Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सुवर्णप्रभाससूत्र

Thông tin
GRETIL — S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

जिनचरणचक्रचित्रं समन्तनेभिस्तथा सहस्राभम् / करचरणजालचित्रं हंसेन्द्र यथा चरणजालम् // suv_7.3 //

काञ्चनगिरिप्रकाशं सुवर्णकनकामलं जिनगिरीन्द्रम् / सर्वगुणमेरुकल्पं बुद्धगिरीन्द्रजिन नमस्यामः // suv_7.4 //

आकाशचन्द्रसदृशमुदकचन्द्रनिभं तथागतशशाङ्कम् / मायामरीचिकल्प विमलजिन नमस्यामः // suv_7.5 //

अथ खलु भगवांश्चतुरो महाराजान्गाथाभिर्बभाषे //

अयं - सुत्रेन्द्रराजप्रवरः सुवर्णप्रभासोत्तमो दशबलानाम् / युष्माभि लोकपालैः पालयितव्यम् ---------- // suv_7.6 //

येनायं सूत्ररतनगम्भीरः सर्वसत्त्व सुखदाता / सत्त्वान हितसुखार्थं चिरं च प्रचरेज्जम्बूद्वीपे ऽस्मिन् // suv_7.7 //

ये च तृसाहस्रमहासाहस्रे लोकधातौ हि / सत्त्वा अपायदुःखा शमयित्वा नरकदुःखानि // suv_7.8 //

ये चेह जम्बुद्विपे गता हि सर्वे राजानस्तु महतः प्रहर्षजाता / धर्मेण च पालयन्तु विषया येनायं जम्बूद्वीपः क्षेमश्च भवेत् // suv_7.9 //

सूभिक्षो रमणीयः सर्वे जम्बूद्वीपे सुखितानि भवन्ति सर्वसत्त्वानि / यस्या नास्ति नरपतेर्विषये प्रियात्मसौख्य प्रयता च राजत्वम् // suv_7.10 //

ऐश्वर्यं प्रियता च श्रोतव्यस्तेन सूत्रराजः परमशत्रुक्षयकरम् / परचक्रनिवर्तनकरपरमभयव्यसहारः परमशुभकरो ऽयं सूत्रेन्द्रराज // suv_7.11 //

यथा रत्नवृक्षः सुरुचिरस्तु सर्वगुणसंभवः सुगृहः संस्थः / तथैवायं सूत्रेन्द्रराज द्रष्टव्यो राजगुणादीनाम् // suv_7.12 //

यथा शीतलहिमसलिलं धर्मतं प्रतिलभत उष्ण अपहरणम् / तथैवायं सूत्रवरेन्द्रो गुणसुखदाता भवति नरपतीनाम् // suv_7.13 //

यथैव हि रत्नकरण्डः सर्वरत्नाकरः करतलस्थः / तथैवायं सूत्रेन्द्रराज स्वर्णप्रभासोत्तमो नृपगणानाम् // suv_7.14 //

देवगण अर्चितो ऽयं देवेन्द्रनमस्कृतश्च सूत्रेन्द्रः / आरक्षितश्चतुर्भिर्महर्द्धिकैर्लोकपालैश्च // suv_7.15 //

बुद्धैहि दशदिशस्थैः सदा समन्वाहृतो ऽयं सूत्रेन्द्रः / सूत्रमिदं देशयतः साधूकार ददन्ति संबुद्धाः // suv_7.16 //

यक्षशतसहस्राणी रक्षन्ति च विषयं दशसु दिशासु / शृण्वन्ति सूत्रेन्द्रमिमं प्रमुदितचित्ताः प्रहृष्टाश्च // suv_7.17 //

जम्बुद्वीपगतानि विविक्तानि देवगणानि / ते सर्वे देवगणाः शृण्वन्तु सूत्रमिदं प्रमुदिताश्च // suv_7.18 //

तेजोबलं वीर्यबलं च लभन्ते तेन धर्मश्रवणेन / महतौजसा च देवां कायान्विवर्धयिष्यन्ति // suv_7.19 //

अथ खलु चत्वारो महाराजा भगवतो ऽन्तिकादिमा एवंरूपा गाथाः श्रुत्वाश्चर्यप्राप्ता बभूवुरद्भुतप्राप्ता उद्विल्यप्राप्तास्तद्धर्मवेगेन मुहूर्तमात्रं प्ररुदिता इवाश्रूणि च प्रवर्तयामासुः / ते च संमानैः शरीरै प्रफुल्लिभिरङ्गप्रत्यङ्गैरचिन्त्येन प्रीतिसुखसौमनस्येन समन्वागता भूत्वा पुनरपि भगवन्तं दिव्यमान्दारवैः कुसुमैरवकिरन्ति स्म / अवकिरित्वा प्रकिरित्वोत्थायासनेभ्य एकांसानि चीवराणि प्रावरित्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् / वयमपि भदन्त भगवंश्चत्वारो महाराजा एकैको महाराजो वयं पञ्चयक्षशतपरिवारा धर्ममाणकस्य भिक्षोः सदानुबद्धा भविष्यामस्तं धर्मभाणकं मानयनाय परिपालनाय चेति //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजो चतुर्महाराज परिवर्तो नाम सप्तमः //

// सरस्वतीदेवीपरिवर्तः //

अथ खलु सरस्वती महादेव्येकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् / अहमपि भदन्त भगवन् सरस्वती महादेवी तस्य धर्मभाणकस्य भिक्षोर्वाक्परिभूषणार्थाय प्रतिभाणकमुपसंहरिष्यामि / धारणीं चानुप्रदास्यामि / सुनिरुक्ततवराणां भावं संभावयिष्यामि / महान्तं च धर्मभाणकस्य भिक्षोर्ज्ञानावभासं करिष्यामि / यानि कानि चित्पदव्यञ्जनानीतः सुवर्णप्रभासोत्तमसूत्रेन्द्रराजात्परिभ्रष्टानि भविष्यन्ति / विस्मरितानि च तान्यहं सर्वाणि तस्य धर्मभाणकस्य भिक्षोः सुनिरुक्ततपदव्यञ्जनान्युपसंहरिष्यामि / धारणीं चानुप्रदास्यामि स्मृत्यसंप्रमोषणाय / यथा चायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् / न च क्षिप्रमन्तर्धापयेत् / अनेकानि च सत्त्वानीमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं श्रुत्वा चिन्त्य तीक्ष्णप्रज्ञा भवेयुः / अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभन्ते च न दुष्टमेव चायुः / सम्पत्तिं प्रतिलभेयुः / जात्यनुग्रहं चापरिमितं च पुण्यस्कन्धं प्रतिगृह्णीयुः / सर्वशास्त्रकुशलाश्च भवेयुर्नानाशिल्पविधिज्ञाश्च //

तदिदं संयुक्तं स्नानकर्म भाषिष्यामि तस्य धर्मभाणकस्य भिक्षोस्तेषां च धर्मश्रवणिकानां सत्त्वानामर्थाय / सर्वग्रहनक्षत्रजन्ममरणपीडा कलिकलहकलुषडिम्बडमरदुःखप्नविषोदकपीडाः / सर्वकाखोर्दवेतालाः प्रशमं यास्यन्ति /

औषधयो मन्त्रा येन स्नापयन्ति च पण्डिताः / वचा गोरोचना स्पृका शिरीषं श्याभ्यकं शमी / इन्द्रहस्ता महाभागा व्यामकमगरुः त्वचम् // suv_8.1 //

नीवेष्टकं सर्जरसं सिह्लकं गुल्गुलूरसम् / तगरं पत्रशैलेयं चन्दनं च मनःशिला // suv_8.2 //

समोचकं तुरुष्कं च कुङ्कुमं मुस्त सर्षपाः / नरदं चव्य सूक्ष्मेला उशीरं नागकेशरम् // suv_8.3 //

एतानि समभागानि पुष्यनक्षत्रेण पीषयेत् / इमैर्मन्त्रपददैश्चूर्णं शतधा चाभिमन्त्रयेत् // suv_8.4 //

तद्यथा / सुकृते करजातभागे हंसरण्डे इन्द्रजालमलिलक उपसदे अवतासिके कुत्र कुकलविमलमति शीलमति संधिबुधमति शिशिरि सत्यस्थित स्वाहा //

गोमयमण्डलं कृत्वा मुक्तपुष्पाणि स्थापयेत् / सुवर्णभाण्डे रूप्यभाण्डे मधुरेण स्थापयेत् // suv_8.5 //

वर्मिताश्च पुरुषास्ते चत्वारि तत्र स्थापयेत् / कन्याः सुभूषिताः न्यस्ताश्चत्वारो घटधारिण्यः // suv_8.6 //

गुग्गुलुं धूपयन्नित्यं पञ्चतूर्याणि योजयेत् / छत्रध्वजपताकैश्च सा देवी समलङ्कृता // suv_8.7 //

आदर्शनपर्यन्ताश्च शरशक्तीर्नियोजयेत् / सीमाबन्धं ततः कुर्यात्पश्चात्कार्यं समारभेत् / अनेन मन्त्रपदक्रमेण सीमाबन्धं समारभेत् // suv_8.8 //

स्याद्यथेदम् / अने नयने हिलि हिलि गिलि खिले स्वाहा // भगवतः पृष्ठतः स्नात्वानेन मन्त्रजापेन स्नानशान्तिं योजयेत् / तद्यथा / सुगते विगते विगतावति स्वाहा /

ये प्रस्थिता नक्षत्रा आयुः पालयन्तु चतुर्दिशे / नक्षत्रजन्मपीडा वा राशिकर्मभयावहम् / धातुसंक्षोभसंभूता शाम्यन्तु भयदारुणा // suv_8.9 //

समे विषमे स्वाहा / सुगते स्वाहा / सागरसंभूताय स्वाहा // स्कन्धमारुताय स्वाहा / नीलकण्ठाय स्वाहा / अपराहितवीर्याय स्वाहा / हिमवत्संभूताय स्वाहा / अनिमिषचक्राय (बग्छि 57) स्वाहा / नमो भगवत्यै ब्राह्मण्यै नमः सरस्वत्यै देव्यै सिध्यन्तु मन्त्रपदास्तं ब्रह्म नमस्यन्तु स्वाहा /

एतेन स्नानकर्मणा तस्य धर्मभाणकस्य भक्षोरर्थाय तेषां च धर्मश्रवणिकानां लेखकानामार्थाय स्वयमेवाहं तत्र गगणसिद्धयक्षदेवगणैः सार्धं तत्र च ग्रामे वा नगरे वा निगमे वा विहारे वा सर्वतो रोगप्रशमनं करिष्यामि / सर्वग्रहकलिकलुषनक्षत्रजन्मपीडान्वा दुःखस्वप्नविनायकपीडान्सर्वकाखोर्दवेतालान्प्रशमयिष्यामि / यथा तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां जीवितानुग्रहो भवेत् / संसारनिर्वाणं प्रतिलभेयुः / अवैवर्तिकाश्च भवेयुरनुत्तरायाः सम्यक् संबोधेः //

अथ खलु भगवान्सरस्वत्यै महादेव्यै साधुकारमदात् / साधु साधु सरस्वति महादेवि बहुजनहिताय बहुजनसुखाय प्रतिपन्नो यत्त्वया हीमानि मन्त्रोषधिसंयुक्तानि भाषितानि / सा च सरस्वती महादेवी भगवतः पादावभिवन्दनां कृत्वैकान्ते निषण्णा //

अथ खल्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो महाब्राह्मणस्तां सरस्वतीमावाहयति स्म //

सरस्वती महादेवी पूजनीया महत्तपाः / विख्याता सर्वलोकेषु वरदाता महागुणा // suv_8.10 //

शिखरे समाश्रिता कान्ता दर्भचीवरवासिनी / शुभवस्त्रं धारयति एकपादेन तिष्ठति // suv_8.11 //

सर्वदेवाः समागम्य तां सूत्रवचनं त्विदम् / जिह्वाभिमुखं च सत्त्वानां भाषन्तु वचनं शुभम् // suv_8.12 //

स्याद्यथेदम् / सुरे विरे अरजे अरजवति हि गुले पिङ्गले पिङ्गले वतिमुखे मरीचिसुमति दिशमति अग्रामग्रीतलवितले च वडिविचरी मरिणिपाणये लोकज्येष्ठके प्रियसिद्धिव्रते भीममुखिशचिवरी अप्रतिहते अप्रतिहतबुद्धि नमुचि नमुचि महादेवि प्रतिगृह्ण नमस्कार / सर्वसत्त्वानां बुद्धिरप्रतिहता भवतु विद्या मे सिद्ध्यतु शास्रलोकतन्त्रपिटककाव्यादिषु / (बग्छि 58) तद्यथा / महाप्रभावे हिलि हिलि मिलि मिलि / विचरतु मम विचरतु मे माया सर्वसत्त्वानां च भगवत्या देव्याः सरस्वत्या अनुभावेन कदारके युवति हिलि मिलि आवाहयामि महादेवि बुद्धसत्येन धर्मसत्येन संघसत्येन इन्द्रसत्येन वरुणसत्येन ये लोके सत्यवादिनः सन्ति / तेन तेषां सत्यवचेन आवाहयामि महादेवि / हिलि हिलि मिलि विचरन्तु मम मन्त्रिनो माया सर्वसत्त्वानाम् / नमो भगवत्यै सरस्वत्यै सिद्ध्यन्तु मन्त्रपदाः स्वाहा //

अथाचार्यव्याकरणप्राप्तः कौडिन्यो महाब्राह्मणः सरस्वतीं महादेवीमिमाभिर्गाथाभिरभ्यस्तावीत् //

शृण्वन्तु मे भूतगणा हि सर्वे स्तोष्यामि देवीं प्रवरोत्तमचारुवक्त्राम् / या मातृग्रामे प्रवराग्रदेवी / सदेवगन्धर्वसुरेन्द्रलोके // suv_8.13 //

नानाविचित्रा समलंकृताङ्गा सरस्वती नाम विशालनेत्रा / पुण्योज्ज्वला ज्ञानगुणैर्विकीर्णा नानाविचित्रोत्तमदर्शनीया // suv_8.14 //

स्तोष्यामि तां वाक्यगुणैर्विशिष्टैः सिद्धिकरायै प्रवरोत्तमायै / प्रशस्तभूताय गुणाकरायै विमलोत्तमायै कमलोज्ज्वलायै // suv_8.15 //

सुलोचनायै नयनोत्तमायै शुभाअश्रयायै शुभदेशनायै / गुणैरचिन्त्यैः समलंकृतायै / चन्द्रोपमायै विमलप्रभायै // suv_8.16 //

ज्ञानाकरायै स्मृतिसमग्रतायै सिंहोत्तमायै नरवाहनायै / रत्नमणिबाहुसमलंकृतायै पूर्णशशाङ्कोपमदर्शनायै // suv_8.17 //

मनोज्ञवाक्याय मृदुस्वरायै गम्भीरप्रज्ञाय समन्वितायै / कार्याग्रसाधनसुसत्त्वतायै देवासुरैर्वन्दितपूजितायै / सर्वसुरासुरगणालयवन्दितायै भूतगणैः सदा संपूजितायै // suv_8.18 //

नमः स्वाहा //

हे ऽहं देवि नमस्ते सा मे प्रयच्छतु गुण औघम् //

सर्वे सत्त्वा विशिष्टसिद्धिं प्रददातु सर्वकार्या / नित्यं च रक्षतू मां सर्वान्सत्त्वांश्च शत्रुमध्ये // suv_8.19 //

एतान् समाप्ताक्षरपूर्णवाक्यान् कल्यं समुत्थाय पठेत्सुवीर्यः / सर्वाभिप्राये धनधान्यलाभी सिद्धिं च प्राप्नोति शिवामुदारामिति // suv_8.20 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सरस्वतीदेवीपरिवर्तो नामाष्टमः /

// श्रीमहादेवीपरिवर्तः //

अथ खलु श्रीर्महादेवी भगवन्तं प्रणम्यैतदवोचत् / अहमपि भदन्त भगवन्भगवती श्रीर्महादेवी तस्य धर्मभाणकस्य भिक्षोरौत्सुक्यतां करिष्यामि / यदिदं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरन्यैश्चोपकरणैर्यथा स धर्मभाणकः सर्वोपकरणसंपन्नो भविष्यति / अवैकल्पतां च प्रतिलप्स्यते / स्वस्थचित्तो भविष्यति / सुखचित्तो रात्रिं दिवा प्रतिनामयिष्यति / इतश्च सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजान्नानाविधानि पदव्यञ्जनान्युपनामयिष्यति / व्युपपरीक्षिष्यति / येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचतिष्यति / न च क्षिप्रमन्तर्धास्यति / सन्ति सत्त्वाः सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः / अनेकानि च कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखानि प्रत्यनुभवेयुः / दुर्भिक्षश्चान्तर्धापयेत् / सुभिक्षश्च प्रादुर्भवेत् / सत्त्वाश्च मनुष्यसुखोपधानेन सुखिता भवेयुः / तथागतसमवधानगताश्च भवेयुः / अनागते ऽध्वति चानुत्तरां सम्यक्संबोधिमभिसंबोधयेयुः / सर्वनरकतिर्यग्योनियमलोकदुःखान्यत्यन्तसमुच्छिन्नानि भवेयुरिति //

रक्तकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रीर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धः / यत्र श्रिया महादेव्या मया कुशलमूलमवरुप्तम् / येनैतर्हि यां यां दिशं सत्त्वानां विहरति / यां यां दिशं सत्त्वान्यवलोकयति / यां यां दिशमुपसंक्रमति / तस्यां तस्यां दिश्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि सर्वसुखोपधानेन सुखितानि भविष्यन्ति / अवैकल्पतां च प्रतिलप्स्यन्ते / अन्नेन वा पानेन वा धनेन वा धान्येन वा हिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवालजातरूपरजतादिभिरन्यैश्चोपकरणैः सर्वोपकरणसमृद्धानि सत्त्वानि भविष्यन्ति श्रियो महादेव्याः प्रभावेन / तस्य च तथागतस्य पूजा कर्तव्या / गन्धाश्च पुष्पाश्च धूपाश्च दीपाश्च दातव्याः / श्रियो देव्यास्त्रिष्कृतो नामधेयमुच्चारयितव्यम् / तस्याश्च गन्धं पुष्पं धूपं दीपं दातव्यम् / रसविहारा निक्षेप्तव्यानि / तस्य महाद्रव्यराशिर्विवर्धते / तत्रेदमुच्यते //

विवर्धत धरणी रसो धरण्या प्रहर्षिता / (बग्छि 61) भोन्ति च देवता सदा फलशस्यचितोपमम् / वृक्षदेवता रोहन्ति शस्यानि सुचित्रभावाः // suv_9.1 //

सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमुच्चारयितव्यम् / तान्सत्त्वाञ्छ्रीर्महादेवीसमन्वाहरिष्यति / तेषां च महतीं श्रियं करिष्यति //

अलकावत्यां राजधान्यां पुण्यकुसुमप्रभोद्यानवने सुवर्णवर्णध्वजनाम्नि सप्तरत्नप्रभवने श्रीर्महादेवी प्रतिवसति स्म / यः कश्चित्पुरुषो धान्यराशिं विवर्धयितुकामो भवेत् / तेन स्वगृहं सुशोधयितव्यम् / शुचिश्वेतवस्रप्रावृतेन सुगन्धवसनधारिणा भवितव्यम् / नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्सम्बुद्धस्य त्रिष्कृत्वो नामधेयमुच्चारयितव्यम् / श्रिया महादेव्या हस्तेन तस्य पूजा कर्तव्या / पुष्पधूपगन्धाश्च दातव्याः / नानारसविहाराश्च निक्षेप्तव्याः / तस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानुभावेन तेन कालेन श्रीर्महादेवी तस्य गृह समन्वाहरिष्यति / तस्य च महाधान्यराशिं विवर्धयिष्यति / तेन श्रीर्महादेवीमावाहयितुकामेनेमे विद्यामन्त्राः स्मरयितव्याः / तद्यथा / नमः सर्वबुद्धानामतीतानागतप्रत्युत्पन्नानाम् / नमः सर्वबुद्धबोधिसत्त्वानाम् / नमो मैत्रेयप्रभृतीनां बोधिसत्त्वानाम् / तेषां नमस्कृत्य विद्यां प्रयोजयामि इयं मे विद्या समृध्यतु / स्याद्यथेदम् / प्रतिपूर्णवरे समन्तगते / महाकार्यप्रतिप्रापणे सत्त्वार्थसमतानुप्रपुरे / आयानधर्मिता महाभागिने / महातेजोपमं हिते / ऋषिसंगृहीते / समयानुपालने //

इमे मूर्धाभिषेकधर्मता मन्त्रपदाः / एका शशिपदा अविसंवादना मन्त्रपदाः / समवधारिभिरवरुप्तकुशलमूलैः प्रावृतधारयमाणैः स सप्तवर्षा अष्टाङ्गोपेता सपञ्चासिन पूर्वाह्णे / अपराह्णे / सर्वबुद्धानां भगवतां पुष्पधूपगन्धपूजां कृत्वात्मनश्च सर्वसत्त्वानां च सर्वज्ञज्ञानस्य परिपूरणाय / तेन सर्वे चाभिप्रायाः समृध्यन्तु // क्षिप्रं समृध्यन्तु / तद्गृहं स चौक्षं कृत्वा विहारं चारण्यायतनं वां गोमयेन मण्डलकं कृत्वा गन्धपुष्पधूपं च दातव्यम् / चौक्षमासनं (बग्छि 62) प्रज्ञपयितव्यम् / पुष्पा अवकीर्णन्तु मितव्यम् / ततस्तत्क्षणं श्रीर्महादेवी प्रविशित्वा तत्र स्थास्यति / तदुपादाय तत्र गृहे वा ग्रामे वा नगरे वा निगमे वा विहारे वारण्यायतने वा न जातु केनचिद्वैकल्पं करिष्यति / हिरण्येन वा सुवर्णेन वा रत्नेन वा धनेन वा धान्यादिसर्वोपकरणसमृद्धाभिओः सर्वसुखोपधानेन सुखितानि भविष्यन्ति / कुशलमूलश्च ध्रियते / तेन सर्वं श्रियो महादेव्याः प्रेमप्रभावप्रेषणं दातव्यं यावज्जीवं तत्रोपस्थास्यति न विलम्बिष्यति / सर्वाभिप्रायांश्चैषां परिपूरयिष्यतीति //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे श्रीमहादेवीपरिवर्तो नाम नवमः //

// सर्वबुद्धबोधिसत्त्वनामसंधारणिपरिवर्तः //

ओम् नमो भगवते रत्नशिखिनः तथागतस्य / नमः सुवर्णरत्नाकरच्छत्रस्कूटस्य तथागतस्य / नमः सुवर्णपुष्पज्वलरश्मिकेतोस्तथागतस्य / नमो महाप्रदीपस्य तथागतस्य / रुचिरकेतुर्नाम बोधिसत्त्वः / सुवर्णप्रभासोत्तमो नाम बोधिसत्त्वः / सुवर्णगन्धो नाम बोधिसत्त्वः / सदाप्ररुदितो नाम बोधिसत्त्वः / धर्मोद्गतो नाम बोधिसत्त्वः / पुरस्थिमेनाक्षोभ्योनाम तथागतः / दक्षिणेन रत्नकेतुर्नाम तथागतः / पश्चिमेनामितायुर्नाम तथागतः / उत्तरे दुन्दुभिस्वरो नाम तथागतः / सुवर्णप्रभासोत्तमसूत्रेन्द्रराज इमानि बोधिसत्त्वनामानि ये धारयन्ति वाचयन्ति ते बोधिसत्त्वा नित्यं जातिस्मरा भोन्तीति //

इति श्रीसुपर्णप्रभासोत्तमसूत्रेन्द्रराजे सर्वबुद्धबोधिसत्त्वनाम संधारणिओपरिवर्तो नाम दशमः //

// दृढापृथिवीदेवतापरिवर्तः //

अथ खलु दृढा पृथिवीदेवता भगवन्तमेतदवोचत् / अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानागते ऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्यप्रदेशे वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यति / यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण संप्रकाशयिष्यति / यत्र यत्र भगवन्पृथिवीप्रदेशे तस्य धर्मभाणकस्य भिक्षो ऋजुकायगतस्य धर्मासनप्रज्ञप्तं भविष्यति / यत्र यत्रासने धर्मभाणको निषद्येमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यति / तत्राहं भदन्त भगवन्दृढा पृथिवीदेवता तेषु पृथिवीप्रदेशेष्वागमिष्यामि / अत्र धर्मासनगतो ऽस्म्यदृश्यमानेनात्मभावेनोत्तमाङ्गेन च तस्य धर्मभाणकस्य भिक्षोः पादतलौ प्रतिसंहरिष्यामि / आत्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन संतर्पयिष्यामि / संप्रतिमानयिष्यामि संपूजयिष्यामि / आत्मानं च संतर्पयित्वा प्रतिमानयित्वा संप्रहर्षयित्वेममष्टषष्टियोजनसहस्राणि पृथिवीस्कन्धमात्मानं चानेन धर्मश्रवणेन धर्मामृतरसेन यावद्वज्रमयं पृथिवीतलमुपादाय पृथिवीरसेनविवर्धयिष्यामि संप्रतिमानयिष्यामि परिपूरयिष्यामि / उपरितश्चेमं समुद्रपर्यन्तं पृथिवीतलमुपादाय पृथिवीमण्डलं स्निग्धेन पृथिवीरसेन स्नेहयिष्यामि / ओजस्वितरां चेमां महापृथिवीं करिष्यामि / येनास्मिञ्जम्बुद्वीपे नानातृणगुल्मौषधिवनस्पतय ओजस्वितराः प्ररोहयिष्यन्ति / सर्वारामनवृक्षसस्यानि च नानाविधान्योजस्वितराणि भविष्यन्ति / गन्धतराणि स्निग्धतराण्यास्वदनीयानि दर्शनीयतराणि महोत्तराणि च भविष्यन्ति / ते च सत्त्वास्तानि पानभोजनानि नानाविधान्युपभुक्त्वा आयुर्बलवर्णेन्द्रियाणि विवर्धयिष्यन्ति / तेजोबलवर्णरूपसमन्वाउअताश्च भूत्वा नानाविधानि पृथिवीगतान्यनेकानि नानाकार्यशतसहस्राणि करिष्यन्त्युत्थास्यन्ति व्यापयिष्यन्ति / बलकरणीयानि कर्माणि करिष्यन्ति //

तेन हेतुना भदन्त भगवन्सर्वजम्बुद्वीपः क्षेमश्च भविष्यति / सुभिक्षश्च स्फीतश्चर्द्धश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्च भविष्यति / सर्वजम्बुद्वीपे च सत्त्वानि सुखितानि भविष्यन्ति / (बग्छि 65) नानाविचित्रां रतिमनुभविष्यन्ति / तानि सत्त्वानि तेजोबलवर्णरूपसमन्वागतानि च भविष्यन्ति / अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानं धर्मासनगतानामन्तिकमुपसंक्रमेयुः / उपसंक्रमित्वा तानि प्रसन्नचित्तानि सर्वसत्त्वानामर्थाय हिताय सुखाय तान्धर्मभाणकानध्येषयेयुस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य प्रकाशतः / अहं दृढा पृथिवीदेवता सपरिवारौजस्वितरा च भविष्यामि / तेन भदन्त भगवंश्चास्माकं काये महाबलवी र्यस्थामसंजनितं भविष्यति / तेजश्च श्रीश्च लक्ष्मीश्चास्माकं कायमावेक्ष्यन्ति / मयि च भदन्त भगवन्दृढायां पृथिवीदेवतायामनेन धर्मामृतरसेन संतर्पितायां महातेजोबलवीर्यस्थामवेगप्रतिलब्धायामियं महापृथिवी सप्तयोजनसाहस्रिकायं जम्बुद्वीपो महता पृथिवीरसेन विवर्धयिष्यति / ओजस्वितरा च महापृथिवी भविष्यति / इमानि च भदन्त भगन सर्वसत्त्वानि पृथिवीसंनिश्रितानि वृद्धिविरूढिवैपुल्यतां च गमिष्यन्ति / महन्ति च भविष्यन्ति / महन्ति च भूत्वा सर्वसत्त्वानि पृथिवीगतानि नानोपभोगपरिभोगान्युपभोक्ष्यन्ति सुखानि चानुभविष्यन्ति / तानि च सर्वाणि नानाविचित्रान्नपानभोज्यवस्त्रशयनासनवसनभवनविमानोद्याननदीपुष्करिण्युत्सरोह्रदतडागादीनीमान्येवंरूपाणि नानाविधान्युपकरणसुखानि पृथिवीसंस्थितानि पृथिव्यां प्रादुर्भूतानि पृथिव्यां प्रतिष्ठितान्युपभुजन्तु / तेन भदन्त भगवन्हेतुना सर्वसत्त्वैरस्माकं कृतज्ञता कर्तव्या / अवश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः /

यदा च भदन्त भगवंस्ते सर्वे सत्त्वा नानाकुलेभ्यो नानागृहेभ्यो निष्क्रमेयुस्तेषां धर्मभाणकानामुपसक्रमणाय / उपसंक्रम्य चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः / श्रुत्वा च पुनरेव ते सत्त्वाः स्वकस्वकेषु नानाकुलेषु गृहग्रामनगरनिगमेषु प्रविष्टाः स्वगृहगतां परस्परेणैवं कथयेयुः / गम्भीरो ऽस्माभिरद्य धर्मश्रवणः श्रुतः / अचिन्त्यो ऽस्माभिरद्य पुण्यस्कन्धः परिगृहीतः / तेन धर्मश्रवणेन नरकाः प्रतिमुक्ताः स्युः / तिर्यग्योनियमलोकप्रेतविषयाः परिमुक्ता अद्यास्माभिः / अनेन धर्मश्रवनेनानागते ऽध्वन्यनेकेषु जातिशतसहस्रेषु देवमनुष्योपपत्तिपरिगृहीता (बग्छि 66) भविष्यन्ति / तेन च नानागृहगता भूत्वा तेषां सत्त्वानामितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकदृष्टान्तमप्यारोचयेयुरन्तश एकपरिवर्तं वा एकपूर्वयोगं वान्तशश्चतुष्पादिकामपि गाथामन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्येषां सत्त्वानां संश्रावयेयुरन्तशः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयमपि परेषां सत्त्वाना संश्रावयेयुः /

यत्र यत्र भदन्त भगवंस्तानि नानाविधानि सत्त्वानि नानाविधेषु पृथिवीप्रदेशष्विमान्येवंरूपाणि नानाविधानि सूत्रान्तहेतूनि परस्परेणारोचयेयुः संश्रावयेयुश्च / कथासंबन्धं च कुर्वीरन् / सर्वे ते भदन्त भगवन्पृथिवीप्रदेशा ओजस्वितराश्च भविष्यन्ति / स्निग्धतराश्च भविष्यन्ति / सर्वेषां सत्त्वानां तेषु तेषु पृथिवीप्रदेशेषु नानाविधानि पृथिवीरसानि सर्वोपकरणानि भूयिष्ठतरमुत्पत्स्यन्ते विवर्धयिष्यन्ते वैपुल्यतां गमिष्यन्ति / सर्वाणि तानि सत्त्वानि महाधनानि महाभोगानि च दानाधिमुक्तानि च भविष्यन्ति / त्रिषु रत्नेष्वभिप्रसन्नानि भविष्यन्ति //

एवमुक्ते भगवन्दृढां पृथिवीदेवतामेतदवोचत् / ये केचित्पृथिवीदेवते सत्त्वा इतः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एकपदमपि शृणुयुस्ते त इतो मनुष्यलोकाच्चवित्वा त्रयस्त्रिंशत्सु देवनिकायेष्वन्यतरान्यतरेषु देवनिकायेषूपपत्स्यन्ते / ये केचित्पृथिवी देवते सत्त्वा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजास्यार्थाय तानि स्थानानि समलंकुर्वीरन्नन्तश एकच्छत्रं वा एकदूष्यं वा समलंकृतानि च देवतास्थानानि / तेषु सप्तसु कामावचरेषु देवनिकायेषु सप्तरत्नमयानि दिव्यानि विमानानि सर्वालंकारसमलंकृतानि संस्थास्यन्ति ते सत्त्वा इतो मनुष्यलोकाच्च्यावित्वा तेषु सप्तरत्नमयेषु दिव्यविमानेषूपपत्स्यन्ते / ते चैकैकस्मिन्पृथिवीदेवते सप्तरत्नमये दिव्यविमाने सप्तवरा अनुपपत्स्यन्ते अचिन्त्यानि दिव्यानि सुखानि प्रत्यनुभविष्यन्ति //

एवमुक्ते दृढा पृथिवीदेवता भगवन्तमेतदवोचत् / तेनाहं भदन्त भगवन्दृढा पृथिवीदेवता तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्य तेषु पृथिवीप्रदेशेष्ववासिष्यामि / अदृश्यमानेनात्मभावेन (बग्छि 67) तस्य धर्मभाणकस्य भिक्षोरुत्तमाङ्गेन पादतलौ प्रतिसंहरिष्यामि / यथाप्ययं सुवर्णप्रभसोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् / न च क्षिप्रमन्तर्धापयेएत् / सत्त्वानि चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः / अनागतो ऽध्वन्यनेकानि कल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः / तथागतसमवधानगतानि च भवेयुः / अनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुः / सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तसमुच्छिन्नानि भवेयुरिति //

इति श्रीसुवर्णप्रभासोत्तसूत्रेन्द्रराजे दृढापृथिवी देवतापरिवर्तो नामैकादशः //

// संज्ञेयमहायक्षसेनापतिपरिवर्तः //

अथ खलु संज्ञेयो नाम महायक्षसेनापतिरष्टाविंशतिभिर्महायक्षसेनापतिभिः सार्धमुत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् / अयं भदन्त भगवन्सुवर्णप्रभासोत्तमः सूत्रेन्द्रराज एतर्हि चानगते ऽध्वनि यत्र ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वारण्यायतने वा गिरिकन्दरे वा राजकुले वा गृहे वा प्रचरिष्यति / तत्राहं भदन्त भगवन्संज्ञेयो नाम महायक्षसेनापतिः सार्धमष्टाविंशति भिर्महायक्षसेनापतिभिस्तत्र ग्रामे वा नगरे वा निगमे वा जनपदे वारण्ये वा गिरिकन्दरे वा राजकुले वोपसंक्रमिष्यामि / अदृश्यमानेनात्मभावेन तस्य धर्मभाणकस्य भिक्षो रक्षां करिष्यामि / परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वरत्ययनं करिष्यमि / तेषां च सर्वेषां धर्मश्रवणिकानां स्त्रीपुरुषदारकदारिकाणां येषां केषांचिदितः सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादन्तश एका चतुष्पादिकापि गाथा श्रुता भवेदन्तश एकपदमपि सुवर्णप्रभासोत्तमात्सूत्रेन्द्रराजादेकबोधिसत्त्वनामधेयमपि श्रुतं भवेदुद्गृहीतं वैकतथागतनामधेयं वान्तशश्चास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य नामधेयं श्रुतं भवेदुद्गृहीतं वा तेषां सर्वेषामारक्षां करिष्यामि / परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामि / तेषां च कुलानां तेषां च गृहाणां तेषां च नगराणां तेषां च ग्रामाणां तेषां च निगमानां तेषां चारण्यानां तेषां च राजकुलानामारक्षां करिष्यामि / परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामि //

तत्कतमेन हेतुना / सर्वधर्माः परिज्ञाताः सर्वधर्मा अवबुद्धाः / यावन्तश्च सर्वधर्माः / यथा च सर्वधर्माः / संस्थिता ये च सर्वधर्माः / सम्यग्ज्ञाताश्च सर्वधर्माः / सर्वधर्मेष्वहं भदन्त भगवन्प्रत्यक्षः / अचिन्त्या मे भदन्त भगवञ्ज्ञानावभासाः / अचिन्त्यो ज्ञानालोकः / अचिन्त्यो ज्ञानप्रचारः / अचिन्त्यो ज्ञानस्कन्धः / अचिन्त्यो मे भदन्त भगवन्सर्वधर्मेषु ज्ञानविषयः प्रवर्तते / यथा च मे भदन्त भगवन्सर्वधर्माः समम्यग्ज्ञाताः / सम्यक्परीक्षिताः सम्यक्परिज्ञाताः (बग्छि 69) सम्यग्व्यवलोकिताः सम्यगवबुद्धाः / तेन हेतुना मम भदन्त भगवन्संज्ञेयस्य महायक्षसेनापतेः संज्ञेय इति नामधेयं समुदपादि //

अहं भदन्त भगवन्धर्मभाणकस्य भिक्षोर्वाक्यविभूषणार्थाय प्रतिभानमुपसंहरिष्यामि / रोमान्तरेषु च तस्यौजः प्रक्षेप्स्यामि / महान्तं च तस्य स्थाम च बलं वीर्यं च काये संजनयिष्यामि / अचिन्त्यं तस्य ज्ञानावभासं करिष्यामि / स्मृतिं च तस्य बोधयिष्यामि / महन्तं च तस्योत्सहं दास्यामि / यथा च स धर्मभाणको न क्लान्तकायो भवेत् / सुखेन्द्रियकायो भवेत् / प्रहर्षजातश्च भवेत् / येनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् / न क्षिप्रमन्तर्धापयेत् / सत्त्वाश्चेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयुः / अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभेयुः / प्रज्ञावन्तश्च भवेयुः / अपरिमितं च पुण्यस्कन्धं परिगृह्णीयुः / अनागते ऽध्वन्यनेककल्पकोटीनियुतशतसहस्राण्यचिन्त्यानि दिव्यमानुष्यकानि सुखान्यनुभवेयुः / तथागतसमवधानगताश्च भवेयुरनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् / सर्वनरकतिर्यग्योनियमलोकदुःखानि चात्यन्तेन समुच्छिन्नानि भवेयुरिति //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे संज्ञेयमहायक्षसेनापति परिवर्तो नाम द्वादशः //

// देवेन्द्रसमयराजशास्त्रपरिवर्तः //

नमस्तस्य भगवतो रत्नकुसुमगुणसागरवैडूर्यकनकगिरिसुवर्णकाञ्चनप्रभासश्रियस्तथागतस्यार्हतः सम्यक्संबुद्धस्य / नमस्यस्यानेकगुणकोटीनियुतशतसहस्रसमलंकृतशरीरस्य शाक्यमुनेस्तथागतस्य यस्येयं धर्मोल्का ज्वलति / नमस्तस्या अपरिमितपुण्यधान्यमाङ्गल्यसम्पन्नायाः श्रियो महादेव्याः / नमस्तस्या अपरिमितगुणप्रज्ञासमुदितायाः सरस्वत्या देव्याः //

तेन खलु पुनः कालेन तेन समयेन राजा बलदकेतुः पुत्रस्य रुचिरकेतोरचिराभिषिक्तस्य च राज्यप्रतिष्ठितस्यैतदवोचत् / अस्ति पुत्र देवेन्द्रसमयं नाम राजशास्त्रम् / यन्मया पूर्वमचिराभिषिक्तेन च राज्यप्रतिष्ठितेन पितू राज्ञो बलेन्द्रकेतोः सकाशादुद्गृहीतम् / तेन मया देवेन्द्रसमयेन राजशास्त्रेण विंशतिवर्षसहस्राणि राजत्वं कारितं बभूव / नाभिजानाम्यहमन्तश एकचित्तक्षणप्रमाणमात्रेणापि कस्यचिदधर्मस्थितपूर्वम् / कतमत्तत्र देवेन्द्रसमयं नाम राजशास्त्रम् //

अथ खलु कुलदेवते राजा बलदकेतुस्तेन कालेन तेन समयेन पुत्रस्य राज्ञो रुचिरकेतोरिमाभिर्गाथाभिर्देवेन्द्रसमयं नाम राजशास्त्रं विस्तरेण संप्रकाशयति स्म //

राजशास्त्रं प्रवक्ष्यामि सर्वसत्त्वहितं करम् / सर्वसंशयच्छेत्तारं सर्वदुष्कृतनाशनम् // suv_13.1 //

हृष्टचित्ता भवित्वेह सर्वे नृपतयः पृथक् / सर्वदेवेन्द्रसमयं शृणुध्वं प्राञ्जलिकृताः // suv_13.2 //

वज्रप्राकारगिरीन्द्रे ऽस्मिन्देवेन्द्राणां समागमैं / उत्थितैर्लोकपालेभिर्ब्रह्मेन्द्रः परिपृच्छितः // suv_13.3 //

त्वं नः सुरगुरुर्ब्रह्मा देवतानां त्वमीश्वरः / छेत्ता त्वं संशयानां च च्छिन्दयास्माकं संशयम् // suv_13.4 //

कथं मनुष्यसंभूतो राजा देवः स प्रोच्यते / यदिह मानुषे लोके जायते च भवन्नृपः // suv_13.5 //

कथं देवमनुष्येषु राजत्वं च करिष्यते / एवं हि लोकपालिभिर्ब्रह्मेम्द्रः परिपृच्छतः // suv_13.6 //

सर्वा सुरगुरुर्ब्रह्मा लोकपालानिहाब्रवीत् / यदिह लोकपालेभिरेतर्हि मम पृच्छितः / सर्वसत्त्वहितार्थाय वक्ष्ये ऽहं शास्त्रमुत्तमम् // suv_13.7 //

नाराणां संभवं वक्ष्ये युक्त्वाहं मनुजालये / हेतुना येन राजानो भवन्ति विषयेषु च // suv_13.8 //

देवेन्द्राणामधिष्ठाने मातुः कुक्षौ प्रवेक्ष्यति / पूर्वमधिष्ठितो देवैः पश्चाद् गर्भे प्रपद्यते // suv_13.9 //

किं चापि मानुषे लोके जायते श्रीयते नृपः / अपि वै देवसंभूतो देवपुत्रः स उच्यते // suv_13.10 //

त्रायस्त्रिंशैर्देवराजेन्द्रैर्भागो दत्तो नृपस्य हि / पुत्रस्त्वं सह देवानां निर्मितो मनुजेश्वरः // suv_13.11 //

अधर्मशमनार्थाय दुष्कृतानां निवारकः / सुकृतौ स्थापयेत्सत्त्वान्प्रेषणार्थं सुरालये // suv_13.12 //

मनुष्यो वाथ देवो वा गन्धर्वो वा नराधिपः / राक्षसो वाथ चण्डालो दुष्कृतानां निवारकः // suv_13.13 //

माता पिता वा नृपतिः सुकृतौ कर्मकारिणाम् / विपाकफलदर्शी त्वं देवराजैरधिष्ठितः // suv_13.14 //

सुकृतदुष्कृतानां च कर्मणां दृष्टधार्मिकः / विपाकफलदर्शी त्वं देवराजैरधिष्ठितं // suv_13.15 //

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थितम् / नानारूपं न कुर्वीत दण्डं पापजनस्य च / दुष्कृतानामुपेक्षायामधर्मो वर्धते भृशम् // suv_13.16 //

शाठ्यानि कलहाश्चैव भूयो राष्ट्रे भवन्ति च / प्रकुप्यन्ति च देवेन्द्रास्त्रायत्रिंशद्भवनेषु च // suv_13.17 //

यदा ह्युपेक्षते राजा दुष्कृतं विषये स्थिरम् / हन्यते विषयो घोरैः शठ्यैरपि सुदारुणैः // suv_13.18 //

विनश्यति च तद्राष्ट्रं परचक्रस्य चाक्रमे / भोगानि च बलान्येव धनं यस्यास्ति संचितम् // suv_13.19 //

विविधानि च शाठ्यानि हरन्ति च परस्परम् / येन कार्येण राजत्वं नैतत्कार्यं करिष्यति / विलोपयति स्वं राष्ट्रं गजेन्द्र इव पद्मिनीम् // suv_13.20 //

विषमा वायवो वान्ति विषमा जलवृष्टयः / विषमा ग्रहनक्षत्राश्चन्द्रसूर्यौ तथैव च // suv_13.21 //

सस्यं पुष्पं फलं बीजं व सम्यक्परिपच्यते / दुर्भिक्षं भवते तत्र यत्र राजा ह्युपेक्षकः / अनात्तमानसो देवा भवन्ति भवनेषु च // suv_13.22 //

यदा ह्युपेक्षते राजा दुष्कृतं विचरेत्परम् / ते सर्वे देवराजाश्च वक्ष्यन्ति च परस्परम् // suv_13.23 //

अधार्मिको ह्ययं राजा ह्यधर्मपक्षमाश्रितः / न चिरेण ह्ययं राजा देवतां कोपयिष्यति // suv_13.24 //

देवतानां परिकोपाद्विषयो ऽस्य विनक्ष्यति / शस्राणि च अधर्मश्च विषये ऽत्र भविष्यन्ति // suv_13.25 //

शाठ्यानां कलहानां च रोगाणां च समुद्भवः / प्रकुप्यति च देवेन्द्र उपेक्ष्यन्ति च देवताः // suv_13.26 //

प्रलुप्यते च यद्राष्ट्रं स नृपः शोकमृच्छति / इष्टवियोगं प्राप्नोति भ्रात्रा वाथ सुतेन वा // suv_13.27 //

प्रियभार्यावियोगो वा प्राप्यते दुहिताथ वा / उल्कापाता भविष्यन्ति प्रतिसूर्यास्तथैव च // suv_13.28 //

परचक्रभयं वापि दुर्भिक्षं वर्धति भृशम् / प्रियामात्यश्च म्रियते ऽप्रियस्तु गर्जते वचः // suv_13.29 //

सुताभीष्टं प्रियाश्वासं बालाभार्याविरोधिनः / परस्परं हरिष्यन्ति कुलभोगं धनानि च // suv_13.30 //

देशे देशे हनिष्यन्ति शस्त्रेण च परस्परम् / विवादाः कलहाः शाठ्या भवन्ति विषयेषु च // suv_13.31 //

ग्रहः प्रविशते राष्ट्रे व्याधिर्भवति दारुणः / अधार्मिका भविष्यन्ति दिक्षणीयास्तदन्तरम् // suv_13.32 //

अमात्याः परिषद्याश्च भवन्त्यस्याप्यधार्मिकाः / अधार्मिकजने पूजा भविष्यन्ति तदन्तरम् // suv_13.33 //

धार्मिकानां च सत्त्वानां निग्रहो भवति ध्रुवम् / अधार्मिकजने मानं धार्मिकानां च निग्रहम् / त्रयस्तत्र प्रकुप्यन्ते नक्षत्रजलवायवः // suv_13.34 //

त्रयो भावा विनश्यन्ति अधार्मिकजनो ग्रहे / सद्धर्मरसनोजश्च सत्त्वोजः पृथिवीरसः // suv_13.35 //

असत्यजनसंमानं सत्यजनविमानता / त्रयस्तत्र भविष्यन्ति दुर्भिक्षमथ निर्भरम् / फलसस्यरसौजश्च न भवति तदन्तरे // suv_13.36 //

ग्लानेन बहुलाः सत्त्वा भवन्ति विषयेषु च / मधुराणि महान्ति च फलानि विषये ऽपि हि / परीता च भविष्यन्ति तिक्तः कटुक एव च // suv_13.37 //

पूर्वा रम्याणि भावानि क्रीडाहास्यरतीनि च / सभा रम्या भविष्यन्ति आयासशतव्याकुलाः // suv_13.38 //

धान्यानां च फलानां च स्निग्घभावो रसः क्षयेत् / न तथा प्रीणयिष्यन्ति शरीरेन्द्रियधातवः // suv_13.39 //

दुर्वर्णाः सत्त्वा भविष्यन्ति स्वल्पस्थामाः सुदुर्बलाः / बहु च भोजनं भुक्त्वा तृप्तिं नासादयन्ति ते // suv_13.40 //

बलं च स्थाम वीर्यं च न लभन्ति तदन्तरे / हीनवीर्याणि सत्त्वानि भवन्ति विषयेषु च // suv_13.41 //

सत्त्वा भविष्यन्ति रोगार्ता नानाव्याधिप्रपीडिताः / ग्रहा भविष्यन्ति नक्षत्रा नानाराक्षससंभवाः // suv_13.42 //

अधार्मिको भवेद्राजा अधर्मपक्षसंस्थितः / त्रैधातुके विरुद्धो ऽस्ति सर्वत्रैलोक्यमण्डलम् / अनेके ईदृशा दोषा भवन्ति विषयेषु च // suv_13.43 //

यदा पक्षस्थितो राजा दुष्कृतं समुपेक्षते / येन कार्येण राजा वै देवेन्द्रेभिरधिष्ठितः / न तत्करोति राजत्वं दुष्कृतं समुपेक्षतः // suv_13.44 //

सुकृतेनोपपद्यन्ते सर्वदेवसुरालये / दुष्कृतेन च गच्छन्ति प्रेततिर्यग्नरकेषु च / त्रायस्त्रिंशद्देवस्थाने प्रतापयन्ति दुष्कृतात् // suv_13.45 //

यदा ह्युपक्षते राजा दुष्कृतं विषये स्थितम् / पितॄणां देवराजानां भवेन सापराधिकः / न तद्भवति पुत्रत्वं न रजत्वं कृतं भवेत् // suv_13.46 //

यदापि नश्यते कार्यं शाठ्यैरपि सुदारुणैः / तस्मादधिष्ठितो राजा देवेन्द्रर्मनुजालये // suv_13.47 //

दुष्कृतानां शमनार्थाय सुकृतानां प्रवर्तकः / दृष्टधार्मिकः सत्त्वानां विपाकजनको नृपः // suv_13.48 //

सुकृतदुष्कृतानां च कर्मणां यः पृथग्विधः / विपाकफलदर्शार्थं कर्त्ता राजा हि प्रोच्यते / अधिष्ठितो देवगणैर्देवेन्द्रैरनुमोदितः // suv_13.49 //

आत्मनो ऽर्थं परार्थाय धर्मार्थं विषयस्य च / दमनार्थाय राष्ट्रेषु शठपापजनस्य च // suv_13.50 //

त्यजेच्च जीवितं राज्यं धर्मार्थं विषयस्य च / मा चाधर्ममपृच्छित्वा जानन्तं समुपेक्षत // suv_13.51 //

न चान्यस्तादृशो नाशो विषये ऽस्मिन् सुदारुणः / यदा शाठ्यसमुत्पन्नः शाठ्यकान्तारनिग्रहः // suv_13.52 //

भूयो भवन्ति शाठ्यानि विषये ऽस्मिन् सुदारुणा / विलुप्यते च तद्राष्ट्रं गजैरिव महासरः // suv_13.53 //

प्रकुप्यन्ति च देवेन्द्रा विलुम्पते सुरालयम् / विषमाः सर्वभावाश्च भवन्ति विषयस्य हि // suv_13.54 //

तस्माद्दोषानुरूपं स्याद्दमनं पापकारिणाम् / धर्मेण पालयेद्राष्टं मा चाधर्मं समाचरेत् // suv_13.55 //

जीवितं च परित्यज्य मा पापे पतितो भवेत् / बन्धुजने परजने सर्वराष्ट्रजनेषु च / एकापेक्षो भवेद्राजा मा पक्षे पतितो भवेत् // suv_13.56 //

त्रैलोक्यमापूरयते यशसा धार्मिको नृपः / हर्षयिष्यन्ति देवेन्द्रास्त्रायस्त्रिंशद्भवेषु च // suv_13.57 //

जम्बूद्वीपे तथास्माकं पुत्रो धर्मात्मको नृपः / धर्मेण शास्यते राष्ट्रं सुकृते स्थाप्यते जनम् // suv_13.58 //

सुकृतेन च राजा तं इह प्रेषयते जनम् / देवैर्देवसुतैः पूर्णं करोति च सुरालयम् // suv_13.59 //

धर्मेण शास्यते राष्ट्रं राजा नः सुप्रहर्षिताः / प्रसन्ना भोन्ति देवेन्द्रा रक्षन्ते तान्नराधिपान् // suv_13.60 //

सम्यग्वहन्ति नक्षत्रा चन्द्रसूर्यौ तथैव च / कालेन वायवो वान्ति काले चैवं प्रवर्षति // suv_13.61 //

सुभिक्षं कुर्वते राष्ट्रे तथा देवसुरालये / अमरामरपुत्रेण पूर्णं भोति सुरालयम् // suv_13.62 //

तस्मात्त्यज्येन्नरपतिः प्रियं जीवितमात्मनः / आवर्तयेद्धर्मरत्नं येन लोकः सुखी भवेत् // suv_13.63 //

/ धार्मिकीं च नयेत् सेवां यो गुणैः समलंकृतः / स नित्यं सेवते तुष्टं सदा पापविवर्जितः // suv_13.64 //

धर्मेण पालयेद्राष्ट्रं धर्मे समनुशासयेत् / सुकृते स्थापयेत् सत्त्वान्दुष्कृते च विवारयेत् // suv_13.65 //

सुभिक्षं भवते राष्ट्रे तेजस्वी भवते नृपः / यथानुरूपं कुरुते दमनं पापकारिणाम् / यशस्वी भवते राजा सुखं पालयते प्रजामिति // suv_13.66 //

इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे देवेन्द्रसमयं नाम राजशास्त्रपरिवर्तस्त्रयोदशमः //

// सुसंभवपरिवर्तः //

ससागरा त्यक्त वसुंधरा तदा यदा बभूव नृप चक्रवर्ती / चत्वारि द्वीपानि सरत्नपूर्णनिर्याति ता पूर्वजिनेषु मह्यम् // suv_14.1 //

न चास्ति तद्वस्तु प्रियं मनापं पूर्वं च मह्यं न व त्यक्तमासीत् / तं धर्मकायं परिमार्गणार्थः प्रियजीवितं त्यक्तमनेककल्पान् // suv_14.2 //

यथ पूर्वकल्पेषु अचिन्तियेषु रत्नशिखिस्य सुगतस्य शासने / परिनिर्वृतस्य सुगतस्य तस्य सुसंभवो नाम बभूव राजा // suv_14.3 //

स चक्रवर्ती चतुर्द्वीप ईश्वरः समुद्रपर्यन्तमही प्रशास्यते / जिनेन्द्रघोषाय च राजधानीय सुप्तो बभूवा तद राजकुञ्जरः // suv_14.4 //

स्वप्नान्तरे बुद्धगुणाञ्च श्रुत्वा रत्नोच्चयं पश्यति धर्मभाणकम् / स्थित सूर्यमध्ये व विरोचमानं प्रकाशयन्तं इम सूत्रराजम् // suv_14.5 //

स्वप्नाद्विबुद्धश्च बभूव राजा पीतिस्फुटं सर्वशरीरमस्य / अभिनिष्क्रर्म राजकुलानि दृष्टु उपसंक्रमी श्रावकसंघमग्रम् // suv_14.6 //

करोति पूजां जिनश्रावकाणां रत्नोच्चयं पृच्छति धर्मभाणकम् / क्व चास्ति भिक्षूरिह चार्यसंघे रत्नोच्चयो नाम गुणान्वितश्च // suv_14.7 //

तेनान्तरेणा रतनोच्चयो हि अन्यत्र गूहान्तर संनिषणः / विचित्ररत्नं इम सूत्रराजं स्वध्यायमानः सुख संनिषणः // suv_14.8 //

देशेन्ति राजस्य तदन्तरेण रत्नोच्चयं भिक्षु स धर्मभाणकम् / अन्यत्र गूहान्तरसंनिषणं / तं तेन रश्मीश्रियया ज्वलन्तम् // suv_14.9 //

एषो ऽत्र रत्नोच्चय धर्मभाणको धारेति गम्भीरजिनस्य गोचरम् / स्वर्णप्रभासोत्तमसूत्ररत्नं सूत्रेन्द्रराजं सततं प्रकाशयेत् // suv_14.10 //

वन्दित्व पादौ रतनोच्चयस्य सुसंभवो राज इदं प्रवीद्धि / देशे हि मे पूर्णशशाङ्क चक्रं स्वर्णप्रभासोत्तमसूत्ररत्नम् // suv_14.11 //

अधिवासयी सो रतनोच्चयश्च राज्ञश्च तस्यैव सुसंभवस्य / सर्वत्रिसाहस्रिकलोकधातौ प्रहर्षितास्सर्वि बभूवु देवताः // suv_14.12 //

वसुधाप्रदेशे परमे विशिष्टे रत्नोदके गन्धजलाम्वुसिक्ते / पुष्पावकीर्णां धरणीं स कृत्वा तत्रासनं प्राप्य तदा नरेन्द्रः // suv_14.13 //

समलंकृतं राज्ञ तदासनं च च्छत्रैर्ध्वजैर्घण्टसहस्रनेकैः / नानाविचित्रैर्वरपुष्पचन्द्रैर् अभ्योकिरे राज्ञ तदासनं च // suv_14.14 //

देवाश्च नागासुरकिंनराश्च यक्षाश्च यक्षेन्द्रमहोरगाश्च / दिव्यैश्च मान्दारवपुष्पवर्षैर् अभ्यावकीर्णाश्च तदासनं च // suv_14.15 //

अचिन्तियानन्त सहस्रकोटियो ये आगता देवभवाग्रकामाः / अभिनिष्क्रमित्वा रतनोच्चयं हि अभ्यो किरन्ति स्म च सालपुष्पा // suv_14.16 //

सो चापि रत्नोच्चय धर्मभाणकः शुभाभगात्रः शुचिवस्त्रप्रावृतः / उपसंक्रमित्वा च तदासनं हि कृताञ्जलीभूत्व नमस्यते च // suv_14.17 //

देवेन्द्रदेवानि च देवतानि मान्दारपुष्पं च प्रवर्षयन्ति / अचिन्तिया तूर्यशता सहस्रा प्रवादयन्ति स्थित अन्तरीक्षे // suv_14.18 //

अभीरुहित्वा च स संनिषणो रत्नोच्चयो भिक्षु स धर्मभाणकः / अनुस्मरित्वा दशसू दिशासु अचिन्तिया बुद्धसहस्रकोट्यः // suv_14.19 //

सर्वेष सत्त्वान कृपांज नित्य कारुण्यचित्तं समुपादयेत् सः / राज्ञश्च तस्यापि सुसंभवस्य प्रकाशितं सूत्रमिदं तदन्तरे // suv_14.20 //

कृताञ्जलीभूत्व स्थिहित्व राजा यः कायवाचा मनुमोदितः सः / सद्धर्मवेगाश्रुप्रमुक्तनेत्रः प्रतिस्फटस्तस्य बभूव कायः // suv_14.21 //

इमस्य सूत्रस्य च पूजनार्थं सुसंभवो राज तदन्तरेण गृह्णित्व चिन्तामणिराजरत्नं सर्वार्थहेतोः प्रणिधिं चकार // suv_14.22 //

वर्षन्तु अद्या इह जम्बुद्विपे ससप्तरत्नाणि च भूषणानि ये चेह सत्त्वाः खलु जम्बुद्विपे सुखिताश्च भेष्यन्ति महाधनाश्च // suv_14.23 //

चतुर्षु द्वीपेषु प्रवर्षितानि सप्तानि रत्नानि तदन्तरेण / केयूरहारा वरकुण्डलानि तथान्नपाने वसनानि चैव // suv_14.24 //

दृष्ट्वा च तं राज सुसंभवश्च रत्नप्रवर्षं खलु जम्बुद्वीपे / चत्वारि द्वीपानि सरत्नपूर्णा निर्यातयी रत्नशिखिस्य शासने // suv_14.25 //

अहं च सः शाक्यमुनिस्तथागतः सुसंभवो नाम बभूव राजा / येनेह मे त्यक्त वसुंधरा तदा चत्वारि द्वीपानि सरत्नपूर्णा // suv_14.26 //

अक्षोभ्य आसीत् स तथागतश्च रत्नोच्चयो भिक्षु स धर्मभाणकः / येनास्य राजस्य सुसंभवस्य प्रकाशितं सूत्रमिदं तदान्तरे // suv_14.27 //

यन्मे श्रुतं सूत्रमिदं तदन्तरे एकाग्रवाचामनुमोदितं च / तेनैव मह्यं कुशलेन कर्मणा श्रोतानुमोदेन श्रुतेन तेन // suv_14.28 //

सुवर्णवर्णं शतपुण्यलक्षणं लभेयि कायं प्रियदर्शनं सदा / नयनाभिरामं जनकान्तदर्शनं रतिंकरं देवसहस्रकोटिनाम् // suv_14.29 //

नवोत्तरं नोतिसहस्रकोट्या कल्पानभूवं नृपचक्रवर्ती / अनेक कल्पान सहस्रकोट्यो त्रैलोक्यराजत्व मयानुभूतम् // suv_14.30 //

अचिन्तिया कल्प बभूव शक्रः तथैव ब्रह्मेन्द्र प्रशान्तमानसः / आरागिता मे बलाप्रमेया येषां प्रमाणं न कदाचि विद्यते // suv_14.31 //

तथा प्रमाणं बहु पुण्यस्कन्धं यन्मे श्रुतं सूत्रनुमोदितं च / यथाभिप्रायेण मि बोधि प्राप्ता सद्धर्मकायश्च मया हि लब्ध // suv_14.32 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे सुसंभवपरिवर्तो नाम चतुर्दशमः //

// यक्षाश्रयरक्षापरिवर्तः //

यः कश्चिच्छ्रीमहादेवि श्राद्धः कुलपुत्रो वा कुलदुहिता वातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्यां महतीं विपुलां विस्तीर्णां सर्वोपकरणैः पूजां कर्त्तुकामः स्यात् / अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां गम्भीरं बुद्धगोचरं परिज्ञातुकामो भवेत् / तेनावश्यं तत्र प्रदेशे विहारे वारण्यप्रदेशे वा यत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः विस्तरेण संप्रकाश्यते / तेनाविक्षिप्तचित्तेनाविरहितश्रोत्रेणायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः //

अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संपरिदीपयमानस्तस्यां वेलायामिमा गाथा अभाषत //

य इच्छेत्सर्वबुद्धानां पूजां कर्तुमचिन्तियाम् / गम्भीरं सर्वबुद्धानां गोचरं च प्रजनितुम् // suv_15.1 //

सर्वदेशोपसंक्रम्य विहारं लयनं तथा / यावद्देशीयते सूत्रं स्वर्णभासोत्तमं त्विदम् // suv_15.2 //

अचिन्तियमिदं सूत्रमनन्तगुणसागरम् / मोचकं सर्वसत्त्वानामनेकदुःखसागरात् // suv_15.3 //

आदिं सूत्रस्य पश्यामि मध्यमनिधनं तथा / अतिगम्भीरसूत्रेन्द्र उपमानं न विद्यते // suv_15.4 //

न गङ्गारजसा चैव न धरण्यां न सागरे / न चाम्बरतलस्थस्य किंचिच्छक्योपमा कृतुम् // suv_15.5 //

धर्मधातुप्रवेशेन प्रवेष्टव्यं तदन्तरम् / यत्र धर्मात्मकस्तूपं गम्भीरं सुप्रतिष्ठितम् // suv_15.6 //

तत्र च स्तूपमध्ये ऽस्मिन्पश्येच्छाक्यमुनिं जिनम् / इदं सूत्रं प्रकाशन्तं मनोज्ञेन स्वरेण च // suv_15.7 //

यावन्ति कल्पकोट्यो वै असंख्येया अचिन्तियाः / दिव्यमानुष्यकाण्येव सुखानि ह्यनुभूयते // suv_15.8 //

यदा स एवं जानीयाद्यत्तत्र सूत्र श्रूयते / एवमचिन्तियं मह्यं पुण्यस्कन्धं समार्जितम् // suv_15.9 //

आक्रमेद्योजनशतं पूर्णमग्निखदावृतम् / यः सकृच्छुणितुं सूत्रं सहेतु वेदनां भृशम् // suv_15.10 //

समनन्तरप्रविष्टस्य विहारं लयनं तथा / अपगच्छति पापानि सर्वदुःस्वप्नलक्षणा // suv_15.11 //

ग्रहनक्षत्रपीडा च काखोर्दग्रहदारुणा / समनन्तरप्रविष्टस्य सर्वे भोन्ति पराङ्मुखाः // suv_15.12 //

तादृशमासनं तत्र कुर्वीत पद्मसंनिभम् / यादृशं नागराजैश्च दर्शितं सुपिनान्तरे // suv_15.13 //

तत्रासनोपविष्टस्य इदं सूत्रं प्रकाशयेत् / लिखितं वाचयेच्चैव तथैव पर्यवाप्नुयात् // suv_15.14 //

अवतीर्यासनादेव अन्यदेशे गतो भवेत् / दृश्यन्ते प्रतिहार्याणि तत्रासनगतानि च // suv_15.15 //

धर्मभाणकरूपं च कदाचित्तत्र दृश्यते / कदाचिद्बुद्ध रूपं च बोधिसत्त्वं कदाचन // suv_15.16 //

समन्तभद्ररूपाणि क्वचिन्मञ्जुश्रियस्तथा / क्वचिन्मैत्रैयरुपाणि दृश्यन्ते तत्र आसने // suv_15.17 //

क्वचित्केवलमाभासं क्वचिद्देवोपदर्शनम् / मुहूर्तेनाभिदृश्यन्ते पुनश्चान्तरहायिषु // suv_15.18 //

सर्वत्र संसिद्धिकरं प्रशस्तं बुद्धशासनम् / धन्यमङ्गलसम्पन्नं संग्रामे च जयावहम् // suv_15.19 //

जम्बुद्वीपमिदं सर्वं यशसा पूरयिष्यति / सर्वे च रिपवस्तस्य निर्जिता भोन्ति सर्वथा // suv_15.20 //

निहतशत्रुः सदा भोति सर्वपापविवर्जितः / सदा विजितसंग्रामः श्रिया स च प्रमोदति // suv_15.21 //

ब्रह्मेन्द्रास्त्रिदशेन्द्राश्च लोकपालास्तथैव च / वज्रपाणिश्च यक्षेन्द्रः संज्ञेयश्च नरर्षभः // suv_15.22 //

अनवतप्त नागेन्द्रः सागरश्च तथैव च / किंनरेन्द्राः सुरेन्द्राश्च गरुडेन्द्रास्तथैव च / एतांश्च प्रमुखान् कृत्वा सर्वाणि देवतानि च // suv_15.23 //

ते च ता नित्यं पूजन्ति धर्मस्तूपमचिन्तियम् / प्रहर्षिता भविष्यन्ति दृष्ट्वा सत्त्वाः स गौरवाः // suv_15.24 //

ते ऽप्येवं चिन्तयिष्यन्ति देवेन्द्राः सर्व उत्तमाः / देवताश्चैव तास्सर्वा वक्ष्यन्ति च परस्परम् // suv_15.25 //

एता पश्यथ सर्वाणि तेजः श्रीपुण्यसंचिता / उप्तकुशलमूलेन आग्तास्ते नरा इह // suv_15.26 //

य इमं सूत्रगम्भीरं श्रवणार्थमिहागताः / अचिन्तियप्रसादेन धर्मस्तूपे सगौरवाः // suv_15.27 //

एते कारुणिका लोके एते सत्त्वहितंकराः / एते गम्भीरधर्माणां सद्धर्मरसभोजनम् // suv_15.28 //

धर्मधातुप्रवेशेन य एते प्रविशन्ति च / ये शृण्वन्ति इदं सूत्रं ये चान्याञ्श्रावयन्ति च // suv_15.29 //

बुद्धा शतसहस्राणि तेभिस्ते पूर्वपूजिताः / एतेन कुशलमूलेन इदं सूत्रं शृण्वन्ति च // suv_15.30 //

ते सर्वे देवराजेन्द्राः सरस्वती तथैव च / श्रीश्च वैश्रवणश्चैव तथा चतुर्महाधिपाः // suv_15.31 //

यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः / तेषां रक्षां करिष्यन्ति दिवारात्रावतन्द्रिताः // suv_15.32 //

महाबलैश्च यक्षेन्द्रैर्नारायणमहेश्वरौ / अष्टाविंशतिश्चाप्यन्ये संज्ञेयप्रमुखाणि च // suv_15.33 //

यक्षशतसहस्रेभिरृद्धिमद्भिर्महाबलैः / तेषां रक्षां करिष्यन्ति सर्वत्रासभयेषु च // suv_15.34 //

वज्रपाणिश्च यक्षेन्द्रः पञ्चयक्षशतैरपि / सर्वेभि बोधिसत्त्वेभिस्तेषां रक्षां करिष्यति // suv_15.35 //

मणिभद्रश्च यक्षेन्द्रः पूर्णभद्रस्तथैव च / कुम्भीरो ऽटावकश्चैव पिङ्गलश्च महाबलः // suv_15.36 //

एकैकश्चैव यक्षेन्द्रः पञ्चयक्षश्तैर्वृतः / तेषां रक्षां करिष्यति येभिः सूत्रमिदं श्रुतम् // suv_15.37 //

चित्रसेनश्च गन्धर्वो जिनराजो जिनर्षभः / मणिकण्ठो नीलकण्ठश्च वर्षाधिपतिरेव च // suv_15.38 //

महाग्रासो महाकालः स्वर्णकेशी तथैव च / पाञ्चिकश्छगलपादश्च महाभागस्तथैव च // suv_15.39 //

प्रणाली महापालश्च मर्कटो वालिरेव च / सूचिरोमः सूर्यमित्रो रत्नकेशस्तथैव च // suv_15.40 //

महाप्रणाली नकुलः कामश्रेष्ठश्च चन्दनः / नागायनो हैमवतः सातागिरिस्तथैव च // suv_15.41 //

सर्वे त ऋद्धिमन्तश्च महाबलपराक्रमाः / तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम् // suv_15.42 //

अनवतप्तो हि नागेन्द्रः सागरो ऽपि तथैव च / मुचिलिन्न्दैरेलापत्रौ उभौ नन्दोपनन्दकौ // suv_15.43 //

नागशतसहस्रेभिरृद्धिमद्भिर्महाबलैः / तेषां रक्षां करिष्यन्ति सर्वतो भयभैरवात् // suv_15.44 //

वली राहुर्नमुचिश्च वेमचित्रश्च संवरः / प्रह्रादः खरस्कन्धश्च तथान्ये चासुराधिपाः // suv_15.45 //

असुरशतसहस्रेभिरृद्धिमद्भिर्महाबलैः / तेषां रक्षां करिष्यन्ति उत्पातभयभैरवात् // suv_15.46 //

हारीती भूतमाता च पञ्चपुत्रशतैरपि / तेषां रक्षां करिष्यन्ति सप्तमातृस्थितानि च // suv_15.47 //

चण्डा चण्डालिका चैव यक्षिणी चण्डिका तथा / दन्ती च कूटदन्ती च सर्वसत्त्वौजहारिणी // suv_15.48 //

एते सर्व ऋद्धिमन्तो महाबलपराक्रमाः / तेषां रक्षां करिष्यन्ति समन्तेन चतुर्दिशः // suv_15.49 //

सरस्वती च प्रमुखा देवता च अचिन्तिया / तथा श्रीप्रमुखाश्चैव सर्वाणि देवतानि च // suv_15.50 //

पृथिवी देवता चैव फलशस्याधिदेवता / आरामवृक्षचैत्यानि वासिन्योनदि देवता // suv_15.51 //

ते सर्वे देवतासंघाः सुप्रहर्षितचेतसाः / तेषां रक्षां करिष्यन्ति येषां सूत्रमिदं प्रियम् // suv_15.52 //

योजयन्ति च ते सत्त्वा आयुर्वर्णबलेन च / श्रीपुण्यतेजलक्ष्मीभिस्ते नित्यालंकरोन्ति च // suv_15.53 //

ग्रहनक्षत्रपीडाश्च सर्वास्ते शमयन्ति च / अलक्ष्मीपापदुःस्वप्नं सर्वे ते नाशयन्ति च // suv_15.54 //

पृथिवीदेवता चैव गम्भीरा च महाबला / सुवर्णप्रभासोत्तमसूत्रेन्द्ररसतर्पिता // suv_15.55 //

अष्टषष्टिसहस्राणि शतानि योजनानि च / यावद्वज्रतलस्थानं वर्घते पृथिवीरसैः // suv_15.56 //

पूर्णं च शतयोजनं पुरस्तात्संनिवर्तति / ऊर्ध्वं स्नेहयते मही इतः सूत्रश्रवणबलात् // suv_15.57 //

सर्वाश्च देवताश्चापि दशदिक्षु व्यवस्थिताः / सुवर्णप्रभसोत्तमसूत्रेन्द्ररसतर्पिताः // suv_15.58 //

ओजोवन्तो वरा भोन्ति लक्ष्मीवीर्यवलान्विताः / सुखेन प्रीणिता भोन्ति नानारससमर्पिताः // suv_15.59 //

सर्वत्र जम्बुद्वीपे ऽस्मिन्फलशस्यवनदेवताः / प्रहर्षिता भविष्यन्ति इह सूत्रे प्रकाशने // suv_15.60 //

शस्यानि च तृणान्येव विचित्रकुसुमानि च / विचित्राः फलवृक्षाश्च रोहयन्ति समन्ततः // suv_15.61 //

सर्वाणि फलवृक्षाणि आरामाणि वनानि च / सुपुष्पितं करिष्यन्ति नानागन्धप्रमोदितम् // suv_15.62 //

विचित्रेभिश्च पुष्पेभिर्विचित्रेभिः फलैरपि / सर्वास्तृणवनस्पत्यो रोहयन्ति महीतले // suv_15.63 //

सर्वत्र जम्बुद्वीपे ऽस्मिन्नागकन्या अचिन्तियाः / प्रहृष्टचेतसोद्भूताः पद्मिनीषूपसंक्रमन् // suv_15.64 //

रोहयन्ति विचित्राणि सर्वासु पद्मिनीषु च / पद्मकुमुदोत्पलानि च पुण्डरीकस्तथैव च // suv_15.65 //

धूमात्र जालिनी मुक्तं भवते गगणं शुभम् / तमोरजोविनिर्मुक्ता दिशो भोन्ति प्रभास्वराः // suv_15.66 //

सूर्यः सहस्रकिरणै रश्मिजालेन सुप्रभः / गम्भीरेणावभासेन हर्षितश्चोदयिष्यति // suv_15.67 //

जम्बूनदसुवर्णस्य विमानान्तरसंस्थितः / सूर्येन्द्रदेवपुत्राश्च इतः सूत्रात् सुतर्पिताः // suv_15.68 //

उपयान्ति जम्बुद्वीपे सूत्रेन्द्राः संप्रहर्षिताः / अनन्तरश्मिजालेन भो भास्यन्ति समन्ततः // suv_15.69 //

सहबोधितमात्रेण रश्मिजालप्रचोदने / नानापद्मिनीसंछन्ना कमला बोधयिष्यन्ति // suv_15.70 //

सर्वत्र जम्बुद्वीपे ऽस्मिन्नानाशस्य फलौषधीः / परिपाचयन्ति सम्यक् तं चातपयते महिम् // suv_15.71 //

चन्द्रसूर्यौ विशेषेण अवभासेतां तदन्तरम् / सम्यग्वहन्ति नक्षत्रा वातवर्षं तथैव च // suv_15.72 //

सुभिक्षं भवते सर्वं जम्बुद्वीपे समन्ततः / विशेषेण च तद्राष्ट्रं यत्र सूत्रमिदं भवेत् // suv_15.73 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे यक्षाश्रयो नामरक्षापरिवर्तः पञ्चदशमः //

// दशदेवपुत्रसहस्रव्याकरणपरिवर्तः //

एवमुक्ते बोधिसत्त्वसमुच्चया कुलदेवता भगवन्तमेतदवोचत् / केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोत्तप्तवीर्येण कुशलमूलेन यस्य कृतत्वादुपचितत्वादेवतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिशद्देवभवनादागतानि भगवतो ऽन्तिके धर्मश्रवणायोपसंक्रामन्ति /

एतेषां त्रयाणां सत्पुरुषाणां बोधिसत्त्वव्याकरणं श्रुत्वा बोधौ चित्तमुत्पादयन्ति / यथायं रुचिरकेतुः सत्पुरुषो ऽनागते ऽध्वनि गणनासमतिक्रान्तेष्वनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु सुवर्णप्रभासितायां लोकधातावनुत्तरां सम्यक्यंबोधिमभिसंभोत्स्यते / सुवर्णरत्नाकरच्छत्रकूटो नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् / यावत्तस्य भगवतः सुवर्णरत्नाकरच्छत्रकूटस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मान्तर्हिते सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यकेतुर्नाम दारकः / तस्य तथागतस्यानुसंघौ तत्र चैव विरजध्वजलोकधातौ सुवर्णजम्बुध्वजकाञ्चनाभो नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पत्स्यते / यावत्तस्य सुवर्णध्वजकाञ्चनावभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सर्वेण सर्वे सर्वथा सर्वं तस्य शासनस्यान्तर्हितस्यायं रूप्यप्रभो दारकः / तस्य तथागतस्योनुसंघौ तत्र चैव विरजध्वजलोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते / सुवर्णशतरश्मिप्रभासगर्भो नाम तथागतो ऽर्हनसम्यक्संबुद्धो लोक उत्पस्यते विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् // ते सर्व एतर्हि भगवतानुत्तरायां सम्यक् संबोधौ व्याकृताः //

न चैतेषां भदन्त भगवज्ज्वलनान्तरतेजोराजप्रमुखानां दशानां देवपुत्रसहस्राणां यावद्विस्तीर्णा बोधिसत्वचर्या अभूवन् / न षट्सु पारमितासु पूर्वं चरितवन्तः श्रुतपूर्वा अभूवन् / नयनचरणोत्तमाङ्गप्रियपुत्रभार्यादुहितरः परित्यक्तपूर्वा न श्रूयन्ते / धनधान्यहिरण्यसुवर्णमणिमुक्तावज्रवैडूर्यशङ्खशिलाप्रवाडजातरूपरजतमरकतरत्नानि (बग्छि 91) परित्यक्तपूर्वाणि न श्रूयन्ते / नानान्नपानवस्त्रयानशयनासनभवनविमानारामपुष्करिणीतडागाः परित्यक्तपूर्वा न श्रूइयन्ते / नानाहस्तिगो ऽश्ववडवादासीदासाः परित्यक्तपूर्वा न श्रूयन्ते / यथा तान्यनेकानि बोधिसत्त्वकोटीनियुतशतसहस्राणि पूर्वेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वनेकानामसंख्येयतथागतकोटीनियुतशतसहस्राणामनेकाचिन्त्यैः नानाविचित्रैः पूजाशतसहस्रैः सर्वोपकरणैः पूजां करिष्यन्ति / सर्वरत्नपरित्यागानि परित्यजिष्यन्ति / करचरणनयनोत्तमाङ्गप्रियपुत्रभार्यादुहितापरित्यागानि करिष्यन्ति / धनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाणि परित्यागानि परित्यजन्ति / अन्नपानवस्त्रशयनासनभवनविमानारामोद्यानपुष्करिणीहस्तिगवाश्चवडवादासीदासपरित्यागानि परित्यक्ष्यन्ति / अनुपूर्वेण षट्पारमिताः परिपूरयिष्यन्ति / अनुपूर्वेण षट्पारमिताः परिपूरयित्वानेकानि सुखशतसहस्राण्यनुभविष्यन्ति / यावद्बुद्धेभ्यो भगवद्भयः तथागतनामधेये व्याकरणं प्रतिलप्स्यन्ते //

तत्केन भदन्त भगवन् हेतुना केन कारणेन कीदृशेनोप्तकुशलमूलेन च तानि ज्वलनान्तरते जोराजप्रमुखानि दशदेवपुत्रसहस्राणीह भगवतो ऽन्तिकं धर्मश्रवणायोपसंक्रामन्ति / तान्येतर्हि भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतानि / यदुतानागते ऽध्वन्यनेकेष्वसंख्येयकल्पकोटीनियुतशतसहस्रेष्वतिक्रान्तेषु तत्रेव शालेन्द्रध्वजाग्रवत्यां लोकधातावेककुलगोत्रैकनामधेयेनानुपूर्वेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / प्रसन्नवदनोत्पलगन्धकूटानाम्ना दशसु दिक्षु दशबुद्धसहस्राणि लोक उत्पत्स्यन्ते विद्याचरणसंपन्नाः सुगता लोकविदो ऽनुत्तराः पुरुषदम्यसारथयः शास्तारो देवानां च मनुष्याणां च बुद्धा भगवन्तः //

एवमुक्ते भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् / अस्ति कुलदेवते सहेतुरस्ति तत्कारणम् / अस्ति तदुप्तं कुशलमूलं यस्य कृतत्वादुपचितत्वादेतानि ज्वलनान्तरतेजोराजप्रमुखानि (बग्छि 92) दशदेवपुत्रसहस्राण्येतर्हि त्रायस्त्रिंशद्भवनादिह धर्मश्रवणायोपसंक्रामन्ति / एतेषां त्रयाणां सत्पुरुषाणामिदं बोधिव्याकरणं श्रुत्वा सहश्रवणेन कुलदेवते ऽस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रीतिप्रसादप्रतिलब्धा भवन्ति / तावद्विमलवैडुर्यसदृशेन परिशुद्धचित्तेन समन्वागता भवन्ति / विमलविपुलविस्तीर्णगगणकल्पसदृशेन गम्भीरेण चित्तप्रसादेन समन्वागता भवन्ति / अपरिमितं च पुण्यस्कन्धं परिगृहीतवन्तो भवन्ति तावच्चैत्यदैवते ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राणि सहश्रवणेनास्य सूत्रेन्द्रराजस्यान्तिके चित्रीकारप्रसादप्रतिलब्धा भवन्ति / तावद्विमलवैडूर्यसदृशेन परिशुद्धेन चित्तेन समन्वागता भवन्ति यावद्याकरणभूमिमनुप्राप्ताः / अनेन कुलदेवते धर्मश्रवणकुशलमूलप्रचयेनापि पूर्वप्रणिधानवशेनैतानि ज्वलनान्तरतेजोराजप्रमुखानि दशदेवपुत्रसहस्राण्येतर्ह्यनुत्तरायां सम्यक्संबोधौ व्याकृतानि / कतमानि च कुलदेवते पूर्वप्रणिधानानीति /

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे दशदेवपुत्रसहस्रव्याकरणपरिवर्तः षोडशः //

// व्याधिप्रशमनपरिवर्तः //

भूतपूर्वं कुलदेवते ऽतीते ऽध्वन्यसंख्येयतरैर्विपुलैरचिन्त्यैरप्रमेयैर्यदासीत्तेन कालेन तेन समयेन रत्नशिखी नाम तथागतो ऽर्हन्सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् / तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मस्यान्तर्हितस्य सद्धर्मप्रतिरूपके परिवर्तमाने सुरेश्वरप्रभो नाम राजा बभूव / धार्मिको धर्मराजो धर्मेण राज्यं पालयमानो नाधर्मेण मातापितृकल्पः सर्वविषयवासिनां सत्त्वानाम् //

तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये जटिंधरो नाम श्रेष्ठी बभूव //

वैद्यः चिकित्सकः परमधातुकुशलो ऽष्टाङ्गेनायुर्वैद्यशास्रेण समन्वागतो बभूव /

तेन खलु कुलदेवते कालेन तेन समयेन तस्य जटिंधरस्य श्रेष्ठिनो जलवाहनो नाम्ना श्रेष्ठिपुत्र उत्पन्नो बभूव / अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतो नानाशास्त्रकुशलः सर्वशास्त्रगतिंगतो लिपिसंख्यागणनाकुशलः सर्वशिल्पी बभूव / तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य राज्ञः सुरेश्वरप्रभस्य विषये ऽनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टान्यभूवन् / नानाव्याधिपरिपीडितानि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति //

तेन खलु पुनः कुलदेवते कालेन तेन समयेन तस्य जलवाहनस्य श्रेष्ठिपुत्रस्य तेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपिडितानामर्थाय परमकारुण्यं चित्तमुत्पन्नो बभूव / एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितान्येतर्हि दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति / अयं च मम पिता जटिंधरः श्रेष्ठी वैद्यविचिकित्सकः परमधातुकुशलो ऽष्टाङ्गायुर्वैद्यशास्त्रेण समन्वागतो वृद्धो जीर्णो (बग्छि 94) महल्लको ऽध्वगतो वयो ऽनुप्राप्तो जीर्णमवस्थाप्य प्रवेपमाणः कायो यष्टिमालम्ब्य यत्र यत्र सर्वत्र ग्रामनगरनिगमराष्ट्रराजधानीषूपसंक्रामति / एतान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधोभ्यः परिमोचयितुं यं नूनमहमिममेव पितरं जटिंधरमुपसंक्रमित्वाधिकौशल्यं परिपृच्छेयम् / येन धातुकौशल्येन परिपृष्टेनाहं सर्वत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामि / उपसंक्रम्य तान्यनेकानि सत्त्वशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानाव्याधिभ्यः परिमोचयिष्यामि /

तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो येन स्वपिता जटिंधरः श्रेष्ठी तेनोपजगाम / उपेत्य स्वपितुर्जटिंधरस्य पादौ शिरसा वन्दित्वा कृताञ्जलिपुटो भूत्वैकान्ते ऽस्थात् / एकान्ते स्थितो जलवाहनः श्रेष्ठिपुत्रः स्वपितरं जटिंधरं श्रेष्ठिनमिमाभिर्गाथाभिर्धातुकौशल्यं पृच्छति स्म //

तानीन्द्रियाणि लक्षन्ते परिवर्तन्ति धातवः / केन कालेन जायन्ते व्याधयश्च शरीरिणाम् // suv_17.1 //

भोजनं च कथं भुक्त्वा काले काले सुखावहम् / येनान्तरशरीरस्य कायो ऽग्निनोपहन्यते // suv_17.2 //

कथं चिकित्सा कर्तव्या वाते पित्ते श्लेष्मिके तथा / संनिपाते समुत्पन्ने कथं व्याधिशान्तये // suv_17.3 //

किं काले कुप्यते वातः पित्तं कुप्यते कदा / किं काले कुप्यते श्लेष्मा येन पीड्यन्ति मानवाः // suv_17.4 //

अथ खलु जटिंधरः श्रेष्ठी जलवाहनस्य श्रेष्ठिपुत्रस्याभिर्गाथाभिर्धातुकौशल्यं विदित्वा देशयते स्म //

वर्षा चात्र त्रयो मासास्त्रयश्च शारदं स्मृतम् / त्रयस्तथैव हेमान्तस्त्रयश्च ग्रीष्मिकस्तथा // suv_17.5 //

इत्येव मासक्रमः षडृतूनि संवत्सरद्वादशमासिकं स्मृतम् / अन्नं च पानं च तथा च जीर्यते वैद्याश्च कौशल्यस्मृतिप्रदर्शिताः // suv_17.6 //

ते चापि संवत्सरपर्वमन्तरे परिवर्तन्तीन्द्रियधातवो ऽपि / परिवर्तमानानि च इन्द्रियाणि विचित्रव्याधिर्भवते शरीरिणाम् // suv_17.7 //

तत्रैव वैद्यस्य चतुः प्रकारं त्रिमासपर्वान्तरे षडृतूनि / षड्धातुकौशल्यप्रजानितव्यं यथाक्रमं भोजनमौषधं च // suv_17.8 //

वाताधिकाराः प्रभवन्ति वर्षे पत्तिप्रकोपः शरदि प्रसन्ने / हेमन्तकाले तथ संनिपातं कफाधिकाराश्च भवन्ति ग्रीष्मे // suv_17.9 //

स्निग्धोष्णलवणाम्लरसाश्च वर्षे शरत्सु स्निग्धं मधुरं च शीतम् / मधुराम्लस्निग्धं च हेमन्तकाले रूक्षोष्णकटुकानि च ग्रीष्मकाले // suv_17.10 //

कफाधिकः कुप्यति भुक्तमात्रे पित्ताधिकं कुप्यति जीर्यमाणे / वाताधिकः कुप्यति जीर्णमात्रे इत्येव धातुत्रितयप्रकोपः // suv_17.11 //

संबृहणं कुर्वतु निरात्मकस्य विरेचनं पित्तविवर्धनं च / त्रिगुणोपपन्नं तथ संनिपाते प्रशमं च कुर्यात्कफपर्वमन्तरे // suv_17.12 //

वाताधिकं पैत्तिकसन्निपाते कफाधिकं पर्वसु जानितव्यम् / यत्काल यद्धातु यदाश्रयं च तदन्नपानौषधि दर्शितव्यमिति // suv_17.13 //

अथ खलु जलवाहनः श्रेष्ठिपुत्रस्तेनैवंरूपेण नैमित्तिकेन धातुकौशल्येन परिपृष्टेन सर्वाष्टाङ्गायुर्वैद्यमधिगतो ऽभूत् / तेन खलु पुनः कुलदेवते कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो राज्ञः सुरेश्वरप्रभस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमित्वा सर्वेषामनेकेषां सत्त्वशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामेवमाश्वासयामास / मा भैषुर्वैद्यो ऽस्मि वैद्यो ऽस्मीत्यात्मानं प्रतिज्ञातवानहं युष्माकं नानाव्याधिभ्यः परिमोचयिष्यामि / सहश्रवणेन कुलदेवते तस्य जलवाहनस्य श्रेष्ठिपुत्रस्येदमेवंरूपं वचनं व्याहरमाणस्य सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि महाप्रहर्षजातानि बभूवुः / आश्वासप्राप्तान्यचिन्त्यप्रीतिसौमनस्येन समन्वागतानि बभूवुः / तानि तेन कालेन तेन समयेन तया प्रहर्षयानेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि नानारोगेभ्यः परिमोचयितान्यरोगाणि च बभूवुर्विगतव्याधीनि च / यथा पौराणेन स्थामबलवीर्येण समन्वागतानि बभूवुः / तेन खलु पुनः कुलदेवते कालेन तेन समयेन तेषामनेकेषां च सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानां ये केचिद्गाढतरेण स्पृष्टा च बभूवुः / ते सर्वे येन जलवाहनः श्रेष्ठिपुत्रस्तेनोपसंक्रान्त उपसंक्रम्यैव ये च किंचित्तेषां (बग्छि 97) सत्त्वकोटीनियुतशतसहस्राणां नानारोगस्पृष्टानां नानाव्याधिपरिपीडितानामौषधिविधानान्यभिनिर्दिशन्ति स्म / तत्तासु राजधानीषु सर्वाणि तान्यनेकानि सत्त्वकोटीनियुतशतसहस्राणि नानारोगस्पृष्टानि नानाव्याधिपरिपीडितानि जलवाहनेन श्रेष्ठिपुत्रेण नानाव्याधिभ्यः परिमोचितानि बभूवुरिति //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे व्याधिप्रशमन परिवर्तो नाम सप्तदशः //

// जलवाहनस्य मत्स्यवैनेयपरिवर्तः //

पुनरपरं कुलदेवते राज्ञः सुरेश्वरप्रभस्य विषये जलवाहनेन श्रेष्ठिदारकेण सर्वसत्त्वा आरोगाः कृता अल्पा बाधा यथापूर्वेणोत्साहबलकायेन संवृताः सर्व उत्साहसुखेन रमन्ति स्म / क्रीडन्ति स्म / परिचारयन्ति स्म / दानानि च ददन्ति स्म / पुण्यानि च कुर्वन्ति स्म / जलवाहनः श्रेष्ठिदारको महावैद्यदानानां च सुखानां व्याधिविचिकित्सको नियतप्रत्यक्षेण बोधिसत्त्वेन भवितव्यम् / सर्वेनाष्टाङ्गायुर्वैद्यमधिगतो ऽभूत् / तस्य खलु पुनः जलवाहनस्य श्रेष्ठिदारकस्य जलाम्बुजगर्भा नाम भार्या ऽभूत् / तस्य खलु पुनः कुलदेवते जलाम्बुजगर्भाया द्वौ दारकौ पुत्रावभूताम् / एको जलाम्बरो नाम द्वितीयो जलगर्भो नाम //

अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रस्याभ्यां दारकाभ्यां सार्धमनुपूर्वेण ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्वनुचङ्क्रमति //

अथ खलु पुनः कुलदेवते ऽपरेण तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रो ऽन्यतरमटवीकान्तारप्राप्तो ऽध्वनि ददर्शात्रान्तरे मांसभक्षा वृकशृगालकाकपक्षिणस्तां दिशं धावन्ति यत्राटवीकान्तारे ऽटवीसंभवा पुष्करिणी / तदृटष्ट्वा तस्यैतदभूत् / कस्यार्थमिमे मांसभक्षा वृकशृगालकाकपक्षिण इमां दिशं धावन्ति / तस्यैतदभूत् / यं नूनमहं तां दिशमुपसंक्रमेयम् / यस्यां दिशीमे मंसभक्षाश्च वृकशृगालकाकपक्षिणो धावन्ति //

अथ खलु पुनः कुलदेवते जलवाहनः श्रेष्ठिपुत्रो ऽनुपूर्वेणानुचङ्क्रमन्ननुविचरन्यत्राटवीसंभवा पुष्करिणी तत्र संप्राप्तः / तत्र महापुष्करिण्यां दशमत्स्यसहस्राणि प्रतिवसन्ति स्म / स तत्रापश्यद्बहूनि मत्स्यशतानि जलविप्रहीणानि तत्रास्य कारुण्यचित्तमुत्पन्नम् / तत्राद्राक्षीदर्धकायां देवतां निष्क्रमन्तीम् / सा च देवता जलवाहनं श्रेष्ठिदारकमेतदवोचत् / साधु साधु (बग्छि 99) कुलपुत्र यस्त्वं जलवाहनो नाम मत्स्यानामुदकं प्रयच्छ / द्वाभ्यां कारणाभ्यां जलवाहन इत्युच्यते / यश्चोदकं वाहयति ततः स्वनामानुरूपं कुल / जलवाहनः प्राह / कियन्तीमानि देवते मत्स्यानि / देवता प्राह / परिपूर्णानि दशमत्स्यसहस्राणि //

अथ खलु कुलदेवते जलवाहनस्य श्रेष्ठिदारकस्य भूयस्या मात्रया परमकारुण्यचित्तमुत्पन्नम् / तेन खलु पुनः कुलदेवते समयेनाटवीसंभवायां पुष्करिण्या किंचिन्मात्रमवशिष्टमुदकमभूत् / तानि दशमत्स्यसहस्राणि मृत्युमुखप्रविष्टानि जलविप्रहीणानि धावन्ति //

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म / यस्यां दिशि जलवाहनः श्रेष्ठिदारको ऽनुचङ्कमति तस्यां दिशि दशम्त्स्यसहस्राणि जलवाहनं करुणं प्रेक्षन्ते // अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकश्चतुर्दिशं धावति स्म / उदकं प्रेषयमाणो न चैवात्रोदकमुपलभ्यते / चतुर्दिशं प्रेक्षते / सो ऽद्राक्षीन्नातिदूरे महान्तं वृक्षसमूहं तं वृक्षमभिरुह्य द्रुमशाखाञ्छित्त्वा येन सा पुष्करिणी तेनोपजगाम / उपगम्य तेषां दशानां मत्स्यसहस्राणां द्रुमशाखाभिः सुशीतलाञ्छायां कृतवान् //

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिदारकस्तस्यां पुष्करिण्यामुदकागमं पर्येषते कुत उदकस्यागमनं भवेत् / चतुर्दिशं धावति न चोदकमुपलभ्यते / स शीघ्रं शीघ्रं तमुदकस्त्रोतं समनुगच्छति / तस्याः खलु पुनः कुलदेवते अटवीसंभवायाः पुष्करिण्या जलागमा नाम महानदी यतस्तस्यामुदकस्यागमनम् / तेन च समयेन सा न्द्यन्यतरेण पापसत्त्वेन तेषां दशानां मत्स्यसहस्राणामर्थेन सा नदीत्यदृष्टे स्थाने महाप्रपाते पातिता यत्तेषां मत्स्यानां न भूय उदकस्यागमनं भविष्यति / स तं दृष्ट्वा चिन्तयति न शक्यत एषा नदी जनसहस्रेणापि तेनैव यथा वाहयितुं किमङ्ग पुनर्मयैकेन शक्यो बाहयितुं स प्रतिनिवृत्तः //

अथ खलु कुलदेवते जलवाहनः श्रेष्ठिपुत्रः शीघ्रं शीघ्रमुपसंक्रान्तो येन राजा (बग्छि 100) सुरेश्वप्रभस्तेनोपजगाम / उपगम्य राज्ञः सुरेश्वरप्रभस्य पादौ शिरसा नत्वैकान्ते निषण्णः / इमां प्रकृतिमारोचयाति स्म / मया खलु देवस्य विषये सर्वग्रामनगरनिगमजनपदराष्ट्रराजधानीषु सत्त्वानां व्याधयः प्रशमिताः / तत्रामुष्मिन्स्थाने ऽटवीसंभवा नाम पुष्करिणी / तत्र दशमत्स्यसहस्राणि प्रतिवसन्ति जलप्रहीणान्यादित्यपरितापितानि / तद्ददातु मे देवो विंशतिगजा यथा तेषां तिर्यग्योनिगतानां जीवितं ददामीति / यथा मनुष्याणां दत्तमाज्ञप्तं खलु राज्ञा सुरेश्वरप्रभेणामात्यानां ददत महावैद्यराजस्य विंशतिगजान् / अमात्या आहुः / उपसंक्रम महासत्त्व येन हस्तिशाला उपगृह्णीष्व विंशतिगजान् कुरु सत्त्वानां सुखम् //

अथ खलु कुलदेवते जलवाहनः सार्धं जलाम्बरेण च स्वपुत्रेण विंशतिगजान् गृहीत्वा नागशौण्डिकानां सकाशाच्छतशो दृशीनां प्रतिगृह्य प्रतिनिवृत्तः / यत्र जलागमा नाम महानदी प्रवहति / तत्रोपसंक्रम्योदकेन ता दृतीः पूरयित्वा गजपृष्ठ उदकमारोप्य शीघ्रं शीघ्रं येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्तः / उपसंक्रम्य तदुदकं हस्तिपृष्ठादवतार्य तां पुष्करिणीं चतुर्दिशमुदकेन पूरयित्वा चतुर्दिशं च क्रमति / येन येन जलवाहनो ऽनुचङ्क्रमति तेन तेन दशमत्स्यसहस्राण्यनुधावन्ति //

अथ खलु कुलदेवते जलवाहनस्यैतदभवत् / किमर्थमेतानि दशमत्स्यसहस्राणि येनाहं तेन प्रधावन्ति / तस्य पुनरेतदभवत् / नूनमेते मत्स्याः क्षुधाग्निना परिपीडिता मम सकाशाद्भोजनं परिमार्गयन्ति / यन्नूनमहं भोजनं प्रयच्छेयम् //

अथ खलु कुलदेवते जलवाहनः स्वपुत्रं जलाम्बरमेतदवोचत् / गच्छ कुलपुत्र स्वकं निवेशनं सर्वबलतरं हस्तिनमभिरूह्य च शीध्रं शीघ्रमुपसंक्रम्य पितामहस्य श्रेष्ठिन एवं वदेह भो तात जलवाहन एवं वदति यत्किंचिदत्र गृहे ऽभिसंस्कृतं भोजनं स्यान्मातापित्रोर्भ्रातृभगिन्योर्दासीदासकर्मकरस्य (बग्छि 101) कृतशः सर्वमेकत्र पिण्डीकृत्वा जलाम्बरस्य हस्तिपृष्टमवरोप्य जलवाहनाय शीघ्रं शीघ्रं विसर्जय //

अथ खलु जलाम्बरो दारको हस्तिनमभिरुह्य शीघ्रं शीघ्रं धावति स्म / येन स्वकं निवेशनं तेनोपसंक्रामदुपसंम्यैतां प्रकृतं पितामहस्याग्र आरोचयामास विस्तरेण यथा पूर्वोक्तम् / तत्सर्वं पितामहेन जलाम्बराय विसर्जितम् //

अथ खलु जलम्बरो दारकस्तद्भोजनं हस्तिपृष्ठमुपनाम्य हस्तिनमभिरुह्य येनाटवीसंभवा पुष्करिणी तेनोपसंक्रामत् //

अथ खलु जलवाहनः स्वकं पुत्रं जलाम्बरमागतं दृष्ट्वा हृष्टस्तुष्ट उदग्रः पुत्रस्यान्तिकाद्भोजनं प्रतिगृह्य च्छित्त्वा तत्र पुष्करिण्यां प्रक्षिपति स्म / तेनाहारेण तानि दशमत्स्यसहस्राणि संतर्पितानि / पुनस्तस्यैतदभवत् / श्रुतं मे परेण कालसमयेनारण्यायतने भिक्षुर्महायानधारयमान इत्याह / यो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य मरणकालसमये नामधेयं शृणुयात् / स स्वर्गलोक उपपत्स्यतीति / यन्नूनमहमेषां मत्स्यानां गम्भीरं प्रतीत्यसमुत्पादं धर्मं देशयेयम् / रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रावयेयम् / तेन च समयेन तस्मिञ्जम्बुद्वीपे द्विघादृष्टिः सत्त्वानामभूत् / केचिन्महायानमभिश्रद्धयन्ति केचित्क्लेशयन्ति //

अथ खलु पुनर्जलवाहनः श्रेष्ठिपुत्रस्तस्यां वेलायामुभौ पादौ जानुमात्रं तत्र पुष्करिण्यां प्रवेश्यैवं चिदानमुदानयामास / नमस्तस्य भगवतो रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य पुर्वबोधिसत्त्वचर्यां चरमाणस्य एवं प्रणिधानमभूत् / ये केचिद्दशसु दिक्षु मरणकालसमये मम नामधेयं शृणुयुस्ते ततश्च्युत्वा देवानां त्रायस्त्रिंशानां सभागतायामुपपद्येयुः //

अथ खलु जलवाहनः श्रेष्ठिदारकस्तेषां तिर्यग्योनिगतानामिमं धर्मं देशयति स्म / यदुतास्मादिदं भवत्यस्योत्पादादिदमुत्पद्यते / यदुताविद्याप्रत्यया संस्कारा / संस्कारप्रत्ययं विज्ञानम् / विज्ञानप्रत्ययं नामरूपम् / नामरूपप्रत्ययं षडायतनम् / षडायतनप्रत्यय स्पर्शः / स्पर्शप्रत्यया वेदना / वेदनाप्रत्यया तृष्णा / तृष्णाप्रत्ययमुपादानम् / उपादानप्रत्ययो भवः / भवप्रत्यया जातिः / जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवत्येवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति यदुताविद्यानिरोधात्संरकारनिरोधः / संस्कारनिरोधाद्विज्ञाननिरोधः / विज्ञाननिरोधान्नामरूपनिरोधः / नामरूपनिरोधात्षडायतननिरोधः / षडायतननिरोधात्स्पर्शनिरोधः / स्पर्शनिरोधाद्वेदनानिरोधः / वेदनानिरोधात्तृष्णानिरोधः / तृष्णानिरोधादुपादाननिरोधः / उपादाननिरोधाद्भवनिरोधः / भवनिरोधाज्जातिनिरोधः / जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यते / केवलमस्य महतो दुःखस्कन्धस्य निरोधो भवति / इति हि कुलदेवते तेन कालेन तेन समयेन जलवाहनः श्रेष्ठिपुत्रस्तेषां तिर्यग्योनिगतानामिमां धार्मिककथां कथयति स्म / सार्धं पुत्राभ्यां जलाम्बरेण जलगर्भेण च पुनरपि स्वगृहमनुप्राप्तः //

अथापरेण कालेन समयेन जलवाहनः श्रेष्ठिपुत्रो महोत्सवं परिभुज्य महोत्सवमत्तो शयने शयितः / तेन च कालेन तेन समयेन महानिमित्तः प्रादुर्भूतः / यत्तस्या रात्र्यामत्ययेन तानि दशमत्स्यसहस्राणि कालगतानि देवेषु त्रायस्त्रिंशत्सु सभागतायामुपपन्नानि / सहोपपन्नानां चैषामेवंरूपश्चेतसः परिवितर्क उत्पन्नः / केन वयं कुशलकर्महेतुनेह देवेषु त्रायस्त्रिंशेषूपपन्नाः / तेषामेतदभूत् / वयमस्मिञ्जम्बुद्वीपे दशमत्स्यसहस्राण्यभूवन् / ते वयं तिर्यग्योनिगता जलवाहनेन श्रेष्ठिदारकेण प्रभूतेनोदकेन संतर्पिता भोजनवरेण च / गम्भीरश्चास्माकं प्रतीत्यसमुत्पादधर्मो देशितः / रत्नशिखिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्राविताः / (बग्छि 103) तेन कुशलधर्महेतुना तेन प्रत्ययेनेह वयं देवेषूपपन्नाः / यन्नूनं वयं येन जलवाहनः श्रेष्ठिदारकस्तेनोपसंक्रमेमः / उपसंक्रम्य तस्य पूजां करिष्यामः /

अथ तानि दशदेवपुत्रसहस्राणि देवेषु त्रायस्त्रिंशत्स्वन्तर्हितानि जलवाहनस्य श्रिष्ठिनो गृहे तस्थुः / तेन खलु पुनः समयेन च जलवाहनः श्रेष्ट्युपशयने शयितः / तस्यैतैर्देवपुत्रैर्दशमुक्ताहारसहस्राणि शीर्षान्ते स्थापितानि / दशमुक्ताहारसहस्राणि पादतले स्थापितानि / दशमुक्ताहारसहस्राणि दक्षिणपार्श्वे स्थापितानि / दशमुक्ताहारसहस्राणि वामपार्श्वे स्थापितानि / गृहान्तरे जानुमात्रं मान्दारवपुष्पवर्षं प्रावर्षत् / दिव्याश्च दुन्दुभयः पराहताः / येन सर्वे जम्बुद्वीताः प्रतिविबुद्धाः / अथ जलवाहनः श्रेष्ठी प्रतिविबुद्धं //

अथ तानि दशदेवपुत्रसहस्राणि खगपथेनोपक्रान्तानि / ते च देवपुत्रा राज्ञः सुरेश्वरप्रभस्य विषये स्थानस्थानान्तरे मान्दारवपुष्पवर्षं प्रवर्षयन्तो येनाटवीसंभवा पुष्करिणी तेनोपसंक्रान्ताः ते तत्र पुष्करिण्यां मान्दारवपुष्पं प्रवर्षयन्तस्तत एवान्तर्हिताः पुनरपि देवालयं गताः / तत्र पञ्चभिः कामगुणै रमन्ति स्म / क्रीडन्ति स्म / परिचालयन्ति स्म / महतीं श्रीसौभाग्यतामनुभवन्ति स्म / जम्बुद्वीपे च रात्रीप्रभाताभूत् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.