Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मदीप with auto(?)entary विभाषाप्रभावृत्ति

Tác giả
विमलमित्र
Thông tin
GRETIL — P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

द्वाभ्यामन्त्याभ्यां युक्तो ऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभिराज्ञेन्द्रियेण च । एवमाज्ञातवदिन्द्रियेण तेन तैश्चेति । सप्त षड्भिस्तदाद्यवान् // अभिध्-d_100 // प्रथमेन त्वनास्रवेण यः समन्वागतः सो ऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियैश्चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति ॥

अथ सर्वबहुभिः कियद्भिः समन्वागताः ? तदुच्यते-

त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि / बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः // अभिध्-d_101 //

अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः / त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः // अभिध्-d_102 //

स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्च जीवितमनौपेक्षाभिश्च । नारकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्च पञ्च जीवितं मनश्च । तिरश्चां नास्त्युच्छेदः । य इहोच्छिनत्ति सो ऽवश्यमवीचिं गच्छति । तेन नत्र नरके श्रद्धाद्या न सन्ति । पञ्च चक्षुरादीनि पञ्च च वेदा, एकं व्यञ्जनं जीवितं मनश्चेति त्रयोदश भवन्ति । स्युर्बहुभिश्चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वैकान्नविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकान्नविंशतिभिरेव समन्वागताः ॥

सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः / त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः // अभिध्-d_103 //

तत्र सम्यक्त्वनियता आर्या इत्यर्थः । ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेण । सर्वप्रभूतैः पुनरेकान्नविंशतिभिरेकलिङ्गद्व्यमलवर्जितैः ॥

प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः / अक्षैकादशकोपेता यदि वाष्टादशान्विताः // अभिध्-d_104 //

सर्वाल्पैरेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण । बहुभिस्त्वष्टादशभिः, द्वे अनास्रवे दौर्मनस्यमेकं च व्यञ्जनं हित्वा ॥ कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः / अनास्रवत्रयं हित्वा दौर्मनस्यं च । तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति । एकं च व्यञ्जनं हित्वा परिशिष्टैः सप्तदशभिः समन्वागतः । त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः // अभिध्-d_105 // द्वे अनास्रवे हित्वैकं च व्यञ्जनम् । अत्रापि हि सत्यानि दृश्यन्ते ॥ द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः / प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मनस्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः । दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः // अभिध्-d_106 // शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः । बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः / बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति । युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः // अभिध्-d_107 // यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति ॥ अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः / स्वल्पैरष्टाभिः । पृथग्जनस्याष्टाः स्वल्पानि भवन्ति । पञ्च श्रद्धादीनि, जीवितं मनौपेक्षा च । बहुभिरेकादशभिरार्यस्य समन्वागमः । पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनास्रवाभ्याम्, जीवितमनौपेक्षेन्द्रियैश्चतुर्भिरनास्रवेण चैकेन । सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः //

अभिध्-d_108 // पञ्चभिः श्रद्धादिभिः पञ्चभिः सुखादिभिः, कायमनोजीवितैश्च त्रिभिः ॥ अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः / उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः । सुखादिभिः पञ्चभिः कायजीवितमनोभिश्च । सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्चक्षुरादिभिश्चतुर्भिरेकेन च व्यञ्जनेन । द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम् // अभिध्-d_109 // उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्च पञ्चभिः । चक्षुरादीनामलब्धविहीनत्वादनियमः । सर्वबहुभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य । समाप्तो ऽयं मत्स्यकग्रन्थसमुद्रः ।

व्याख्यात इन्द्रियाणां धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः । अधुना तु मोमांस्यते । किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह ।

तत्र संक्षेपेण पञ्चेमा धर्मजातयः- रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ता असंस्कृतं च ।

तत्रासंस्कृतं नोदेति न च व्येति ।

रूपिणां तु धर्माणामयं नियमः-

सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः / कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु // अभिध्-d_110 //

सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते । स तु सप्तद्रव्याविनिर्भागी चतुर्भिर्भूतैस्त्रिभिश्चोपादायरूपैस्त्रिभिस्त्रिभिर्वा भूतैश्चतुर्भिश्चोपादायरूपैरविनिर्भागवर्त्यसावष्टम इति ।

कोशकारस्त्वाह- "सर्वसूक्ष्मो रूपसंघातः परमाणुः" इति । तेन संघातव्यतिरिक्तं रूपमन्यद्वक्तव्यम् । यदि नास्ति संघातो ऽपि नास्ति । अतः सिद्धं ऽसर्वसूक्ष्मं रूपपरमाणुःऽ; इति ॥

कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहितो नवभिः ॥ एवं रूपे ऽपि विज्ञेयो हित्वा गन्धरसद्वयम् / रूपधातौ बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा । कायसहगतस्तु षड्भिश्चक्षुरादिषु सप्तभिरविनिर्भागिभिः । यदा पुनस्सशब्दकः स संधातो जायते, तदा सर्वत्र यथोक्तेषु शब्दो ऽधिको गणयितव्यः ।

अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्यजातयो विवक्ष्यन्ते । उपादायरूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानान्नास्ति चोद्यावकाशः ॥

अरूपिणां पुनः

चित्तं चैतसिकैः सार्धं

अविनिर्भागेण जायत इति वर्तते । संस्कृतं तु स्वलक्षणैः // अभिध्-d_111 // सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम् ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्यअध्यायस्य द्वितीयः पादः ॥

द्वितीयाध्याये तृतीयपादः ।

यदुक्तं चैतसिकास्तु सहोत्पद्यन्त इति तदभिधीयताम् । के पुनस्ते चैतसिका धर्माः ?

ते पञ्चप्रभेदाः- महाभौमाः, कुशलमहाभौमाः, क्लेशमहाभौमाः, अकुशलमहाभौमाः, परीत्तक्लेशमहाभौमिकाश्च । महती चित्तभूमिरेषामिति त इमे महाभौमाः । भूमिर्गतिरित्यर्थः । एव सर्वत्र विग्रहः कार्यः ।

तत्र तावन्महाभौमा निर्दिश्यन्ते ।

दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः / छन्दः स्पर्शो ऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः // अभिध्-d_112 //

एते दशधर्माः सर्वस्यां चित्तभूमौ त्रैधातुक्यामनास्रवायां च समग्रा भवन्ति ।

तत्र वेदना सुखादिस्त्रिविधो ऽनुभवः । त्रिविधं संवेदितमिति पर्यायः । इष्टानिष्टोभयविपरीतविषयेन्द्रियविज्ञानसन्निपातजा धर्मयोनिः कायचित्तावस्था विशेषः प्रह्लाद्युपतापी तदुभयविपरीतश्च तृष्णाहेतुर्वेदनेत्युच्यते ।

निमित्तनामार्थैक्यज्ञा संज्ञा वितर्कयोनिः ।

चित्ताभिसंस्कारश्चेतना ।

चित्तव्यापाररूपा स्मृतिः । चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमाणकर्मान्ताविप्रमोषलक्षणा ।

छन्दः कर्तुकामता वीर्याङ्गभूतः ।

विषयेन्द्रियविज्ञानसन्निपातजा चित्तस्य विषयस्पृष्टिः, चैतसिकधर्मो जीवनलक्षणः स्पर्शः ।

चित्तस्य विषये ऽधिमुक्तिरधिमोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः ।

धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा ।

चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षणः ।

चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः ।

सूक्ष्मः खलु चित्तचैत्तानां विशेषो दुरवधारो रूपिणीनामेव तावदोषधीनां बहुरसानामिन्द्रियग्राह्यो ऽपि रसविशेषो दुरवधारः, किमङ्ग पुनरमूर्तानां (jaini_71) चित्तचैतसिकानां धर्माणामेककलापवर्तिनां बुद्धिगम्यः ? स तु हेतुफलस्वभावैर्मतिमद्भिरभ्यूह्य इति ॥

कुशलमहाभौमे भवाः कुशलमहाभौमाः । ते पुनः

श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा / मूलवीर्यमहिंसा च शुभभूका दशस्मृताः // अभिध्-d_113 //

तत्र श्रद्धा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी । तद्यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः सर्वं कालुष्यमपनीयाच्छतामुत्पादयति तद्वच्चित्तसरसि जातः श्रद्धामणिरिति ।

अप्रमादः कुशलधर्मभावना तदवहिततेत्यर्थः ।

प्रस्रब्धिश्चित्तकर्मण्यता । कायप्रस्रब्धिरप्यस्ति । सा तु तदानुकूल्याद्बोध्यङ्गशब्दं लभते । तद्यथा प्रीतिः । प्रीतिस्थानीयाश्च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता । सम्यग्दृष्टिसंकल्पव्यायामाश्च प्रज्ञानुकूल्यात् प्रज्ञास्कन्ध इत्युक्ताः । तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता ।

उपेक्षा चित्तसमता चित्तानाभोगः संस्कारानिमित्ताभोगमध्युपेक्षानिमित्तप्रवणता ।

ह्रीः स्वात्मापेक्षा । अकार्यकरणे लज्जा ।

अपत्राप्यन्तु परापेक्षा ।

द्वे तु कुशलमूले अलोभाद्वेषौ । अमोहस्तु प्रज्ञास्वभावत्वान्महाभौमेषूक्त इति न गण्यते ।

वीर्वं कुशलाकुशलधर्मोत्पादनिरोधाभ्युत्साहः, संसारनिमग्नस्य चेतसो ऽभ्युन्नतिरित्यर्थः ।

अविहिंसा सत्त्वाविहेठना ।

उक्ताः कुशलमहाभौमाः ॥

स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धतिः / क्लिष्टे षट्

तत्र

स्त्यानं कायचित्ताकर्मण्यता ।

प्रमादः कुशलानां धर्माणामभावना । भावनाविपक्षभूतो धर्मः ।

आश्रद्ध्यं चित्ताप्रसादः, चित्तकालुष्यमित्यर्थः । गुणेषु गुणवत्सु चासंप्रत्ययो ऽनर्थित्वं च ।

कौसीद्यं चित्तस्यानभ्युत्साहः ।

मूढिरविद्यानुकारासंप्रख्यानरूपा ।

औद्धत्यं चित्तस्याव्युपशमः ।

उक्ताः षट् क्लेशमहाभौमाः ।

अभिधर्मे तु दश पठ्यन्ते- "आश्रद्धय्म्, कौसीद्यम्, मुषितस्मृतिता, चेतसो विक्षेपः, अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, औद्धत्यम्, प्रमादश्च" इति ।

तत्र मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः । क्लिष्टाक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते । तस्मात् षडेव क्लेशमहाभौमाः । अशुभे तु द्वे आह्रीक्यमनपत्रपा // अभिध्-d_114 // अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिकौ भवतः । तत्राह्रीक्यं ह्रीविपक्षभूतो धर्मः । अनपत्राप्यमपत्राप्यस्येति । अकार्यं कुर्वाणस्यालज्जा स्वात्मनो ऽह्रीः । परेभ्यो ऽलज्जा अनपत्राप्यमित्यपरे ।

परीत्तक्लेशमहाभौमा निर्दिश्यन्ते । मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः /सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश // अभिध्-d_115 // एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते । एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमे ऽध्याये ऽभिधायिष्यते ॥

कथं पुनरिदं विज्ञायते चित्तादर्थान्तरभूताश्चैतसिकाः ? चित्तमेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति । यदुक्तं भगवता- "षड्धातुरयं भिक्षवः पुरुषपुद्गलः" इत्यत्र विज्ञानधातुरेवोक्तः । तस्मान्नार्थान्तरभूताश्चैतसिका इति भदन्तबुद्धदेवः । तं प्रतीदमभिधीयते-

पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः / तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा // अभिध्-d_116 //

यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाद्युपादायरूपैर्विशेष्यते । नीला ग्रावाणः, नीलमुदकं मधुरा द्राक्षा मधुराः खर्जूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं मूढं रक्तं द्विष्टमित्येवमादिभिः शब्दैश्चैतसिकैर्धर्मैर्योगाद्विशेष्यते । साध्यसमत्वादयुक्तमिति चेत् । न । उक्तोत्तरत्वात् । विहितमत्र- भूतभौतिकान्यत्वचिन्तायामुत्तरमिति । तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति ।

इतश्च चित्तचैतसिकान्यत्वम्-

भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा / तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम् // अभिध्-d_117 //

यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम् ॥

यथा संबन्धिसंबन्धाद्विकारो ऽम्भसि लक्ष्यते / तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् // अभिध्-d_118 //

यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धाद्विकारो ऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवणमिति । तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति ।

सूत्रे ऽपि चान्यत्वमुक्तम्- "संज्ञा च वेदना च चैतसिक एष धर्मः" इति ॥

इदमिदानीं वक्तव्यम् । युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसिका धर्मा इत्युच्यन्ते ? को वा धर्मार्थः? तदपदिश्यते-

गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी / इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः // अभिध्-d_119 //

प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्य गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते । कि पुनरत्र प्रधानम् ?

चित्तं प्रधानमेतेषां

कुत इति चेत् । वस्तुमात्रग्रहादिभिः / वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मृत्यादिभिर्गृह्यन्ते । ऽआदिऽग्रहणादत्रात्माभिनिवेशाद्राजस्थानीयत्वाच्च । किञ्च, बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि // अभिध्-d_120 // उक्तं हि भगवता- "चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानहेतोर्विशुध्यन्ते" इति । तस्मात्प्रधानं चित्तम् । यथोक्तम्-

"दूरङ्गममेकचरमशरीरं गुहाशयम् । ये चित्तं दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात् ॥"

तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात् । एकचरं युगपद् द्वितीयचित्ताभावात् । अशरीरं मूर्त्यभावात्, क्रियामात्रानुमेयस्वभावत्वाच्च । गुहाशयं शरीरबलेन । तद्वृत्तिव्यक्तेरिति । तस्य धर्माः संप्रयोगिणश्चैतसिका इति ।

व्याख्याताः पञ्चप्रकाराश्चैत्ताः । अन्ये ऽपि चानियताः पठ्यन्ते- वितर्कविचारकौकृत्यमिद्धादयः ।

तत्रेदं वक्तव्यम् । कस्मिंश्चित्ते कति चैत्ता भवन्ति ?

कामावचरं तावत् पञ्चप्रकारं चित्तम् । कुशलम्, अकुशलं द्विविधमावेणिकमन्यत्क्लेशसंप्रयुक्तं च । अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम् ॥

तत्र तावत्कामावचरं चित्तमवश्यं सवितर्कसविचारम् । अतस्तत्

अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह / अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः // अभिध्-d_121 //

कामावचरमनिवृताव्याकृतं चित्तं दशभिर्महामौमैर्वितर्कविचाराभ्यां च सहावश्यमुदेति ॥ तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः / सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । तत्राष्टादश चैतसिका भवन्ति । दशमहाभौमाःषट् क्लेशमहाभौमाः वितर्कविचारौ च । दृष्टिर्नाधिका पूर्ववत् । द्वाविंशत्या सहावश्यं शुभं भवति मानसम् // अभिध्-d_122 // दशमहाभौमाः दशकुशलमहाभौमाः वितर्कविचारौ च ॥ चेतसोस्सह विंशत्या चित्तमुत्पद्यते ऽशुभम् / यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः- दशमहाभौमाः षक्लेशमहाभौमा द्वावकुशलमहाभौमौ वितर्को विचारश्च । आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः ।

दृङ्मोहमात्रयुक्तं यत्

दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणके । ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्चिद् दृष्टिरित्युच्यते । स च महाभौमेषु पठितः ।

कः पुनरयं वितर्कः को वा विचारः ? वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः । विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूलः । इत्येतौ द्वौ धर्मौ कामावचरे चेतसि सर्वस्मिन्नियमेनोत्पद्येते ।

तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोर्धर्मयोरेकत्र चित्ते समवधानं प्रतिज्ञायते । न ह्येतल्लोके दृष्टं यद्विरुद्धयोरेकत्र सहावस्थानमिति कोशकारः ।

तत्र केचिदाहुः- सर्पिर्यथाप्सु निष्ठ्यूतं नातिश्यायते नातिविलीयते, एवं वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्युदारमित्युभयोरपि तत्र व्यापारः । एवं तर्हि निमित्तभूतौ वितर्कविचारावौदार्यसूक्ष्मतयोः प्राप्नुतो यथापश्चातश्च सर्पिषःश्यानत्वविलीनत्वयोर्न पुनस्तत्स्वभावौ ।

अन्ये पुनराहुः- वाक्संस्कारा वितर्कविचाराः सूत्रे ऽभिहिताः ।

"वितर्क्य विचार्य वाचं भाषते नावितर्क्याविचार्य" इति । तत्र य औदार्यास्ते वितर्काः । ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात् । एकस्यान्तु जातौ मृद्वधिमात्रता युगपन्न संभवति । जातिभेदो ऽप्यस्ति स तर्हि वक्तव्यः । दुर्वचो ह्यसौ । अतो मृद्वधिमात्रतया व्यज्यते । नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।

तदिदमन्धविलासिनीकटाक्षगुणोत्कीर्तनकल्पं चोद्यमारभ्यते । यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतायते । तयोर्हि यथोक्तलक्षणयोरेकस्मिंश्चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद् वृत्त्युद्रेकतालाभः । यथा विद्यविद्ययोः संशयनिर्णययोश्चेति तूष्णीमास्व । मा विद्वद्भिरवजीहसः स्वमात्मानम् ।

सा पुनर्दृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः । क्रोधाद्यैस्त्वधिकं वदेत् // अभिध्-d_123 // क्रोधाद्यैस्तूपक्लेशैरधिकं भवति । स च क्रोधादिरुपक्लेशो ऽधिकः । क्लेशैश्च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति ॥

सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् / तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् // अभिध्-d_124 //

यत्र मिद्धं तत्र तदेवाधिकं गणयेत् । यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उक्तस्ततः ॥

साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते / ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि // अभिध्-d_125 //

न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते । तेन तत्र प्रतिघशाठ्यमदमायावर्ज्याश्च क्रोधादयः, आह्रीक्यानपत्राप्ये च न सन्ति । य एव प्रथमे ध्याने सन्ति त एव ऽध्यानान्तरेऽ, ऽवितर्कश्च न विद्यते । पूर्वोक्ताश्च न सन्तीति ऽचऽशब्दात् । विचारश्चापि नोपरि ।ऽ; ध्यानान्तरात्तूपरिविचारश्चापि नास्ति पूर्वोक्ताश्च । ऽचऽशब्दात् माया शाठ्यं च नास्तीति गम्यते ।

ब्रह्मणो हि यावच्छाठ्यं पठ्यते, पर्षत्संबन्धात् । स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्र तानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्ते" इत्यप्रजानन् क्षेपमकार्षीत्- "अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्" इति । गतमिदम् ॥

इदं वक्तव्यम् । संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारभ्यते ।

संप्रयुक्तः संस्कारः समता यस्य पञ्चधा / विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ // अभिध्-d_126 //

पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः । ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः । "यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैकाः" इति विस्तरः । यस्य पुनरेताः समता न विद्यन्ते स विप्रयुक्त इति ॥

चोदकः- कश्चिद्रूपं तर्हि विप्रयुक्तं प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते ।

विशिष्टानामसद्भावात्प्रसंगो नास्ति रूपिणाम् / संस्कारग्रहणाच्चैव खादीनां न प्रसज्यते // अभिध्-d_127 //

विशिष्टेन खलु नियोगेन रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः । संस्कारग्रहणाच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम् ॥

के पुनस्ते विप्रयुक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे । नापि कृत्यम् । नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने । न वेदादिषु शास्त्रेष्विति । तदत्रोपव्याह्रीयते-

प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश / आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते // अभिध्-d_128 //

यत्तावत् स्वभावक्रियाभावादिति । तदत्रोभयमभिधायिष्यते । यदपि बुद्धवचने न पठ्यन्त इति । तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते । यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम् । ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवृत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्राचार्याश्वघोषप्रमुखानां च बोधिसत्त्वानां बुद्धिप्रसादविधायिनस्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरीक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति ॥

तत्र तावत् राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः // अभिध्-d_129 // प्राप्तर्नाम समन्वागमो लाभ इति पर्यायः । सर्वथा भावाञ्छब्दैरेव शब्दानाचष्टे । यथैंव खलु प्राप्तिरित्येतच्छब्दगडुमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति । तस्मादव्यभिचारि तत्प्रसाधकं लिङ्गमुच्यताम् । इमे ब्रू मः । श्रोत्रमवधत्स्व मनश्चैकाग्रतायां सन्नियुक्त्वा । ऽधर्मवत्ता व्यवस्थितिः ।ऽ; धर्माः खलु त्रिधा कुशलाः.........

............रूपे ऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः । श्रुतचिन्तामयानां च समापत्तिद्वयस्य च // अभिध्-d_130 // श्रुतचिन्तामयानामपि । सहजा पश्चाद् भवति द्वयोश्चाचित्त समापत्त्योस्सह पश्चाद् भवतीति ।

निःक्लेशसंस्कृतापूर्वं शुभानां तु रजस्वताम् / आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते // अभिध्-d_131 //

अनास्रवाणां च स्कन्धानां, अनुचितानां च कुशलसास्रवाणां न पूर्वजा । एषामेव यत्तोक्तानां ऽतदूर्ध्वं तु त्रिधेष्यते ।ऽ; यदा तेन संमुखीभूता तदा द्विधैवेति वर्तते ॥ क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता / क्लिष्टाणां च स्कन्धानां त्रैयध्विकी प्राप्तिः । ऽकुशलानां च तदन्येषांऽ; तेभ्यो ऽनास्रवेभ्यस्तेभ्यश्चानुचित्तेभ्यः कुशलसास्रवेभ्यो ऽन्येषां कुशलसास्रवाणां त्रैयध्विक्येव । निवृताव्याकृता ज्ञाननिर्माणमनसां तथा // अभिध्-d_132 // त्रैयध्विकीति वर्तते ॥ निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा / निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव । अनागतवर्तमानालब्धस्यातीतापि । ऽनित्यस्यान्यस्य सर्वदा ।ऽ

अजा तवर्तमाना च

अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम् । कदाचित्तु त्रिधेष्यते // अभिध्-d_133 // येन लब्धस्तस्य त्रैयध्विकीत्युक्तमेतत् ।

व्याख्याते प्राप्त्यप्राप्ती ॥

सभागता वक्तव्या । केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धो ऽप्यस्ति । तत्केयं तदभ्यासगतेति ? तदिदं प्रतायते । एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता / सभागता नाम द्रव्यम् । सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम् । निकायसभाग इत्यस्य शास्त्रसंज्ञा । सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्वानां सत्त्वसभागता । सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात् । भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः । तस्यां खल्वसत्यां सर्वार्यानार्यलोकव्यवहारसंकरदोषः प्रसज्येत । तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः, ऽएकार्थरुचिहेतुःऽ; इति ।

स्याच्च्यवेतोपपद्येत न च स्वसभागतां विजह्यात्, न च प्रतिलभेतेति ? चतुष्कोटिकः । प्रथमा कौटिः- यतश्च्यवते तत्रवोपपद्यमानः । द्वितीया- नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते । तृतीया- गतिसंचारात् । चतुर्थी- एतानाकारान् स्थापयित्वा ।

अथ पृथग्जनत्वस्यास्याश्च कः प्रतिविशेषः ? पृथग्जनसभागता खलूक्तरूपा । पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः । आप्तवचनेनापि तदन्यत्वसिद्धिः । उक्तं हि भगवता- "स चेदित्थत्वमागच्छति मनुष्याणां सभागतां प्रतिलभते" इति । न चैवं पृथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा ।

सिद्धा सभागता । कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेन समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसाधर्म्यं पश्यतीति ॥

अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते । आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु // अभिध्-d_134 // असंज्ञिसत्त्वेषु देवेषूपपन्नानां यच्चित्तोपच्छे दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम । येन तत्रोपपन्नानां चित्तमनागते ऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते । तत्पुनरेकान्तेन विपाकजस्वभावम् । कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः । केषु पुनस्तत् ? देवनिकायेषु भवति । तदाह- "असंज्ञिषु । असंज्ञिसत्त्वा नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत् ।" किं पुनस्ते नैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च । "प्रकृष्टमपि कालं स्थित्वा सहसंज्ञोत्पादात्तेषां सत्त्वानां तस्मात् स्थानाच्च्युतिर्भवति" इति सूत्रपाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र । तदुपपन्नानामवश्यं कामावचरापरपर्यायवेदनीयकर्मसद्भावात् । यथोत्तरकौरवाणां देवोपपत्तिवेदनीयं कर्मेति ॥

का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते- शुभासंज्ञिसमापत्तिर्ध्याने ऽन्त्ये चित्तरोधिनी / आसंज्ञिकमव्याकृतम् । विपाकफलत्वात् । इयं तु शुभा । सा पुनरियं ऽध्याने ऽन्त्येऽ; चतुर्थध्यानसंगृहीतेत्यर्थः । ऽचित्तरोधिनीऽ, यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी । चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत् ।

किमर्थं पुनरेतां योगिनः समापद्यन्ते ?

निःसृतीच्छाप्रवृत्तित्वात्

ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समापद्यन्ते मोक्षकाङ्क्षया । सा पुनरियम्-

नार्यस्य

आर्या हि तामपायस्थानमिव मन्यन्ते । पृथग्जनास्तु केचिन्मोक्षस्थानमिति ।

किं पुनरियमुपपत्त्या वा वैराग्येण वा लभ्यते ? नेत्याह । किं तर्हि ? आप्या प्रयोगतः // अभिध्-d_135 // यत्नेन तामुत्पादयतीति ॥ निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा / निरोधसमापत्तिरपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी । सा पुनरियं विहारसंज्ञापूवकेण मनसिकारेण निर्वाणसदृशं सुखमनुभवितुकामैर्योगिभिः संमुखीक्रियते । ऽभवाग्रजाऽ; चेयं समापत्तिः । शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता // अभिध्-d_136 // द्वयोः कालयोर्वेद्या ऽद्विवेद्याऽ; । उपपद्यवेदनीया चापरपर्यायवेदनीया च । अनियतवेदनीया चेयम् । यो ह्येतामुत्पाद्य परिनिर्वाति स नास्या विपाकं प्रतिसंवेदयते । तस्या हि भवाग्रे चतुस्कन्धको विपाको विपच्यते । आर्यश्चैतामुत्पादयितुं शक्नोति नानार्यः । उच्छेदभीरुत्वाच्छाश्वतदृष्टिप्रहाणादार्यमार्गवलोत्पादनाच्च । आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति ।

अत्र पुनः कोशकारः प्रतिजानीते- "सचित्तिकेयं समापत्तिः" इति । (jaini_94) "समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते । येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति । तद्विरुद्धाश्रयापादनात् सासौ समापत्तिरिति प्रज्ञाप्यते ।"

तदेतदबौद्धीयम् । कुतः ?

चेतश्चतुष्टयायोगादागमादुपपत्तितः / निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका // अभिध्-d_137 //

भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते । विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च । तेभ्यश्चतुर्भ्यः कतरच्चित्तं यन्निरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ?

तत्र तावद्विपाकजं तत्रत्यां .............................

".............धर्मे प्रतिपत्त्येवाज्ञामाराधयति । नापि मरणकालसमये । भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नः अभोक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति" इति ।

अत्र स्थविर उदायी स्थविरशारिपुत्रमिदमवोचत्- "मा त्वमायुष्मन्नेवं वोचः ।" स हि मन्यते स्म भावाग्रीकीयं समापत्तिर्दिव्यश्च मनोमयः कायश्चतुर्थध्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते । तदेतद् भदन्तोदायिना परिहाणिमजानानेनाभिधर्मसंमूढेन प्रत्युक्तः स भगवता परमाभिधा मकेणावसादनार्थमभिहितः- "त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा सार्धं गभ्भीरे ऽभिधर्मे संलपितुं मन्यसे ?" इति

निकायान्तरीयाश्चतुर्थध्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति । तेषां विना परिहाण्या सिद्धत्येतत्सूत्रम् । एतदेव तु न सिद्ध्यति- चतुर्थध्यानभूमिकाप्यसावस्तीति । कथम् ? "नवानुपूर्वसमापत्तयः" (jaini_97) इति सूत्रे वचनात् । प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्तिं समापद्यन्त इति ॥

व्याख्याते समापत्ती ।

गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः / आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते // अभिध्-d_138 //

आयुर्जीवितमित्यनर्थान्तरम् । उक्तं ह्यभिधर्मे- "जीवितेन्द्रियं कतरत् ? त्रैधातुकमायुः" इति । तत्पुनः ऽगतिप्रज्ञप्त्युपादानंऽ; विपाकजस्वभावत्वात् । उक्तं हि सूत्रे- "निर्वृत्ते विपाके नारक इति संख्यां गच्छति । एवं यावन्नवसंज्ञानासंज्ञायतनोपगसंख्यां गच्छति" इति । न चान्यदिन्द्रियं विपाकजं त्रैधातुक व्याप्यस्ति यज्जन्मप्रबन्धाविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात् ।

तत्पुनरस्तीति कथं गम्यते ? आगमाद्युक्तितश्च । आगमस्तावदयम्-

"आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥"

सर्वं हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु । तत्त्ववश्यं विज्ञानसहवर्ति नापि चक्षुरादीन्द्रियसहवर्ति । रूपधातौ तु सर्वं कायादिपञ्चेन्द्रियसहवर्ति । न त्ववश्यं चित्तसहचरिष्ण । आरूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः ।

जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम् । अन्यथा हि कुशलनिवृत्ते चेतसि निर्मले वाधोभौमे तद्गतिप्रज्ञप्त्युपादानविपाकजं किं कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात् ? न च शक्यं प्रतिज्ञातुमनास्रवाणामधोभूमिविज्ञानबीजं तद्गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात् । न चान्यद्विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात् । मनोधातुरिति चेत् । न । मनोविज्ञानधातोरेवावस्थान्तरे तन्नामप्रज्ञप्तेः । युक्तिरपि- चक्षुरादिवत्तदाधिपत्यविशेषात् ।

"समाधिबलेन कर्मजं जीवितावेधं निर्वर्त्यायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः" इति कोशकारः । तत्र किमुत्तरमिति ? न तत्रावश्यमुत्तरं (jaini_99) वक्तव्यं यस्मान्नैतत्सूत्रे ऽवरति, विनये न संदृश्यते, धर्मतां च विलोमयति । (jaini_100) तस्माद् बालवचनवदध्युपेक्ष्यमेतत् ।

कथं तावत्सूत्रे नावतरति, विनये न संदृश्यते ? सूत्रे ह्यक्तम्- "अस्थानमनवक शो यत्प्रहाणहेतोर्वा उपक्रमहेतोर्वा अपक्वं परिपाचयेत्, परिपक्वं वा अन्येन नयेन नयेत्" इति विस्तरः ।

विनये ऽपि "नियतवेदनीयं त्रिप्रकारं कर्म सदेवकेनापि लोकेन न शक्यं व्यावर्तयितुम्" इति परिग्रहः ।

अभिधर्मे ऽपि सर्वापरिमितमायुराक्षिप्यते । तस्यापक्षालाः कालस्थानान्तरावस्थानादिषु नियम्यन्ते । इत्येवं तावदागमादपेतं नोत्तरार्हम् ।

तथापि तु युक्तिमदुत्तरमुच्यते । यदि भगवान् समाधिबलेन स्वेच्छयापूर्वं सत्त्वं सविज्ञानकं सेन्द्रियमुत्पादयेत्, स्वात्मनो वा जीवितमनाक्षिप्तं प्राक्कर्मभिर्योगबलेनाक्षिपेत्, ततो बुद्धो भगवान्नारायणीकृतः स्यात् अपूर्वसत्त्वनिर्माणात् । स च कारुणिकत्वान्नेव परिनिर्वायात्, शासनसम्भेदसंदेहांश्च च्छिन्द्यात् । तस्माद्वैतुलिकशास्त्रप्रवेशद्वारमारब्धं तेन भदन्तेनेत्यध्युपेक्षमेतत् ।

अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ? प्रज्ञप्त्यामुक्तम्- "अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः? चतुष्कोटिकः । प्रथमा कोटिः- आयुविंपाकस्य कर्मणः पर्यादानात् । द्वितीया- भोगविपाकस्य । तृतीया- उभयोः । तुर्थी- विषमापरिहारेण ।

ज्ञानप्रस्थान उक्तम्- "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह- कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं निरोधसमापत्तिं वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां रूपारुप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ॥"

कः पुनरस्य भाषितस्यार्थः ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात् प्रथमम् । यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद् द्वितीयम् । सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । तस्मादस्त्यकालमृत्युः ।

सूत्र उक्तम्- "चत्वार आत्मभावप्रतिलम्भाः । अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रामति न परसंचेतना" इति चतुष्कोटिकः । आत्मसंचेतनावक्रामति कामधातौ क्रीडाप्रमोषकाणां देवानां मनःप्रदोषकाणां च देवानाम् । तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिभंवति, नान्यथा । बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात् । परसंचेतनैव क्रामति गर्भाण्डागतानाम् । उभयम्- अन्येषां कामावचराणां प्रायेण । नोभयम्- सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम् । तद्यथा नारकाणां च दर्शनमार्गमैत्रीनिरोधसमापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्टप्रभृतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्गर्भायाश्चक्रवर्तिनश्च तद्गर्भायाः ।"

व्याख्यातं जीवितेन्द्रिम् ॥

संस्कृतलक्षणानीदानीं व्याख्यायिष्यन्ते । तानि पुनः कानि कियन्ति वेति ? तदुपव्याख्यायते- जातिः स्थितिर्जरानाशः संस्कृताङ्कचष्टतुयी / एतानि खलु चत्वारि संस्कृतलक्षणानि भगवताभिधर्मे ऽभिहितानि । एतान्येव विनेयप्रयोजनवशात् सूत्रे स्थित्यन्यथात्वमेकीकृत्य त्रीण्युक्तानि । गाथायां त्वेभ्यो ऽङ्गद्वयं सामर्थ्याद्गम्यमानमन्तर्णीय प्रदर्श्यते । स्थितिर्हि धर्मायोगमिच्छन्ती तद्धर्ममुपगुह्यावतिष्ठते । सा च तथा प्रवर्तमाना लोकस्य चित्तोन्नतिविशेषं जनयति । ततो भगवतान्यथात्वाख्यया (jaini_105) जरया सहोक्ता श्रीरिव कालकर्ण्यानुबद्धा संवेगानुकूला भविष्यतीत्येषो ऽर्थविषयो दृश्यते । तस्माच्चत्वारि । इतश्च- चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः // अभिध्-d_139 // यदि हि धर्मस्य स्थितिर्न स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात् । अनित्यताग्रस्तस्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात् । क्रियाभावात्फलाभावः स्यात् । फलार्थश्चायमारम्भः । तस्मादास्तिकैर्नास्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम् ॥

चत्वारीति न सिद्ध्यन्ति जराभावात् । भवतु स्थितिः, जरा तु सर्वथा न युज्यते । कथम् ? उक्तं हि-

"तथात्वेन जरासिद्धिरन्यथात्वे ऽन्य एव सः । तस्मान्नैकस्य भावस्य जरा नामोपपद्यते ॥"

तं प्रतीदमुच्यते-

शक्तिहानेर्जरासिद्धिः

उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति । तस्य यदि जरसा शक्तिर्न विहन्येत स द्वितीयमपि फलमाक्षिपेत । न च शक्नोत्याक्षेप्तुम् । तस्माद्गम्यते कश्चिज्जराख्यः शत्रुअस्तं जर्जरीकृत्योपहृतसामर्थ्यमनित्यतापिशाच्याः समर्पयतीति युक्तमुक्तम् ऽशक्तिहानेर्जरासिद्धिःऽ; इति । नैतद्युक्तमुक्तं परिणामदोषप्रसङ्गात् । एवं लघ्वाचक्षाणेन भवता सांख्यीयः परिणामो ऽभ्युपगतो भवति । नाभ्युपगतः, यस्मात्- नान्यत्वात् परिणामिता / अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी । सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्सर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति ।

कथं पुनः क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम्- यस्मादस्याजहदात्मकस्य- एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति // अभिध्-d_140 // येन खलु दार्ढ्येनोपेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद् द्वितीयमप्याक्षिपेत् । न चैनं शक्तिमन्तमनित्यता हिंस्यात् । तस्माद् गम्यते ऽन्यथीभूतो ऽयमनित्यताव्याघ्रीमुखं प्रविशति । इत्येकं फलमाक्षिप्य नश्यतीत्युक्तमेतत्- ऽएककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ।ऽ

न प्रसिद्ध्यति, निर्हेतुकत्वाद्विनाशस्य । ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः । कथम् ? अंकुरवत् । न विनाशस्य विनाशो ऽस्ति, तस्मादहेतुकः । किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः । न च विनाशस्य हेतुरस्ति । तस्मादसौ न पश्चाद्भवतीति । तत्र यदुक्तं जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम् । अत्र प्रत्यवस्थानम्-

सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः / आगमादुपपत्तेश्च विनाशो ऽपि सहेतुकः // अभिध्-d_141 //

सहेतुर्विनाश इति स्थापना । कुतः ? ऽसति जन्मनि तद्भावात् ।ऽ; उक्तं हि भगवता- "अस्मिन् सतीदं भवति । यावदविद्याप्रत्ययाः संस्काराः ।" सति चोत्पत्तिमति विनाशो भवति । तस्मात्सहेतुकः । यस्य पुनरहेतुकस्तस्य प्रागपि जन्मनः सो ऽस्तीति जन्मैव न स्यात्, विरुद्धानामन्यतरोपपत्तेः । तयोरविरोधाद्वा तद्व्यपदेशानुपपत्तिरताद्धर्म्यं च संस्काराणामिति ।

धर्मनास्तित्वमात्रं विनाश इति चेत् । न । तदस्तित्वपूर्वकत्वात् । अस्तित्वपूर्वकं हि तन्नास्तित्वमिति तदपि सहेतुकम् । नास्ति किञ्चित्तदिति चेत् । न । अस्तित्वविरोधानुपपत्तेः । किञ्च, भावविरोधित्वे सत्यभावस्य भवतापत्तेः । अविरोधित्वे भावनित्यत्वप्रसंगादुभयाभावे वाङ्मात्रत्वात् । का चैषा वाचो युक्तिः सति च भवति तद्विशेष्यश्चातद्विरोधी (jaini_108) च । न च किञ्चिदित्येवैषा वाचोयुक्तिरसंबद्धा । निरर्थिका चैषा वाचोयुक्तिः । अतस्ते भावाभावो वाग्वस्तुमात्रम् । प्रतिषेधसामर्थात्प्रतिषेध्यो भावो ऽस्तीति चेत् । नास्ति । शशविषाणवच्छब्दो गडुमात्रत्वात्प्रतिषेधद्वयार्थानुपपत्तेश्च । किञ्च, कारित्रमात्रनाशाच्च । विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नोदेति, नश्यति । तस्मान्नानर्थवान् विनाशशब्दः । कुतश्च ? आगमादुपपत्तेश्च ।

उक्तं हि भगवता- "उत्पन्नानामकुशलानां धर्माणां निरोधाय" इति । तथोक्तम्- "इहैकतीयः प्राणातिपातिको भवति" इति विस्तरः । तथा- "तिस्रः संवर्तन्यो ऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विनश्यन्ते" इति । तथा- "जातिप्रत्ययं जरामरणम्" इति ।

उपपत्तिरपि । जन्मनो ऽप्यहेतुकत्वप्रसंगात् । यदि खल्वसति सद्भावे ऽप्यहेतुको विनाशः, जन्माप्यहेतुकं भवत्विति । तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शनात्, तत्सहेतुकत्वमिति चेत् । न । तद्विनाशे तुल्यत्वात्तस्यापि समर्थहेतुसामग्र्यन्तरसन्निधानाभ्युपगमात् ।

व्याख्यातानि लक्षणानि ॥

नामकायादयो वक्तव्याः । न खलु वक्तव्याः । न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति । तदुपदर्शनार्थमिदमारभ्यते ।

वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः / संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः // अभिध्-d_142 //

विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंगृहीताः । वाक् तु रूपस्कन्धसंगृहीता वाग्गीर्निरुक्तिरित्यर्थः । ते च तदधीनोत्पत्तयो निरुक्त्यधीनार्थप्रवृत्तयश्च (jaini_109) ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः । निरुक्तिः नाम संज्ञा । नार्थानामेकसंज्ञत्वात् । यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तद्वत्ते ऽपि ऽवाक्छब्दाधीनजन्मानःऽ; । अतश्चोक्तम्- "वाङ् नाम्नि प्रवर्तते, नामार्थं द्योतयति ।" इति । वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति । प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वे ऽपि सति तदभिधानानुपपत्तिरिति चेत् । न । शब्दभेदसंचयस्य प्रत्ययत्वे तदभिधानसामर्थ्योपपत्तेः ।

किञ्च, क्रियया च तदस्तित्वं निर्धार्यते । का च सेत्युच्यते । स्वार्थप्रत्यायनं क्रिया । स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः ।

ते पुनर्नामसंज्ञाद्यपरनामानः ।

तत्र नामपर्यायः संज्ञाकरणं यथा घट इति ।

पदपर्यायो वाक्यम् । यथा घटो दृश्यत इति । येन क्रियागुणकालविशेषा गम्यन्त इति क्वचित् । "यावद्भिरर्थवद्भिः पदैर्विवक्षितार्थपरिपूरिर्भवति तावतां समूहः पदम्" इत्याभिधर्मिकाः ।

व्यञ्जनपर्यायो ऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूपलक्षणविमुक्तं त्रैकालिकार्थप्रत्यायनसमर्थं मनोवद प्रतिहतगमनमिति ।

न, असिद्धत्वात् । न खलु वाक्छब्दादन्ये नामादयः सिद्ध्यन्ति । वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरर्थं प्रत्याययतीति किमन्यैर्नामादिभिः परिकल्पितैः ? तत्रेदं प्रत्यवस्थीयते- अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् / शब्दो हिपरमाणुसंचयः । स प्राप्यार्थं प्रकाशयेत्, प्रदीपवत् । नाजातध्वस्तस्वर्गादिदेशस्थानर्थान् प्राप्तुं शक्नोति । तस्मात्प्रतिपद्यस्व न शब्दो ऽर्थं प्रत्यायतीति । इतश्च क्रमयौगपद्यप्रत्यायनासंभवात् । कथम् ? बल्वजवत् । इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थानि संभूय रज्ज्वात्मनावस्थितानि दार्वाद्याकर्षणक्रियासामर्थ्योपेतानि भवन्ति । न चैवं वाक्यात्मानः शब्दाः बुद्ध्युपगृहोतावयवसमुदायसंक्षेपाः क्रमलब्धजन्मानः प्रत्येकमर्थप्रत्यायनसमर्थाः, नापि संभूय प्रत्याययन्ति, संभूयानवस्थानाद् बल्वजवत् । तस्मात्क्रमयौगपद्यात्प्रत्यायनासंभवान्न शब्दाः कञ्चिदर्थं प्रत्याययन्तीति सिद्धम् ।

इतश्च, प्रत्याय्यप्रत्यायकादिसंबन्धानुपपत्तेः । कथम् ? प्रदीपवत् । तद्यथा प्रदीपस्तमसि घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शनार्थिभिरुपादीयते न च कश्चिच्छब्दः कस्मिंश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति ।

तत्र तावत् । न प्रदीपस्येव प्रत्याय्यप्रत्यायकसंबन्धो ऽस्ति । अकृतसंकेतस्याप्रत्यायनात् । नापि संयोगाख्यः संबन्धो ऽस्ति सदसतोस्तदनुपपत्तेः । गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः । अत एवाकाशगुणत्वाच्चेति कश्चित् । तस्मात्प्रत्याय्यप्रत्यायनादिसंबन्धानुपपत्तेः यदगदिष्म न शब्दो ऽर्थं प्रत्याययतीति तत्सम्यगभ्यधामेति ।

सामयिकः शब्दो ऽर्थप्रत्यायनलिङ्गमिति चेत् । न । साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयौगपद्यप्रत्यायनानुपपत्तेश्च । प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत् । न । तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च । संस्कार इति चेत् । न । असिद्धत्वादुक्तोत्तरत्वाच्च । यादृच्छिकसंवृत्तिशब्दमात्राभ्युपगमे वक्ष्यमाणदोषप्रसंगाच्चेति ।

किं पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ?

अनित्यास्ते तु विज्ञेयाः

तु शब्दो ऽनित्यत्ववादविशेष । र्थो हेतुः । क इति चेत् । सो ऽयमुच्यते- सापेक्षार्थविभावनात् // अभिध्-d_143 // कथम् ? ज्ञानवत् । तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयो ऽपि घोषादीन् हेतूनपेक्ष्यार्थं प्रत्याययन्ति । तस्मात्सापेक्षप्रत्यायनादनित्या इति ॥

यदि तर्हि नामादयो ऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते- ऽशब्दो ऽर्थं प्रत्याययतिऽ; इति ? तदत्राभिधीयते-

स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् / अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते // अभिध्-d_144 //

आञ्जसा हि वाङ् नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः । नाम त्वर्थं द्योतयतीति प्रतिवर्णानुवर्तिनो वाक् खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयार्थं प्रत्याययतीत्यपदिश्यते । न त्वर्थः शब्दवाच्यो द्योत्यो वा ।

इतश्च न शब्दो ऽर्थं प्रत्याययति । यस्मात्- परमाणुस्वभावत्वाद् घोषैकत्वं न युज्यते / "एदैतौ कण्ठतालव्यौ" इति प्रतिज्ञायते । न चैकस्याणुवचनस्य विश्लिष्टस्थानद्वये वृत्तिरुपपद्यते । परमाणुसंघातस्य तूपपद्यते । परमाणवो ऽपि प्रत्येकं न प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति । समुदायो ऽपि मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्यध्यवसीयते । (jaini_112) न चार्थान्तरं समुदायिभ्यः समुदायो ऽस्ति । स कथमर्थं प्रत्याययिष्यतीति । अतीतवर्णसमुदायस्त्वन्त्यवर्णापेक्षो मनोबुद्ध्योपगृहीतस्वरूपः संबन्धिन्यर्थे बुद्धिमुत्पादयन् प्रत्याययतीति युक्तरूपो व्यपदेशः ।

अत्र मीमांसकवैय्याकरणौ प्रत्याचक्षाते । नासिद्धत्वात् । न खलु शब्दस्य परमाणुमयत्वं सिद्धम् । तस्मादनुत्तरमेतत् । तौ प्रत्यभिधीयते ।

तादात्म्यं प्रतिघातित्वात्

प्रतिहन्यते खलु शब्दः प्राकारभित्त्यादिषु तस्मात्प्रतिघाती शब्द इति । न । असिद्धम् । सिद्धसाधनादसिद्धेः । यत्खलु भवता प्रतिघातित्वेनाप्रसिद्धं परमाणुमयत्वं साध्यत इत्यसदेतत् । तत्रेदं प्रत्यवस्थीयते । तत्सिद्धिर्वरणादिभिः // अभिध्-d_145 // आलाङ्गलग्राहेभ्यः सिद्धमेतद्गर्भगृहान्तर्गतेन पिहिते कवाटे ऽभिहन्यमानाः पटहाः ध्माप्यमानाश्च शंखा न श्रूयन्ते । हूणनाडोनिर्घोषेण च नगरप्राकाराणि पात्यन्ते । तस्मात्सिद्धेन जाल्मजेनासिद्धस्य साधनमिदमाविष्क्रियते नासिद्धेनेति ।

यदप्युच्यते स्फोटः शब्दो ध्वनिः शब्दगुण इति तत्रापदिश्यते- स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति / तस्माद्ध्धनिः शब्दः स्फोट इत्यनर्थान्तरम् । यथा हस्तः करः पाणिरिति लोकप्रसिद्धमेतत् । तस्मात्- क्रमवृत्तेर्न शब्देन कश्चिदर्थो ऽभिधीयते // अभिध्-d_146 // इति प्रागाविष्कृतमेतत् । तन्मा प्रमोषीः ॥

यदप्युच्यते वैयाकरणैः शब्दो बुद्धिनिर्ग्राह्य एष वैशेषिकैरपि श्रोत्रग्राह्यः, शब्दस्यान्यत्वे ऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति । तयोरिदमुच्यते-

न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः / यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत् // अभिध्-d_147 //

इति । तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः । ततश्चान्ये नामादयः सर्वार्थविषया इति स्थापना । प्रतिद्योत्यं यथायोगं नियतानियताश्च ते / तत्र य आर्यया निरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयसंबन्धाः, लौकिक्याश्च केचिन्नियताभिधेया निरुच्यन्ते । उभये ऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति । ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते ह्यनियता यदृच्छिका इत्युच्यन्ते । तद्यथा डित्थडवित्थादयः ।

प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति । उक्तं हि भगवता- "तथागतानामुत्पादान्नामपदव्यञ्जनकायानामुत्पादो भवति" इत्येतस्मात्- नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते // अभिध्-d_148 // ये ह्यपौरूषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव । तदवबोधाच्च भगवान्सर्वज्ञ इत्यभिधीयते । ते पुनरेते- सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा / सत्त्वाख्या ह्येते । यश्च द्योतयति स तैः समन्वागतः । न यो द्योत्यते । (jaini_114) कामाप्ताः रूपाप्ताश्चैते वाक्छब्दाधीनजन्मत्वात् । नैष्यन्दिका अनिवृताव्याकृताश्चैव ।

यथा चैते नामादयः तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा // अभिध्-d_149 // अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥

द्वितीयो ऽध्यायः समाप्तः ॥

तृतीयो ऽध्यायः ।

चतुर्थपादः ।

................ । द्वितीयं द्वितीयस्याः । तृतीयं तृतीयस्याः । वायुसंवर्तन्याश्चतुर्थध्यानं शीर्षमिति ।

अत्राह- चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते-

सत्त्वाख्योपद्रवाभावान्न चतुर्थे ऽस्ति सूत्रतः / विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः // अभिध्-d_150 //

चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्यन्ते तस्मान्न संवर्तनो उत्पाद्यते । प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतौ विद्येते । द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी । तृतीये ध्याने आश्वासप्रश्वासा (jaini_116) वाय्वात्मकाः । इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतो ऽपक्षालस्तथाभूतेन बाह्येन विनाशः । चतुर्थे तु बाह्यो ऽपक्षालो न प्रवर्तत इति नास्ति संवर्तनी । नित्यं तर्हि चतुर्थध्यानं प्राप्यम् । कस्मात् ? ऽविमानस्य समत्वस्यऽ; कर्मक्षयेनऽप्रध्वंसात्ऽ; इति ॥

कथं पुनरेताः संवर्तन्यः कया वानुपूर्व्या भवन्ति ? तदुच्यते । निरन्तरं तावत्-

सप्त तेजोभिरेकाद्भिर्गते ऽद्भिः सप्तके पुनः / तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः // अभिध्-d_151 //

सप्त संवर्तन्यस्तेजोभिः भवन्ति । अष्ठमो ऽपाम् । एवं सप्तको भवति । तस्मिन् सप्तके ऽतिक्रान्ते पुनस्तेजसा सप्तकः । तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया नाशो भवति । सा तु नित्यं तेजसः सप्तकपृष्ठे वायुसंवर्तनी भवति । त एते पिण्डेन भवन्ति षट्पञ्चाशत् तेजःसंवर्तन्यः, सप्ताप्संवर्तन्यः, एका वायुसंवर्तनी ॥

किं पुनस्तत्र कारणं यत्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते-

आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् / आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् // अभिध्-d_152 //

एवं च कृत्वा प्रज्ञप्तिभाष्यमनुलोमितं भवति- "चतुःषष्ठिःकल्पाः शुभकृत्स्नानां देवनामायुष्प्रमाणम्" इति ॥

अथ कस्मात् पृथिवीसंवर्तनी न भवति ? तदत्र कारणमुच्यते-

वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः / आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता // अभिध्-d_153 //

यथा खलु वातपित्तश्लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्निजलवायुभिर्भूरूत्साद्यते । किञ्च, एते तद्विनाशकाः .............तन्नाशाय प्रवृत्तत्वात् । किञ्च, ऽआध्यात्मिकेति सारूप्याच्चऽ; । यथा चाध्यात्मिक्यस्त्रिस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्वासप्रश्वासलक्षणैस्तथा बाह्या अप्युपद्रवा वह्न्यम्भोवायुप्रकोपलक्षणा भवन्तीति ॥

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्यचतुर्थः पादः समाप्तः ॥

तृतीयो ऽध्यायः समाप्तः ॥

चतुर्थो ऽध्यायः ।

प्रथमः पादः ।

अथ यदुक्तं "सत्त्वकर्मद्विधाख्येन पूरितं वायुमण्डलम्" इत्येतदुच्यताम् । कानि तानि कियन्ति वा कर्माणीत्यतः कर्माणि प्रस्तूयन्ते ।

सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् / लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते // अभिध्-d_154 //

दृश्यते खलु सत्त्वानां हीनमध्योप्कृष्टजातिपरिग्रहायामाश्रयभोगादिसम्पद्विपत्तिश्च । यच्च द्विविधस्य लोकस्य विचित्रता तत्र कर्माणि हेतुः । अतस्तेषां तत्त्वानि वक्ष्यामि । यदप्युक्तं कानि कियन्ति वेति तदुपव्याख्यायते ॥

सूत्रे द्वे कर्मणी निदिश्योक्तम्- "द्वे कर्मणी चेतना कर्म चेतयित्वा च" इति । तानि पुनस्त्रीण्युक्तानि । कथम् ?

कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् / कर्माण्येतानि लोकस्य कारणं नेश्वरादयः // अभिध्-d_155 //

एतानि खलु त्रीणि कर्माणि शुभाशुभानि द्विविधस्यापि सत्त्वभाजनलोकस्य हिताहितनिमित्तान्युत्पत्तौ च सम्पत्तौ च वैचित्र्यस्य च कारणम् । नेश्वरकालपुरुषप्रधानादयः ॥

तत्र तावद्यथा नेश्वरः कारणं तथा पूर्वमुल्लिखितम्, इदानीं तु विस्पष्टतरमाविष्क्रियते- वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः / यदि खल्वेको नित्यश्चेश्वरो लोकस्योत्पत्तिस्थितिप्रलयकारणं स्यात्, तेन खलु कारणानुविधायित्वात्कार्यस्यैतत् त्रयं विरुद्धं युगपत् स्यात् । न चैतद् दृष्टमिष्टं वेत्यसदेतत् । किञ्च लोकश्चाप्यविचित्रः स्यात् । युगपच्चोत्पद्येत नग्नः कपालपाणिश्च पर्यटेत्तदिच्छानुविधायी च स्यात् । न चैतदेवम् । तस्मान्नेश्वरः कारणम् ।

ग्रामाद्यधिपतिविशेषोत्कर्षावस्थानादीश्वरप्रसिद्धिरिति चेत् । न । ग्रामाधिकृतादिह परतन्त्रत्वानित्यत्वकार्यान्तरशक्तिविघातादिदर्शनात्, गोमयपिण्डोपमसूत्रोक्तेश्च ।

भागवतादितन्निन्दादर्शनाच्च । भागवताद्या हि महेश्वरं निन्द्यन्तो दृश्यन्ते । माहेश्वराश्च विष्णुमिति ।

कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत् । तत्रापदिश्यते । नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः // अभिध्-d_156 // यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्वर्यश्च लोकं सृजति कुम्भकारबद्धटादीन् । न । चेवं सति पूर्वपक्षोत्सर्गः कृतो भवति । यदुक्तं नित्यश्चैकश्च स्वतन्त्रः कारणमिति तद्धीनम् । तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति । तदभ्युपगमाच्चानैश्वर्यमिति । एतेन कालपुरुषप्रधानादिकारणपरिग्रहाः प्रत्यूढा वेदितव्याः ।

यदि खलु कर्म कारणं नेश्वरादयः कथं तर्हि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रूमः-

कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः / यतो ऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते // अभिध्-d_157 //

यथोक्तम्- "विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्मदैवम् । पुण्यानि भाग्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥"

किञ्च, यतश्च

"ग्रहयोगो भुजास्पन्दः स्वप्नः पूर्णघटादयः । सूचयन्ति नृणामेते वृत्तिलाभं स्वकर्मणः ॥"

इत्यतो ऽपि तेषु ताच्छब्द्यं प्रयुज्यत इति ॥

कथं पुनरेषां त्रयाणां कर्मणां व्यवस्थानम् ? यद्याश्रयतः, सर्वेषां कायाश्रितत्वादेकत्वम् । स्वभावतश्चेत्, वाक्कर्मैवैकं प्राप्तम् । समुत्थानतश्चेत्, मनःकर्मैकं प्राप्तम् । सर्वेषां मनसोत्थापितत्वात् । त्रिभिरपीति वैभाषिकाः ॥

ते पुनरेते प्रथमे द्वे कर्मणी प्रत्येकं द्विप्रभेदे । कथम् ? तदपदिश्यते-

पूर्वे विज्ञप्त्यविज्ञप्ती

कायकर्म खलु कायविज्ञप्तिः कायाविज्ञप्तिश्च । वाक्कर्मापि वाग्विज्ञप्तिर्वागविज्ञप्तिश्च । तृतीयं तु कर्म- चेतना मानसी क्रिया // अभिध्-d_158 // उक्तं हि भगवता- "चेतना कर्म चेतयित्वा ।" तत्पुनस्त्रिधोक्तम्- "कायकर्म वाक्कर्म मनस्कर्म च" इति ।

किं स्वभावं पुनरिदं कायकर्म किं तावत्कायस्वभावम् ? यथा वाक्कर्म (jaini_122) वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदाह । ..............

अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः

चतुर्थाध्याये

द्वितीयपादः ।

..................पराभवन्तीत्यपदिश्यते ।

अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता / पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः // अभिध्-d_159 //

संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः / एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न // अभिध्-d_160 //

दृष्टिसम्पद्विशुद्धा खलु शईलसम्पत् ऽभिक्षुत्वं परमार्थतः । अन्यतरविकलस्तु संवृत्या भिक्षुर्भवति । द्व्यङ्गविकलस्तु नापि संवृत्या नानि परमार्थत इति ।

यदि खलु विना संवरेणाष्टौ निकाया न व्यवस्थाप्यन्ते कथं तर्हि (jaini_124) भगवतोक्तैः- "एकदेशकारी, प्रदेशकारी, यद्भूयस्कारी, परिपूर्णकारी" इत्यत्राप्ययमर्थो दृश्यते ? कश्चित्खल्वकार्यैकदेशविरतिक्षमो भवति । कश्चिद्यावत्समग्रदौःशील्यविरतिक्षमः । इत्यतो भगवानकार्यैकदेशविरत्याप्युपासकत्वं (jaini_125) शास्ति । न हि सर्वशीलविकलः कश्चिच्छरणगमनेच्छामात्रकेणोपासको भवति षडङ्गोषधैकद्व्यङ्गवैकल्योपयोगवदिति ।

अथ यदुक्तम्- "बुद्धं धर्मं संघं शरणं गच्छति" इति तत्क एते बुद्धादयः ? तदिदमभिधीयते-

विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना / तदाश्रये फले चापि विज्ञेया गुणकल्पना // अभिध्-d_161 //

द्विविधः खलु बुद्धः संवृत्या परमार्थतश्च । तत्र परमार्थतो यथोक्तं शास्त्रे- "यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ बुद्धकारकानशैक्षान्धर्माञ्छरणं गच्छति । ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम् ।" इति । तेभ्यो ऽपि निरावरणं ज्ञानं प्रधानं सर्वज्ञ इति लोकप्रसिद्ध एष तावत् पारमार्थिको बुद्धः । संवृत्यापि ऽतदाश्रयेऽ; द्वात्रिशता लक्षणैरशीत्या चानुव्यञ्जनैर्विराजिते रूपकाये ऽपि बुद्धाख्येति । तत्फले च बलवैशारद्यमहाकरुणादिषु बुद्धोक्तिरिति ।

शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः / मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते // अभिध्-d_162 //

नित्याविकृतस्वलक्षणधारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमार्थिको धर्मः । गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः । त्रीणि च पिटकानि धर्मो निर्वाणप्रापकत्वात् ॥ आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः / नवानामशैक्षाणामष्टादशानां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते । संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते । एतान्यो याति शरणं स याति शरणत्रयम् // अभिध्-d_163 // एतान्यथोक्तलक्षणान् बुद्धधर्मसंधान् शरणं गच्छति ऽयो याति शरणत्रयम्ऽ; इति ॥

किं स्वभावानि पुनः शरणगमनानि ? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि ॥

कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः । तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात् । उक्तं हि भगवता-

"बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥

न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥

यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥

दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं चाष्टांगिकं मार्गं क्षेमं निर्वाणगामिनम् ॥

एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥" इति ।

अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात् ।

किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात् ? अन्येभ्यश्च प्रकृतिसावद्येभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षपणसावद्येभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते- मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः /पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू // अभिध्-d_164 // काममिथ्याचारो हि लोके ऽत्यर्थं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । न तथाब्रह्मचर्यम् । सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात् । आर्यश्चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितो ऽपि लभते न त्वब्रह्मचर्यात् ।

मृषावादो ऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः- "यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कौकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि" इति ।

मद्यपाने ऽपि स्मृतिलोपो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षेपणसावद्यमपि सन्मद्यपानं कुशाग्रेणापि भगवता नाभ्यनुज्ञातम् ॥

इदमिदानीमुच्यताम् । य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रूमः- सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्यो ऽपि कामजः / प्रातिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते । ऽद्विविधेभ्यो ऽपिऽ; सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च । त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ // अभिध्-d_165 // एतौ हि मौलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते ऽतीतानागतेभ्यो ऽपि ।

चतुष्कोटिका चात्र भवति । "सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ" इति विस्तरः । प्रथमा कोटिः- प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । द्वितीयाअतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया- प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः । चतुर्थी- अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ॥

किं पुनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणैश्च ? अथास्ति कश्चिद्भेदः ? तत्र तावदवश्यं लभ्यते-

सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः / सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः // अभिध्-d_166 //

सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्चित् । अङ्गेभ्यस्तु विभाषा कश्चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततो ऽन्यः । कर्मपथा हि संवराभ्याङ्गानि । कारणैरपि केनचित्पर्यायेण सर्वैः, केनचिदेकेन ।

कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्चिमेन पर्यायेण नियमोच्यते । अस्ति संवरस्थायो सर्वसत्त्वेषु संवृतो न सर्वाङ्गैर्न सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामणेरसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्च, न तु सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु सर्वाङ्गैः सर्वकारणैश्च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते । अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैर्य उपासकोपवासश्रामणेरसवरान्मृदुमध्याधिमात्रैश्चित्तैः समादत्ते । यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात् ।

पञ्चनियमान् कुर्वन् प्रातिमोक्षसंवरं लभते । सत्त्वाङ्गदेशकालसमयमियमाः- अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । अमुष्मादङ्गादित्यङ्गनियमः । अमुष्मिन्देश इति देशनियमः । मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः ।

कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । उक्तं यथा संवरो लभ्यते ॥

असंवरो ऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्च न तु सर्वकारणैः, युगपन्मृद्वादिचित्ताभावात् ।

के पुनरसांवरिकाः ? औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुन्तिका (jaini_131) मात्सिका मृगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धाश्वपाका वागुरिकाश्च । राजानो दण्डनेतारो व्यावहारिकाश्च नीतिचलिता असावरिकाः । असंवरे भवाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः ॥

उक्तमिदं येभ्यः असंवरो लभ्यते । कथं तु तल्लाभ इति नोक्तं तदा रभ्यते-

क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा / अविज्ञप्तिरतो ऽन्यस्याः क्षेत्राङ्गादिविशेषतः // अभिध्-d_167 //

द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । क्रिययाभ्युपगमेन वा । क्रियया तत्कुलीनतत्कर्माभ्युपगमात् । अतत्कुलीनैर्वयमप्यनया जीविकया जीविष्याम इति । शेषाविज्ञप्तिलाभस्तु क्षेत्राङ्गविशेषादिति । क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । आदरेण वा समादत्ते । बुद्धमवन्दित्वा न भोक्ष्य इति । मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि । आदरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्या विज्ञप्तिरुत्पद्यते ।

उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः ॥

त्याग इदानीं वक्तव्यः । तत्र तावत्-

कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः / पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः // अभिध्-d_168 //

कामाप्तस्याष्टप्रकारसंवरस्य पञ्चभिः कारणैस्त्यागः । शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो निशात्ययेनाष्टमस्य । तान्येतान्यभिसमस्य पञ्च भवन्ति ।

किं पुनः कारणमेभिस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च ।

अन्ये पुनराहुः- चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्यागः ।" ऽतन्नऽ; इति, ऽअयोगतःऽ; ।

कः पुनरयोगः ? अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति / न ह्यवयवनाशादवयविविनाशो भवति । अवयविरूपश्च प्रातिमोक्षसंवरः । तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च । यथोक्तं भगवता- "दुःशीलो भवति पापधर्मा ।"

सूत्रविरोधादयुक्तमिति चेदत्रोपदिशन्ति- सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु // अभिध्-d_169 // भगवतात्र "अभिक्षुर्भवति" इति शासनस्थित्यर्थं दुर्वृत्तविनेयावसादनार्थं चोक्तम् । यथा- "ईर्ष्यिको भवति मत्सरी शठो मायावी मिथ्यादृष्टिरित्येवमादिदोषयुक्तः कशम्बकजातीयः पापभिक्षुर्निर्वासयितव्यः ।" न च चित्ताविदूषणादभिक्षुत्वं भवति विनेयशासनार्थतत्त्वविद्भिरित्युक्तम् । तद्वदत्रापि द्रष्टव्यमिति ।

तस्मात्पूर्वोक्तलक्षण एव भिक्षुर्न यथाह कोशकारः । सद्धर्मान्तर्द्धितो ऽन्ये ऽन्ये नापूर्वाप्रतिलम्भतः / अन्ये पुनर्ब्रूवते- सद्धर्मान्तर्धाने ऽपि संवरत्यागो भवति । तत्तु नैवम् । यस्मादपूर्वस्तदा नोत्पद्यते । उत्पन्नस्तु यथोक्तै रेव कारणैर्विनश्यति ॥

अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते- भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् // अभिध्-d_170 // सर्वमेव खलु ध्यानाप्तं कुशलं द्व्याभ्यां कारणाभ्यां त्यज्यते । उपपत्तित्तो वा भूमिसंचारादर्ध्वं वाधो वा । परिहाणितो वा । समापत्तेर्निकायसभागत्यागाच्चेति ॥ तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः / यथैव रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते तथैवारूप्याप्तम् । आर्यं तु कुशलं त्रिभिः कारणस्त्यज्यते । फलप्राप्तितः पूर्वको मार्गस्त्यज्यते । (jaini_135) अक्षोत्तापनेन मृद्विन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । फलं फलविशिष्टो वा । एवं तावत्संवरस्त्यज्यते । असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः // अभिध्-d_171 // त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । यदि संवरं समापद्यते ध्यानसंवरं वा प्रतिलभते हेतुप्रत्ययबलेनसमाधिलाभात्तेनासंवरस्त्याज्यते । प्रतिद्वन्द्वबलीयस्त्वात् । मरणेन चाश्रयत्यागात् । द्विव्यञ्जनोत्पादेन चाश्रयविकोपनात् । शस्त्रजलत्यागे ऽप्यकरणाशयतः संवरमन्तरेणासंवरच्छेदो नास्ति । निदानपरिवर्जनेन प्रवृद्धरोगानिवृत्तिवत् ॥

अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ? तदुच्यते- चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा / येन खल्वसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता तस्य विच्छेदात्सापि विच्छिद्यते, कुम्भकारचक्रगतिवत् । समादानत्यागादपि विच्छिद्यते । क्रियाविच्छेदादपि विच्छिद्यते । चैत्यविहारक्षेत्रादेरप्यर्थस्य विच्छेदाद्विच्छिद्यते । आयुषो ऽपि कुशलमूलानामपि विच्छेदाद्विच्छिद्यते । कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः // अभिध्-d_172 // कामावचरं पुनः कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां त्यज्यते । कुशलमूलसमुच्छेदात्, रूपारूप्यधातूपपत्तितश्च । प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते / क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गः, तेनासौ सपरिवारः परित्यज्यते । नान्यथा ॥

अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ? तदपदिश्यते- सर्वे कामेषु रूपे द्वावेको ऽरूपिषु लाभतः // अभिध्-d_173 // कामेषु खलु सर्वशण्ढपण्डकादीनि हित्वा कुरूंश्च हित्वा । देवानामपि संवरः । इत्यतो गतिद्वये संवरासंवरौ विद्येते । नान्यत्रेति ॥

कर्माधिकारादिदानीं सू त्रोक्तोद्दिष्टानां कर्मणां निर्देशं करिष्यामः । उक्तं हि सूत्रे- "त्रीणि कर्माणि कुशलमकुशलमव्याकृतं च ।" तेषां लक्षणमिदमुच्यते-

यदिष्टफलदं कर्म कुशलं तदुदाहृतम् / विपर्ययेणाकुशलमव्याकृतमतो ऽन्यथा // अभिध्-d_174 //

यत्खल्विष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात्, तत्कालमत्यन्तं वा, तत्कुशलम् । निरुक्तिरपीयम् । निरवद्यदेवमनुष्यस्त्रीरूपनिर्वर्तनाच्छिक्षितचित्रकररूपनिर्वर्तनवत् । कुशलमिव कुशलमौपमिको ऽयं शब्दनिवेशः । तद्यथा शिक्षितः पुरुषः कुशानक्षतहस्तो लुनाति स कुशल इति निरुच्यते, तद्वदन्यामपि क्रियामविकृतां संपादयन् कुशल (jaini_137) इत्युच्यते । ऽविपर्ययेणाकुशलम्ऽ; उष्ट्रोलूकादिवत् । ऽअव्याकृतमतो ऽन्यथाऽ; उभयविपाकानिर्वर्तनात् ॥

अन्यान्यपि त्रीणि कर्माण्युक्तानि । पुण्यमपुण्यमानेज्यं च । तत्र तावत्

कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् / ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात् // अभिध्-d_175 //

कामावचरं हि कुशलं कर्म पुण्यमकुशलमपुण्यमित्युच्यते । ऊर्ध्वभूमिकमानेज्यम् ।ऽ; तदूर्ध्वं धातुद्वये शुभं कर्मानेज्यमित्युच्यते । कस्मात्पुनरेतदानेज्यमित्युक्तम् ? ऽविपाकं प्रत्यनेजनात् ।ऽ; कामावचरं हि कर्म विपाकं (jaini_138) प्रति कम्पते लवणोपमसूत्रण्यायेन । कथम् ? अव्यवस्थानात् । अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । तदन्यदेवनैकायिकं चान्यत्र देवनिकाये । यदेव हि प्रमाणबलवर्णसुखभोगादिसंवर्तनीयं कर्म देवेषु विपच्येत तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते । कर्मजातिचोदनेयं भगवतो विवक्षिता न द्रव्यचोदनेति ।

अत्राह । ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता- "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुः" इत्येवमादि ? समाध्यपक्षालांस्तेषां सन्धायैवमुक्तम् । आनेज्यान्यपि तु तान्युक्तान्यानेज्यसूत्रे, आनेज्यसंप्रेयगामिनीं प्रतिपदमारभ्य ॥

पुनरन्यानि त्रीणि कर्माण्युक्तानि- "सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च ।" तत्र

सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् / उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् // अभिध्-d_176 //

तत्र शुभं कर्म यावत्तृतीये ध्याने सुखवेद्यमित्युच्यते । एतावती खलु भूमिः सुखाया वेदनायाः । तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते । अकुशलं तु कर्म दुःखवेदनीयमित्युच्यते ।

किं पुनर्वेदनैव विपाकः ? नेत्याह । प्राधानिको ऽयं र्निर्देशः । सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम् । दार्ष्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म । आभिधार्मिकानां तु पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्च विपाक इति ।

कथं पुनरवेदनास्वभावं कर्म सुखवेदनीयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम् । सुखास्या वेदनीयो विपाक इति वा ।

किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते । किं तर्हि?

अधो ऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः / युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः // अभिध्-d_177 //

अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधो ऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने । परिनिर्वृते उपेक्षायां च स्थितः परिनिर्वाति । किञ्च, ऽयुगपत् त्रिविपाकेष्टेः ।ऽ; उक्तं हि- "स्यात् त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ताः" इति । अतो ऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म । किञ्च, ऽध्यानान्तरविपाकतः ।ऽ; नहि ध्यानान्तरे उपेक्षामन्तरेण विपाको ऽन्या वेदना विपच्यते । तत्र सुखदुःखयोरभावात् ॥ पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः / तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च । तत्र नियतवेदनीयं त्रिविधम् । दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं च- इत्येतत् त्रिविधं कर्म नियतवेदनीयम् । चतुर्थमनियतवेदनीयम् ।

तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते । उपपद्यवेदनीयं यद् द्वितीये जन्मनि । अपरपर्यायवेदनीयं तस्मात्परेण ।

अतः पुनश्चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते? जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते // अभिध्-d_178 // न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ॥

अथ कस्मिन्धातौ कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ?

चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते / न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते // अभिध्-d_179 //

सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च । नरकान्वर्जयित्वा । नरकेषु हि दृष्टधर्मवेदनीयं कुशलं नाक्षिप्यते । तत्रेष्टविपाकाभावादन्यत् त्रिविधमाक्षिप्यते । किञ्च,

नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः / स्थिरो नापरकृच्चार्यश्चलो ऽपि भवमूलयोः // अभिध्-d_180 //

यतः खलु भूमेर्विरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेद्यं कर्म नाक्षिपति । त्रिविधमन्यत्करोति । आर्यपुद्गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति । न ह्यसौ भव्यः पुनरधरिमं भूमिमायातुम् । अनियतं तु कुर्याद् दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च । परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्तुम् । किं कारणम् ? फलाद्ध्यसौ परिहीणो भवति । न चास्ति फलपरिहीणस्य कालक्रियेति ।

अथ किमन्तराभविकः कर्माक्षिपति नाक्षिपति ? आक्षिपतीत्याह । (jaini_143) तत्र कामावचरो ऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति । पञ्च गर्भावस्थाः कललार्बुदघनपेशीप्रशाखावस्थाः । पञ्च जातावस्थाः । बाल्यकौमारयुवमध्यमस्थविरावस्थाः । ता एता नियतानियतभेदेन विंशतिराक्षिप्यन्ते, एकनिकायत्वात् । अत एवान्तराभववेदनीयं कर्म नोक्तम् । उपपद्यवेदनीयेनैव तस्याक्षेपात् ॥

कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ?

यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते / सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते // अभिध्-d_181 //

यदि कर्म रौद्रेण तीव्रक्लेशानुगतेन चित्तेन कृतं भवति, यच्च घनश्रद्धासलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्यभीक्ष्णं निषेव्यते, यच्च किञ्चिद्गुणवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते ॥

अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते-

क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते / निरोधव्युत्थितादौ च सद्यः कालफलक्रिया // अभिध्-d_182 //

तत्र क्षेत्रविशेषाद्यथा द(?) क्षजातकादिषु । आशयविशेषाद्यथा बकलात(?) स्योक्षनिर्मोचनादिषु ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.