Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
विंशतिका विज्ञप्तिमात्रतासिद्धि
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — S. Lévi: Vijñaptimātratāsiddhiḥ Deux traités de Vasubandhu: Viṃśatikā (La Vingtaine) accompagnée d'une explication en prose et Triṃśikā (La trentaine) avec le commentaire de Sthiramati, Paris 1925, and the correction by Hakuju Ui: Shiyaku-taisyḥ Yuisiki nijū-ron Kenkyū (Daijḥ-bukkyḥ Kenkyū 4) [*Comparative Study of the Viṃśatikā vijñaptimātratāsiddhi with Four Translations (Studies of the Mahāyāna Buddhism, 4)], Tokyo 1953, pp. 20-21.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वसुबन्धु: विंशतिका विज्ञप्तिमात्रतासिद्धि
माहायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते । चित्तमात्रं भो जिनपुत्रा यद् उत त्रैधातुकम् इति सूत्रात् । चित्तं मनो विज्ञानं विज्ञप्तिश् चेति पर्यायाः । चित्तम् अत्र ससंप्रयोगम् अभिप्रेतं । मत्रम् इत्य् अर्थप्रतिषेधार्थं ।
विज्ञप्तिमात्रम् एवेदम् असदर्थावभासनात् । यद्वत् तैमिरिकस्यासत् केशोण्डुकादिदर्शनं ॥ 1 ॥
अत्र चोद्यते । कश्चिद् अर्थो नास्ति /
न देशकालनियमः संतानानियमो न च । न च कृत्यक्रिया युक्ता विज्ञप्तिर् यदि नार्थतः ॥ 2 ॥
किम् उक्तं भवति । यदि विना रूपाद्यर्थेन रूपादिविज्ञप्तिर् उत्पद्यते न रूपाद्यर्थात् । कस्मात् क्वचिद् देश उत्पद्यते न सर्वत्र । तत्रैव च देशे कदाचिद् उत्पद्यते न सर्वदा । तद्देशकालप्रतिष्ठितानां सर्वेषां संतानानियम उत्पद्यते न केवलम् एकस्य । यथा तैमिरिकाणां संताने केशाद्याभासो नान्येषां । कस्माद् यत् तैमिरिकैः केशभ्रमरादि दृश्यते तेन केशादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । यद् अन्नपानवस्त्रविषायुधादि स्वप्ने दृश्यते तेनान्नादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । गन्धर्वनगरेणासत्त्वान् नगरक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । तस्माद् असदभावावभासने देशकालनियमः संतानानियमः कृत्यक्रिया च न युज्यते । न खलु न युज्यते । यस्मात् ।
देशादिनियमः सिद्धः स्वप्नवत्
स्वप्न इव स्वप्नवत् । कथं तावत् । स्वप्ने विनाप्य् अर्थेन क्वचिद् एव देशे किंचिद् भ्रमरारामस्त्रीपुरूषादिकं दृश्यते न सर्वत्र । तत्रैव च देशे कदाचिद् दृश्यते न सर्वकालम् इति सिद्धो विनाप्य् अर्थेन देशकालनियमः ।
प्रेतवत् पुनः । संतानानियमः
सिद्ध इति वर्तते । प्रेतानाम् इव प्रेतवत् । कथं सिद्धः समं । सर्वैः पूयनद्यादिदर्शने ॥ 3 ॥ पूयपूर्णा नदी पूयनदी । घृतघटवत् । तुल्यकर्मविपाकावस्था हि प्रेताः सर्वे ऽपि पूयपूर्णां नदीं पश्यन्ति नैक एव । यथा पूयपूर्णाम् एवं मूत्रपुरीषादिपूर्णां दण्डासिधरैश् च पुरुषैर् अधिष्ठिताम् इत्य् आदिग्रहणेन । एवं संतानानियमो विज्ञप्तिनाम् असत्य् अप्य् अर्थे सिद्धः ॥
स्वप्नोपघातवत् कृत्यक्रिया
सिद्ध इति वेदितव्यं । यथा स्वप्ने द्वयसमापत्तिम् अन्तरेण शुक्रविसर्गलक्षणः स्वप्नोपघातः । एवं तावद् अन्यान्यैर् दृष्टान्तैर् देशकालनियमादिचतुष्टयं सिद्धं ।
नरकवत् पुनः । सर्वं
सिद्धम् इति वेदितव्यं । नरकेष्व् इव नरकवत् । कथं सिद्धं । नरकपालादिदर्शने तैश् च बाधने ॥ 4 ॥ यथा हि नरकेषु नारकाणां नरकपालादिदर्शनं देशकालनियमेन सिद्धं । श्ववायसायसपर्वताद्यागमनगमनदर्शनं चेत्य् आदिग्रहणेन । सर्वेषां च नैकस्यैव तैश् च तद्बाधनं सिद्धम् असत्स्व् अपि नरकपालादिषु समानस्वकर्मविपाकाधिपत्यात् । तथान्यत्रापि सर्वम् एतद् देशकालनियमादिचतुष्तयं सिद्धम् इति वेदितव्यं ॥
किं पुनः कारणं नरकपालास् ते च श्वानो वायसाश् च सत्त्वा नेष्यन्ते । अयोगात् । न हि ते नारका युज्यन्ते । तथैव तद्दुःखाप्रतिसंवेदनात् । परस्परं यातयताम् इमे नारका इमे नरकपाला इति व्यवस्था न स्यात् । तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् । दाहदुःखं च प्रदीप्तायाम् अयोमय्यां भूमाव् असहमानाः कथं तत्र परान् यातयेयुः । अनारकाणां वा नरके कुतः संभवः । कथं तावत् तिरश्चां स्वर्गसंभवः । एवं नरकेषु तिर्यक्प्रेतविशेषाणां नरकपालादीनां संभवः स्यात् ।
तिरश्चां संभवः स्वर्गे यथा न नरके तथा । न प्रेतानां यतस् तज्जं दुःखं नानुभवन्ति ते ॥ 5 ॥
ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजनलोकसुखसंवर्तनीयेन कर्मणा तत्र संभूतास् तज्जं सुखं प्रत्यनुभवन्ति । न चैव नरकपालादयो नारकं दुःखं प्रत्यनुभवन्ति । तस्मान् न तिरश्चां संभवो युक्तो नापि प्रेतानां ॥
तेषां तर्हि (vvs_5) नारकाणां कर्मभिस् तत्र भूतविशेषाः संभवन्ति वर्णाकृतिप्रमाणबलविशिष्टा ये नरकपालादिसंज्ञां प्रतिलभन्ते । तथा च परिणमन्ति । यद् द्विधां हस्तविक्षेपादिक्रियां कुर्वन्तो दृश्यन्ते भयोत्पादनार्थं । यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तो ऽयःशाल्मलीवने च कण्टका अधोमुखीभवन्त ऊर्द्ध्वमुखीभवन्तश् चेति । न ते न संभवन्त्य् एव ।
यदि तत्कर्मभिस् तत्र भूतानां संभवस् तथा । इष्यते परिणामश् च किं विज्ञानस्य नेष्यते ॥ 6 ॥
विज्ञानस्यैव तत्कर्मभिस् तथा परिणामः कस्मान् नेष्यते किं पुनर् भूतानि कल्प्यन्ते ॥
अपि च ।
कर्मणो वासनान्यत्र फलम् अन्यत्र कल्प्यते । तत्रैव नेष्यते यत्र वासना किं नु कारणं ॥ 7 ॥
येन हि कर्मणा नारकाणां तत्र तादृशो भूतानां संभवः कल्प्यते परिणामश् च तस्य कर्मणो वासना तेषां विज्ञानसंतानसंनिविष्टा नान्यत्र । यत्रैव च वासना तत्रैव तस्याः फलं तादृशो विज्ञानपरिणामः किं नेष्यते । यत्र वासना नास्ति तत्र तस्याः फलं कल्प्यत इति किम् अत्र कारणं ॥
आगमः कारणं । यदि विज्ञानम् एव रूपादिप्रतिभासं स्यान् न रूपादिको ऽर्थस् तदा रूपाद्यायतनास्तित्वं भगवता नोक्तं स्यात् । अकारणम् एतद् यस्मात् ।
रूपाद्यायतनास्तित्वं तद्विनेयजनं प्रति । अभिप्रायवशाद् उक्तम् उपपादुकसत्त्ववत् ॥ 8 ॥
यथास्ति सत्त्व उपपादुक इत्य् उक्तं भगवता अभिप्रायवशाच् चित्तसंतत्यनुच्छेदम् आयत्याम् अभिप्रेत्य ।
नास्तीह सत्त्व आत्मा वा धर्मास् त्व् एते सहेतुकाः
इति वचनात् । एवं रूपाद्यायतनास्तित्वम् अप्य् उक्तं भगवता तद्देशनाविनेयजनम् अधिकृत्येत्य् आभिप्रायिकं तद् वचनं ॥
को ऽत्र अभिप्रायः ।
यतः स्वबीजाद् विज्ञप्तिर् यदाभासा प्रवर्तते । द्विविधायतनत्वेन ते तस्या मुनिर् अब्रवीत् ॥ 9 ॥
किम् उक्तं भवति । रूपप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या विज्ञप्तेश् चक्षूरूपायतनत्वेन (vvs_6) यथाक्रमं भगवान् अब्रवीत् । एवं यावत् स्प्रष्टव्यप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रनं भगवान् अब्रवीद् इत्य् अयम् अभिप्रायः ॥
एवं पुनर् अभिप्रायवशेन देशयित्वा को गुणाः ।
तथा पुद्गलनैरात्म्यप्रवेशो हि
तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति । द्वयाद् विज्ञानषट्कं प्रवर्तते । न तु कश्चिद् एको द्रष्टास्ति न यावन् मन्तेत्य् एवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास् ते पुद्गलनैरात्म्यं प्रविशन्ति ।
अन्यथा पुनः । देशना धर्मनैरात्म्यप्रवेशः
अन्यथेति विज्ञप्तिमात्रदेशना । कथं धर्मनैरात्म्यप्रवेशः । विज्ञप्तिमात्रम् इदं रूपादिधर्मप्रतिभासम् उत्पद्यते न तु रूपादिलक्षणो धर्मः को ऽप्य् अस्तीति विदित्वा । यदि तर्हि सर्वथा धर्मो नास्ति तद् अपि विज्ञप्तिमात्रं नास्तीति कथं तर्हि व्यवस्थाप्यते । न खलु सर्वथा धर्मो नास्तीत्य् एवं धर्मनैरात्म्यप्रवेशो भवति । अपि तु । कल्पितात्मना ॥ 10 ॥ यो बालैर् धर्माणां स्वभावो ग्राह्यग्राहकादिः परिकल्पतस् तेन कल्पितेनात्मना तेषां नैरात्म्यं न त्व् अनभिलाप्येनात्मना यो बुद्धानां विषय इति । एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात् विज्ञप्तिमात्रव्यवस्थापनया सर्वधर्माणां नैरात्म्यप्रवेशो भवति न तु तदस्तित्वापवादात् । इतरथा हि विज्ञप्तेर् अपि विज्ञप्त्यन्तरम् अर्थः स्याद् इति विज्ञप्तिमात्रत्वं न सिध्येतार्थवतीत्वाद् विज्ञप्तीनां ॥
कथं पुनर् इदं प्रत्येतव्यम् अनेनाभिप्रायेण भगवता रूपाद्यायतनास्तित्वम् उक्तं न पुनः सन्त्य् एव तानि यानि रूपादिविज्ञप्तीनां प्रत्येकं विषयीभवन्ति इति । यस्मात् ।
न तद् एकं न चानेकं विषयः परमाणुशः । न च ते संहता यस्मात् परमाणुर् न सिध्यति ॥ 11 ॥
इति । किम् उक्तं भवति । यत् तद्रूपादिकम् आयतनं रूपादिविज्ञप्तीनां प्रत्येकं विषयः स्यात् तद् एकं वा स्याद् यथावयविरूपं कल्प्यते वैशेषिकैः । अनेकं वा परमाणुशः । संहता वा त एव परमाणवः । न तावद् एकं विषयो भवत्य् अवयवेभ्यो ऽन्यस्यावयविरूपस्य क्वचिद् अप्य् अग्रहणात् । नाप्य् अनेकं परमाणूनां (vvs_7) प्रत्येकम् अग्रहणात् । नापि ते संहता विषयीभवन्ति । यस्मात् परमाणुर् एकं द्रव्यं न सिध्यति ॥
कथं न सिध्यति । यस्मात् । षट्केन युगपद् योगात् परमाणोः षडंशता । षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर् युगपद् योगे सति परमाणोः षडंशता प्राप्नोति । एकस्य यो देशस् तत्रान्यस्यासंभवात् ।
षण्णां समानदेशत्वात् पिण्डः स्याद् अणुमात्रकः ॥ 12 ॥
अथ य एवैकस्य परमाणोर् देशः स एव षण्णां । तेन सर्वेषां समानदेशत्वात् सर्वः पिण्डः परमाणुमात्रः स्यात् परस्पराव्यतिरेकाद् इति न कश्चित् पिण्डो दृश्यः स्यात् ॥
नैव हि परमाणवः संयुज्यन्ते निरवयवत्वात् । मा भूद् एष दोषप्रसङ्गः । संहतास् तु परस्परं संयुज्यन्त इति काश्मीरवैभाषिकास् त इदं प्रष्टव्याः । यः परमाणूनां संघातो न स तेभ्यो ऽर्थान्तरम् इति । परमाणोर् असंयोगात् तत्संघाते ऽस्ति कस्य सः । संयोग इति वर्तते । न चानवयवत्वेन तत्संयोगो न सिध्यति ॥ 13 ॥ अथ संघाता अप्य् अन्योन्यं न संयुज्यन्ते । न तर्हि परमाणूनां निरवयवत्वात् संयोगो न सिध्यतीति वक्तव्यं । सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् । तस्मात् परमाणुर् एकं द्रव्यं न सिध्यति । यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते । दिग्भागभेदी यस्यास्ति तस्यैकत्वं न युज्यते । अन्यो हि परमाणोः पूर्वदिग्भागो यावद् अधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोर् एकत्वं योक्ष्यते ।
छायावृती कथ वा
यद्य् एकैकस्य परमाणोर् दिग्भागभेदो न स्याद् आदित्योदये कथम् अन्यत्र छाया भवत्य् अन्यत्रातपः । न हि तस्यान्यः प्रदेशो ऽस्ति यत्रातपो न स्यात् । आवरणं च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते । न हि कश्चिद् अपि परमाणोः परभागो ऽस्ति यत्रागमनाद् अन्येनान्यस्य प्रतिघातः स्यात् । असति च प्रतिघाते सर्वेषां समानदेशत्वात् सर्वः संघातः (vvs_8) परमाणुमात्रः स्याद् इत्य् उक्तं । किम् एवं नेष्यते पिण्डस्य ते छायावृती न परमाणोर् इति । किं खलु परमाणुभ्यो ऽन्यः पिण्ड इष्यते यस्य ते स्यातां । नेत्य् आह । अन्यो न पिण्डश् चेन् न तस्य ते ॥ 14 ॥ यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्धं भवति । संनिवेशपरिकल्प एषः परमाणुः संघात इति वा ॥
किम् अनया चिन्तया लक्षणं / तु रूपादि यदि न प्रतिषिध्यते । किं पुनस् तेषां लक्षणं । चक्षुरादिविषयत्वं नीलादित्वं च । तद् एवेदं संप्रधार्यते । यत् तच् चक्षुरादीनां विषयो नीलपीतादिकम् इष्यते किं तद् एकं द्रव्यम् अथ वा तद् अनेकम् इति । किं चातः । अनेकत्वे दोष उक्तं ।
एकत्वे न क्रमेणेतिर् युगपन् न ग्रहाग्रहौ । विच्छिन्नानेकवृत्तिश् च सूक्ष्मानीक्षा च नो भवेत् ॥ 15 ॥
यदि यावद् विच्छिन्नं नानेकं चक्षुषो विषयस् तद् एकं द्रव्यं कल्प्यते पृथिव्यां क्रमेणेतिर् न स्याद् गमनम् इत्य् अर्थः । सकृत्पादक्षेपेण सर्वस्य गतत्वात् । अर्वाग्भागस्य च ग्रहणं परभागस्य चाग्रहणं युगपन् न स्यात् । न हि तस्यैव तदानीं ग्रहणं चाग्रहणं च युक्तम् । विच्छिन्नस्य चानेकस्य हस्त्यश्वादिकस्यैकत्र वृत्तिर् न स्याद् यत्रैव ह्य् एकं तत्रैवापरम् इति कथं तयोर् विच्छेद इष्यते । कथं वा तद् एकं यत् प्राप्तं च ताभ्यां न च प्राप्तम् अन्तराले तच् छून्यग्रहणात् । सूक्ष्माणां चौदकजन्तूनां स्थूलैः समानरूपाणाम् अनीक्षणं न स्याद् । यदि लक्षणभेदाद् एव द्रव्यान्तरत्वं कल्प्यते नान्यथा । तस्माद् अवश्यं परमाणुशो भेदः कल्पयितव्यः । स चैको न सिध्यति । तस्यासिद्धौ रूपादीनां चक्षुरादिविषयत्वम् असिद्धम् इति सिद्धं विज्ञप्तिमात्रं भवतीति ॥
प्रमाणवशाद् अस्तित्वं नास्तित्वं वा निर्धार्यते सर्वेषां च प्रमाणानां प्रत्यक्षं प्रमाणं गरिष्टम् इत्य् असत्य् अर्थे कथम् इयं बुद्धिर् भवति प्रत्यक्षम् इति ।
प्रत्यक्षबुद्धिः स्वप्नादौ यथा
विनाप्य् अर्थेनेति पूर्वम् एव ज्ञापितं
सा च यदा तदा । न सो ऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतं ॥ 16 ॥
यदा च सा प्रत्यक्षबुद्धिर् भवतीदं मे प्रत्यक्षम् इति तदा न सो ऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच् चक्षुर्विज्ञानस्य च तदा निरुद्धत्वाद् इति कथं तस्य प्रत्यक्षत्वम् इष्टं । विशेषेण तु क्षणिकस्य विषयस्य तदानीं (vvs_9) निरुद्धम् एवं तद् रूपं रसादिकं वा ॥
नाननुभूतं मनोविज्ञानेन स्मर्यत इत्य् अवश्यम् अर्थानुभवेन भवितव्यं तच् च दर्शनम् इत्य् एवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतं । असिद्धम् इदम् अनुभूतस्यार्थस्य स्मरणं भवतीति । यस्मात् ।
उक्तं यथा तदाभासा विज्ञप्तिः
विनाप्य् अर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिर् उत्पद्यते तथोक्तं । स्मरणं ततः । ततो हि विज्ञप्तेः स्मृतिसंप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनोविज्ञप्तिर् उत्पद्यत इति न स्मृत्युत्पादाद् अर्थानुभवः सिध्यति । यदि यथा स्वप्ने विज्ञप्तिर् अभूतार्थविषया तथा जाग्रतो ऽपि स्यात् तथैव तदभावं लोकः स्वयम् अवगच्छेत् । न चैवं भवति । तस्मान् न स्वप्न इवार्थोपलब्धिः सर्वा निरर्थिका । इदम् अज्ञापकं । यस्मात् । स्वप्नदृग्विषयाभावं नाप्रबुद्धो ऽविगच्छति ॥ 17 ॥ एवं वितथविकल्पाभ्यासवासनानिद्रया प्रसुप्तो लोकः स्वप्न इवाभूतम् अर्थं पश्यन् न प्रबुद्धस् तदभावं यथावन् नावगच्छति । यदा तु तत्प्रतिपक्षलोकोत्तरनिर्विकल्पज्ञानलाभात् प्रबुद्धो भवति तदा तत्पृष्ठलब्धशुद्धलौकिकज्ञानसंमुखीभावाद् विषयाभावं यथावद् अवगच्छतीति समानम् एतत् ॥
यदि स्वसंतानपरिणामविशेषाद् एव सत्वानाम् अर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थविशेषात् । तदा य एष पापकल्याणमित्रसंपर्कात् सदसद्धर्मश्रवणाच् च विज्ञप्तिनियमः सत्त्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनायां च । अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः । सर्वेषां हि सत्त्वानाम् अन्योन्यविज्ञप्त्याधिपत्येन मिथो विज्ञप्तेर् नियमो भवति यथायोगं । मिथ इति परस्परतः । अतः संतानान्तरविज्ञप्तिविशेषात् संतानान्तरे विज्ञप्तिविशेष उत्पद्यते नार्थविशेषात् । यदि यथा स्वप्ने निरर्थिका विज्ञप्तिर् एवं जाग्रतो ऽपि स्यात् कस्मात् कुशलाकुशलसमुदाचारो सुप्तासुप्तयोस् तुल्यं फलम् इष्टानिष्टम् आयत्यां न भवति । यस्मात् । मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलं ॥ 18 ॥ इदम् अत्र कारणां न त्व् अर्थसद्भावः ॥
यदि विज्ञाप्तिमात्रम् एवेदं न कस्यचित् कायो ऽस्ति न वाक् ॥
कथम् उपक्रम्यमाणानाम् औरभ्रिकादिभिर् उरभ्रादीनां (vvs_10) मरणं भव्ति । अतत्कृते वा तन्मरणे कथम् औरभ्रिकादीनां प्राणातिपातावद्येन योगो भवति ।
मरणम् परविज्ञप्तिविशेषाद् विक्रिया यथा । स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात् ॥ 19 ॥
यथा हि पिशाचादिमनोवशाद् अन्येषां स्मृतिलोपस्वप्नदर्शनभूतग्रहावेशविकारा भवन्ति । ऋद्धिवन् मनोवशाच् च । यथा सारणस्यार्यमहाकात्यायनाधिष्ठानात् स्वप्नदर्शनं । आरण्यकर्षिमनःप्रदोषाच् च वेमचित्रपराजयः । तथा परविज्ञप्तिविशेषाधिपत्यात् परेषां जीवितेन्द्रियविरोधिनी काचिद् विक्रियोत्पद्यते यया सभागसंततिविच्छेदाख्यं मरणं भवतीति वेदितव्यं ॥ कथं वा दण्डकारण्यशून्यत्वम् ऋषिकोपतः । यदि परविज्ञप्तिविशेषाधिपत्यात् सत्त्वानां मरणं नेष्यते । मनोदण्डस्य हि महासावद्यत्वं साधयता भगवतोपालिर् गृहपतिः पृष्टः । कच्चित् ते गृहपते श्रुतं केन तानि दण्डकारण्यानि मातङ्गारण्यानि कलिङ्गारण्यानि शून्यानि मेध्यीभूतानि । तेनोक्तं । श्रुतं मे भो गौतम ऋषीणां मनःप्रदोषेणेति । मनोदण्डो महावद्यः कथं वा तेन सिध्यति ॥ 20 ॥ यद्य् एवं कल्प्यते । तदभिप्रसन्नैर् अमानुषैस् तद्वासिनः सत्त्वा उत्सादिता न त्व् ऋषीणां मनःप्रदोषान् मृता इत्य् एवं सति कथं तेन कर्मणा मनोदण्डः कायवाग्दण्डाभ्यां महावद्यतमः सिद्धो भवति । तन्मनःप्रदोषमात्रेण तावतां सत्त्वानां मरणात् सिध्यति ॥
यदि विज्ञप्तिमात्रम् एवेदं परचित्तविदः किं परचित्तं जानन्त्य् अथ न । किं चातः । यदि न जानन्ति कथं परचित्तविदो भवन्ति । अथ जानन्ति ।
परचित्तविदां ज्ञानम् अयथार्थं कथं यथा । स्वचित्तज्ञानं
तद् अपि कथम् अयथार्थ । अज्ञानाद् यथा बुद्धस्य गोचरः ॥ 21 ॥ यथा तन्निरभिलाप्येनात्मना बुद्धानां गोचरः । तथा तदज्ञानात् तदुभयं न यथार्थं वितथप्रतिभासतया ग्राह्यग्राहकविकल्पस्याप्रहीणत्वात् ॥
अनन्तविनिश्चयप्रभेदागाम्भीर्यायां विज्ञप्तिमात्रतायां ।
विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया । कृतेयं सर्वथा सा तु न चिन्त्या
सर्वप्रकारा तु सा मादृशैश् चिन्तयितुं न शक्यते । तर्काविषयत्वात् । कस्य पुनः सा सर्वथा गोचर इत्य् आह । बुद्धगोचरः ॥ 22 ॥ बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वाकारसर्वज्ञेयज्ञानाविघाताद् इति ॥
विंशतिका विज्ञप्तिमात्रतासिद्धिः । कृतिर् इयम् आचार्यवसुबन्धोः ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
