Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

तारास्रग्धरास्तोत्र

Thông tin
GRETIL — Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse Tāra, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 34-40.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तारास्रग्धरास्तोत्र

आर्यतारास्रग्धरास्तोत्र

ओं नमो भगवत्यै आर्यतारायै.

बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री- संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती / भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस् तारिण्य् आपच्छरण्यैर् नवनुतिकुसुमस्रग्भिर् अभ्यर्चयामि // tss_1

दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर् दुर्भगः कांदिशीकः किं किं मूढः करोमीत्य् असकृद् अपि कृतारम्भवैयर्थ्यखिन्नः / श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम् आलोकाशानिबद्धः परगतिगमनस् त्वां श्रये पापहन्त्रीं // tss_2

सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता तन्मध्ये तद्ग्रहेण ग्रहणम् उपगतं मादृशस्याप्य् अवश्यम् / सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं दुःखीवाहं तथापि प्रतपति धिग् अहो दुष्कृतं दुर्विदग्धम् // tss_3

धिग् धिग् मां मन्दभाग्यं दिवसकररुचाप्य् अप्रणुण्णान्धकारं तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः / रत्नद्वीपप्रतोल्याविपुलमणिगुहागेहगर्भे दरिद्रं नाथीकृत्वाप्य् आनाथं भगवति भवतीं सर्वलोकैकधात्रीम् // tss_4

मातापि स्तन्यहेतोर् विरुवति बहुशः खेदम् आयाति पुत्रे क्रोधं धत्ते पितापि प्रतिदिवसम् असत्प्रार्थनासु प्रयुक्तः / त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली सर्वेभ्यो ऽभ्यार्चितार्थान् विसृजसि न च ते विक्रिया जातु काचित् // tss_5

यो यः क्लेशोघवह्निज्वलिततनुर् अहं तारणी तस्य तस्ये- त्यात्मोपज्ञां प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने / वर्धन्ते यावद् अन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावद् एवानुकम्पा // tss_6

इत्य् उच्चैर् ऊर्ध्वबाहौ नदति नुतिपदव्याजम् आक्रन्दनादं नार्हत्य् अन्यो ऽप्य् उपेक्षां जननि जनयितुं किं पुनर् यादृशी त्वम् / त्वत्तः पश्यन् परेषाम् अभिमतविभवप्रार्थनाः प्राप्तकामा दह्ये सह्येन भूयस्तरम् अरतिभुवा संततान्तर्ज्वरेण // tss_7

पापी यद्य् अस्मि कस्मात् त्वयि मम महती वर्धते भक्तिर् एषा श्रुत्या स्मृत्या च नाम्नो ऽप्य् अपहरसि हठात् पापम् एका त्वम् एव / त्यक्तव्यापारभारा नुदसि मयि कथं कथ्यतां तथ्यकथ्ये पथ्यं ग्लाने मरिष्यत्य् अपि विपुलकृपः किं भिषग् रोरुधीति // tss_8

मायामात्सर्यमानप्रभृतिभिर् अधमैस् तुल्यकालं क्रमाच् च स्वैर् दोषैर् वाक्यमानो मठकरभ इवानेकसाधारणांसः / युष्मत्पादाब्जपूजां क्षणम् अपि न लभे यत् तदर्थं विशेषाद् एषा कार्पण्यदीनाक्षरपदरचना स्यान् ममावन्ध्यकामा // tss_9

कल्पान्तभ्रान्तवातभ्रमितजलवलल्लोलकल्लोलहेला- संक्षोभोत्क्षिप्तवेलातटविकटचटस्फोटमोटाट्टहासात् / मज्जद्भिर् भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः स्वच्छन्दं देवि सद्यस् त्वदभिभूतिपरैस् तीरम् उत्तीर्यते ऽब्धेः // tss_10

धूमभ्रान्ताभ्रगर्भोद्भवगगणगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग- स्फूर्जज् ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः / त्वय्य् आबद्धप्रणमाञ्जलिपुटमुकुटा गद्गदोद्गीतयाज्ञाः प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैर् आप्रियन्ते क्षणेन // tss_11

दानांभःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला- हुंकाराहूयमानप्रतिगजजनितद्वेषवह्नेर् द्विपस्य / दन्तान्तोत्तुङ्गदोलातलतुलिततनुस् त्वाम् अनुस्मृत्य मृत्युं प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः // tss_12

प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां शून्याटव्यां कराग्रग्रहविलसदसिस्फोटकस्फीतदर्पान् / दस्यून् दास्ये नियुङ्क्ते सभृकुटीकुटिलभ्रूकटाक्षेक्षिताक्षांश् चिन्तालेखन्य् अखिन्नस्फुटलिखितपदं नामधामश्रियां ते // tss_13

वज्रक्रूरप्रहारप्रखरणखमुखोत्खातमत्तेभकुम्भश् च्योतत्सान्द्रास्रधौतस्फुटविकटसटासंकटस्कन्धसंधिः / क्रुध्यन्न् आपित्सुर् आराद् उपरि मृगरिपुस् तीक्ष्णदांष्ट्रोत्कटास्यस् त्रस्यन्न् आवृत्य याति त्वदुचितरचितस्तोत्रदुग्धार्थवाचः // tss_14

धूमावर्तान्धकाराकृतिविकृतिफणिस्फारफूत्कारपूर- व्यापारव्यात्तवक्त्रस्फुरदुरुरसनारज्जुकीनाशपाशैः / पापात् संभूय भूयस् तव गुणगणना तत्परस् त्वत्परात्मा धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिं // tss_15

भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेशश् चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः / क्षुत्तृट्क्षामोष्ठकण्ठस् त्यजति स सपदि व्यापदं तां दुरन्तां यो यायाद् आर्याताराचरणशरणतां स्निग्धवन्धूज्झितो ऽपि // tss_16

मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या- रूपारम्भानुरूपप्रहरणकिरणाडंबरोड्डामराणि / त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्या वहन्त्य् अप्रधृष्यं प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्राञ्जि रक्षांसि रक्षां // tss_17

गर्जज्जीमूतमूर्तित्रिमदमदनदीबध्हधारान्धकारे विद्युद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे / रुद्धः संग्रामकाले प्रबलभुजबलैर् विद्विषद्भिर् द्विषद्भिस् त्वद्दत्तोत्साहपुष्टिः प्रसभम् अरिमहीम् एकवीरः पिनष्टि // tss_18

पापाचारानुबन्धोद्धतगदविगलत्पूतिपूयास्रविस्र- त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः / युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः // tss_19

विश्रान्तं श्रोत्रपात्रे गुरुभिर् उपहृतां यास्य नाम्नायं भैक्ष्यं विद्वद्गोष्ठीषु यश् च श्रुतधनविरहान् मूकताम् अभ्युपैति / सर्वालंकारभूषाविभावसमुदितं प्राप्य वागीश्वरत्वं सो ऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि // tss_20

भूशय्याधूलिधूम्रस्फुटितकटकटीकर्पटोद्घाटिताङ्गो यूकायुंषि प्रपिंशन् परपुरपुरतः कर्परे तर्पणार्थी / त्वाम् आराध्याध्यवस्यन्वरयुवतिवहच्चामरस्मेरचार्वीम् उर्वीं धत्ते मदान्धद्विपदशनघनाम् उद्धृतैकातपत्रां // tss_21

सेवाकर्मान्तशिल्पाप्रणयविनिमयोपायपर्यायखिन्नः प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तम् अप्राप्नुवन्तः / दैवातिक्रामनीं त्वां कृपणजनजनन्य् अर्थम् अभ्यर्थ्य भूयो भूमेर् निर्वान्तचामीकरनिकरनिधीन् निर्द्धना प्राप्नुवन्ति // tss_22

वृत्तिछेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो दूराद् आत्मंभरित्वात् स्वजनसुतसुहृद्बन्धुभिर् वर्ज्यमानः / त्वय्य् आवेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम् ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः // tss_23

चक्रंदिक्चक्रचुम्बि स्फुरदुरुकिरणा लक्षणालंकृतास्त्री षड्दन्तो दन्तिमुख्यः शिखिगलरुचिरश्यामरोमा वराश्वः / भास्वद्भास्वन्मयूखो मणिर् अमलगुणः कोषभृत् पूर्णकोषः सेनानीर् वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् // tss_24

स्वच्छन्दश् चन्दनांभःसुरभिमणिशिलादत्तसंकेतकान्तः कान्ताक्रीडानुरागाद् अभिनवरचितातिथ्यतथ्योपचारः / त्वद्विद्यालब्धसिद्धिर् मलयमधुवनं याति विद्याधरेन्द्रः खड्गांशुश्यामपीनोन्नतभुजपरिघ प्रोल्लसत्पारिहार्यः // tss_25

हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्धमानायताक्षा मन्दारोदारवेणीतरुणपरिमलामोघमाद्यद्द्विरेफाः / काचीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास् त्वन्नाथं प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः // tss_26

रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम् उन्मज्जत्पारिजातद्रुमधुरमधूद्धूतधूलीवितानाम् / वीणावेणुप्रवीणामरपुररमणीदत्तमाधूर्यतूर्यां कृत्वायुष्मत्सपर्याम् अनुभवति चिरं नन्दनोद्यानयात्राम् // tss_27

कर्पूरैलालवङ्गत्वगगरुनलदक्षोगन्धोदकायां दान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् / मन्दाकिन्याम् अमन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः // tss_28

गीर्वाणग्रामणीभिर् विनयभरनमन्मौलिभिर् वन्दिताज्ञः स्वर्गोत्सङ्गे धिरूढः सुरकरिणि रणद्भूषणोद्भासिताङ्गे / शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः पूतस् त्वद्दृष्टिपातैर् अवति सुरमहीं हीरभिन्नप्रकोष्ठः // tss_29

चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं प्रोद्यद्बालार्ककोटिपटुतरकिरणापूर्यमानत्रिलोकम् / प्रौढालीढैकपदं क्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णु त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् // tss_30

पश्यन्त्य् एके सकोपं प्रहरणकिरणोद्गूर्णदोर्दण्डखण्ड- व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्याम् / द्विष्टव्युत्त्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला- वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् // tss_31

केचित् त्व् एकैकरोमोद्गमगतगगणाभोगभूभूतलस्थ- स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् / दिक्चक्राक्रामिधामस्थितसुगतशतानन्तनिर्माणचित्रम् चित्रं त्रैलोक्यवन्द्यं स्थिरचररचिताशेषभावस्वभावम् // tss_32

लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यम् एके श्रीमत्सान्द्रेन्द्रनीलोपलदलदलितक्षोदनीलं तथान्ये / क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित् त्वद्रूपं विश्वरूपं स्फटिकवद् उपधायुक्तिभेदाद् विभिन्नम् // tss_33

सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी साक्षाद् वेत्ति त्वदीयं गुणगणगणनां सर्ववित् तत्सुतो वा / यत् तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रटीति व्यापत् सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः // tss_34

यन् मे विज्ञप्स्यमानं प्रथमतरम् अदस् त्वं विशेषेण वेत्त्री त्वद्व्याहारातिरेकश्रमविधिर् अबुधस्वान्तसंतोषहेतुः / किं तु स्निग्धस्य बन्धोर् विषं इव पुरतो दुःखम् उद्गीर्य वाचा ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव // tss_35

कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्तः / त्वत्स्तोत्रांभःपवित्रीकृतमनसि मयि श्रेयसः स्थानम् एकं दृष्टं यस्माद् अमोघं जगति तव गुणस्तोत्रमात्रं प्रजानाम् // tss_36

संस्तुत्य त्वद्गुणौघावयवम् अनियतेयत्तम् आप्तं मया यत् / पुण्यं पुण्याहवाञ्छाफलमधुररसास्वादम् आमुक्तिभोग्यम् / लोकस् तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्नाम् अह्नायायं प्रयायात् सुगतसुतमहीं तां सुखावत्युपाख्याम् // tss_37

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.