलशब्देन तदेवानभिभूतितः // अभिध्-d_446 //

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपाणि खलु पञ्चेन्द्रियाणि बोधिपक्ष्येषु व्यवस्थाप्यन्ते । बोधित्रयाधिगमे श्रद्धादीनां पञ्चानामैश्वर्याधिक्यात्, सर्वभूमीषूपलब्धेश्च । एतेषां चाधिमात्रमध्यमृदुतरतमविशेषादर्हत्प्रभृतीनां व्यवस्थानं भवति । तान्येव बोधिपक्ष्येष्विन्द्रियाण्युक्तानि, न चक्षुरादीन्याज्ञातवतेन्द्रियपर्यवसानानि । एषामेवैश्वर्यर्द्धिलिङ्गत्वात् । इहेन्द्राः द्विविधाः । चित्तेश्वराश्च धनेश्वराअश्चेत्यतः इन्द्रलिङ्गमिन्द्रियमितिकृत्वेन्द्रियाणि । (jaini_360) यथा पृथिवीश्वराणां पट्टादीनि लिङ्गानि भवन्ति यैः पृथिवीश्वरोयमिति प्रज्ञायते । यथा च पृथिवीश्वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्वराणामार्यधनसमृद्धानां च श्रद्धादीनि विष्कम्भितप्रहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति ।

तत्र तावच्छ्रद्धायाः स्वलक्षणं बुद्धधर्मसङ्घान् सम्भावयतश्चित्तं प्रसादमुपयाति सद्भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते । प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात् कर्मफलादिषु तत्र संभावना भवति । तथा च संभावयतो यश्चेतसः प्रसादः सा श्रद्धा नाम धर्मश्चित्तेन संप्रयुक्तः । यथादर्शादौ धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात् प्राधान्यात् सन्तानानुवृत्तेश्च चित्तव्यपदेशः ।

वीर्यं नाम चेतसोभ्युत्साहलक्षणं प्रयोजने वार्थिशक्यतां संभाव्य विविधमीर्यत इति वीर्यम् ।

स्मृतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम् ।

चेतस एकाग्रलक्षणं समाधीन्द्रियम् । विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते । विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति । यथा खलु विद्रुतजवनाश्वारूढः पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादीनां न शक्नोति व्यक्तिमुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति । यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति । तस्मात् कुड्य इव रङ्गस्य श्लेषः समाधिरालम्बने चित्तस्याधारः ।

प्रज्ञेन्द्रिसं यत् स्वसामान्यलक्षणमुपलक्षयति । यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्लष्टमिव पृष्ठ इव च लक्षयति सोपलक्षणात् (jaini_361) प्रज्ञेन्द्रियम् । यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम् ।

एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिनः क्लेशसंग्रामावतीर्णस्य क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्बलानीत्युच्यन्ते ।

बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् / प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात् // अभिध्-d_447 //

समानेपि बोधिपाक्षिकत्वे विशेषेणैते सप्तधर्मा बोध्यङ्गानि भवन्ति । भावनामार्गे खल्वेतेषां प्राधान्यं दृष्टसत्यस्थानत एव । धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम् ।

ह्लादः प्रस्रब्धिः । रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्कप्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा द्यत् कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः ।

उपेक्षा नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्तसमतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते ।

अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृतावशेषाणि चत्वारि पूर्वमेव व्याख्यातानि । तेषां पुनः सप्तानां बुद्धिर्धर्मप्रविचयलक्षणा बोधिश्च बोध्यङ्गं च । ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव ॥

तेषामपि च प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता / निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिमधिगच्छति । (jaini_362) यानि चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति । संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः // अभिध्-d_448 // अङ्गतेति वर्तते । सम्यक्संकल्पसम्यग्वाक्कर्मान्ताजीवानां सम्यग्दृष्टिसम्यग्व्यायामसम्यक्स्मृतिसम्यक्समाधीनामिव मार्गानुकूल्यादङ्गत्वम् ॥

अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः-

विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः / समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगो ऽयम् // अभिध्-d_449 // प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु / अत्र पुनः यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः // अभिध्-d_450 //

तत्र स्मृत्युपस्थानान्यादिकर्मिकावस्थाप्रभावितानि कायादिस्वभावोपलक्षणात् । सम्यक्प्रहाणान्यूष्मगतेषु । तत्र संसारनिर्वाणयोरादीनवानुशंसदर्शने बलवद्वीर्याश्रयणात् संसारपारमुत्तरति । मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद् गुणधनदरिद्रो भवति । इन्द्रियाणि क्षान्तिष्वपायात्यन्तनिवृत्तौ तदाधिपत्यात् । बलान्यग्रधर्मेषु क्लेशानवमर्दनीयत्वात् । बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावनया निरवशेषक्लेशप्रहाणात् । नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात् । दर्शनमार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु त्रैधातुकातिक्रमणोत्पादात् । आनुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात् ॥

अथ कस्माच्चैतसिकधर्मधर्मिभूतं चित्तं बोधिपक्ष्येषु न व्यवस्थापितम् ? (jaini_363) संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु न व्यवस्थाप्यन्ते ? तदिदमनुवर्ण्यते- न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात् / राजस्थानीयं खलु चित्तं तद्बोधिपक्ष्यैर्धर्मैर्विशोध्य मोक्षसुखमुपलभ्यते । यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति । यथोक्तम्- "चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते । चित्तव्यवदानहेतोश्च विशुद्ध्यन्ते ।" तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम् । व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते // अभिध्-d_451 // प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः ॥ विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना / चेतना खल्विष्टानिष्टविपाकनिर्वर्तनत्वात् मार्गशब्देनाभिधानाच्च नोच्यते । नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात् // अभिध्-d_452 // मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याविद्याप्रवर्तनाच्च ॥ क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् / छन्दः खलु कर्तुकामतारूपः क्रियारम्भः प्रभाव्यते । वीर्य चानुबृंहयति । तद्वीर्यं बोधिप्रतिलम्भकर्तव्यतापरिसमाप्तेरूर्ध्वं यावदनुवर्तते । नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः // अभिध्-d_453 //

प्रायेण खल्वधिमोक्षो ऽधिमुक्तमनस्कारेषु वर्तते । स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्तेर्दुरवधारवृत्तिः । तस्मान्नोक्तः ॥ नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः / चत्वारः खल्वार्यवंशाः ह्र्यपत्राप्ये च । नवप्रव्रजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्याः । नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात् // अभिध्-d_454 // वीर्यभाण्डागारिकः खल्वप्रमादः । अविहिंसा च विहेठनामात्रप्रतिपक्षत्वान्नोक्ता ॥ सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः / धर्माधिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः । मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः // अभिध्-d_455 // अवेत्यप्रसादाः खलु मार्गाङ्गैकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनर्बोधिपक्ष्येषूक्ताः । नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः / सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः । तस्मान्न बोधिपक्ष्यः । औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः // अभिध्-d_456 // निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः । परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावो बोधेर्बहिरङ्गभावाद्विप्रकृष्यते । तस्मात् सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः ॥

कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते-

बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः / तदन्यान्यवबोध्यानि समलान्यमलान्यपि // अभिध्-d_457 //

बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि । तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाणाशयाश्च । बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते । उक्तं हि भगवता- (jaini_365) "अधिगतो मे पौराणो मार्गः" इति वचनात् । शास्त्रे तु बोध्यङ्गोपरि ये पठ्यन्ते सम्यग्दृष्ट्यादयो धर्मास्ते ऽनास्रवा इति ॥

कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ?

आद्ये ध्याने ऽखिला मौले ऽनागम्ये प्रीत्यपाकृताः / द्वितीये ऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते // अभिध्-d_458 //

शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु / बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः // अभिध्-d_459 //

तत्र तावन्मौले ध्याने सर्वेपि सप्तत्रिंशद्बोधिपक्ष्या विद्यन्ते । अनागम्ये तु प्रीतिवर्जिताः । तत्र प्रीतेरभावात् । वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः । द्वितीये तु ध्याने संकल्पवर्जिताः सर्वे विद्यन्ते । तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवर्ज्याः पञ्चत्रिंशत् । ऽचऽशब्दाद् ध्यानान्तरेपि पञ्चत्रिंशत् संकल्पप्रीतिवर्जिताः । त्रिष्वारूप्येषु सम्यग्वाक्कर्मान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च । भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गवर्जिताः पञ्चविंशतिः । कामधातावपि बोध्यङ्गवर्जितास्त्रिंशद्विद्यन्त इति । ये पुनरनास्त्रवाण्येव मार्गाङ्गानीच्छन्ति तेषां तैरपि वर्जिताः शेषा बोधिपक्ष्या विद्यन्त इति । गतमेतत् ॥

इदं तु वक्तव्यम् । बोधिपाक्षिकाधिकारे-

यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः / न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु // अभिध्-d_460 //

न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इर्न्द्रियान्तरविवृद्धितत्प्रथमता तासु खल्वेतासु चतसृषु तत्प्रथमतासु-

अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् / तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ // अभिध्-d_461 //

बोधिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भो ऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य लाभः ? तदिदं निर्दिश्यते-

त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः / मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि // अभिध्-d_462 //

दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः । कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये । धर्ममात्रमिदं सर्वं द्वादशायतनमात्रमित्यर्थः । नात्र कश्चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते । न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति । एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः । तद्विन्निरोधं समागच्छतो द्रष्टव्यम् । मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्घे च । सद्भूतमार्गाख्यायी भगवान्मार्गज्ञो मार्गदेशिकः । येपि च तं मार्गं प्रतिपन्नाः श्रावकाः शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्ध्याशयसा(?)च बोधिसत्त्वसिंहाः दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्व्याकारश्रद्धास्वरूपः । सो ऽयं विस्तरेणोच्यते ॥

बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा / धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः // अभिध्-d_463 //

स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्च मार्गः ॥

कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते-

मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात् स्वयम् / बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः // अभिध्-d_464 //

द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौणश्च । तत्राद्यो बुद्धकारका बुद्धस्याशैक्षा धर्माः । गौणस्तु तदाधारेपि शरीरे तत्फलभूतेषु चाष्टादशस्वावेणिकेषु बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम् ॥

शैक्षाशैक्षगुणाढ्यानां पुद्गलानां य आकरः / तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः // अभिध्-d_465 //

उक्तं हि सूत्रे- "कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहपते शैक्षा अशैक्षाश्च । तत्राष्टादश शैक्षाः नव शैक्षाः ।" इति विस्तरः ॥ शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु / कति पुनरेषां द्रव्यतः कति नामतः ? द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम् // अभिध्-d_466 // श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः । यद्धि निर्मलं तत् प्रसन्नमित्युच्यते ॥

इदमिदानीं वाच्यम् । अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या चाष्टाभिरङ्गैः समन्वागतः शैक्षः प्रातिपद इत्युक्तं दशभिरर्हन् क्षीणास्रव इति ? तदुच्यते- शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते / शैक्षस्य विद्यमानापि अनाकारित्वान्नाङ्गमुच्यते । सत्यामपि हि तस्यां क्लेशबन्धनबद्धः शैक्षो न च विमोक्षो युज्यते ।

का पुनरियं विमुक्तिः कतिधा च ? तदपदिश्यते- मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा // अभिध्-d_467 // स्वरूपभेदादपि द्विधा प्रकारभेदादपीति । स्वभावभेदात् मोक्षाधिमोक्षस्वभावा । प्रकारभेदोपि क्षराक्षरभेदात्, सामयिकी कान्ताकोप्यभेदाद्वा रागविरागाविद्याविरागभेदाच्च ॥

अथ सम्यग्ज्ञानं कतमत्तदुच्यते- पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते / क्षयानुत्पादज्ञाने बोधिरित्युक्तम् । ते एव सम्यग्ज्ञानं वेदितव्यम् ।

कतरत् पुनश्चित्तं विमुच्यते ? किं जातनिरुद्धमथाजातनिरुद्धमथ जातमेव ? मुच्यते ऽनागतं चित्तमशैक्षं क्लेशरोधतः // अभिध्-d_468 // कश्चित् खल्वाह- अनागतं खलु चित्तमुत्पाद्यमानं विमुच्यते ऽध्वविमुक्त्या सर्वमेव त्वनागतं विमुच्यते । क्लेशावरणात् सन्तानविमुक्त्या । तत्पुनरशैक्षमेव क्लेशोपक्लेशप्राप्तिविबन्धापगमात् । यदपि तद्रूपारूप्यप्रतिसंयुक्तं कर्मोपपत्तिफलं तदप्यर्हत्त्वप्राप्तिविबन्धकरं तच्च सर्वं वज्रोपमेन प्रहीयत इत्यावरणविगमात् सर्वमेवानागतमशैक्षं चित्तं विमुच्यते ॥

धर्मा एव तु परमार्थतः शिक्षन्ते । यस्मात्- धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः / औष्ण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते । अग्निना काष्ठं दग्धमित्यग्निदहनव्यापारे च देवदत्तेन दग्धोस्मीत्युपचर्यते । तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षुरशैक्ष इत्युच्यते । मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम् // अभिध्-d_469 // ऽतुऽशब्दान्निरुध्यमान एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात् सामर्थ्योपपत्तेः ।

अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः, ते ततः किमन्ये ऽथानन्ये ? ब्रूमः-

विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः / आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया // अभिध्-d_470 //

प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम् । कथम् ?

विरागो रागनिर्मोक्षः प्रहाणाख्यो ऽन्यसंक्षयः / निरोधधातुरन्यस्य सोपादानस्य वस्तुनः // अभिध्-d_471 //

रागप्रहाणं खलु विरागधातुरित्युच्यते । तदन्येषां क्लेशोपक्लेशानां प्रहाणधातुः । तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते ॥

येन वस्तुना निर्विद्यते विरज्यते ऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्नः । कथम् ?

दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया / विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी // अभिध्-d_472 //

दुःखसमुदयक्षान्तिभिः तज्ज्ञानैश्च निर्विद्यते, नान्यैः । विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विरज्यते यैः क्लेशान् प्रजहाति । एवं चतुष्कोटिको भवति ।

तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्यप्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते । भावनामार्गेपि प्रयोगविमुक्तिविशेषात् मार्गसंगृहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निर्विद्धवस्त्वालम्बनत्वात्तु निर्विद्यते ।

द्वितीया कोटिः- विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामन्निरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्न निर्विद्यते ।

प्रामोद्यवस्त्वालम्बनत्वादुभयम् । वीतरागः कामेभ्यो नियाममवक्रामन् दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन् ।

नोभयम्- कामवीतरागो नियाममवक्रामन्निरोधमार्गधर्मज्ञानक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम् ॥

य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः । विस्तरेण तु

संज्ञा अनित्यसंज्ञाद्या दश ताभ्यो ऽशुभादयः / तिस्रो मार्गविधिर्मार्गश्चतस्त्रो ऽन्त्यास्त्रयी फलम् // अभिध्-d_473 //

अशुभसंज्ञा मरणसंज्ञा सर्वलोके ऽनभिरतिसंज्ञा । मार्गप्रयोगस्तिसृभिराभिरुक्तः । चतसृभिश्च मार्गो ऽनित्यदुःखशून्यानात्मसंज्ञाभिः । प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति ॥

कति पुनरासां सास्रवाः कत्यनास्रवाः ?

त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः / समला निर्मलास्त्वन्या बोध्या नव भुवो ऽमलाः // अभिध्-d_474 //

अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः । शेषास्तु सास्रवानास्रवाः, नवभूमिका अनास्रवा अवबोद्धव्याः ॥

भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् / चतुर्थी पञ्चमी षष्ठी विद्यात् सप्तसु भूमिषु // अभिध्-d_475 //

अभिधर्मदीपे विभाषाप्रभाणं वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥

समाप्तश्च षष्ठो ऽध्यायः ॥

सप्तमो ऽध्यायः

प्रथमः पादः ।

अत्राह । भगवतोक्तस्त्रिस्कन्धो ऽयं मार्गः । तत्र शीलस्कन्धः कर्माध्याये विस्तरेण व्याख्यातः । समाधिस्कन्धो ऽष्टमे ऽव्याये व्याख्यायिष्यते । प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः । सो ऽयमारभ्य-

लोको ऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति / तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः // अभिध्-d_476 //

कानि पुनस्तानि कियन्ति वेति ? तदुच्यते-

जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया / तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः // अभिध्-d_477 //

जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम् । तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः ॥

तत्र तावत्-

धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् / द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम् // अभिध्-d_478 //

धर्मान्वयज्ञाने खलु धर्मान्वयाभ्यामेव विशेष्येते । दुःखादीनि तु चत्वारि स्वविषयैरेव चतुर्भिरार्यसत्यैः विशेष्यन्ते । संवृत्या परचित्तेन च संवृतिपरचित्तज्ञाने विशेष्येते । क्षयेणापुनरुत्पत्त्या च क्षयानुत्पादज्ञानद्वयं विशिष्यते ।

अथवा

प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः / तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा // अभिध्-d_479 //

तत्र कामधातुविपक्षप्रतिपक्षो धर्मज्ञानम् । रूपारूप्यावचरविपक्षप्रतिपक्षो ऽन्वयज्ञानम् । प्रयोगतः परचित्तज्ञानं चित्तं ज्ञास्यामीति तत्प्रयोगात् । स्वभावतः संवृतिज्ञानं पिपीलिकादिष्वपि तद्भावात् । सत्याकारैर्गोचरैश्चत्वारि (jaini_375) ज्ञानानि । कृत्यतः क्षयज्ञानं कृत्यपरिसमाप्तेः । हेतूपचयतो ऽनुत्पादज्ञानं सर्वैरनास्रवैर्ज्ञानैस्तत्सभागहेतूपचयात् ॥

धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः / संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा // अभिध्-d_480 //

तत्र धातुसंमोहो द्वाभ्यां धर्मान्वयज्ञानाभ्यां निवर्त्यते । सत्यसंमोहश्चतुर्भिः दुःखज्ञानादिभिः । अर्थसंमोहः संवृतिज्ञानेन । चित्तसंमोहः परचित्तज्ञानेन । जातिसंमोहः क्षयज्ञानेन । पुनरुत्पत्तिसंमोहो ऽनुत्पादज्ञानेनेति दशैव ज्ञानानि भगवानवोचत् । नातिभूयांसि नाल्पीयांसीति ॥

अत्र पुनः परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम् // अभिध्-d_481 // "दुखं परिज्ञातं समुदयो मे प्रहीणः,................

..............मिति वादविपक्षेण वा अनारम्भिणां संसारेणैव शुद्धिरिति वादविपक्षेण प्रतिपदाकारः । लौकिकवैराग्यमार्गमारसंज्ञाविपक्षेण वा अनात्यन्तिकवैराग्यगमनविप्रलम्भात् सर्वत्राबहुमानविपक्षेण नैर्याणिकाकारः ॥

अथाकारो नाम क एष धर्मः । किं वा तेनाकार्यत इति ? तदुभयं निर्दिश्यते- धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः // अभिध्-d_482 // प्रज्ञा खल्वाकार इत्युच्यते । न तर्हि प्रज्ञा साकारा भवति द्वयोः प्रज्ञयोः यौगपद्याभावात् । ततश्च न सर्वे चैतसिकाः साकाराः प्राप्नुवन्ति । न खलु ब्रू मः प्रज्ञासंप्रयोगात्साकारा वैकाकारा वा । किं तर्हि ? स्ववृत्तिभिराकरणादालम्बनग्रहणादित्यर्थः ।

किं पुनस्तदाकार्यम् ? सदाकार्यम् । यत्किञ्चिद् द्रव्यतः प्रज्ञप्तितो वा विद्यते तदाकार्यते । चित्तचैत्तास्तु साकाराः विषयग्राहिण इत्यर्थः ॥

किं पुनर्ज्ञानं कति स्मृत्युपस्थानानि ?

परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः / चत्वारि स्मृत्युपस्थानान्यतो ऽन्यज्ज्ञानमिष्यते // अभिध्-d_483 //

परचित्तज्ञानं खलु त्रीणि वेदनाचित्तधर्माख्यानि । निरोधज्ञानं धर्मस्मृत्युपस्थानम् । परचित्तनिरोधज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि ॥

अथ कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ? मार्गधर्मान्वयज्ञानगोचरो नवशो धियः // अभिध्-d_484 // मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम् । मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा । धर्मज्ञानस्यान्वयज्ञानम् । अन्वयज्ञानस्य धर्मज्ञानम् ।

दुःखहेतुधियोर्द्वे द्वे

दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परचित्तज्ञानमालम्बनम् ।

चतुर्णां दश

संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वाण्येव दशज्ञानान्यालम्बनम् ।

नापरम् ॥

निरोधज्ञानं खलु नैव ज्ञानालम्बनम् ॥

पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम् । कथम् ? तदुच्यते-

पञ्चधर्मास्त्रिधात्वाप्तान् मार्गरूपान् सनातनान् / व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम् // अभिध्-d_485 //

त्रैधातुकान् धर्मान् प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्तविप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधाकृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति ।

तत्र तावत्संवृतिज्ञानस्य सर्व एव दशधर्मा विषयः । धर्मज्ञानस्य पञ्च (jaini_378) कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम् । परचित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव । दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः । निरोधज्ञानस्यैको ऽसंस्कृतमेव कुशलम् । मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च । क्षयानुत्पादज्ञानयोर्नव धर्मा विषयो ऽसंस्कृतमव्याकृतं मुक्त्वा ॥

इदमिदानीं वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव । अयं तु नियमः- दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः / द्वितीयक्षणे त्रिभिः संवृतिज्ञानदुःखज्ञानधर्मज्ञानैः । चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तो ऽन्यमनो धिया // अभिध्-d_486 // अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते । तद्यथा दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते । समुदयधर्मज्ञाने समुदयज्ञानम् । निरोधधर्मज्ञाने निरोधधर्मज्ञानम् । मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते । समुदयनिरोधमार्गान्वयज्ञानेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः । सर्वत्र तु वीतरागस्य परचित्तज्ञानं वर्धत इति वाच्यम् ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः ॥

सप्तमाध्याये

द्वितीयपादः ।

इदमिदानीं वक्तव्यम् । कस्यां भूमौ कस्यां वावस्थायां कस्य वा पुद्गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते-

त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि / मौलध्यानप्रयोगे च ज्ञेयानागतभावना // अभिध्-d_487 //

बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा / प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः // अभिध्-d_488 //

बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमूलोत्पादने च प्रयोगविमुक्तिमार्गे च संवृतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या ॥

आर्यस्य तु क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे / दर्शनमार्गे खलु यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते । नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात् । सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये // अभिध्-d_489 // संवृतिज्ञानं खलु दर्शनमार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वयज्ञानाख्येषु भाव्यते । न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः ॥

कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते- समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः / यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवृतिज्ञानानि प्रतिपक्षः । तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम् । अतो ऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः // अभिध्-d_490 // अत एव तदाभिसमयान्तिकं संवृतिज्ञानमित्याख्यायते । धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति । तच्चैतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते ।

कस्मात्पुनस्तदनुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्तिप्रतिबद्धत्वात् । दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम् । तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति । तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च । उक्ता दर्शनमार्गभावना ॥

भावनामार्गे वक्तव्या । मार्गाख्ये त्वन्वयज्ञाने षड् भाव्यन्ते ऽथ सप्त वा / षोडशेतु वर्तमानान्वयज्ञानचित्ते भावनावर्त्मन्यवीतरागस्य षड् भाव्यन्ते । संवृतिपरचित्तक्षयानुत्पादज्ञानानि हित्वा । वीतरागस्य तु सप्तानागतानि भाव्यन्ते परचित्तज्ञानं वर्धयित्वा । आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः // अभिध्-d_491 // सरागस्यापि भावनामार्गे तस्मात् षोडशात्क्षणादूर्ध्वं यावत्कामे वीत रागो भवति तावत्सर्वेषु प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । अन्यत्र परचितक्षयानुत्पादज्ञानेभ्यः ॥

प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः / भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना // अभिध्-d_492 //

ध्यानचतुष्ट्वारूप्यत्रयवैराग्ये पञ्चस्वभिज्ञासु, अकोप्याप्रतिवेधे च व्यवकीर्णभाविते च ध्याने । शैक्षस्य सर्वेष्वानन्तर्यविमुक्तिमार्गेषु सप्तैव ज्ञानानि ............. ।

........अभिधर्मदीपे विभाषाप्रभायां वृत्तौ सप्तमस्याध्यायस्य द्वितीयपादः समाप्तः ॥

सप्तमाध्याये

तृतीयपादः ।.....

.........स्थानवस्तुहेतुविपाकप्रतिविस्तरैर्बोद्धव्यम् । तत्रातीतानागते प्रत्युत्पन्ने च तदाक्षेप्ताक्षेपवैचित्र्यं प्रतिकर्मसमादानं (jaini_383) भवति । किचिद्धि सहसा प्रत्ययवशात्क्रियते । किञ्चिद् दृष्टचेतसा । किञ्चित्पुनः समादाय क्रियते तेन कर्मणा मया जीवितव्यमिति । तथा धर्मो ऽयमधर्मो वेति समादायासमादाय करोति । स्थानादिप्रविभागतश्च गाम्भीर्यं बोद्धव्यम् । तत्र स्थानमायत्युत्पत्त्यायत्तानामवकाशकारणात् । हेतुरपि येन हेतुना क्रियते । यथोक्तम्- "वस्तु स्थानाधिकरणमुच्यते । साधिकरणं वस्तु स्थानम् । तद्यथा प्राणिवधकर्मणः स्वभावः । स च प्राणी यस्य चार्थे वध्यते यया प्रत्ययसामग्र्या सर्वमेतद्वस्तु सम्भवति । कुतः ? स्थानहेतुविपाकानां पृथगुक्तेः । यस्य खल्वेतत् स्थानं यच्चास्य स्थानं क्रियते यस्य तत्कर्म हेतुः, यद्धेतुकं च तत्, अयं चास्य कर्मणो विपाको ऽयमन्यस्य" इति । तदेतदष्टज्ञानस्वभावं निरोधमार्गज्ञाने हित्वा ॥

ध्यानादीनां स्वभावादावव्याघातविसारि यत् / ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम् // अभिध्-d_493 //

ध्यानविमोक्षसमाधिसमापत्ति ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्बलमव्याहतम् । तत्र संक्लेशादिचतुष्टयं हानविशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात् । तदेतद्ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नवज्ञानात्मकं बोद्धव्यम् ॥

यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते / अक्षोत्तमावरज्ञानबलं तन्नवधीमयम् // अभिध्-d_494 //

इन्द्रियपरापरज्ञानबलम् यत्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रैविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानबलं नवज्ञानात्मकं निरोधज्ञानं हित्वा ॥

यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते / नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम् // अभिध्-d_495 //

यत्खलु सर्वसत्त्वानां हीनमध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्तिज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा ॥

यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते / नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम् // अभिध्-d_496 //

ते पुनः पूर्वाभ्यासवासनाधातवः पूर्वजन्मसु गुणदोषविद्याशिल्पकर्माभ्यासेभ्यो या वासनास्ताः खल्विह धातवो विशेषेण बोद्धव्याः । गोत्रार्थेनावस्थानां त एवाशया इत्यवगन्तव्याः, तद्वशाच्चरतीत्युच्यते । उक्तं च भगवता- "धातुशः सत्त्वाः संस्यन्दन्ते" इति ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.