Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मदीप with auto(?)entary विभाषाप्रभावृत्ति

Tác giả
विमलमित्र
Thông tin
GRETIL — P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कीदृशे पुनस्तत् क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो । ऽनिरोधव्युत्थितादौ च सद्यः कालफलक्रिया ।ऽ; पञ्चसु च पुद्गलेषु कृतं निरोधसमापत्त्य रणामैत्रीदर्शनमार्गादर्हत्फलाद्व्युत्थितेषु कारापकारा दृष्टधर्मवेदनीयफला भवन्ति । निरोधसमापत्तेः खलु व्युत्थितः परां शान्तिं लभते । निर्वाणसदृशधर्मानुभवनात् । अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते । एवं मैत्रीव्युत्थितस्य । स्त्रौतआपन्नस्यापि निर्मलज्ञानलाभात् । अर्हतो ऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते ॥

नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दृष्टे धर्मे विपच्यत इत्यतः

तद्भूम्यपुनरुत्पत्तेः

दृष्टधर्मवेदनीयं संगृहीतं भवति । कीदृशं पुनरेतत्कर्म ? विपाकनियतं च यत् / तच्चैतत्कर्म विपाकनियतं द्रष्टव्यम् ।

तच्च दृष्टफलं विद्यात्

दृष्टे धर्मे खलु तस्य विपाको विपच्यते । कतरत्पुनरेतत् ? कर्मादः परिपूरकम् // अभिध्-d_183 // नाक्षेपकमिति ॥

विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते । स्यात्कर्मणश्चैतसिक्येव वेदना विपाको न कायिकी ? स्यात्कायिक्येव न चैतसिकी स्यादित्याह-

कुशलस्याविचारस्य चैतसिक्येव वेदना / विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः // अभिध्-d_184 //

कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम् । तस्याविचारस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात् । कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी ? चैतसिकं हि दौर्मनस्यं न विपाकः ।

यत्तर्हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः । किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः । ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते ॥

पुनश्चतुर्विधं कर्मोक्तम्- "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्ततेऽ; इति । तत्र

सपाकमशुभं कृष्णं सपाकं रूपजं सितम् / शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत् // अभिध्-d_185 //

अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात् । कृष्णविपाकं चामनोज्ञविपाकत्वात् । रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यवकीर्णत्वात् । शुक्लविपाकं च मनोज्ञविपाकत्वात् ।

आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधो ऽस्ति विपाकः- अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रैवोक्तमिति ।

"कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात् ।" सन्तानत एतद्व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्लं च, अन्योन्यविरोधात् । ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकीर्यते । कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति ।

अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताभावात् । आभिप्रायिको ऽप्येष शुक्लशब्दः । उक्तं तु भगवता महत्यां शून्यतायामशैक्षधर्मानारभ्य- (jaini_147) "इमे ते आनन्द, धर्मा एकान्तशुक्ला एकान्तानवद्याः" इति । शास्त्रे च- "शुक्लधर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्च ।" इति । अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च ।

किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ? नेत्युच्यते । किं तर्हि ?

चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् / आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत् // अभिध्-d_186 //

नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी / अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु // अभिध्-d_187 //

तत्र दर्शनमार्गे तावच्चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना द्वादशप्रकारा सा कृष्णस्य कर्मणः प्रहाणकारी । कामवैराग्यानन्तर्यमार्गेणावसेया चेतना सा कृष्णशुक्लकर्मक्षयकारी । ध्याने ध्याने त्वानन्तर्यमार्गे पश्चिमे या चेतना चतुर्विधा सा शुक्लकर्मापहन्त्री ।

किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ? न हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । किं तर्हि ? तदालम्बनक्लेशप्रहाणात् । अतो यावदेको ऽपि तदालम्बनः क्लेशप्रकारो (jaini_148) ऽस्ति तावदस्य प्रहाणं नोपलभ्यते । तच्चैतदसत् । प्रहीणं हि तत्, न तु विहीनम् । अतः समुदाचरतीति । गतमेतत् ॥

सूत्र उक्तम्- "त्रीणि दुश्चरितानि । कायदुश्चरितं वाङ्मनोदुश्चरितम् । एवं सुचरितानि" इति । तेषां कः स्वभावः ? तत्र तावत्- कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् / सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः । अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् // अभिध्-d_188 // सर्वमेवाकुशलं कायकर्म कायदुश्चरितम् । एवं वाङ्मनोदुश्चरितम् । अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्चरितस्वभावानि ।

"अभिध्यादय एव कर्मस्वभावानि" इति स्थितिभागीयाः । तच्च न, कर्मक्लेशैकत्वदोषात् । स्थितिभागीया नाम शाक्याः स्व(श्व?) लांगूलिकद्वितीयनामानः । ते खल्वभिध्यादीनि मनस्कर्मस्वभावानीच्छन्ति । तेषां (jaini_149) कर्मक्लेशैकत्वसङ्करः प्राप्नोति । कोशकारः- "को ऽत्र दोषः" ? यदि कश्चित्क्लेशः कर्मापि स्याद्वायसः सारसः स्यात् । कर्मक्लेशानां चात्यन्तस्वभावप्रभावक्रियाफलभेदभिन्नानामेकत्वपरिकल्पैः सांख्यीयादिदर्शनमभ्युपगतं स्यात् ।

ऽअपिऽ; शब्दात्पुनरत्र सूत्रोक्तास्त्रयो वङ्कास्त्रयो दोषास्त्रयः कषाया आकृष्यन्ते । तेषां पुनरिदं लक्षणं यथाक्रमेण । शाठ्यजं कायकर्म कायवङ्क (jaini_150) इत्युच्यते । कुटिलान्वयत्वात् । एवं शाठ्यजं वाङ्मनस्कर्म वाङ्मनोवङ्क इत्युच्यते । द्वेषजाः पुनस्त एव त्रयो दोषा इत्याख्यायन्ते, चित्तप्रदोषान्वयत्वात् । रागजं पुनः कायकर्म कायकषाय इत्युक्तं रञ्जनात्मकत्वात् । एवं वाङ्मनःकषायौ द्रष्टव्यौ । तानि पुनः कुशलानि कायवाङ्मनस्कर्माणि त्रीणि सुचरितानि बोद्धव्यानि । एतान्येव त्रीणि शौचेयान्युक्तानि ।

अशैक्षसन्ताने त्रीणि मौनेयान्युच्यन्ते । तत्र कायसुचरितं कायमौनेयं वाक्सुचरितं वाङ्मौनेयं मन एव तु मिथ्यासंकल्पोपरमान्मुनिरित्याख्यायते । तदुपरमाद्धि कायवाग्जल्पोपरमो भवति । मुनेरिदं मौनेयमिति निरुक्तिः । (jaini_151) कस्मात्पुनरर्हत एव मौनेयानि ? तस्य परमार्थमुनित्वात् । स खलु सर्वक्लेशजल्पोपरमान्मुनिरित्युच्यते ।

एषा पुनर्मौनेयशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचेयर्निर्दिष्यते ॥

शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् / द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः // अभिध्-d_189 //

द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौलं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवर्ज्याः ।

तत्र कायसुचरितस्य प्रदेशः पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः । वाक्सुचरितस्य प्रियवचनादिकः । मनःसुचरितस्य शुभा चेतना ।

कायदुश्चरितस्यापि परेषां जीवितभोगदारापहारप्रयोगपृष्ठाख्यः । वाग्दुश्चरितस्याप्यप्रियवचनाद्याख्यः । मनोदुश्चरितस्याप्यकुशलं मनस्कर्मै..................स्तेषां नात्यौदारिकत्वात् ।

यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यो मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात् । यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः । एवं यथासंभवमन्येषां द्रष्टव्यमिति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः ।

चतुर्थाध्याये

तृतीयपादः ।

इदमिदानीं वक्तव्यम् । ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ?

तत्राकुशलानां तावत्- कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्ते ऽपि षट् कृताः / तत्र प्राणातिपातादत्तादानमृषावादपैशून्यपारुष्यसंभिन्नप्रलापाः । एते नावश्यं विज्ञप्तिस्वभावाः । परेण कारयतो मौलीविज्ञप्त्यभावात् । काममिथ्याचारस्तु नित्यं द्व्यात्मकः, तस्य परेणाशक्यत्वात् । ते ऽपि ऽषट् कृताःऽ; यदा स्वयमेव प्राणातिपातादीन् षट् कर्मपथान् करोति तदा द्व्यात्मानो भवन्ति । विज्ञप्त्यविज्ञप्तिस्वभावत्वात् ।

कुशलानां पुनः शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः // अभिध्-d_190 // सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति । विज्ञप्त्यधीनत्वात् समाहितशीलस्य । ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव । समाहितस्य विज्ञप्त्यभावात् । या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः / सामन्तकः खलु यदा तीव्रेण पर्यवस्थानेन प्रयोगमारभते, प्रसादेन वा घनरसेन तदा द्विस्वभावा । यदा मृदुना तदा विज्ञप्तिरेव । विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः । यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपीति । तीव्रेण तु प्रहारेण जीविताद्व्यपरोपयति । तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौलः कर्मपथः । द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते । प्रयोगतः फलपरिपूरितश्च । तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठीभवन्ति । यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति । यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । एवमन्येष्वपि यथासंभवं योज्यम् ।

अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः ।

सूत्रे भगवतोक्तम्- "प्राणातिपातो भिक्षवस्त्रिविधः । लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः" इति । तत्रैषां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद् द्वेषेण, केषाञ्चिन्मोहेन । सर्वेषामपि

प्रयोगस्तु त्रिमूलोत्थः

प्रयोगस्तेषामकुशलमूलत्रयाज्जातः । तत्र लोभजः प्राणातिपातस्तच्छरीरावयवार्थं मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च । द्वेषजो यथा वैरनिर्यातनार्थम् । मोहजो याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । पारसीकादीनां च धर्मबुद्ध्या मातरं पितरमभिघ्नताम् ।

लोभजमदत्तादानं यस्तेनार्थी तद्धरति । द्वेषजं वैरनिर्यातनार्थम् । मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद् दृष्टनिग्रहार्थम् । यथा च दुष्टब्राह्मणा आहुः- "सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृषलाः परिभुञ्जन्ते । तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु कोष्ठं वस्ते स्वं ददाति" इति ।

लोभजः काममिथ्याचारः परदारादिषु तत्संरागादब्रह्मचर्यम् । द्वेषजो वैरनिर्यातनार्थम् । मोहजो यथा पारसीकानां मात्रादिगमनम् । गोसवे च यज्ञे "उपहा उअदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपसगोत्रामिति ।"

मृषावादादयो लोभजा द्वेषजाश्च यथा पूर्वमुक्तम् । मोहजो मृषावादो यथाह-

"न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥" इति ।

पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्च वेदाद्यसच्छास्त्रप्रलापः । अभिध्याद्यास्त्रिमूलजाः // अभिध्-d_191 // अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात् त्रिमूलजाः ।

उक्ताः अकुशलाः कर्मपथाः । कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः / कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम् । तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात् ।

केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते- द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् // अभिध्-d_192 // प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति । परित्यागपरुषचित्तसंमुखीभावात् ॥ स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः / अदत्तादानपरस्त्रीगमनाभिध्यानां लोभेन निष्ठा ।

मिथ्यादृशस्तु मोहेन

मिथ्यादृष्टेः खलु मोहेन समाप्तिर्भवति । अधिमात्रमूढाभिहितां निष्ठापयति । तदन्येषां त्रिभिर्मतम् // अभिध्-d_193 // के पुनरन्ये ? मृषावादपैशुन्यसंभिन्नप्रलापाः । तेषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा ॥

अथैषां चतुर्णां काण्डानां किमधिष्ठानम् ? तदुच्यते-

चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् / प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च // अभिध्-d_194 //

तत्र सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानाः परस्त्रीगमनादयः । नामरूपाधिष्ठाना मिथ्यादृष्टिः । नामकायाधिष्ठाना मृषावादादयः ॥

कथं पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कथं यावन्मिथ्यादृष्टिरिति ? लक्षणं कर्मपथानां वक्तव्यम् । तदारभ्यते- प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् / यदि खलु हनिष्यामि हन्म्येनमिति संचिन्त्याभ्रान्तचित्तः परं जीविताद्व्यपरोपयति, (jaini_157) एवं प्राणातिपातो भवति । प्राणो वा वायुः कायचित्ताश्रितो वर्तते । तमतिपातयतीति प्राणातिपातः ।

न, अनुपपत्तेः । विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चाभ्युपगम्यन्ते । तेषामित्थंभूतानां स्थितिशक्तिक्रियाभावे सत्यनागतानां च तुल्यातुल्यजातीयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ?

अत्र सौत्रान्तिकाः परिहारमाहुः- "न । प्रदीपनिर्वापनघण्टशब्दनिरोधवत्तत्सिद्धेः ।"

न, समानत्वात् । अयं त्वत्र परिहारः- हन्तुर्हेतुसामर्थ्योपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधानविधानविघ्नकरणात् प्राणातिपातोपपत्तिः । कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य (jaini_158) पुद्गलस्य यो ऽसावेवं नामैवं गोत्र इति विस्तरः ।

अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाग्निस्पर्शाद्दाह इति नग्नाटाः । तेषां परदारदर्शनस्पर्शने ऽप्येष प्रसंगः । तुष्टरुष्टनग्नाटवाह्लीकनिर्ग्रन्थशिरोलुञ्चने च ।

बुद्धिपूर्वात्प्राणिवधाद्धर्मो ऽपि भवतीति याज्ञिकाः । कथम् विषभक्षणवत् । तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति । किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति । न । गलाम्रेडनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शनात् । पिष्टमयच्छागा हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च । किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शनात् । तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिद्दुर्गतारिष्टेषु न जीवयति । अमन्त्रपूर्वकमपि किञ्चीज्जीवयति किञ्चिन्न जीवयति । भुक्तविषस्यापेक्षिकत्वात् । किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्युपघाते ऽपि पापप्रणाशनशक्त्यदर्शनात् । किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात् । जुहोत्यादिक्रियाव्यङ्ग्यो (jaini_160) धर्मः इति चेत् । न । तद्रूपासिद्धत्वात्, अभिव्यक्त्यनुपपत्तेश्च । क्रियामात्रमपूर्वमिति चेत् । न । क्रियाया नित्यत्वानुपपत्तेर्निरुक्त्यनुपपत्तेश्च ॥ अत्यक्तान्यधनादानमदत्तादानमुच्यते // अभिध्-d_195 // अभ्रान्त्येति वर्तते । यदि बलचौर्यबुद्ध्या परद्रव्यं स्वीकरोति ॥ परस्त्रीगमनं काममिथ्याचारो विकल्पवान् / अगम्यगमनं खल्वपि काममिथ्याचारः । स च बहुप्रकारविकल्पो भवति । अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतां वा स्वामप्यनङ्गे गच्छत्यदेशे च । नियमस्थां वा । अभ्रान्त्येत्युक्तम् । अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः // अभिध्-d_196 // वक्तृश्रोतृबुद्ध्यपेक्षया खलु मृषावादो भवति । यदि वक्तार्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्ध्यान्यथा ब्रूते । श्रोता च तथैवावगच्छति । तदास्य मृषावादः कमपथो भवति ॥

ये खल्विमे माहकीमातृसूत्रा दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः- "अदृष्टे दृष्टवादितानार्यो व्यवहारः । अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादितानार्यो व्यवहारः । दृष्टश्रुतमतविज्ञाते चादृष्टादिवादितानार्यो व्यवहारः । विपर्ययेण त्वष्टावेवार्या व्यवहाराः ।" तेषां पुनरिदं लक्षणं व्याख्यायते-

दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते / दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम् // अभिध्-d_197 //

यत्खलु चक्षुषालोचितं चक्षुर्विज्ञानमनोविज्ञानाभ्यां चानुभूतं तद्दृष्टमित्युच्यते । यच्छ्रोत्रेण श्रोत्रमनोविज्ञानाभ्यां चानुभूतं तच्छ्रुतम् । यत् त्रिभिर्घ्राणजिह्वाकायैस्तद्विज्ञानमनोविज्ञानैश्चानुभूतं तन्मतमित्युच्यते । तेषां प्राप्यविषयग्राहित्वात्, कबडिंकाराहारविषयत्वाच्च । तत्रेष्टपर्यायवाची मतशब्दः । यत्पुनर्मनोविज्ञानेनानुभूतं तद्विज्ञातं तदध्यवसाये निश्चयपरिसमाप्तेः ।

गतमेतत् । प्रकृतमेवानुवर्तताम् ॥

यः कायेनान्यथात्वं प्रापयेत्, स्यान्मृषावादः ? स्यात् । तदपदिश्यते- स्यान्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । स्यात्कायेन पराक्रमेत, स्यान्न कायेन वाचा पराक्रमेत, उभयावद्येन च स्पृश्येत । स्यादृषीणां मनःप्रदोषेण प्रोषधनिदर्शनं चात्र इति ।

कथं पुनर्विज्ञप्त्या विना तत्राविज्ञप्तिः कामावचरी कर्मपथो योक्ष्यते । सति हि चित्तपरिस्पन्दे महाभूततज्जकायपरिस्पन्दो ऽवश्यं भावीति कर्तव्यो ऽत्र यत्नः ।

उक्तो मृषावादः ॥

पैशुन्यं भेदकृद्वाक्यं

यत्खलु क्लिष्टचित्तस्य परभेदाय वचनमभ्रान्त्या तत्पैशुन्यमित्युच्यते । पारुष्यं तु यदप्रियम् / अभ्रान्त्या क्लिष्टचित्तस्य यद्वचनं तत्पारूष्यमिति । क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत् // अभिध्-d_198 // क्लिष्टं खलु सर्वं वचनं संभिन्नप्रलापित्वम् । यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तभिधाने त्वतलौ । कश्चासौ गुणः ? संभिन्नप्रलाप एव । स यस्यास्ति स संभिन्नप्रलापी । तद्भावः संभिन्नप्रलापित्वम् ।

अन्ये पुनर्ब्रुवते । यदेतन्मृषावादादित्रिबिधं वचनं ततो यदन्यत्क्लिष्टं लपनगीतनाट्यतीर्थशास्त्रादि तत्सर्वं सभिन्नप्रलापः ॥

परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः / विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका // अभिध्-d_199 //

अभिध्या तावद् द्विषतः स्पृहा । अहो बत यत्परेषां तन्मम स्यादित्येषा विषयप्रार्थना विषमलोभाख्या अभिध्येत्युच्यते ।

व्यापादः खल्वपि सत्त्वपरित्यागबुध्या प्रतिघः ।

मिथ्यादृष्टिरपि हेतुं वा फलं वा क्रियां वा सद्वा वस्तु नाशयतः या दृष्टिर्मतिरित्येवमादि सा मिथ्यादृष्टिरित्युच्यते ।

तया पुनर्मिथ्यादृष्ट्या प्रकर्षप्राप्तया नवप्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । भावनाहेयक्लेशप्रहाणवत् ।

यत्तर्हि शास्त्र उक्तम्- "कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति ? कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?" नैष दोषः । अकुशलमूलाध्याहृतत्वात् । मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपचर्यते । तद्यथाग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति ।

कामावचराण्युपपत्तिलम्भिकान्येव च समुच्छिद्यन्ते, प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।

एवं ह्यूक्तं भगवता- "समन्वागतो ऽयं पुरुषः कुशलैरपि धर्मैरकुशलैरपि धर्मैः" इति विस्तरः । तत्र समन्वागतो ऽयं पुद्गलः कुशलैरपि धर्मैरविशेषेण द्विविधैः- प्रायोगिकैरुपपत्तिलाभिकैश्च । ते ऽस्य पुद्गलस्य कुशला धर्मा अन्तर्धास्यन्ति, प्रायोगिकाः अनुपूर्वसमुच्छेदे, पूर्वं तद्विहानेः । अस्ति चास्य कुशलमूलमनुसहगतमनुपच्छिन्नमुपपत्तिलाभिकम् । तदप्यपरेण समयेन (jaini_167) सर्वेण सर्वं समुच्छेत्स्यते । यस्य समुच्छेदात्समुच्छिन्नकुशलमूल इति संख्यां गमिष्यतीति । अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः ।

"सूक्ष्मं कुशलधर्मबीजं तस्मिन्नकुशले चेतस्यवस्थितं यतः पुनः प्रत्ययसामग्रीसन्निधाने सति कुशलं चित्तमुत्पद्यते" इति कोशकारः ।

युक्त्यागमविरोधात्तन्नेति दीपकारः ।

तत्र युक्तिविरोधस्तावद्विजातीयाद्धेतोर्विजातीय फलानुत्पत्तिदर्शनाद्यवबीजाच्छालिफलवद्योनिशो मनसिकारपरतः सद्घोषाभ्यां मिथ्यादृष्टिवच्च । (jaini_170) चक्षूरूपाभ्यां विज्ञानवदिति चेत् । न । सभागहेतौ सति चक्षूरूपयोर्निमित्तकारणमात्रत्वात्, दध्युत्पत्तावातञ्चनवत् । किञ्च, विरुद्धानामन्यतरोपपत्तेश्च । न हि विरुद्धानां सुखदुःखालोकतमःप्रभृतीनां चैकत्र संभवदवस्थानं दृष्टम् । नापि परस्परं बीजफलाभिसंबन्धः । किञ्च, चित्तबीजैकत्वाभ्युपगमाच्च । अकुशलमेव हि चित्तं भवतां बीजमिष्टम् । तस्य कुशले चित्तक्षणे विरुद्धक्रिये च चित्तान्तरे बीजलेशानुपपत्तिः । (jaini_171) उक्तोत्तरत्वाच्च । विस्तरेण ह्यत्रोत्तरमुक्तम् । तत्स्मर्यतामिति ।

आगमविरोधो ऽपि, "सर्वं सर्वेण च्छेत्स्य ते" इति ...........च्यमानं बीजमवस्थितं गंस्यते । इति ।

व्याख्याताः सलक्षणाः कर्मपथाः ॥

कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः । तत्र सप्त कर्म च कर्मणश्च पन्था इति कर्मपथाः, त्रयस्त्वभिध्यादयः कर्मणः पन्थानो न कर्म । चेतना हि तत् संप्रयोगिणी भवति । (jaini_172) संप्रयुक्तातद्वशेनगच्छत्यभिसंस्करोतीत्यर्थः । सा तु कर्मैव न कर्मपथः । न ह्यसौ त्रयाणां वशेन वर्तते । इदमुच्यते- चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते / कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते- युगपद्यावदष्टाभिरशुभैश्चेतनैः सह // अभिध्-d_200 // एकेन तावत्सह वर्तते । विनान्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।

द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवद्ये । अभिध्याविष्टस्य चादत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा ।

त्रिभिः सह । व्यापन्नचित्तस्य परकीयप्राणिमारणापहरणे युगपत् । अभिध्याविष्टस्य तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव ।

चतुर्भिः सह वर्तते । भेदाभिप्रायस्य नन्दनवचने परुषवचने वा । तत्र हि मानस एको भवति वाचिकास्त्रयः । अभिध्यादिगतस्य वा तत्प्रयोगे ऽन्यत्रयनिष्ठागमने ।

एवं पञ्चषट्सप्तभिर्योज्यम् ।

अष्टाभिः सह वर्तते । षट्सु प्रयोगं कृत्वा परे संप्रेषणेन स्वयं काममिथ्याचारं कुर्वतः समनिष्ठागमने । एवं तावदकुशलः ॥ शुभैस्तु दशभिर्यावत्सार्धं नैकाष्टपञ्चभिः / शुभैः खलु कर्मपथैर्यावद्दशभिः सह वर्तत इत्युत्सृष्टिः । तदपवादोयम्- ऽनैकाष्टपञ्चभिःऽ; । न खल्वेकेन पञ्चभिरष्टाभिर्वा सह वर्तते ।

तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञानेषु स्थितस्यारूप्यसमापत्तिसंगृहीते च क्षयानुत्पादज्ञानसंप्रयुक्ताविज्ञानं तत्संप्रयुक्ता च प्रज्ञानदृष्टिरिति ।

त्रिभिः सह वर्तते । सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । यत्र संवरो नास्ति ।

चतुर्भिरकुशलाव्याकृतचित्तस्योपासकस्य श्रामणेरसंवरसमादाने ।

षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने ।

सप्तभिः कुशले मनोविज्ञाने तत्समादान एव । अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने ।

नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने, क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते ।

दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । सर्वा च ध्यानानास्रवसंवरसमावर्तिनी चेतनान्यत्र क्षयानुत्पादज्ञानाभ्याम् । संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यैकाङ्गविरतिसमादाने । पञ्चाष्टाभिरपि स्यात् । कुशलमनोविज्ञानस्य द्विपञ्चाङ्गसमादाने युगपत् ।

कस्यां पुनर्गतौ कति कुशलाश्चाकुशलाश्च कर्मपथाः संमुखीभावतः समन्वागतो वा सन्तीति ? विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा // अभिध्-d_201 // एते त्रयः संभिन्नप्रलापपारूष्यव्यापादा नारके संमुखीभाव तः समन्वागमतश्च विद्यन्ते । तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च / केचित्खलु ब्रुवते- अभिध्या मिथ्यादृष्टिश्चापि द्वाभ्यां प्रकाराभ्यां विद्येते ।

अन्ये पुनराहुः- समन्वागमत एवाभिध्यामिथ्यादृष्टी विद्येते । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च ।

तच्चैतदकारणम् । तत्र तावत्तृष्णाविद्याधिमात्रतमत्वादिति पूर्वमपाक्षिकः । अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा // अभिध्-d_202 // कुरौ खल्वेवमेव त्रयो ऽभिध्याव्यापादमिथ्यादृष्टयः ।

अन्ये पुनराहुः- समान्वागमत एव न संमुखीभावतः अममापरिग्रहत्वात्, स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥

अशुभास्तु दशान्यत्र

नरकोत्तरकुरुभ्यां कामधातौ द्वाभ्यां प्रकाराभ्यां दशाशुभा विद्यन्ते । सर्वत्र कुशलास्त्रयः / शुभास्तु ऽत्रयःऽ; । त्रयो ऽनभिध्याव्यापादसम्यग्दृष्टयः सर्वत्र त्रैधातुके पञ्चस्वपि गतिषु द्वाभ्यां प्रकाराभ्यां सन्तीति । आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः // अभिध्-d_203 // आरूप्येषु खल्वार्याणामेवातीतानागतेनानास्रवसंवरेण समन्वागमो ऽस्त्यसंज्ञिनां च । ध्यानसंवरेण यावद्भूभ्याश्रयं ह्यनास्रवशीलमार्य उत्पादितनिरोधितं कृत्वा आरूप्येषूपपन्नो भवति तेनातीतेन समन्वागतो भवति । षड्भूभ्याश्रयेणानागतेनापि, न तु संमुखीभावतः, आरूप्याणां चतुस्कन्धात्मकत्वादसंज्ञिसत्त्वानां चाचित्तकत्वात् । भूतचित्तप्रतिबद्धो हि तत्संवरसंमुखीभावः ॥ कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा / कुरून् हित्वा नरकांश्च । अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते । संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु । संवरसंगृहीता एव रूपधातावन्यत्रोभयथा ।

ते खल्वेते द्विविधा कर्मपथाः सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश // अभिध्-d_204 // तत्राकुशलैः सर्वैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते तदेषां विपाकफलम् । सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुष्को भवति । अदत्तादानेन भोगव्यसनी । काममिथ्याचारेण सपत्नदारः । मृषावादेनाभ्याख्यानबहुलः । पैशून्येनादृढमित्रः । पारुष्येणामनोज्ञशब्दश्रावी । संभिन्नप्रलापेनानादेयवाक्यः । अभिध्यया तीव्ररागः । व्यापादेन तीव्रद्वेषः । मिथ्यादृष्ट्या तीव्रमोहः । इतीदमेषां निष्यन्दफलम् ।

प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पौजस्का भवन्ति । अदत्तादानेन परीत्तफला अल्पसस्या अशनिबहुलाः । काममिथ्याचारेण रजो ऽवकीर्णाः । मृषावादेन दुर्गन्धाः । पैशून्येनोत्कूलनिकूलाः । पारुष्येण दुःस्पर्शाः कण्डुकप्रायाश्च । संभिन्नप्रलापेन विषमपरिणामाः । अभिध्यया पचितफलाः । व्यापादेन कटुकर्मफलाः । मिथ्यादृष्ट्या बीजादपकृष्टफला अफला वा । इदमेषामाधिपत्यफलम् ।

तत्पुनरेतत्

दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् / तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् // अभिध्-d_205 //

यत्तेन परस्य दुःखा वेदना जनिता ततोनरकेषूपपद्यते । यदिष्टं जीवितमुपच्छिन्नं ततो ऽल्पायुः । यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः । एवमन्येषामपि योज्यम् ।

कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम् । प्राणिवधविरत्या सेवितया देवेषूपपद्यते । सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति । तदाधिपत्येनैव बाह्या भावा महोजसो भवन्तीति । सर्वं विपर्ययेण द्रष्टव्यम् ॥

अत्र पूर्वं यानि पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ?

आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः / चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् // अभिध्-d_206 //

प्रहाणमार्गे समले पञ्चभिः फलैः कर्म सफलं भवति । तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा निष्यन्दफलम् । विपाकफलं स्वभूमिनियतो विपाकः । विसंयोगफलं यत्क्लेशप्रहाणम् । पुरुषकारफलं ये तद्बलसमुत्पन्ना धर्माः । न तथा सहभुवः । यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तद्बलेन हि तत्प्राप्त्युपत्तिः । अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न वर्ज्जा इति द्रष्टव्यम् । प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते । तदाधिपत्येन तत्साक्षात्करणादित्यन्ये । यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं मुक्त्वा । ऽतद्वदन्यच्छुभाशुभम् ।ऽ; अन्यदपि सास्रवं यच्छुभाशुभम्, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं कर्मं यच्चाकुशलं तदपि चतुर्भिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा ॥ ततो ऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा / शेषं पुनरनास्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाकविसंयोगफलं मुक्त्वा । फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः // अभिध्-d_207 // कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । अकुशला द्वे पुरुषकाराधिपतिफले । अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हित्वा ॥ शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् / अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । अव्याकृतमपि ह्यकुशलानां निष्यन्दफलमस्ति । यथा कामावचरे सत्कायान्तर्ग्राहदृष्टी । सर्वेषां दुःखदर्शनप्रहातव्यानां समुदयदर्शनप्रहातव्यानां च सर्वत्रगानाम् । अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः // अभिध्-d_208 // अव्याकृतस्य कर्मणः कुशला धर्माः द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विसंयोगफले हित्वा । अव्याकृतस्य तान्येव त्रीणि ॥

सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः / मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः // अभिध्-d_209 //

तत्र ऽसर्वेऽ; इति त्रैकालिकाः । अतीतस्य कर्मणो ऽतीतानागतप्रत्युत्पन्ना धर्माश्चत्वारि फलानि विसंयोगमपास्य । प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वारि फलान्येतान्येव । वर्तमानास्तु धर्मा वर्तमानस्य कर्मणः द्वे पुरुषकाराधिपतिफले । अजातस्य त्वजाता धर्मास्त्रीणि फलानि निष्यन्दविसंयोगफले हित्वा ॥ चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः / स्वभूमिका धर्माः कर्मणो यथासंभवं चत्वारि फलानि विसंयोगफलं हित्वा । अन्यभूमिका धर्माः ते चेदनास्रवास्त्रीणि, विपाकविसंयोगफले हित्वा । निष्यन्दफलं ह्यधातुपतितानामन्यभूमिकं न वार्यते । सास्रवाश्चेद् द्वे, पुरुषकाराधिपतिफले । शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः // अभिध्-d_210 // शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले (jaini_181) हित्वा । अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षास्त्रीण्येव निष्यन्दविपाकफले हित्वा ॥

अशैक्षस्य तु कर्मणः

एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु / द्वे द्वे पञ्च यथासंख्यं

अशैक्षस्य खलु कर्मणः शैक्षा धर्मा एकमधिपतिफलम्, अशैक्षास्त्रीणि विपाकाविसंयोगफले हित्वा । नैवशैक्षानाशंक्षा द्वे पुरुषकाराधिपतिफले । नैवशैक्षानाशैक्षाणां पुनः शैक्षा धर्मा द्वे पुरुषाकाराधिपतिफले । एवमशैक्षाः । नैवशैक्षानाशैक्षाः पञ्चफलानि । दृग्घेयस्य तु कर्मणः // अभिध्-d_211 //त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः / दर्शनहेयस्य खलु कर्मणः दर्शनहेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा । भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् । ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः // अभिध्-d_212 //क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः / भावनाहेयस्य खलु कर्मणो दर्शनहेया धर्माः द्वे, पुरुषकाराधिपतिफले । भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेयास्त्रीणि, विपाकनिष्यन्दफले हित्वा । अप्रहेयस्य तु कर्मणो दर्शनप्रहातव्या धर्मा एकमधिपतिफलम् । भावनाहेया द्वे, पुरुषकाराधिपतिफले । अप्रहेयाश्चत्वारि विपाकफलं हित्वा ॥

अथ किमेकं कर्मैकं जन्माक्षिपति, अथानेकम् ? तदादर्श्यते- एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते // अभिध्-d_213 // एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते । बहुभिस्तु परिपूर्यते । तद्यथा चित्रकर एकया वर्त्या कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति । अथ यदुक्तं भगवता- "कर्मस्वको ऽयं भिक्षवो लोकः" इति । तत्केयं कर्मस्वकता नाम ? तदारभ्यते- कुशलं वाथवा पापं यदतीतं ददत्फलम् / स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता // अभिध्-d_214 //

यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशलाकुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या ॥

कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्तरि भोक्तरि च कर्मस्वकताभिधीयते ? तदत्र प्रतिसमाधीयते-

संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् / कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु // अभिध्-d_215 //

स्वात्माभ्युदयविशेषार्थः खलु कर्मारभ्यते । कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्यसौष्ठवयुक्तं जन्म प्रतिलभेयेति । शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात् कर्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम् । स्कन्धसन्ताने तु विशिष्टस्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहाद् विशिष्टफलोत्पत्तिवदिति । पूर्वमेवाविष्कृतमेतदिति ॥

इदमिदानीं वक्तव्यम् । स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका / स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाके ऽवस्थित इति चतुष्कोटिका । प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः // अभिध्-d_216 // यदि तस्य कर्मणः फले ऽवस्थितस्तच्च कर्म विहीनं भवति ॥

द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् / तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु // अभिध्-d_217 // स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति / द्वितीया चतुष्कोटिका । तत्र प्रथमा कोटिः- तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले // अभिध्-d_218 // द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते / तृतीया द्वयसद्भावा चतुर्थी तूभयं विना // अभिध्-d_219 //

तृतीया चतुष्कोटिका- स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् / स्यात्खलु कर्मणा समन्वागतो न च तस्य कर्मणः फलं वेदयते । चतुष्कोटिका । आद्या दत्तविपाकेन निरुद्धानागतादिना // अभिध्-d_220 // द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा / तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते // अभिध्-d_221 //

अथ यदिदं शास्त्रे योगविहितमयोगविहितं च कर्मोक्तं तस्य किं लक्षणम् ? तदभिधीयते-

अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् / शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः // अभिध्-d_222 //

यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात् । अन्ये पुनर्ब्रुवते- यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम् । विधिभ्रष्टत्वादिति । विपर्ययाद्योगविहितं द्रष्टव्यमिति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः ॥

चतुर्थाध्याये

चतुर्थपादः ।

अथैतां परमगम्भीरां दुरवबोधां प्रकृतिपुरुषेश्वरादिकुदर्शनतिमिरोत्सादनकरीं कर्मस्वकतां कः स्वयमभिसंबुद्ध्य लोकानुग्रहाय प्रदर्शयतीति ? ब्रूमः । पुरुषः तु सो बोधिसत्त्वः ।

स पुनः किं चित्तोत्पादात्प्रभृति बोधिसत्त्वो भवति ? अथ लाक्षणिककर्माक्षेपेण, आहोस्विच्चरमभविक इति ? अत इदं प्रस्तूयते-

बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः / बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम् // अभिध्-d_223 //

यतः प्रभृति कल्याणमित्रं भगवन्तं सम्यक्संबुद्धमापद्य तदुपदर्शितदक्षिणमार्गः योनिशो मनसिकाराधिष्ठितबुद्धिः कृत्स्नं लोकमत्राणमशरणमपरायणं पञ्चगतिमहावर्ते जातिजराव्याधिमरणादिदुःखक्षाराम्भसि, कर्मराक्षसाधिष्ठिततीरे, पापमित्रकुम्भीरानुबद्धबेले, रूपादिविषयविकल्पपवनोद्धततृष्णातरङ्गे, मोहकर्णधारपरिभ्रामितबुद्धिनौके संसारमहासमुद्रे निमग्नमवलोक्य कृपाविष्टचेतास्तदभ्युद्धरणाय वीर्यबाहुमभिप्रसार्य, अविवर्त्यं चित्तमेवमुत्पादयति- (jaini_186) अविद्यान्धःकारोपहतबुद्धिनयनो ऽयं लोकः स मया सम्यग्दृष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः । प्रतिघभुजङ्गदंष्ट्रा विषदूषितो ऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः । तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथबलेन तृष्णानिरोधसुखं लम्भयितव्यः । परामर्शभूतग्रहाविष्टो ऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः । मानगिरिशिखराधिरूढबुद्धिरयं लोकः स मया कर्मस्वकताज्ञानवज्रेण मानगिरीन्विचूर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः । विचिकित्साकथंकथीभावशल्यविद्धहृदयो ऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः । जराव्याधिमरणमकरदंष्ट्रान्तर्गतो ऽयं लोकः स मया सर्वानर्थवियुक्तं निर्वृतिसुखं प्रापयितव्यः । श्रद्धादिगुणधनदरिद्रो ऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्वर्यपदे सन्निवेशयितव्यः । इत्येतस्मादविवर्त्याद् बोधिचित्तोत्पादात्प्रभृति बौधिसत्त्वो वक्तव्य इत्याचार्यकम् ॥

यत्तर्हि शास्त्र उक्तम्- "बोधिसत्त्वः कुतः प्रभृति ? यतो लक्षणवैपाक्यं कर्म करोति" इति । नैष दोषः । यस्मादसौ-

यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः / महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः // अभिध्-d_224 // पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः / यदा खल्वयं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियतीभतो भवति- तदा देवमनुष्याणामभिव्यक्तिं निगच्छति // अभिध्-d_225 // अतो ज्ञानप्रस्थाने ऽस्मादवधेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः ।

स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् / प्रचिनोति तदाधारं कायं कल्पशतेन तु // अभिध्-d_226 //

द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् / द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति // अभिध्-d_227 //

एषा खलु धर्मता यत्त्रिभिः कल्पासंख्येयैरनिरस्तश्रद्धाशीलश्रुतत्यागप्रज्ञादिगुणधनैश्वर्यप्रयोगानां भगवतां सम्यक्संबुद्धानां पुरुषोत्तमानां धर्मकायचरणपरिसमाप्तिर्भवति । कल्पशतेन खड्गविषाणकल्पानां प्रत्येकबुद्धानाम् । षष्ठ्या कल्पैः प्रज्ञावतामग्र्याणाम् । चत्वारिंशद्भिः ऋद्धिमच्छ्रेष्ठानाम् । विंशतिभिः कल्पैः श्रुतधरप्रवराणां धर्मकायचरणपरिपूरिर्भवति ।

यत्पुनर्जन्मशरीरं भगवतां सम्यक्संबुद्धानां बोधेराश्रयभूतं द्वात्रिंशता महापुरुषलक्षणैः खचितमशीत्यानुव्यञ्जनैर्विराजितम्, यत्खलु दृष्ट्वा स्वविकल्पसमुत्थितप्रतिघदूषितबुद्धीनामपि (jaini_188) मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति ।

कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते-

तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि- बुद्धा हि भगवन्तः सममहीतलाक्रमणात् सुप्रतिष्ठितपादाः ॥ 1 ॥सहस्रारसनाभिकसनेमिकसर्वाकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः ॥ 2 ॥आयतहस्तपादाङ्गुलित्वाद्दीर्घाङ्गुलयः ॥ 3 ॥दीर्घायतत्वादायतपार्ष्णिपादाः ॥ 4 ॥तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः ॥ 5 ॥अभिताम्राष्टापदविचित्रतनुजालावनद्धत्वादभिजातहंसराजवज्जालावनद्धपादाः ॥ 6 ॥उच्चैः सुजातगुल्फत्वादुच्छङ्कुचरणाः ॥ 7 ॥अनुपूर्वोपचितवृत्ततरगर्भैणेयमृगजङ्घत्वादैणेयजङ्घाः ॥ 8 ॥प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पर्शिनः ॥ 9 ॥परमाभिरूपनिर्गूढपुरुषनिमित्तत्वादभिजातहस्त्यश्वाजानेयवत्कोशगतवस्तिगुह्याः ॥ 10 ॥कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः ॥ 11 ॥अनुपूर्वोर्ध्वमुखजातत्वादूर्ध्वाङ्गरोमाणः ॥ 12 ॥सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमाणः ॥ 13 ॥उत्तप्तहाटकसन्निभदृग्व्याममात्रप्रभावभासनात् सुवर्णवर्णाः ॥ 14 ॥सुपरिकर्मीकृतरजतजातरूपश्लक्ष्णच्छवित्वाद्रजोमलानुपक्लेशनाच्च सूक्ष्मच्छवयः ॥ 15 ॥समुपचितहस्तपादांसग्रीवत्वात्सप्तोत्सदकायाः ॥ 16 ॥काञ्चनशिलातलश्लक्ष्णोपचितोरस्कन्धाच्चितान्तरांसाः ॥ 17 ॥सिंहवद्विस्तीर्णसंहतोर्ध्वाङ्गत्वात्सिंहपूर्वार्धकायाः ॥ 18 ॥अवक्रोपचितदशतालसमुच्छ्रितत्वाद् बृहदृजुगात्राः ॥ 19 ॥समन्तोपचितमांसनिर्गूढजत्रुदेशत्वात्सुसंवृत्तस्कन्धाः ॥ 20 ॥अधस्तादुपरिष्टाच्च समदन्तविंशतित्वाच्चत्वारिंशद्दन्ताः ॥ 21 ॥अनुन्नतावनतसमप्रमाणत्वात्समदन्ताः ॥ 22

॥निरन्तरावस्थितत्वादविरलदन्ताः ॥ 23 ॥कुन्देन्दुशङ्खावभेदसितत्वाच्छक्लदन्ताः ॥ 24 ॥श्लक्ष्णवृत्तोपचितदर्शनीयमहाहनुत्वात्सिंहहनवः ॥ 25 ॥वातपित्तश्लेष्मानभिभूतरसहरणिरसारसप्रविभावनासदृशविज्ञानत्वाद्रसनरसाग्रप्राप्ताः ॥ 26 ॥विस्तीर्णपेशलत्वाज्जिह्वायाः सर्वमुखमण्डलप्रतिच्छादनात्प्रभूततनुजिह्वाः ॥ 27 ॥गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद्ब्रह्मस्वराः ॥ 28 ॥कलविङ्कमनोज्ञभाषिणो दुन्दुभिस्वरनिर्घोषाः ॥ 29 ॥शुक्लकृष्णप्रदेशानुपक्लिष्टलोहितराज्यविनद्धनीलोत्पलसमानवर्णत्वादभिनीलनेत्राः ॥ 30 ॥अधरोर्ध्वावस्थितानां सम्यगवनतासंलुडितदीर्घत्वादक्षिपक्ष्माणां गोपक्ष्माणः ॥ 31 ॥वृत्तपरिमण्डलसमानुपूर्वोपचितदर्शनीयास्थिवज्रजातमूर्धत्वादुष्णीषालङ्कृतशिरसः शङ्खावदातप्रदक्षिणावर्तोर्णाविद्योतितभ्रूविनतत्वादूर्णाङ्कितमुखाः ॥ 32 ॥ एतानि द्वात्रिंशन्महापुरुषलक्षणानि बुद्धानां भगवतामिति ॥

अशीत्यनुव्यञ्जनान्यप्युच्यन्ते । बुद्धा हि भगवन्तः अपृथुप्रमाणमृदुताम्रतुङ्गस्निग्धनखाः ॥ 1 ॥ वृत्तनिरन्तरानुपूर्वोपचिताङ्गुलयः ॥ 2 ॥निर्ग्रन्थिनिर्गूढाल्पतनुशिराप्रतानाः ॥ 3 ॥निर्गूढसमातीक्ष्णगुल्फाः ॥ 4 ॥अविषमावक्ररक्तस्निग्धपादाः ॥ 5 ॥मृगपतिद्विरदवृषभहंसराजप्रदक्षिणावर्तचारुगतयः ॥ 6 ॥अलोमसाश्लेषसमप्रमाणोभयजङ्घाः ॥ 7 ॥सुवृतसमसंहतनिर्गूढजानवः ॥ 8 ॥कदलीस्कन्धोपमपीननिबिडाविषमानुपूर्वोपचितचारूरवः ॥ 9 ॥अर्धचन्द्राकृतिविस्तीर्णसमुन्नतापगतरोमवक्षाणः ॥ 10 ॥श्लक्ष्णसुसंहतचतुरस्त्रनाभ्यायतकुकुन्दरसुन्दरकटीदेशाः ॥ 11 ॥गम्भीराच्छिद्ररक्तप्रदक्षिणावर्तनाभयः ॥ 12 ॥श्लक्ष्णालोमशाश्लथानुक्रमक्षामोदराः ॥ 13 ॥अनाभुग्नानिभुग्नसुवत्तपष्ठकुक्षयः ॥ 14 ॥समवतीर्णोपचितनातिदीर्घश्लक्ष्णपार्श्वाः ॥ 15 ॥अनिम्नोपचितह्रस्ववज्रसंस्थानोपपन्नसूक्ष्मदीर्घलेखाङ्कितादृश्यारिथसन्धिचारुपृष्ठाः ॥ 16 ॥विस्तीर्णोपचितदृढसन्धिहृदयाः ॥ 17 ॥अविषमोन्नतविस्तीर्णोरसः ॥ 18 ॥अनतिस्थूलोन्नतशङ्खावर्तनिभसूक्ष्मलेखापरिक्षिप्तसमरक्तस्तनाः ॥ 19 ॥हृदयविप्रकृष्टदेशजातत्वाद्विस्तीर्णस्तनान्तराः ॥ 20 ॥मांसोपचितानतिविस्तीर्णत्वादुन्नतकक्षाः ॥ 21 ॥स्थूलदृढसुबद्धनिमग्नसमाक्षकाः ॥ 22 ॥अश्लक्ष्णपृथुमांसनिमग्नाविषमप्रमाणस्फिजः ॥ 23 ॥करिकरनिभनिर्गूढसन्धिपीनकठिनश्लक्ष्णसमबाहवः ॥ 24 ॥वर्तितश्लक्ष्णरोमशसिंहोपमदृढप्रकोष्ठाः ॥ 25 ॥समताम्रदीर्घपाणयः ॥ 26 ॥गम्भीराच्छिद्रासंकीर्णवक्रायतस्निग्धतनुताम्रपाणिलेखाः ॥ 27

॥सूक्ष्मयमलीकृताध्याकुलारक्ताङ्गुलिपर्वाणः ॥ 28 ॥अनामिकापर्वाधिकप्रमाणकनीनिकाङ्गुलयः ॥ 29 ॥अनतिबहुतनुमृदुस्निग्धसुबद्धमूलसमरोमाणः ॥ 30 ॥स्निग्धासंकुचितानुपहतसारच्छवयः ॥ 31 ॥शोतोष्णस्पर्शाव्यकच्छवीव वर्णाः ॥ 32 ॥स्थिरनिबिडानतिस्थूलानतिकृशमांसाः ॥ 33 ॥जवापुष्पाभिताम्रस्वच्छस्निग्धमधुरचन्दनगन्धिरुधिराः ॥ 34 ॥मांसोपगूढस्थूलदृढसुशिरास्थिकाः ॥ 35 ॥नागग्रन्थ्यवस्थितनिर्गूढास्थिसन्धयः ॥ 36 ॥वज्रवदभेद्यशरीरत्वात्सुसंहननाः ।37 ॥चारुसुविभक्ताङ्गप्रत्यङ्गाः ॥ 38 ॥अनुपूर्वोपचितसुपरिमृष्टसुकुमारादीप्तस्वच्छशरीराः ॥ 39 ॥निर्मशकतिलकालपिल्याः ॥ 40 ॥जरादौर्बल्यकृतापगतवलयः ॥ 41 ॥सिंहशय्यानुष्ठानव्यपगतकायविक्षेपाः ॥ 42 ॥स्वेदमलानुपक्लिष्टशुचिसौम्यच्छायाः ॥ 43 ॥ज्वलनमणिमहौषधिशशाङ्कसवितृसमतेजसः ॥ 44 ॥महीधरवरगुरुत्वोपेताः ॥ 45 ॥ऋतुसुखकालिन्दिकसुखसंस्पर्षाः ॥ 46 ॥मधुरमृदुसुरभिकुसुमचन्दनसमानरोमकूपगन्धाः ॥ 47 ॥अभिनवनीलोत्पलतुल्यसार्वकालिकमुखगन्धाः ॥ 48 ॥अद्भुतमृदुदीर्घस्निग्धपिण्डितव्यपगतशब्दनिश्वासाः ॥ 49 ॥ अनशनकदन्नाशनातङ्कात्तु विपरिणामानुपरतधर्मदेशनाभिरप्यसञ्जितस्वरभेदाः ॥ 50 ॥ नातिसंकुचितविदारितरक्तास्याः ॥ 51 ॥शुचिसमाचाराः ॥ 52 ॥देशस्थ त्तप्तविस्पष्टपरिपूर्णव्यञ्जनाः ॥ 53 ॥समन्तप्रासादिकत्वादसेचनकदर्शनाः ॥ 54 ॥अनतिह्रस्वानतिदीर्घवृत्तोपचितत्रिवलिविभूषितकम्बुग्रीवाः ॥ 55 ॥समप्रमाणदृढावक्रह्रस्वविपुलचिबुकाः ॥ 56 ॥बिम्बफलाताम्रनात्यायतसमस्निग्धरुचिरौष्ठाः ॥ 57

॥बन्धूकपुष्पोपमश्लक्ष्णदशनमांसाः ॥ 58 ॥शुचिस्निग्धस्पष्टरचनाक्षीणदन्ताः ॥ 59 ॥अनुपूर्ववृत्तस्निग्धतीक्ष्णसमसितदंष्ट्राः ॥ 60 ॥सप्रयोजनदक्षिणदन्तरश्मिप्रदर्शितमुहूर्तस्मिताः ॥ 61 ॥अपमलमृदुताम्रस्निग्धजिह्वाः ॥ 62 ॥नित्योष्णश्लक्ष्णमांसजालगजतालुसमवर्णतालवः ॥ 63 ॥धुरोच्चायतसंगततुङ्गनासाः ॥ 64 ॥अघनमृदुदृढमूलस्निग्धतनुनीलकुण्डलितस्मश्रुवः ॥ 65 ॥अनुन्नतातीक्ष्णमांसलमार्ष्टिपिण्डितगण्डाः ॥ 66 ॥आदर्शसमोपचिताश्लथरुचिरकपोलाः ॥ 67 ॥पीनायतसमानोपहतचारुकर्णाः ॥ 68 ॥ललाटकर्णगण्डसन्धिश्लेषानिम्नपूर्णचन्द्राकृतिशङ्खाः ॥ 69 ॥विशालायतस्निग्धमधुरप्रसन्नसमनेत्राः ॥ 70 ॥प्रहसिताञ्चिताग्रपक्ष्माणः ॥ 71 ॥सोम्यभ्राजिष्णुस्थिरविसन्धिदृष्टयः ॥ 72 ॥अपरिमितबलत्वादपगतोन्मेषनिमेषाः ॥ 73 ॥दीर्घासितश्लक्ष्णानुपूर्ववर्तितस्निग्धतनुभ्रुवः ॥ 74 ॥काञ्चनपट्टश्लक्ष्णार्धचन्द्राकृतिविपुलललाटाः ॥ 75 ॥परिपूर्णचन्द्रमण्डलसमवदनाः ॥ 76 ॥एकघनवज्रसंहतशिरस्कपालाः ॥ 77 ॥सुपरिपूर्णच्छत्राकृतिशिरसः ॥ 78 ॥श्लक्ष्णचितासंलुडितपलितदोषापनतभ्रमराभस्निग्धमृदुसुबद्धमूलसुरभिस्वस्तिकनन्द्यावर्ताकृतिकेशरचनाः ॥ 79 ॥ससुरासुरमनुजादिलोकानवलोकितमूर्धानः ॥ 80 ॥ अथ तदाद्यं बोधिचित्तं बोधिसत्त्वानां दाढर्येण कथमिव द्रष्टव्यम् ? नैतल्लौकिकेन वस्तुनोपपादयितुं शक्यम् । कस्मात् ? यतः

युगान्तवायुना मेरुः वह्निना वरुणालयः / वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः // अभिध्-d_228 //

किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते -

कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् / बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते // अभिध्-d_229 //

तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव । षष्ठजं मनोधातुजमित्यर्थः । त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चिन्तामयं चेति । कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम् । बुद्धोत्पाद एव नासति बुद्धशासने । मनुष्यो वा स्त्री वोत्पादयति नान्य इति ।

तस्यास्य बोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुगतिव्यापिबुद्धत्वमहावृक्षाङ्कुराभिवृद्धये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान् प्रज्ञादिचतुरधिष्ठानपरिवारान्पारमिताद्यान्गुणान्वक्ष्यमाणस्वरूपान्बोधिसत्त्वः क्रमेणाभ्यस्यति ।

कथं पुनः क्रमेण दानादिपारमितानां परिपूरिर्भवति ? तत्र तावत्- सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् / प्रथमे खल्वसंख्येये वर्तमानो बोधिसत्त्वः न सर्वस्मै नापि सर्वं न सर्वदा ददाति । द्वितीये सर्वस्मै सर्वदा नतु सर्वम् । तृतीये सर्वै सर्वस्मै सर्वदा च प्रयच्छति । इयता दानपारमिता परिपूर्णा भवति । मरणे ऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते // अभिध्-d_230 // यदा पुनः प्राणपरित्यागेनापि प्राणातिपातादिशिक्षापदं न क्षोभयति, इयता शीलपारमिता परिपूर्णा वेदितव्या । क्रौञ्चादिराजदुहिताभिक्षुदृष्टान्ताश्चात्रोदाहार्याः । वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् / भगवन्तं खलु तिष्यं सम्यक्संबुद्धं एकया गाथया एकपादेन स्थित्वा सप्ताहमभिष्ठुवतः शाक्यमुनेर्वीयपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः ।

प्रज्ञापारमितायास्तु वज्रोपमात्समाधेरुर्ध्वं क्षयज्ञाने परिपूरिर्भवति । ऽसर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ; // अभिध्-d_231 // इत्यागमः । अत्र पुनः "क्षान्तिध्यानपारमिते शीलप्रज्ञापरिवारत्वान्नार्थान्तरम्" इति वैभाषिकाः । विनयधरवैभाषिकास्तु विनये चतस्रः पारमिताः पठन्ति ।

अत्र पुनः केचिद् बुद्धवचने बहिष्कृतबुद्धयः प्राहुः- "न हि पिटकत्रये भगवता बोधिसत्त्वमार्ग उपदिष्टः ।" त एवं व्याहर्तव्याः । भ्रान्ता ह्यत्र भवन्तः । यस्मात्

त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः / तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम् // अभिध्-d_232 //

सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः / तथा पारमिताश्चापि चतस्रो विनयोदिताः // अभिध्-d_233 // बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा /हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः // अभिध्-d_234 // तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् / अतो ऽन्यमिह यो ब्रूयात्स भवेन्मारभाषितः // अभिध्-d_235 //

उक्तं हि भगवता- "यद्भिक्षवः सूत्रेनावतरति, विनयेन दृश्यते, धर्मतां च विलोमयति नेदं शास्तुः शासनम्" इति कृष्णापदेशः । शुक्लापदेशोविपर्ययेण । यत्खलु सूत्रं भगवता बुद्धेन भाषितं तच्चतुर्ष्वागमेषु स्थविरमहाकाश्यपस्थविरानन्दादिभिः संगीतिकर्तृभिरूद्दानगाथाभिर्निबद्धं तदेव ग्राह्यम् । गतमेतत् ।

इदमिदानीं वक्तव्यम् । कतमेषां कल्पानामसंख्येयत्रयेण बुद्धत्वं प्राप्यते ? कल्पानां महतामेतदसंख्येयत्रयं मतम् / कल्पानां यदि संख्या न विद्यते कथं तर्हि त्रयमिति निर्धार्यते ? न खलु संख्या न विद्यते । किं तर्हि ? स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम् // अभिध्-d_236 // स्थानान्तरविशेषस्य खल्वेतन्नामासंख्येयमिति । न तु न संख्या विद्यत इत्येतद्विवक्षितम् ।

अथ यं शाक्यमुनिर्भगवान्सम्यक्संबुद्धो बोधिसत्त्वचर्यायामेषु त्रिष्वसंख्येयेषु कियतां बुद्धानां पर्युपासां चक्रे ? तदत्र वर्णयन्ति । प्रथमे ऽसंख्येये पञ्चसप्ततिसहस्राणि । द्वितीये षट्सप्ततिम् । तृतीये सप्तसप्ततिम् ।

कस्य पुनः कल्पासंख्येयस्यावसाने कतमो बुद्धो बभूव ? अत्रापि वर्णयन्ति । रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः । भगवति दीपङ्करे द्वितीयः । भगवति विपश्यिनि तृतीयः समाप्तः ।

कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनी । शाक्यमुनिर्नाम प्रथमस्यासंख्येयस्यादौ बभूव यत्र भगवता भार्गवभूतेन सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं बोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति ।

प्रभासेतुराजनि तदेव पुनर्द्रढिमानमापादितमिति ॥

कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते-

अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः / द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम् // अभिध्-d_237 //

कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति । उत्कर्षे चापकर्षे च प्रत्येकजिनानाम् । उत्कर्ष एव चक्रवर्तिनाम् ॥

चक्रवर्तिनां पुनरयं नियमः- नाधो ऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते / अशीतिबर्षसहस्रायुर्भ्यश्चक्रवर्तिनामूर्ध्वमुत्पत्तिर्भवति नाध इति । ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः // अभिध्-d_238 // चतुर्विधाः खलु चक्रवर्तिनः- सौवर्णचक्राः, रूप्यचक्राः, ताम्रचक्राः, लोहितचक्राश्च स्वपुण्यप्रकर्षादिति । यथाक्रमं चैते चतुस्त्रिद्व्येकद्वीपेश्वराः ॥

अथ यदुक्तम्- ऽतस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् ।ऽ; इति । यदि तर्हि मार्गभेदो नास्ति बुद्धप्रत्येकबुद्धश्रावकानां फलभेदेनापि तर्हि न भवितव्यम् । नैष दोषः । यस्मात्-

तुल्ये ऽपि साधनोपाये तद्भेदो ऽक्षादिभेदतः / भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत् // अभिध्-d_239 //

यावत्खलु कश्चिद्गुणः सम्यक्संबोधिमभिसंबुध्य भगवता देशितो विनिर्मुक्तिद्वयप्राप्तिहेतुभूतः सर्वो ऽसौ पिटकत्रयानुवर्ती । तत्पुनर्विमुक्तिद्वयं (jaini_204) त्रिभिः पुद्गलैः प्राप्यते । भगवता सम्यक्संबुद्धेन प्रत्येकजिनेनार्यश्रावकेण च । तेषां पुनस्तुल्ये बोधिवर्त्मनि पतितानामिन्द्रियप्रणिधानावरणभेदाद्भेदः । तद्यथा द्वयोर्मात्रोस्तुल्यं वस्तु तुल्ये क्षेत्रे प्रतिपादयतोश्चेतनाविशेषादतुल्यं (jaini_205) फलं भवति, तद्वदुत्तमार्थं प्रार्थयमानानां त्रयाणामपि पुद्गलानां प्रणिधानेन्द्रियसततघननिरन्तरभावनाप्रयोगपटुत्वाभ्यासादिविशेषात्तुल्ये ऽपि मार्गे पतितानां कश्चित्फलविशेषो भवति ।

इतश्च

करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा / परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते // अभिध्-d_240 //

तत्र भगवतो बुद्धस्य करुणाभावना चोद्रेकेन वर्तते भगवान्बुद्धः । स्वसंविच्चिन्ता च प्रत्येकबुद्धस्याधिक्येन वर्तते । परसंवित्परतो घोषश्च श्रावकस्य । किञ्च, परतो घोषमन्तरेणापि चरमे जन्मनि सुयोनिशोमनस्कारबलेन हेतुप्रत्ययफलावबोधोपलम्भात्, हेतुप्रत्ययबलैरशेषप्रनष्टं निश्रेयसं मार्गं प्रथममधिगम्य परत्रोपदेशादित्येवमादि ॥

अथ तुल्यायां विमुक्तौ स्थितानां त्रयाणामभिसमेतृणां को विशेषः ? तदुच्यते-

हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा / विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात् // अभिध्-d_241 //

तत्र हेतुकृतं तावद्भगवतो बुद्धस्य महत्त्वं त्रिषु कल्पासंख्येयेषु सूत्रविनयाभिधर्मालोकेन विनेयजनमनोग्रहेष्वज्ञानतिमिरोत्सादनात् । स्वभावकृतमपि बलवैशारद्यस्मृत्युपस्थानमहाकरुणादिस्वरूपत्वात् । फलकृतमपि (jaini_208) सदेवकेषु लोकेष्वप्रतिहतशासनप्रतिष्ठानान्मारचतुष्टयनिर्जयनाच्चेति ॥

अथ यदेतत्सर्वसत्त्वप्रतिविशिष्टं पुरुषोत्तमस्य जन्मशरीरं तत्किमनियतकालाक्षेपम्, आहोस्विन्नियतकालाक्षेपमिति ? तदभिधीयते- बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः / नान्यस्मिन्काले । चिन्तामयेन ज्ञानेन विशिष्टतमत्वात् । तत्र पुनः- सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः // अभिध्-d_242 // तत्र पञ्चाशच्चेतनाः प्रयोगभूताः पञ्चाशत्पृष्ठभूताः, एकया तल्लक्षणमाक्षिपति ॥

ता पुनः पञ्चाशच्चेतनाः कतमाः ? तदुच्यते- यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते / प्रतिकर्मपथं पञ्च, मौलकर्मपथपरिशुद्धिः सामन्तकस्यवितर्कानुपघातः स्मृत्यनुपरिग्रहः, निर्वाणपरिणामनं च । ताः सर्वास्तदालम्वनाः पञ्चाशत्प्रयोगभूताः । पृष्ठे ऽप्येतावत्य एव ।

अन्ये तु ब्रुवते- बुद्धा द्विशरीराधिष्ठानाः । जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः । धर्मशरीराधिष्ठानाश्चाष्टादशावेणिकबुद्धगुणालम्बनाः सामन्तकपृष्ठसंगृहीताः ।

अन्ये पुनराहुः- प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्या ।

केचिन्मन्त्रयन्ते- द्विधा समुद्राश्चत्वारो द्वीपाः षोडशनरकाः, तिर्यक्प्रेतौ षट्कामावचराविंशतीरूपारूप्याः देवाः । एतान्सर्वान् भगवान् करुणायते ।

एवन्तु वर्णयन्ति- सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यत्सर्वसत्त्वानां भोगैश्वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम् ॥

अथ यदुक्तम्- ऽदानपारमिताऽ; इति । तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते । दानस्य पारमिताया निश्चयबुद्धिः सा दानपारमिता । एवं शेषास्वपि वाच्यम् ।

यत्पुनरुच्यते- ऽकिं साधनो वायं दानशब्दः, को वा दानस्य स्वभावःऽ; इति तत्रापदिश्यते- दानं हि दीयते येन स्वपरार्थाद्यपेक्षया // अभिध्-d_243 //कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः / करणसाधनो ऽयं दानशब्द । दीयते तेनेति दानं मानवत् । हस्तादिषु तर्हि दानप्रसंगः । अस्तु तर्हि कर्मसाधनो दीयते तदिति दानम् । सुवर्णादिषु दानप्रसंगः । भवतु को दोषः । विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात् । भवतु तर्हि करणसाधन एव । ननूक्तं हस्तादिषु प्रसंगः ? नैष दोषः । कुशलकर्मत्रयपरिग्रहात् । स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते । (jaini_211) ऽस्वपरार्थाद्यपेक्षयाऽ- स्वात्मपरार्थानुग्रहाद्यपेक्षया । स्वात्मानुग्रहाय परानुग्रहाय उभयानुग्रहाय ।आदिशब्दात् पूजाकाम्यया चेति । स्वभावो ऽपि ऽकायादिकर्माविज्ञप्तिःऽ; । क्वचित्पुनः कायवाङ्मनः कर्म । ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम् । तत्पुनरेतद्दानम्- प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत् // अभिध्-d_244 // स्वर्गावपर्गहेतुत्वे ऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः । तत्पुनरेतद्दानम्-

स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन / साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे // अभिध्-d_245 //

द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्च, उभयहितप्रतिपन्नश्च स एवंगुणयुक्तं दानं ददाति । आत्मनश्च कुशलमूलोपचयार्थं परस्य चेन्द्रियमहाभूतोपचयार्थम् । तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति । उभयार्थं यदवीतरागः संघाय ददाति । नोभयार्थं यदर्हंश्चैत्याय ददाति तच्च न दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शनार्थम् ॥

तत्पुनरेतद्दानं कथं फलतो विशिष्यते ? तदुच्यते- दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः / तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ? श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः // अभिध्-d_246 // यदा दाता हेतुफलसंबन्धनिश्चये श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्च भवति निर्मत्सरी मुक्तहस्तश्च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते / अतः सत्कृत्य दानात्सत्कारलाभी भवति । स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचिं लभते । कालदानात्कालभोगान लभते । परानुपघातादनाच्छेद्यांल्लभते निरपक्षालमन्यादिभिरसाधारणान् । एतावद्दाता विशिष्यते ।

कथं वस्तु ? वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम् // अभिध्-d_247 // यदि वस्तु वर्णगन्धरसस्पर्शसम्पन्नं भवति तदा विशिष्यते । ततः सुरुपित्वं यशस्विता प्रियता सुकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम् । एवं वस्तु विशिष्ट भवति ॥ गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते / गुणाधिकं क्षेत्रं भवति । तिर्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्बुद्धस्य । यथोक्तम्- "तिर्यग्योनिगताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः स्यात् । दुःशीलाय मनुष्यभूताय दत्वा सहस्रगुणः ।" दुःखविशेषात्क्षेत्रं विशिष्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । "ग्लानाय दानं ग्लानोपस्थाय कायदानं शीतलिकावर्दलिकादिषु (jaini_213) च दानम्" इति विस्तरः । उपकारित्वविशेषात् । यथा मातापित्रोरन्येषां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति ।

यदुक्तम्- ऽचेतनाविशेषात्फलविशेषःऽ; इति । अथ कथं चेतनायाः विशेषो भवति ? ब्रूमः- आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः // अभिध्-d_248 // पण्यां खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते । आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठानां मृदुत्वादेः कर्मविशेषः ।

तत्राशयाभिप्रायः यथा- एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया कर्मपथं समाक्षिपति । प्रयोगस्तदधिष्ठानं कायवाक्कर्म । अधिष्ठानं कर्मपथः । क्षेत्रं यस्मै वस्तु प्रतिपाद्यते । पृष्ठं नाम यत्कृत्वा पुनः सकृदसकृद्वानुकरोति ॥

यदुक्तम्- ऽआर्येभ्यो दानमप्रमेयफलम्ऽ; इति । अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह-

धर्मदात्रे ऽपि बालाय पित्रे मात्रे ऽथ रोगिणे / अमेयं बोधिसत्त्वाय दानमन्यभवाय च // अभिध्-d_249 //

एभ्यः पञ्चभ्यः पृथग्जनेभ्यो ऽपि दानमप्रमेयं भवति ॥

अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते-

बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् / विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतो ऽर्हते // अभिध्-d_250 //

यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्यमुत्तमार्थफलत्वात् भगवताष्टौ खलु दानान्युक्तानि सूत्रे "आसाद्य दानम् । भयदानम् । अदात् मे दानम् । दास्यति मे दानम् । दत्तपूर्वं मे पितृभिर्दानम् । ददाति स्वर्गार्थम् । कीत्यर्थम् । यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्यम् । यच्च त्रैधातुकवीतरागो ऽर्हन्नर्हते ददाति दानमिदमग्र्यम्" इति ।

सूत्र उक्तम्- "सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि" इति । अथ किमिदं कृतमुपचितं वा ? तदुच्यते-

संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् / विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् // अभिध्-d_251 //

तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्वं यदृच्छया यच्च कृत्वा परिपूरिकाभिश्चेतनाभिः परिपूरितं भवति । पृष्ठतश्च दृढीकृतं भवयि । निष्कौकृत्यादिप्रतिपक्षं च भवति । तत्कर्मोपचितमुच्यते ॥

कथं चैत्तादिष्वसति प्रतिगृहीतरि पुण्योपजातिर्भवति ? ब्रूमः ।

स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु / विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत् // अभिध्-d_252 //

तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्गुणाधिमुक्तिवशेन स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छन्ति ॥

सूत्र उक्तम्- "द्वे दाने । धर्मदानमामिषदानं च ।" तत्रामिषदानमुक्तम् । धर्मदानमुच्यते-

धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः / अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् // अभिध्-d_253 //

यथैव कुशलत्वात् त्रिकर्मस्वभावमामिषदानं नान्नपानम् । सुवर्णादिस्वभावं तत्, अव्याकृतत्वात् । तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम् । न नामकायादिस्वभावम् ॥

उक्तं दानमयं पुण्यक्रियादिवस्तु । शीलमयमारभ्यते । शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः / कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु । तत्पुनर्विज्ञप्त्यविज्ञप्तिरूपम् । अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम् । तदपिव्याख्यातं (jaini_216) विस्तरशः । एतदपि शीलमयं पुण्यक्रियावस्तु महाभोगताफलं मोक्षफलं च, प्रणिधिपरिणामनविशेषात् । शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये // अभिध्-d_254 // तत्पुनरेतच्छीलं विशुद्धं चाविशुद्धं च भवति । तत्र विशुद्धम्

दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् / तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते // अभिध्-d_255 //

यत्खलु शीलं दौःशील्येन न विदूषितं प्राणातिपातादिनाष्टप्रकारेण, तत्समुत्थापकैश्च क्लेशोपक्लेशैर्मिथ्यादृष्ट्यादिभिरनुपहतम्, क्लेशोपक्लेशविपक्षैश्च स्मृत्युपस्थानादिभिः परिगृहेतम्, निर्वाणपरिणामितं च न संसारबीजभूतं भवति ।

पञ्चभिः कारणैरित्यन्ये । मौलैः कर्मपथैर्विशुद्धम्, सामन्तकैर्विशुद्धम्, वितर्कैरनुपहतम्, स्मृत्यानुपरिगृहीतम्, निर्वाणाभिमुख चेति तद्विशुद्धशीलमिष्यते । तद्विपर्ययादविशुद्धं वेदितव्यम् ।

व्याख्यातं शीलमयं पुण्यक्रियावस्तु ॥

भावनामयमुच्यते- पुण्यं समाहितं त्वत्र भावना चित्तभावनात् / यत्समाधिस्वभावं समाहितं पुण्यं तद्भावनेत्युच्यते । कस्मात् ? (jaini_217) चित्तभावनात् । यथा तैलं पुष्पैश्चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकैश्च धर्मैश्चित्तं भावितं वासितमित्युच्यते, तन्मयीकरणात् । न चैवमसमाहितमिति । समाहितमेव चित्तं भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम् ।

कथं पुनरेतत्पुण्यक्रियावस्तु मन्तव्यम् ? किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणो ऽयं द्वन्द्वः समासो ऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ? यथा न दोषस्तथास्तु । कथं च न दोषः ? तत्र तावत् । कायवाक्कर्मस्वभावत्वात् त्रिधा कुशलत्वात्पुण्यम् । कर्मात्मकत्वात्क्रिया । तत्समुत्थापिकायाश्चेतनाया अधिष्ठानात्वाद्वस्तु । या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । भावनामयं मैत्रो पुण्यं च पुण्यक्रियाश्च वस्तु । तत्संप्रयुक्तायाश्चेतनाया मैत्र्यधिष्ठानेनाभिसंस्काराणां मैत्रीसहभूचेतना शीलं च पुण्यक्रिया च । अन्ये तत्सहभुवः पुण्यमेवेति ।

तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वे ऽपि सति प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना // अभिध्-d_256 // उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम् । पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम् ।

पुनरन्येन प्रकारत्रयेण शुभभेदो व्याख्यायते-

पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा / शासने ऽस्मिन्समासेन शुभमूलं त्रिधेष्यते // अभिध्-d_257 //

पुण्यभागीयं येन देवमनुष्योपपत्तिबीजं प्रतिगृह्णाति महेशाख्यैश्च कुलमहाभोगरूप्यचक्रवर्तिशक्रपुष्पकेतुब्रह्मत्वादीनां प्राप्तये फलमाक्षिपति । मोक्षभागीयं येनाविकम्प्य मोक्षाशयावस्थानादवश्यं परिनिर्वाणधर्मा भवति । निर्वेधभागीयमूष्मगतमूष्मं चतुर्विधम् ॥

अथ यदिदं लोक उच्यते लिपिमुद्रागणनासंख्येति एषां कः स्वभावः ? उच्यते-

लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा / संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका // अभिध्-d_258 //

तत्र तावल्लिपिमुद्रे योगप्रवर्तितं कायकर्मसमुत्थानमिति पञ्चस्कन्धात्मिका लिपिः । येन तु कर्मणाक्षराणि निर्वर्त्यन्ते तत्कर्म लिपिरित्युच्यते । नाम यत्खन्यते दन्तविषाणसुवर्णादिषु सा मुद्रा । नतु येन कर्मणा खन्यते तत्कर्मोच्यते । काव्यमपि योगप्रवर्तितं वाक्कर्मसमुत्थानं पञ्चस्कन्धाः । संख्यापि योगप्रवर्तितं मनस्कर्म । यन्मनसा संकलितं धर्माणां सा तु सपरिवारा चतुस्कन्धस्वभावेति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायः समाप्तः ॥

पञ्चमो ऽध्यायः ।

प्रथमः पादः

उक्तानि कर्माण । अथ यदयं लोकः पञ्चगति चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्गं हित्वा वामं वर्त्माश्रयति, परमप्रशान्तं च परं ब्रह्मापास्यानेकदुःखोपद्रवनीडभूते संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते-

अकार्यप्रवणो लोको दुःखभागी च यद्वशात् / रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् // अभिध्-d_259 //

ते पुनः क्लेशाः

स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः / आत्तसामान्यसंज्ञाकाश्चोद्यन्ते ऽनुशयादिभिः // अभिध्-d_260 //

तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाताः क्लिश्नन्तीति क्लेशाः अनुशेरत (jaini_220) इत्यनुशयाः । आभवाग्रमुपादाय यावदवीचिं स्त्रवन्ति स्रावयन्ति च चित्तसन्ततिमित्यास्रवाः । आस्रवानिति पञ्चलक्षणानत्र संयोजन्तीति संयोजनानि । ग्रन्थयन्तीति ग्रन्थाः । योजयन्तीति योगाः । अपहरन्तीत्योघाः । उपाददत इत्युपादानान्येषां सामान्यनाम क्लेश इति ॥

तत्र के कियन्तो वानुशयाः ? तदवद्योत्यते-

रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः / षडेते ऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः // अभिध्-d_261 //

एते खलु षडनुशयाः संसारप्रवृत्तिहेतवः श्रेयोमार्गविवन्धिनश्च शास्त्र उक्ताः । तेषां निरुक्तिः सन्तानानुगता इत्यनुशयाः धात्रोचैलमलवत् । अनुबध्नन्तीति वानुशयाः, खवरजलचरवत् । त एते वृत्तितश्च द्रष्टव्याः, हिङ्ग्वादिभक्षणवत् । फलतश्च पारावतभुजङ्गसूकरजन्मापातनवत् । पुद्गलतश्च नन्दाङ्गुलिमालसुनक्षत्रादिवत् ॥

अथ रागादयो ऽनुशयाः कथं द्रष्टव्याः ? किं रागादय एवानुशयाः, आहोस्विद्रागादीनामनुशयाः ? किञ्चातः । रागादय एवानुशयाश्चेत्सूत्रविरोधः- (jaini_221) "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरत्युत्पन्नस्य कामरागपर्यवस्थानस्योत्तरनिस्सरणं यथाभूतं प्रजानाति । तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्सुसंवहतं सानुशयं प्रहीयते" इति । रागादीनामनुशया इति चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः- "कामरागानुशयस्त्रिभिरिन्द्रियैस्सप्रयुक्तः" इति । कर्मधारय एव परिगृह्यते न षष्ठीसमास इति वैभाषिकाः । ननु चोक्तं सूत्रविरोध इति । सानुशयं सानुबन्धमित्यर्थः । औपचारिको वा सूत्रे ऽनुशयशब्दः (jaini_222) प्राप्तौ यथा दुःखो ऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः । तस्मासंप्रयुक्ता एवानुशयाः ।

"एवं तु साधु यथा दार्ष्टान्तिकानाम्" इति कोशकारः । कथं च दार्ष्टान्तिकानाम् ? "कामरागस्यानुशयः कामरागानुशयः । न चानुशयः संप्रयुक्तो न विप्रयुक्तः; तस्याद्रव्यान्तरत्वात् । सुप्तो हि क्लेशो ऽनुशयैत्युच्यते । प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः । कः प्रबोअधः ? संमुखीभावः । को ऽयं वीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादकशक्तिः, यथा चाङ्कुरादीनां शालिफलजा (jaini_223) शालिफलोत्पादनशक्तिः" इति ।

यत्तर्हि सूत्र एव क्लेशो ऽनुशय उक्तः षट्षट्के- "सो ऽस्य भवति सुखायां वेदनायां रागानुशयः" इति ? भवतीति वचनाददोषः । नासो तदैवानुशयः । कदा तर्हि ? यदा प्रसुप्तो भवति । । हेतौ वा फलोपचार एषः" इति ।

तदेतत्सौत्रान्तिकैरन्तर्गतं बुद्धवचननीतिश्रवणकौसीद्यमाविर्भाव्यते । (jaini_225) कथम् ? उक्तोत्तरत्वात् । उक्तमत्र कर्मचिन्तायामुत्तरं तत्त्वसप्ततौ च । तत्स्मर्यताम् । मा प्रमोषीः ।

पुनश्चापदिश्यते । सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिबीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात् । नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत् । न । चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः खपुष्पमयदण्डवत् ।

ते पुनः

रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः / भूयो ऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः // अभिध्-d_262 //

तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते । दृष्टिभेदो ऽपि सत्कायदृष्ट्यादिभेदेन पञ्चधा । रागभेदं च द्विधा वक्ष्यामः । ते पुनरेते सर्व एवानुशया यथासंभवं धात्वाकारप्रकारभेदेनाष्टानवतिर्भवन्ति ।

तत्र केचित्पण्डिता दर्शयन्ति । धातुभेदेन कामावचराः षड्त्रिंशद्दर्शनभावनाहेयाः । द्वात्रिंशद्दर्शनहेयाः । रूपावचरा एकत्रिंशदुभयहेयाः, अष्टाविंशतिर्दर्शनहेयाः पञ्च प्रतिघवर्ज्याः । एवमारूप्यावचराः ।

तत्र कथं कामावचराः षड्त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारनैयम्यभेदात् । दृष्टीनामपिधात्वाकारप्रकारभेदात् षड्त्रिंशत्वम् । प्रतिघस्य धातुनैयम्यात् पञ्चत्वम् । वयं पुनरेषां भेदं श्लोकानुगतमेव दर्शयिष्यामः ।

तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावनाहेयाः ? तत्र कामधातौ तावत् । प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त सप्ताष्टौ दुःखादिदर्शनहेया द्वात्रिंशत्कामधातौ भवन्ति । तेषु तेषां विप्रतिपत्तेः । एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम् ॥

कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते / प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः // अभिध्-d_263 //

यथाक्रमम् । उक्तो रागभेदः ।

दृष्टिभेदो निर्दिश्यते-

सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च / दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः // अभिध्-d_264 //

ते पुनरेते प्रभिद्यमाना धातुप्रकाराकारभेदेनाष्टानवतिर्भवन्ति । षट्त्रिंशत्कामावचराः । एकत्रिंशद्रूपावचराः । एकत्रिंशदारूप्यावचराः । दर्शनभावनाहेयप्रकारनैयम्यात् ॥

कति पुनरेभ्यः कामधातौ दर्शनहेयाः कति यावद्भावनाहेयाः ? तदवद्योत्यते-

दशेह दुःखदृग्घेयाः

सर्वे ऽपि दशेह कामधातौ दुःखे विप्रतिपन्नत्वाद्दुःखदर्शनहेयाः । सप्त हेत्वीक्षणक्षयाः / एभ्यो दशभ्यः सत्कायान्तर्ग्राहदृष्टिशीलव्रतपरामर्शत्रयं हित्वा ।

सप्तापवर्गदृग्घेयाः

एत एव अष्टौ मार्गेक्षणक्षयाः // अभिध्-d_265 // सत्कायान्तर्ग्राहदृष्टी हित्वा । ते ऽपि फलभूतेषु स्कन्धेषु विप्रतिपन्नत्वाद्दुःखदर्शनहेयैव ।

दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् / रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः // अभिध्-d_266 //

ते दर्शनप्रहातव्यास्तेषां चतुर्णां रागादीनां यस्मादालम्बनमतस्तत्प्रहाणात्तेषामपि (jaini_228) प्रहाणं स्तम्भनिपातादुपस्तम्भनिपातनवत् । ये तु रागादयश्चत्वारः स्वलक्षणक्लेशास्ते भावनाप्रहातव्या द्रष्टव्या रागप्रतिघमानाविद्याः ॥

अत्र पुनः प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये / अविद्यमाने खलु वस्तुन्येते स्कन्धेषु विपरीतसंदेहाकारग्रहणं कृत्वा प्रवर्तेते । तस्मादेते दर्शनहेये चेतोद्धाटनमात्रेण सारद्रव्यास्तित्वसंदेहापगमवत् । रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते // अभिध्-d_267 // यथा कामधातौ प्रोक्ताः, रूपारूप्यधात्वोरप्येवं द्रष्टव्याः । प्रतिघानुशयं वर्जयित्वा । तत्र हि शमथस्निग्धसन्तानत्वात्प्रतिघनिमित्ताभावाच्च प्रतिघानुशयो नास्ति ।

तत्र सत्कायान्तर्ग्राहदृष्टी एकप्रकारे दुःखदर्शनमात्रहेयत्वात् । मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्साः प्रत्येकं चतुष्प्रकाराः, चतुस्सत्यदर्शनहेयत्वात् । शीलव्रतपरामर्शो द्विप्रकारो दुःखमार्गदर्शनहेयत्वात् । रागादयः पञ्चप्रकाराः, चतुस्सत्यदर्शनभावनाहेयत्वात् । त एते कामधातौ षट्त्रिंशद्भवन्ति । रूपधातावेकत्रिंशदारूप्यधातावेकत्रिंशदिति समस्ता दशनभावनाहेया अष्टानवतिर्भवन्ति । तेभ्यः पुनरष्टाशीति दर्शनप्रहातव्याः । दश भावनाप्रहातव्याः ॥

अथ य एते ऽष्टाशीतिरनुशया दर्शनप्रहातव्याः किमेते दर्शनमार्गेणैव प्रहीयन्ते ? नेत्याह । किं तर्हि ? भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः / ते ह्येकान्तेनान्वयक्षान्तिवध्याः । ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः // अभिध्-d_268 // एवमन्यास्वपि भूमिषु ये ऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते । शेषास्तूभयथा । यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिबध्या अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां च भावनाहेया इति बोद्धव्यम् ॥

अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः ? तदारभ्यते -

अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता / तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता // अभिध्-d_269 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.