Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh A-hàm · Thanh văn thừa
तथागतबिम्बकारापणसूत्र
- Thông tin
- GRETIL — Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151. GBM 1684.1_1691.2 (Bl. 2_5).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तथागतबिम्बकारापणसूत्र
तथागतबिम्बकारापणसूत्र
(tbks 2r1) स् सकोतूहलहृदया एवम् ऊचु । अहो पुण्यफलप्रभावम् इति महात्वं अहो पुण्यप्रभावम् इति तूष्णीबभूवुः ततः सुवर्णप्रभो (tbks 2r2) सपरिवार भगवन्तं प्रदक्षिणीकृत्य शिरसा प्रणम्य भगवतो ऽन्तिकं निषण्ण धर्मश्रवणार्थम्* अथ (tbks 2r3) भगवां सर्वसत्वानुसंशयं ज्ञात्वा तेभ्यो महाजनकायेभ्य धर्मश्रावणिकेभ्यः तस्य सुवर्णप्रभस्य राजकुमारस्य पूर्वसुचरितपुण्यफलेन (tbks 2r4) प्रभावसमुदयसंदर्शनहेतुभूतां विचित्र प्रकारां सप्रतीत्यसमुत्पादां चतुरार्यसत्यकथासंयुक्तां (tbks 2r5) धर्मदेशनां देशयति । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यंजनं केवलं परिपूर्णम्* (tbks 2r6) परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति स्म : भूतपूर्वं भिक्षवः अतीते ऽध्वनि एकनवतिमे कल्पे (tbks 2r7) विपश्यी नाम सम्यक्संबुद्धो विद्याचरणसंपन्नस् सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिश् शास्ता देवमनुष्याणां (tbks 2v1) बुद्धो भगवां बुद्धकृत्यम् अ..अशिष्यविनेयकृत्यं कृत्वा निरिन्धनो ऽग्निर् इव परिनिर्वृत समभिजगाम : तद् एक पुरुषो (tbks 2v2) भिक्षवः परुषदरिद्रकृषिकर्मणावप्रतिवृत्ति भगवता विपश्यिन शासनेभिः प्रसन्नाः भगवतो विपश्यिनः (tbks 2v3) प्रतिमां कर्ता तस्मिं काले तस्मिं समये स एवायं सुवर्णप्रभो राजकुमार यद् भगवतो विपश्यिनः प्रतिमां (tbks 2v4) कारयत यत् पुण्यफलसमुदयप्रभावै दिव्यसुखोपभोगैश्वर्यमहात्वम् अनुभूतवान्* अयं स सुवर्णप्रभो (tbks 2rv5) राजकुमार समासतो भिक्षव सर्वासु जातिषु तद् भाषयामि: सप्तरत्नमयेन समन्वागतो
श्रीचक्रवर्तिराज्यं (tbks 2r6) चतुर्द्वीपेश्वरो नभस्तलचर : अप्रतिहतचक्ररत्नगतिप्रचार । अधीश्वराधिपति । शतसहस्रकृत्वा (tbks 3r1) चतुर्द्वीपेश्वरो राजा चक्रवर्ती बभूवु । अनेनैव बुद्धप्रतिमापुण्यफलविपाकेन तथैवंविध । (tbks 3r2) स कामावचरेषु देवनिकायेषु स्वर्गेषु एकैकशः शतसहस्रकृत्वा भिक्षव देवानाम् इन्द्रो राजा बभूव : (tbks 3r2) एवंविध : शतसहस्रकृत्वा दश ब्रह्मकायिकेषु ब्रह्माधिपतिर् बभूवु: अनुलोमप्रतिलोमजन्मशतसहस्रेषु (tbks 3r4) कोटि क्षत्रियब्राह्मणेश्वराधिपतिकुलेषु राजा बभूव । एवंविधश् च भिक्षव। सौभाग्यकान्तिद्युतिकीर्तियशोबलसमन्वागत (tbks 3r5) स्वर्गा च्युत। ऐश्वर्येषु राजकुले जातः उत्तमजात अनुत्तमजात। (tbks 3r6) सुवर्णप्रभो राजकुमारः अन्तिके देवमनुष्याणां अच्युतं अजरं अमरणं शिवं शान्तं पदं लभिष्यतीति । ततो (tbks 3r7) ऽस्य भिक्षव सुवर्णप्रभस्य राजकुमारस्य बुद्धप्रतिमापुण्यफलप्रभावम् अनुशृणुता मानुष्यजातिषु येषु (tbks 3v1) आत्महितपरहितकामेन नाम भिक्षव बुद्धप्रतिमा निकरणीया । तद्यथा भिक्षव : मृन्मयी वा । (tbks 3v2) शैलमयी वा । दन्तमयी वा । दारुमयी वा । सुवर्णमयी वा । कंसमयी वा । त्र...मयी वा । रुप्यमयी (tbks 3v3) वा स्फटिकमयी वा । मणिरत्नकमयी वा । रीतमयी वा । बुद्धप्रतिमा करणीयका वा । दीर्घका वा । ह्रस्वकां (tbks 3v4) वा । सधातुकं वा । सप्रतीत्यसमुत्पादं वा । बुद्धप्रतिमा कारयित्वा । स्थापयित्वा गन्धोदकपुष्पोदकादिभिः (tbks 3v5) पूजाविशेषै। स्नापयित्वा पूजयित्वा यस्य कस्यचिद् भिक्षवः कुलपुत्रस्य वा कुलदुहितुर् वा
बुद्धप्रतिमापुण्यफलनिष्यन्द : (tbks 3v6) पुण्यस्कन्धः पुण्यराशि अप्रमेय असाधरण: अनन्त्युपम: पुण्यस्कन्धेति पुनर् अपरं भिक्षव: (tbks 3v7) यः कश्चिद् भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । क्षत्रियो वा ब्राह्मणो वा । वैश्यो वा । शूद्रो वा एवंरूपासु (tbks 4r1) जातिषु । श्रुतिधरो भवति । जातिस्मरो भवति । स्वजनपरिजनदासीदासकर्मकरपौरुषेयप्रभृतिषु स आदेयवाद्यो भवति । (tbks 4r2) सर्वसत्वप्रियदर्शनधरो भवति । सर्वगुणलक्षणधरो भवति सर्वसत्वाधिपतिर् भवति । सर्वबुद्धप्रत्येकबुद्धश्रावकार्हद्गुणसमागतो (tbks 4r3) भवति । नित्यं बोधिचित्तपरायणो भवति । यस्य यत्राभिकांक्षति । तत्र तत्र एतं लभति । रागद्वेषमोहेर्ष्यामात्सर्यलोभतृष्णादिक्लेशादिभि। (tbks 4r4) विवर्जितो भवति । बुद्धत्वम् अन्वन्तरम् अधिगच्छति । क्षिप्रं च परिनिर्वाणं शान्तम् अधिगच्छतीति वदामि भिक्षवः (tbks 4r5) तत् कस्माद् धेतोर् अनन्तफलसमुदयप्रभाव । बुद्धप्रतिमापुण्यफलसमुदयप्रभावम्* बुद्धप्रतिमापुण्यफलविपाक (tbks 4r6) परिनिर्वृतो ऽपि अधिगतो नापि बुद्धो भगवां परिनिर्वृत इव बुद्धप्रतिमाया दर्शनाद् इति वदामि भिक्षव इदम् अवोचद् भगवां (tbks 4r7) तथापरं गाथां भाषते । कृत्वा पुरा काश्यपबिंबम् अग्र्यं गन्धोदकै स्नापितवां द्विजेन्द्रः । (tbks 4v1) पुष्पै सुगन्धैस् सुमनोज्ञगन्धै तेनैव पुण्येन भवाद् विमुक्तः 1 यं निर्मलः क्लेशमलैर् विमुक्त चित्तस्य चित्तेश्वरतागतिं स्यः रूपं न तृप्ताश् च निरीक्ष्य मत्वा तद्बिंब संस्नापयतो जिनस्य 2 (tbks 4v2) विचित्रभोगा विविधप्रकारा
चन्द्रार्कसौम्याधिकतेजशोभा । लभन्ति नार्यः पुरुषाश् च लोके तद्बिंब संस्नापयतो जिनस्य 3 (tbks 4v3) क्लेशान्धकारादिविमुक्तचित्ता मोहान्धकारादिविपूर्णचन्द्र । शान्तं पदं यान्ति नरा स्त्रियो वा तद्बिंब संस्नापयतो जिनस्य 4 (tbks 4v4) त्यक्त्वा कडेवरम् इहैव नरा स्त्रियो वा स्वर्गे प्रयाति बहुकल्पशतै सुनिर्वृत्* ते प्राप्नुवन्त्य् अनुपमं सुखम् अप्सरेभि (tbks 4v5) विश्वस्य तत् फलम् उदारम् उवाच बुद्धः 5 श्रीकान्तिदिव्यसलिलो गुणरूपशोभा सौभाग्यभाग्ये वरसौख्यपटुत्ववाक्य । (tbks 4v6) आदित्यचन्द्रकिरणा इव सौम्यतेजा - बुद्धबिंबकरणा लभते मनुष्यः 6 यावन्तः परमाणवो भगवत स्तूपेषु बिंबस्य वा । (tbks 4v7) तत् कर्तुम्* दिवि भूतले च नियतं तावन्ति राज्यानि ते । बुद्धानां खलु धातवे भगवता शरीरा नि च निर्मिता । (tbks 5r1) एकैकाद्भुतपुण्यराशिजनितैर् एकैकसूक्ष्माणुभि । 7 त्रैलोक्ययशस्य बिंबं दशबलबलिना दिक्षु विख्यातकीर्ते । ये मर्त्याः कारयित्वा प्रमुदितमनसा पूजयन्ते यथावत् (tbks 5r2) स्वर्गे सक्त्ये च रूपं नयनरतिकरं शुद्धचामीकराभम्* ते लब्धाश् शान्तिकामा सुखम् इदम् अतुलं प्राप्नुवन्त्य् आवजुष्टं ॥ 8 (tbks 5r3) इत्य् एवादिप्रकारां सुवर्णप्रभवसुयुक्तां धर्मदेशनां श्रुत्वा पंचशतसहस्र (tbks 5r4) अन्तःपुरस्त्रीकान्तपरिवारै सुवर्णप्रभो राजकुमार बुद्धप्रतिमापुण्यफलराजश्रीसमुदयसंमुदसौख्यं (tbks 5r5) सर्वं गार्हस्थ्यम् अपहाय तथैव शासने प्रव्रजित योनिश स मनस्कारं कृत्वा सर्वक्लेशप्रहाणा अर्हत्वं स्त्रीपरिवारास् (tbks 5r6) समलोष्टकांचन समचित्ताः कृतं करणीया अपहृतभाराः
परिक्षीणभवसंयोजन विमुक्तास् संसारबन्धनास् (tbks 5r7) सर्वदेवनमस्कृतचरणयुगला सुप्रबुद्धा बुद्धप्रतिमापुण्यफलसमुदयविभूतिमहात्वप्रकाशनम् इदं सूत्रम्* (tbks 5v1) इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दम्* भिक्षवश् चतुर्दिशसंख्यार्हत्वं बभूवु । बुद्धप्रतिमापुण्यफलप्रकाशितम् इदं सूत्रं समाप्तम्* ॥ ॥
तथागतबिंबकारापणं सूत्रं समाप्तम्* ॥ ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
