Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
तर्कसोपान
- Tác giả
- विद्याकरशान्ति
- Thông tin
- GRETIL — Giuseppe Tucci in: Minor Buddhist Texts, Part I. Roma 1956 (Serie Orientale Roma, 9), pp. 275-310.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
विद्याकरशान्ति: तर्कसोपान
विद्याकरशान्ति: तर्कसोपान
नमो मञ्जुश्रिये //
संसारसरसि कोलतुइयम् अज्ञानभेदिनः / स्मरणंमे हेवज्रस्य वर्ततां हृदि वश्चिरम् //
1. हिताहितप्राप्तिपरिहारहेतुर् नियमेन प्रमाणम् इति संक्षेपतस् तद् व्युत्पाद्यते // प्रमाणम् अविसंवादि ज्ञानम् / विसंवदनं विसंवादः / न विसंवादो ऽविसंवादः / स यस्यास्ति तद् अविसंवादि / संवाद्य् एवेत्यर्थः // अविसंवादः पुनर् उपदर्शितार्थप्रतिबद्धार्थक्रियाप्रापणम् / प्रापणम् अपि प्रापकत्वं तद्योग्यता च / अव्यवहितायाम् अर्थक्रियायां प्रमाणस्य प्रापकत्वम् एव / व्यवहितायां प्रवर्तकत्वम् अपि / प्रापकत्वं चोपदर्शकत्वम् एव / करणधर्मस्योपदर्शकत्वस्य ग्रहणाद् गृहीतग्रहिणाम् अकरणत्वेन व्युदासान् नातिव्यापिता / अत एवाचार्यो धर्मोत्तरो ऽप्य् आह // येनैव प्रथमम् उपदर्शितार्थस् तेनैव प्रवर्तितः पुरुषः प्रापितश् चार्थः किम् अन्येनाधिकं कार्यम् / मरीचिकाजलज्ञानादीन्य् उपदर्शितार्थप्रतिबद्धार्थक्रियाप्रापणासंभवाद् एव निरस्तानीति / ज्ञानग्रहणेन चाज्ञानस्य इन्द्रियादेर् निरासः / करणविहितप्रत्ययेन च गृहीतग्राहिणः / तेन यद् अभिमतार्थक्रियासमर्थार्थप्रापणयोग्यम् अपूर्वविषयं ज्ञानं तत् प्रमाणम् //
2. तद् द्विविधम् / प्रत्यक्षम् अनुमानं च /
3. प्रतिगतम् आश्रितम् अक्षं प्रत्यक्षम् / अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः // प्राप्तापन्नालङ्गतिसमासेषु परवल् लिङ्गप्रतिषेधः / तेन प्रत्यक्षः प्रत्ययः प्रत्यक्षा बुद्धिः / प्रत्यक्षं ज्ञानम् इति सिद्धं भवति / अक्षाश्रितत्वं च प्रत्यक्षस्य व्युत्पत्तिमात्रनिमित्तं / प्रवृत्तिनिमित्तं तु साक्षात्करणम् एव / तेन यत् किंचिद् विषयस्य साक्षात्कारि ज्ञानं तत् सर्वं प्रत्यक्षशब्दवाच्यं सिध्यति / मीयते ऽनेनेति मानम् / लिङ्गग्रहणसंबन्धस्मरणयोः पश्चान्मानम् अनुमानम् / एतच् च रूढिवशाल् लभ्यते / तेन धर्मिविशेषवर्ति लिङ्गं दृष्टवतो इइङ्गलिङ्गिनोश् च संबन्धं स्मृतवतो यतः परोक्षवस्त्वालम्बनं ज्ञानम् उत्पद्यते तद् अनुमानशब्देनाभिधीयते //
4. चकारः प्रत्यक्षानुमानयोस् तुल्यबलत्वं समुच्चिनोति / यथार्थाविनाभावित्वात् प्रत्यक्षं प्रमाणम् / तथानुमानम् अप्य् अर्थाविनाभावि प्रमाणम् इति तद् उक्तम् //
अर्थस्यासंभवे ऽभावात् प्रत्यक्षे ऽपि प्रमाणता / प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् इति //
अनेनैव तुल्यबलत्वख्यापनेन यद् अपि मीमांसकैर् उक्तं सर्वप्रमाणानां प्रत्यक्षम् एव ज्येष्ठं तत्पूर्वकत्वाद् अनुमानादेर् इति तद् अपि निरस्तम् // आत्मसत्तालाभे सर्वप्रमाणानां स्वकारणापेक्षत्वान् (ts 77) न ज्येष्ठेतरभावकल्पना साध्वीति / एवं प्रत्यक्षानुमानभेदेन द्विप्रकारम् एव प्रमाणं //
5. द्विविधवचनेनैकं प्रमाणं त्रीणि चत्वारि पञ्च षद् इति विप्रतिपत्तयो निरस्यन्ते / तथाहि प्रत्यक्षम् एव प्रमाणं बार्हस्पत्यानाम् / प्रत्यक्षानुमानागमाः प्रमाणानि आंख्यानाम् / उपमानम् अपि नैयायिकानाम् / अर्थापत्तिर् अपि प्राभाकराणाम् / अभावो हि प्रत्यक्षं शब्दश् च प्रमाणम् इति वैयाकराणः //
6. तत्र प्रत्यक्षं कल्पनापोधम् अभ्रान्तम् / यज् ज्ञानं कल्पनया कल्पनात्वेन रहितम् अभ्रान्तं च तद् एव प्रत्यक्षम् / एतेन यद् उक्तम् उद्योतकरेण / यदि प्रत्यक्षशब्देन प्रत्यक्षम् अभिधीयते / कथं तत् कल्पनापोढम् / अथ कल्पनापोधं कथं प्रत्यक्षं कल्पनापोधम् इत्य् अनेन शब्देनोच्यत इति / यद् अपि भर्तृहरिणोक्तम् / कल्पना हि ज्ञानं प्रत्यक्षम् अपि ज्ञानं / प्रत्यक्षज्ञाने कल्पनाज्ञानं प्रतिषेधतान्यस्मिन् ज्नाने ज्ञानान्तरम् अस्तीति प्रतिपादितम् / प्राप्तिपूर्वका हि प्रतिषेधा भवन्तीति न्यायाद् इति / तत् सर्वम् अपास्तम् / तादात्म्यप्रतिषेधस्यात्राभिमतत्वात् / अत एव विवृतं कल्पनया कल्पनात्वेन रहितम् इति /
7. कुतः पुनः कल्पनाभ्रमयोर् अभावः प्रत्यक्ष इति चेत् / यस्मात् कल्पनाविभ्रमयोर् अर्थरूपसाक्षात्करणं नास्ति / तथा हि / अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना / अभिलापो वाचकः शब्दः / स च सामान्याकारः / तेन संसर्ग्यस् तद्योग्यः (ts 278) प्रतिभासो यस्यां प्रतीतौ सा अभिलापसंसर्गयोग्यप्रतिभासा / योग्यग्रहणेनाव्युत्पन्नसंकेतस्य बालकस्य कल्पना संगृह्यते / यद्य् अपि तस्याम् अभिलापसंसर्गो नास्ति तद्योग्या तु भवत्य् एव / तत्प्रतिभासिनो ऽर्थाकारस्येच्छाधीनसंकेतानुविधायिना शब्देनाभिधातुं शक्यत्वात् / कुतः पुनर् बालकस्य कल्पना सिद्धेति चेत् / तत्कार्यस्य प्रवृत्त्यादिलक्षणस्य प्रदर्शनात् // तथा हि बालको ऽङ्गुर्यादिपरिहारे स्तनादौ प्रवर्तते / तद् उक्तं /
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया / तां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यत // इति
बालके पुनः संमूर्च्छिताक्षराकारध्वनिविशिष्टा बुद्धिविपरिवर्तिनी कल्पना ऊह्या यया पश्चात् संकेतग्रहणकुशलो भवति / न चेदृशीयम् अर्थरूपं साक्षात्करोति / अव्यापृतेन्द्रियस्य दर्शणवद् बुद्धौ शब्देनाप्रतिभासनाद् अर्थरूपस्य / स हि शब्दस्यार्थो यः शाब्दे प्रत्यये प्रतिभासते / उपायभेदात् प्रतिपत्तिभेदो नार्थभेदात् / यथैक एव देवदत्तो द्वाराद् दृश्यते जालेन चेति चेत् / अयुक्तम् एतत् / उपायभेदे ऽपि तद्रूपस्यैव ग्रहणात् कथं प्रतिपत्तिभेदः / न च वस्तूनां द्वे रूपे स्पष्टास्पष्टलक्षणे विरोधाद् एतन्निबन्धनत्वाच् च भेदस्य / अत एव दृष्टान्तो ऽप्य् असिद्धः / तद् उक्तम् /
जातो नामाश्रयो नान्यश् चेतसां तस्य वस्तुनः / एकस्यैव कुतो रूपं भिन्नाकारावभासि तद् //
इति / तद् एवम् अभिलपितुं शक्यम् एवार्थं कल्पना (ts 279) शब्देन संयोज्य गृह्णीयात् / अभिलाप्यं च वस्तु साक्षात्क्रियमाणं शब्देनायोजितम् एव साक्षात्कर्तव्यम् इति / सिद्धम् एतत् कल्पनाया नास्ति वस्तुसाक्षात्करणम् इति /
8.भ्रान्तम् अपि ज्ञानं तिमिराशुभ्रमणनौयानसंक्षोभाद्याहितविभ्रमम् अर्थरूपविसंवादकम् / तत् कथम् अन्यथा स्थितम् अर्थं साक्षात्कुर्यात् / स्वरूपप्रतिभासस्य साक्षात्करणशब्दवाच्यत्वात् / तस्मान् नास्ति वस्तुसाक्षात्करणं विभ्रमस्यापीति सिद्धम् / अतश् च विज्ञानं विषयसाक्षात्कारि नियमेन कल्पनाविभ्रमाभ्यां विपरीतं भवत् कल्पनापोढम् अभ्रान्तं चावतिष्ठते / तत्र कल्पनापोढपदेनानुमानस्य निरोधः / अभ्रान्तपदेन द्विचन्द्रज्ञानादेः / अन्यार्थं कृतम् अन्यार्थं भवतीति न्यायात् परविप्रतिपत्तिर् अपि निराकृता द्रष्टव्या / तथा हि वैयाकरणैर् उक्तम् /
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते / अनुविद्धम् इव ज्ञानं सर्वं शब्देन जायत //
इति / सर्वप्रत्ययानां शब्दानुगतरूपत्वे सति कस्यचिद् अपि ज्ञानस्यार्थसाक्षात्करणयोगात् / अनुभवसिद्धं च कल्पनापोढं प्रत्यक्षं कथम् अङ्कयते / अश्वविकल्पनकाले गोर् अनुभवात् / तद् एवाविकल्पकं प्रत्यक्षं / न चाश्वविकल्प एव गां प्रतिपद्यते / स्वनामोपसंहितस्य तस्य तेन ग्रहणात् / न च विकल्पान्तरं दृष्यं संवेद्यते / एतेनाश्वादिविकल्पकाले गवादिविकल्पो ऽपि व्याख्यातः / तथा मीमांसकैर् अपि /
अस्ति ह्य् आलोचनाज्ञनं प्रथमंनिर्विकल्पकं / बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् //
ततः परं पुनर् वस्तुधर्मैर् जात्यादिभिर् यया / बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता // इत्य्
अनेन विकल्पस्यापि प्रत्यक्षत्वम् इष्टम् / नैयायिकादिभिर् अपि व्यवसायात्मकम् इत्य् आदिना निश्चयस्यैव प्रत्यक्षत्वम् उक्तम् एतद् अपि कल्पनापोढम् इत्य् अनेनैव निरस्तम् / यदि कल्पनात्मकं प्रत्यक्षं स्याद् अर्थसाक्षात्करितैव हीयेत इति//
9. अभ्रान्तग्रहणेनापि शुक्लशङ्खादौ पीतशङ्खादिविज्ञानं निरस्यते / सत्य् अपि भ्रमे ऽर्थक्रियाविसंवादाभावात् / नापि तद् अनुमानं युज्यते लिङ्गजत्वात् / अतः प्रत्यक्षम् इति / कथं पुनर् एतद् अभ्रान्तग्रहणेनाविसंवादार्थेन निरस्यते / उच्यते / अध्यवसितार्थाकारप्रतिरूपार्थक्रियाप्राप्तेर् असंभवात् / यदि ह्य् अविसंवादितामात्रेण प्रमाणं स्यात् केशोण्डुकादिज्ञाने ऽपि आलोकादेः संवादसंभवात् तद् अपि प्रमाणं स्यात् //
10. तत् प्रत्यक्षं चतुर्विधं / इन्द्रियज्ञानं मानसं स्वसंवेदनं योगिज्ञानं चेति //
11. इन्द्रियाणां चक्षुःश्रोतघ्राणजिह्वाकायानाम् आश्रितं ज्ञानम् इन्द्रियज्ञानं / स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोमात्राश्रयत्वान् मानसम् / सर्वचित्तचैत्तानाम् आत्मा संवेद्यते येन रूपेण तत् स्वसंवेदनम् / योगः शमथः प्रज्ञा येषाम् अस्ति ते योगिनः / तेषां यज् ज्ञानं प्रमाणोपपन्नार्थभावनाप्रकर्षपर्यन्तजं तद् योगिज्ञानम् / (ts 281) प्रकारचतुष्टयाख्यानेन यैर् इन्द्रियम् एव द्रष्टृ कल्पितं मानसे च प्रत्यक्षे दोष उद्भावितः स्वसंवेदनं नाभ्युपगतं योगिज्ञानं च योगिन एव न सन्ति कुतस् तेषां ज्ञानम् इति ते सर्वे निरस्ता भवन्ति //
12. तथा हि वैभाषिकैस् तावज् ज्ञानस्याप्रतिघत्वाद् यदि तद् द्रष्टृ स्याद् तदा व्यवहितम् अपि गृह्णीयाद् इतीन्द्रियं द्रष्टृ कल्पितं / न चैतद् युक्तम् / यदि हि ज्ञानं गत्वार्थं गृह्णाति तदा गमनविबन्धकाभावाद् व्यवहितम् अपि गृह्णीयाद् इति युज्यते वक्तुम् / किं तु / यदाकारं तज् ज्ञानम् उत्पद्यते तत् तेन गृहीतम् इत्य् उच्यते न चायोग्यदेशस्थो ऽर्थस् तत्सरूपकः / तत् कथं तस्य तेन ग्रहणं स्यात् / किं च / यदीन्द्रियं द्रष्टृ स्यात् तदा काचादिव्यवहितस्यार्थस्य ग्रहणं न स्यात् / सप्रतिघा दश रूपिण इति सिद्धान्तात् / कथम् आगमे उक्तम् / चक्षुषा गृह्यते रूपम् इति / औपचारिको ऽसौ निर्देशः //
13. यद् अपि कुमारिलादिभिर् उक्तम् / यदीन्द्रियज्ञानगृहीतम् अर्थं गृह्णाति मानसम् / तदा गृहीतग्राहित्वाद् अस्याप्रामाण्यम् / अथेन्द्रियज्ञानागृहीतम् अर्थं गृह्णाति / तदा चान्धबधिराद्यभावदोषप्रसङ्ग इति / तद् अपि स्वविषयक्षणोपादेयसजातीयक्षणसहितेनेन्द्रियज्ञानेन यज् जनितम् इत्य् अनेनैव निरस्तम् / तथा हीन्द्रियज्ञानविषयोपादेयभूतक्षणग्राहि मानसम् / न च इन्द्रियज्ञानम् अन्धादीनाम् अस्ति / तत् कुतो ऽन्धबधिराद्यह्हावदोषः / नापि (ts 282) गृहीतग्राहिता / इन्द्रियज्ञानविषयोपादेयभूतक्षणस्यानेन ग्रहणात् / एतच् च मानसं प्रत्यक्षम् उपरतव्यापारे चक्षुरादौ प्रत्यक्षम् इष्यते / व्याप्रियमाणे पुनर् एतस्मिन् यत् प्रत्यक्षं तच् चेद् अनिन्द्रियजं किम् अन्यद् इन्द्रियजं भविष्यति / न च निमीलिताक्षस्य रूपदर्शनाभावाद् अनुभवविरुद्धत्वम् आशङ्कनीयम् / क्षणमात्रभावित्वेन दुरवधारत्वात् //
14. किम् अर्थं तर्ह्य् एतद् उपन्यस्तम् इति चेत् / उच्यते / यत् तत् सिद्धान्ते मानसम् उक्तं तद् यद्य् एवंलक्षणं स्याद् तदा न कश्चित् परोक्तो दोष इत्य् आदर्शयितुम् / यद् अपि स्वसंवेदनं नाभ्युपगम्यते परैस् चित्तचैत्तानां तद् अपि अयुक्तम् / न तावच् चित्तचैत्तानां प्रकाशो नास्त्य् एव / प्रकाशस्य सर्वप्राणिनाम् अनुभवसिद्धत्वात् / न चैषां परेण प्रकाशो युक्तः / तद् धि परं समानकालभावि तावत् प्रकाशकम् अनुपपन्नम् उपकाराभावात् / भिन्नकालभाव्य् अपि न प्रकाशकं प्रकाश्याभावात् / तस्माद् यथा प्रदीपः प्रकाशकस्वभावत्वाद् आत्मानं प्रकाशयति तथा ज्ञानम् अपीति / ननु प्रदीपो ऽपि चक्षुषा प्रकाश्यत इति चेत् / न सजातीयप्रकाशनिरपेक्षत्वेन दृष्टान्तीकृतत्वात् //
15. किं च / यदि ज्ञानम् आत्मानं न संवेदयते / तदा स्वतो ऽप्रत्यक्षत्वे ऽर्थानुद्भवो ऽप्य् अप्रत्यक्षतया न स्यात् / अत्र प्रयोगः / यद् अव्यक्तव्यक्तिकं न तद् व्यक्तं / यथा किंचित् कदाचित् कथंचिद् अव्यक्तव्यक्तिकम् / अव्यक्तव्यक्तिकश् च ज्ञानपरोक्षत्वे घटादिर् अर्थ इति व्यापकानुपलब्धिप्रसङ्गः / इह व्यक्तत्वं निषेध्यं / तस्य व्यापकं व्यक्तव्यक्तिकत्वम् / तस्य चेहानुपलब्धिर् इति / ज्ञानस्य ज्ञानान्तरेण व्यक्तेर् हेतुर् अयम् असिद्ध इति चेत् / (ts 283) न / घटादिज्ञानोदयकाले सिद्धत्वात् / न च भवताम् अपि सर्वं विज्ञानम् एकार्थसमवायिना ज्ञानेन ज्ञायते / बुभुत्साभावे तदभावात् / यथोपेक्षणीयविषया संवित् / तत उपेक्षणीयम् एव तावद् अव्यक्तव्यक्तिकत्वाद् अव्यक्तं प्रसज्यते /
16. किं च / ज्ञानं ज्ञानस्यापि कथं व्यक्तिर् इति वक्तव्यम् / अन्यज्ञानेन तस्य सिद्धत्वाद् उच्यमानायां तत्राप्य् एवम् इत्य् अनवस्था स्यात् / न चेयं संदिग्धविपक्षव्यावृत्त्यानैकान्तिकी / तथाहि यद्य् अव्यक्तव्यक्तिकम् अपि व्यक्तव्यवहारविषयः स्यात् तदा पुरुषान्तरवर्तिज्ञानम् अव्यक्तम् अपि स्वज्ञानोदयकालवत् तथैव व्यक्तं व्यवह्रियेतेति / तद् अयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्यापी / सिद्धे च व्याप्यव्यापकभावे व्यापकानुपलब्धिर् ऐकान्तिकीति / नापि स्वात्मनि क्रियाविरोधः / यदा जडपदार्थवैलक्षण्येनोत्पत्तिर् एव स्वसंवित्तिः / तद् उक्तम् आचार्यशान्तिरक्षितपादैः //
विज्ञानं जडरूपेभ्यो व्यावृत्तम् उपजायते / इयम् एवात्मसंवित्तिर् अस्य याजडरूपता //
स्वसंविच्छब्दार्थो ऽपि तैर् एव दर्शितः / स्वरूपवेदनायान्यद् वेदकं न व्यपेक्षते / न चाविदितम् अस्तीति सो ऽर्थो ऽयं स्वसंविद // इति
17. यद् अप्य् उक्तं योगिन एव न सन्ति कुतस् तेषां ज्ञानम् इति / तद् असारम् / भावना हि भूतार्थविषया तदितरा वा प्रकर्षपर्यन्तवर्तिनी स्फुटतरग्राह्याकारं विज्ञानं जनयति / तथा हि शोकाद्युपप्लुतचित्तवृत्तयः पुत्रादिभावनासमाप्तौ परिस्फुटसमावर्तितत्प्रतिभासवन्तो भवन्ति / तत्र यत् (ts 284) प्रमाणोपपन्नार्थभावनाप्रकर्षपर्यन्ताज् जातम् करतलामलकवद् भाव्यमानार्थस्पष्टतराकारग्राहि तद् योगिप्रत्यक्षम् इति / यद् आह /
भावनाबलतः स्पष्टं भयादाव् इव शंसते / यज् ज्ञानम् अविसम्वादि तत् प्रत्यक्षम् अकल्पकम् इति //
18. तस्य विषयः स्वलक्षणं / तस्य चतुर्विधस्यानन्यसाधारणेन रूपेण यल् इअक्ष्यते तद् विषयः / अनेन सामान्यविषयत्वारोपः प्रत्यक्षे प्रत्युक्तः / यस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस् तत् स्वलक्षणं / यस्य ज्ञानविषयस्य संनिधानं योग्यदेशावस्थानम् / असंनिधानं योग्यदेशे ऽभावः सर्वथा / ताभ्यां यो ज्ञानप्रतिभासं ग्राह्याकारं भिनत्त्य् उत्पादानुत्पादात् तत् स्वलक्षणम् // अन्यत् सामान्यलक्षणं सो ऽनुमानस्य विषयः / एतस्मात् स्वलक्षणाद् यद् अन्यत् साधारणं लक्षणं सो ऽनुमानस्य विषयः /
19. तद् एव प्रत्यक्षं ज्ञानं प्रमाणफलम् / अर्थप्रतीतिरूपत्वात् यद् एवानन्तरम् उक्तं प्रत्यक्षंज्ञानंतद् एव प्रमाणस्य फलम् / अर्थस्य प्रतीतिर् अवगमः / तद्रूपत्वात् / यदि तद् एव ज्ञानं प्रमाणफलं नेष्यते तदा भिन्नविषयत्वं स्यात् प्रमाणफलयोः / न चैतद् युक्तम् / न हि परश्वादिके खदिरप्राप्ते पलाशे च्छिदा भवति //
20. अर्थसारूप्यम् अस्य प्रमाणम् / तद्वशाद् अर्थप्रतीतिसिद्धेः / इह यस्माद् विषयाद् विज्ञानम् उदेति तत्सरूपं तद् भवति / अतत्सरूपेण ज्ञानेनार्थवेदनायोगात् / तथा हि विज्ञानं बोधमात्रस्वभावम् (ts 285) उत्पद्यते / तदा नीलस्येदं वेदनं पीतस्येति प्रतिकर्मव्यवस्था न स्यात् / यादृशं हि तन् निले पीते ऽपि तादृशं चेति / अर्थसारूप्ये तु सति यस्यैवाकारम् अनुकरोति ज्ञानं तत्संवेदनं भवति नान्यस्य / तच् चास्य सारूप्यं नियतार्थप्रतीतिव्यवस्थायां साधकतमत्वात् प्रमाणम् / न चैतत् मन्तव्यम् / कथं साध्यसाधनयोर् अभेद इति / जन्यजनकभावेनात्र साध्यसाधनभावाभावात् / व्यवस्थाप्यव्यवस्थापकभावेन चैकस्यापि घटते / नापि लोकबाधा / लोको पि कदाचिद् एकधनुरादिकं कर्तृत्वादिना वदत्य् एव / तथाहि वक्तारो भवन्ति / धनुर् विध्यति / धनुषा विध्यति / धनुषो निसृत्य सरो विध्यतीति / एतेन पूर्वं पूर्वं ज्ञानं प्रमाणम् उत्तरम् उत्तरं फलम् इति प्रमाणफलभ्रान्तिर् अपास्ता // //
तर्कसोपाने प्रत्यक्षपरिच्छेदः प्रथमः // //
1. अनुमानं द्विधा स्वार्थं परार्थं च / स्वस्मायिदं स्वार्थं / येन स्वयं प्रतिपद्यते / परस्मायिदं परार्थम् / येन परं प्रतिपादयति /
2. तत्र त्रिरूपलिङ्गाद् यद् अनुमेये ज्ञानं रूपत्रययुक्ताल् लिङ्गाद् यद् अनुमेयालम्बनं ज्ञानं उत्पद्यते तत् स्वार्थम् अनुमानम् / त्रिरूपग्रहणम् एकैकद्विद्विरूपव्यवच्छेदार्थम् / तत्रैकैकरूपो हेतुर् न भवति / यथा नित्यः शब्दः कृतकत्वात् / मूर्तत्वात् / अप्रमेयत्वाद् इति / यथाक्रमम् अनुमेये सत्त्वसपक्षसत्त्वविपक्षव्यावृत्ति (ts 286) मात्रम् अस्ति तथा हि द्विद्विरूपो यथानित्यो ध्वनिः / अमूर्तत्वात् / श्रावणत्वात् / चाक्षुषत्वाद् इति / यथाक्रमम् अनुमेये सत्त्वसपक्षसत्त्वासपक्षासत्त्वमात्रस्याभावात् / तद् उक्तम् आचार्यपादैः /
एकैकद्विद्विरूपाद् वा लिङ्गान् नार्थः कृतो ऽर्थतः //
कृतकत्वाद् ध्वनिर् नित्यो मूर्तत्वाद् अप्रमेयतः / अमूर्तश्रावणत्वाभ्याम् अनित्यश् चाक्षुषत्वत // इति /
3. अनुमेयग्रहणेनापरोक्षविषयस्य निरासः / प्रमाणफलव्यवस्थात्रापि प्रत्यक्षवत् ] यथा प्रत्यक्षे तस्यैव नीलादिसारूप्यं प्रमाणम् उक्तं नीलादिप्रतीतिश् च फलं तथात्रापि वह्न्याद्याकारः प्रमाणं वह्न्यादिविकल्पनरूपता च फलम् इति /
4. लिङ्गस्य त्रीणि रूपाणि / अनुमेये सत्त्वम् एव निश्चितम् / अनुमेये वक्ष्यमाणलक्षणे लिङ्गस्य सत्त्वम् एव निश्चितम् एकरूपम् ] तत्र सत्त्ववचनेनासिद्धो निरस्तः / यथा नित्यः शब्दः / चाक्षुषत्वाद् इति / एवकारेण पक्षैकदेशासिद्धः निरस्तो हेतुः / यथा चेतनास् तरवः स्वापाद् इति / पक्षीकृतेषु तरुषु पत्रसंकोचलक्षणः स्वाप एकदेशे न सिद्धः / न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः / किं तु केचिद् एव / सत्त्ववचनस्य पश्चात्कृतेनैवकारेणासाधारणो धर्मो निरस्तः / अन्यथा ह्य् अनित्यः स्रावणत्वाद् इत्य् अस्यैव हेतुत्वं स्यात् / निश्चितग्रहणेन संदिग्धासिद्धादेर् व्यवच्छेदः / यथा बाष्पादिभावेन संदिह्यमानो भूतसंघातो ऽग्निसिद्धाव् उपादीयमानः / सपक्ष एव सत्त्वम् / सपक्षो वक्ष्यमाणलक्षणस् तस्मिन् एव सत्त्वं निश्चितं द्वितीयं रूपम् / (ts 287) इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः / यथा नित्यः कृतत्वाद् इति / यस्माद् अस्यैव सपक्षे नास्ति / एवकारेण साधारणानैकान्तिकः / यथा नित्यः प्रमेयत्वाद् इति / स हि न सपक्ष एव वर्तते किंतूभयत्रापि / सत्त्ववचनात् पूर्वावधारणवचनेन सपक्षाव्यापिसत्ताकस्यापि कथितं हेतुत्वम् / यथा नित्यः प्रयत्नानन्तरीयकत्वात् / निश्चितवचनेन चानुवृत्तेन संदिग्धान्वयो ऽनैकान्तिको निरस्तः / यथा सर्वज्ञः कश्चिद् वक्तृत्वात् / वक्तृत्वं हि सपक्षे सर्वज्ञे संदिग्धम् असपक्षे चासत्त्वम् एव निश्चितम् इत्य् अत्रापि वर्तते / असपक्षो वक्ष्यमाणलक्षणः / तस्मिन्न् असत्त्वम् एव निश्चितं तृतीयं रूपम् / तत्रासत्त्वग्रहणेन विरुद्धस्य निरासः / विरुद्धो हि विपक्षे ऽस्ति / एवकारेण साधारणस्य विपक्षैकदेशवृत्तेर् निरासः / यथा प्रयत्नानन्तरीयकः शब्दो ऽनित्यत्वाद् इति / प्रयत्नानन्तरियकत्वे हि साध्ये ऽनित्यत्वं विपक्षैकदेशे विद्युदादाव् अस्ति / आकाशादौ नास्ति / ततो ऽवधारणेनास्य निरासः / असत्त्वशब्दात् पूर्वस्मिन्न् अवधारणे ऽयम् अर्थः स्याद् / विपक्ष एव यो नास्ति स हेतुः / तथा च प्रयत्नानन्तरीयकत्वं सपक्षे ऽपि नास्ति / ततो न हेतुः स्यात् / ततः पूर्वं न कृतम् / निश्चितग्रहणेन संदिग्धविपक्षव्यावृत्तिको निरस्तः / यथा देवदत्तपुत्रः श्यामस् तत्पुत्रत्वात् परिदृश्यमानपुत्रवद् इति /
ननु सपक्षे सत्त्वम् इत्य् उक्ते सपक्षे सत्त्वम् एवेति गम्यते तत् किम् अर्थम् उभयोर् उपादानम् / सत्यम् / किंत्व् अन्वयो व्यतिरेको वा नियमवान् एव प्रयोक्तव्यो येनान्वयप्रयोगे चान्वयगतिर् इति / तेन न द्वयोर् उपादानम् एकत्र प्रयोगे कर्तव्यम् इति शिक्षणार्थम् अत्रोभयोर् उपादानं कृतम् /
5. अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी / अत्रेति हेतुलक्षणे निश्चेतव्ये / जिज्ञासितविशेषग्रहणेन चाज्ञातविशेषतामात्रम् उपलक्ष्यते अन्यथा हि व्याप्तिस्मरणयुक्तस्याग्न्यादिकं पर्येषमाणस्य धूमादिदर्शनमात्राद् एव नगनितंबादौ वह्न्यादिप्रतीतिर् या सा न संगृहिता स्यात् / साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः समानः सदृशो यो ऽर्थः पक्षेण स सपक्ष उक्तः / उपचारात् समानशब्देन विशिष्यते / समानः पक्षः सपक्षः / समानस्य च स शब्दादेशो योगविभागात् / समानः पक्षो ऽस्येति तु न कर्तव्यम् / एवं हि पक्षेण सादृश्यं सपक्षस्य न प्रतिपादितं स्यात् / पक्षस्यैव च सपक्षसादृश्यं प्रतिपादितं स्यात् / न चैतत् / सपक्षस्याप्रसिद्धत्वात् / इदानीम् एव हि तल्लक्षणं क्रियते / समानता च साध्यधर्मसामान्येन /
7. न सपक्षो ऽसपक्षः [ ततो ऽन्यस् तद्विरुद्धस् तदभावश् च / त्रिरूपाणि च त्रीण्य् एव लिङ्गाणि / अनुपलब्धिः स्वभावः कार्यं चेति / तत्र प्रतिषेध्यस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावव्यवहारसाधनी / उपलब्धिलक्षणप्राप्तिर् उपलम्भप्रत्ययान्तरसाकल्यम् / (ts 289) स्वभावविशेषश् च / यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति / उपलब्धिलक्षणप्राप्तो ऽर्थः / दृश्य इत्य् अर्थः / अविद्यमानो ऽप्य् असाव् अत्र यदि भवेद् दृश्य एव भवेद् इति संभवनविषय उपलब्धिलक्षणप्राप्त इत्य् उच्यते / तस्यानुपलब्धिर् अभावव्यवहारं साधयति / देशकालस्वभावविप्रकृष्टप्रत्ययान्तरविकलव्यवच्छेदार्थं विशेषणोपादानम् / न चात्र प्रतिषेधमात्रम् अनुपलब्धिः तस्य स्वयम् असिद्धेः सिद्धेश् चानङ्गत्वात् / किं तु वस्त्वन्तरस्योपलब्धिर् एव / वस्तुनो ऽपि न यस्य कस्यचित् / अपि तु प्रतिषेध्याभावाक्षेपकस्यैव / न त्व् एकज्ञानसंसर्गिन एव / यदि ह्य् एकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽनुपलब्धेर् लक्षणं स्यात् तदा इह देवदत्तोपलम्भाद् बहिरभावस् तस्यैव कथं सिध्यति / न हि तत्रैकज्ञानसंसर्गिवस्त्वन्तरोपलम्भो ऽस्ति //
8. इयं चानुपलब्धिः कर्मकर्तृधर्मतया द्विप्रकारा / तत्र यदा कर्मधर्मो ऽनुपलब्धिस् तदा घटविविक्तभूतलम् / यदा तु कर्तृधर्मस् तदा तदाश्रितं ज्ञानम् / तत्र यत् तद् घटवैकल्यं तद् भूतलस्य स्वरूपम् एवेति तद्ग्राहिना ज्ञानेन गृहीतम् एवेति / तस्माद् इयम् अनुपलब्धिर् मूढम् प्रत्य् अभावव्यवहारम् एव साधयति / अमूढस्य प्रत्यक्ष एव सिद्धत्वात् / कारणानुपलब्ध्यादयस् तु परोक्षे विषये प्रवर्तमाना अभावं साधयन्त्य् एव / वर्तमानकाला चेयं गमिका अतीतकाला चासति स्मृतिमनस्कारभ्रंशे / ततो नास्तीह घटो ऽनुपलभ्यमानत्वात् / नासीद् इह घटो ऽनुपलब्धाद् इति (ts 290) शक्यं अवसातुम् / न तु न भविष्यत्य् अत्र घटो ऽनुपलप्स्यमानत्वाद् इति / अनागतायाः संदिग्धरुपत्वात् //
9. इयं च प्रयोगभेदाद् अनेकप्रकारा / तत्र 1) स्वभावानुपलब्धिः / यथा नास्तीह धूम उपैअब्धिलक्षणप्राप्तस्यानुपलब्धेः / प्रतिषेध्यो हि धूमस् तस्य यः स्वभावस् तस्यानुपलब्धिः / 2) कारणानुपलब्धिः / यथा नात्र धूमो वह्न्यभावात् / प्रतिषेध्यस्य हि धूमस्य कारणं वह्निस् तस्येहानुपलब्धिः / 3) व्यापकानुपलब्धिर् याथा नात्र शिंशपा वृक्षाभावात् / प्रतिषेध्या हि शिंशपा तस्याश् च व्यापको वृक्षस् तस्यानुपलब्धिः / 4) कार्यानुपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावद् इति / प्रतिषेध्यानां धूमकारणानां कार्यं धूमस् तस्य चेहानुपलब्धिः / 5) स्वभावविरुद्धोपलब्धिः / यथा नात्र शीतस्पर्शो वह्नेर् इति / प्रतिषेध्यस्य शीतस्पर्शस्य यः स्वभावस् तस्य विरुद्धो वह्निस् तस्य चेहोपलब्धिः / 6) कारणविरुद्धोपलब्धिर् यथा नास्य रोमहर्षादिविशेषाः सन्ति संनिहितदहनविशेषत्वाद् इति / प्रतिषेध्यानां रोमहर्षादिविषेसाणां कारणं शीतं तस्य विरुद्धो दहनविशेषस् तस्य चेहोपलब्धिः / 7) व्यापकविरुद्धोपलब्धिर् यथा नात्र तुषारस्पर्शो दहनाद् इति / निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धो दहनस् तस्य चेहोपलब्धिः / 8) कार्यविरुद्धोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति वह्नेर् इति / प्रतिषेध्यानं (ts 291) शीतकारणानां कार्यं शीतं तस्य विरुद्धो वह्निस् तस्य चेहोपलब्धिः / 9) स्वभावविरुद्धव्याप्तोपलब्धिर् यथा नात्र वह्निस् तुषारस्पर्शाद् इति / प्रतिषेध्यस्य वह्नेर् यः स्वभावस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः /
10) कारणविरुद्धव्याप्तोपलब्धिर् यथा नात्र धूमस् तुषारस्पर्शाद् इति / प्रतिषेध्यस्य हि धूमस्य यत् कारणम् अग्निस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः / 11) व्यापकविरुद्धव्याप्तोपलब्धिर् यथा नायं नित्यः कदाचित्कार्यकारित्वाद् इति / प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं व्यापकं तस्य विरुद्धं सातिशयत्वं तेन व्याप्तं कदाचित्कार्यकारित्वं तस्य चेहोपलब्धिः / 12) कार्यविरुद्धव्याप्तोपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि वह्निकारणानि सन्ति तुषारस्पर्शाद् इति / प्रतिषेध्यानां हि वह्निकारणानां कार्यं वह्निस् तस्य विरुद्धं शीतं तेन व्याप्तस् तुषारस्पर्शस् तस्य चेहोपलब्धिः / 13) स्वभावविरुद्धकार्योपलब्धिर् यथा / नात्र शीतस्पर्शो धूमाद् इति / प्रतिषेध्यस्य हि शीतस्पर्शस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः / 14) कारणविरुद्धकार्योपलब्धिर् यथा न रोमहर्षादिविशेषयुक्तपुरुषवान् अयं प्रदेशो धूमाद् इति / प्रतिषेध्यानां रोमहर्षादिविशेषानां कारणं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपब्धिः / 15) व्यापकविरुद्धकार्योपलब्धिर् यथा / नात्र तुषारस्पर्शो धुमाद् इति / प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः / 16) कार्यविरुद्धकार्योपलब्धिर् यथा नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमाद् इति / प्रतिषेध्यानां शीतकारणानां कार्यं शीतं तस्य विरुद्धो ऽग्निस् तस्य कार्यं धूमस् तस्य चेहोपलब्धिः //
10. इमे सर्वे कारणानुपलब्ध्यादयः पञ्चदशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहम् उपयान्ति पारंपर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगह्हेदे ऽपि स्वभावानुपलब्धौ संग्रहं तादात्म्येन गच्छन्ति / एतद् उक्तं भवति / अनुपलब्धिरूपता तावत् सर्वासाम् अविशिष्टा / तथा स्वभावविरुद्धोपलब्ध्यादाव् अप्य् अनुपलब्धिरूपता विद्यत एव / सहाभावाक्षेपिका यस्योपलब्धिः सा तस्यानुपलब्धिर् इत्य् अनुपलब्धिलक्षणयोगात् / तथा हि येयं वह्नेर् उपलब्धिः सा शीताभावम् आक्षिपति /
11. भवत्व् अनुपलब्धिः सा दृश्यता तु कथम् / उच्यते / दृश्यत्वे ऽप्य् अनुपलब्धिर् इति कृत्वा / तथा हि यदि शीतस्पर्शो दृश्यो भवेत् तदा तस्योपलब्धिं निषेध्याभावव्याप्तो वह्निर् विरुणद्ध्य् एव / एवम् अभावसाधनी सर्वैवानुपलब्धिर् व्याप्तिसामर्थ्याद् (ts 293) दृश्यस्योपलब्धिं विरुणद्धीति सामर्थ्यात् स्वभावानुपलब्धिर् भवति / न साक्षात् / यस्यां त्व् अनुपलब्धौ तदैव तम् एव प्रतिपत्तारं प्रति दृश्यत्वं प्रतिषेध्यस्य सिद्धं दृश्यानुपलब्धिर् एव तस्याः स्वलक्षणम् इति साक्षात् स्वभावानुपलब्धिः / यत् पुनर् अन्यैर् उच्यते / यद्य् अपि संप्रतितनी दृश्यानुपलब्धिर् नास्ति विरोधादिकाले त्व् आसीद् सैव भावप्रतिपत्तिनिबन्धनम् इति / तेन दृष्यानुपलब्धिपूर्वत्वात् स्वभावविरुद्धोपलब्ध्यादीनां दृश्यानुपलब्धाव् अन्तर्भावः / संप्रतितन्यश् च दृश्यानुपलब्धेर् अभावात् तत्स्वभावानुपलब्धेर् अन्यासाम् अनुपलब्धीनां भेद इति /
12. यद् अपि कैश्चित् स्वभावविरुद्धोपलब्ध्यादीनाम् अनुमितानुमानतया दृश्यानुपलब्धिरूपतोच्यते / दूराद् वह्ने रूपविशेषं दृष्ट्वा उष्णस्पर्शविशेषस् तद्देशव्यापको ऽनुमीयते तस्माच् च शीतस्पर्शाभावप्रतीतिः / आहत्य तु दृश्यानुपलब्धेर् अनुदयाद् दृश्यानुपलब्धेर् भेदेन निर्देशः / अत एव चानुमितानुमानम् एतत् केवलम् अत्यन्ताभ्यासाज् झटिति तथाभूतप्रतीत्युदये सत्य् एकम् अनुमानम् उच्यते / वस्तुतस् त्व् अनेकम् अनुमानम् एतत् एवम् अन्यत्रापि व्यापकविरुद्धोपलम्भादाव् ऊह्यम् इति द्वयम् अप्य् एतन् न मनसि तोषम् आदधाति //
13. स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुः / यो हेतोर् आत्मनः सत्ताम् अपेक्ष्य विद्यमानो न हेतुसत्ताव्यतिरिक्तं किंचिद् धेतुम् अपेक्षते / तस्मिन् साध्ये यो हेतुःस स्वभावः / अनेन च विशेषणे नान्त्यात् कारणात् कार्यं यद् उत्पद्यते तस्य संग्रहः (ts 294) कृतः / तद् अपि हि तस्य स्वभाव एव / तत्सत्तामात्रभावित्वात् / अन्यार्थम् अपि कृतम् अन्यार्थं भवतीति न्यायात् परविप्रतिपत्तिर् अपि निराकृता / परे हि पश्चात्कालभाविनम् अपि कृतकत्वादिधर्मं स्वभावम् इच्छन्तीति / यथा वृक्षो ऽयं शिंशपात्वाद् इति / कार्यं यावद्भिः स्वभावैर् अविनाभावि कारणे हेतुर् इति प्रकृतम् / कारणे साध्ये यावद्भिः स्वभावैर् अविनाभावि तैर् एव हेतुः / यथा ऽग्निर् अत्र धूमात् //
14. एतानि च त्रीणि लिङ्गानि साध्यभेदात् / साध्यापेक्षया हि लिङ्गव्यवस्था / साध्यश् च विधिः प्रतिषेधो वा अन्योन्यलक्षणव्यवच्छेदलक्षणत्वाद् अनयोः / विधिर् अप्य् अनर्थान्तरार्थान्तरभेदाद् द्विविधः / तत्रानर्थान्तरे गम्ये स्वभावहेतुः / अर्थान्तरे तु गम्ये कार्यम् इति द्वाव् एतौ विधिसाधनौ / स्वभावप्रतिबन्धे हि सत्य् अर्थो ऽर्थं गमयेत् / स्वभावेन प्रतिबन्धः प्रतिबद्धस्वभावत्वम् / यस्मात् स्वभावप्रतिबन्धे सति साधनार्थः साध्यार्थं गमयेत् / तस्माद् अनयोर् एव विधिसाधनता / ननु स्वभावप्रतिबन्धम् अन्तरेणापि चन्द्रोदयात् कुमुदविकासप्रतिपत्तिः समुद्रवृद्धिश् च / आतपसद्भावात् परभागे छायाप्रतिपत्तिः / कृत्तिकाद्युदयानन्तरश् च रोहिण्यादीनाम् उदयः प्रतीयते / तत् कथम् उच्यते स्वभावप्रतिबन्धे सत्य् अर्थो ऽर्थं गमयेद् इति / तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् / तद् इति (ts 295) स्वभाव उक्तः / तेनाप्रतिबद्धस् तदप्रतिबद्धः / यो यत्र स्वभावेन न प्रतिबद्धःस तर्न् अप्रतिबद्धविषयम् अवश्यम् एव न न व्यभिचरतीति नास्ति तयोर् अव्यभिचारनियमः / यातु चन्द्रोदयादेः समुद्रवृद्ध्यादिप्रतीतिः सानुमानाद् एव / तथा हि हेतुधर्मस्यैव तादृशो ऽत्रानुमितिर् यत्राम्भोजबोधादय एककाला जाताः / एवं सति कार्याद् इयं कारणसिद्धिः / वायुविशेष एव च यः कृत्तिकाद्युदयकारणंस एव हि संतत्या रोहिण्याद्युदयकारणं / हेतुधर्मप्रतीतेस् तत्प्रतीतिर् इति / एवम् अत्रापि / यत्राव्यभिचारस् तत्र प्रतिबन्धो ऽभ्यूह्यः / स च प्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य / वस्तुतस् तदात्म्यात् तदुत्पत्तेश् च / अतत्स्वभावस्यातदुत्पत्तेश् च
तत्राप्रतिबद्धस्वभावत्वात् / ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोर् एवेति / ताभ्याम् एव वस्तुसिद्धिः / प्रतिषेधसिद्धिस् तु यथोक्ताया एवानुपलब्धेः / नन्व् अनुपलब्धौ कः प्रतिबन्धः / प्रतिबद्धश् च हेतुर् गमकः / इदानिम् एव हि कथितम् / स्वभावप्रतिबन्धे हि सत्य् अर्थो ऽर्थं गमयेद् इति / तत्र स्वभावानुपलब्धौ तादात्म्यं प्रतिबन्धः / तथा हि तत्राभावव्यवहारयोग्यता साध्यते / योग्यता च योग्यस्वभावभूतैवेति / कारणानुपलब्ध्यादौ मौलप्रतिबन्धनिबन्धनो गम्यगमकभावः / विरुद्धोपलब्ध्यादौ तु तत्तद्विविक्तप्रदेशादिकार्यत्वात् तादृशस्य (ts 296) दहनादेस् तदुत्पत्तिनिबन्धन एव इति //
//
// तर्कसोपाने स्वार्थानुमानपरिच्छेदो द्वितियः // //
1. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् / पूर्वम् उक्तं यत् त्रिरूपं लिङ्गं तस्य यत् प्रकाशकं वचनं तत् परार्थम् अनुमानं कारणे कार्योपचारात् / अनुमानकारणे त्रिरूपैइङ्गे कार्यस्यानुमानस्योपचारात् समारोपात् / यथा नड्वलोदकं पादरोग इति / तद् द्विविधं प्रयोगभेदात् / साधर्म्यवत् / वैधर्म्यवच् च //
2. समानो धर्मो यस्य स सधर्मा / तस्य भावः साधर्म्यं / दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं सादृश्यम् / विसदृशो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यम् / दृष्टान्तधर्मिणा सह साध्यधर्मिणो हेतुकृतं वैसादृश्यम् / यस्य साधनवाक्यस्य साधर्म्यम् अभिधेयं तत्साधर्म्यवत् / यस्य च वैधर्म्यम् अभिधेयं तद् वैधर्म्यवत् / ननु च साधर्म्यवति साधनवाक्ये व्यतिरेको नास्ति / वैधर्म्यवति चान्वयस् तत् कथं त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानं स्यात् / नैष दोषः / साधर्म्येणापि हि प्रयोगे ऽर्थाद् वैधर्म्यगतिः / असति तस्मिन् साध्येन हेतोर् अन्वयायोगात् / साधर्म्याभिधेयेन युक्ते प्रयोगे समर्थ्याद् व्यतिरेकस्य प्रतीतिस् तस्मात् त्रिरूपलिङ्गाख्यानम् / तस्मिन् व्यतिरेके बुद्ध्यावसीयमाने ऽसति साध्येन हेतोर् अन्वयस्य बुद्ध्यावसितस्याभावात् //
3. तथा वैधर्म्येणाप्य् अन्वयगतिः / असति तस्मिन् साध्याभवे हेत्वभावस्यासिद्धेः / तथेति यथान्वयवाक्ये तथार्थाद् एव वैधर्म्येण प्रयोगे ऽन्वयस्यानभिधीयमानस्यापि गतिः / असति तस्मिन्न् अन्वये बुद्धिगृहीते साध्याभावे हेत्वभावस्यासिद्धेर् अनवसायात् / तस्माद् एकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर् लिङ्गस्य सदसत्त्वख्यापनं कृतं ब्ःअवतीति नावश्यं वाक्यद्वयप्रयोगः //
4. तत्रानुपलब्धेः साधर्म्यवान् प्रयोगः यद् यत्रोपलब्धिलक्षणप्राप्तं सन् नोपलभ्यते स तत्रासद्व्यवहारविषयः / यथा शशशिरसि शृङ्गं / नोपलभ्यते च क्वचित्प्रदेशविशेष उपलब्धिलक्षणप्राप्तो घट इति / अत्र दृष्टान्तधर्मिणः शशशिरसः साध्यधर्मिणश् च प्रदेशविशेषस्योपलब्धिलक्षणप्राप्तप्रतिषेध्यानुपलम्भहेतुकृतं सादृश्यम् अभिधेयम् //
5. तथा स्वभावहेतोः प्रयोगः / यत् सत् तत् सर्वम् अनित्यं यथा घटः संश् च शब्दः / शुद्धस्य स्वभावस्य प्रयोगः / सत्त्वमात्रस्योपध्यनपेक्षत्वात् / यद् उत्पत्तिमत् तद् अनित्यम् / यथा घटः / उत्पत्तिमच् च सुखम् इत्य् अव्यतिरिक्तविशेषणस्य / उत्पत्तिर् हि स्वरूपलाभः / सा च भावस्यात्मभूतैव केवलं कल्पनया व्यतिरेकिणीव प्रदर्श्यते / यत् कृतकं तद् अनित्यं यथा घटः कृतकश् च शब्द इति व्यतिरिक्तविशेषणस्य / अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतक इति / एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः / अत्र हि दृष्टान्तधर्मिभिः साध्यधर्मिणां हेतुकृतं सादृश्यम् अभिधेयम् / सर्व एते साधनधर्मा यथास्वं (ts 298) प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्ध एव साध्यधर्मे ऽवगन्तव्याः / वस्तुतस् तस्यैव तत्स्वभावत्वात् / तन्निष्पत्ताव् अनिष्पन्नस्य तत्स्वभावत्वायोगात् / विरुद्धधर्माध्यासस्य भेदैअक्षणत्वात् //
6. कार्यहेतोः साधर्म्यवान् प्रयोगः / यत्र यत्र धूमस् तत्र तत्र वह्निर् यथा महानसे / धूमस् चात्र / अत्र दृष्टान्तधर्मिणो महानसस्य साध्यधर्मिणश् च प्रदेशविशेषस्य धूमहेतुकृतं सादृश्यम् अभिधेयम् / इहापि त्रिभिर् अनुपलम्भैर् द्वाभ्यां प्रत्यक्षाभ्यां सिद्धे कार्यकारणभवे कारणे साध्ये कार्यहेतुर् वक्तव्यः / अनुपलब्धेर् वैधर्म्यवान् प्रयोगः / यत् सद् उपलब्धिलक्षणप्राप्तंतद् उपलभ्यत एव / यथा नीलविशेषः / न चैवम् इहोपलब्धिलक्षणप्राप्तस्य घटस्योपलब्धिर् इति / अत्र हि दृष्टान्तधर्मिणो निलविशेषस्य साध्यधर्मिणश् च प्रदेशस्योपलब्धिलक्षणप्राप्तनिषेध्यानुपलम्भाख्यहेतुकृतं वैसादृश्यम् अभिधेयम् /
7. स्वभावहेतोर् वैधर्म्यवन्तः प्रयोगाः असत्य् अनित्यत्वे नास्ति क्वचित् सत्त्वं यथा गगनमलिने / संश् च शब्दः / असत्य् अनित्यत्वे न क्वचिद् उत्पत्तिमत्त्वं यथाकाशे / उत्पत्तिमच् च सुखम् / असत्य् अनित्यत्वे न क्वचित् कृतकत्वं यथा कुर्मरोम्नि / कृतकश् च शब्द इति / अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यम् अभिधेयम् //
8. कार्यहेतोर् वैधर्म्यवान् प्रयोगः / असत्य् अग्नौ न भवत्य् एव धूमो यथा महाह्रदे / धूमश् चात्रेति / (ts 299) अत्र दृष्टान्तधर्मिणा साध्यधर्मिणो हेतुकृतं वैसदृश्यम् अभिधेयम् //
9. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् इत्य् अर्थान् न पक्षादिवचनम् अनुमानम् उक्तं भवति / तत्र प्रतिज्ञा तावन् न साक्षात् साधनम् / अर्थाद् एवार्थगतेः / अर्थ एव ह्य् अर्थं गमयति प्रतिबन्धान् / नाभिधानं विपर्ययात् / पारंपर्येणापि न भवति / साध्यस्यैवाभिधानात् / साध्यसाधनधर्मविशेषोपदर्शनार्थम् अनवयवभूतापि प्रतिज्ञा दृष्टान्तवत् प्रयुज्यत इति चेत् / न / एवं ह्य् अनुज्ञादिवाक्यम् अपि प्रयोक्तव्यं स्यात् / न हि तैर् विना एव साधनस्य प्रवृत्तिर् संभवति / विषयोपदर्शनम् अपि निष्फलम् / तेनापि विना साध्यप्रतीतेः / तथा हि यत् कृतकं तत् सर्वम् अनित्यं कृतकश् च शब्द इत्य् एतावन्मात्रे प्रयुक्ते ऽनित्यः शब्द इति प्रतीतिर् भवत्य् एवान्तरेण प्रतिज्ञावचनम् / नन्व् असति प्रतिज्ञावचने सपक्षादिव्यवस्था कथम् / तथा हि साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः / तदभावप्रभावितश् चासपक्ष इति / असति हि प्रतिज्ञानिर्देशे पक्षापेक्षानिबन्धनं त्रैरूप्यं नास्तीति / असद् एतत् / तथा हि प्रतिज्ञावचनम् अन्तरेणापि सर्वं संपद्यत एव / उपनयनस्य पुनर् अर्थः पक्षधर्मवचनेनैव निर्दिष्ट इति न तत्पूर्वके तस्य कश्चिद् उपयोगः / व्याप्तिपूर्वके वचने पक्षधर्मवचनाद् एव तदर्थसिद्धेः किम् अनेनोपनयेन / निगमनम् अप्य् अनिष्टं साधनवाक्याङ्गम् इति //
10. त्रिरूपलिङ्गाख्यानं परार्थम् अनुमानम् इत्य् उक्तम् / त्रयाणां रूपाणाम् एकस्यापि रूपस्यानुक्तौ साधनाभासः / उक्तस्याप्य् असिद्धौ संदेहे च प्रतिपाद्यप्रतिपादकयोः / त्रयाणां रूपाणां मध्य एकस्यानुक्तौ / अपिशब्दाद् द्वयोर् अपि / साधनस्याभासः साधनस्य सदृशम् इत्य् अर्थः / उक्तस्यापिशब्दाद् अनुक्ताव् अपि / असिद्धौ संदेहे वा प्रतिपाद्यस्य प्रतिपादकस्य हेत्वाभासः /
11. तत्रैकस्य रूपस्य धर्मिसंबन्धस्यासिद्धौ संदेहे चासिद्धो हेत्वाभासः / यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वम् उभयासिद्धम् / चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम् / विज्ञानेन्द्रियायुर्निरोधैअक्षणस्य मरणस्यानेनाभ्युपगमात् / अचेतनाः सुखादय इति साध्य उत्पत्तिमत्त्वम् अनित्यत्वं वा सांख्यस्य स्वयंवादिनो ऽसिद्धम् / अत्र चोत्पत्तिमत्त्वम् अनित्यत्वं वा पर्यायेण हेतुर् न युगपत् तथा हि परार्थो हेतूपन्यासः / परस्य चासत उत्पाद उत्पत्तिमत्त्वं सतश् च निरन्वयो विनाशो ऽनित्यत्वं सिद्धम् इति / तथा स्वयं तदाश्रयणस्य वा संदेहे ऽसिद्धः / यथा बास्पादिभावेन संदिग्धो भूतसंघातो ऽग्निसिद्धौ भूतानां पृथिव्यादीनां संघातः समूहो ऽग्निसिद्ध्यर्थम् उपादीयमानो ऽसिद्धः / यथा चेह निकूञ्जेमयूरः केकायिताद् इति तदापातदेशविभ्रमे / आपातनम् आपातस् तस्य केकायितस्यापात उत्पादस् तस्य देशस् तस्य विभ्रमो भ्रान्तिः / अथ वा आपतत्य् आगच्छत्य् अस्माद् इत्य् आपातः / स एव देशस् तदापातदेशः / तस्य विभ्रमे / यत् पुनर् उच्यते ऽन्यैर् आपात आगमनम् इति तद् अयुक्तम् / (ts 301) न हि श्रोत्रेन्द्रियस्य प्राप्यकारिता घटते / नापीदं बौद्धदर्शनम् / तथा ह्य् उक्तम् अभिधर्मकोशे /
चक्षुःश्रोत्रमनो ऽप्राप्तविषयं त्रयम् अन्यथेति /
आश्रयासिद्ध्याप्य् असिद्धः / यथा सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वाद् आकाशवत् / सर्वत्रोपलभ्यमानगुणाः सुखादयो यस्य तद्भावस् तत्त्वं / तस्माद् यद्य् अयम् आत्मा सर्वगतो न भवेत् / कथं दक्षिणापथ उपलब्धाः सुखादयो मध्यदेश उपलभ्यन्ते / आकाशवद् इति दृष्टान्ते आकाशस्य गुणः शब्दः / स च यथा विकारिणि पुरुष उपलभ्यते तथान्यत्रापीति / स्याद् एष हेतुर् यदि बौद्धस्य सर्वत्रोपलभ्यमानगुणत्वम् आत्मनः सिद्धं स्यात् / यावद् आत्मैव न सिद्धः // तद् एवम् असिद्धः षट्प्रकारः // // //
12. तथैकस्य रूपस्यासपक्षे ऽसत्त्वस्यासिद्धाव् अनैकान्तिको हेत्वाभासः / यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः / नित्यत्वादिक इत्य् आत्रादिशब्देन प्रयत्नानन्तरीयकत्वाप्रयत्नानन्तरीयकत्वयोर् ग्रहणम् / प्रमेयत्वादिक इत्य् अत्रादिशब्देनानित्यत्वास्पर्शत्वयोर् ग्रहणम् / किंभूतः प्रमेयत्वादिको धर्मो ऽनैकान्तिकः / सपक्षविपक्षयोः सर्वत्रैकदेशे च वर्तमानः / नित्यः शब्दः प्रमेयत्वाद् इत्य् अत्र नित्यत्वे साध्ये प्रमेयत्वं सपक्षविपक्षयोर् वर्तते / एकदेशे च वर्तमान इत्य् अत्रापि सपक्षविपक्षयोर् इति संबन्धनीयं / चशब्देनैतत् कथयति / न केवलं सपक्षविपक्षव्यापि (ts 302) प्रमेयत्वम् अनैकान्तिको हेत्वाभासः / यो ऽपि सपक्षव्यापी विपक्षैकदेशवृत्तिः / तथा विपक्षव्यापी सपक्षैकदेशवृत्तीः / यो वा सपक्षविपक्षयोर् एकदेशवृत्तिः सर्वो ऽसाव् अनैकान्तिको हेत्वाभास इति / तत्र प्रयत्नानन्तरियकः शब्दो ऽनित्यत्वाद् घटवद् इत्य् अयं विपक्षैकदेशवृत्तिः / विद्युति वर्तमानत्वाद् आकाशादाव् अवर्तमानत्वात् सपक्षव्यापी तु भवत्य् एव / सर्वस्य प्रयत्नानन्तरीयकस्यानित्यत्वात् / अप्रयत्नानन्तरीयकः शब्दो ऽनित्यत्वाद् विद्युद् इव / अयं सपक्षैकदेशवृत्तिः / अप्रयत्नानन्तरीयको ऽस्य सपक्षो ऽविद्युदाकाशादिः / तत्रानित्यत्वं विद्युति वर्तते नाकाशादौ / विपक्षव्यापीतु भवत्य् एव / सर्वप्रयत्नानन्तरीयके ऽनित्यत्वस्य गतत्वात् / नित्यः शब्दो ऽस्पर्शत्वात् परशुवत् / अस्पर्शत्वं हि विपक्षैकदेशे बुद्ध्यादौ सपक्षैकदेशे चाकाशादौ वर्तत इत्य् उभयपक्षैकदेशवृत्तिः / एवं चतुर्विधः साधारणानैकान्तिको निर्दिष्टः //
13. तथा ऽस्यैव रूपस्य संदेहे ऽप्य् अनैकान्तिक एव / यथा सर्वज्ञः कश्चिद् विवक्षितः पुरुषो रागादिमान् वेति साध्ये वक्तृत्वादिको धर्मः संदिग्धविपक्षव्यावृत्तिकः / सर्वत्रैकदेशे वा सर्वज्ञो वक्ता नोपलभ्यत इति / एवं प्रकारस्यानुपलम्भस्यादृष्यात्मविषयत्वेन संदेहहेतुत्वात् / असर्वज्ञविपर्ययाद् वक्तृत्वादेर् व्यावृत्तिः संदिग्धा //
14. द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धः / कयोर् द्वयोः / सपक्षे सत्त्वस्यासपक्षे चासत्त्वस्य यथा कृतकत्वं प्रयत्नानन्तरीयकत्वं च नित्यत्वे साध्ये विरुद्धहेत्वाभासः // द्वयोर् उपादानम् असपक्षव्याप्यसपक्षैकदेशवृत्तित्वेन भेदात् / अनयोः (ts 303) सपक्षे ऽसत्त्वम् असपक्षे च सत्त्वम् इति विपर्ययसिद्धिः / एतौ साध्यविपर्ययसाधनाद् विरुद्धौ // द्वयो रूपयोर् एकस्यासिद्धाव् अपरस्य च संदेहे ऽनैकान्तिकः / द्वयोर् इत्य् अन्वयव्यतिरेकयोः / एकस्यासिद्धाव् इति / असपक्षे ऽसत्त्वस्य / अपरस्य संदेह इति सपक्षे सत्त्वस्य / यथा वीतरागः सर्वज्ञो वा वक्तृत्वाद् इति / व्यतिरेको ऽत्रासिद्धः संदिग्धो ऽन्वयः / सर्वज्ञवीतरागयोर् विप्रकर्षाद् वचनादेस् तत्र सत्त्वम् असत्त्वं वा संदिग्धम् / अनयोर् एव द्वयो रूपयोः संदेहे ऽनैकान्तिकः / यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति / न हि सात्मकानत्मकाभ्याम् अन्यो राशिर् अस्ति यत्र प्रणादिर् वर्तते / नाप्य् अनयोर् एकत्र वृत्तिनिश्चयः / अत एवान्वयव्यतिरेकयोः संदेहाद् अनैकान्तिकः / साध्येतरयोर् अतो निश्चयाभवात् /
15. एवम् एतेषां त्रयाणां रूपाणां एकैकस्य द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ संदेहे च यथायोगम् असिद्धविरुद्धानैकान्तिकास् त्रयो हेत्वाभासाः / एवम् अनन्तरोक्तेन क्रमेण त्रयो हेत्वाभसः / असिद्धविरुद्धानैकान्तिकाः / त्रायाणां रूपाणां पक्षधर्मान्वयव्यतिरेकाख्यानां मध्ये / एकैकस्य रूपस्यासिद्धौ संदेहे च / तथा द्वयोर् द्वयोर् वा रूपयोर् असिद्धौ संदेहे च यथायोगम् इति यथासंभवम् / तत्र धर्मिसंबन्धस्यैकस्य रूपस्यासिद्धाव् असिद्धः / तथा सपक्षे सत्त्वस्यासिद्धौ संदेहे चानैकान्तिक उक्तः / एवम् एकैकस्य रूपस्यासिद्धौ संदेहे चासिद्धो ऽनैकान्तिकश् च हेत्वाभास (ts 304) उक्तः / तथा द्वयोर् द्वयो रूपयोर् विपर्ययसिद्धौ विरुद्धो हेत्वाभास उक्तः / असपक्षे सत्त्वस्य च संदेहे वा ऽनैकान्तिक उक्तः / तथा सपक्षासपक्षयोर् अपि हेतोः सदसत्त्वसंदेहे ऽनैकान्तिक एव / एवं द्वयोर् द्वयोर् असिद्धौ संदेहे च विरुद्धो ऽनैकान्तिकश् च हेत्वाभास इति /
16. ननु कथम् उक्तं त्रयो हेत्वाभासा इति / यावता वैफल्यम् अपि हेतोः पृथग्दूषणम् अस्ति / तद् उक्तम् /
साधनं यद् विवादेन न्यस्तं तच् चेन् न साध्यते / किं साध्यम् अन्यथानिष्टं भवेद् वैफल्यम् एव वा // इति
अत्र केचिद् आहुः सत्यम् अस्त्य् एव वैफल्यं हेतोः पृथग्दूषणं / यत् पुनर् असिद्धविरुद्धानैकान्तिककथनं विनिश्चयादौ तद् असामर्थ्यप्रभेदेन / द्विविधं हि साधनस्य दूषणं भवति / असामर्थ्यं वैयर्थ्यं च / असामर्थ्यं त्व् असिद्धविरुद्धानैकन्तिकभेदात् त्रिविधम् / वैयर्थ्यं त्व् एकम् एवेति / स्याद् एतद् यदि वैयर्थ्यं नाम हेतोर् दूषणं स्यात् किं तु प्रमाणस्य / तद् उक्तम् उद्योतकरेणापि / अधिगतम् अपि गमयता प्रमाणेन पिष्टं पिष्टं स्याद् इति / न्यायपरमेश्वरैर् अपि कीर्त्तिपादैर् उक्तम् /
निष्पादितक्रिये कश्चिद् विशेषम् असमादधत् / कर्मण्य् ऐन्द्रियम् अन्यद् वा साधनं किम् इतीष्यत इति
ततश् च कथम् इदं वैयर्थ्यं हेतोर् दूषणम् / (ts 305) अथैवम् उच्यते प्रमाणाजनकत्वाद् धेतुर् अपि व्यर्थ उच्यत इति / एवं हि वास्तवम् इदं हेतोर् न दूषणं स्यात् / वास्तवं दूषणं वक्तव्यं / किं च / यदि वैयर्थ्यं हेतोर् दूषनं भिन्नं स्यात् / यथासिद्धताप्रतिपक्षेण हेतो रूपं पक्षधर्मता / विरुद्धताप्रतिपक्षेणान्वयः / अनैकान्तिकताप्रतिपक्षेन च व्यतिरेकश् चोक्तः / तथा वैयर्थ्यप्रतिपक्षेणाप्य् अन्यद् रूपम् उक्तं स्यात् / न चान्यद् रूपं हेतोर् घटते / यदि तर्हीदं वैयर्थ्यं न पृथग्दूषणं कथं तर्ह्य् अनेन वादी निगृह्यते //
17. अत्र केचिद् आहुः / असिद्ध एव वैयर्थ्यं अन्तर्भवतीति / तथा हि जिज्ञासितविशेषो धर्मी पक्षः / तद्धर्मश् च हेतुः / ततो ऽपक्षधर्मत्वाद् वैयर्थ्यम् असिद्ध एवान्तर्याति / अन्ये तु सुधिय एवम् आहुः / नेदं हेतोर् दूषणं किं तु परार्थानुमाने वक्तुर् अपि गुणदोषाश् चिन्त्यन्ते इति विफलाभिधायी अप्रतिभयैव निगृह्यत इति / तथा हि प्रकृतम् एव साध्यं नाप्रकृतम् इति साध्यतायाः प्रकृतेर् नियामक एष पन्था / एवं कृत्वा परिसंख्यानं न विरुध्यते / दोषाः पुनर् न्यूनत्वम् असिद्धिर् वादिना साधयितुम् इष्टस्यार्थस्य विपर्ययसाधनम् अष्टादश दृष्टान्तदोषाश् चेति / अत्र च यच् चोद्यं परिहारश्च तद् ग्रन्थविस्तरभयान् न लिखितम् इति / स्थितम् एतद् (ts 306) यदि वैयर्थ्यं हेतोर् दूषणं तदासिद्ध एवान्तर्भवति / नो चेद् अप्रतिभयैवेति //
18. त्रिइअक्षणो हेतुर् उक्तस् तावतार्थप्रतीतिर् इति न पृथग् दृष्टान्तो नाम साधनावयवः कश्चित् / तेन नास्य लक्षणं पृथग् उच्यते गतार्थत्वात् / हेतोः सपक्ष एव सत्त्वम् असपक्षाच् च सर्वतो व्यावृत्ती रूपम् उक्तम् अभेदेन इ पुनर् अविशेषेण कार्यस्वभावयोर् जन्मतन्मात्रानुबन्धौ दर्शनीयाव् उक्तौ / रूपशब्दः प्रत्येकम् अभिसंबध्यते / हेतोः सपक्ष एव सत्त्वम् इति साध्येनानुगतम् इदम् एकं रूपम् असपक्षाच् च सर्वतो व्यावृत्तिर् इति साध्यनिवृत्त्या निवृत्तिर् अस्य द्वितीयं रूपम् उक्तम् / अभेदेनेति स्वभावादिहेतुम् अकृत्वा / जन्मतन्मात्रे सत्य् अनुबद्धौ / साधानं कृतेति समासः / तच् च दर्शयता धूमस् तत्राग्निर् इति असत्य् अग्नौ न क्वचिद् धुमो यथा महानसेतरयोः / यत्र कृतकत्वं तत्रानित्यत्वम् अनित्यत्वाभावे कृतकत्वासंभवो यथा घटाकाशयोर् इति दर्शनीयम् / न ह्य् अन्यथा सपक्षविपक्षयोः सदसत्त्वे यथोक्तप्रकारे शक्ये दर्शयितुं / तत्कार्यतानियमः कार्यलिङ्गस्य च स्वभावव्याप्तिः / तस्याग्न्यादेः कार्यं तत्कार्यं तस्य भावस् तत्कार्यता / न ह्य् अन्यथा शक्यो दर्शयितुम् इति लिङ्गवचनविपरिणामेन सम्बन्धनीयम् //
19. अस्मिंश् चार्थे दर्शिते दर्शित एव दृष्टान्तो भवति / एतावन्मात्रत्वात् तस्येति / एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति / एतेनैवेति हेतुलक्षणाभिधानेनैव दृष्टान्तस्यापि सामर्थ्याद् गतार्थत्वेन दृष्टान्तदोषा (ts 307) अपि साधनत्वेन प्रत्याख्याता भवन्ति / येन हेतोः सामान्यविशेषलक्षणं यथोक्तं प्रदर्श्यते स संयग्दृष्टान्तः / येन पुनस् तस्य लक्षणद्वयं न प्रदर्श्यते सो दृष्टान्ताभास इत्य् उक्तं भवति / यथा नित्यः शब्दः / अमूर्तत्वात् / कर्मवद् इति साध्यधर्मविकलो दृष्टान्ताभासः / अत्र हि कर्मणि नित्यत्वं साध्यधर्मो नास्ति / अनित्यत्वात् कर्मनः / अमूर्तत्वं हि साधनधर्मो ऽस्ति / अमूर्तत्वाद् अस्य / नित्यः शब्दः / अमूर्तत्वात् परमाणुवद् इति / साधनधर्मविकलः / साध्यधर्मो ऽत्र नित्यत्वम् अस्ति नित्यत्वात् परमाणोः / नित्यः शब्दो ऽमूर्तत्वाद् घटवद् इति / उभयधर्मविकलो ऽनित्यत्वान् मूर्तत्वाद् घटस्य / रागादिमान् अयं पुरुषो वचनात् / रथ्यापुरुषवत् / संदिग्धसाध्यधर्मो ऽयं दृष्टान्ताभासः / रथ्यापुरुषे वचनं प्रत्यक्षेणैव निश्चितम् इति साधनधर्मस् तत्र सिद्धः / साध्यधर्मस् तु रागादिमत्वं संदिग्धम् / मरणधर्मा ऽयं पुरुषः / रागादिमत्वाद् रथ्यापुरुषवत् / रथ्यापुरुषे मरणधर्मत्वं साध्यधर्म उत्पत्तिमत्त्वादिना लिङ्गेन निश्चितं रागादिमत्त्वं त्व् अनिश्चितम् इति संदिग्धसाधनधर्मा / असर्वज्ञो ऽयं पुरुषो रागादीमत्त्वाद् रथ्यापुरुषवत् / संदिग्धोभयधर्मा / साध्यधर्मसाधनधर्मव्यावृत्तेर् रथ्यापुरुषे निश्चेतुम् अशक्यत्वाद् अन्वयो / यत्र साध्येन हेतोर् व्याप्तिर् नास्ति सो ऽनन्वयः / यो वक्ता स रागादिमान् इष्टपुरुषवत् /
अत्रान्वयो नास्ति / न हि रागादीनां वचनस्य तादात्म्यलक्षणस् तदुत्पत्तिलक्षनो वा प्रतिबन्धो ऽस्ति येनात्रान्वयः (ts 308) स्यात् / अप्रतिदर्शितान्वयः / यथानित्यः शब्दः कृतकत्वाद् घटवद् / अत्र यद्य् अपि कृतकत्वस्यानित्यत्वेनान्वयो ऽस्ति / न तु वचनेनाख्यात इत्य् अविद्यमान इवासौ / व्याप्यव्यापकभावस्य वचनेनाप्रदर्शितत्वाद् इति / विपरीतान्वयः / यथा यद् अनित्यं तत् कृतकम् / अत्र हि यत् कृतकं तद् अनित्यम् इत्य् अन्वये वक्तव्ये यद् अनित्यं तत् कृतकम् इति विपरीतम् अन्वयं करोति सर्व एते दृष्टान्तदोषाः साधर्म्येण //
20. तथा वैधर्म्येणापि / यथा नित्यः शब्दः / अमूर्तत्वात् / परमाणुवद् इति साध्याव्यतिरेकी / नित्यत्वात् परमाणोः साध्यं न व्यावृत्तम् / अत्रैव कर्मवद् इति दृष्टान्ते साधनाव्यतिरेकी / अमूर्तत्वात् कर्मणः / साधनम् अत्राव्यावृत्तम् / आकाशवद् इति कृत उभयाव्यतिरेकी / अतो ह्य् उभयं न व्यावृत्तं / नित्यत्वाद् अमूर्तत्वाद् आकाशस्य / तथा संदिग्धसाध्यव्यतिरेकः / यथा ऽसर्वज्ञाः कपिलादयः / अविद्यमानसर्वज्ञतालिङ्गभूतप्रमाणातिशयशासनत्वात् / अत्र वैधर्म्योदाहरणम् / यः सर्वज्ञः स ज्योतिर्ज्ञानादिकम् उपदिष्टवान् / यथा वर्धमानादिः / वर्धमानादेर् असर्वज्ञतायाः साध्यधर्मस्य संदिग्धो उभयव्यतिरेकः / संदिगह व्यतिरेकः / संदिग्धसाधन्व्यतिरेकः यथा न त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कश्चिद् विवक्षितः पुरुषो रागादिमत्त्वात् / अत्र वैधर्म्योदाहरणम् / ये ग्राह्यवचना न ते रागादिमन्तस् तद् यथा गौतमादयो धर्मशास्त्राणां प्रणेतारः / गौतमादिभ्यो रगादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः संदिग्धा / संदिग्धोभयव्यतिरेकः / यथावीतरागाः कपिलादयः / परिग्रहाग्रहयोगात् / परिग्रहो जीवितपरिष्काराणं स्वीकारः / आग्रहस् तेष्व् (ts 309) एवाभिष्वङ्गः / अत्र वैधर्म्याद् उदाहरणम् / यो वीतरागो न तस्य परिग्रहाग्रहौ / यथा ऋषभादेः / ऋषभादेर् अवीतरागत्वपरिग्रहाग्रहयोः साध्यसाधनधर्मयोर् व्यतिरेकः संदिग्धः / अव्यतिरेको यथावीतरागो वक्तृत्वात् / यत्र वीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति / यद्य् अपि उपलखण्डाद् उभयं व्यावृत्तं / तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरेकासिद्धेर् अव्यतिरेकः / अप्रदर्शितव्यतिरेकः / यथानित्यः शब्दः कृतकत्वाद् आकाशवद् इति वैधर्म्येण / यो ह्य् अनित्यः शब्दः कृतकत्वाद् इति प्रयोगे वैधर्म्येणाकाशवद् इति ब्रूयात् तेन विद्यमानो ऽपि व्यतिरेको न प्रदर्शितः तथा / यदाशेषपदार्थोपसंहारेणानित्यत्वाभावे कृतकत्वाभावो यथाकाशवद् इति करोति तदा व्यतिरेको दर्शितो भवति / न पुनर् उपमानमात्रेण / विपरीतव्यतिरेकः / यथा यद् अकृतकं तन् नित्यम् / अत्र हि यन् नित्यं तद् अकृतकम् इति वक्तव्ये / यद् अकृतकं तन् नित्यम् इति वदति //
21. न ह्य् एभिर् दृष्टान्ताभासैर् हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वम् असपक्षे चासत्त्वम् एव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा / एभिः साध्यविकलैर् दृष्टान्ताभासैर् हेतोः सामान्यलक्षणं निश्चयेन न शक्यं दर्शयितुं विशेषलक्षणं वेति संबन्धनीयं तदर्थापत्त्यैषां निरासो वेदितव्यः / यस्माद् एभिर् दृष्टान्ताभासैर् द्विविधम् अपि लक्षणं न शक्यं दर्शयितुम् / तस्माद् अर्थापत्त्यैषां निरासो द्रष्टव्यः //
22. दूषणा न्यूनताद्युक्तिः / दूष्यते ऽनयेति दूषणा / (ts 310) ण्यासश्रन्थो युच् / आदिशब्देनासिद्धविरुद्धानैकान्तिकाः / दृष्टान्तदोषाश् च गृह्यन्ते ये पूर्वं न्यूनतादयः साधनदोषा उक्तास् तेषाम् उद्भावनं तेन परेष्टार्थसिद्धिप्रतिबन्धात् / अनेन च यद् अह्रीकेणोक्तं विपर्ययसाधनम् एव दूषणं नान्यद् इति तद् अपि परास्तं द्रष्टव्यं / न हि विपर्ययसाधनाद् एव दूषणं / विरुद्धवत् / अपि तु परस्याभिप्रेतनिश्चयप्रतिबन्धात् / निश्चयाभावो वा भवति निश्चयविपर्यय इत्य् अस्त्य् एव विपर्ययसिद्धिः / दूषणाभासास् तु जातयः / अभूतदोषोद्भावनानि जात्युत्तराणि / जात्या सदृश्येनोत्तराणि / उत्तरस्थानप्रयुक्तत्वाद् //
इति तर्कसोपाने परार्थानुमानपरिच्छेदस् तृतीयः /
यत् तर्कसोपानम् इदं विधाय पुण्यं मयाप्तं शरदिन्दुशुभ्रम् / तेनोत्तमां बोधिम् अहं लभेय लोकश् च निर्यातु भवाद् अशेषः //
कृतिर् इयं पण्डितविद्याकरशान्तिपादानाम् // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
