Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
त्रिंशिकाविज्ञप्तिकारिका with स्थिरमति's त्रिंशिकाविज्ञप्तिभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — Hartmut Buescher: Sthiramati's Triṃśikāvijñaptibhāṣya, Critical Editions of the Sanskrit Text and its Tibetan Translation, Wien 2007 (Österreichische Akademie der Wissenschaften, Phil.-hist. Kl., Sitzungsberichte, 786; Beiträge zur Kultur- und Geistesgeschichte Asiens, 57).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वसुबन्धु: त्रिंशिकाविज्ञप्तिकारिका with स्थिरमति's त्रिंशिकाविज्ञप्तिभाष्य
वसुबन्धु: त्रिंशिकाविज्ञप्तिकारिका
नमो बुद्धाय ॥
पुद्गलधर्मनैरात्म्ययोर् अप्रतिपन्नविप्रतिपन्नानाम् अविपरीतपुद्गलधर्मनैरात्म्यप्रतिपादनार्थं त्रिंशिकाविज्ञप्तिप्रकरणारम्भः ।
पुद्गलधर्मनैरात्म्यप्रतिपादनं पुनः क्लेशज्ञेयावरणप्रहाणार्थम् । तथा ह्य् आत्मदृष्टिप्रभवा रागादयः क्लेशाः पुद्गलनैरात्म्यावबोधश् च सत्कायदृष्टेः प्रतिपक्षत्वात् तत्प्रहाणाय प्रवर्तमानः सर्वक्लेशान् प्रजहाति । धर्मनैरात्म्यज्ञानाद् अपि ज्ञेयावरणप्रतिपक्षत्वात् ज्ञेयावरणं प्रहीयते । क्लेशज्ञेयावरणप्रहाणम् अपि मोक्षसर्वज्ञत्वाधिगमार्थम् । क्लेशा हि मोक्षप्राप्तेर् आवरणम् इति अतस् तेषु प्रहीणेषु मोक्षो ऽधिगम्यते । ज्ञेयावरणम् अपि सर्वस्मिन् ज्ञेये ज्ञानप्रवृत्तिप्रतिबन्धभूतम् अक्लिष्टम् अज्ञानम् । तस्मिन् प्रहीणे सर्वाकारे ज्ञेये ऽसक्तम् अप्रतिहतञ् च ज्ञानं प्रवर्तत इत्य् अतः सर्वज्ञत्वम् अधिगम्यते ।
अथ वा धर्मपुद्गलाभिनिविष्टाश् चित्तमात्रं यथाभूतं न जानन्तीत्य् अतो धर्मपुद्गलनैरात्म्यप्रदर्शनेन सफले विज्ञप्तिमात्रे ऽनुपूर्वेण प्रवेशार्थं प्रकरणारम्भः ।
अथ वा विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेति केचिन् मन्यन्ते । विज्ञेयवद् विज्ञानम् अपि संवृतित एव न परमार्थत इत्य् अस्य द्विप्रकारस्याप्य् एकान्तवादस्य प्रतिषेधार्थः प्रकरणारम्भः ॥
आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । 1अब्
लोकशास्त्रयोर् इति वाक्यशेषः ।
विज्ञानपरिणामे ऽसौ । 1च्
आत्मधर्मोपचार इति संबध्यते । आत्मा धर्माश् चोपचर्यन्त इत्य् आत्मधर्मोपचारः । स पुनर् आत्मप्रज्ञप्तिर् धर्मप्रज्ञप्तिश् च । विविध इत्य् अनेकप्रकारः । आत्मा जीवो जन्तुर् मनुजो माणव इत्य् एवमादिक आत्मोपचारः स्कन्धा धातव आयतनानि रूपं वेदना संज्ञा संस्कारा विज्ञानम् इत्य् एवमादिको धर्मोपचारः ।
अयं द्विप्रकारो ऽप्य् उपचारो विज्ञानपरिणाम एव न मुख्ये आत्मनि धर्मेषु चेति । कुत एतत् । धर्माणाम् आत्मनश् च विज्ञानपरिणामाद् बहिर् अभावात् । को ऽयं परिणामो नाम । अन्यथात्वम् । कारणक्षणनिरोधसमकालः कारणक्षणविलक्षणः कार्यस्यात्मलाभः परिणामः । तत्रात्मादिविकल्पवासनापरिपोषाद् रूपादिविकल्पवासनापरिपोषाच् चालयविज्ञानाद् आत्मादिनिर्भासो विकल्पो रूपादिनिर्भासश् चोत्पद्यते । [tvbh_42] तम् आत्मादिनिर्भासं रूपादिनिर्भासञ् च तस्माद् विकल्पाद् बहिर्भूतम् इवोपादायात्माद्युपचारो रूपादिधर्मोपचारश् चानादिकालिकः प्रवर्तते विनापि बाह्येनात्मना धर्मैश् च । तद् यथा तैमिरिकस्य केशोण्डुकाद्युपचार इति । यच् च यत्र नास्ति तत् तत्रोपचर्यते । तद् यथा बाहीके गौः ।
एवं विज्ञानस्वरूपे बहिश् चात्मधर्माभावात् परिकल्पित एवात्मा धर्माश् च न तु परमार्थतः सन्तीति विज्ञानवद् विज्ञेयम् अपि द्रव्यत एवेत्य् अयम् एकान्तवादो नाभ्युपेयः ।
उपचारस्य च निराधारस्यासंभवाद् अवश्यं विज्ञानपरिणामो वस्तुतो ऽस्तीत्य् उपगन्तव्यो यत्रात्मधर्मोपचारः प्रवर्तते । अतश् चायम् अभ्युपगमो न युक्तिक्षमो विज्ञानम् अपि विज्ञेयवत् संवृतित एव न परमार्थत इति । संवृतितो ऽप्य् अभावप्रसङ्गान् न हि संवृतिर् निरुपादाना युज्यते ।
तस्माद् अयम् एकान्तवादो द्विप्रकारो ऽपि निर्युक्तिकत्वात् त्याज्य इत्य् आचार्यवचनम् । एवञ् च सर्वं विज्ञेयं परिकल्पितस्वभावत्वाद् वस्तुतो न विद्यते विज्ञानं पुनः प्रतीत्यसमुत्पन्नत्वाद् द्रव्यतो ऽस्तीत्य् अभ्युपेयम् । प्रतीत्यसमुत्पन्नत्वं पुनर् विज्ञानस्य परिणामशब्देन ज्ञापितम् ।
कथम् एतद् गम्यते विना बाह्येनार्थेन विज्ञानम् एवार्थाकारम् उत्पद्यत इति । बाह्यो ह्य् अर्थः स्वाभासविज्ञानजनकत्वेन विज्ञानस्यालम्बनप्रत्यय इष्यते न कारणत्वमात्रेण समनन्तरादिप्रत्ययाद् विशेषाप्रसङ्गात् ।
सञ्चितालम्बनाश् च पञ्चविज्ञानकायास् तदाकारत्वात् । न च सञ्चितम् अवयवसंहतिमात्राद् अन्यद् विद्यते । तदवयवान् अपोह्य सञ्चिताकारविज्ञानाभावात् । तस्माद् विनैव बाह्येनार्थेन विज्ञानं सञ्चिताकारम् उत्पद्यते ।
न च परमाणव एव संचितास् तस्यालम्बनं परमाणूनाम् अतदाकारत्वात् । न ह्य् असञ्चितावस्थातः सञ्चितावस्थायां परमाणूनां कश्चिद् आत्मातिशयः । तस्माद् असञ्चितवत् सञ्चिता अपि परमाणवो नैवालम्बनम् ।
अन्यस् तु मन्यते । एकैक परमाणुर् अन्यनिरपेक्ष्यो ऽतीन्द्रियो बहवस् तु परस्परापेक्षा इन्द्रियग्राह्याः । तेषाम् अपि सापेक्षनिरपेक्षावस्थयोर् आत्मातिशयाभावाद् एकान्तेनेन्द्रियग्राह्यत्वम् अतीन्द्रियत्वं वा ।
यदि च परमाणव एव परस्परापेक्षा विज्ञानस्य विषयीभवन्ति । एवं सति यो ऽयं घटकुड्याद्याकारभेदो विज्ञाने स न स्यात् प्ररमाणूनाम् अतदाकारत्वात् । न चान्यनिर्भासस्य विज्ञानस्यान्याकारो विषयो युज्यते ऽतिप्रसङ्गात् । न च परमाणवः स्तम्भादिवत् परमार्थतः सन्त्य्। अर्वाङ्मध्यपरभागसद्भावात् ।
तदनभ्युपगमे वा पूर्वदक्षिणापरोत्तरादिदिग्भेदो यः स परमाणोर् न स्यात् । ततश् च विज्ञानवत् परमाणोर् अप्य् अमूर्तत्वम् अदेशस्थत्वञ् च प्रसज्यते । एवं बाह्यार्थाभावाद् विज्ञानम् एवार्थाकारम् उत्पद्यते स्वप्नविज्ञानवद् इत्य् अभ्युपेयम् । वेदनादयो ऽपि नातीतानागतास् तदाकारविज्ञानजनका निरुद्धाजातत्वात् । न च वर्तमाना वर्तमानजनका उत्पद्यमानावस्थायाम् असत्त्वात् । [tvbh_46] उत्पन्नावस्थायां विज्ञानस्यापि तदाकारेणोत्पन्नत्वान् न किञ्चित् कर्तव्यम् अस्तीति मनोविज्ञानम् अप्य् अनालम्बनम् एवोत्पद्यते ।
अन्यस् त्व् आह । असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युज्यते । उपचारो हि त्रिषु सत्सु भवति नान्यतमाभावे मुख्यपदार्थे तत्सदृशे ऽन्यस्मिन् विषये तयोश् च सादृश्ये । तद् यथा मुख्ये ऽग्नौ तत्सदृशे च माणवके तयोश् च साधारणे धर्मे कपिलत्वे तीक्ष्णत्वे वा सत्य् अग्निर् माणवक इत्य् उपचारः क्रियते । अत्र ह्य् अग्निर् माणवक इति जातिर् द्रव्यं वोपचर्यते । उभयथाप्य् उपचाराभावः ।
तत्र तावन् न जातेः साधारणं कपिलत्वं तीक्ष्णत्वं वा । न च साधारणधर्माभावे माणवके जातेर् उपचारो युज्यते ऽतिप्रसङ्गात् । अतद्धर्मत्वे ऽपि जातेस् तीक्ष्णत्वकपिलत्वयोर् जात्यविनाभावित्वान् माणवके जात्युपचारो भविष्यति । जात्यभावे ऽपि तीक्ष्णत्वकपिलत्वयोर् माणवके दर्शनाद् अविनाभावित्वम् अयुक्तम् । अविनाभावित्वे चोपचाराभावो ऽग्नाव् इव माणवके ऽपि जातिसद्भावात् । तस्मान् न माणवके जात्युपचारः संभवति ।
नापि द्रव्योपचारः सामान्यधर्माभावात् । न हि यो ऽग्नेस् तीक्ष्णो गुणः कपिलो वा स एव माणवके । किं तर्हि ततो ऽन्यः । विशेषस्य स्वाश्रयप्रतिबद्धत्वान् न विनाग्निगुणेनाग्नेर् माणवके उपचारो युक्तः । अग्निगुणसादृश्याद् युक्त इति चेत् । एवम् अप्य् अग्निगुणस्यैव तीक्ष्णस्य कपिलस्य वा माणवकगुणे तीक्ष्णे कपिले वा सादृश्याद् उपचारो युक्तो न तु माणवके ऽग्नेर् गुणसादृश्येनासंबन्धात् । तस्माद् द्रव्योपचारो ऽपि नैव युज्यते ।
मुख्यो ऽपि पदार्थो नैवास्ति तत्स्वरूपस्य सर्वज्ञानाभिधानविषयातिक्रान्तत्वात् । प्रधाने हि गुणरूपेणैव ज्ञानाभिधाने प्रवर्तेते तत्स्वरूपासंस्पर्शात् । अन्यथा च गुणवैयर्थ्यप्रसङ्गः । न हि ज्ञानाभिधानव्यतिरिक्तो ऽन्यः पदार्थस्वरूपपरिच्छित्त्युपायो ऽस्तीत्य् अतः प्रधानस्वरूपविषयज्ञानाभिधानाभावान् नैव मुख्यः पदार्थो ऽस्तीत्य् अवगन्तव्यम् । एवं यावच् छब्दे संबन्धाभावाज् ज्ञानाभिधानाभाव एवञ् चाभिधानाभिधेयाभावान् नैव मुख्यः पदार्थो ऽस्ति । अपि च सर्व एवायं गौण एव न मुख्यो ऽस्ति । गौणो हि नाम यो यत्राविद्यमानेन रूपेण प्रवर्तते । सर्वश् च शब्दः प्रधाने ऽविद्यमानेनैव गुणरूपेण प्रवर्तते अतो मुख्यो नास्त्य् एव । तत्र यद् उक्तं असत्य् आत्मनि मुख्ये धर्मेषु चोपचारो न युक्त इति तद् अयुक्तम् ।
विज्ञानपरिणामः कति प्रभेद इति न ज्ञायते । अतस् तत्प्रभेदोपदर्शनार्थम् आह ।
परिणामः स च त्रिधा ॥ 1द्
यत्रात्माद्युपचारो धर्मोपचारश् च स पुनर् हेतुभावेन फलभावेन च भिद्यते । तत्र हेतुपरिणामो यालयविज्ञाने विपाकनिष्यन्दवासनापरिपुष्टिः । फलपरिणामः पुनर् विपाकवासनावृत्तिलाभाद् आलयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्व् अभिनिर्वृत्तिः । निष्यन्दवासनावृत्तिलाभाच् च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलयविज्ञानाद् अभिनिर्वृत्तिः । तत्र प्रवृत्तिविज्ञानं कुशलाकुशलम् आलयविज्ञाने विपाकवासनां निष्यन्दवासनाञ् चाधत्ते । अव्याकृतं क्लिष्टञ् च मनो निष्यन्दवासनाम् एव ।
यो ऽसौ त्रिविधः परिणाम उक्तो ऽसाव् अपि न ज्ञायते । अतस् तद्भेदप्रदर्शनार्थम् आह ।
विपाको मननाख्यश् च विज्ञप्तिर् विषयस्य च । 2अब्
इति । स एष त्रिविधः परिणामो विपाकाख्यो मननाख्यो विषयविज्ञप्त्याख्यश् च । तत्र कुशलाकुशलकर्मवासनापरिपाकवशाद् यथाक्षेपं फलाभिनिर्वृत्तिर् विपाकः । क्लिष्टं मनो नित्यं मननात्मकत्वान् मननाख्यम् । रूपादिविषयप्रत्यवभासत्वाच् चक्षुरादिविज्ञानं षट्प्रकारम् अपि विषयविज्ञप्तिः ।
तत्स्वरूपनिर्देशम् अन्तरेण न तत् प्रतीयते इत्य् अतो यस्य यत् स्वरूपं तद् यथाक्रमं प्रदर्शयन्न् आह ।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् 2च्द्
इति । तत्रेति यो ऽयम् अनन्तरोक्तस् त्रिविधः परिणामः । आलयाख्यम् इत्य् आलयविज्ञानसंज्ञकं यद् विज्ञानं स विपाकपरिणामः । तच् च सर्वसांक्लेशिकधर्मबीजस्थानत्वाद् आलयः । आलयः स्थानम् इति पर्यायौ । अथ वालीयन्ते उपनिबध्यन्ते ऽस्मिन् सर्वधर्माः कार्यभावेन तद् वालीयते उपनिबध्यते कारणभावेन सर्वधर्मेष्व् इत्य् आलयः । विजानातीति विज्ञानम् । सर्वधातुगतियोनिजातिषु कुशलाकुशलकर्मविपाकत्वाद् विपाकः । सर्वधर्मबीजाश्रयत्वात् सर्वबीजकम् । यदि प्रवृत्तिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति ततो ऽस्यालम्बनम् आकारो वा वक्तव्यः । न हि निरालम्बनं निराकारं वा विज्ञानं युज्यते । नैव तन् निरालम्बनं निराकारं वेष्यते । किं तर्ह्य् [tvbh_52] अपरिच्छिन्नालम्बनाकारम् । किं कारणम् । यस्माद् आलयविज्ञानं द्विधा प्रवर्तते । अध्यात्मम् उपादानविज्ञप्तितो बहिर्धापरिच्छिन्नाकारभाजनविज्ञप्तितश् च ।
तत्राध्यात्मम् उपादानं परिकल्पितस्वभावाभिनिवेशवासना साधिष्ठानम् इन्द्रियरूपं नाम च । अस्यालम्बनस्यातिसूक्ष्मत्वाद्
असंविदितकोपादिस्थानविज्ञप्तिकञ् च तत् । 3अब्
असंविदितक उपादिर् यस्मिन् असंविदितका च स्थानविज्ञप्तिर् यस्मिन् तद् आलयविज्ञानम् असंविदितकोपादिस्थानविज्ञप्तिकम् ।
उपादानम् उपादिः । स पुनर् आत्मादिविकल्पवासना रूपादिधर्मविकल्पवासना च । तत्सद्भावाद् आलयविज्ञानेनात्मादिविकल्पो रूपादिविकल्पश् च कार्यत्वेनोपात्त इति तद् वासनात्मादिविकल्पानां रूपादिविकल्पानाञ् चोपादिर् इत्य् उच्यते । सो ऽस्मिन्न् इदं तद् इति प्रतिसंवेदनाकारेणासंविदित इत्य् अतस् तद् असंविदितकोपादिर् इत्य् उच्यते ।
आश्रयोपादानञ् चोपादिः । आश्रय आत्मभावः साधिष्ठानम् इन्द्रियरूपं नाम च । तस्य पुनर् यद् उपादानम् उपगमनम् एकयोगक्षेमत्वेन तद् उपादिः ।
तत्र कामरूपधात्वोर् द्वयोर् नामरूपयोर् उपादानम् । आरूप्यधातौ तु रूपवीतरागत्वाद् रूपविपाकानभिनिर्वृत्तेर् नामोपादानम् एव । किन् तु वासनावस्थम् एव तत्र रूपं न विपाकावस्थम् । तत् पुनर् उपादानम् इदन्तया प्रतिसंवेदयितुम् अशक्यम् इत्य् अतो ऽसंविदित इत्य् उच्यते ।
स्थानविज्ञप्तिर् भाजनलोकसंनिवेशविज्ञप्तिः । साप्य् अपरिच्छिन्नालम्बनाकारप्रवृत्तत्वाद् असंविदितेत्य् उच्यते ।
कथं विज्ञानम् अपरिच्छिन्नालम्बनाकारं भविष्यतीति । अन्यविज्ञानवादिनाम् अपि निरोधसमापत्त्याद्यवस्थासु तुल्यम् एतत् । न च निरोधसमापत्त्याद्यवस्थासु विज्ञानं नैवास्तीति शक्यते प्रतिपत्तुम् । युक्तिविरोधात् सूत्रविरोधाच् चेति ।
तत्रालयाख्यं विज्ञानम् (2च्)
इत्य् उक्तं विज्ञानञ् चावश्यं चैत्तैः संप्रयुक्तम् इत्य् अतो वक्तव्यं कतमैः कतिभिश् च तेभ्यः संप्रयुज्यते । तथा किं तैः सर्वदा संप्रयुज्यते । उत नेत्य् अत आह ।
सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् 3च्द्
इति । सदेति यावद् आलयविज्ञानं तावद् एभिः स्पर्शमनस्कारवेदनासंज्ञाचेतनाख्यैः पञ्चभिः सर्वत्रगैर् धर्मैर् अन्वितम् । वेदना वित् ।
तत्र स्पर्शस् त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः । वेदनासंनिश्रयदानकर्मकः । इन्द्रियविषयविज्ञानानि त्रीण्य् एव त्रिकम् । तस्य कार्यकारणभावेन समवस्थानं त्रिकसंनिपातः । तस्मिन् सति तत्समकालम् एवेन्द्रियस्य सुखादिवेदनानुकूलो यो विकारस् तेन [tvbh_56] सदृशो विषयस्य सुखादिवेदनीयाकारपरिच्छेदो यः स स्पर्शः । इन्द्रियं पुनर् येन विशेषेण सुखदुःखादिहेतुत्वं प्रतिपद्यते स तस्य विकारः । स्पर्शः पुनर् इन्द्रियविकारसादृश्येनेन्द्रियं स्पृशतीन्द्रियेण वा स्पृश्यत इति स्पर्श उच्यते । अत एव विषयविकारपरिच्छेदात्मको ऽपीन्द्रियविकारपरिच्छेद उक्तः । वेदनासंनिश्रयत्वम् अस्य कर्म । एवं ह्य् उक्तं सूत्रे सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते सुखं वेदितम् इति विस्तरः ।
मनस्कारश् चेतस आभोगः । आभुजनम् आभोगः । आलम्बने येन चित्तम् अभिमुखीक्रियते । स पुनर् आलम्बने चित्तधारणकर्मकः । चित्तधारणं पुनस् तत्रैवालम्बने पुनः पुनश् चित्तस्यावर्जनम् । एतच् च कर्म चित्तसन्ततेर् आलम्बननियमेन विशिष्टं मनस्कारम् अधिकृत्योक्तं न तु यः प्रतिचित्तक्षणं तस्य हि प्रतिक्षणम् एव व्यापारो न क्षणान्तरे ।
वेदना अनुभवस्वभावा । सा पुनर् विषयस्याह्लादकपरितापकतदुभयाकारविविक्तस्वरूपसाक्षात्करणभेदात् त्रिधा भवति । सुखा । दुःखा । अदुःखासुखा च ।
एवं त्व् अन्ये मन्यन्ते । शुभाशुभानां कर्मणां फलविपाकं प्रत्यनुभवन्त्य् अनेनेत्य् अनुभवः । तत्र शुभानां कर्मणां सुखो ऽनुभवः फलविपाकः । अशुभानां दुःखः । उभयेषाम् अदुःखासुखः ।
अत्र चालयविज्ञानम् एव शुभाशुभकर्मविपाकः । तत्संप्रयुक्तैवोपेक्षा परमार्थतः शुभाशुभानां कर्मणां फलविपाकः । सुखदुःखयोस् तु कुशलाकुशलकर्मविपाकजत्वाद् विपाकोपचारः ।
तत्र सुखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनः संयोगेच्छा जायते । दुःखो ऽनुभवो यस्मिन्न् उत्पन्ने वियोगेच्छा निरुद्धे च पुनर् असंयोगेच्छा । अदुःखासुखो यस्मिन्न् उत्पन्ने निरुद्धे चोभ्यं न जायते ।
संज्ञा विषयनिमित्तोद्ग्रहणम् । विषय आलम्बनम् । निमित्तं तद्विशेषो नीलपीताद्यालम्बनव्यवस्थाकारणम् । तस्योद्ग्रहणं निरूपणं नीलम् एतन् न पीतम् इति ।
चेतना चित्ताभिसंस्कारो मनसश् चेष्टा यस्यां सत्याम् आलम्बनं प्रति चेतसः प्रस्पन्द इव भवत्य् अयस्कान्तवशाद् अयःप्रस्पन्दवत् ।
वेदना त्रिविधा सुखा दुःखा अदुःखासुखा च । धर्माश् चतुः प्रकाराः कुशला अकुशला अनिवृताव्याकृता निवृताव्याकृताश् च । तत्रालयविज्ञाने विद् इति सामान्योपदेशेन न विज्ञायते तिसॄणां वेदनानां कतमा वेदना । तथा तद् अपि किं कुशलम् अकुशलम् अनिवृताव्याकृतं निवृताव्याकृतम् इति न विज्ञायत इत्य् अत आह ।
उपेक्षा वेदना तत्रानिवृताव्याकृतञ् च तत् । 4अब्
तत्रेत्य् आलयविज्ञानम् एव प्रकृतत्वात् संबध्यते । उपेक्षैवालयविज्ञाने वेदना न सुखा न दुःखा तयोः परिच्छिन्नालम्बनाकारत्वाद् रागद्वेषानुशयितत्वाच् च । अनिवृताव्याकृतञ् च तत् । (4ब्) आलयविज्ञानम् इति प्रकृतम् । तत्रानिवृतग्रहणं निवृतव्यवच्छेदार्थम् । अव्याकृतग्रहणं कुशलाकुशलव्यवच्छेदार्थम् ।
मनोभूमिकैर् आगन्तुकैर् उपक्लेशैर् अनावृतत्वाद् अनिवृतम् । विपाकत्वाद् विपाकं प्रति कुशलाकुशलत्वेनाव्याकरणाद् अव्याकृतम् ।
तथा स्पर्शादयः । 4च्
यथालयविज्ञानम् एकान्तेन विपाको ऽपरिच्छिन्नालम्बनाकारं सदा स्पर्शादिभिर् अन्वितं तत्र चोपेक्षैव वेदनानिवृताव्याकृतञ् च तथा स्पर्शादयो ऽप्य् एकान्तेन विपाका एवापरिच्छिन्नालम्बनाकाराश् च । आत्मानं हित्वेतरैश् चतुर्भिर् आलयविज्ञानेन च नित्यम् अनुगतास् तेषु चोपेक्षैव वेदनानिवृताव्याकृताश् चालयविज्ञानवत् । न हि विपाकेन संप्रयुक्तानाम् अविपाकत्वम् अपरिच्छिन्नालम्बनाकारेण च परिच्छिन्नालम्बनाकारत्वं संभवति । एवम् अन्यत्रापि वाच्यम् ॥
किं पुनस् तद् आलयविज्ञानम् एकम् अभिन्नम् आसंसारम् अनुवर्तते । उत संतानेन । न हि तद् एकम् अभिन्नम् अनुवर्तते क्षणिकत्वात् ।
किं तर्हि ।
तच् च वर्तते स्रोतसौघवत् ॥ 4द्
तच् चेत्य् आलयविज्ञानम् एव संबध्यते । तत्र स्रोतो हेतुफलयोर् नैरन्तर्यप्रबन्धेन प्रवृत्तिः । उदकसमूहस्य पूर्वापरभागाविच्छेदेन प्रवाह ओघ इत्य् उच्यते । यथा ह्य् ओघस् तृणकाष्ठगोमयादीन् आकर्षयङ् गच्छत्य् एवम् आलयविज्ञानम् अपि पुण्यापुण्यानेञ्ज्यकर्मवासनानुगतं स्पर्शमनस्कारादीन् आकर्षन् स्रोतसासंसारम् अव्युपरतं प्रवर्तत इति ।
तस्यैवं श्रोतसा प्रवृत्तस्य कस्याम् अवस्थायां व्यावृत्तिर् इत्य् आह ।
तस्य व्यावृत्तिर् अर्हत्त्वे । 5अ
किं पुनर् अर्हत्त्वम् । यद्योगाद् अर्हन्न् इत्य् उच्यते । कस्य पुनर् योगाद् अर्हन्न् इत्य् उच्यते । क्षयज्ञानानुत्पादज्ञानलाभात् । तस्यां ह्य् अवस्थायाम् आलयविज्ञानाश्रितदौष्ठुल्यनिरवशेषप्रहाणाद् आलयविज्ञानं व्यावृत्तं भवति । सैव चार्हदवस्था । उक्तः सविभङ्गो विपाकपरिणामः ।
इदानीं मननाख्यां द्वितीयं परिणामम् आह । तद् आश्रित्य प्रवर्तत इति विस्तरः । तत्र यथा चक्षुरादिविज्ञानानां चक्षुरादय आश्रयत्वेन रूपादयश् चालम्बनत्वेन प्रसिद्धा नैव क्लिष्टस्य मनस आश्रय आलम्बनं वा प्रसिद्धम् ।
न च विज्ञानम् आश्रयालम्बननिरपेक्षं युज्यत इत्य् अतः क्लिष्टस्य मनस आश्रयालम्बनप्रतिपादनार्थं निरुक्तिप्रतिपादनार्थञ् चाह ।
तद् आश्रित्य प्रवर्तते । तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ 5ब्च्द्
तद् आश्रित्य प्रवर्तत इति तच्छब्देनालयविज्ञानम् अभिसंबध्यते । तद्वासनाश्रयो ह्य् आलयविज्ञानम् अतस् तद् आश्रित्य प्रवर्तते सन्तानेनोत्पद्यत इत्य् अर्थः । अथ वा यस्मिन् धातौ भूमौ वालयविज्ञानं विपाकस् तद् अपि क्लिष्टं मनस् तद्धातुकं तद्भूमिकं चेति तत्प्रतिबद्धवृत्तित्वात् तद् आश्रित्य प्रवर्तते ।
तदालम्बम् इत्य् आलयविज्ञानालम्बनम् एव सत्कायदृष्ट्यादिभिः संप्रयोगाद् अहं ममेत्य् आलयविज्ञानालम्बनत्वात् । कथं पुनर् यत एव चित्ताद् उत्पद्यते तद् एव तदालम्बनं भवति । यथा तद् अनिच्छतां केषांचित् कस्याञ्चिद् अवस्थायां यत एव चित्तान् मनोविज्ञानम् उत्पद्यते तदालम्बनम् एव तद् उत्पद्यते ।
मनोनाम विज्ञानम् इति मन इति नाम आख्या यस्य विज्ञानस्य तद् आलयविज्ञानम् आश्रित्य प्रवर्ते तदालम्बनं च मनोनामेत्य् अनेनालयविज्ञानात् प्रवृत्तिविज्ञानाच् च व्यवच्छिनत्ति । तत् पुनः किं स्वभावम् इत्य् आह । मननात्मकम् इति । एवं मननात्मकत्वान् मन इत्य् उच्यते नैरूक्तेन विधिना ।
विज्ञानस्वरूपत्वाद् अवश्यं तच् चैत्तैः संप्रयुज्यते । इदं तु न ज्ञायते कतमैस् तच् चैत्तैः कियद्भिः कियन्तं कालं वा संप्रयुज्यत इत्य् अत आह ।
क्लेशैश् चतुर्भिः सहितं निवृताव्याकृतैः सदा । 6अब्
चैत्ता हि द्विप्रकाराः क्लेशास् तद् अन्ये च । तदन्येभ्यो व्यवच्छेदार्थम् आह क्लेशैर् इति । क्लेशा अपि षट् । न च तैः संप्रयुज्यते ऽतश् चतुर्भिर् इत्य् आह । सहितम् इति संप्रयुक्तम् ।
क्लेशा अपि द्विविधाः । अकुशला निवृताव्याकृताश् च । अकुशलेभ्यो विशेषार्थम् आह निवृताव्याकृतैर् इति । न हि निवृतेन विज्ञानेनाकुशलानां संप्रयोगः संभवति । निवृताः क्लिष्टत्वात् । अव्याकृताः कुशलाकुशलत्वेनाव्याकरणात् । सदेति सर्वकालम् । यावत् तद् अस्ति तावत् तैः संप्रयुक्तम् ।
सामान्यनिर्देशाद् विशेषतो न ज्ञायन्त इति विशेषतो निर्दिशति ।
आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः ॥ 6च्द्
उपादानस्कन्धेष्व् आत्मेति दर्शनम् आत्मदृष्टिः सत्कायदृष्टिर् इत्य् अर्थः । मोहो ऽज्ञानम् । आत्मन्य् अज्ञानम् आत्ममोहः । आत्मविषये मान आत्ममानो ऽस्मिमान इत्य् अर्थः । आत्मनि स्नेह आत्मस्नेह आत्मप्रेमेत्य् अर्थः । तत्रालयविज्ञानस्वरूपे संमूढः सन्न् आलयविज्ञाने आत्मदृष्टिम् उत्पादयति । आत्मदर्शनाद् या चित्तस्योन्नतिः सो ऽस्मिमानः । एतस्मिंस् त्रये सत्य् आत्माभिमते वस्तुनि यो ऽभिष्वङ्गः स आत्मस्नेहः ।
आह च ।
अविद्यया चात्मदृष्ट्या चास्मिमानेन तृष्णया । एभिश् चतुर्भिः संक्लिष्टं मननालक्षणं मनः ॥
विपर्यासनिमित्तं तु मनः क्लिष्टं सदैव तत् । कुशलाव्याकृते चित्ते सदाहङ्कारकारणम् ॥
एते ह्य् आत्ममोहादयः क्लेशा मनोवन् नवभूमिकाः ।
इह च सामान्येनाभिधानान् न ज्ञायते किं स्वभूमिकैर् एव संप्रयुज्यते । उतान्यभूमिकैर् अपीत्य् अत आह ।
यत्रजस् तन्मयैर् 7अ
इति । यत्र जातो यत्रजः । तन्मयैर् इति यत्र धातौ भूमौ वा जातस् तद्धातुकैस् तद्भूमिकैर् एव च संप्रयुज्यते । नान्यधातुकैर् अन्यभूमिकैर् वा ।
किं पुनश् चतुर्भिर् एव क्लेशैः संप्रयुज्यते । नेत्य् आह ।
अन्यैः स्पर्शाद्यैश् च । 7ब्
संप्रयुज्यत इति संबध्यते । चशब्दः समुच्चयार्थः । स्पर्शाद्यैर् इति स्पर्शमनस्कारवेदनासंज्ञाचेतनाभिः । एते हि पञ्च धर्माः सर्वत्रगत्वात् सर्वविज्ञानैः संप्रयुज्यन्ते । एतैर् अपि यत्र जातस् तन्मयैर् एव संप्रयुज्यते नान्यधातुभूमिकैः ।
अथ वान्यैर् इति मूलविज्ञानसंप्रयुक्तेभ्यो व्यवच्छेदार्थम् । मूलविज्ञाने ह्य् अनिवृताव्याकृताः स्पर्शादयः । क्लिष्टे तु मनसि मनोवन् निवृताव्याकृताः ।
यदि तत् क्लिष्टं मनः कुशलक्लिष्टाव्याकृतावस्थास्व् अविशेषेण प्रवर्तते न तस्य तर्हि निवृत्तिर् अस्ति । अनिवृत्ते च तस्मिन् कुतो मोक्ष इति कथं न मोक्षाभावः प्रसज्यते । न प्रसज्यते यस्माद्
अर्हतो न तत् । न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥ 7ब्च्द्
अर्हतस् तावद् अशेषक्लेशप्रहाणात् क्लिष्टं मनो नैवास्ति । तद् धि भावाग्रिकभावनाप्रहातव्यक्लेशवद् अर्हत्त्वप्राप्त्यानन्तर्यमार्गेणैव प्रहीयते । तद् अन्यक्लेशवद् अर्हत्त्वावस्थायान् नैव विद्यते । आकिञ्चन्यायतनवीतरागस्याप्य् अनागामिनो निरोधसमापत्तिलाभिनो मार्गबलेन निरोधसमापत्तेर् लभ्यत्वां मार्गवन् निरोधसमापत्त्यवस्थायाम् अपि निरुध्यते । निरोधाच् च व्युत्थितस्य पुनर् आलयविज्ञानाद् एव प्रवर्तते ।
मार्गे लोकोत्तरे न चेति (7द्)
लोकोत्तरग्रहणं लौकिकव्यवच्छेदार्थम् । लौकिके तु मार्गे क्लिष्टं मनः प्रवर्तत एव । नैरात्म्यदर्शनस्यात्मदर्शनप्रतिपक्षत्वान् न लोकोत्तरमार्गे प्रवर्तितुम् उत्सहेत । विपक्षप्रतिपक्षयोर् अयौगपद्याल् लोकोत्तरमार्गे तन् निरुध्यते । तस्माद् अपि व्युत्थितस्य पुनर् आलयविज्ञानाद् एवोत्पद्यते ।
द्वितीयः परिणामो ऽयम् 8अ
उद्दिष्टो निदिष्टश् चेति निगमयति ।
द्वितीयपरिणामान्तरं तृतीयः परिणामो वक्तव्य इत्य् अत आह ।
तृतीयः षड्विधस्य या । विषयस्योपलब्धिः सा 8ब्च्
तृतीयो विज्ञानपरिणाम इति वाक्यशेषः । षड्विधस्येति षट्प्रकारस्य रूपशब्दगन्धरसस्प्रष्टव्य धर्मात्मकस्य विषयस्य या उपलब्धिर् ग्रहणं प्रतिपत्तिर् इत्य् अर्थः ।
सा पुनः किं कुशलाकुशलाव्याकृतेत्य् अत आह ।
कुशलाकुशलाद्वया ॥ 8द्
कुशलाकुशलाद्वयेत्य् अव्याकृतापि । अलोभाद्वेषामोहैः संप्रयुक्ता कुशला । लोभद्वेषमोहैः संप्रयुक्ताकुशला । कुशलाकुशलैर् असंप्रयुक्ताद्वया न कुशला नाकुशलेत्य् अर्थः ।
सा पुनः कीदृशैश् चैतसिकैः संप्रयुज्यते । कियन्तो वा तत्संप्रयोगिणश् चैतसिका इत्य् अत आह ।
सर्वत्रगैर् विनियतैः कुशलैश् चैतसैर् असौ । संप्रयुक्ता तथा क्लेशैर् उपक्लेशैस् त्रिवेदना ॥ 9
य एते सर्वत्रगादय उद्दिष्टास् ते न विज्ञायन्त इत्य् अतस् तत्प्रदर्शनार्थम् आह ।
अद्याः स्पर्शादयः । 10अ
आदौ निर्दिष्टत्वाद् आद्याः सर्वत्रगा इत्य् अर्थः । तथा हि ।
सदास्पर्शमनस्कारवित्संज्ञाचेतनान्वितम् (3च्द्)
इति प्रथमतो निर्दिष्टाः । स्पर्श एषाम् आदिर् इति स्पर्शादयः । ते पुनः स्पर्शमनस्कारादयः पञ्च धर्माः सर्वचित्तम् अनुगच्छन्तीति सर्वत्रगाः । तथा ह्य् एत आलयविज्ञाने क्लिष्टे मनसि प्रवृत्तिविज्ञानेषु चाविशेषेण प्रवर्तन्ते ।
विनियतान् अधिकृत्याह ।
छन्दाधिमोक्षस्मृतयः सह । समाधिधीभ्यां नियताः । 10ब्च्
विशेषे नियतत्वाद् विनियताः । एषां हि विशेष एव विषयो न सर्वः ।
तत्र छन्दो ऽभिप्रेते वस्तुन्य् अभिलाषः । अभिप्रेते वस्तुन्य् अभिलाष इति प्रतिनियतविषयत्वं ज्ञापितं भवत्य् अनभिप्रेते छन्दाभावात् । दर्शनश्रवणादिक्रियाविषयत्वेन यद् अभिमतं वस्तु तद् अभिप्रेतम् । तत्र दर्शनश्रवणादिप्रार्थना छन्दः । स च वीर्यारम्भसंनिश्रयदानकर्मकः ।
अधिमोक्षो निश्चिते वस्तुनि तथैवावधारणम् । निश्चितग्रहणम् अनिश्चितप्रतिषेधार्थम् । युक्तित आप्तोपदेशतो वा यद् वस्तु असंदिग्धं तन् निश्चितम् । येनैवाकारेण तन् निश्चितम् अनित्यदुःखाद्याकारेण तेनैवाकारेण तस्य वस्तुनश् चेतस्य् अभिनिवेशनम् । एवम् एतन् नान्यथेत्य् अवधारणम् अधिमोक्षः । स चासंहार्यताकर्मकः । अधिमुक्तिप्रधानो हि स्वसिद्धान्तात् परप्रवादिभिर् अपहर्तुं न शक्यते ।
स्मृतिः संस्तुते वस्तुन्य् असंप्रमोषश् चेतसो ऽभिलपनता । संस्तुतं वस्तु पूर्वानुभूतम् । आलम्बनग्रहणाविप्रणाशकारणत्वाद् असंप्रमोषः । पूर्वगृहीतस्य वस्तुनः पुनः पुनर् आलम्बनाकारस्मरणम् अभिलपनता । अभिलपनम् एवाभिलपनता । सा पुनर् अविक्षेपकर्मिका । आलम्बनाभिलपने सति चित्तस्यालम्बनान्तर आकारान्तरे वा विक्षेपाभावाद् अविक्षेपकर्मिका ।
समाधिर् उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता । उपपरीक्ष्यं वस्तु गुणतो दोषतो वा । एकाग्रता एकालम्बनता । ज्ञानसंनिश्रयदानकर्मकः । समाहिते चित्ते यथाभूतपरिज्ञानात् ।
धीः प्रज्ञा । साप्य् उपपरीक्ष्य एव वस्तुनि प्रविचयो योगायोगविहितो ऽन्यथा वेति । प्रविचिनोतीति प्रविचयः । यः सम्यङ् मिथ्या वा संकीर्णस्वसामान्यलक्षणेष्व् इव धर्मेषु विवेकावबोधः । युक्तिर् योगः । स पुनर् आप्तोपदेशो ऽनुमानं प्रत्यक्षञ् च । तेन त्रिप्रकारेण योगेन यो जनितः स योगविहितः । स पुनः श्रुतमयश् चिन्तामयो भावनामयश् च ।
तत्राप्तवचनप्रामाण्याद् यो ऽवबोधः स श्रुतमयः । युक्तिनिध्यानजश् चिन्तामयः । समाधिजो भावनामयः ।
अयोगो ऽनाप्तोपदेशो ऽनुमानाभासो मिथ्या प्रणिहितश् च समाधिः । तेनायोगेन जनितो ऽयोगविहितः । उपपत्तिप्रतिलम्भिको लौकिकव्यवहारावबोधश् च न योगविहितो नायोगविहितः । एषा च संशयव्यावर्तनकर्मिका । संशयव्यावर्तनं प्रज्ञया धर्मान् प्रविचिन्वतो निश्चयलाभाद् इति ।
एते हि पञ्च धर्माः परस्परं व्यतिरिच्यापि प्रवर्तन्ते । एवञ् च यत्राधिमोक्षस् तत्र नावश्यम् इतरैर् अपि भवितव्यम् । एवं सर्वत्र वाच्यम् । उक्ता विनियताः ॥
तदनन्तरोद्दिष्टास् त्व् इदानीं कुशला वक्तव्या इत्य् अत आह । श्रद्धाथ ह्रीर् अपत्रपा ॥ 10द् अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका । आहिंसा कुशलाः । 11अब्च्
एत एकादश धर्मा इति वाक्यशेषः ।
तत्र श्रद्धा अस्तित्वगुणवत्त्वशक्यत्वेषु कर्मफलसत्यरत्नेष्व् अभिसंप्रत्ययः प्रसादश् चेतसो ऽभिलाषः । श्रद्धा हि त्रिधा प्रवर्तते । सति वस्तुनि गुणवत्य् अगुणवति वा संप्रत्ययाकारा । सति गुणवति च प्रसादाकारा । सति गुणवति च प्राप्तुम् उत्पादयितुं वा शक्ये ऽभिलाषाकारा । चेतसः प्रसाद इति । श्रद्धा हि चित्तकालुष्यवैरोधिकीत्य् अतस् तत्संप्रयोगे क्लेशोपक्लेशमलकालुष्यविगमाच् चित्तं श्रद्धाम् आगम्य प्रसीदतीति चेतसः प्रसाद उच्यते । सा पुनश् छन्दसंनिश्रयदानकर्मिका ।
ह्रीर् आत्मानं धर्मं वाधिपतिं कृत्वावद्येन लज्जा । सद्भिर् गर्हितत्वाद् अनिष्टविपाकत्वाच् च पापम् एवावद्यम् । तेनावद्येन कृतेनाकृतेन वा या चित्तस्यावलीनता लज्जा सा ह्रीः । इयं च दुश्चरितसंयमसंनिश्रयदानकर्मिका ।
अपत्राप्यं लोकम् अधिपतिं कृत्वावद्येन लज्जा । लोके ह्य् एतद् गर्हितं मां चैवं कर्माणं विदित्वा गर्हिष्यतीत्य् अश्लोकादिभयाद् अवद्येन लज्जते । इदम् अपि दुश्चरितसंयमसंनिश्रियदानकर्मकम् ।
अलोभो लोभप्रतिपक्षः । लोभो नाम भवे भवोपकरणेषु च यासक्तिः प्रार्थना च । तत्प्रतिपक्षो ऽलोभो भवे भवोपकरणेषु वानासक्तिः वैमुख्यञ् च । अयञ् च दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
अद्वेषो द्वेषप्रतिपक्षो मैत्री । द्वेषो हि सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् आघातः । अद्वेषो द्वेषप्रतिपक्षत्वात् सत्त्वेषु दुःखे दुःखस्थानीयेषु च धर्मेष्व् अनाघातः । अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
अमोहो मोहप्रतिपक्षो यथाभूतसंप्रतिपत्तिः । मोहः कर्मफलसत्यरत्नेष्व् अज्ञानम् । मोहप्रतिपक्षत्वाद् अमोहस् तेष्व् एव कर्मफलसत्यरत्नेषु संप्रतिपत्तिः । अयम् अपि दुश्चरिताप्रवृत्तिसंनिश्रयदानकर्मकः ।
वीर्यं कौसीद्यप्रतिपक्षः कुशले चेतसो ऽभ्युत्साहः । न तु क्लिष्टे । क्लिष्टे तूत्साहः कुत्सितत्वात् कौसीद्यम् एव । एतच् च कुशलपक्षपरिपूरणपरिनिष्पादनकर्मकम् ।
प्रश्रब्धिर् दौष्ठुल्यप्रतिपक्षः कायचित्तकर्मण्यता । दौष्ठुल्यं कायचित्तयोर् अकर्मण्यता सांक्लेशिकधर्मबीजानि च । तदपगमे प्रश्रब्धिसद्भावात् । तत्र कायकर्मण्यता कायस्य स्वकार्येषु [tvbh_80] लघुसमुत्थानता यतो भवति । चित्तकर्मण्यता सम्यङ्मनसिकारसंप्रयुक्तस्य चित्तस्याह्लादलाघवनिमित्तं यच् चैतसिकं धर्मान्तरं यद्योगाच् चित्तम् अव्याहतम् आलम्बने प्रवर्तते ऽतस् तच् चित्तकर्मण्यतेत्य् उच्यते । कायस्य पुनः स्प्रष्टव्यविशेष एव प्रीत्याहृतः कायप्रश्रब्धिर् वेदितव्या । प्रीतमनसः कायः प्रश्रभ्यत इति सूत्रे वचनात् । इयं तद्वशेनाश्रयपरावृत्तितो ऽशेषक्लेशावरणनिष्कर्षणकर्मिका ।
साप्रमादिका । सहाप्रमादेन प्रवर्तत इति साप्रमादिका । का पुनर् असौ । उपेक्षा । कुत एतत् । एकान्तकुशलत्वात् सर्वकुशलानां चेह निर्देशाधिकाराच् छ्रद्धादिवत् साक्षाद् अनिर्देशात् तद्व्यतिरिक्तान्यकुशलाभावाच् चोपेक्षैव विज्ञायते ।
तत्राप्रमादः प्रमादप्रतिपक्षः । अलोभाद् यावद् वीर्यम् अप्रमादः । यान् अलोभादीन् निश्रित्याकुशलान् धर्मान् प्रजहाति तत्प्रतिपक्षांश् च कुशलान् धर्मान् भावयति ते ऽलोभादयो ऽप्रमादः । अत एव प्रमादप्रतिपक्षः प्रमादस्यातो विपरीतत्वात् । स पुनर् लौकिकलोकोत्तरसंपत्तिपरिपूरणकर्मकः ।
उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता । एभिस् त्रिभिः [tvbh_82] पदैर् उपेक्षाया आदिमध्यावसानावस्था द्योतिता । तत्र लयौद्धत्यं वा चेतसो वैषम्यम् । तस्याभावाद् आदौ चित्तसमता । ततो ऽनभिसंस्कारेणाप्रयत्वेन समाहितस्य चेतसो यथायोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता । सा पुनर् अवस्था लयौद्धत्यशङ्कानुगताचिरभावितत्वात् । ततो भावनाप्रकर्षगमनात् तद्विपक्षदूरीभावात् तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेष्व् आभोगम् अकुर्वतो ऽनाभोगावस्था चित्तस्यानाभोगता । इयञ् च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका ।
अविहिंसा विहिंसाप्रतिपक्षः । वधबन्धनादिभिः सत्त्वानाम् अविहेठनम् अविहिंसा सत्त्वेषु करुणा । कं रुणद्धीति करुणा । कम् इति सुखस्याख्या सुखं रुणद्धीत्य् अर्थः । कारुणिको हि परदुःखदुःखी भवतीति । इयं चाविहेठनकर्मिका । उक्ता एकादश कुशलाः ।
तदनन्तरोद्दिष्टास् तु क्लेशा इत्य् अतस् तान् अधिकृत्याह । क्लेशा रागप्रतिघमूढयः ॥ 11द् मानदृग्विचिकित्साश् च 12अ
इति । रागश् च प्रतिघश् च मूढिश् च रागप्रतिघमूढयः ।
तत्र रागो भवभोगयोर् अध्यवसानं प्रार्थना च । स पुनर् दुःखसंजननकर्मकः । दुःखम् अत्रोपादानस्कन्धास् तेषां कामरूपारूप्यतृष्णावशाद् अभिनिर्वृत्तेः । अतो रागस्य दुःखसंजननं कर्म निर्दिश्यते ।
प्रतिघः सत्त्वेष्व् आघातः सत्त्वेषु रूक्षचित्तता येनाविष्टः सत्त्वानां वधबन्धनादिकम् अनर्थञ् चिन्तयति । स पुनर् अस्पर्शविहारदुश्चरितसंनिश्रियदानकर्मकः । स्पर्शः सुखम् । तेन सहितो विहारः स्पर्शविहारः । न स्पर्शविहारो ऽस्पर्शविहारः । दुःखसहित इत्य् अर्थः । आघातचित्तस्यावश्यं दौर्मनस्यसमुदाचाराच् चित्तं तप्यते । चित्तानुविधानाच् च कायो ऽपि तप्यत एवेति सर्वेर्यापथेषु सदुःखसविघातो ऽस्पर्शविहारो भवति । प्रतिहतचित्तस्य च न किञ्चिद् दुश्चरितं विदूर इति प्रतिघो ऽस्पर्शविहारदुश्चरितसंनिश्रयदानकर्मक उक्तः ।
मोहो ऽपायेषु सुगतौ निर्वाणे तत्प्रतिष्ठापाकेषु हेतुषु तेषां चाविपरीते हेतुफलसंबन्धे यद् अज्ञानम् । अयञ् च संक्लेशोत्पत्तिसंनिश्रियदानकर्मकः । तत्र क्लेशकर्मजन्मात्मकस् त्रिविधः संक्लेशः । तस्योत्पत्तिः पूर्वपूर्वसंक्लेशनिमित्ताद् उत्तरोत्तरस्य संक्लेशस्यात्मलाभः । तस्योत्पत्तेः संनिश्रयदानकर्म । [tvbh_86] मूढस्यैव हि मिथ्याज्ञानसंशयरागादिक्लेशपौनर्भविककर्मजन्मनां प्रवृत्तेर् नामूढस्येति ।
मानः । मानो हि नाम सर्व एव सत्कायदृष्टिसमाश्रयेण प्रवर्तते । स पुनश् चित्तस्योन्नतिलक्षणः । तथा ह्य् आत्मात्मीयभावं स्कन्धेष्व् अध्यारोप्यायम् अहम् इदं ममेत्य् आत्मानं तेन तेन विशेषेणोन्नमयति । अन्येभ्यो ऽधिकं मन्यते । स चागौरवदुःखोत्पत्तिसंनिश्रयदानकर्मकः । अगौरवं गुरुषु गुणवत्सु च पुद्गलेषु स्तब्धता कायवाचोर् अप्रश्रितिता दुःखोत्पत्तिः पुनर् अत्र पुनर्भवोत्पत्तिः । स च पुनश् चित्तोन्नतिस्वरूपाभेदे ऽपि चित्तोन्नतिनिमित्तभेदात् सप्तधा भिद्यते । मानो ऽतिमान इत्य् एवमादि ।
हीनात् कुलविज्ञानवित्तादिभिः श्रेयान् अस्मि कुलविज्ञानवित्तादिभिर् इति या चित्तस्योन्नतिः सदृशेन वा कुलादिभिर् एव सदृशो ऽस्मीति या चित्तस्योन्नतिः स मानः ।
अतिमानः । कुलविज्ञानवित्तादिभिः सदृशात् त्यागशीलपौरुषादिभिः श्रेयान् अस्मि श्रेयसा वा कुलविद्यादिभिः सदृशो ऽस्मि विज्ञानवित्तादिभिर् इत्य् अयम् अतिमानः ।
श्रेयसः कुलविज्ञानवित्तैर् अहम् एव श्रेयान् अस्मि कुलविज्ञानवित्तैर् इति या चित्तस्योन्नतिर् अयं मानातिमानः ।
अस्मिमानः । पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयरहितेष्व् आत्मात्मीयाभिनिवेशाद् या चित्तस्योन्नतिः सो ऽस्मिमानः ।
अभिमानः । अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति या चित्तस्योन्नतिः सो ऽभिमानः ।
ऊनमानः । बह्वन्तरविशिष्टात् कुलविद्यादिभिर् अल्पान्तरहीनो ऽस्मि कुलविद्यादिभिर् इति या चित्तस्योन्नतिर् अयम् ऊनमानः ।
मिथ्यामानः । अगुणवतो गुणवान् अस्मीति या चित्तस्योन्नतिः स मिथ्यामानः । अगुणा हि दौःशील्यादयस् ते यस्य विद्यन्ते सो ऽगुणवान् । तस्माद् गुणवान् अस्मीत्य् अनेन हि दानशीलाद्यभावे ऽपि गुणवत्त्वम् अभ्युपगतं भवतीत्य् अतो निर्वस्तुकत्वान् मिथ्यामान इत्य् उच्यते ।
दृग् इति सामान्यनिर्देशे ऽपि क्लेशाधिकारात् पञ्चैव क्लेशात्मिकाः सत्कायदृष्ट्यादिका दृष्टयः संबध्यन्ते । न लौकिकी सम्यग्दृष्टिर् अनास्रवा वा । आसां तु क्लिष्टनितीरणाकारत्वाद् अविशेषे ऽप्य् आलम्बनाकारभेदात् परस्परतो भेदः ।
तत्र सत्कायदृष्टिर् यत् पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयदर्शनम् ।
अन्तग्राहदृष्टिस् तेष्व् एव पञ्चसूपादानस्कन्धेष्व् आत्मात्मीयत्वेन गृहीतेषु यद् उच्छेदतः शाश्वततो वा दर्शनम् ।
मिथ्यादृष्टिः । यया मिथ्यादृष्ट्या हेतुं वापवदति फलं क्रियां वा सद् वा वस्तु नाशयति सा सर्वदर्शनपापत्वान् मिथ्यादृष्टिर् इत्य् उच्यते ।
दृष्टपरामर्शः पञ्चसूपादानस्कन्धेष्व् अग्रतो विशिष्टतः श्रेष्ठतः परमतश् च यद् दर्शनम् ।
शिलव्रतपरामर्शः पञ्चसूपादानस्कन्धेषु शुद्धितो मुक्तितो नैर्याणिकतश् च यद् दर्शनम् ।
विचिकित्सा । कर्मफलसत्यरत्नेषु विमतिः । विविधा मतिर् विमतिः स्यान् न स्याद् इति । प्रज्ञातश् चेयं जात्यन्तरम् एवोक्ता ।
उक्ताः षट्क्लेशास् तदनन्तरोद्दिष्टास् त्व् इदानीम् उपक्लेशा वक्तव्या इत्य् अत आह ।
क्रोधोपनाहने पुनः । म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया ॥ 12ब्च्द्
शाठ्यं मदो ऽविहिंसाह्रीर् अत्रपा स्त्यानम् उद्धतः । आश्रद्ध्यम् अथ कौसीद्यं प्रमादो मुषिता स्मृतिः ॥ 13
विक्षेपो ऽसंप्रजन्यञ् च कौकृत्यं मिद्धम् एव च । वितर्कश् च विचारश् चेत्य् उपक्लेशा द्वये द्विधा ॥ 14
तत्र क्रोधो वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः । अयं चाघातस्वरूपत्वात् प्रतिघान् न भिद्यते । किं त्व् अस्य प्रतिघस्यावस्थाविशेषे प्रज्ञप्तत्वात् प्रतिघांशिकः । वर्तमानम् अपकारम् आगम्य यश् चेतस आघातः सत्त्वासत्त्वविषयो दण्डदानादिसंनिश्रयदानकर्मकश् च स क्रोध इति प्रज्ञप्यते ।
उपनाहो वैरानुबन्धः । क्रोधाद् ऊर्ध्वं ममानेनेदम् अपकृतम् इत्य् अस्य वैरात्मकस्यानुशयस्यानुत्सर्गः प्रबन्धेन प्रवर्तनम् उपनाहः । अयञ् चाक्षान्तिसंनिश्रयदानकर्मकः । अक्षान्तिर् अपकारामर्षणं प्रत्यपकारचिकीर्षा च । अयम् अपि क्रोधवत् प्रद्वेषावस्थाविशेषे प्रज्ञप्यते । अतः प्रज्ञप्तिसन्न् एव वेदितव्यः ।
म्रक्ष आत्मनो ऽवद्यप्रच्छादना । छन्दद्वेषभयादीन् निराकृत्य काले तद्धितैषिणा चोदकेन तत् त्वम् एवंकारीत्य् अनुयुक्तस्य मोहांशिक्य् अवद्यप्रच्छादना म्रक्षः । मोहांशिकत्वं तु म्रक्षस्य प्रच्छादनाकारत्वात् । अयञ् च कौकृत्यास्पर्शसंनिश्रयदानकर्मकः । [tvbh_92] धर्मतैषा यद् अवद्यं प्रच्छादयतः कौकृत्यम् उत्पद्यते कौकृत्याच् चावश्यं दौर्मनस्येन संप्रयोगाद् अस्पर्शविहार इति ।
प्रदाशश् चण्डवचोदाशिता । चण्डं वचः प्रगाढं पारुष्यं मर्मघट्टनयोगेन । दशनशीलो दाशी । तद्भावो दाशिता । अयञ् च भावप्रत्ययः स्वार्थिकः । चण्डेन वचसा प्रदशतीति चण्डवचोदाशिता । अयञ् च क्रोधोपनाहपूर्वकश् चेतस आघातस्वभाव इति प्रतिघांशिक एव न द्रव्यतो विद्यते । अयञ् च वाग्दुश्चरितप्रसवकर्मकः । अस्पर्शविहारकर्मकश् च तद्वतः पुद्गलस्य दुःखसंवासत्वात् ।
ईर्ष्या परसंपत्तौ चेतसो व्यारोषः । लाभसत्काराध्यवसितस्य लाभसत्कारकुलशीलश्रुतादीन् गुणविशेषान् परस्योपलभ्य द्वेषांशिको ऽमर्षकृतश् चेतसो व्यारोष ईर्ष्या । स्वम् आश्रयं व्याप्य रोषो व्यारोषः । दौर्मनस्यसंप्रयोगात् तत्पूर्वकश् चास्पर्शविहार इति दौर्मनस्यास्पर्शविहारकर्मिकोच्यते ।
मात्सर्यं दानविरोधी चेतस आग्रहः । उपात्तं वस्तु धर्मामिषकौशलात्मकं येन पूजानुग्रहकाम्ययार्थिने ऽनर्थिने वा दीयते तद् दानम् । तस्मिन् सति दानाभावात् तद्विरोधीत्य् उच्यते । लाभसत्काराध्यवसितस्य जीवितोपकरणेषु रागांशिकश् चेतस आग्रहो ऽपरित्यागेच्छा मात्सर्यम् । इदं चासंलेखसंनिश्रयदानकर्मकम् । असंलेखः पुनर् मात्सर्येणानुपयुज्यमानानाम् अप्य् उपकरणानां संनिचयाद् वेदितव्यः ।
माया परवञ्चनायाभूतार्थसंदर्शनता । लाभसत्कारध्यवसितस्य परवञ्चनाभिप्रायेणान्यथावस्थितस्य शीलादेर् अर्थस्यान्यथा प्रकाशना । इयञ् च सहिताभ्यां रागमोहाभ्याम् अभूतान् गुणान् प्रकाशयतस् तयोः समुदितयोः प्रज्ञप्यत इति क्रोधादिवत् प्रज्ञप्तित एव न द्रव्यत इति मिथ्याजीवसंनिश्रयदानकर्मिका ।
शाठ्यं स्वदोषप्रच्छादनोपायसंगृहीतञ् चेतसः कौटिल्यम् । स्वदोषप्रच्छादनोपायः परव्यामोहनम् । तत् पुनर् अन्येनान्यत् प्रतिसरन् विक्षिपत्य् अपरिस्फुटं वा प्रतिपद्यते । अत एव शाठ्यं म्रक्षाद् भिद्यते । स हि स्फुटम् एव प्रच्छादयति न काक्वा । इदम् अपि लाभसत्काराध्यवसितोपायाभ्यां रागमोहाभ्यां स्वदोषप्रच्छादनार्थं परव्यामोहनाय प्रवर्तते । तयोर् एव सहितयोः प्रज्ञप्यते । इदञ् च सम्यगववादलाभपरिपन्थकर्मकम् । सम्यगववादस्य यो लाभो योनिशो मनसिकारस् तस्यान्तरायं करोति ।
मदः स्वसंपत्तौ रक्तस्योद्धर्षश् चेतसः पर्यादानम् । कुलारोग्ययौवनबलरूपैश्वर्यबुद्धिमेधाप्रकर्षः स्वसंपत्तिः । उद्धर्षो हर्षविशेषः । येन हर्षविशेषेण चित्तम् अस्वतन्त्रीक्रियते तेन तदात्मतन्त्रीकरणात् पर्यात्तं भवतीत्य् एतद् उक्तञ् चेतसः पर्यादानम् इति । अयञ् च सर्वक्लेशोपक्लेशसंनिश्रयदानकर्मकः ।
विहिंसा सत्त्वविहेठना । विविधैर् वधबन्धनताडनतर्जनादिभिः सत्त्वानां हिंसा विहिंसा । विहेठ्यन्ते ऽनया सत्त्वा वधबन्धनादिभिर् दुःखदौर्मनस्योत्पादनाद् इति सत्त्वविहेठना । सा पुनः प्रतिघांशिकी निर्घृणता सत्त्वेषु चित्तरूक्षता सत्त्वविहेठनकर्मिका विहिंसेत्य् उच्यते ।
आह्रीक्यं स्वयम् अवद्येनालज्जा । तस्मिन् कर्मण्यात्मानम् अयोग्यं मन्यमानस्यापि यावद्येनालज्जा साह्रीक्यं ह्रीविपक्षभूतम् ।
अनपत्राप्यं परतो ऽवद्येनालज्जा । लोकशास्त्रविरुद्धम् एतन् मया क्रियत इत्य् एवम् अवगच्छतो ऽपि या तया पापक्रिययालज्जा सापत्राप्यविपक्षभूतम् अनपत्राप्यम् ।
एतच् च द्वयम् अपि सर्वक्लेशोपक्लेशसाहाय्यकर्मकम् । रागद्वेषमोहप्रकारेषु सर्वासत्कार्यप्रभवहेतुषु रागद्वेषयोर् अयौगपद्याद् यथासंभवं प्रज्ञप्यते न तु स्वतन्त्रम् अस्ति ।
स्त्यानञ् चित्तस्याकर्मण्यता स्तैमित्यम् । स्तिमितस्य भावः स्तैमित्यं यद्योगाच् चित्तं जडीभवति स्तिमितं भवति नालम्बनं प्रतिपत्तुं समुत्सहते । एतच् च सर्वक्लेशोपक्लेशसहाय्यदानकर्मकम् । मोहांशे प्रज्ञप्तत्वाच् च मोहांशिकम् एव न पृथग् विद्यते ।
औद्धत्यं चित्तस्याव्युपशमः । व्युपशमो हि शमथस् तद्विरुद्धो ऽव्युपशमः । स पुनर् एष रागानुकूलं पूर्वहसितरसितक्रीडिताद्यनुस्मरतश् चेतसो ऽव्युपशमहेतुः शमथपरिपन्थकर्मकः ।
आश्रद्ध्यां कर्मफलसत्यरत्नेष्व् अनभिसंप्रत्ययः श्रद्धाविपक्षः । श्रद्धा ह्य् अस्तित्वगुणवत्त्वशक्यत्वेष्व् अभिसंप्रत्ययः प्रसादो ऽभिलाषश् च यथाक्रमम् । अश्रद्धा तद्विपर्येणास्तित्वगुणवत्त्वशक्यत्वेष्व् अनभिसंप्रत्ययो ऽप्रसादो ऽनभिलाषश् च । कौसीद्यसंनिश्रयदानकर्मकम् । अश्रद्दधानस्य प्रयोगच्छन्दाभावात् कौसीद्यसंनिश्रयदानकर्मकत्वम् ।
कौसीद्यं कुशले चेतसो ऽनभ्युत्साहो वीर्यविपक्षः । कुशले कायवाङ्मनःकर्मणि निद्रापार्श्वशयनसुखम् आगम्य यो मोहांशिकश् चेतसो ऽनभ्युत्साहः । एतच् च कुशलपक्षप्रयोगपरिपन्थकर्मकम् ।
प्रमादो यैर् लोभद्वेषमोहकौसीद्यैः क्लेशाद् रागद्वेषमोहादिकाच् चित्तं न रक्षति कुशलं च तत्प्रतिपक्षभूतं न भावयति । तेषु लोभद्वेषमोहकौसीद्येषु प्रमादः प्रज्ञप्यते । अयञ् चाकुशलवृद्धिकुशलपरिहाणिसंनिश्रयदानकर्मकः ।
मुषिता स्मृतिः क्लिष्टा स्मृतिः । क्लिष्टेति क्लेशसंप्रयुक्ता । इयञ् च विक्षेपसंनिश्रयदानकर्मिका ।
विक्षेपो रागद्वेषमोहांशिकश् चेतसो विसारः । विविधं क्षिप्यते ऽनेन चित्तम् इति विक्षेपः । यै रागद्वेषमोहैश् चित्तं समाध्यालम्बनाद् बहिः क्षिप्यते तेषु यथासंभवं विक्षेपः प्रज्ञप्यते । एष च वैराग्यपरिपन्थकर्मः ।
असंप्रजन्यं क्लेशसंप्रयुक्ता प्रज्ञा ययासंविदिता कायवाक्चित्तचर्या अभिक्रमप्रतिक्रमादिषु वर्तते करणीयाकरणीयाज्ञानात् । एतच् चापत्तिसंनिश्रयदानकर्मकम् ।
कौकृत्यं चेतसो विप्रतिसारः । कुत्सितं कृतम् इति कुकृतम् । तद्भावः कौकृत्यम् । इह तु कुकृतविषयश् चेतसो विलेखः कौकृत्यं चैतसिकाधिकारात् । एतच् च चित्तस्थितिपरिपन्थकर्मकम् ।
मिद्धम् अस्वतन्त्रवृत्तिचेतसो ऽभिसंक्षेपः । वृत्तिर् आलम्बने प्रवृत्तिः । सास्वतन्त्रा चेतसो यतो भवति तन् मिद्धम् । कायसन्धारणासमर्था वा वृत्तिश् चेतसो ऽस्वतन्त्रा सा यतो भवति तन् मिद्धम् । अभिसंक्षेपश् चेतसश् चक्षुरादीन्द्रियद्वारेणाप्रवृत्तिः । एतच् च मोहांशे प्रज्ञपनान् मोहांशिकं कृत्यातिपत्तिसंनिश्रयदानकर्मकञ् च ।
वितर्कः पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः । पर्येषकः किम् एतद् इति निरूपणाकारप्रवृत्तः । मनसो जल्पो मनोजल्पः । जल्प इव जल्पः । जल्पो ऽर्थकथनम् । चेतनाप्रज्ञाविशेष इति चेतनायाश् चित्तपरिस्पन्दात्मकत्वात् प्रज्ञायाश् च गुणदोषविवेकाकारत्वात् । तद्वशेन चित्तप्रवृत्तेः कदाचिच् चित्तचेतनयोर् वितर्कः प्रज्ञप्तिः कदाचित् प्रज्ञाचेतसोर् यथाक्रमम् अनभ्यूहाभ्युहावस्थयोः । अथ वा चेतनाप्रज्ञयोर् एव वितर्कः प्रज्ञप्तिस् तद्वशेन चित्तस्य तथाप्रवृत्तत्वात् । स एव चित्तस्यौदारिकता । औदारिकतेति स्थूलता वस्तुमात्रपर्येषणाकारत्वात् ।
एष च नयो विचारे ऽपि द्रष्टव्यः । विचारो ऽपि हि चेतनाप्रज्ञाविशेषात्मकः । प्रत्यवेक्षको मनोजल्प एव । इदं तद् इति पूर्वाधिगतनिरूपणात् । अत एव च चित्तसूक्ष्मतेत्य् उच्यते ।
एतौ च स्पर्शास्पर्शविहारसंनिश्रयदानकर्मकौ । अनयोश् चौदारिकसूक्ष्मतया व्यवस्थापनात् पृथक्करणम् । द्वये द्विधेति । (14द्) द्वयञ् च द्वयञ् च द्वये । ते पुनः कौकृत्यमिद्धे वितर्कविचारौ च । एते च चत्वारो धर्मा द्विधा क्लिष्टा अक्लिष्टाश् च ।
तत्राकुशलम् अकृत्वा कुशलञ् च कृत्वा यश् चेतसो विलेखस् तत् संक्लिष्टं कौकृत्यम् । यत् कुशलम् अकृत्वाकुशलञ् च कृत्वा तत् कौकृत्यम् अक्लिष्टम् ।
मिद्धम् अपि क्लिष्टचित्ताविद्धं क्लिष्टचित्तसंप्रयुक्तं च क्लिष्टम् । अक्लिष्टचित्ताविद्धम् अक्लिष्टचित्तसंप्रयुक्तञ् चाक्लिष्टम् ।
कामव्यापादविहिंसादिवितर्काः क्लिष्टाः । नैश्क्रम्यादिवितर्का अक्लिष्टाः । एवं परोपघातोपायविचारः क्लिष्टः । परानुग्रहोपायविचारो ऽक्लिष्टः ।
तत्र ये कौकृत्यमिद्धवितर्कविचाराः क्लिष्टास् त एवोपक्लेशा नेतरे ।
तत्र यथा रूपशब्दाद्युपलब्धिः षट्प्रकारा यथासंभवं सर्वैश् चैतसिकैः संप्रयुज्यते सर्वत्रगैर् विनियतैः कुशलैः क्लेशैर् उपक्लेशैश् च एवं त्रिवेदना तिसृभिश् च वेदनाभिः संप्रयुज्यते सुखया दुःखया अदुःखासुखया च । सौमनस्यदौर्मनस्योपेक्षास्थानीयेषु रूपादिषु तदुत्पत्तेः कुशला अकुशला अव्याकृता च । आलयविज्ञानन् तु सर्वत्रगैः पञ्चभिर् एव संप्रयुज्यते नान्यैः । तत्र चोपेक्षैव वेदना अनिवृताव्यकृतञ् च । क्लिष्टं मनः सर्वत्रगैः पञ्चभिश् चतुर्भिश् च क्लेशैर् आत्ममोहादिभिः सदा संप्रयुज्यते । तत्रोपेक्षैव वेदना निवृताव्याकृतञ् चेति ।
इदम् इदानीञ् चिन्त्यते । किं पञ्चानाञ् चक्षुर्विज्ञानादीनां युगपद् आलम्बनप्रत्ययसान्निध्ये ऽप्य् आलयविज्ञानाद् एकस्यैवोत्पत्तिर् भवति न द्वयोर् न बहूनां वा । यथैके मन्यन्ते । न द्वयोर् न बहूनां वा युगपत् समनन्तरप्रत्ययाभावाद् एकस्यैव विज्ञानस्योत्पत्तिर् भवति । न चैकं विज्ञानं बहूनां समन्तरप्रत्ययत्वं प्रतिपत्तुम् उत्सहते । उतानियमेन ।
यद्य् एकस्यैव प्रत्ययसांनिध्यम् एकम् एवोत्पद्यते । एवं द्वयोर् बहूनाञ् च प्रत्ययसांनिध्ये उत्पत्तिर् भवतीत्य् अत आह ।
पञ्चानां मूलविज्ञाने यथाप्रत्ययम् उद्भवः । विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ 15
पञ्चानाम् इति चक्षुरादिविज्ञानानां तदनुचरमनोविज्ञानसहित्ःन्ःम् । पञ्चानां चक्षुरादिविज्ञानानां बीजाश्रयत्वात् तदुत्पत्तेर् गतिषु जन्मोपादानाच् चालयविज्ञानं मूलविज्ञानम् इत्य् उच्यते । यथाप्रत्ययम् उद्भव इति यस्य यस्य यः प्रत्ययः संनिहितस् तस्य तस्य नियमेनोद्भव आत्मलाभः । सह न वेति युगपत् क्रमेण वा । तरङ्गाणां यथा जल इत्य् आलयविज्ञानात् प्रवृत्तिविज्ञानानां युगपद् अयुगपच् चोत्पत्तौ दृष्टान्तः । यथोक्तम् ।
तद्यथा विशालमते महत उदकौघस्य वहतः सचेद् एकस्य तरङ्गस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्य् एकम् एव तरङ्गं प्रवर्तते । सचेद् द्वयोस् त्रयाणां संबहुलानां तरङ्गाणाम् उत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति यावत् संबहुलानि तरङ्गाणि प्रवर्तन्ते । न च तस्योदकौघस्य स्रोतसा वहतः समुच्छित्तिर् भवति । न पर्युपयोगः प्रज्ञायते । एवम् एव विशालमते तदोघस्थानीयम् आलयविज्ञानं संनिश्रित्य प्रतिष्ठाय सचेद् एकस्य चक्षुर्विज्ञानस्योत्पत्तिप्रत्ययः प्रत्युपस्थितो भवत्य् एकम् एव चक्षुर्विज्ञानं प्रवर्तते । सचेद् द्वयोस् त्रयाणां सचेत् पञ्चानां विज्ञानानाम् उत्पत्तिप्रत्ययः प्रत्युपस्थितो भवति सकृद् यावत् पञ्चानां प्रवृत्तिर् भवति ।
अत्र गाथा ।
आदानविज्ञान गभीरसूक्ष्मो ओघो यथा वर्तति सर्वबीजो । बालान एषो मयि न प्रकाशि मा हैव आत्मा परिकल्पयेयुर्
इति । न हि विज्ञानप्रतिनियमेनालम्बनप्रत्ययवत् समनन्तरप्रत्यय इष्यते । सर्वविज्ञानोत्पत्तौ सर्वस्य विज्ञानस्य तत्समनन्तरप्रत्ययत्वाभ्युपगमात् । अत एकस्माद् अपि समनन्तरप्रत्ययाद् आलम्बनप्रत्ययसान्निध्ये द्वयोर् बहूनां वा विज्ञानानाम् उत्पत्तिर् न विरूध्यते । किञ् चात्र कारणं यत् समनन्तरप्रत्ययप्रतिनियमाभावे पञ्चानाञ् च युगपद् आलम्बनप्रत्ययसान्निध्य एकेनैवोत्पत्तव्यं न पञ्चभिर् अपीति । तस्माद् अलम्बनसद्भावे पञ्चानाम् अपि चोत्पत्तिर् इत्य् अभ्युपेयम् ।
इदम् ईदानीं वक्तव्यम् । किं मनोविज्ञानं चक्षुरादिविज्ञानैः सह प्रवर्तते विना च । उत नैवेत्य् अत आह ।
मनोविज्ञानसंभूतिः सर्वदासंज्ञिकाद् ऋते । समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकात् ॥ 16
इति । सर्वदेति सर्वकालं चक्षुरादिविज्ञानैः सह विना चेत्य् अर्थः । अस्योत्सर्गस्येमम् अपवादम् आरभते ।
आसंज्ञिकाद् ऋते समापत्तिद्वयान् मिद्धान् मूर्च्छनाद् अप्य् अचित्तकाद् इति । (16ब्द्)
तत्रासंज्ञिकम् असंज्ञिसत्त्वेषु देवेषूपपन्नस्य यश् चित्तचैतसिकानां धर्माणां निरोधः ।
समापत्तिद्वयम् असंज्ञिसमापत्तिर् निरोधसमापत्तिश् च ।
तत्रासंज्ञिसमापत्तिः । तृतीयाद् ध्यानाद् वीतरागस्योर्ध्वम् अवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेण मनोविज्ञानस्य तत्संप्रयुक्तानाञ् च चैत्तानां यो निरोधः सो ऽत्रासंज्ञिसमापत्तिर् इत्य् उच्यते । निरुध्यते ऽनेनेति निरोधः । स पुनः ससंप्रयोगस्य मनोविज्ञानस्य समुदाचारनिरोधः । आश्रयस्यावस्थाविशेषः । स च समापत्तिचित्ताद् अनन्तरञ् चित्तान्तरोत्पत्तिविरुद्ध आश्रयः प्राप्यत इति समापत्तिर् इत्य् उच्यते । निरोधसमापत्तिर् आकिञ्चन्यायतनवीतरागस्य शान्तविहारसंज्ञापूर्वकेण मनसिकारेण ससंप्रयोगस्य मनोविज्ञानस्य क्लिष्टस्य च मनसो यो निरोधः । इयम् अप्य् असंज्ञिसमापत्तिवद् आश्रयस्यावस्थाविशेषे प्रज्ञप्यते ।
अचित्तकं मिद्धं गाढमिद्धोपहतत्वाद् आश्रयस्य तावत्कालं मनोविज्ञानाप्रवृत्तेर् अचित्तकम् इत्य् उच्यते ।
अचित्तिका मूर्च्छा । आगन्तुकेनाभिघातेन वातपित्तश्लेष्मवैषम्येण वा यद् आश्रयवैषम्यं मनोविज्ञानप्रवृत्तिविरुद्धं तत्राचित्तिका मूर्च्छोपचर्यते ।
एताः पञ्चावस्था वर्जयित्वा तदन्यासु सर्वास्व् अवस्थासु मनोविज्ञानप्रवृत्तिर् वेदितव्या । एवम् आसंज्ञिकादिषु मनोविज्ञाने निरुद्धे तदपगमे पुनः कुत उत्पद्यते यतस् तस्य कालक्रिया न भवति । तत् पुनर् आलयविज्ञानाद् एवोत्पद्यते । तद् धि सर्वविज्ञानबीजकम् इति ।
यत्र विज्ञानपरिणामे आत्मधर्मोपचारः स पुनस् त्रिधेत्य् उद्दिश्य विस्तरेण त्रिविधो ऽपि निर्दिष्टः ।
इदानीम् आत्मधर्मोपचारो यः प्रवर्तते स विज्ञानपरिणाम एव न विज्ञानपरिणामाच् च पृथग् अस्त्य् आत्मा धर्मा चेति यत् प्रतिज्ञातं तत्प्रसाधनार्थम् आह ।
विज्ञानपरिणामो ऽयं विकल्पो यद् विकल्प्यते । तेन तन् नास्ति तेनेदं सर्वं विज्ञाप्तिमात्रकम् ॥ 17
इति । यो ऽयं विज्ञानपरिणामस् त्रिविधो ऽनन्तरम् अभिहितः सो ऽयं विकल्पः । अध्यारोपितार्थाकारास् त्रैधातुकाश् चित्तचैत्ता विकल्प उच्यते । यथोक्तम् ।
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति ।
तेन त्रिविधेन विकल्पेनालयविज्ञानक्लिष्टमनःप्रवृत्तिविज्ञानस्वभावेन ससंप्रयोगेण यद् विकल्प्यते भाजनम् आत्मास्कन्धधात्वायतनरूपशब्दादिकं वस्तु तन् नास्तीत्य् अतः स विज्ञानपरिणामो विकल्प उच्यते । असदालम्बनत्वात् ।
कथं पुनर् एतद् विज्ञायते तदालम्बनम् असद् इति । यद् धि यस्य कारणं तस्मिन् समग्रे चाविरुद्धे च तद् उत्पद्यते नान्यथा । विज्ञानञ् च मायागन्धर्वनगरस्वप्नतिमिरादाव् असत्य् अप्यालम्बने जायते । यदि च विज्ञानस्यालम्बनप्रतिबद्ध उत्पादः स्याद् एवं सति मायादिष्व् अर्थाभावान् न विज्ञानम् उत्पद्यते ।
तस्मात् पूर्वकान् निरुद्धात् तज्जातीयविज्ञानाद् विज्ञानम् उत्पद्यते । न बाह्याद् अर्थात् तस्मिन्न् असत्य् अपि भावात् । दृष्टा चाभिन्ने ऽप्य् अर्थे प्रतिपत्तॄणां परस्परविरुद्धा प्रतिपत्तिः । न चैकस्य परस्परविरुद्धानेकात्मकत्वं युज्यते । तस्माद् अध्यारोपितरूपत्वाद् विकल्पस्यालम्बनम् असद् इति प्रतिपत्तव्यम् ।
अनेन तावत् समारोपान्तं परिहृत्यापवादान्तपरिजिहीर्षया आह ।
तेनेदं सर्वं विज्ञाप्तिमात्रकम् (17च्द्)
इति । तेनेति तस्मात् । यस्मात् परिणामात्मकेन विकल्पेन यद् विकल्प्यते तेन तन् नास्ति तस्माद् विषयाभावात् सर्वं विज्ञप्तिमात्रकम् । सर्वम् इति त्रैधातुकम् असंस्कृतञ् च । मात्रशब्दस् तदधिकविषयव्यवच्छेदार्थः । ककारः पादपूरणार्थः ।
यदि सर्वं विज्ञप्तिमात्रकम् एव न ततो ऽन्यः कर्ता करणं वास्ति कथं मूलविज्ञानाद् अनधिष्ठिताद् असति करणे विकल्पाः प्रवर्तन्त इत्य् आह ।
सर्वबीजं हि विज्ञानं परिणामस् तथा तथा । यात्य् अन्योन्यवशाद् येन विकल्पः स स जायते ॥ 18
तत्र सर्वधर्मोत्पादनशक्त्यनुगमात् सर्वबीजं विज्ञानम् इत्य् आलयविज्ञानम् । विज्ञानं ह्य् असर्वबीजम् अप्य् अस्तीत्य् अतः सर्वबीजम् इत्य् आह । विज्ञानाद् अन्यद् अपि कैश्चित् प्रधानादि सर्वबीजं कल्प्यत इति विज्ञानम् इत्य् आह । अथ वा । एकपदव्यभिचारे ऽपि विशेषणविशेष्यत्वदर्शनान् नायं दोषः । परिणामस् तथा तथा यात्य् अन्योन्यवशाद् इति । (18ब्च्) पूर्वावस्थातो ऽन्यथाभावः परिणामः । तथा तथेति तस्य तस्य विकल्पस्यानन्तरोत्पादनसमर्थावस्थां प्राप्नोतीत्य् अर्थः ।
अन्योन्यवशाद् इति । तथा हि चक्षुरादिविज्ञानं स्वशक्तिपरिपोषे वर्तमाने शक्तिविशिष्टस्यालयविज्ञानपरिणामस्य निमित्तं सो ऽपि आलयविज्ञानपरिणामश् चक्षुरादिविज्ञानस्य निमित्तं भवति । एवम् अन्योन्यवशाद् यस्माद् उभयं प्रवर्तते तस्माद् आलयविज्ञानाद् अन्येनानधिष्ठिताद् अनेकप्रकारो विकल्पः स स जायते । तत्र च वर्तमाने जन्मनि यथालयविज्ञानात् प्रवृत्तिविज्ञानस्योत्पत्तिर् भवति तथाख्यातम् ।
इदानीं विज्ञप्तिमात्रे अनागतं जन्म वर्तमानजन्मनिरोधे सति यथा प्रतिसंधीयते तत् प्रदर्शयन्न् आह ।
कर्मणो वासना ग्राहद्वयवासनया सह । क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तत् ॥ 19
इति । पुण्यापुण्यानेञ्ज्यचेतना कर्म । तेन कर्मणा यद् अनागतात्मभावाभिनिर्वृत्तये आलयविज्ञाने सामर्थ्यम् आहितं सा कर्मवासना । ग्राहद्वयं ग्राह्यग्रहो ग्राहकग्राहश् च । तत्र विज्ञानात् पृथग् एव स्वसन्तानाध्यासितं ग्राह्यम् अस्तीत्य् अध्यवसायो ग्राह्यग्राहः । तच् च विज्ञानेन प्रतीयते विज्ञायते गृह्यत इति यो ऽयं निश्चयः स ग्रहकग्राहः । पूर्वोत्पन्नग्राह्यग्राहकग्राहाक्षिप्तम् अनागततज्जातीयग्राह्यग्राहकग्राहोत्पत्तिबीजं ग्राहद्वयवासना । तत्र कर्मवासनाभेदाद् गतिभेदेनात्मभावभेदो बीजभेदाद् अङ्कुरभेदवत् ।
[tvbh_114] ग्राहद्वयवासना तु सर्वकर्मवासनानां यथास्वम् आक्षिप्तात्मभावोत्पादने प्रवृत्तानां सहकारित्वं प्रतिपद्यते । तद्यथा अबादयो बीजस्याङ्कुरोत्पत्ताव् इति ।
एवञ् च न केवलाः कर्मवासना ग्राहद्वयवासनाननुगृहीता विपाकञ् जनयन्तीत्य् उक्तं भवति । अत एवाह । ग्रहाद्वयवासनया सहेति । क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्ति तद् इति । (19च्द्) पूर्वजन्मोपचितेन कर्मणा य इति विपाको ऽभिनिर्वृत्तस् तस्मिन् क्षीण इत्य् आक्षेपकाले पर्यन्तावस्थिते यथाबलं कर्मवासना ग्राहद्वयवासनासहिता उपभूक्ताद् विपाकाद् अन्यं विपाकं तद् एवालयविज्ञानं जनयन्ति । आलयविज्ञानव्यतिरेकेणान्यस्य विपाकस्याभावात् । क्षीणे पूर्वविपाक इत्य् अनेन शाश्वतान्तं परिहरति । अन्यं विपाकं जनयन्तीत्य् उच्छेदान्तम् ।
चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानम् अस्ति । तद् एव च सर्वबीजकं न चक्षुरादिविज्ञानम् इति कुत एतत् । आगमाद् युक्तितश् च । उक्तं हि भगवताभिधर्मसूत्रे ।
[tvbh_116]
अनादिकालिको धातुः सर्वधर्मसमाश्रयः । तस्मिन् सति गतिः सर्वा निर्वाणाधिगमो ऽपि च ॥
न चालयविज्ञानम् अन्तरेण संसारप्रवृत्तिर् निवृत्तिर् वा युज्यते । तत्र संसारप्रवृत्तिर् निकायसभागान्तरेषु प्रतिसन्धिबन्धः । निवृत्तिः सोपधिशेषो निरुपधिशेषश् च निर्वाणधातुः । तत्रालयविज्ञानाद् अन्यत् संस्कारप्रत्ययं विज्ञानं न युज्यते । संस्कारप्रत्ययविज्ञानाभावे प्रवृत्तेर् अप्य् अभावः ।
संसारस्यालयविज्ञानानभ्युपगमे प्रतिसन्धिविज्ञानं वा संस्कारप्रत्ययं परिकल्प्येत संस्कारपरिभाविता वा षड् विज्ञानकायाः । तत्र ये संस्काराः प्रातिसंधिकविज्ञानप्रत्ययत्वेनेष्यन्ते तेषाञ् चिरनिरुद्धत्वान् निरुद्धस्य चासत्वाद् असतश् च प्रत्ययत्वाभावान् न संस्कारप्रत्ययं प्रतिसन्धिविज्ञानं युज्यते । प्रतिसन्धौ च नामरूपम् अप्य् अस्ति न केवलं विज्ञानम् । तत्र विज्ञानम् एव संस्कारप्रत्ययं न नामरूपम् इति का तत्र युक्तिः । तस्मात् संस्कारप्रत्ययं नामरूपम् इति वाक्तव्यम् । न तु विज्ञानम् इति । [tvbh_118] कतमद् अन्यद् विज्ञानप्रत्ययं नामरूपम् । यद् उत्तरकालम् इति चेत् तस्य प्रातिसन्धिकनामरूपात् क आत्मातिशयो यतस् तद् एव विज्ञानप्रत्ययं न पूर्वम् । पूर्वञ् च संस्कारप्रत्ययं नोत्तरम् इति । अतश् च संस्कारप्रत्ययं नामरूपम् एवास्तु किं प्रतिसन्धिविज्ञानेनाङ्गान्तरेण परिकल्पितेन । तस्मान् न प्रतिसन्धिविज्ञानं संस्कारप्रत्यत्ययं युज्यते ।
संस्कारपरिभाविता वा षड्विज्ञानकाया अपि न संस्कारप्रत्ययं विज्ञानं युज्यते । किं कारणम् । न हि विज्ञानं विपाकवासनां निष्यन्दवासनां वा स्वात्मन्य् आधातुं समर्थं स्वात्मनि कारित्रविरोधात् । नाप्य् अनागते तस्य तदानुत्पन्नत्वात् । अनुत्पन्नस्य चासत्त्वात् । नाप्य् उत्पन्ने पूर्वस्य तदा निरुद्धत्वात् । अचित्तिकासु च निरोधसमापत्त्याद्यवस्थासु पुनः संस्कारपरिभावितचित्तोत्पत्त्यसंभवाद् विज्ञानप्रत्ययं नामरूपं न स्यात् । तदभावाट् षडायतनं न स्यात् । एवं यावज् जातिप्रत्ययं जरामरणं न स्यात् । ततश् च संसारप्रवृत्तिर् एव न स्यात् ।
तस्माद् अविद्याप्रत्ययाः संस्कारास् तदधिवासितञ् चालयविज्ञानं संस्कारप्रत्ययं विज्ञानम् । तत्प्रत्ययं प्रतिसन्धौ नामरूपम् इत्य् एषैव नीतिर् अनवद्या ।
संसारनिवृत्तिर् अपि आलयविज्ञाने असति न युज्यते । संसारस्य हि कर्मक्लेशाश् च कारणं तयोश् च क्लेशाः प्रधानम् । तथा हि क्लेशाधिपत्यात् कर्म पुनर्भवाक्षेपसमर्थं भवति नान्यथा । तथाक्षिप्तपुनर्भवो ऽपि कर्म क्लेशाधिपत्याद् एव पुनर्भवो भवति नान्यथा । एवञ् च क्लेशा एव संसारप्रवृत्तेः प्रधानत्वान् मूलम् । अतस् तेषु प्रहीणेषु संसारो विनिवर्तते नान्यथा । न चालयविज्ञानम् अन्तरेण तत्प्रहाणं युज्यते ।
कथं पुनर् न युज्यते । संमुखीभूतो वा क्लेशः प्रहीयते बीजावस्थो वा । तत्र संमुखीभूतः प्रहीयत इत्य् अनिष्टिर् एवेयम् । तत्प्रहाणमार्गस्थानाद् बीजावस्थो ऽपि नैव प्रहीयते । न हि प्रतिपक्षात् तदानीं किञ्चिद् अन्यद् अभ्युपगम्यते यत्र क्लेशबीजं व्यवस्थितं तत्प्रतिपक्षेण प्रहीयेत । अथ प्रतिपक्षचित्तम् एव क्लेशबीजानुषक्तम् इष्यते । न हि तत् क्लेशबीजानुषक्तम् एव तत्प्रतिपक्षो भवितुम् अर्हति । न चाप्रहीणक्लेशबीजानां संसारनिवृत्तिः संभवति । तस्माद् अवश्यम् आलयविज्ञानं तदन्यविज्ञानसहभूभिः क्लेशोपक्लेशैर् भाव्यते स्वबीजपुष्ट्याधानत इत्य् अभ्युपेयम् । ये पुनश् चित्तत एव संततिपरिणामविशेषाद् यथाबलं वासनावृत्तिलाभे सति क्लेशोपक्लेशाः प्रवर्तन्ते तेषाञ् चालयविज्ञानव्यवस्थितं बीजं तत्सहभुवा क्लेशप्रतिपक्षमार्गेणापनीयते । तस्मिंश् चापनीते न पुनस् तेनाश्रयेण क्लेशानाम् उत्पत्तिर् इति सोपधिशेषो निर्वाणधातुः प्राप्यते । पूर्वकर्माक्षिप्तजन्मनिरोधे च ततो ऽन्यजन्माप्रतिसंधानान् निरुपधिशेषो निर्वाणधातुः । न हि कर्म विद्यमानम् अपि क्लेशेषु प्रहीणेषु सहकारिकारणभावात् पुनर्भवम् अभिनिर्वर्तयितुं समर्थम् ।
एवम् आलयविज्ञाने सति संसारप्रवृत्तिर् निवृत्तिश् च नान्यथेत्य् अवश्यं चक्षुरादिविज्ञानव्यतिरिक्तम् आलयविज्ञानं तद् एव च सर्वधर्मबीजानुगतं न चक्षुरादिविज्ञानम् इत्य् अभ्युपगन्तव्यम् । विस्तरविचारस् तु पञ्चस्कन्धकोपनिबन्धाद् वेदितव्यः ॥
यदि विज्ञप्तिमात्रम् एवेदं कथं न सूत्रविरोधः । सूत्रेषु हि त्रयः स्वभावा उक्ताः परिकल्पितः परतन्त्रः परिनिष्पन्नश् च । नास्ति विरोधः । विज्ञप्तिमात्र एव सति स्वभावत्रयव्यवस्थानात् । कथम् इत्य् अत आह ।
येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते । परिकल्पित एवासौ स्वभावो न स विद्यते ॥ 20
आध्यात्मिकबाह्यविकल्प्यवस्तुभेदेन विकल्पानाम् आनन्त्यं प्रदर्शयन्न् आह । येन येन विकल्पेनेति ।
यद् यद् वस्तु प्रकल्प्यते । आध्यात्मिकं बाह्यं वान्तशो यावद् बुद्धधर्मा अपि । परिकल्पित एवासौ स्वभाव इति । अत्र कारणम् आह । न स विद्यत इति ।
यद् वस्तु विकल्प्यविषयस् तद् यस्मात् सत्ताभावान् न विद्यते । तस्मात् तद् वस्तु परिकल्पितस्वभावम् एव । न हेतुप्रत्ययप्रतिबद्धस्वभावम् । तथा ह्य् एकस्मिन् वस्तुनि तदभावे च परस्परविरुद्धानेकविकल्पप्रवृत्तिर् दृष्टा । न च तद् एकं वस्तु तदभावो वा परस्परविरुद्धानेकस्वभावो युज्यते । तस्मात् सर्वम् इदं विकल्पमात्रम् एव तदर्थस्य परिकल्पितरूपत्वात् । उक्तं च सूत्रे ।
न खलु पुनः सुभूते धर्मास् तथा विद्यन्ते यथा बालपृथग्जना अभिनिविष्टा इति ।
परिकल्पितानन्तरं परतन्त्रस्वभावो वक्तव्य इति । अत आह ।
परतन्त्रस्वभावस् तु विकल्पः प्रत्ययोद्भवः । 21अब्
अत्र च विकल्प इति परतन्त्रस्वरूपम् आह । प्रत्ययोद्भव इत्य् अनेनापि परतन्त्राभिधानप्रवृत्तिनिमित्तम् आह । तत्र परिकल्पः कुशलाकुशलाव्याकृतभेदभिन्नास् त्रैधातुकाश् चित्तचैत्ताः ।
यथोक्तम् ।
अभूतपरिकल्पस् तु चित्तचैत्तास् त्रिधातुका इति ।
परैर् हेतुप्रत्ययैस् तन्त्र्यत इति परतन्त्र उत्पाद्यत इत्य् अर्थः । स्वतो ऽन्यहेतुप्रत्ययप्रतिबद्धात्मलाभ इति यावदुक्तं भवति । उक्तः परतन्त्रः ।
परिनिष्पन्नः कथम् इत्य् अत आह ।
निष्पन्नस् तस्य पूर्वेण सदा रहितता तु या ॥ 21च्द्
अविकारपरिनिष्पत्त्या स परिनिष्पन्नः । तस्येति परतन्त्रस्य पूर्वेणेति परिकल्पितेन तस्मिन् विकल्पे ग्राह्यग्राहकभावः परिकल्पितः । तथा हि तस्मिन् विकल्पे ग्राह्यग्राहकत्वम् अविद्यमानम् एव परिकल्प्यत इति परिकल्पितम् उच्यते । तेन ग्राह्यग्राहकेण परतन्त्रस्य सदा सर्वकालम् अत्यन्तरहितता या स परिनिष्पन्नस्वभावः ॥
अत एव स नैवान्यो नानन्यः परतन्त्रतः । 22अब्
अत एव स नैवेति परिकल्पितेन स्वभावेन परतन्त्रस्य सदा रहितता परिनिष्पन्नः । रहितता च धर्मता । सा च धर्मता धर्मान् नान्या नानन्या युज्यते । परिनिष्पन्नश् च परतन्त्रधर्मतेत्य् अतः परतन्त्रात् परिनिष्पन्नो नान्यो नानन्य इति बोद्धव्यः । यदि हि परिनिष्पन्नः परतन्त्राद् अन्यः स्याद् एवं न परिकल्पितेन परतन्त्रः शून्यः स्यात् । अथानन्य एवम् अपि परिनिष्पन्नो न विशुद्धालम्बनः स्यात् परतन्त्रवत् संक्लेशात्मकत्वात् । एवं परतन्त्रश् च न क्लेशात्मकः स्यात् । परिनिष्पन्नाद् अनन्यत्वात् परिनिष्पन्नवत् ।
अनित्यतादिवद् वाच्यो 22च्
नान्यो नानन्य इति वाक्यशेषः । यथा ह्य् अनित्यता दुःखतानात्मता च । संस्कारादिभ्यो नान्या नानन्या । यदि संस्कारेभ्यो ऽनित्यता अन्या । एवं तर्हि संस्कारा नित्याः स्युः । अथानन्या एवम् अपि संस्काराः प्रध्वंसाभावरूपाः स्युर् अनित्यतावत् । एवं दुःखतादिष्व् अपि वाच्यम् ।
यदि ग्राह्यग्राहकभावरहितः परतन्त्रः कथम् असौ गृह्यते अगृह्यमाणो वा कथम् अस्तीति विज्ञायते । अत आह ।
नादृष्टे ऽस्मिन् स दृश्यते ॥ 22द्
नादृष्टे ऽस्मिन्न् इति परिनिष्पन्नस्वभावे स दृश्यत इति परतन्त्रः स्वभावः । निर्विकल्पलोकोत्तरज्ञानदृश्ये परिनिष्पन्ने स्वभावे अदृष्टे अप्रतिविद्धे असाक्षात्कृते तत्पृष्ठलब्धशुद्धलौकिकज्ञानगम्यत्वात् परतन्त्रो ऽन्येन ज्ञानेन न गृह्यते । अतः परिनिष्पन्ने ऽदृष्टे परतन्त्रो न दृश्यते । न पुनर् लोकोत्तरज्ञानपृष्ठलब्धेनापि ज्ञानेन न दृश्यते ।
तथा निर्विकल्पप्रवेशायां धारण्याम् उक्तम् ।
तत् पृष्ठलब्धेन ज्ञानेन मायामरीचिस्वप्नप्रतिश्रुत्कोदकचन्द्रनिर्मितसमान् सर्वधर्मान् प्रत्येतीति ।
अत्र च धर्माः परतन्त्रसंगृहीता अभिप्रेताः । परिनिष्पन्नश् चाकाशवद् एकरसः । ज्ञानञ् च यथोक्तं
निर्विकल्पेन ज्ञानेनाकाशसमतया तान् सर्वधर्मान् पश्यतीति परतन्त्रधर्माणां तथतामात्रदर्शनात् ॥
यदि द्रव्यम् एव परतन्त्रः कथं सूत्रे सर्वधर्मा निःस्वभावा अनुत्पन्ना अनिरुद्धा इति निर्दिश्यन्ते । नास्ति विरोधः यस्मात् ।
त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् । सन्धाय सर्वधर्माणां देशिता निःस्वभावता ॥ 23
त्रय एव स्वभावा न चतुर्थो ऽस्तीति ज्ञापनार्थं संख्यानिर्देशः । स्वेन स्वेन लक्षणेन विद्यमानवद् भवतीति स्व्भावः ।
त्रिविधा निःस्वभावता लक्षणनिःस्वभावता उत्पत्तिनिःस्वभावता परमार्थनिःस्वभावता च । सर्वधर्माः परिकल्पितपरतन्त्रपरिनिष्पन्नात्मकाः ।
इदानीं त्रिविधस्य स्वभावस्य या यस्य निःस्वभावता तां तस्य प्रदर्शयन्न् आह ।
प्रथमो लक्षणेनैव निःस्वभावो ऽपरः पुनः । न स्वयंभाव एतस्येत्य् अपरा निःस्वभावता ॥ 24
धर्माणां परमार्थश् च स यतस् तथतापि सः । 25अब्
प्रथमः परिकल्पितः स्वभावो ऽयं च लक्षणेनैव निःस्वभावस् तल्लक्षणस्योत्प्रेक्षितत्वात् । रूपलक्षणं रूपम् । अनुभवलक्षणा वेदनेत्यादि । अतश् च स्वरूपाभावात् खपुष्पवत् स्वरूपेणैव निःस्वभावः ।
अपरः पुनर् इति परतन्त्रस्वभावः । न स्वयंभाव एतस्य मायावत् परप्रत्ययेनोत्पत्तेः । अतश् च यथा प्रख्याति तथास्योत्पत्तिर् नास्तीत्य् अतो ऽस्योत्पत्तिनिःस्वभावतेत्य् उच्यते । धर्माणां परमार्थश् च स यतस् तथापि स इति । (25अब्) परमं हि लोकोत्तरज्ञानं निरुत्तरत्वात् तस्यार्थः परमार्थः । अथ वाकाशवत् सर्वत्रैकरसार्थेन वैमल्याविकारार्थेन च परिनिष्पन्नः स्वभावः परमार्थ उच्यते । स यस्मात् परिनिष्पन्नः स्वभावः सर्वधर्माणां परतन्त्रात्मकानां परमार्थः । तद्धर्मतेति कृत्वा तस्मात् परिनिष्पन्न एव स्वभावः परमार्थनिःस्वभावाता परिनिष्पन्नस्याभावस्वभावत्वात् ।
किं पुनः परमार्थाभिधानेनैव परिनिष्पन्नो ऽभिधातव्यः । नेत्य् आह । किं तर्हि तथतापि सः । (25ब्) अपिशब्दान् न केवलं तथताशब्देनैवाभिधातव्यः । किं तर्हि यावन्तो धर्मधातुपर्यायाः सर्वैस् तैर् अप्य् अभिधातव्य इति ॥
सर्वकालं तथाभावात् 25च्
तथता । तथा हि पृथग्जनशैक्षाशैक्षावस्थासु सर्वकालं तथैव भवति । नान्यथेति तथतेत्य् उच्यते ।
किं पुनस् तथतावत् परिनिष्पन्न एव विज्ञप्तिमात्रता । उतान्या विज्ञप्तिमात्रता । अत आह ।
सैव विज्ञप्तिमात्रता ॥ 25द्
सुविशुद्धलक्षणावबोधाद् यथोक्तम् ।
नाम्नि तिष्ठति तच् चित्तं तदा तन्मात्रदर्शनात् । नाम्नि स्थानाच् च विज्ञप्ताव् उपलम्भः प्रहीयते ॥
नोपलम्भं तदा धातुं स्पृशते भावनान्वयात् । सर्वावरणविमोक्षं विभुत्वं लभते तदा ॥
इति । सैव विज्ञप्तिमात्रतेत्य् अनेन वचनेनाभिसमय उक्तः ।
यदि विज्ञप्तिमात्रम् एवेदं कस्माच् चक्षुःश्रोत्रघ्राणरसनस्पर्शनैः रूपशब्दगन्धरसस्पर्शान् गृह्णातीत्य् अस्य भवतीत्य् अत आह ।
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठते । ग्राहद्वयस्यानुशयस् तावन् न विनिवर्तते ॥ 26
अथ वा यास् ताः कर्मवासना ग्राहद्वयवासनासहिताः
क्षीणे पूर्वविपाके ऽन्यं विपाकं जनयन्तीत्य् (19च्द्)
उक्तं तस्मात् कथं प्रहाणम् अप्रहाणं चेत्य् अत आह ।
यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ट्ःअत (26अब्)
इति विस्तरः । यावच् चित्तधर्मतायां विज्ञप्तिमात्रसंशब्दितायां विज्ञानं नावतिष्ठते किं तर्हि ग्राह्यग्राहकोपलम्भे चरति । ग्राहद्वयं ग्राह्यग्राहो ग्राहकग्राहश् च । तस्यानुशयस् तदाहितम् अनागतग्राहद्वयोत्पत्तये बीजम् आलयविज्ञाने । यावद् अद्वयलक्षणे विज्ञप्तिमात्रत्वे योगिनश् चित्तं न प्रतिष्ठितं भवति तावद् ग्राह्यग्राहकानुशयो न विनिवर्तते न प्रहीयत इत्य् अर्थः । अत्र च बहिर् उपलम्भाप्रहाणेनाध्यात्मिकोपलम्भाप्रहाणं दर्शितम् इति । अतो ऽस्यैवम् भवत्य् अहं चक्षुरादिभिः रूपादीन् गृह्णामीति ।
इदम् इदानीं वक्तव्यं किम् अर्थरहितचित्तमात्रोपलम्भाच् चित्तधर्मतावस्थानम् । नेत्य् आह । किं तर्हि ।
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भतः । स्थापयन्न् अग्रतः किञ्चित् तन्मात्रे नावतिष्ठते ॥ 27
इति अथ वा यः पुनर् आभिमानिकः श्रुतमात्रकेण जानीयद् अहं विज्ञप्तिमात्रतायां शुद्धायां स्थित इति तद्ग्रहव्युदासार्थम् आह ।
विज्ञप्तिमात्रम् एवेदम् इत्य् अपि ह्य् उपलम्भत इत्य् (27अब्)
आदि । विज्ञप्तिमात्रम् एवेदं अर्थरहितं न बाह्यो ऽर्थो ऽस्तीत्य् एवम् उपलम्भतो ग्रहणतः चित्रीकरणत इत्य् अर्थो ऽग्रत इत्य् अभिमुखं [tvbh_136] स्थापयन्न् इति यथाश्रुतं मनसा बहुप्रकारत्वाद् योगाचारालम्बनानां किंचिद् इत्य् आहास्थिसंकलिकं वा विनीलकं वा विपूयकं वा विपडुमकं वा व्याध्मातकादिकं वा तन्मात्रे नावतिष्ठते विज्ञानोपलम्भाप्रहाणात् ।
कदा पुनर् विज्ञानग्राहस्य प्रहाणं चित्तधर्मातायाञ् च प्रतिष्ठितो भवतीत्य् अत आह ।
यदा त्व् आलम्बनं ज्ञानं नैवोपलभते तदा । स्थितं विज्ञप्तिमात्रत्वे ग्राह्याभाभावे तदग्रहात् ॥ 28
यस्मिन् काले देशनालम्बनं अववादालम्बनं प्राकृतं वा रूपशब्दाद्यालम्बनं ज्ञानं बहिश् चित्तान् नोपलभते न पश्यति न गृह्णाति नाभिनिविशते यथाभूतार्थदर्शनान् न तु जात्यन्धवत् तस्मिन् काले विज्ञानग्राहस्य प्रहाणं स्वचित्तधर्मतायां च प्रतिष्ठितो भवति । अत्रैव कारणम् आह । ग्राह्याभावे तदग्रहाद् इति । (28द्) ग्राह्ये सति ग्राहको भवति न तु ग्राह्याभाव इति । ग्राह्याभावे ग्राहकाभावम् अपि प्रतिपद्यते । न केवलं ग्राह्याभावम् । एवं हि [tvbh_138] समसमालम्ब्यालम्बकं निर्विकल्पं लोकोत्तरं ज्ञानम् उत्पद्यते । ग्राह्यग्राहकाभिनिवेशानुशयाः प्रहीयन्ते स्वचित्तधर्मतायां च चित्तम् अवस्थितं भवति ।
यदैवं विज्ञप्तिमात्रतायां चित्तम् अवस्थितं भवति तदा कथं व्यपदिश्यत इत्य् आह ।
अचित्तो ऽनुपलम्बो ऽसौ ज्ञानं लोकोत्तरञ् च तत् । आश्रयस्य परावृत्तिर् द्विधादौष्ठुल्यहानितः ॥ 29
स एवानास्रवो धातुर् अचिन्त्यः कुशलो ध्रुवः । सुखो विमुक्तिकायो ऽसौ धर्माख्यो ऽयं महामुनेः ॥ 30
इति । तद् अनेन श्लोकद्वयेन दर्शनमार्गम् आरभ्योत्तरविशेषगत्या फलसंपत्तिर् उद्भाविता विज्ञप्तिमात्रताप्रविष्टयोगिनः । तत्र ग्राहकचित्ताभावाद् ग्राह्यार्थानुपलम्भाच् चाचित्तो ऽनुपलम्भो ऽसौ । (29अ) अनुचितत्वाल् लोके समुदाचाराभावान् निर्विकल्पत्वाच् च लोकाद् उत्तीर्णम् इति ज्ञानं लोकोत्तरञ् च तद् इति । (29ब्) तस्य ज्ञानस्यानन्तरं आश्रयस्य परावृत्तिर् भवतीति ज्ञापनार्थम् आह । आश्रयस्य परावृत्तिर् इति । (29च्) आश्रयो ऽत्र सर्वबीजकम् आलयविज्ञानम् । तस्य परावृत्तिर् या दौष्ठुल्यविपाकद्वयवासनाभावेन निवृत्तौ सत्यां कर्मण्यताधर्मकायाद्वयज्ञानभावेन परावृत्तिः ।
सा पुनर् आश्रयपरावृत्तिः कस्य प्रहाणात् प्राप्यते । अत आह । द्विधादौष्ठुल्यहानितः । (29द्) द्विधेति क्लेशावरणदौष्ठुल्यं ज्ञेयावरणदौष्ठुल्यञ् च । दौष्ठुल्यम् आश्रयस्याकर्मण्यता । तत् पुनः क्लेशज्ञेयावरणयोर् बीजम् । सा पुनर् आश्रयपरावृत्तिः श्रावकादिगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह विमुक्तिकाय इति ।
बोधिसत्त्वगतदौष्ठुल्यहानितश् च प्राप्यते यद् आह धर्माख्यो ऽयं महामुनेर् इति । (30द्) द्विधा आवरणभेदेन सोत्तरा निरुत्तरा चाश्रयपरावृत्तिर् उक्ता ।
अत्र गाथा ।
ज्ञेयम् आदानविज्ञानं द्वयावरणलक्षणम् । सर्वबीजं क्लेशबीजं बन्धस् तत्र द्वयोर् द्वयोः ॥
इति । द्वयोर् इति श्रावकबोधिसत्त्वयोः । आद्यस्य क्लेशबीजं इतरस्य द्वयावरणबीजं तदुद्घातात् सर्वज्ञतावाप्तिर् भवतीति ।
स एवानास्रवो धातुर् इति (30अ)
स एवाश्रयपरावृत्तिरूपः । अनास्रवो धातुर् इत्य् उच्यते निर्दौष्ठुल्यत्वात् । सर्वास्रवविगत इत्य् अनास्रवः । आर्यधर्महेतुत्वाद् धातुः । हेत्वर्थो ह्य् अत्र धातुशब्दः ।
अचिन्त्यस् तर्कागोचरत्वात् प्रत्यात्मवेद्यत्वाद् दृष्टान्ताभावाच् च । कुशलो विशुद्धालम्बनत्वात् क्षेमत्वाद् अनास्रवधर्ममयत्वाच् च । ध्रुवो नित्यत्वाद् अक्षयतया । सुखो नित्यत्वाद् एव यद् अनित्यं तद् दुःखं अयं च नित्य इति तस्मात् सुखः ।
क्लेशावरणप्रहाणाच् छ्रावकाणां विमुक्तिकायः ।
स एवाश्रयपरावृत्तिलक्षणो धर्माख्यो ऽप्य् उच्यते महामुनेर् भूमिपारमिताभावनया क्लेशज्ञेयावरणप्रहाणात् । आश्रयपरावृत्तिसमुदागमान् महामुनेर् धर्मकाय इत्य् उच्यते । संसारापरित्यागात् तदनुपसंक्लेशत्वाद् बोधिसत्त्वानां सर्वधर्मविभुत्वलाभतश् च धर्मकाय इत्य् उच्यते । महामुनेर् इति परमौनेययोगाद् बुद्धो भगवान् महामुनिर् इति ॥
त्रिंशिकाविज्ञप्तिभाष्यं समाप्तम् ॥ कृतिर् आचार्यस्तिरमतेः ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
