Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

प्रज्ञापारमितास्तोत्र

Tác giả
राहुलभद्र
Thông tin
GRETIL — Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

राहुलभद्र: प्रज्ञापारमितास्तोत्र

राहुलभद्र: प्रज्ञापारमितास्तोत्र

निर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते या त्वं सर्वानवद्याङ्गि निरवद्यैर् निरीक्ष्यसे // RahPps_1

आकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम् यस् त्वां पश्यति भावेन स पश्यति तथागतम् // RahPps_2

तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव // RahPps_3

कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसरीम् सुखेनायान्ति माहात्म्यम् अतुलं भक्तिवत्सले // RahPps_4

सकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने // RahPps_5

सर्वेषाम् अपि वीराणां परार्थनिरतात्मनाम् पोषिका जनयित्री च माता त्वम् असि वत्सला // RahPps_6

यद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः तेन त्वम् अपि कल्याणि सर्वसत्त्वपितामही // RahPps_7

सर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा // RahPps_8

विनेयं जनम् आसाद्य तत्र तत्र तथागतैः बहुरूपा त्वम् एवैका नानानामभिर् ईड्यसे // RahPps_9

प्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम् // RahPps_10

त्वम् एव त्रासजननी बालानां भीमदर्शना आश्वासजननी चासि विदुषां सौम्यदर्शना // RahPps_11

यस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते तस्याम्ब कथम् अन्यत्र रागद्वेषौ भविष्यतः // RahPps_12

नागच्छसि कुतश् चित् त्वं न च क्व चन गच्छसि स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे // RahPps_13

ये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम् // RahPps_14

त्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते // RahPps_15

अहो विस्मयनीयासि गम्भीरासि यशस्विनि सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे // RahPps_16

बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् च निषेविता मार्गस् त्वम् एका मोक्षस्य नास्त्य् अन्य इति निश्चयः // RahPps_17

व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम् कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे // RahPps_18

शक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम् सर्ववाग्विशयातीतां या त्वं क्व चिद् अनिश्रिता // RahPps_19

सत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः त्वाम् अस्तुत्याम् अपि सतीं तुष्टूषन्तः सुनिर्वृताः // RahPps_20

प्रज्ञापारमितां स्तुत्वा यन् मयोपचितं शुभम् तेनास्त्व् आशु जगत् कृत्स्नं प्रज्ञापारपरायणम् // RahPps_21

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.