Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

ताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र

Thông tin
GRETIL — Godefroy de Blonay: Matériaux pour servir à l'histoire de la déesse buddhique Tārā, Paris 1895 (Bibliothèque de l'École des Hautes Études, 107), pp. 48-53.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र

आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र

ओं नमः श्रीमदार्यतारायै

श्रीमत्पोतलके रम्ये नानाधातुविराजिते / नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते // tbh_1

नानानिर्झरझंकारे नानामृगसमाकुले / नानाकुसुमजातीभिः समन्ताद् अधिवासिते // tbh_2

नानाहृदयफलोपेते षट्पदोद्गीतनिस्वने / किन्नरैर् मधुरैर् गीतैर् मत्तवारणसंकुले // tbh_3

सिद्धविद्याधारगणैः गन्धर्वैश् च निनादिते / मुनिभिर् वीतरागैश् च सततं संनिषेविते // tbh_4

बोधिसत्वगणैश् चान्यैः दशभूमीश्वरैर् अपि / आयतारादिभिर् देवीविद्याराज्ञीसहस्रकैः // tbh_5

क्रोधराजगणैश् चान्यैः हयग्रीवादिभिर् वृते / सर्वसत्वहितोद्युक्तो भगवान् अवलोकितः // tbh_6

विजहार ततः श्रीमान् पद्मगर्भासने स्थितः / महता तपसा युक्तो मैत्र्या च कृपयान्वितः // tbh_7

धर्मं दिदेश तस्यां स महत्यां देवपर्षदि / तत्रोपविष्टम् आगम्य वज्रपाणिर् महाबलः // tbh_8

परमकृपया युक्तः पप्रच्छेत्य् अवलोकितम् / तस्करोरगसिंहाग्निगजव्याघ्राम्बुसंकटे // tbh_9

सीदन्त्य् अमी मुने सत्वा मग्नाः संसारसागरे / बद्धाः संसारकैः पाशै रागद्वेषतमोपहैः // tbh_10

मुच्यन्ते येन संसारात् तन् मे ब्रूहि महामुने / एवम् उक्ते जगन्नाथः स श्रीमान् अवलोकितः // tbh_10बिस्

उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनम् / शृणु गुह्यकराजेन्द्र अमिताभस्य तायिनः // tbh_11

प्रणिधानवशोत्पन्ना ममाज्ञा लोकमातरः / महाकरुणयोपेता जगदुद्धरणोद्धृताः // tbh_12

उदितादित्यसंकाशाः पूर्णेन्दुवदनप्रभाः / भासयन्ति द्रुमांस् ताराः सदेवासुरमानुषान् // tbh_13

कम्पयन्ति त्रयो लोकान् त्रास्यन्ती यक्षराक्षसान् / नीलोत्पलकरा देवी मा भैर् मा भैर् इति ब्रुवन् // tbh_14

जगत्संरक्षणार्थाय अहम् उत्पादिता जिनैः / कान्तारे शस्त्रसंपर्के नानाभयसमाकुले // tbh_15

स्मरणाद् एव नामानि सत्वान् रक्षाम्य् अहं सदा / तारयिष्याम्य् अहं नाथ नानाभयमहार्णवात् // tbh_16

तेन तारेति मं लोके गायन्ति मुनिपुंगवाः / कृताञ्जलिपुटा भूत्वा ततः सादरसाध्वसाः // tbh_17

ज्वलतीर्यन्तरीक्षेस्थ इदं वचनम् अब्रवीत् / नामाष्टशतकं ब्रूहि यत् पुरा कीर्तितं जिनैः // tbh_18

दाशभूमीश्वरैर् नाथैर् बोधिसत्वैर् महर्द्धिकैः / सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्धनम् // tbh_19

धनहान्यकरं चैव आरोग्यपुष्टिवर्धनम् / मैत्रीम् आलम्ब्य सत्वानां तत् कीर्तय महामुने // tbh_20

एवम् उक्ते ऽथ भगवान् प्रहसन्न् अवलोकितः / व्यवलोक्य दिशः सर्वा मैत्र्या स्फुरणया दृशा // tbh_21

दक्षिणकरम् उद्धृत्य पुण्यलक्षणमण्डितम् / तम् उवाच महाप्राज्ञः साधु साधु महातपः // tbh_22

नामानि शृणु महाभाग सर्वसत्वैकवत्सलः / यानि संकीर्त्य मनुजाः सम्यक् ते स्युर् धनेश्वराः // tbh_23

सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः / अकालमृत्युनिर्दग्धाश् च्युता यान्ति सुखावतीम् // tbh_24

तान्य् अहं संप्रवक्ष्यामि देवसंघाः शृणुध्व मे अनुमोदेत सद्धर्मे भविष्यध्वं सुनिर्वृताः // tbh_25 ओं लोचने सुलोचने तारे तारोत्सवे सर्वसत्वानुकम्पिनि / सर्वसत्वोत्तारिणि सहस्रभुजे सहस्रनेत्रे // tbh_26 ओं नमो भगवते ऽवलोक्य आवलोक्या / सर्वसत्वानां चाहं फुट् स्वाहा // tbh_27 ओं शुद्धे विशुद्धे शोधनविशोधनि / सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि // tbh_28 महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते / महारौद्रि विश्वरूपि महायश // tbh_29 कल्पाग्निमहातेजा लोकधात्रीमहायशा / सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी // tbh_30 ओं धृतिदा पुष्टिदा स्वाहा ओंकारा कामरूपिणी / सर्वसत्वहितोद्युक्ता संग्रामे तारणी जया // tbh_31 प्रज्ञापारमितादेवी आर्यातारा मनोरमा / दुन्दुभिसखिनी पूर्णविद्याराज्ञी प्रियंवदा // tbh_32 चन्द्रानना महागौरी अजिता पीतवाससा / महामाया महाश्वेता महाबलपराक्रमा // tbh_33 महारौद्री महाचण्डी दुष्टसत्वनिसूदनी / प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा // tbh_34 विद्युन्माली ध्वजी खड्गी चक्री चापयुतायुधा / जम्भनी स्तम्भनी काली कालरात्री निशाचरी // tbh_35 रक्षणी मोहिनी शान्ता कान्ता विभाविनी शुभा / ब्राह्मणी वेदमाता च गुहा च गुहवासिनी // tbh_36 माङ्गल्या शङ्करी सौम्या जातवेदा मनोजवा / कापालिनी महाभागा संध्या सत्यापराजिता // tbh_37 सार्थवाहा कृपदृष्टी नष्टमार्गप्रदर्शनी / वरदा शासनी शास्त्री स्त्रीरूपामितविक्रमा // tbh_38 शवली योगिनी सिद्धा चाण्डाली चामृता ध्रुवा / धन्या पुण्या महाभागा सुभागा प्रियदर्शनी //

tbh_39 कृतान्तत्रासनी भीमा उग्रा उग्रमहातपा / जगदेकहितोद्युक्ता शरण्य भक्तिवत्सला // tbh_40 वागीश्वरी शिवा सूक्ष्मा नित्या सर्वार्थमातृका / सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनंजया // tbh_41 अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा / तारा नामगुणानन्ता सर्वाशापरिपूरणी // tbh_42 नामाष्टोत्तरशतकं तत् कीर्तितं हितेन वः / रहस्यम् अद्भुतं गुह्यं देवानाम् अपि दुर्लभम् / 43 सौभाग्यं भाग्यकरणं सर्वकील्बिषनाशनम् / सर्वव्याधिप्रशमनं सर्वसत्वसुखावहम् // tbh_44 त्रिकारं यः पठेद् धीमान् शुचिः स्नानसमाहितः / अचिरेणैव कालेन राज्यश्रियम् अवाप्नुयात् // tbh_45 दुःखितः स्यात् सुखी नित्यदरिद्रो धनवान् भवेत् / जडो भवेन् महाप्राज्ञो मेधावी च न संशयः // tbh_46 बन्धनान् मुच्यते बद्धो व्यवहारे जयो भवेत् / शत्रवो मित्रतां यान्ति शृङ्गिणश् चाथ दंष्ट्रिणः // tbh_47 संग्रामे संकटे दुर्गे नानाभयसमाकुले / स्मरणाद् एव नामानि सर्वपापान्य् अपोहति // tbh_48 नाकालमृत्युर् भवति प्राप्नोति विपुलां श्रियम् / मानुश्यं सफलं जन्म यस्य कस्य महात्मनः // tbh_49 यश् चेदं प्रातर् उत्थाय मानवः कीर्तयिष्यति / स दीर्घकालम् आयुष्मान् श्रियं च लभते नरः // tbh_50 देवा नागास् तथा यक्षा गन्धर्वाः कटपूतनाः / पिशाचराक्षसा भूता मातरो रौद्रतेजसः // tbh_51 क्षयापस्मारकारकश् चैव क्षतकाखोर्डकादयः / डाकिन्यास् तारका प्रेताः स्कन्दा मारा महाग्रहाः // tbh_52 छायाम् अपि न लङ्घन्ते किं पुनस् तस्य विग्रहः / दुष्टसत्वा न वाधन्ते व्याधयो नाक्रमन्ति च //

tbh_53 देवासुरम् अपि संग्रामम् अनुभवन्ति महर्द्धिकाः / सर्वैश्वर्यगुणैर् युक्तः पुत्रपौत्रैश् च वर्धते // tbh_54 जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः // tbh_55 प्रीतिमांश् च महावाग्मी सर्वशास्त्रविशारदः // tbh_56 कल्याणमित्रसंसेवी बोधिचित्तविभूषितः / सदाविरहितो बुद्धैर् यत्र यत्रोपपद्यते // tbh_57

इत्य् आर्यताराभट्टारिकाया नामाष्टोत्तरशतकं बुद्धभाषितं समाप्तम् /

// शुभम् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.