Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सुविक्रान्तविक्रामिपरिपृच्छा

Thông tin
GRETIL — P.L. Vaidya: Mahayana-sutra-samgrahaḥ (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ खलु भगवांस्तस्यां वेलायामिदं धर्माधिष्ठानं प्रज्ञापारमितानिर्देशमधितिष्ठिति स्म, मारस्य च पापीयसो ऽस्मिन् धर्मपर्याये मारपाशानां छेदाय अधिष्ठानमकरोत् / अथ खलु भगवान् स्मितं प्राविष्करोति स्म, यथायं त्रिसाहस्रमहास्राहस्रो लोकधातुर्महतावभासेन स्फुटो ऽभूत् / देवा अपि मनुष्यान् पश्यन्ति स्म, मनुष्या अपि देवान् / ये तत्र संनिपतिता देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः, ते सर्वे दिव्यैः पुष्पैर्भगवन्तमभ्यवकिरन्ति स्म, दिव्यानि च चीवराणि क्षिपन्ति स्म, महान्तं च निर्नादनिर्घोषमकार्षुः - महाधिष्ठानं बतेदं तथागतेनाधिष्ठितं यत्रागतिर्माराणां पापीयसाम् / सर्वमारपाश हि च्छिन्ना अनेन धर्माधिष्ठानेन च / तेषां कुलपुत्राणां कुलदुहितृणां च भूयो मारेभ्यः पापीयोभ्यो ऽभयं प्रतिकाङ्क्षितव्यम् / ये इमं धर्मपर्यायं धारयिष्यन्ति वाचयिष्यन्ति परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, उत्तीर्णास्ते बोधिसत्त्वा भविष्यन्ति / मारं च ते पापीयांसं ससैन्यं पराजयिष्यन्ति ये इमं धर्मपर्यायं धारयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति //

अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वमेतदवोचत् - एवमेतत्सुविक्रान्तविक्रामिन्, एवमेतत्, यथैते देवपुत्रा वाचो भाषन्ते / बद्धसीमा सुविक्रान्तविक्रामिन् माराणां पापीयसामस्मिन् धर्मपर्याये भाष्यमाणे तथागतेन / ये ऽत्र खलु पुनः सुविक्रान्तविक्रामिन् कुलपुत्रा वा कुलदुहितरो वा इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अगतिस्तत्र मारस्य पापीयसो भविष्यति, अनाक्रमणीयाश्च ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति मारैः पापीयोभिः / निहतमारप्रत्यर्थिकाश्च ते भविष्यन्ति उत्तीर्णसंग्रामाश्च, ये इमं धर्मपर्यायमुद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति / न खलु पुनः सुविक्रान्तविक्रामिन् अयं धर्मपर्यायः संक्लिष्टानां सत्त्वानां हस्तं गमिष्यति, नापि मारपाशबद्धानां / आजानेयभूमिरियं सुविक्रान्तविक्रामिन्, नेयमनाजानेयानामनाजानेयभूमिः / तद्यथापि नाम सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति हस्त्याजानेया वा अश्वाजानेया वा, न ते कोट्टराज्ञां परिचर्यां कुर्वन्ति, नापि ते क्रूरजनानां दर्शनमुपयान्ति / चक्रवर्तिनां सुविक्रान्तविक्रामिंस्तथारूपा हस्त्याजानेया अश्वाजानेयाश्च दर्शनमुपयान्ति, तेषां च अभ्युद्गच्छन्ति परिभोगाय उपस्थानपरिचर्यायै, चक्रवर्तिनां हि राज्ञां परिभोगाय भवन्ति / एवमेव सुविक्रान्तविक्रामिन् मनुष्याजानेयानां सत्त्वानामिमे एवंरूपा धर्मपर्यायाः परिभोगाय हस्तं गमिष्यन्ति / तद्यथापि नाम सुविक्रान्तविक्रामिन् (वैद्य 74) उपोषधो नागराजः सुप्रतिष्ठितश्च नागराजः ऐरावणो नागराजः /

न ते मनुष्याणामुपभोगाय संक्रामन्ति, नापि ते मनुष्याणां दर्शनायोपसंक्रामन्ति, नापि ते अन्येषां देवानामुपभोगाय परिभोगाय संक्रामन्ति, देवाजानेयानां ते नागराजानः परिभोगाय संक्रामन्ति / यथा यथा च शक्रो देवानामिन्द्रो ऽभिक्रामति व्यूहं कृत्वा, तथा तथा चापि नागराजानस्तादृशमेव व्यूहं कृत्वा उपसंक्रामन्ति परिभोगाय / एवमेव सुविक्रान्तविक्रामिन् ये ते भविष्यन्ति मनुष्येन्द्राः पुरुषेन्द्राः तेषामिमे धर्मपर्याया उपभोगपरिभोगाय भविष्यन्ति, यदुत वाचनतया देशनतया संप्रकाशनतया, तेषां चेमे धर्मपर्याया महाव्यूहा महाविष्कारा महाधर्मालोका भविष्यन्ति, महतीं च धर्मप्रीतिमेषु धर्मपर्यायेषु ते ऽनुभविष्यन्ति / महता च प्रीतिप्रामोद्येन समन्वागता भविष्यन्ति, अस्य धर्मपर्यायस्य एकं नयं ये धारयिष्यन्ति, कः पुनर्वादो ये सकलसमाप्तं लेखयित्वा धारयिष्यन्ति पूजयिष्यन्ति वैस्तारिकं च करिष्यन्ति, ते ते मनुष्येन्द्रा मनुष्याजानेयाः / परिगृहीतास्ते खलु पुनः सुविक्रान्तविक्रामिन् अनेन धर्मपर्यायेण भविष्यन्ति / अगतिरस्मिन्ननाजानेयानाम् / एतदप्यहं सुविक्रान्तविक्रामिन् सर्वसंशयच्छेदाय वदामि //

अस्मिन् खलु पुनर्धर्मपर्याये भगवता भाष्यमाणे अनेकैरप्रमेयैर्बोधिसत्त्वैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धाभूत् / अप्रमेयासंख्येयाश्च सत्त्वाअ अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति / नियताश्च ते तथागतेन निर्दिष्टा अभूवन् बोधाय //

इदमवोचद्भगवान् / आत्तमनाः सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वः, चतस्रः पर्षदः, सदेवमानुषनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगश्च लोको भगवतो भाषितमभ्यनन्दन् // इति //

आर्य प्रज्ञापारमितायामनुशंसापरिवर्तः सप्तमः //

आर्यसुविक्रान्तविक्रामिपरिपृच्छा प्रज्ञापारमितानिर्देशः //

सार्धद्विसाहस्रिका भगवती आर्यप्रज्ञापारमिता समाप्ता //

* * * * *

या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसंपादिका / सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः // 1 //

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोधो एवं वादी महाश्रमणः // 2 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.