Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
उदानवर्ग
- Thông tin
- GRETIL — Franz Bernhard, Goettingen 1965.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यद्.ईरयसि.ह.आत्मानम्.कंसी.इव.उपहता.सदा / जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि // Uv_26.4
न.त्व्.ईरयसि.ह.आत्मानम्.कंसिर्.न.उपहता.यथा / एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते // Uv_26.5
आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् / विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् // Uv_26.6
क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु /[.परमा.]? एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् // Uv_26.7
अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् // एतज्.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् // Uv_26.8
सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् / सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् // Uv_26.9
गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः / धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः // ....... / ....... / ..........न.संवसेत् / ................... / Uv_26.10
न.हि.इदम्.हीन.वीर्येण.मन्देन.अप्य्.अविजानता / निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् // ..तः.कामेषु.नि............ / ........................... / Uv_26.11
सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति / हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि // Uv_26.12
अभूत्.पूर्वे.ततो.न.अभून्.न.अभूत्.पूर्वे.ततो.ह्य्.अभूत् / न.च.अभून्.न.भविष्यति.न.वा.अप्य्.एतर्हि.विद्यते // Uv_26.13
दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः / तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.14
छित्त्वा.तृष्णाम्.प्रशाम्य.इह.रजः.सर्वम्.समाहितः / विशोषयित्वा.सरिताम्.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.15
भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च / विज्ञान.अस्त.गमम्.लब्ध्वा.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.16
दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता / मते.तथैव.विज्ञाते.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.17
एने.मेमे.तथा.दप्फे.दडप्फे.च.इति.बुध्यतः / सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.18
माशा.तुषा.संशमा.च.सर्वत्र.विरडी.तथा / सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.19
अनिह्श्रितस्य.अचलितम्.प्रस्रब्धिश्.च.इह.विद्यते / न.गतिर्.न.च्युतिश्.चैव.दुह्खस्य.अन्तो.निरुच्यते // Uv_26.20
अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा / असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते // Uv_26.21
जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् / जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् / आहार.नेत्री.प्रभवम्.न.अलम्.तद्.अभिनन्दितुम् // Uv_26.22
तस्य.निह्ह्सरणम्.शान्तम्.अतर्क.अवचरम्.पदम् /[.अतर्कावचरम्.] निरोधो.दुह्ख.धर्माणाम्.संस्कार.उपशमम्.सुखम् // Uv_26.23
अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते / न.आकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च // Uv_26.24
न.एव.अगतिर्.न.च.गतिर्.न.उपपत्तिश्.च्युतिर्.न.च / अप्रतिष्ठम्.अनालम्बम्.दुह्ख.अन्तः.स.निरुच्यते // Uv_26.25
यत्र.न.आपो.न.पृथिवी.तेजो.वायुर्.न.गाहते / न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते // Uv_26.26
न.तत्र.चन्द्रमा.भाति.न.आदित्यो.वै.प्रकाश्यते / यथा.त्व्.इह.आत्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः / अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते // Uv_26.27
निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः /[.विकण्ठी.]? अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः // Uv_26.28
एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् / क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् // Uv_26.29
तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः / आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इव.अण्ड.सम्भवम् // Uv_26.30
जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् / जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः // सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति / सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति // Uv_26.31
27 पश्यवर्ग
सुपश्यम्.पर.वद्यम्.स्याद्.आत्म.वद्यम्.तु.दुर्दृशम् / परः.परस्य.वद्यानि.तु.उत्पुनाति.बुसम्.यथा // उव्_.27.1
पर.वद्य.अनुदर्शिनो.नित्य.अवध्यान.संज्ञिनः / वामा.धर्माः.प्रवर्धन्ते.स.ह्य्.आराद्.धर्म.दर्शनात् // उव्_.27.2
अह्रीकेन.सुजीवम्.स्यात्.काक.शूरेण.ध्वाङ्क्षिणा / प्रस्कन्दिना.प्रगल्भेन.संक्लिष्टम्.त्व्.इह.जीवते // उव्_.27.3
ह्रीमता.त्व्.इह.दुर्जीवम्.नित्यम्.शुचि.गवेषिणा / सुलीनेन.अप्रगल्भेन.शुद्ध.आजीवेन.पश्यता // उव्_.27.4
अन्ध.भूतो.ह्य्.अयम्.लोकस्.तनुको.अत्र.विपश्यतः / शकुन्तो.जाल.मुक्तैव.ह्य्.अल्पम्.स्वर्गेषु.मोदते // उव्_.27.5
मोष.सम्बन्धनो.लोको.भव्य.रूप;इव.दृश्यते / उपधी.बन्धना.बालास्.तमसा.परिवारिताः / असत्.सद्.इव.दृश्यते.पश्यतो.न.अस्ति.किंचनम् // उव्_.27.6
अहम्.कार.सृता.मर्त्याः.पर.कार.उपसंहिताः / एतद्.एके.न.जानन्ति.पश्यन्ति.न.हि.शल्यतः // उव्_.27.7
एतत्.तु.शल्यम्.प्रतियत्य.पश्यतो.ह्य्.अध्यवसिता.यत्र.प्रजाः.प्रसक्ताः / अहम्.करोमि.इति.न.तस्य.हिंस्यात्.परः.करोति.इति.न.तस्य.हिंस्यात् // उव्_.27.8
मान.उपेतो.ह्य्.अयम्.लोको.मान.सक्तः.सदा.स्थितः / दृष्टिभिश्.चैव.संरब्धः.संसारम्.न.अतिवर्तते // उव्_.27.9
यत्.प्राप्तम्.यच्.च.प्राप्तव्यम्.रजः.कीर्णम्.इदम्.द्वयम् / आतुर्यम्.इति.तम्.ज्ञात्वा.जह्याद्.विद्वान्.समाहितः // उव्_.27.10
शिक्षा.साराश्.च.ये.सत्त्वा.जीविनो.ब्रह्म.जीविनः / उपस्थान.रतये.च.स;एको.अन्तः.प्रकीर्तितः // उव्_.27.11
भोक्तव्याः.शुचयः.कामा.न.दोषस्.तेषु.विद्यते / य;एवम्.दर्शिनो.बाला.द्वितीयो.अन्तः.प्रकीर्तितः // उव्_.27.12
एताव्.अन्ताव्.अनज्ञाय.त्व्.अतिलीयन्ति.बालिशः / [.अनज्ञाय.]? अपरे.त्व्.अतिधावन्ति.चक्षुष्मांस्.ताम्.प्रपश्यति // उव्_.27.13
एताव्.अन्तौ.विदित्वा.तु.न.अभवंस्.तत्र.ये.बुधाः / न.चैव.तेन.मन्यन्ते.वर्त्मस्.तेषाम्.न.विद्यते // उव्_.27.14
यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् / एवम्.लोकम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति // उव्_.27.15
यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् / एवम्.कायम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति // उव्_.27.16
पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् / यत्र.बालाः.प्रमुह्यन्ते.सङ्गो.न.अस्ति.प्रजानताम् // पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् / यत्र.बाला.विषीदन्ति.पण्डितो.अत्र.विरज्यते // उव्_.27.17
पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् / यत्र.बाला.विषीदन्ति.यथा.पङ्के.जरद्गवः // उव्_.27.18
पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् / यत्र.बालाः.प्रमुह्यन्ते.पण्डितो.अत्र.विरज्यते / उव्_.27.19
पश्य.चित्र.कृतम्.बिम्बम्.अरुकम्.काय.संज्ञितम् / आतुरम्.मोष.संकल्पम्.यस्य.न.अस्ति.ध्रुव.स्थितिः // ................ / ..........सङ्गो.न.अस्ति.प्रजानताम् // ................. / ................. / उव्_.27.20
पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा / अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् // उव्_.27.21
पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा / अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते // गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ / अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् // गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ / अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते // पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा / अलम्.बालस्य.मोहाय................ / पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा / अलम्.बालस्य.मोहाय................ / उव्_.27.22
अष्टापदी.कृताः.केशा.नेत्रे.च.अञ्जन.रञ्जिते / अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् // उव्_.27.23
अष्टापदी.कृताः.केशा.नेत्रे.च.अञ्जन.रञ्जिते / अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते // ................................ / अलम्.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः // ............................... / अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् // उव्_.27.24
अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः / अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् // उव्_.27.25
अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः / अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते // गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ / अलम्.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः // गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ / अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् // अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः / अलम्.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः // अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः / अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् // उव्_.27.26
कामेषु.सक्ताः.सततम्.हि.मूढाः.सम्योजने.वद्यम्.अपश्यमानाः / न.जातु.सम्योजन.सङ्ग.सक्ता.ह्य्.ओघम्.तरेयुर्.विपुलम्.महान्तम् // उव्_.27.27
ऊर्ध्वम्.च.अधः.सर्वतो.वीत.रागो.ह्य्.अयम्.अहम्.अस्मि.इति.च.न.अनुपश्यन् / एवम्.विमुक्तो.हि.तरेद्.इह.ओघम्.अतीर्ण.पूर्वम्.ह्य्.अपुनर्.भवाय // उव्_.27.28
यो.निर्वनगैर्.विमोक्षितः.संवन.मुक्तो.वनम्.एव.धावति / [.निर्वनगैर्.]? तम्.पश्यथ.पुद्गलम्.त्व्.इमम्.मुक्तो.बन्धनम्.एव.धावति // उव्_.27.29
नेलाङ्गः.श्वेत.संछन्न;एकारो.वर्तते.रथः /[.नील.अङ्गः.]? अनिघम्.पश्यत.आयान्तम्.छिन्न.योक्त्रम्.अबन्धनम् // उव्_.27.30
बहवः.शरणम्.यान्ति.पर्वतांश्.च.वनानि.च / आरामाम्.वृक्ष.चैत्यांश्.च.मनुष्या.भय.तर्जिताः // उव्_.27.31
न.एतद्द्.हि.शरणम्.क्षेमम्.न.एतत्.शरणम्.उत्तमम् / न.एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते // उव्_.27.32
यस्.तु.बुद्धम्.च.धर्मम्.च.संघम्.च.शरणम्.गतः / चत्वारि.च.आर्य.सत्यानि.प्रज्ञया.पश्यते.यदा // उव्_.27.33
दुह्खम्.दुह्ख.समुत्पादम्.दुह्खस्य.समतिक्रमम् / आर्यम्.च.अष्ट.अङ्गिकम्.मार्गम्.दुह्ख.उपशम.गामिनम् // उव्_.27.34
एतद्द्.हि.शरणम्.क्षेमम्.एतत्.शरणम्.उत्तमम् / एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते // उव्_.27.35
पश्यतः.पश्यते.पश्यम्.पश्यते.च.अप्य्.अपश्यतः / अपश्यन्.पश्यते.न.एव.पश्यतो.न.अप्य्.अपश्यतः // उव्_.27.36
अनुपश्यनया.च.पश्यना.नानात्वम्.हि.तयोर्.इह.उच्यते / दिवसस्य.यथा.एव.रात्रिभिः.संधानम्.च.तयोर्.न.विद्यते // उव्_.27.37
अनुपश्यति.चेन्.न.पश्यति.त्व्.अथ.चेत्.पश्यति.न.अनुपश्यति / पश्यन्न्.अयम्.न.अनुपश्यति.त्व्.अनुपश्यंस्.तु.सदा.न.पश्यति // उव्_.27.38
पश्यन्.नु.किम्.न.अनुपश्यते.किम्.अपश्यन्.न.अनुपश्यते.सदा / कस्मिन्.सति.ह.अनुपश्यना.कस्मिन्.न.सति.न.अनुपश्यना // उव्_.27.39
दुह्खम्.यद्.अयम्.न.पश्यति.तद्.अपश्यन्न्.आत्मा.इति.पश्यति / दुह्खम्.तु.यथा.तथा.प्रपश्यन्न्.अयम्.आत्मा.इति.सदा.अनुपश्यति // उव्_.27.40
येन.आवृतः.पृथग्.जनः.संस्कारान्.दुह्खम्.न.पश्यति / तस्मिन्.सति.ह.अनुपश्यना.विगते.अस्मिन्.विगत.अनुपश्यना // उव्_.27.41
28 पापवर्ग
सर्व.पापस्य.अकरणम्.कुशलस्य.उपसम्पदः / स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् // Uv_28.1
ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् / कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः // Uv_28.2
सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः / कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथा.उदकम् // Uv_28.3
दृष्ट्वा.ह्य्.आदीनवम्.लोके.ज्ञात्वा.धर्म.निरौपधिम् / आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे // Uv_28.4
प्रविवेक.रसम्.ज्ञात्वा.रसम्.च.उपशमस्य.वै / निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् // Uv_28.5
अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः / पुण्य.पाप.प्रहीणस्य.न.अस्ति.दुर्गतितो.भयम् // Uv_28.6
निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् / निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् / तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् // Uv_28.7
उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः / धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथा.अनिलः // Uv_28.8
यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगत.अङ्गणस्य / तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव // Uv_28.9
यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.ह.आत्मनः / कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् // Uv_28.10
आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा / आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मना.एव.विशुध्यते // Uv_28.11
अशुद्ध.बुद्धिम्.प्रत्यात्मम्.न.अन्यो.ह्य्.अन्यम्.विशोधयेत् / अभिमथ्नाति.तम्.पापम्.वज्रम्.अश्म.मणिम्.यथा // Uv_28.12
चक्षुष्मान्.विषमानी.इव.विद्यमाने.पराक्रमेत् / पण्डितो.जीव.लोके.अस्मिन्.पापानि.परिवर्जयेत् // Uv_28.13
वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो / विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् // Uv_28.14
पणौ.च.अस्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् / न.अव्रणे.क्रामति.विषम्.न.अस्ति.पापम्.अकुर्वतः // Uv_28.15
सुकराणि.ह्य्.असाधूनि.स्व.आत्मनो.ह्य्.अहितानि.च / यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् // Uv_28.16
सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् / पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् // Uv_28.17
मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते / यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति // Uv_28.18
पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते / यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति // Uv_28.19
भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते / यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति // Uv_28.20
कुर्याच्.चेत्.पुरुषः.पापम्.न.एनम्.कुर्यात्.पुनः.पुनः / न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः //[.च्छन्दम्.] Uv_28.21
कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.च.एनम्.पुनः.पुनः / तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः /[.च्छन्दम्.] Uv_28.22
अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् / धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः //[.द्वन्द्वम्.]? Uv_28.23
अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा / महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा // Uv_28.24
अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् / अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः // Uv_28.25
अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते / दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति // Uv_28.26
ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् / राजतो.ह्य्.उपसर्गम्.वा.अप्य्.अभ्याख्यानम्.च.दारुणम् // Uv_28.27
वेदनाम्.कटुकाम्.वा.अपि.शरीरस्य.च.भेदनम्/ आबाधम्.वा.अपि.परुषम्.चित्त.क्षेपम्.अथ.अपि.वा // Uv_28.28
अथ.वा.अस्य.अप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा / भेदात्.कायस्य.च.अप्राज्ञो.दशमाम्.दुर्गतिम्.व्रजेत् // Uv_28.29
पापे.तु.कृते.हि.न.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.न.आश्वसेत् / रहसि.च.कृते.अपि.न.आश्वसेद्.अस्ति.तस्य.विपाक;इति.न.आश्वसेत् // Uv_28.30
पुण्ये.तु.कृते.त्व्.इह.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.च.आश्वसेत् / रहसि.च.कृते.अपि.च.आश्वसेद्.अस्ति.तस्य.विपाक;इति.च.आश्वसेत् // Uv_28.31
पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते / रहसि.च.कृते.अपि.शोचते.अस्ति.तस्य.विपाक;इति.शोचते // Uv_28.32
पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते / रहसि.च.कृते.अपि.नन्दते.अस्ति.तस्य.विपाक;इति.नन्दते // Uv_28.33
इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति / स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः // Uv_28.34
इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति / स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः // Uv_28.35
पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते / रहसि.च.कृते.अपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः // Uv_28.36
पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते / रहसि.च.कृते.अपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः // Uv_28.37
पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृते.अपि.मोदते / रहसि.च.कृते.अपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः // Uv_28.38
कृते.च.पापे.अप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् / बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.मध्य;इव.उदकस्य // Uv_28.39
कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः / बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः // Uv_28.40
29 युगवर्ग
अवभासति.तावत्.स.कृमिर्.यावन्.न.उदयते.दिवा.करः / वैरोचने.तु.उद्गते.भृशम्.श्यावो.भवति.न.च.अवभासते // Uv_29.1
एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.न.उदयते.तथा.गतः /[.आसि.]? बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.न.अस्य.श्रावकः // Uv_29.2
असारे.सार.मतयः.सारे.च.असार.संज्ञिनः / ते.सारम्.न.अधिगच्छन्ति.मिथ्या.संकल्प.गोचराः // Uv_29.3
सारम्.तु.सारतो.ज्ञात्वा.ह्य्.असारम्.च.अप्य्.असारतः / ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः // Uv_29.4
उप.अतिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः / पतन्ति.हि.द्योतम्.इव.अन्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः // Uv_29.5
काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वा.इह.वेदिका.वा.पर.वेदिका.वा / ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः // Uv_29.6
अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति / अपेत.दम.सौरत्यो.न.असौ.काषायम्.अर्हति // Uv_29.7
यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः / उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति // Uv_29.8
यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः /[.हताः.] स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते // Uv_29.9
न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च / साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः // Uv_29.10
न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन /? सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति // Uv_29.11
प्रतिरूपकम्.धूपित.कर्णिका.वा.लोह.अर्ध.माष;इव.हिरण्यच्.छन्नः / चरन्ति.ह.एके.परिवारवन्तस्.त्व्.अन्तर्.ह्य्.अशुद्धा.बहि.शोभमानाः /[.बहिः.शोभमानाः.] Uv_29.12
मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी / महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् // Uv_29.13
मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः /[.स्मृतिमतो.] तनुका.अस्य.भवन्ति.वेदनाः.शनकैर्.जीर्यति.आयुः.पालयम् // Uv_29.14
शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुपश्यी.विहरन्न्.इन्द्रियैर्.हि;असंवृतः / भोजने.च.अप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् / तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इव.अबलम् // शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् / भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च / तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इव.अबलम् // Uv_29.15
अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् // अशुभ.अनुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः / भोजने.च.अपि.मात्रज्ञः.श्राद्ध;आरब्ध.वीर्यवान् / तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् // अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् // अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् // अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् // अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् // अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् / भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च / तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् // Uv_29.16
रमणीयान्य्.अरण्यानि.न.च.अत्र.रमते.जनः / वीत.रागा.अत्र.रंस्यन्ते.न.तु.काम.गवेषिणः // Uv_29.17
ग्रामे.वा.यदि.वा.अरण्ये.निम्ने.वा.यदि.वा.स्थले / यत्र.अर्हन्तो.विहरन्ति.ते.देशा.रमणीयकाः // Uv_29.18
दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः / असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा // Uv_29.19
सद्भिर्.एव.सह.आसीत.पण्डितैर्.अर्थ.चिन्तकैः / अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते // Uv_29.20
अहम्.नाग;इव.संग्रामे.चापाद्.उत्पतितान्.शरान् / अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः //[.तितिक्षामि.] Uv_29.21
भवे.च.अहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे / तस्माद्.भवम्.न.अभिनन्दे.नन्दी.च.विभवेन.मे // Uv_29.22
अश्राद्धश्.च.अकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः /[.अश्रद्धश्.च.] हत.अवकाशो.वान्त.आशः.स.वै.तु.उत्तम.पूरुषः // Uv_29.23
मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ / राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः // Uv_29.24
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः / शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् // Uv_29.25
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः / शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया // Uv_29.26
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः / शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् // Uv_29.27
येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः / शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया // Uv_29.28
येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.न.आश्रिताः / शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् // Uv_29.29
येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.न.आश्रिताः / शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया // Uv_29.30
येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.न.आश्रिताः / शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् // Uv_29.31
येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.न.आश्रिताः / शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया // Uv_29.32
अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः / अथ.इयम्.इतराः.प्रजास्.तीरम्.एव.अनुधावति // Uv_29.33
ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्म.अनुदर्शिनः / ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः // Uv_29.34
गत.अध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः / सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते // Uv_29.35
उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः / मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् // Uv_29.36
न.अस्ति.काम.समो.ह्य्.ओघो.न.अस्ति.दोष.समो.ग्रहः / न.अस्ति.मोह.समम्.जालम्.न.अस्ति.तृष्टा.समा.नदी // Uv_29.37
आकाशे.तु.पदम्.न.अस्ति.श्रमणो.न.अस्ति.बाह्यकः / प्रपञ्च.अभिरता.बाला.निष्प्रपञ्चास्.तथागताः // Uv_29.38
योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः / योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः // Uv_29.39
योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः / एतद्.द्वैधा.पथम्.ज्ञात्वा.भवाय.विभवाय.च / तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् // Uv_29.40
अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् / शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः // Uv_29.41
कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.न.अनुतप्यते / नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः // Uv_29.42
न.अभाषमाना.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः / ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् // Uv_29.43
भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् / सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः // Uv_29.44
निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् /[.तूष्णीम्.आसीनम्.] अल्प.भाणिम्.च.निन्दन्ति.न.अस्ति.लोकेष्व्.अनिन्दितः // Uv_29.45
एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः / न.अभूद्.भविष्यति.च.नो.न.च.अप्य्.एतर्हि.विद्यते // Uv_29.46
यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.शुभ.अशुभम् / प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः // Uv_29.47
मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् / निष्कम्.जाम्बुनदस्य.एव.कस्.तम्.निन्दितुम्.अर्हति // Uv_29.48
शैलो.यथा.अप्य्.एक.घनो.वायुना.न.प्रकम्प्यते / एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः // Uv_29.49
यस्य.मूले.त्वचा.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः / तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति // Uv_29.50
यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः / तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः // Uv_29.51
यस्य.जितम्.न.उपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके / तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि // Uv_29.52
यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी / तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि // Uv_29.53
यस्य.मूलम्.क्षितौ.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः / तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति // Uv_29.54
यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी / तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि // Uv_29.55
यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् / स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योग.अपेतम्.अतीर्ण.सङ्गम्.एति // Uv_29.56
मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.] सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि // Uv_29.57
30 सुखवर्ग
जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः / उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ // Uv_30.1
पर.दुह्ख.उपधानेन.य;इच्छेत्.सुखम्.आत्मनः / वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते // Uv_30.2
सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति / आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् // Uv_30.3
सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति / आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् // Uv_30.4
धर्मम्.चरेत्.सुचरितम्.न.एनम्.दुश्चरितम्.चरेत् / धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च // Uv_30.5
धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव / एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी // Uv_30.6
धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति / एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी // Uv_30.7
अल्पा.अपि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् / अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेन.एव.असौ.भवति.सुखी.परत्र // Uv_30.8
दानम्.च.युद्धम्.च.समानम्.आहुर्.न.एते.गुणाः.कापुरुषा.इव.सन्ति / संग्राम.वेला.इव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण // Uv_30.9
अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् / शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः /[.शूराद्.] Uv_30.10
सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते / क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति // Uv_30.11
परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः / अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै // Uv_30.12
धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा / आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः // Uv_30.13
येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् / स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु // Uv_30.14
येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् / ऋद्धि.पाद.रतम्.चैव.मार्गे.च.अष्ट.अङ्गिके.रतम् // Uv_30.15
सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् / सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च // Uv_30.16
क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्म.अभिनिर्वृताः / सर्व.वैर.भय.अतीतास्.तीर्णा.लोके.विषक्तिकाम् // Uv_30.17
सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः / अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः // Uv_30.18
सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः / अस्मि.मानस्य.विनय;एतद्.वै.परमम्.सुखम् // Uv_30.19
सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता / सुखम्.च.अर्थ.रता.वाचा.पापस्य.अकरणम्.सुखम् // Uv_30.20
सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता / सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् // Uv_30.21
सुखम्.बुद्धस्य.च.उत्पादः.सुखम्.धर्मस्य.देशना / सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् // Uv_30.22
शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः /[.द्रष्टुम्.] अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः // Uv_30.23
सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः / प्रज्ञा.लाभः.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् // Uv_30.24
सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् / अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् // Uv_30.25
बाल.संसर्ग.चारी.हि.दीर्घ.अध्वानम्.प्रशोचति / दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः / धीरैस्.तु.सुख.संवासो.ज्ञातीनाम्.इव.संगमः // Uv_30.26
दुर्लभः.पुरुषो.जात्यो.न.असौ.सर्वत्र.जायते / यत्र.असौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते // Uv_30.27
सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः / यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः // Uv_30.28
सर्वा.ह्य्.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् / उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्य.इह.चेतसः // Uv_30.29
मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् / त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् // Uv_30.30
यच्.च.काम.सुखम्.लोके.यच्.च.अपि.दिविजम्.सुखम् / तृष्णा.क्षय.सुखस्य.एतत्.कलाम्.न.अर्घति.षोडशीम् // Uv_30.31
निक्षिप्य.हि.गुरुम्.भारम्.न.आदद्याद्.भारम्.एव.तु / भार.आदानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् // Uv_30.32
सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् / सर्व.उपधिम्.परिज्ञाय.न.आगच्छन्ति.पुनर्.भवम् // Uv_30.33
अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु / तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः // Uv_30.34
अयोघन.हतस्य.एव.ज्वलतो.जात.वेदसः / अनुपूर्व.उपशान्तस्य.यथा.न.ज्ञायते.गतिः // Uv_30.35
एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्क.ओघ.तारिणाम् / प्रज्ञापयितुम्.गतिर्.न.अस्ति.प्राप्तानाम्.अचलम्.सुखम् // Uv_30.36
यस्य.अन्तरतो.न.सन्ति.कोपा;इत्थम्.भाव.गतम्.च.यो.निवृत्तः / अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.न.अनुभवन्ति.दर्शनेन // Uv_30.37
सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य /[.किंचन.] सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् // Uv_30.38
सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य /[.किंचन.] सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् //[इदेन्तिचल् ऋइह् 38] Uv_30.39
सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः / सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् // Uv_30.40
सुखिनो.हि.जना;अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः / सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् // Uv_30.41
सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् / साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः // Uv_30.42
सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः / उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः // Uv_30.43
सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् // Uv_30.44
सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः / आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः // Uv_30.45
सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः / हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः // Uv_30.46
सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः / वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः // Uv_30.47
सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः / हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः // Uv_30.48
सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा //[.आभास्वरा.] Uv_30.49
सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] प्रीति.भक्षा.भविष्यामो.सत्कायेन.उपनिह्श्रिताः // Uv_30.50
ग्रामे;अरण्ये.सुख.दुह्ख.स्पृष्टो.न.एव.आत्मनो.न.परतो.दधाति / स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः // Uv_30.51
सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः / स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.न.उच्च.अवचाः.सत्.पुरुषा.भवन्ति // Uv_30.52
31 चित्तवर्ग
दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः / चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् // Uv_31.1
वारिजो.वा.स्थले.क्षिप्त;ओकाद्.ओघात्.समुद्धृतः / परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै // Uv_31.2
पृथग्.विधावते.चित्तम्.सूर्यस्य.इव.हि.रश्मयः / तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेन.एव.कुञ्जरम् // Uv_31.3
भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् / सदा.एनम्.अनुशासामि.मा.मे.अनर्थाय.निश्चरेत् // Uv_31.4
इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येन.इच्छकम्.येन.कामम्.यथा.इष्टम् / तत्.सम्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथा.अङ्कुशेन // Uv_31.5
अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः / गृह.कारक.एषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः // Uv_31.6
गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि / सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् / विसंस्कार.गते.चित्ते;इह.एव.क्षयम्.अध्यगाः // Uv_31.7
स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् /[.दूरक्ष्यम्.] ऋजुम्.करोति.मेधावी;इषु.कार;इव.तेजसा // दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् / ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् / Uv_31.8
न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् / मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मना.आत्मनः // Uv_31.9
न.तम्.माता.पिता.वा.अपि.कुर्याज्.ज्ञातिस्.तथा.अपरः / सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः // Uv_31.10
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति // Uv_31.11
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति // Uv_31.12
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति // Uv_31.13
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति // Uv_31.14
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति // Uv_31.15
यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति / एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति // Uv_31.16
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति // Uv_31.17
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति // Uv_31.18
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति // Uv_31.19
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति // Uv_31.20
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति // Uv_31.21
यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति / एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति // Uv_31.22
मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः / मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा / Uv_31.23
मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः / मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा / ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी // Uv_31.24
न.अप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा / धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा // Uv_31.25
विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा / आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् // Uv_31.26
न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् / उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा // Uv_31.27
अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः / पारिप्लव.प्रसादस्य.प्रज्ञा.न.परिपूर्यते // Uv_31.28
स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि / वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः // Uv_31.29
रतिम्.अनुसृतम्.इन्द्रिय.अनुगम्.पुरुषम्.चित्त.वश.अनुवर्तकम् / यश;इह.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथा.अण्डजः // Uv_31.30
आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् / मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः // Uv_31.31
उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः / सदा.एव.संकल्प.हतः.कुसीदो.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति // Uv_31.32
स्थूलान्.वितर्कान्.अथ.वा.अपि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लव.अर्थम् / वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः // Uv_31.33
एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृत.आत्मा / जहात्य्.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः // Uv_31.34
कुम्भ.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च / युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् // Uv_31.35
फेन.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च / युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् // Uv_31.36
कुम्भ.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च / युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् // Uv_31.37
फेन.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च / युध्येत.मारम्.प्रज्ञा.युद्धेन.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् // Uv_31.38
सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् / आदानम्.प्रतिनिह्सृज्य.च.अनुपादायम्.आश्रिताः / क्षीण.आस्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः // Uv_31.39
स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा / भूतेषु.च.दया.आपन्नः.सुखान्.न.परिहीयते // Uv_31.40
एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः / समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने // Uv_31.41
अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते / मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् // अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते / मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् // अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते / मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् // Uv_31.42
एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् / सर्वांस्.तु.सत्त्वान्.मनसा.अनुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् /[.सत्त्वाम्.]* Uv_31.43
यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः / भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये // Uv_31.44
शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च / सम्यग्.आज्ञा.विमुक्तस्य.ह्य्.उपशान्तस्य.भिक्षुणः // Uv_31.45
पञ्च.अङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी / यादृश्य्.एक.अग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः // Uv_31.46
सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् / येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते // Uv_31.47
सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् / येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते // Uv_31.48
यस्य.शैल.उपमम्.चित्तम्.स्थितम्.न.अनुप्रकम्पते / विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते / यस्य.एवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति // Uv_31.49
न.उपवादी.न.उपघाती.प्रीति.मोक्षे.च.संवरः / मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् / अधिचित्ते.समायोग;एतद्.बुद्धस्य.शासनम् // Uv_31.50
चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः / ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् // Uv_31.51
मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदा.एव.युक्तः / स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः // Uv_31.52
अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च / स्तीन.मिद्ध.अभिभूतेन.वशम्.मृत्योर्.निगच्छति /[.स्तीनमिद्धाभिभूतेन.] Uv_31.53
तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः / सम्यग्.दृष्टि.पुरस्कारो.ज्ञात्वा.चैव.उदय.व्ययम् / स्तीन.मिद्ध.अभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् // Uv_31.54
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते // Uv_31.55
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते //[.तिर्यक्षु.] Uv_31.56
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते // Uv_31.57
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते // Uv_31.58
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते // Uv_31.59
चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत / चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते // Uv_31.60
32 भिक्षुवर्ग
पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे / देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृत.आत्मने // Uv_32.1
पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे / देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.अभिकाङ्क्षिने // Uv_32.2
सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः / अममस्य.सदा.स्थित.आत्मनो.ह्य्.अर्थो.न.अस्ति.जनस्य.लापनम् // Uv_32.3
तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् / श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः // Uv_32.4
यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यत.इन्द्रियः.सर्व.गतिः.प्रमुक्तः / अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.च.एक.चरः.स.भिक्षुः // Uv_32.5
मात्रम्.भजेत.प्रतिरूपम्.शुद्ध.आजीवो.भवेत्.सदा / प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् / ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् // Uv_32.6
हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः / आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः // Uv_32.7
धर्म.आरामो.धर्म.रतो.धर्मम्.एव.अनुचिन्तयन् / धर्मम्.च.अनुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते // Uv_32.8
शुन्य.अगारम्.प्रविष्टस्य.प्रहित.आत्मस्य.भिक्षुणः /[.शून्य.अगारम्.] अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः // Uv_32.9
यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् / प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् / ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् // Uv_32.10
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.11
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.12
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.13
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.14
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.15
यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते / एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते // Uv_32.16
यस्य.सम्निचयो.न.अस्ति.यस्य.न.अस्ति.ममायितम् / असन्तम्.शोचते.न.एव.स.वै.भिक्षुर्.निरुच्यते / Uv_32.17
भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् / वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता // Uv_32.18
यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् / विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते // Uv_32.19
मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने / अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् // Uv_32.20
मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने / अधिगच्छेत्.पदम्.शान्तम्.संस्कार.उपशमम्.सुखम् // Uv_32.21
मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने / अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके // Uv_32.22
उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रिय.अप्रियम् /[.प्रिया.प्रियम्.] प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् // Uv_32.23
शान्त.कायः..............शान्त.वाक्.सुसमाहितः / वान्त.लोक.आमिषो.भिक्षुर्.उपशान्तो.निरुच्यते // Uv_32.24
न.अस्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.न.ध्यायतो.अस्ति.च / यस्य.ध्यानम्.तथा.प्रज्ञा.स.वै.निर्वाण.सान्तिके // Uv_32.25
तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः / तस्य.अहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः // Uv_32.26
संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः / मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् // अधिचित्ते.समायोगम्.यस्य.असौ.भिक्षुर्.उच्यते // Uv_32.27
यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् / कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् // Uv_32.28
धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः / कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् // Uv_32.29
इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः / कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् // Uv_32.30
न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः / [.बाहुश्रुत्येन.] तथा.समाधि.लाभेन.विविक्त.शयनेन.वा // Uv_32.31
भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये / स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् // Uv_32.32
ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.न.आत्मा.इति.मन्यते / मन्यते.येन.येन.अहम्.तत्.तद्.भवति.च.अन्यथा // Uv_32.33
लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः / भव.अभिनन्दी.सततम्.भवान्.न.परिमुच्यते // Uv_32.34
यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च / उष्यते.भव.हानाय.ब्रह्मचर्यम्.मम.अन्तिके // Uv_32.35
ये.भवेन.भवस्य.एव.प्राहुर्.निह्सरणम्.सदा / अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.सदा.व्.अहम् //? Uv_32.36
प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् / क्षयात्.सर्व.उपधीनाम्.तु.न.अस्ति.दुह्खस्य.सम्भवः // Uv_32.37
अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः / पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.न.अभिनन्दिताः // Uv_32.38
निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते / अभिभूतो.भवः.सर्वो.दुह्ख.अन्तः.स.निरुच्यते // Uv_32.39
सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् // Uv_32.40
सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः // Uv_32.41
अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् // Uv_32.42
अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः // Uv_32.43
विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् // Uv_32.44
विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः // Uv_32.45
उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् // Uv_32.46
उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः / विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः // Uv_32.47
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.48
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.49
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.50
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.51
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.52
उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः / यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते // Uv_32.53
येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च / यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः // Uv_32.54
यो.न.अत्यसरम्.न.च.अत्यलीयम्.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.55
यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.56
यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.57
यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.58
यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.59
यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.60
तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य / स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.61
यस्.तु.उत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.62
यस्.तु.उत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.63
यस्.तु.उत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.64
यस्.तु.उत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.65
यस्.तु.उत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.66
यस्.तु.उत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथा.औषधेन / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.67
यो.रागम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.68
यो.द्वेषम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.69
यो.मोहम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.70
यो.मानम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.71
यो.लोभम्.उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.72
तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.73
तृष्णाम्.य;उदाच्छिनत्त्य्.अशेषम्.सरिताम्.शीघ्र.जवाम्.अशोषयज्ञः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.74
यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.75
यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.76
यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.ह्य्.अशेषम् / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.77
यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.78
यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.79
यस्य.अनुशया.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् / स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.80
स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता /[.शून्यता.] स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् // Uv_32.81
अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. / ..................राग.अनुशयम्.समुद्धरम्.हि // Uv_32.82
न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा / न.रजो.मलम्.न.उत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् // Uv_33.1
अलंकृतश्.च.अपि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी / सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः // Uv_33.2
भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः / अन्तरेण.विषीदन्ति.ह्य्.अप्राप्य.एव.आस्रव.क्षयम् // Uv_33.3
भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः / विगृह्य.विवदन्ति.इमे.बाला.ह्य्.एकान्त.दर्शिनः // Uv_33.4
भवेष्व्.एव.हि.सज्यन्त;एके.श्रमण.ब्राह्मणाः / अन्तरेण.विषीदन्ति.अप्राप्य.एव.उत्तमम्.पदम् // Uv_33.5
किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः / अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि // किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः / अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि // Uv_33.6
न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः / यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च // Uv_33.7
न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः / यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः // वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते // Uv_33.8
न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः / यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च // Uv_33.9
न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः / यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः / वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च // Uv_33.10
न.उदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः / यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च // Uv_33.11
प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः / क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः // Uv_33.12
यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थित.आत्मा / वेद.अन्तगश्.च.उषित.ब्रह्म.चर्यः.कालेन.असौ.ब्रह्म.वादम्.वदेत // Uv_33.13
यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः / प्रणुन्न.दोषो.ह्य्.अभिनिर्वृत.आत्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः // Uv_33.14
ब्रवीमि.ब्राह्मणम्.न.अहम्.योनिजम्.मातृ.सम्भवम् / भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः / अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.15
यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् / सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.16
यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते / यया.न.अभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.17
आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते /[.तितिक्षते.] क्षान्ति.व्रत.बल.उपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.18
अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् / दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.19
असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथा.उभयम् / अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.20
आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति / सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.21
आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति / अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.22
अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः / क्षीण.आस्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः // Uv_33.23
यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते / पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.24
यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.शुभ.अशुभम् / लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.25
यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते / असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.26
इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः / वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.27
यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते / अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.28
यस्.तु.पुण्यम्.च.पापम्.च.अप्य्.उभौ.सङ्गाव्.उपत्यगात् / सङ्ग.अतिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // यस्य.पश्चात्.पुरे.च.अपि.मध्ये.च.अपि.न.विद्यते / विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.29
वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः /? न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.30
वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः /? न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः / न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः / न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः / नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.31
ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् / क्षीण.आस्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.32
गम्भीर.बुद्धिम्.मेधा.आढ्यम्.मार्ग.अमार्गेषु.कोविदम् / उत्तम.अर्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.33
यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति / अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् / आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.34
सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् / काम.आस्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.35
निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च / यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.36
आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव / न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.37
आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव / न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // आकाशम्.इव.पङ्केन.रजसा.चन्द्रमा;इव / नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.38
अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः / हित.अनुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.39
यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः / न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.40
य;इमाम्.परिखाम्.दुर्गाम्.संसार.ओघम्.उपत्यगात् / तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः / निर्वृतश्.च.अनुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् // ......................... / ......................... / ............ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.41
न.विद्यते.यस्य.तृष्णा.च.अस्मिन्.लोके.परे.अपि.च / तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.42
न.विद्यते.यस्य.च.आशा.ह्य्.अस्मिन्.लोके.परे.अपि.च / निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.43
हित्वा.रतिम्.च.अरतिम्.च.शीती.भूतो.निरौपधिः / सर्व.लोक.अभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.44
हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् / सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.45
गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः / अनन्त.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.46
पूर्वे.निवासम्.यो.वेत्ति.स्वर्ग.अपायांश्.च.पश्यति /[.स्वर्गापायांश्.च.] अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.व्यवसितो.मुनिः / दुह्खस्य.अन्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् // ........................ / ..............ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.47
च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः / असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.48
सर्व.सम्योजन.अतीतो.यो.वै.न.परितस्यते /[.परितप्यते.]? असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.49
ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् / अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः / यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् // Uv_33.50
सर्व.अभिभूम्.भव.अतीतम्.ओघ.तीर्णम्.अनास्रवम् / पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // सर्व.अभिभूर्.भव.अतीत;ओघ.तीर्णो.विनायकः / पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् // Uv_33.51
गत.अभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् / [.गताभिध्यम्.] ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // न.अभिध्यायेन्.न.अभिजल्पेत्.पापकानाम्.विवर्जयेत् / आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् // Uv_33.52
पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् / ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः / निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् // Uv_33.53
यस्य.आलयो.न.अस्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः / अमृतम्.च.एव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् // Uv_33.54
यस्य.आलयो.न.अस्ति.सदा.यो.ज्ञाता.निष्कथम्.कथः / दूरम्.गमश्.च.एक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् // दूरम्.गमम्.एक.चरम्.अशरीरम्.गुहाशयम् / तेनै.............कस्य.ब्राह्मणम् / ......... उ..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् // Uv_33.55
येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्ट.अङ्गिकः.शिवः / सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते // Uv_33.56
अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् / दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः / क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते // अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् / सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः / क्षीण.सम्योजना.बुद्धास्.ते.लोके.ब्राह्मणा;इह // ............................. / ............................. / Uv_33.57
छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् / उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् // छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् / उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.ब्राह्मणा;इह // Uv_33.58
छित्त्वा.नद्ध्रीन्.वरत्रान्.च.इच्छा.लोभम्.च.पापकम् / तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् // छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.इच्छा.लोभम्.च.पापकम् / समूलाम्.च.उद्धृतास्.तृष्णाम्.ते.लोके.ब्राह्मणा;इह // Uv_33.59
छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण / संस्काराणाम्.क्षयम्.ज्ञात्वा.ह्य्.अकृतज्ञो.भविष्यति // छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च / संस्काराणाम्.क्षयम्.ज्ञात्वा.ब्राह्मणो.याति.ह.अनिघः // Uv_33.60
मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.स्श्रोत्रियौ / राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः // Uv_33.61
मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ / व्याघ्रम्.च.पञ्चमम्.हत्वा.शुद्ध;इत्य्.उच्यते.नरः // Uv_33.62
न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः / धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति // .............................. / .............................. / Uv_33.63
यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा / सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः // Uv_33.64
यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा / सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः // Uv_33.65
यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् / सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः // Uv_33.66
यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् / सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः // Uv_33.67
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.च.एकः.पिशाचीम्.च.बक्कुलम्.च.अतिवर्तते // Uv_33.68
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.अस्य.वेदनाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः // Uv_33.69
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.अस्य.प्रत्ययाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः // Uv_33.70
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.अस्य.च.आस्रवाः.सर्वे;अस्तम्.गच्छन्ति.पश्यतः // Uv_33.71
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.अस्य.सर्व.सम्योगा;अस्तम्.गच्छन्ति.पश्यतः // Uv_33.72
यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् / अथ.जाति.जराम्.चैव.मरणम्.च.अतिवर्तते // Uv_33.73
दिवा.तपति.ह.आदित्यो.रात्राव्.आभाति.चन्द्रमाः / सम्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः / अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा // Uv_33.74
न.ब्राह्मणस्य.ईदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः / यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् // Uv_33.75
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् // Uv_33.76
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् // Uv_33.77
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति // Uv_33.78
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति // Uv_33.79
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति // Uv_33.80
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथा.एव.अभ्युदितो.अन्तरीक्षम् // Uv_33.81
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः // Uv_33.82
यदा.त्व्.इमे.तु.प्रभवन्ति.धर्मा;आतापिनो.ध्यायतो.ब्राह्मणस्य / विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.विप्रमुक्त;इति // Uv_33.83
उद्दानम्//(Uv_00.1)
अनित्य.काम.तृष्णा.च.अप्रमादस्.तथा.प्रियः / शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः // Uv_00.2
श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः / उदकम्.पुष्पम्.अश्वश्.च.सह.क्रोधेन.ते.दशः // Uv_00.3
तथा.गतः.श्रुतम्.च.आत्मा.पेयालम्.मित्र.पञ्चमम् / निर्वाणम्.पश्य.पापम्.च.युग.वर्गः.सुखेन.च // Uv_00.4
चित्तम्.भिक्षुर्.ब्राह्मणश्.च.त्रयस्.त्रिंशतिमे.स्मृताः / वर्गाः.समाप्ताश्.च.उद्दानम्.सम्यक्.सम्बुद्ध.भाषिताः // Uv_00.5
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
