Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सुविक्रान्तविक्रामिपरिपृच्छा
- Thông tin
- GRETIL — P.L. Vaidya: Mahayana-sutra-samgrahaḥ (part 1). Darbhanga : The Mithila Institute, 1961, pp. 1-74. (Buddhist Sanskrit Texts, 17).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चित्तस्योत्पाद इति सुविक्रान्तविक्रामिन् विपर्यास एषः / चित्तं चित्तजमिति सुविक्रान्तविक्रामिंश्चेतसः प्रतिषेध एषः / न हि सुविक्रान्तविक्रामिन् या चित्तस्य प्रकृतिः सा उत्पद्यते जा जायते वा / विपर्याससंप्रयुक्तं सुविक्रान्तविक्रामिंश्चित्तमुत्पद्यते / तत्र चित्तमपि विवृतम्, येन विपर्यासेनोत्पद्यते तदति विवृतम् / न पुनः सुविक्रान्तविक्रामिन् बालपृथग्जना जानन्ति विवृतं चित्तमिति / यत्राप्युत्पद्येत तदपि विवृतम्, येनाप्युत्पद्येत तदपि विवृतमिति / ते चित्तविवेकमजानन्तः, आरम्बणविवेकमजानन्तः अभिनिविशन्ते - अहं चित्तम्, मम चित्तम्, अस्य चित्तम्, अस्माच्चित्तमिति / ते चित्तमभिनिविश्य कुशलमिति वा अभिनिविशन्ते, अकुशलमिति वा अभिनिविशन्ते / सुखमिति वा अभिनिविशन्ते, दुःखमिति वा अभिनिविशन्ते / उच्छेद इत्यभिनिविशन्ते, शाश्चत इत्यभिनिविशन्ते, दृष्टिगत इत्यभिनिविशन्ते, नीवरण इत्यभिनिविनिशन्ते / दानमात्सर्यशीलदौःशील्यमित्यभिनिविशन्ते / धर्मधातुकामधातुरूपधात्वारूप्यधातुमित्यभिनिविनिशन्ते, प्रतीत्यसमुत्पादमित्यभिनिविशन्ते, नामरूपमित्यभिनिविशन्ते, (वैद्य 50) रागद्वेषमोहमित्यभिनिविशन्ते / ईर्ष्यामात्सर्यमित्यभिनिविशन्ते / अस्मिमानमित्यभिनिविशन्ते / दुःखमित्यभिनिविशन्ते / समुदयमित्यभिनिविशन्ते / निरोधमित्यभिनिविशन्ते / मार्गमित्यभिनिविशन्ते / स्मृत्युपस्थानमित्यभिनिविशन्ते / सम्यक्प्रहाणाविपर्यासर्द्धिपादेन्द्रियबलबोध्यङ्गानीत्यभिनिविशन्ते / ध्यानविमोक्षसमाधिसमापत्तीनप्यभिनिविशन्ते / अनुत्पादक्षयानभिसंस्कारमित्यभिनिविशन्ते / श्रावकप्रत्येकबुद्धभूमिमभिनिविशन्ते / श्रावकप्रत्येकबुद्धधर्मानप्यभिनिविशन्ते / मार्गमित्यभिनिविशन्ते / अभिज्ञामप्यभिनिविशन्ते / निर्वाणमप्यभिनिविशन्ते / बुद्धज्ञानमप्यभिनिविशन्ते / लक्षणान्यप्यभिनिविशन्ते / प्रत्येकबुद्धसंपदमप्यभिनिविशन्ते / बोधिसत्त्वसंपदमप्यभिनिविशन्ते //
तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः इमानेवंरूपानभिनिवेशान् सत्त्वानां विपर्यासचित्तजान् समनुपश्यन् न क्वचिद्विपर्यासे चित्तमुत्पादयति / तत्कस्माद्धेतोः? चित्तापगता हि प्रज्ञापारमिता / या च चित्तस्य प्रकृतिप्रभास्वरता प्रकृतिपरिशुद्धता, तत्र न काचिच्चित्तस्योत्पत्तिः / आरम्बणे सति सुविक्रान्तविक्रामिन् बालपृथग्जनाश्चित्तमुत्पादयन्ति / तत्र बोधिसत्त्वो ऽप्यारम्बणं प्रजानन्नपि चित्तस्योत्पत्तिं प्रजानाति - कुतश्चित्तमुत्पद्यते? स एवं प्रत्यवेक्षते - प्रकृतिप्रभास्वरमिदं चित्तम् / तस्यैवं भवति - आरम्बणं प्रतीत्य चित्तमुत्पद्यते इति / स आरम्बणं परिज्ञाय न चित्तमुत्पादयति नापि निरोधयति / तस्य तच्चित्तं प्रभास्वरं भवति असंक्लिष्टं कमनीयं परिशुद्धम् / स चित्तानुत्पादस्थितो न कंचिद्धर्ममुत्पादयति न निरोधयति / इयं सुविक्रान्तविक्रामिन् चित्तानुत्पादपरिज्ञा प्रज्ञापारमितायां चरतः / य एवं चरति बोधिसत्त्वः, स प्रज्ञापारमितायां चरति / तस्यैवं चरतो नैवं भवति - अहं चरामि प्रज्ञापारमितायाम्, अस्यां चरामि प्रज्ञापारमितायाम्, अनेन चरामि प्रज्ञापारमितायाम्, अस्माच्चरामि प्रज्ञापारमितायामिति / सचेत्पुनः संजानीते - इयं प्रज्ञापारमिता, अनेन प्रज्ञापारमिता, अस्य वा प्रज्ञापारमितेति, न चरति प्रज्ञापारमितायाम् / अथ तामपि प्रज्ञापारमितां न समनुपश्यति नोपलभते - अहं चरामि प्रज्ञापारमितायामिति न चरति, चरति प्रज्ञापारमितायाम् //
एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अनुत्तरेयं चर्या भगवन् बोधिसत्त्वस्य यदुत प्रज्ञापारमिताचर्या / प्रभास्वरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या / निरुत्तरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या / अत्यद्भुतेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या / अनवक्रान्तेयं भगवन् बोधिसत्त्वस्य चर्या मारेण वा मारपर्षद्भिर्वा अन्यैर्वा पुनः कैश्चिन्निमित्तचरितैरुपलम्भचरितैरात्मदृष्टिभिः सत्त्वदृष्टिभिर्जीवदृष्टिभिः पुद्गलदृष्टिभिर्भवदृष्टिभिर्विभवदृष्टिभिरुच्छेददृष्टिभिः शाश्चतदृष्टिभिः सत्कायदृष्टिभिः स्कन्धदृष्टिभिर्धातुदृष्टिभिरायतनदृष्टिभिर्बुद्धदृष्टिभिर्धर्मदृष्टिभिः संघदृष्टिभिर्निर्वाणदृष्टिभिः प्राप्तसंप्रज्ञैर्वा अधिमानिकैर्वा रागद्वेषमोहचरितैर्वा (वैद्य 51) विपर्यासचरितैर्वा उत्पथोन्मार्गप्रस्थितैर्वा अनाक्रमणीया / सर्वलोकाभ्युदयचर्येयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या //
एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत् - एवमेतत् सुविक्रान्तविक्रामिन्, एवमेतत् / अनवक्रान्तचर्येयं बोधिसत्त्वस्य मारेण वा मारकायिकैर्वा देवपुत्रैर्मारपर्षदा वा, अन्तशो निर्वाणदृष्टिकैरपि निर्वाणाभिनिविष्टैर्वा अनाक्रमणीया सर्वबालपृथग्जनैर्वा / या बोधिसत्त्वानामियं सुविक्रान्तविक्रामिंश्चर्या, नेयं चर्या बालपृथग्जनानाम् / नापीयं चर्या शैक्षाशैक्षाणां श्रावकयानीयानाम्, नापि प्रत्येकबुद्धयानीयानाम् / सचेत् सुविक्रान्तविक्रामिन् इयं चर्या श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा अभविष्यत्, न तेषां कश्चिद्व्यवहारो ऽभविष्यत् - श्रावकयानीया वा प्रत्येकबुद्धयानीया वेति / बोधिसत्त्वा एवाभविष्यन्, ते ऽपि तथागता वा चतुर्वैशारद्यप्राप्ता अभविष्यन् / यस्मात्तर्हि सुविक्रान्तविक्रामिन् न श्रावकयानीयानां व प्रत्येकबुद्धयानीयानामियं चर्या, तस्मात्ते न बोधिसत्त्वा इति संख्यां गच्छन्ति, न च तथागता भवन्ति चतुर्वैशारद्यप्राप्ताः / वैशारद्यभूमिरियं सुविक्रान्तविक्रामिन् धर्मे, नेयं प्रज्ञापारमिताचर्या / एवं चरन्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वाः क्षिप्रं चतुर्वैशारद्यतामनुप्राप्नुवन्ति, अनभिसंबुद्धा एव यावदनुत्तरां सम्यक्संबोधिं प्रणिधानवशेन च बुद्धानां च भगवतामधिष्ठानवशेन / न हि सुविक्रान्तविक्रामिन् श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा चतुर्वैशारद्यं भवति, नापि तथागतस्तेषां चतुर्वैशारद्यमधितिष्ठति / बोधिसत्त्वभूमिरेषा सुविक्रान्तविक्रामिन् यस्यां चतुर्वैशारद्यमनुप्राप्यते प्रणिधानवशेन /
तत्कस्माद्धेतोः? प्रज्ञापारमितायां सुविक्रान्तविक्रामिंश्चरन्तो बोधिसत्त्वाः चतस्रः प्रतिसंविदो ऽनुप्राप्नुवन्ति / कतमाश्चतस्रः? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम् / आभिश्चतसृभिः प्रतिसंविद्भिः समन्वागता अनभिसंबुद्धा एव प्रणिधानवशेन वैशारद्यानि प्रतिगृह्णन्ति / तथागता अपि तान् कुशलमूलसमन्वागतानिति विदित्वा प्रज्ञापारमिताभूम्यनुप्राप्तानिति विदित्वा अधितिष्ठन्ति चतुर्वैशारद्येन / तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन चतस्रः प्रतिसंविदो ऽनुप्राप्तुकामेन क्षिप्रं चतुर्वैशारद्यकुशलेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं चरितव्यम् //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माणां हेतुं च समुदयं च अस्तंगमं च निरोधं च प्रविध्यति न कंचिद्धर्मम्, यत्प्रज्ञापारमितायां न योजयति / सर्वधर्माणां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानाति / तेषां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानन् न रूपं प्रभावयति न विभावयति / एवं वेदनासंज्ञासंस्कारान् / न विज्ञानं भावयति न विभावयति / न नामरूपं भावयति न विभावयति / न संक्लेशव्यवदानं भावयति न विभावयति / न विपर्यासदृष्टिगतनीवरणानि भावयति न विभावयति / (वैद्य 52) न रागद्वेषमोहान् भावयति न विभावयति / न कामधातुं न रूपधातुं नारूप्यधातुं भावयति न विभावयति / न सत्त्वधातुं नात्मधातुं भावयति न विभावयति / नोच्छेददृष्टिं न शाश्वतदृष्टिं भावयति न विभावयति / न दानमात्सर्यं भावयति न विभावयति / न शीलदौःशील्यं भावयति न विभावयति / न क्षान्तिव्यापादं भावयति न विभावयति / व वीर्यकौसीद्यं न ध्यानविक्षेपं न प्रज्ञादौष्प्रज्ञ्यं भावयति न विभावयति / न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासर्द्धिपादाप्रमाणानि भावयति न विभावयति / नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीर्भावयति न विभावयति / न प्रतीत्यसमुत्पादं भावयति न विभावयति / न दुःखसमुदयनिरोधमार्गान् भावयति न विभावयति / नानुत्पादज्ञानं न क्षयज्ञानं नाभिसंस्कारज्ञानं भावयति न विभावयति / न पृथग्जनभूमिं भावयति न विभावयति / न श्रावकभूमिं न प्रत्येकबुद्धभूमिं भावयति न विभावयति /
न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् (न बोधिसत्त्वधर्मबुद्धधर्मान्) भावयति न विभावयति / न शमथं न विदर्शनां भावयति न विभावयति / न निर्वाणं भावयति न विभावयति / नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं भावयति न विभावयति / न सङ्गतां भावयति न विभावयति / नासङ्गतां भावयति न विभावयति / न बुद्धज्ञानं भावयति न विभावयति / न बुद्धवैशारद्यानि भावयति न विभावयति / तत्कस्माद्धेतोः? अभाव्यानि हि सुविक्रान्तविक्रामिन् रूपवेदनासज्ञासंस्कारविज्ञानानि / अभाव्यानि नामरूपविपर्यासदृष्टिगतस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासाप्रमाणेन्द्रियबलबोध्यङ्गसमाधिसमापत्त्यभिज्ञाक्षयज्ञानाभिसंस्कारज्ञानानि / अभाव्या पृथग्जनभूमिः, अभाव्याः श्रावकप्रत्येकबुद्धबोधिसत्त्वभूमयः, अभाव्याः पृथग्जनश्रावकप्रत्येकबुद्धधर्माः, अभाव्यं निर्वाणम्, अभाव्यमतीतानागतप्रत्युत्पन्नज्ञानदर्शनम्, अभाव्यमसङ्गज्ञानदर्शनम्, अभाव्यमनासङ्गज्ञानदर्शनम्, अभाव्यं सम्यक्संबुद्धज्ञानम् / तत्कस्माद्धेतोः? न हि सुविक्रान्तविक्रामिन् काचिदस्ति भावपरिनिष्पत्तिः / अभूता ह्येते सर्व एव व्यवहाराः / नात्र कश्चित्स्वभावः / अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, अभूता असंभूताः / तत्कस्माद्धेतोः? यो हि विपर्यासः सो ऽभूतः / विपर्याससमुत्थिताः सर्वधर्माः / यो हि विपर्यासः, सो ऽभावः / भावापगता हि सुविक्रान्तविक्रामिन् सर्वधर्माः / भावो नोपलभ्यते ऽस्वभावत्वात् / अभाव इति सुविक्रान्तविक्रामिन् अभूतः / सो ऽसंभूतः, तेनोच्यते अभाव इति /
असत्परिदीपनैषा सुविक्रान्तविक्रामिन् अभाव इति / यश्च अभाव, तत्र न भावना न विभावना / विपर्याससमुत्थिततया हि सुविक्रान्तविक्रामिन् सत्त्वा भावयन्ति च विभावयन्ति च / न तत्र किंचिद्भाव्यम् / तत्कस्माद्धेतोः? अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, भावापगता वस्त्वसत्त्वात् / न तत्र किंचिद्भाव्यम् / यस्मिन् समये सुविक्रान्तविक्रामिन् बोधिसत्त्व एवं धर्मेषु धर्मानुदर्शी विहरन् प्रज्ञापारमितायां चरन् न कंचिद्धर्मं भावयति न विभावयति, इयमुच्यते प्रज्ञापारमिताभावनेति / एवं चरत एवं विहरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न रूपसंप्रयोगनिमित्तं चित्तमुत्पद्यते / न वेदना, न संज्ञा, न संस्कारः / न विज्ञानसंप्रयोगनिमित्तं चित्तमुत्पद्यते / न खिलसहगतं चित्तमुत्पद्यते / न व्यापादसहगतं चित्तमुत्पद्यते / न मात्सर्यसहगतं चित्तमुत्पद्यते / न संक्लेशसहगतं चित्तमुत्पद्यते / न कौसीद्यसहगतं चित्तमुत्पद्यते / न विक्षेपसहगतं चित्तमुत्पद्यते / न दौष्प्रज्ञ्यसहगतं चित्तमुत्पद्यते / न कामसहगतं चित्तमुत्पद्यते / न रूपारम्बणाभिनिवेशसहगतं चित्तमुत्पद्यते / नाभिध्यासहगतं चित्तमुत्पद्यते / न पैशुन्यसहगतं चित्तमुत्पद्यते / न मिथ्यादृष्टिसहगतं चित्तमुत्पद्यते / न भोगाभिनिवेशसहगतं चित्तमुत्पद्यते / नैश्वर्याभिष्वङ्गसहगतं चित्तमुत्पद्यते / न महाकुलोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते / न देवोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते / न कामधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते / न रूपारूप्यधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते / न श्रावकभूमौ चित्तमुत्पद्यते / न प्रत्येकबुद्धभूमौ चित्तमुत्पद्यते / न बोधिसत्त्वचर्याभिनिवेशाभिष्वङ्गसहगतं चित्तमुत्पद्यते / नान्तशो नीवरणदृष्टिसहगतमपि चित्तमुत्पद्यते / सो ऽनया चित्तविशुद्ध्या समन्वागतः सत्त्वान् मैत्र्या स्फरति करुणया मुदितयोपेक्षया / सत्त्वसंज्ञा चानेन विभाविता भवति, न च सत्त्वसंज्ञायां तिष्ठति, न चैनांश्चतुरो ब्राह्म्यान् विहारानभिनिविशते, प्राज्ञश्च भवत्युपायकौशल्यसमन्वागतः /
तस्यैभिर्धर्मैः समन्वागतस्य प्रज्ञापारमितायां चरतः क्षिप्रं प्रज्ञापारमिताभावना परिपूरिं गच्छति / स एवं प्रज्ञापारमितां भावयन् न रूपमुपैति, नोपादत्ते / न वेदनां न संज्ञां न संस्कारान् / न विज्ञानमुपैति, नोपादत्ते / न विपर्यासनीवरणदृष्टिगतान्युपैति, नोपादत्ते / न कामधातुं न रूपधातुं नारूप्यधातुमुपैति, नोपादत्ते / नोच्छेदशाश्वतमुपैती, नोपादत्ते / न प्रतीत्यसमुत्पादमुपैति, नोपादत्ते / न पृथिव्यप्तेजोवायुधातुमुपैति, नोपादत्ते / न रागद्वेषमोहानुपैति, नोपादत्ते / ना दानमात्सर्यशीलदौःशील्यमुपैति, नोपादत्ते / न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यमुपैति, नोपादत्ते / न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासाप्रमाणर्द्धिपादानुपैति, नोपादत्ते / नेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमापत्तीरुपैति, नोपादत्ते / नाभिज्ञामुपैति, नोपादत्ते / न दुःखसमुदयनिरोधमार्गानुपैति, नोपादत्ते / नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्युपैति, नोपादत्ते / नात्मधातुं न सत्त्वधातुं न धर्मधातुमुपैति नोपादत्ते / न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिमुपैति, नोपादत्ते / न पृथग्जनधर्मान्, न श्रावकधर्मान् न प्रत्येकबुद्धधर्मानुपैति, नोपादत्ते / नातीतानागतप्रत्युत्पन्नज्ञानदर्शनमुपैति, नोपादत्ते / नासङ्गज्ञानदर्शनमुपैति, नोपादत्ते / न बुद्धज्ञानबलवैशारद्यान्युपैति, नोपादत्ते / न नीवरणान्युपैति, नोपादत्ते / तत्कस्माद्धेतोः? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनुपगता अनुपादत्ताः, न केनचिदुपगताः / न हि सुविक्रान्तविक्रामिन् कश्चिद्धर्म उपादातव्यो नापि केनचिदुपादत्तः /
तत्कस्माद्धेतोः? नात्र किंचिदुपादातव्यं (वैद्य 54) नोपादानीयं वा / तत्कस्माद्धेतोः? असारका हि सुविक्रान्तविक्रामिन् सर्वधर्मा मायोपमतया / वशिता हि सर्वधर्माः सारानुपलब्धितः / प्रतिभाससमा हि सर्वधर्मा अग्राह्यतामुपादाय / रिक्तका हि सर्वधर्माः स्वभावासत्त्वात् / फेनपिण्डोपमा हि सर्वधर्मा अविमर्दनक्षमत्वात् / बुद्बुदोपमा हि सर्वधर्मा उत्पन्नभङ्गविलीनतामुपादाय / मरीच्युपमा हि सर्वधर्मा विपर्याससमुत्थानतामुपादाय / कदलीगर्भोपमा हि सर्वधर्माः सारासत्तामुपादाय / उदकचन्द्रसदृशा हि सर्वधर्मा अग्राह्यतामुपादाय इन्द्रायुधरङ्गसदृशा हि सर्वधर्मा असत्परिकल्पनतामुपादाय / निरीहका हि सर्वधर्मा असमुत्थापनतामुपादाय / रिक्तमुष्टिसमा हि सर्वधर्मा वशिकस्वभावलक्षणतया / तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं सर्वधर्मान् समनुपश्यन् न कंचिद्धर्ममुपैति नोपादत्ते, नाधितिष्ठति, नाध्यवसाय तिष्ठति / इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मश्रद्दधानता अनधिष्ठानता अनध्यवसानता अनभिष्वङ्गता प्रज्ञापारमितायां चरतः / एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति //
पुनरपरं सुविक्रान्तविक्रामिन् एवं शिक्षमाणो बोधिसत्त्वो न रूपे शिक्षते, न रूपसमतिक्रमाय शिक्षते / न वेदनायां न संज्ञायां न संस्कारेषु / न विज्ञाने शिक्षते न विज्ञानसमतिक्रमाय शिक्षते / न रूपोत्पत्तौ शिक्षते, न रूपनिरोधे शिक्षते / एवं न वेदना न संज्ञा न संस्काराः / न विज्ञानोत्पत्तौ शिक्षते, न विज्ञाननिरोधे शिक्षते / न रूपविनयाय शिक्षते नाविनयाय / एवं न वेदनासंज्ञासंस्कारविज्ञानविनयाय शिक्षते नाविनयाय / न रूपस्य संक्रान्तये शिक्षते नावक्रान्तये / न स्थितये शिक्षते नास्थितये / एवं न वेदनासंज्ञासंस्कारविज्ञानानां संक्रान्तये शिक्षते नावक्रान्तये, न स्थितये शिक्षते नास्थितये / एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपनित्यतायां शिक्षते, न रूपसुखतायां शिक्षते, न रूपदुःखतायां शिक्षते न रूपशुभतायाम्, न रूपानात्मतायां शिक्षते / न वेदनासंज्ञासंस्काराः, न विज्ञाननित्यतायां शिक्षते, न विज्ञानसुखतायां शिक्षते, न विज्ञानदुःखतायाम्, न विज्ञानशुभतायां न विज्ञानात्मतायां शिक्षते / एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपातीतारम्बणे चरति, रूपानागतारम्बणे चरति, न रूपप्रत्युत्पन्नारम्बणे चरति / न वेदना, न संज्ञा, न संस्काराः / न विज्ञानातीतारम्बणे चरति, नानागतारम्बणे चरति, न प्रत्युत्पन्नारम्बणे चरति / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो ऽतीतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते - यदतीतं तच्छून्यम्, एवं शान्तमनात्मेति / एवमपि [न] चरति / अनागतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते - यदतीतं तच्छून्यं शान्तमनात्मेति /
एवमपि (न) चरति / प्रत्युत्पन्नं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते - यत्प्रत्युत्पन्नं तच्छून्यं शान्तमनात्मेति / एवमपि (न) चरति / अतीतं शून्यं शान्तमनात्मना वा अनात्मीयेन (वैद्य 55) वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति / अनागतं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति / प्रत्युत्पन्नं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वेति, एवमपि न चरति / एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति / एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य मारः पापीयानवतारं न लभते / एवं चरन् सर्वमारकर्माणि बुध्यते, न च तैर्मारकर्मभिः संह्रियते //
पुनरपरं सुविक्रान्तविक्रामिन् एवं चरन् बोधिसत्त्वो न रूपमालम्बते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानमालम्बते / न नामरूपमालम्बते, न विपर्यासदृष्टिगतमालम्बते, नात्माभिनिवेशमालम्बते, न सत्त्वाभिनिवेशमालम्बते, नोच्छेदशाश्वतमालम्बते, नान्तं नानन्तमालम्बते / न रूपशब्दगन्धरसस्पर्शधर्मानालम्बते / न कामधातुं न रूपधातुं नारूप्यधातुमालम्बते / न प्रतीत्यसमुत्पादमालम्बते / न पृथिव्यप्तेजोवाय्वाकाशधातूनालम्बते / न सत्यं न मृषां आलम्बते / न संयोगं न विसंयोगमालम्बते / न रागद्वेषमोहानालम्बते / न रागद्वेषमोहप्रहाणमालम्बते / न दानमात्सर्यशीलदौःशील्यमालम्बते / न क्षान्तिव्यापादमालम्बते / न वीर्यकौसीद्यमालम्बते / न ध्यानविक्षेपमालम्बते / न प्रज्ञादौष्प्रज्ञ्यमालम्बते / न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासानालम्बते / नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीरालम्बते / न मैत्रीकरुणामुदितोपेक्षा आलम्बते / नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्यालम्बते / न पृथग्जनश्रावकप्रत्येकबुद्धभूमीरालम्बते / न पृथग्जनश्रावकप्रत्येकबुद्धधर्मानालम्बते / न दुःखसमुदयनिरोधमार्गानालम्बते / नाभिज्ञाज्ञानदर्शनमालम्बते / न विमुक्तिमालम्बते / न विमुक्तिज्ञानदर्शनमालम्बते / न निर्वाणमालम्बते / नातीतानागतप्रत्युत्पन्न(ज्ञानदर्शन)मालम्बते / नासङ्गज्ञानमालम्बते / न बुद्धज्ञानमालम्बते / न बुद्धबलवैशारद्यान्यालम्बते / न बुद्धक्षेत्रपरिशुद्धिमालम्बते / न लक्षणपरिशुद्धिमालम्बते / न श्रावकसंपदमालम्बते / न प्रत्येकबुद्धसंपदमालम्बते /
न बोधिसत्त्वसंपदमालम्बते / तत्कस्माद्धेतोः? निरालम्बना हि सुविक्रान्तविक्रामिन् सर्वधर्माः / न हि सर्वधर्माणां किंचिद्ग्रहणं संविद्यते यत्रैषामालम्बनं भवेत / यावत् सुविक्रान्तविक्रामिन् आलम्बनम्, तावदध्यवसानम्, तावदभिनिवेशः, तावदुपादानम् / यावदुपादानम्, यावदालम्बनम्, तावदुःखदौर्मनस्यम्, तावद्गाढाः शोकशल्योपायासपरिदेवाः संभवन्ति / यावत् सुविक्रान्तविक्रामिन् आलम्बनं तावद्बन्धनम् / यावदालम्बनं तावन्नास्ति मार्गः, तावद्दुःखदौर्मनस्यम् / यावदालम्बनं तावन्मन्यना स्पन्दना प्रपञ्चना / यावदालम्बनं तावदधिकरणविग्रहविवादाः / यावदालम्बनं तावदविद्यान्धकारमोहाः / यावदालम्बनं तावद्भयानि, (वैद्य 56) तावद्भैरवाणि / यावदालम्बनं तावन्मारपाशमारविध्वंसनानि / यावदालम्बनं तावद्दुःखप्रतिपीडना सुखपर्येषणा च / तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इमानादीनवान् संपश्यन् न कंचिद्धर्ममालम्बते / सो ऽनालम्बमानो न कंचिद्धर्मं परिगृह्णाति / स नाप्युद्ग्रहाय नाग्रहाय स्थितः सर्वधर्माणां तामपि निरालम्बनवशिकतां न मन्यते / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वो न कंचिद्धर्ममभिनिविशते नाभिवदति, न कंचिद्धर्ममध्यवसाय तिष्ठति / अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मालम्बनविसंयोगः प्रज्ञापारमितायां चरतः / एवं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य चरतः प्रज्ञापारमिताभावना परिपूतिं गच्छति / न चास्य मारः पापीयान् अन्तरायं शक्नोति कर्तुम्, न मारकायिका देवताः, न मारपर्षत्, न माराधिष्ठिताः /
न चास्य ते ऽवतारं लभन्ते यत्रास्य विहेठान् कुर्युः, यत्रैनं गृहीत्वा धर्षयेयुः / नित्यं च सर्वाणि मारकर्माण्यवबुध्यन्ते / न च मारकर्मवशगो भवति / सर्वाणि च मारभवनानि ध्यामीकरोति / सर्वान्यतीर्थिकानां च निग्रहाय स्थितो भवति, सर्वाश्चान्यतीर्थिकांश्चरकपरिव्राजकानभिभवति / अनवमर्दनीयश्च भवति सर्वपरप्रवादिभिः //
एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपकल्पनायां स्थितो भवति न रूपविकल्पनायाम् / एवं न वेदनासंज्ञासंस्कारविज्ञानकल्पनायां स्थितो भवति न विकल्पनायाम् / नापि रूपं कल्पयति न विकल्पयति / एवं न वेदनासंज्ञासंस्कारविज्ञानानि कल्पयति न विकल्पयति / न नीवरणदृष्टिगतानि कल्पयति न विकल्पयति / नोच्छेदशाश्वतं कल्पयति न विकल्पयति / न कामधातुरूपधात्वारूप्यधातून् कल्पयति न विकल्पयति / न रागद्वेषमोहान् कल्पयति न विकल्पयति / न सत्यं कल्पयति न विकल्पयति / न मृषा कल्पयति न विकल्पयति / न पृथिव्यप्तेजोवाय्वाकाशधातुं कल्पयति न विकल्पयति / न संयोगं कल्पयति न विकल्पयति / न विसंयोगं कल्पयति न विकल्पयति / न प्रतीत्यसमुत्पादं कल्पयति न विकल्पयति / नात्मसंज्ञां कल्पयति न विकल्पयति / न सत्त्वसंज्ञां कल्पयति न विकल्पयति / न जीवसंज्ञां कल्पयति न विकल्पयति / न पुद्गलसंज्ञां कल्पयति न विकल्पयति / न दानमात्सर्यशीलदौःशील्यं कल्पयति न विकल्पयति / न क्षान्तिव्यापादौ कल्पयति न विकल्पयति / न वीर्यकौसीद्यं कल्पयति न विकल्पयति / न ध्यानविक्षेपौ कल्पयति न विकल्पयति / न प्रज्ञादौष्प्रज्ञ्ये कल्पयति न विकल्पयति / नाविपर्याससम्यक्प्रहाणर्द्धिपादस्मृत्युपस्थानानि कल्पयति न विकल्पयति / नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीः कल्पयति न विकल्पयति / न दुःखसमुदयनिरोधमार्गान् कल्पयति न विकल्पयति / न मैत्रीकरुणामुदितोपेक्षाः कल्पयति न विकल्पयति / नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानानि कल्पयति न विकल्पयति /
न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् न बुद्धधर्मान् कल्पयति न विकल्पयति / (वैद्य 57) न पृथग्जनभूमिं न श्रावकभूमिं न प्रत्येकबुद्धभूमिं न बुद्धभूमिं कल्पयति न विकल्पयति / न नीवरणानि कल्पयति न विकल्पयति / नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं कल्पयति न विकल्पयति / नासङ्गज्ञानं कल्पयति न विकल्पयति / न विद्याविमुक्तिं कल्पयति न विकल्पयति / न मुक्तिं न विमुक्तिज्ञानदर्शनं कल्पयति न विकल्पयति / न बुद्धज्ञानवैशारद्यानि कल्पयति न विकल्पयति / न लक्षणपरिशुद्धिं कल्पयति न विकल्पयति / न बुद्धक्षेत्रपरिशुद्धिं कल्पयति न विकल्पयति / न श्रावकसंपदं कल्पयति न विकल्पयति / न प्रत्येकबुद्धसंपदं कल्पयति न विकल्पयति / न बोधिसत्त्वसंपदं कल्पयति न विकल्पयति / तत्कस्माद्धेतोः? कल्पनायां सुविक्रान्तविक्रामिन् सत्यां विकल्पो भवति / यत्र पुनः सुविक्रान्तविक्रामिन् कल्पना नास्ति, न तत्र विकल्पना / सर्वबालपृथग्जना हि सुविक्रान्तविक्रामिन् कल्पनासमुत्थिताः / तेषां संज्ञा विकल्पसमुत्थिताः / ते कल्पयन्ति विकल्पयन्ति च / कल्पनेति सुविक्रान्तविक्रामिन् एष एको ऽन्तः, विकल्पनेति द्वितीयो ऽन्तः / यत्र नास्ति कल्पो वा विकल्पो (वा), तत्र नास्ति अन्तो वा मध्यं वा / मध्यमिति सुविक्रान्तविक्रामिन् कल्पयतः स एवान्तो भवति / यावत्कल्पना, तावद्विकल्पना / नास्त्यत्र विकल्पनासमुच्छेदः / यत्र पुनः सुविक्रान्तविक्रामिन् न कल्पना न विकल्पना, तत्र कल्पसमुच्छेदः / कल्पसमुच्छेद इति सुविक्रान्तविक्रामिन् नात्र कस्यचिच्छेदः /
तत्कस्माद्धेतोः? अन्तो हि सुविक्रान्तविक्रामिन् कल्पो विकल्पो विकल्पसमुत्थितः / तेषां यो व्युपशमः, सो ऽविपर्यासः / यो ऽविपर्यासः, न तत्र कश्चिच्छेदः / समुच्छेद इति सुविक्रान्तविक्रामिन् दुःखसमुच्छेदस्यैतदधिवचनम् / न च दुःखस्य कश्चित्समुच्छेदः / स्याद्दुःखसमुच्छेदः, यदि दुःखस्य काचित्परिनिष्पत्तिः स्यात् / अपरिनिष्पत्तिदर्शनमेतत् दुःखसमुच्छेद इति / दुःखपरिज्ञानमेतत्, यदिदं दुःखसमुच्छेद इति / यो दुःखं नैव कल्पयति न विकल्पयति, अयं दुःखव्युपशमः, अयं दुःखस्यानुत्पादो ऽप्रादुर्भावः / स एवं पश्यन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कंचिद्धर्मं कल्पयति न विकल्पयति / इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्व(कल्प)विकल्पपरिज्ञा प्रज्ञापारमितायां चरतः / एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति / न चास्य मारः पापीयानन्तरायस्थितो भवति, न च मारपर्षत् / उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते / न चोत्पन्नोत्पन्नानां मारकर्मणां वशं गच्छति / मारस्य च पापीयसः पराजयं करोति ध्यामीकरोति च / एवमल्पपक्षीकरोति विगतभयभैरवश्च भवति / न च मारैराक्रमणीयो भवति / प्रस्रब्धानि चास्य संभवन्ति सर्वाण्यपायगमनानि / पिथिताश्च भवन्ति कुमार्गाः /
सर्वौघोत्तीर्णश्च भवति, विगतमोहान्धकारश्च भवति, प्रतिलब्धचक्षुरालोकभूतश्च भवति सर्वसत्त्वानाम्, स्थितश्च भवत्युनुच्छेदाय बुद्धवंशस्य, प्रतिलब्धमार्गश्च भवति मार्गसमतायाम्, अनुकम्प(क)श्च (वैद्य 58) भवति सर्वसत्त्वानाम्, विशुद्धं चक्षुर्भवति धर्मेषु, वीर्यसंपन्नश्च भवत्यकुसीदः, क्षान्तिबलप्रतिलब्धश्च भवत्यव्यापन्नचित्तः, ध्यायी च भवत्यनिश्रितध्यायी, प्रतिलब्धप्रज्ञश्च भवति निर्वेधिकप्रज्ञासमन्वागतः, विगतकौकृत्यश्च भवति अपगतनीवरणः, विसंयुक्तश्च भवति सर्वमारपाशैः, छिन्नबन्धनश्च भवति सर्वतृष्णाजालवियोगात्, उपस्थितस्मृतिश्च भवत्यसंप्रमोषधर्मतया, विशुद्धशीलश्च भवति शीलविशुद्धिपारमिताप्राप्तः, परमगुणप्रतिष्ठितश्च भवति सर्वदोषनिर्घाताय, प्रज्ञाबलाधानप्राप्तश्च भवत्यप्रकम्प्यतया, अनाक्षिप्तश्व भवति सर्वमारपरवादिभिः, अपरिहीणधर्मा च भवति सर्वधर्मविशुद्धिप्राप्ततया, विशारदश्च भवति सर्वधर्मदेशनायाम्, अमङ्कुश्च भवति पर्षदुपसंक्रमणाय, अनागृहीतश्च भवति मुक्तत्यागो धर्मदानम् (?), प्रतिविशोधितमार्गश्च भवति मार्गसमतया, विभावितभावनश्च भवति कुमार्गापरिज्ञतया, वासितवासनश्च भवति विशुद्धधर्मतया, शोधितशोधनश्च भवति विशुद्धप्रज्ञतया, गम्भीरप्रज्ञश्च भवति सागरोपमतया, दुरवगाहश्च भवति अस्तम्भिततया, अप्रमेयश्च भवति धर्मसागराप्रमेयतया / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः एभिश्चान्यैश्च गुणैः समन्वागतो भवति येषां गुणानां न पर्यन्तः शक्यो ऽधिगन्तुम् //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं प्रज्ञापारमितायां चरन् नेन्द्रियविकलो भवति / स न रूपविकलो भवति, न भोगविकलो भवति, न परिवारविकलो भवति, न जातिविकलो भवति, न कुलविकलो भवति, न देशविकलो भवति, न च प्रत्युन्तेषु जनपदेषूपपद्यते, न चाक्षणप्राप्तो भवति, न चापरिशुद्धैः सत्त्वैरपरिशुद्धकर्मान्तैः संसर्गजातो भवति, न च स्वचित्तं हापयति, न च प्रज्ञाया हीयते / स यान् धर्मान् परतः शृणोति, तान् सर्वधर्मसमतायां संस्यन्दयति, स्थितश्च भवति बुद्धवंशस्य सर्वज्ञतावंशस्यानुपच्छेदाय / स आलोकलब्धश्च भवति बुद्धधर्मेषु, अत्यासन्नश्च भवति सर्वज्ञतायाम् / तं सचेन्मारः पापीयान् उपसंक्रामति विहेठनार्थम्, स तन्मारपर्षदं भस्मीकरोति छिन्नप्रतिभानाम्, सर्वांश्च मारपाशांश्छिनत्ति, सर्वैर्मारकायिकैर्मारकोटिभिश्चाधृष्यो भवति / ततो मारा भीतास्त्रस्ताः पलायन्ते / एवं च मारस्य पापीयसो भवति - अतिक्रान्तविषयो ऽयं मम, नायं मम भूयो विषये चरति, नायं मम भूयो विषये स्थितः, नायं मम भूयो विषयमाक्रमिष्यतीति, अन्यांश्च सत्त्वान् मम विषयान्मोचयिष्यतीति, उत्तारयिष्यतीति / तत्र मारः पापीयान् शोचति क्रन्दति परिदेवते - अल्पपक्षीकरिष्यति अयं बोधिसत्त्वो मामिति / दौर्बल्यं चास्य विशति, दुःखितश्च भवति दुर्मना विप्रतिसारी /
यस्मिंश्च समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते, सर्वमारभवनानि तस्मिन् समये ध्यामीभवन्ति अल्पतेजस्कानि, माराश्च पापीयांसो दुःखिता दुर्मनसो भवन्ति शोकशल्यसमर्पिता महाशोकशल्यविद्धाः - अतिवाहयिष्यत्ययं बत सत्त्वानस्मद्विषयात्, उत्तारयिष्यत्ययं (वैद्य 59) सत्त्वानस्मद्विषयात्, परिमोचयिष्यत्ययं सत्त्वानस्मद्विषयात्, अभ्युद्धरिष्यत्ययं बत सत्त्वानस्मद्विषयात्, छेदयिष्यत्ययं सत्त्वान् मारपाशात्, समुत्क्षेप्स्यत्ययं सत्त्वान् कामपङ्कलग्नान्, मोचयिष्यत्ययं सत्त्वान् दृष्टिजालेभ्यः, उत्तारयिष्यत्ययं सत्त्वान् नीवरणपथात्, प्रतिष्ठापयिष्यत्ययं सत्त्वान् सन्मार्गे, उत्तारयिष्यत्ययं सत्त्वान् दृष्टिगहनादिति / इममर्थवशं सुविक्रान्तविक्रामिन् संपश्यन्तस्ते मारा दुःखिता भवन्ति दुर्मनसः शोकशल्यविद्धाः / तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुषो महता धनस्कन्धेन विपन्नेन दुःखितो वेदनात्त(र्त)मना महता दुःखदौर्मनस्येन समन्वागतः / एवमेव मारः पापीयान् दुःखितो भवति दुर्मना विप्रतिसारी शोकशल्यविद्धः / न च स्वके आसने रमते, यस्मिन् समये बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते / पुनरपरं सुविक्रान्तविक्रामिन् ते माराः पापीयांसः एकतः समागम्य चिन्तयन्ति - कथं करिष्यामः, किं नु करिष्यामः / कथंकथाशोकशल्यविद्धा भवन्ति / ते कथंकथाशोकशल्यविद्धा भूत्वा उपसंक्रामन्ति बोधिसत्त्वस्यावतारगवेषिणः प्रज्ञापारमितायां चरतः /
तत्र बोधिसत्त्वस्य रोमापि न हृष्यति, न पुनः कायस्यान्यथात्वं भविष्यति चित्तस्यान्यथात्वं वा / विगतभयरोमहर्षश्च मारः पापीयानिति संबुध्यते / बुद्ध्वा चाधिष्ठानं करोति / ततो मारः पापीयानधिष्ठितो दुर्बलो भवति लीनचित्तो भयमापन्नः / न चास्य शक्नोत्यवतारं लब्धुम् / तस्यैवं भवति - अहमेवास्य न शक्तो ऽवतारं लब्धुम्, किं पुनर्मम पर्षत्, किं पुनर्यदन्ये ऽधिष्ठास्यन्ति / ततस्ते मारा(स्त्रस्ता उत्साहप)रिहीणाः स्वभवनानि गत्वा दुःखदौर्मनस्यजाताः प्रध्यायन्तस्तिष्ठन्ति, न च शक्नुवन्ति बोधिसत्त्वस्य प्रज्ञापारमितायां चरतो ऽच्छटामात्रमपि चित्तस्य मोहनं कर्तुम्, प्रागेवास्यान्तरायम् / इयं(दं) सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरतो (बोधिसत्त्वस्य) एवंरूपं प्रज्ञाबलाधिष्ठानं भवति, एवंरूपेण च प्रज्ञाबलाधिष्ठानेन समन्वागतो भवति / सचेद्ये सर्वस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे मारा भवेयुः, ते सर्वे महतीभिर्मारपर्षद्भिः सार्धं तं बोधिसत्त्वं प्रज्ञापारमितायां चरन्तमुपसंक्रमेयुर्विहेठाभिप्रायाः / ते ऽपि सर्वे सुविक्रान्तविक्रामिन् माराः पापीयांसो न प्रभवन्त्यन्तरायं कर्तुम् / तत्कस्माद्धेतोः? तथारूपेण हि प्रज्ञाबलाधानेन प्रज्ञाखड्गेन प्रज्ञाशस्त्रेण तस्मिन् समये बोधिसत्त्वः समन्वागतो भवति / अचिन्त्यया सुविक्रान्तविक्रामिन् प्रज्ञया अप्रमेयया असमसमया बोधिसत्त्वस्तदा समन्वागतो भवति / तेन तं न प्रतिबलो भवति मारः पापीयानभिभवितुम् /
महाशस्त्रं ह्येतत्सुविक्रान्तविक्रामिन् यदुत प्रज्ञाशस्त्रम्, महाखड्गो ह्येष सुविक्रान्तविक्रामिन् यदुत प्रज्ञाखड्गः, यत्रागतिरविषयो माराणां पापीयसाम्, अभूमिर्माराणां पापीयसाम् / ये ऽपि तावत्सुविक्रान्तविक्रामिन् बाह्या ऋषयश्चतुर्णां ध्यानानां लाभिनः, चतसृणां वा आरूप्यसमापत्तीनाम्, ये मारविषयं कामधातुमतिक्रम्य ब्रह्मलोके चोपपद्यन्ते चतुर्षु च आरूप्येषु (वैद्य 60) सदेवनिकायेषु, तेषामपि तावदगतिरविषयः यदुत एवंरूपायां प्रज्ञायाम्, या बोधिसत्त्वस्य प्रज्ञा प्राकृता, किं पुनर्या प्रज्ञापारमितायां चरतः प्रज्ञा, कः पुनर्वादो माराणां पापीयसां येषामविषयो रूपरूप्यधातौ / बलाधानप्राप्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्तस्मिन् समये भवति महाबलाधानसमन्वागतो यदुत प्रज्ञापारमिताबलेन / ये खलु केचित् सुविक्रान्तविक्रामिन् प्रज्ञापारमिताबलेन समन्वागता भवन्ति तीक्ष्णेन प्रज्ञाशस्त्रेण, अधृष्यास्ते भवन्ति मारैः पापीयोभिरनाक्रमणीयाः / ये केचित् सुविक्रान्तविक्रामिन् प्रज्ञाबलेन समन्वागता भवन्ति तीक्ष्णेन च प्रज्ञाशस्त्रेण, न ते क्वचिन्निश्रयं कुर्वन्ति, अनिश्रितास्ते भवन्ति / तत्कस्माद्धेतोः? निश्रये हि सुविक्रान्तविक्रामिन् सति चलितं भवति, चलिते सति स्पन्दना भवति, स्पन्दनायां सत्यां प्रपञ्चना भवति / येषां केषांचित् सुविक्रान्तविक्रामिन् निश्रयश्च भवति चलितं च भवति स्पन्दितं च भवति प्रपञ्चना (च) भवति, ते मारस्य पापीयसो वशगता भवन्ति, अपरिमुक्ताश्च भवन्ति ते मारविषयात् / ये ऽपि तावत् सुविक्रान्तविक्रामिन् यावद् भवाग्रोपपन्नाः सत्त्वा निश्रिता निश्रयनिबद्धा निश्रयाध्यासिताः, ते ऽप्यागमिष्यन्ति पुनर्मारविषयम् /
अपरिमुक्ताश्च ते मारपाशेभ्यः, अनुगतसूत्राश्च ते मारपाशैः / तद्यथा उद्रकश्च रामपुत्रः आराडश्च कालामः, ये वा पुनरन्ये ऽपि केचिन्निश्रिता आरूप्येषु निश्रयविनिबद्धा निश्रयाध्याश्रिताः / बोधिसत्त्वस्तु पुनः सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन् प्रज्ञापारमितायां योगमापद्यमानः न क्वचिन्निश्रयं करोति, अनिश्रितो भवति सर्वत्र /
यस्मिन् खलु पुनः समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमिताभावनायोगमनुयोक्तो विहरति, तस्मिन् समये न रूपनिश्रितो भवति, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितो भवति, न विपर्यासनीवरणदृष्टिगतनिश्रितो भवति, न नामरूपनिश्रितो भवति, न कामरूपारूप्यधातुनिश्रितो भवति, नात्मसत्त्वसंज्ञानिश्रितो भवति, न जीवपुद्गलधात्वायतननिश्रितो भवति, न पृथिव्यप्तेजोवाय्वाकाशविज्ञानेनैवसंज्ञानासंज्ञायतननिश्रितो भवति, न तृष्णानिश्रितो भवति, न भवतृष्णानिश्रितो भवति, नोच्छेदतृष्णानिश्रितो भवति, नान्तानन्तनिश्रितो भवति, न प्रतीत्यसमुत्पादनिश्रितो भवति, न दानमात्सर्यनिश्रितो भवति, न शीलशौःशील्यनिश्रितो भवति, न क्षान्तिव्यापादनिश्रितो भवति, न वीर्यकौसीद्यनिश्रितो भवति, न ध्यानविक्षेपनिश्रितो भवति, न प्रज्ञादौष्प्रज्ञ्यनिश्रितो भवति, नाविपर्याससम्यक्प्रहाणाप्रमाणस्मृत्युपस्थाननिश्रितो भवति, नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिनिश्रितो भवति, न दुःखसमुदयनिरोधमार्गनिश्रितो भवति, नानुत्पादज्ञानक्षयज्ञानानभिसंस्कारज्ञाननिश्रितो भवति, न विद्याविमुक्तिनिश्रितो भवति, न विमुक्तिज्ञानदर्शननिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धभूमिनिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धधर्मनिश्रितो भवति, न नीवरणनिश्रितो भवति, नातीतानागतप्रत्युत्पन्नासङ्गतानिश्रितो भवति, न त्र्यध्वसमतानिश्रितो भवति, न बुद्धज्ञानबलवैशारद्यनिश्रितो भवति, न सर्वज्ञज्ञाननिश्रितो (वैद्य 61) भवति, न लक्षणसंपत्तिनिश्रितो भवति, न बुद्धक्षेत्रसंपन्निश्रितो भवति, न
श्रावकव्यूहसंपन्निश्रितो भवति, न बोधिसत्त्वव्यूहसंपन्निश्रितो भवति /
स सर्वधर्मैश्चानिश्रितो न चलति न संचलति, निश्रयाश्च तेन सर्वे विभाविता भवन्ति / अनिश्रितश्च स मार्गमपि नाभिनिविशते, अनिश्रयं न मन्यते / सो ऽयं निश्रय इति नोपलभते, इह निश्रय इति नोपलभते, अस्य निश्रय इति नोपलभते न मन्यते, अस्मान्निश्रय इति नोपलभते न मन्यते / सर्वनिश्रयानमन्यमानो ऽनुपलभमानो ऽनभिनिविशमानः न क्वचिन्निश्रयमुपैति नोपदिशति नाभिनन्दति नाध्यवसाय तिष्ठति / स सर्वनिश्रयानुपलिप्तो ऽसक्तः सर्वधर्मनिश्रयविशुद्धिमनुप्राप्नोति / इदं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मनिश्रयविशुद्धिज्ञानदर्शनं प्रज्ञापारमितायां चरतः, येनास्य माराः पापीयांसो ऽवतारं न लभन्ते, अनाक्रमणीयश्च भवति सर्वमारैः पापीयोभिः, अभिभवति च मारान् पापीयस इति //
आर्यप्रज्ञापारमितायां चर्यापरिवर्तः षष्ठः //
स्तर्त् स्व्प् 7
7 अनुशंसापरिवर्तः सप्तमः /
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्व आदित एव अनुत्तरायां सम्यक्संबोधावुत्पन्ने चित्ते बहुकुशलमूलसंभारसमुदागतश्च भवति, बहुबुद्धपर्युपासितश्च भवति, बहुबुद्धपरिपृच्छकश्च भवति, कृताधिकारश्च भवति बुद्धानां भगवताम्, अध्याशयसंपन्नश्च भवति, दानसंविभागरतश्च भवति, शीलविशुद्धिगुरुकश्च भवति, क्षान्तिसौरत्यसंपन्नश्च भवति, वीर्यवांश्च भवति, वीर्यविशुद्धिगुरुकः, ध्यानविशुद्धिगुरुकश्च भवति, प्रज्ञावांश्च भवति, प्रज्ञाविशुद्धिगुरुकः / सो ऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य प्रज्ञापारमितायामभियुक्तो मारान् पापीयसो ऽधितिष्ठति तेन प्रज्ञाबलेन च - यथा मे माराः पापीयांसो ऽवतारं न लभेरन्, मा च मे विहेठां कुर्युः / तस्याधिष्ठाने मारा अवतारं न लभन्ते, न चास्यान्तरायाय प्रत्युपस्थिता भवन्ति, नापि चित्तमुत्पादयन्ति - किमिति वयमस्य बोधिसत्त्वस्य अवतारं गवेषामहे, विहेठनां कुर्यामह इति / सचेत्तेषां चित्तमुत्पद्यते ऽन्तरायाय, ततो महाव्यसनमात्मनः संजानते, भयं च तेषां महत्प्रत्युपस्थितं भवति, संविग्नाश्च भवन्ति - मा वयं सर्वेण सर्वं न भविष्याम इति / ते तद्विहेठनाचित्तं पुनरपि प्रतिसंहरन्ति / पुनरपि तेषां ते चित्तोत्पादा अन्तर्धीयन्ते / अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसो ऽन्तरायाय प्रयुपस्थिता अवतारं न लभन्ते //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां भाष्यमाणायां देश्यमानायां छन्दश्च अध्याशयश्च गौरवं व चित्रीकारश्च शास्तृसंज्ञा च उत्पादिता भवति / न च षट्पारमितासंयुक्तायां कथायां भाष्यमाणायां काङ्क्षा वा विमतिर्वा विचिकित्सा वा उत्पादिता भवति, नापि गम्भाईरान् धर्मान् श्रुत्वा काङ्क्षायितत्वं वा धन्धायितत्वं वा विचिकित्सायितत्वं वा उत्पादितं भवति, नाप्यनेन जातु धर्मव्यवसनसंवर्तनीयं कर्मोपचितं भवति, नाप्यनेन जातु धर्मव्यसनसंवर्तनीयं चित्तमुत्पादितं भवति / अन्ये च बहवः सत्त्वाः प्रज्ञापारमितायां समादापिता भवन्ति, सर्वासु षट्पारमितासु संहर्षिता भवन्ति समुत्तेजिताः / तस्य पूर्वाशयचित्तविशुद्धितया पूर्वाशयासंक्लिष्टतया न माराः पापीयांसो ऽन्तरायाय प्रत्युपस्थिता भवन्ति, नापि तस्य माराः पापीयांसो ऽवतारं लभन्ते / सर्वाणि च मारकर्माण्युत्पन्नोत्पन्नानि बुध्यते / न च मारकर्मभिः संह्रियते, न च मारकर्मवशगो भवति / अनेनापि सुविक्रान्तविक्रामिन् पर्यायेण बोधिसत्त्वस्य माराः पापीयांसो न विहेठाय प्रत्युपस्थिता भवन्ति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपयोगनिमित्ते चरति, न रूपविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविसंयोगनिमित्ते चरति / न रूपलक्षणयोगनिमित्ते चरति, न रूपलक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति / न लक्षणविसंयोगनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानलक्षणसंयोगनिमित्ते चरति / न रूपविशुद्धिनिमित्ते चरति, न रूपविशुद्ध्यनिमित्ते चरति, न वेदनासंज्ञासंस्कारविज्ञानविशुद्धिनिमित्ते (वैद्य 63) चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानविशुद्धिनिमित्ते चरति / न रूपारम्बणविशुद्धिनिमित्ते चरति, न रूपारम्बणविशुद्ध्यनिमित्ते चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणविशुद्धिनिमित्ते चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणविशुद्ध्यनिमित्ते चरति / रूपसंभवविशुद्धिसंयोगे चरति, न रूपसंभवविशुद्धिविसंयोगे चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानसंभवविशुद्धिसंयोगे चरति, न विज्ञानसंभवविशुद्धिविसंयोगे चरति / न रूपारम्बणस्वभावविशुद्धिसंयोगे चरति, न रूपारम्बणस्वभावविशुद्धिविसंयोगे चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणस्वभावविशुद्धिसंयोगे चरति, न विज्ञानारम्बणस्वभावविशुद्धिविसंयोगे चरति / न रूपप्रकृतिविशुद्धौ चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानप्रकृतिविशुद्धौ चरति /
न रूपारम्बणप्रकृतिविशुद्धिसंयोगे चरति, न रूपारम्बणप्रकृतिविशुद्धिविसंयोगे चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणप्रकृतिविशुद्धिविसंयोगे चरति / न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति / न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धौ चरति / न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति / न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न रूपारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिसंयोगे चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणातीतानागतप्रत्युत्पन्नविशुद्धिविसंयोगे चरति / एवं चरन् न रूपेण संयुज्यते न विसंयुज्यते / न वेदनासंज्ञासंस्कारविज्ञानैः संयुज्यते न विसंयुज्यते / न नामरूपेण संयुज्यते न विसंयुज्यते / न विपर्यासदृष्टिगतैः संयुज्यते न विसंयुज्यते / न कामरूपारूप्यधातुभिः संयुज्यते न विसंयुज्यते / न रागद्वेषमोहैः संयुज्यते न विसंयुज्यते / नात्मसत्त्वजीवपुद्गलभावाभावसंज्ञया संयुज्यते न विसंयुज्यते /
नोच्छेदशाश्वतेन संयुज्यते न विसंयुज्यते / न धात्वायतनैः संयुज्यते न विसंयुज्यते / न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातुभिः संयुज्यते न विसंयुज्यते / न प्रतीत्यसमुत्पादेन संयुज्यते न विसंयुज्यते / न पञ्चभिः कामगुणैः संयुज्यते न विसंयुज्यते / न संक्लेशव्यवदानेन संयुज्यते न विसंयुज्यते / न दानमात्सर्येण संयुज्यते न विसंयुज्यते / न शीलदौःशील्येन संयुज्यते न विसंयुज्यते / न क्षान्तिव्यापादेन संयुज्यते न विसंयुज्यते / न वीर्यकौसीद्येन संयुज्यते न विसंयुज्यते / न ध्यानविक्षेपेण संयुज्यते न विसंयुज्यते / न प्रज्ञादौष्प्रज्ञ्यचित्ततया संयुज्यते न विसंयुज्यते / नाविपर्याससम्यक्प्रहाणस्मृत्युपस्थानर्द्धिपादैः संयुज्यते न विसंयुज्यते / नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिभिः संयुज्यते न विसंयुज्यते / न दुःखसमुदयनिरोधमार्गैः संयुज्यते न (वैद्य 64) विसंयुज्यते / न शमथविदर्शनाभ्यां संयुज्यते न विसंयुज्यते / न विद्याविमुक्तिभ्यां संयुज्यते न विसंयुज्यते / न विमुक्तिज्ञानदर्शनेन संयुज्यते न विसंयुज्यते / नाभिज्ञाभिः संयुज्यते न विसंयुज्यते / न पृथग्जनश्रावकप्रत्येकबुद्धभूमिभिः संयुज्यते न विसंयुज्यते / नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानैः संयुज्यते न विसंयुज्यते / न संसारनिर्वाणाभ्यां संयुज्यते न विसंयुज्यते / न बुद्धज्ञानबलवैशारद्यैः संयुज्यते न विसंयुज्यते / न लक्षणसंपदा संयुज्यते न विसंयुज्यते / न बुद्धक्षेत्रव्यूहैः संयुज्यते न विसंयुज्यते / न दुःखसमुदयनिरोधमार्गैः संयुज्यते न विसंयुज्यते /
न श्रावकप्रत्येकबुद्धबोधिसत्त्वसंपदा संयुज्यते न विसंयुज्यते / तत्कस्माद्धेतोः? सर्वधर्मा हि सुविक्रान्तविक्रामिन् न संयुक्ता न विसंयुक्ताः / तत्कस्माद्धेतोः? न हि सुविक्रान्तविक्रामिन् सर्वधर्माः संयोगेन प्रत्युपस्थिता न विसंयोगेन / संयोग इति हि सुविक्रान्तविक्रामिन् शाश्वतपदमेतत्, विसंयोग इत्युच्छेद एषः / सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चिदवबोधः येन संयुज्येरन् वा विसंयुज्येरन् वा / सर्वधर्माणां हि सुविक्रान्तविक्रामिन् न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय / सचेत् सुविक्रान्तविक्रामिन् धर्माणां कश्चित्संयोजयिता वा विसंयोजयिता वा अभविष्यत्, लब्धो ऽभविष्यद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता (वा), वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा / प्रज्ञापयेत्तथागतः - अयमसौ धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा / यस्मात्तर्हि विक्रान्तविक्रामिन् सर्वधर्माणां न कश्चित्संयोगाय प्रत्युपस्थितो न विसंयोगाय, तस्मान्न कश्चिद्धर्माणां कारको वा कारयिता वा, उत्थापको वा उत्थापयिता वा, समुत्थापको वा समुत्थापयिता वा, वेदको वा वेदयिता वा, ज्ञाता वा ज्ञापयिता वा, संयोजको वा विसंयोजको वा समुपलभ्यते / अनुपलभ्यमाने वा तथागतः प्रज्ञपयति / विपर्याससमुत्थिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः / न च विपर्यासः केनचित्संयुक्तो वा विसंयुक्तो वा /
तत्कस्माद्धेतोः? न हि सुविक्रान्तविक्रामिन् विपर्यासस्य वस्तूपलभ्यते, नापि संभव उपलभ्यते / तत्कस्माद्धेतोः? अभूतो हि सुविक्रान्तविक्रामिन् विपर्यासः, वितथो मृषाधर्मस्तुच्छः / न चात्र कश्चिद्धर्म उपलभ्यते यो ऽसौ विपर्यास इत्युच्येत / विपर्यास इति सुविक्रान्तविक्रामिन् विप्रतिलम्भ एष सत्त्वानाम्, उल्लापनैषा सत्त्वानाम्, अभूतपरिकल्प एष सत्त्वानाम्, मन्यना स्पन्दना प्रपञ्चनैषा सत्त्वानाम् / तद्यथापि नाम सुविक्रान्तविक्रामिन् बालदारको रिक्तेन मुष्टिनोल्लापितः संजानाति भूतमिति, एवमेव सुविक्रान्तविक्रामिन् बालपृथग्जना उच्छेदेन विपर्यासेनोल्लापिता मूढा एवं मन्यन्ते - भूतमेतदिति / ते अभूते भूतसंज्ञिनो विपर्यासग्रस्ता दुर्मोच्या भवन्ति तस्माद्विपर्यासात् / एवं सुविक्रान्तविक्रामिन् सर्वबालपृथग्जना असंयुक्ता अविसंयुक्ता बन्धनबद्धाः संधावन्ति / ते (वैद्य 65) संयोग इति मन्यन्ते, ते संयोग इत्युपलभन्ते, संयोग इति स्थापितं पश्यन्ति, संयोग इत्यभिनिविशन्ते / यत्र सुविक्रान्तविक्रामिन् संयोगः, तत्र विसंयोगः / यः पुनः संयोगं नोपलभते न मन्यते नाभिनिविशते, न विसंयोगमपि स मन्यते, सो ऽत्यन्तविमुक्तः / सचेद्विसंयोगं मन्येत वा उपलभेत वा अभिनिविशेत वा, संयुक्त एवासौ भवेन्न विसंयुक्तः / तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इममर्थवशं संपश्यन् न केनचिद्धर्मेण संयुज्यते न विसंयुज्यते, नापि कस्यचिद्धर्मस्य संयोगाय प्रत्युपस्थितो भवति न विसंयोगाय / इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य संयोगविसंयोगपरिज्ञा प्रज्ञापारमितायां चरतः /
एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वधर्माणां पारमधिगच्छति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपासङ्गतायां चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानासङ्गतायां चरति / न रूपासङ्गविशुद्धौ चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानसङ्गविशुद्धौ चरति / न रूपासङ्गारम्बणे चरति, न वेदना - न संज्ञा - न संस्कार - न विज्ञानासङ्गारम्बणे चरति / न रूपासङ्गतासंयोगे चरति, न रूपासङ्गताविसंयोगे चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानासङ्गतासंयोगे चरति, न विज्ञानासङ्गताविसंयोगे चरति / न रूपासङ्गताविशुद्धिसंयोगे चरति, न रूपासङ्गताविशुद्धिविसंयोगे चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानासङ्गताविशुद्धिसंयोगे चरति, न विज्ञानासङ्गताविशुद्धिविसंयोगे चरति / न रूपारम्बणविशुद्धिसंयोगे चरति, न रूपारम्बणविशुद्धिविसंयोगे चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानारम्बणविशुद्धिसंयोगे चरति, न विज्ञानारम्बणविशुद्धिविसंयोगे चरति / तत्कस्माद्धेतोः? सर्वाणि ह्येतानि सुविक्रान्तविक्रामिन् न इञ्जितानि निमित्तानि स्पन्दितानि चरितानि विचरितानि बोधिसत्त्वेन परिज्ञातानि / स न क्वचिद्भूयश्चरति विचरति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गतायां चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गतायां चरति, न विज्ञानातीतानागतप्रत्युत्पन्नसङ्गनायां चरति / न रूपातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नाविशुद्धौ चरति / न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न रूपातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति / न वेदना - न संज्ञा - न संस्कार - न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणविशुद्धौ चरति, न विज्ञानातीतानागतप्रत्युत्पन्नासङ्गारम्बणाविशुद्धौ चरति / तत्कस्माद्धेतोः? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरंश्चर्यां समनुपश्यति / अचर्येयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वचर्या / प्रज्ञाप्रवेशश्चैष प्रज्ञापारमितायां चरतः / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्वः प्रज्ञापारमितायां चरन् न रूपं विवृतमिति चरति, न रूपमविवृतमिति चरति / न वेदना व संज्ञा न संस्काराः / न विज्ञानं विवृतमिति चरति, न विज्ञानमविवृतमिति चरति / न रूपं शान्तमिति चरति, रूपमशान्तमिति चरति / न वेदना न संज्ञा न संस्काराः / न विज्ञानं शान्तमिति चरति, न विज्ञानमशान्तमिति चरति / न रूपं प्रकृतिविवृतमिति चरति, न रूपं प्रकृत्यविवृतमिति चरति / न वेदना व संज्ञा न संस्काराः / न विज्ञानं प्रकृतिविवृतमिति चरति, न विज्ञानं प्रकृत्यविवृतमिति चरति / न रूपं प्रकृतिअशान्तमिति अशान्तमिति चरति / न वेदना न संज्ञा न संस्काराः / न विज्ञानं प्रकृतिशान्तमिति अशान्तमिति चरति / न रूपमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति / न रूपमतीतानागतप्रत्युत्पन्नं प्रकृत्यविविक्तं चा प्रकृत्यशान्तं वा चरति / न वेदना न संज्ञां न संस्काराः / न विज्ञानमतीतानागतप्रत्युअत्पन्नं प्रकृतिविविक्तं वा प्रकृतिशान्तं वा चरति, न विज्ञानमतीतानागतप्रत्युत्पन्नं प्रकृतिविविक्तं वा प्रकृत्तिशान्तं वा चरति / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् रूपं न मन्यते / एवं न वेदनां न संज्ञां न संस्कारान् / न विज्ञानं मन्यते / रूपविशुद्धिं न मन्यते, रूपारम्बणविशुद्धिं न मन्यते / एवं वेदना संज्ञा संस्काराः / विज्ञानविशुद्धिं न मन्यते, विज्ञानारम्बणविशुद्धिं न मन्यते //
पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः (प्रज्ञापारमितायां चरन्) रूपं नाभिनिविशते / एवं वेदनां संज्ञां संस्कारान् / विज्ञानं नाभिनिविशते / रूपविशुद्धिं नाभिनिविशते / एवं वेदनासंज्ञासंस्काराः / विज्ञानविशुद्धिः नाभिनिविशते / रूपारम्बणविशुद्धिं नाभिनिविशते / एवं वेदनासंज्ञासंस्काराः / विज्ञानारम्बणविशुद्धिं नाभिनिविशते / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिं गच्छति / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवति दशानां तथागतबलानाम्, चतुर्णां तथागतवैशारद्यानाम्, अष्टादशानामावेणिकानां बुद्धधर्माणाम्, महामैत्र्या महाकरुणाया महामुदिताया महोपेक्षायाः / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो द्वात्रिंशतां महापुरुषलक्षणनाम् / आसन्नो भवति सुवर्णवर्णच्छवितायाः / आसन्नो भवति तथागतानन्तप्रभतायाः / आसन्नो भवति नागावलोकितस्य / आसन्नो भवत्यनवलोकितमूर्धतायाः / आसन्नो भवत्यतीतानागतप्रत्युत्पन्नसङ्गज्ञानदर्शनस्य / आसन्नो भवति तथागतानुवादानुशासनीप्रातिहार्यस्य / आसन्नो भवति अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनव्याकरणस्य / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वबुद्धधर्मपरिपूरिमधिगच्छति / (वैद्य 67) एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं बुद्धक्षेत्रपरिशुद्धिमधिगच्छति / क्षिप्रं श्रावकबोधिसत्त्वव्यूहसंपदं परिगृह्णाति / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपे प्रतिष्ठते, न वेदनासंज्ञासंस्कारविज्ञानेषु प्रतिष्ठते / न नामरूपे प्रतिष्ठते / न विपर्यासनीवरणदृष्टिगतेषु प्रतिष्ठते /
न कामरूपारूप्यधातौ प्रतिष्ठते, नात्मधातौ, न सत्त्वधातौ प्रतिष्ठते / न पुद्गलजीवसंज्ञायां प्रतिष्ठते / न पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातौ प्रतिष्ठते / न धात्वायतनेषु प्रतिष्ठते / न संक्लेशव्यवदाने प्रतिष्ठते / न प्रतीत्यसमुत्पादे प्रतिष्ठते / न त्यागमात्सर्ये प्रतिष्ठते / न शीलदौःशील्ये प्रतिष्ठते / न क्षान्तिव्यापादे प्रतिष्ठते / न वीर्यकौसीद्ये प्रतिष्ठते / न ध्यानविक्षेपे प्रतिष्ठते / न प्रज्ञादौष्प्रज्ञ्ये प्रतिष्ठते / न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु प्रतिष्ठते / न ध्यानविमोक्षसमाधिसमापत्तिषु प्रतिष्ठते / न दुःखसमुदयनिरोधमार्गेषु प्रतिष्ठते / न क्षयानुत्पादाभिसंस्कारज्ञानेषु प्रतिष्ठते / न शमथविदर्शनायां प्रतिष्ठते / नाभिज्ञासु प्रतिष्ठते / न विद्याविमुक्तौ प्रतिष्ठते / न श्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिषु प्रतिष्ठते / न पृथग्जनश्रावकप्रत्येकबुद्धधर्मेषु प्रतिष्ठते / न निर्वाणे प्रतिष्ठते / न बुद्धज्ञानबलवैशारद्येषु प्रतिष्ठते / नासङ्गज्ञाने प्रतिष्ठते / नातीतानागतप्रत्युत्पन्नज्ञानदर्शनेषु प्रतिष्ठते / न बुद्धक्षेत्रसंपदि प्रतिष्ठते / न श्रावकव्यूहसंपदि प्रतिष्ठते / न बोधिसत्त्वव्यूहसंपदि प्रतिष्ठते / तत्कस्माद्धेतोः? अप्रतिष्ठिता हि सुविक्रान्तविक्रामिन् सर्वधर्माः / न हि सुविक्रान्तविक्रामिन् सर्वधर्माणां प्रतिष्ठानं विद्यते / तत्कस्माद्धेतोः? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनालयाः / अनालयत्वान्न प्रतिष्ठन्ते /
सचेत्सुविक्रान्तविक्रामिन् धर्माणां प्रतिष्ठानमभविष्यत्, आलयो वा कूटस्थो वा धर्माणामभविष्यत्, नि(न्य?) दर्शयिष्यत्तथागतो धर्माणां प्रतिष्ठानम् - इदं धर्माणां प्रतिष्ठानम्, अयं धर्माणामालयः, अयं धर्माणां संचय इति / यस्मात्तर्हि सुविक्रान्तविक्रामिन् सर्वधर्मा अप्रतिष्ठिताः अनालयाः असंचयाः, तस्मान्न कश्चिद्धर्मः कूटस्थः / तस्मात्तथागतो धर्माणां प्रतिष्ठानं वा आलयं वा संचयं वा न निर्दिशति / न हि सुविक्रान्तविक्रामिन् धर्माः परिनिष्पन्नाः, नापि स्वभावः कश्चित्, असंभवादपरिनिष्पत्तितो धर्माणां न कश्चिदवतिष्ठते / तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति / अस्थानयोगेन अनधिष्ठानयोगेन सुविक्रान्तविक्रामिन् अप्रतिष्ठिताः सर्वधर्माः / नास्ति सुविक्रान्तविक्रामिन् सर्वधर्माणां स्थितिः / तद्यथापि नाम सुविक्रान्तविक्रामिन् चतसृणां महानदीनामनवतप्तात् सरसः प्रस्रवन्तीनां नास्त्यधिष्ठानमन्यत्र महासमुद्रात्, एवमेव सुविक्रान्तविक्रामिन् सर्वधर्माणां नास्ति स्थितिः, यावदनभिसंस्कारं न क्षपयन्ति / अनभिसंस्कार इति सुविक्रान्तविक्रामिन् न तत्र स्थानं नास्थानं नाधिष्ठानम्, सर्वत्रैषा गणना नास्ति / स्थानमिति वा अधिष्ठानमिति वा अस्थानमिति वा अभिसंस्कार इति सुविक्रान्तविक्रामिन् गणनैषा निर्दिष्टा / यथासत्त्वप्रवृत्तिसंदर्शनमेतत्कृतमस्थानं वा स्थानं वा प्रतिष्ठानं वा / नानभिसंस्कारे काचिद्भूय इयं गणना / तेनोच्यते अप्रतिष्ठिताः सर्वधर्मा इति / अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्माप्रतिष्ठानयोगः (वैद्य 68) प्रज्ञापारमितायां चरतः /
एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः क्षिप्रं सर्वज्ञधर्मान् परिपूरयति, आसन्नश्च भवत्यनुत्तरायां सम्यक्संबोधौ, क्षिप्रं च बोधिमण्डमुपसंक्रामति, क्षिप्रं च सर्वज्ञज्ञानं प्रतिलभते, क्षिप्रं च अतीतानागतप्रत्युत्पन्नज्ञानपरिपूरिमधिगच्छति, क्षिप्रं च सर्वसत्त्वचित्तचरितविस्पन्दितानां पारं गच्छति //
तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन महासत्त्वेन अर्थं कर्तुकामेन, सर्वसत्त्वानां दानं दातुकामेन, सर्वसत्त्वान् धर्मदानेन संतर्पयितुकामेन, सर्वसत्त्वानामविद्याण्डकोशं भेत्तुकामेन, सर्वसत्त्वानां महाज्ञानं बुद्धज्ञानमुपसंहर्तुकामेन, सर्वसत्त्वानामनुकम्पकेन भवितुकामेन, सर्वसत्वानां हितैषिणा भवितुकामेन, सर्वसत्त्वानां धर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां भोगसुभिक्षं कर्तुकामेन, सर्वसत्त्वां शीलभिक्षं कर्तुकामेन, सर्वसत्त्वानां क्षान्तिसौरत्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वां वीर्यसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां ध्यानभिक्षं कर्तुकामेन, सर्वसत्त्वानां प्रज्ञासुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विमुक्षिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां स्वर्गोपपत्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां विद्याविमुक्तिसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां वुमुक्तिज्ञानदर्शनसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां नीवरणसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां बुद्धधर्मसुभिक्षं कर्तुकामेन, सर्वसत्त्वानां सर्वगुणसंपत्सुभिक्षं कर्तुकामेन, धर्मचक्रं प्रवर्तयितुकामेन अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा पुनः केनचिल्लोकेन सहधर्मेण, धर्मसांकथ्यं कर्तुकामेन, बुद्धभूमौ व्याकर्तुकामेन, श्रावकभूमौ व्याकर्तुकामेन, प्रत्येकबुद्धभूमौ व्याकर्तुकामेन, सर्वसत्त्वानां पूर्वप्रणिधानकुशलमूलानि संचोदयितुकामेन अस्यां प्रज्ञापारमितायां शिक्षितव्यं घटितव्यं व्यायच्छितव्यं प्रज्ञापारमिताभावनायोगमनुयुक्तेन भवितव्यम् / नाहं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य कंचिद्धर्ममेवं क्षिप्रं परिपूरिकरं समनुपश्यामि सर्वधर्माणां यथेह प्रज्ञापारमितायां यथानिर्दिष्टायामभियोगः प्रतिपत्तिः अस्य विहारस्यानुत्सर्गः यदुत प्रज्ञापारमिताविहाराय //
ये केचित्सुविक्रान्तविक्रामिन् बोधिसत्त्वा अस्यां प्रज्ञापारमितायां चरन्ति, निष्ठा तत्र गन्तव्या - आसन्ना इमे बोधिसत्त्वा अनुत्तरायां सम्यक्संबोधिविति / येषां केषांचित् सुविक्रान्तविक्रामिन् इयं प्रज्ञापारमिता श्रोत्रावभासमप्यागमिष्यति, श्रुत्वा चाधिमोक्ष्यन्ति अभिनन्दिष्यन्ति, भूतसंज्ञां चोत्पादयिष्यन्ति, तेषामप्यहं कुशलमूलमनुत्तरायाः सम्यक्संबोधेराहारकं वदामि - निष्ठा च तत्र गन्तव्या - महाप्रज्ञासंभारोपचिता ह्येते कुलपुत्रा वा कुलदुहितरो वा, अन्यानि च कुशलमूलानि परिगृह्णन्तीति / येषां च सुविक्रान्तविक्रामिन् बोधिसत्त्वानामयं प्रज्ञापारमितोपायकौशल्यपरिवर्तनिर्देशो हस्तं गमिष्यति, किंचापि तत्र केचिन्न व्याकृता भविष्यन्ति संमुखं बुद्धैर्भगवद्भिः, अथ च पुनर्वेदितव्यमेतत् - आसन्ना ह्येते व्याकरणस्य, नचिरेणैते संमुखं व्याकरणं प्रतिलप्स्यन्त इति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तन्ते, निष्ठा तत्र गन्तव्या - आसन्ना ह्येते सत्त्वा उत्तरकुरुषूपपत्तेः / एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्यं गमिष्यति, वेदितव्यमेतत् - आसन्नो ऽयमनुत्तरायाः सम्यक्संबोधेरिति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानं प्रयच्छन्ति मुक्तत्यागाश्च भवन्ति, सत्त्वांश्च दानेन प्रियवद्यतया अर्थचर्यया समानार्थतया च संगृह्णन्ति, शीलं च रक्षन्ति, निहतमानाश्च भवति, निष्ठा तत्र गन्तव्या - क्षिप्रमिमे सत्त्वा महाभोगा भवन्त्युच्चकुलीनाश्च //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा दानशीलाश्च भवन्ति शीलसंपन्नाश्च भवन्ति, क्षान्तिसंपन्नाश्च भवन्ति, वीर्यध्यानप्रतिष्ठिताः प्रज्ञया समन्वागताश्च भवन्ति, मैत्री च सत्त्वानामन्तिके उत्पादयन्ति, सत्त्वांश्च शीले समादापयन्ति, अधिपतिसंवर्तनीयं च कर्मोपचिन्वन्ति, वेदितव्यमेतत् - अचिरादेते चक्रवर्तिराज्यं कारयिष्यन्ति इति / एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता हस्तगता भविष्यति, वेदितव्यमेतत् - क्षिप्रमयं बोधिमण्डमुपसंक्रमिष्यतीइति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् यस्य राज्ञः क्षत्रियस्य पूर्णायां पूर्णमास्यां पञ्चदश्यां पुरतो ऽर्थकरणे संनिषण्णस्य चक्ररत्नं प्रादुर्भवति, तत्रैवं वेदितव्यम् - चक्रवर्ती चायं भविष्यति, क्षिप्रं चास्य सप्त रत्नानि प्रादुर्भविष्यन्तीति / एवमेव सुविक्रान्तविक्रामिन् यस्य बोधिसत्त्वस्य अयं प्रज्ञापारमितापरिवर्तो हस्तं गमिष्यति, वेदितव्यमिदम् - क्षिप्रमयं सर्वज्ञतारम्बणैः समन्वङ्गीभविष्यति इति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वा उत्कृष्टकुशलमूलसमन्वागताश्च भविष्यन्ति शोभनसमाचाराश्च भविष्यन्ति, उदाराधिमुक्तिकाश्च भविष्यन्ति, प्रतिकूलसंज्ञा चैषां मानुष्यके आत्मभावे संतिष्ठते, शीलसंपन्नाश्च भवन्ति, महाजनस्य च कृत्यकारिणो भवन्ति, देवोपपत्तिं चाकाङ्क्षन्ति, वेदितव्यमेतत् - क्षिप्रमेते चातुर्महाराजिकानां देवानां सहव्रतायोपपत्स्यन्ते, तत्र चाधिपत्यं कारयिष्यन्ति / ये केचित्सुविक्रान्तविक्रामिन् परिशुद्धतरैः कुशलमूलैः समन्वागता उत्कृष्टकुशलमूलाश्च पूर्वं च दान ददति पश्चात्स्वयं भुञ्जते, प्राक् चान्येषां सत्त्वानां कृत्यानि कुर्वन्ति पश्चादात्मनः, न चाधर्मरागरक्ता भवन्ति, न विषमरागरक्ता भवन्ति, देवैश्वर्याधिपत्यं चाकाङ्क्षन्ति, वेदितव्यमेतत् - अचिरादेते अप्रकम्प्यं देवानां त्रायस्त्रिंशतामैश्वर्याधिपत्यं करिष्यन्ति, शक्राश्च भविष्यन्ति देवानामिन्द्रा इति / एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य इयं प्रज्ञापारमिता उपनंस्यते, निष्ठा तत्र गन्तव्या - क्षिप्रमयं सर्वधर्मैश्वर्याधिपतिवशवर्तितामनुप्राप्स्यतीति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये सत्त्वाश्चतुर्णां ब्रह्मविहाराणां लाभिनो भवन्ति, वेदितव्यमेतत् - क्षिप्रमेते ब्रह्मलोके उपपत्स्यन्त इति / एवमेव सुविक्रान्तविक्रामिन् यस्य (वैद्य 70) कस्यचिद् बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देश उपनंस्यते, वेदितव्यमिदम् - क्षिप्रमयं धर्मचक्रं प्रवर्तयिष्यतीति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् वार्षिकेषु मासेषु प्रत्युपस्थितेषु इयं महापृथिवी मेघान् प्रतीत्य स्निग्धा भवति, अनुपूर्वेण च प्रवर्षति, देवेनाभिष्यन्दमाना उपर्युपरि उदकं प्रवर्षन्ति, येनोत्साहं बहवो ऽनुगच्छन्ति / ये चास्या महापृथिव्यास्तलं संतर्पयन्ति / एवमियं महापृथिवी अभ्यन्तरा च अभिष्यन्दिता स्निग्धा च भवति, उपरिष्टाच्च उदकमुह्यते, यथा निम्नानि च स्थलानि संतर्पयति, एवमियं महापृथिवी उपरिष्टान्मेघैरभिष्यन्दिता सती तृणगुल्मौषधिवनस्पतीनाभिष्यन्दयति / ते ऽभिष्यन्दिताः सन्तो बहून् शाखापत्रपलाशान् मुञ्चन्ति बहुपुष्पफलाश्च भवन्ति, तदा चेयं महापृथिवी मनोज्ञगन्धमुत्सृजति / एवमियं महापृथिवी पुष्पफलोत्ससरस्तडागैस्तस्मिन् समये उपशोभिता भवति / ततश्च तुष्टा भवन्ति मनुष्याश्च अमनुष्याश्च तानि पुष्पफलानि परिभुञ्जमानास्तं च गन्धं जिघ्रन्तः / एवमेव सुविक्रान्तविक्रामिन् यदा बोधिसत्त्वस्य इयं प्रज्ञापारमिता अभिमुखी भवति, अस्यां च प्रज्ञापारमितायां योगमापद्यते, वेदितव्यमेतत् सुविक्रान्तविक्रामिन् अचिरेणायं बोधिसत्त्वो ऽभिष्यन्दितः सर्वज्ञज्ञानेन, सर्वज्ञज्ञानं विवरिष्यति, सर्वज्ञज्ञानं प्रकाशयिष्यति, तेन च सत्त्वानार्द्रीकरिष्यत्यनुत्तरधर्मरत्नप्रकाशनतायै //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये ऽनवतप्तस्य नागराजस्य भवने सत्त्वा उपपन्नाः, ते चत्वारो महानदीरुत्सृजति या महासमुद्रं संतर्पयन्ति / एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामियं प्रज्ञापारमिता हस्तमुपनंस्यति, अस्यां न शिक्षिष्यन्ते, सर्वे ते महाधर्मधाराः प्रवर्षन्ति, याभिः सर्वसत्त्वान् धर्मदानेन संतर्पयिष्यन्ति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् ये केचित्सत्त्वाः सुमेरोः पर्वतराजस्यान्तिकमुपसंक्रामन्ति, सर्वे ते एकवर्णा भवन्ति यदुत सुवर्णवर्णा भवन्ति / एवमेव सुविक्रान्तविक्रामिन् येषां बोधिसत्त्वानामयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, सर्वे ते एकां गतिं गमिष्यन्ति यदुत तथागतगतिं सर्वज्ञतागतिम् //
तद्यथापि नाम सुविक्रान्तविक्रामिन् सागरो महासमुद्रः सर्वोदकसंधारयिता, नित्यं तत्र सर्वमुदकं समवसरति, एवमेव सुविक्रान्तविक्रामिन् यस्य कस्यचिद्बोधिसत्त्वस्य अयं प्रज्ञापारमितानिर्देशो हस्तगतो भविष्यति, निष्ठा तत्र गन्तव्या - क्षिप्रमयं सर्वधर्मसागरतां सर्वधर्मभाजनतां सर्वधर्मसमवसरणतामनुप्राप्स्यति, क्षिप्रं च धर्मसंकेतेन अक्षोभ्यो भविष्यतीति //
तद्यथापि नाम सुविक्रान्तविक्रामिन् सूर्यमण्डलमभ्युद्गच्छत् सर्वा दिशः प्रभाध्यामीकरोति, एवमेव सुविक्रान्तविक्रामिन् बोधिसत्त्वो ऽस्यां प्रज्ञापारमितायां चरन् सर्वसत्त्वानां धर्मावभासकृत्येन प्रत्युत्पस्थितो भवति, इहाभ्युद्गच्छन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः (वैद्य 71) सर्वसत्त्वानां कुशलमूलावभासेन प्रत्युपस्थितो भवति, सर्वसत्त्वानां च दक्षिणीयतां गच्छति, सर्वसत्त्वानां च पुण्यक्षेत्रविशुद्धिं गच्छति, सर्वसत्त्वानां चाभिगमनीयो भवति, सर्वसत्त्वानां च पूज्यो भवति प्रशंसनीयः //
अस्यां सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो ऽग्रतायां शिक्षते, सर्वसत्त्वानां च निर्वाणपथशोधनाय शिक्षते / तत्कस्माद्धेतोः? एषा हि सुविक्रान्तविक्रामिन् अग्रा शिक्षा ज्येष्ठा वरा प्रवरा अनुत्तरा निरुत्तरा येयं प्रज्ञापारमिताशिक्षा / अस्यां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वः सर्वशिक्षापारमितां प्राप्नोति, सर्वशिक्षाश्च समादाय अभ्युद्गच्छति, सर्वशिक्षाणां च देशयिता भवति, सर्वशिक्षाणां च अभिवाहयिता भवति, अस्यां हि सुविक्रान्तविक्रामिन् शिक्षायामतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वचर्यायां चरन्तः शिक्षिताः शिक्षिष्यन्ते शिक्षन्ते च / अस्यां च शिक्षायां सुप्रतिष्ठिता बुद्धा भगवन्तः सर्वसत्त्वेभ्यो ऽनुत्तरां शिक्षापरिशुद्धिं संप्रकाशितवन्तः, संप्रकाशयन्ति च / तत्कस्माद्धेतोः? सर्वलोकाभ्युद्गतशिक्षा ह्येषा सुविक्रान्तविक्रामिन् यदुत प्रज्ञापारमिताशिक्षा / सर्वलोकविशिष्टा शिक्षा सर्वलोकस्वयंभूशिक्षा यदुत प्रज्ञापारमिताशिक्षा / प्रज्ञापारमितायां शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कस्मिंश्चिद्धर्मे शिक्षितो भवति लौकिके वा लोकोत्तरे वा, संस्कृते वा असंकृते वा, सास्रवे वा अनास्रवे वा, सावद्ये वा अनवद्ये वा / न क्वचित्सङ्गं जनयति, सर्वधर्मासङ्गविहारी भवति / तत्कस्माद्धेतोः? सर्वधर्मा हि सुविक्रान्तविक्रामिन् असक्ता अबद्धा अमुक्ताः / नापि कस्यचिद्धर्मस्य सङ्गेन प्रत्युपस्थिता न बन्धनेन / रूपं हि सुविक्रान्तविक्रामिन् असक्तमबद्धममुक्तम् / वेदनासंज्ञासंस्कारविज्ञानमसक्तमबद्धममुक्तम् / नामरूपमसक्तमबद्धममुक्तम् / विपर्यासदृष्टिगतनीवरणान्यसक्तानि अबद्धानि अमुक्तानि /
रागद्वेषमोहा असक्ता अबद्धा अमुक्ताः / षडाध्यात्मिकान्यायतनानि असक्तानि अबद्धानि अमुक्तानि / षड्बाह्यायतनानि असक्तानि अबद्धानि अमुक्तानि / कामरूपारूप्यधातवो ऽसक्ता अबद्धा अमुक्ताः / आत्मधातुः सत्त्वधातुश्च असक्तो ऽबद्धो ऽमुक्तः / प्रतीत्यसमुत्पादो ऽसक्तो ऽबद्धो ऽमुक्तः / संक्लेशव्यवदानमसक्तमबद्धममुक्तम् / एवं त्यागमात्सर्यशीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यानि असक्तानि अबद्धानि अमुक्तानि / दुःखसमुदयनिरोधमार्गा असक्ता अबद्धा अमुक्ताः / स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाप्रमाणाविपर्यासा अमुक्ताः / इन्द्रियबलबोध्यङ्गसमाधिसमापत्तयो ऽसक्ता अबद्धा अमुक्ताः / पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातवो ऽसक्ता अबद्धा अमुक्ताः / अनुत्पादक्षयाभिसंस्कारज्ञानानि असक्तानि अबद्धानि अमुक्तानि / अविद्याविमुक्ति असक्ते अबद्धे अमुक्ते / अभिज्ञासङ्गता असक्ता अबद्धा अमुक्ता / विद्याविमुक्तिज्ञानदर्शनमसक्तमबुद्धममुक्तम् / पृथग्जनश्रावकप्रत्येकबुद्धधर्मा असक्ता अबद्धा अमुक्ताः / निर्वाणमसक्तमबद्धममुक्तम् / बुद्धज्ञानबलवैशारद्यानि असक्तानि अबद्धानि अमुक्तानि / अतीतानागतप्रत्युत्पन्नासङ्गज्ञानदर्शनमसक्तमबद्धममुक्तम् / तत्कस्माद्धेतोः? सर्वधर्माणां हि सुविक्रान्तविक्रामिन् बन्धनं नोपलभ्यते / असङ्गा अबद्धा हि सुविक्रान्तविक्रामिन् (वैद्य 72) सर्वधर्माः, तेन तेषां विमुक्तिर्नोपलभ्यते / असक्ता इति सुविक्रान्तविक्रामिन् न तेषां कश्चिन्मोचयिता, अपि तु यदेवं सर्वधर्माणां दर्शनम्, इदमुच्यते असङ्गज्ञानदर्शनमिति / असङ्ग इति सुविक्रान्तविक्रामिन् सङ्गानुपलब्धिः /
असङ्गो ऽसङ्गतया, असङ्गो ऽसङ्गभूततया असङ्ग इत्युच्यते / नात्र कश्चिदुपलभ्यते, यः संयुज्येत वा बध्येत वा / यतश्च नोपलभ्यते यः संयुज्यते वा बध्येत वा, तेन असङ्ग इत्युच्यते / अबद्ध इति सुविक्रान्तविक्रामिन् बन्धाननुपलब्धितः, बन्धनाभूततया अबद्ध इत्युच्यते / न हि तत्र किंचिद्बन्धनं विद्यते, नापि तत्र कश्चिदुपलभ्यते यो बद्धः / यतश्च नोपलभ्यते यो बद्धः, तेन अबद्ध इत्युच्यते / यश्च असक्तो ऽबद्धः, कुतस्तस्य मुक्तिः? यश्च न सज्जते न बध्यते, मुक्तो ऽसौ विसंयुक्तः शीतीभूतो विप्रमुक्तः / तत्र न काचिद्भूयो बन्धना / तेनोच्यते विमुक्त इति / मोक्षो ऽस्य भूयो न संविद्यते / अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मासक्ताबद्धामुक्तज्ञानदर्शनप्रवेशः प्रज्ञापारमितायां चरतः / एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्व आसन्नो भवत्यनुत्तरायाः सम्यक्संबोधेः / क्षिप्रं च स सर्वज्ञज्ञानं प्रतिलभते / इमामहं सुविक्रान्तविक्रामिन् मुद्रां स्थापयामि बोधिसत्त्वानां संशयच्छेदाय प्रज्ञापारमितामभियुक्तानां प्रज्ञापारमितायां चरताम् / स्वयमिमं सुविक्रान्तविक्रामिन् मुद्रानिर्देशमधिष्ठास्यामि, न प्रतिबला मम श्रावका इमां प्रज्ञापारमितामुद्रां पश्चिमे काले पश्चिमे समये पश्चिमायां पञ्चशत्यां धारयितुम् //
अथ खलु भगवान् भद्रपालसुसार्थवाहपूर्वंगमानि पञ्चमात्राणि बोधिसत्त्वशतान्यामन्त्रयते स्म सुविक्रान्तविक्रामिणं च बोधिसत्त्वम् - शक्यथ यूयं कुलपुत्रास्तथागते परिनिर्वृते पश्चिमे काले पश्चिमे समये पश्चिमिकायां पञ्चशत्यां सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने संक्षीणकाले इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतं धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम्? एवमुक्ते बोधिसत्त्वा भगवन्तमेतदवोचत् - शक्यामो वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रसमुदानीतमनुत्तरं
धर्मरत्नकोषं प्रज्ञापारमितापूर्वंगमं प्रज्ञापारमिताप्रभवं प्रज्ञापारमिताप्रतिष्ठानं धारयितुम्, परेभ्यश्च विस्तरेण संप्रकाशयितुम् / किंचापि भगवन् स कालो महाभयो महाकान्तारो महाघोरश्च भविष्यति, यद्भूयसा च तस्मिन् समये सत्त्वाः सद्धर्मव्यवनसंवर्तनीयेन कर्मणा समन्वागता भविष्यन्ति, विषमलोभलुब्धा विषमरागरक्ता अधर्मरागरक्ता ईर्ष्यालोभपरीतचेतसः क्रोधनाश्चण्डाः परुषाः दुर्वचसः शठाः कुहका मायाविनो ऽधर्मचारिणः कलहभण्डनविवादविग्रहबहुला असंवरस्थिताः लुब्धा लोभाभिभूताः कुसीदाः हीनवीर्या मुषितस्मृतयो ऽसंप्रज्ञास्तुण्डाः मुखराः प्रगल्भा अन्तर्हृदयप्रतिच्छन्नपापकर्माणः उत्सदरागद्वेषमोहा अविद्याण्डकोषतमोमोहान्धकाराभिभूता मारपक्षानुकूलचारिणः प्रत्यर्थिकाश्च भविष्यन्ति, अस्य गम्भीरस्य धर्मविनयस्य धर्मरत्नकोषस्य अप्रत्युद्गतमनःशीलाश्च भविष्यन्ति, अथ च पुनरुत्सहामहे वयं भगवन् इमं तथागतस्य अनेककल्पकोटीनियुतशतसहस्रकुशलमूलसमुदानीतमनुत्तरं धर्मरत्नकोषं धारयितुं वाचयितुम्, ये च तस्मिन्नन्तकाले परीत्तपरीत्ता अपि (वैद्य 73) सत्त्वा भविष्यन्ति एभिर्धर्मैरर्थिकाः, एषु धर्मेषु शिक्षितुकामा, अशठा ऋजवो ऽमायाविनः, ये जीवितमपि परित्यजेयुः, न पुनरेषां धर्माणां प्रत्यर्थिका भवेयुः, नापीमान् धर्मान् प्रतिक्षिपेयुः, नोप्येभ्यो धर्मेभ्यः पराङ्मुखा भवेयुः, तेषामर्थं करिष्यामः, उत्साहं च दास्यामः, एष्वेवंरूपेषु धर्मेषु संदर्शयिष्यामः, समुत्तेजयिष्यामः संप्रहर्षयिष्यामः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
