Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सुवर्णप्रभाससूत्र

Thông tin
GRETIL — S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सुवर्णप्रभाससूत्र

सुवर्णप्रभाससूत्रम्

// सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः //

// निदानपरिवर्तः //

ओम् नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः / ओम् नमः श्रीभगवत्यै आर्यप्रज्ञापारमितायै // तद्यथा / ओम् श्रुतिस्मृतिगतिविजये स्वाहा //

यस्मिन् पारमिता दशोत्तमगुणास्तैस्तैर्नयैः सूचिताः सर्वज्ञेन जगद्धिताय दश च प्रख्यापिता भूमयः / उच्छेदध्रुववर्जिता च विमला प्रोक्ता गतिर्मध्यमा तत्सूत्रं स्वर्णप्रभानिगदितं शृण्वन्तु बोध्यर्थिनः //

श्रुतं मयैकसमये गृध्रकूटे तथागतः // विजहार धर्मधातौ गम्भीरे बुद्धगोचरे // suv_1.1 // बोधिसत्त्वसमुच्चयया महाकुलदेवतया, सरस्वत्या च महादेवतया, श्रिया च महादेवतया, दृढया च महापृथिवीदेवतया, हारीत्या च महादेवतया, एवं प्रमुखाभिर्महादेवताभिरनेकदेवनागयक्षराक्षसगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः सार्धम् / अथायुष्मानानन्दो भगवन्तमेतदवोचत् / किं तासां भगवन्धर्मविनयं भविष्यतीति?

भगवानाह गाथाभिः / भावनं च न दुःपृच्छया विरजस्कं समाधिं धर्मसारं प्रतिष्ठितम् /

शुद्धेषु विरजस्केषु बोधिसत्त्वोत्तमेषु च / निदानं सूत्रराजेन्द्रं स्वर्णप्रभासोत्तममिदम् // suv_1.2 //

ततो गम्भीरश्रवणेन गम्भीरव्युपपरीक्षणेन / दिक्षु चतसृषु बुद्धैरधिष्ठानमधिष्ठितम् // suv_1.3 //

अक्षोभ्यराजः पूर्वस्मिन्दक्षिणे रत्नकेतुना / पश्चिमायाममिताभ उत्तरे दुन्दुभिस्वरः // suv_1.4 //

तं प्रवक्ष्याम्यधिष्ठानं माङ्गल्यदेशनोत्तमम् / सर्वपापविनाशार्थं सर्वपापक्षयंकरम् // suv_1.5 //

सर्वसौख्यप्रदातारं सर्वदुःखविनाशनम् / मूलं सर्वज्ञतत्त्वस्य सर्वश्रीसमलङ्कृतम् // suv_1.6 //

उपहतेन्द्रिया ये हि सत्त्वा नष्टा हतायुषः / अलक्ष्म्या परिविष्टा हि देवतासु पराङ्मुखाः // suv_1.7 //

कान्तया ते जना द्विष्टाः कुटुम्बादिष्वपद्रुताः / परस्परविरुद्धा वा अर्थनाशैरुपद्रुताः // suv_1.8 //

शोकायासेष्वनर्थे च भये व्यसन एव च / ग्रहनक्षत्रपीडायां काखोर्ददारुणग्रहैः // suv_1.9 //

पापकं पश्यति स्वप्नं शोकायाससमुच्छ्रितम् / तेन च स्नानशुचिना श्रोतव्यं सूत्रमुत्तमम् // suv_1.10 //

शृण्वन्ति य इदं सूत्रं गम्भीरं बुद्धगोचरम् / प्रसन्नचित्ताः सुमनसः शुचिवस्त्रैरलङ्कृताः // suv_1.11 //

तेषां सर्वे तथा नित्यमुपसर्गाः सुदारुणाः / तेजसा चास्य सूत्रस्य शाम्यन्ते सर्वप्राणिनाम् // suv_1.12 //

स्वयं ते लोकपालाश्च सामात्याः सगणेश्वराः / तेषां रक्षां करिष्यन्ति ह्यनेकैर्यक्षकोटिभिः // suv_1.13 //

सरस्वती महादेवी तथा नैरञ्जनवासिनी / हारीती भूतमाता च दृढा पृथिवीदेवता // suv_1.14 //

ब्रह्मेन्द्रैस्त्रिदशेन्द्रैश्च महर्द्धिकिन्नरेश्वरैः / गरुडेन्द्रैस्तथा सार्धं यक्षगन्धर्वपन्नगैः // suv_1.15 //

ते च तत्रोपसंक्रम्य ससैन्यबलवाहनाः / तेषां रक्षां करिष्यन्ति दिवारात्रौ समाहिताः // suv_1.16 //

इदं सूत्रं प्रकाशिष्ये गम्भीरं बुद्धगोचरम् / रहस्यं सर्वबुद्धानां दुर्लभं कल्पकोटिभिः // suv_1.17 //

शृण्वन्ति य इदं सूत्रं ये चान्ये श्रावयन्ति च / ये केचिदनुमोदन्ते ये च पूजां करोन्ति हि // suv_1.18 //

ते पूजिता भविष्यन्ति ह्यनेकैः कल्पकोटिभिः / देवनागमनुष्यैश्च किन्नरासुरगुह्यकैः // suv_1.19 // पुण्यस्कन्धमपर्यन्तमसंख्येयमचिन्तितम् / यत्तेषां प्रसृतं भोति कृतपुण्यान प्राणिनाम् // suv_1.20 //

प्रगृहीता भविष्यन्ति सर्वबुद्धैर्दिशो दश / गम्भीरचरितेभिश्च बोधिसत्त्वैस्तथैव च // suv_1.21 //

चौक्षचीवरप्रावृत्य सुगन्धजलपावनैः / मैत्रीचित्तं समुत्थाप्य पूजितव्यमतन्द्रितैः // suv_1.22 //

विपुलं विमलं चित्तमात्मानं प्रकरिष्यति / प्रसादयंश्च चेतांसि शृणुध्वं सूत्रमुत्तमम् // suv_1.23 //

स्वागतं च मनुष्येषु सुलब्धं मनुषं फलम् / सुजीविताश्च जीवन्ति सूत्रं शृण्वन्ति ये त्विदम् // suv_1.24 //

उप्तकुशलमूलास्ते बहुबुद्धप्रकाशिताः / येषामिदं कर्णपुटे देशितं संप्रविश्यतीति // suv_1.25 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे निदानपरिवर्त्तो नाम प्रथमः //

// तथागतायुःप्रमाणनिर्देशपरिवर्तः //

तेन खलु पुनः कालेन तेन समयेन राजगृहे महानगरे रुचिरकेतुर्नाम बोधिसत्त्वो महासत्त्वः प्रतिवसति पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः / तस्यैतदभवत्, को हेतु कः प्रत्ययो यद्भगवतः शाक्यमुनेरेवं परीत्तमायुः प्रमाणं यदुताशीतिवर्षाणीति /

पुनस्तस्यैतदभवत्, उक्तं चैव भगवता द्वौ हेतू द्वौ च प्रत्ययौ दीर्घायुष्कतायाम् / कतमौ द्वौ प्राणातिपातविरमणं भोजनप्रदानं च / अथ बहुन्यसंख्येयकल्पकोटिनियुतशतसहस्राणि भगवाञ्छाक्यमुनिः प्राणातिपातविरतो बभूव / यावद्दशकुशलकर्मपथं समादापयेत्, तावद्भगवता भोजनमाध्यात्मिकं बाह्यानि च वस्तूनि सत्त्वानां परित्यक्तानि / अन्तशः स्वशरीरमांसरुधिरास्थिमज्जया बुभुक्षिताः सत्त्वाः संतर्पिताः प्रागेवान्येन भोजनेन /

अथ तस्य पुरुषस्य बुद्धानुस्मृतिमनसिकारस्येमामेवंरूपां चिन्तां चिन्तयमानस्य गृहं विपुलं विस्तीर्णं संप्रवृत्तमभवत् / वैडूर्यमयमनेकदिव्यरत्नप्रत्युप्तं तथागतविग्रहं दिव्यातिक्रान्तेन गन्धेन स्फुटम् / तस्मिंश्च गृहे चतुर्दिशि चत्वारि दिव्यरत्नमयान्यासनानि प्रादुर्भुतान्यभूवन् / तेषु चासनेषु दिव्यानि पर्यङ्कानि दिव्यरत्नपुष्पपत्रैः प्रज्ञप्तानि प्रादुर्भूतानि बभूवः / तेषु पर्यङ्केषु दिव्यान्यनेकरत्नप्रत्युप्तानि तथागतविग्रहाणि पद्मानि प्रादुर्भूतानि / तेषु च पद्मेषु चत्वारो बुद्धा भगवन्तः प्रादुर्भूताः बभुवुः / पुरान्तिकेन त्वक्षोभ्यस्तथागतः प्रादुर्भूतो दक्षिणेन रत्नकेतुस्तथागतः प्रादुर्भूतः पश्चिमेनामितायुस्तथागतः प्रादुर्भूत उत्तरेण दुन्दुभिस्वरस्तथागतः प्रादुर्भूतः / समनन्तरप्रादुर्भूताश्च ते बुद्धा भगवन्तस्तेषु सिंहासनेषु /

अथ तावदेव राजगृहं महानगरं महतावभासेनावभासितं स्फुटं बभूवु / यावत्रिसाहस्रमहासाहस्रलोकधातुर्यावत्समन्ताद्दशसु दिक्षु गङ्गानदीवालुकासमा लोकधातवस्तेनावभासेन स्फुटा बभूवः / दिव्यानि च पुष्पाणि प्रावर्षुर्दिव्यानि च तूर्याणि प्रवादयामासुः / सर्वे चास्मिंस्त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वा बुद्धानुभावेन दिव्यसुखेन समन्वागता बभूवुः / जात्यन्धाश्च सत्त्वा रूपाणि पश्यन्ति स्म / वधिराश्च सत्त्वाः सत्त्वेभ्यः शब्दानि शृण्वन्ति / उन्मत्ताश्च सत्त्वाः स्मृतिं प्रतिलभन्ते ऽविक्षिप्तचित्ताश्च स्मृतिमन्तो बभूवुः / नग्नाश्च सत्त्वाश्चीवरप्रावृता (बग्छि 5) बभूवुः / जिघत्सिताश्च सत्त्वाः परिपूर्णगात्रा बभूवुः / तृषिताश्च सत्त्वा विगततृष्णा बभूवः / रोगस्पृष्टाश्च सत्त्वा विगतरोगा बभूवुः / हीनकायाश्च सत्त्वाः परिपूर्णेन्द्रिया बभूवुः / विस्तरेण बहूनामाश्चर्याद्भुतधर्माणां लोके प्रादुर्भावो ऽभूत् /

अथ खलु रुचिरकेतुर्बोधिओसत्त्वो महासत्त्वस्तान्बुद्धान्भगवतो दृष्ट्वाश्चर्यप्राप्तो बभूव / कथमेतदिति सन्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो येन ते बुद्धा भगवन्तस्तेनाञ्जालिं प्रणाम्यकारतस्तान्बुद्धान्भगवतो ऽनुस्मरमाणो भगवतः शाक्यमुनेर्गुणाननुस्मरमाणो भगवतः शाक्यमुनेरायुःप्रमाणसंशयप्राप्तस्तां चिन्तां चिन्तयमानः स्थितो बभुव / कथमेतत्,किमेतद् यद्भगवतः शाक्यमुनेरेवं परीत्तमायुःप्रमाणं यदुताशीति वर्षाणि /

अथ खलु ते बुद्धा भगवन्तः स्मृताः संप्रजानास्तं रुचिरकेतुं बोधिसत्त्वमेतदवोचन् / मा त्वं कुलपुत्रैवं चिन्तय एवं परीत्तं भगवतः शाक्यमुनेरायुःप्रमाणम् / तत्कस्य हेतोः / न च वै कुलपुत्र तं समनुपश्यामः सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायां यः समर्थः स्याद्भगवतः शाक्यमुनेस्तथागतस्यायुःप्रमाणपर्यन्तमधिगन्तुं यावदपरान्तकोटिभिः स्थापयित्वा तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः / समनन्तरोदाहृते तैर्बुद्धैर्भगवद्भिस्तथागतायुःप्रमाणनिर्देशे /

अथ तावद्बुद्धानुभावेन कामावचरा रूपावचराश्च देवपुत्राः संनिपतिता यावन्नागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि तस्मिन् रुचिरकेतुबोधिसत्त्वस्य गृहे समागता आसन् / अथ ते तथागताः सर्वपर्षदो भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं गाथाभिरभ्यभाषन् /

जलार्णवेषु सर्वेषु शक्यन्ते बिन्दुभिर्गणयितुम् / न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् // suv_2.1 //

सुमेरुं परमाणवः कृत्वा शक्यं च संख्यया / न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् // suv_2.2 //

याः काश्चित् पृथिवीः सन्ति यावन्तः परमाणवः / शक्यं गणयितुं सर्वा न तु चायुर्जिनस्य वै // suv_2.3 //

आकाशं यदि वा कश्चिदिच्छेत्प्रमितुं केनचित् / न तु शाक्यमुनेरायुः शक्यं गणयितुं क्वचित् // suv_2.4 //

इत्युक्तानि च कल्पानि कल्पकोटिशतानि च / एष तिष्ठेच्च संबुद्धः संख्यातो न हि लभ्यते // suv_2.5 //

यस्माद् द्वे कारणे तस्य तथैव द्वौ च प्रत्ययौ / विरतः परहिंसाया बहु दत्तं च भोजनम् // suv_2.6 //

यस्मात्तस्य महात्मस्य ह्यायुःसंख्या न लभ्यते / इत्युक्तानि च कल्पानि संख्यायां न तथैव च // suv_2.7 //

तस्मान्न संशयो भो हि मा किञ्चित् कुरु संशयम् / न जिनस्यायुःपर्यन्तं काचित्संख्योपलभ्यते // suv_2.8 //

अथ खलु तस्मिन्समये तत्र पर्षद्याचार्यव्याकरणप्राप्तः कौण्डिन्यो नाम ब्राह्मणो ऽनेकैर्ब्राह्मणसहस्रैः सार्धं भगवतः पूजाकर्म कृत्वा तथागतस्य महापरिनिर्वाणशब्दं श्रुत्वा सहसोत्थाय भगवतश्चरणयोर्निपत्य भगवन्तमेवमाह / सचेत्किल भगवन्सर्वसत्त्वानुकम्पको महाकारुणिको हितैषी सर्वसत्त्वानां मातापितृभूतो ऽसमसमभूतश्चन्द्रभूत आलोककरो महाप्रज्ञाज्ञानसूर्यसमुद्गतः / यदि त्वं सर्वसत्त्वान् राहुलं स्वं संपश्यसि मह्यमेकं वरं देहि / भगवांस्तूष्णीम्भूतो ऽभूत् /

अथ बुद्धानुभावेन तस्यां पर्षदि सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमारः / तस्य प्रतिभानमुत्पन्नम् / स आचार्यव्याकरणप्राप्तं कौण्डिन्यं ब्राह्मणमेवमाह / किं नु त्वं महाब्राह्मण भगवन्तमेकं वरं याचसे / अहं ते वरं ददामि / ब्राह्मण आह / अहमस्मिंल्लित्सविकुमार (बग्छि 7) भगवतः पूजोपस्थानाय भगवतः सर्षपफलमात्रं धातुमिच्छामि निक्षेपितुं चूर्णं धातुमभिप्रयोजनायैनं सर्षपफलमात्रं धातुमभिपूजयित्वा त्रिदशाधिपत्यं लभ्यत इत्येवं श्रूऊयते / शृणु त्वं लित्सविकुमार सुवर्णप्रभासोत्तमसूत्रं दुर्विज्ञेयं सर्वश्रावकप्रत्येकबुद्धानां तादृशैर्लक्षणगुणैः समन्वागतं किल सुवर्णप्रभासोत्तमसूत्रं भावयिष्यति / एवं भो लित्सविकुमार दुर्विज्ञेयं दुरनुबोधं सुवर्णप्रभासोत्तमसूत्रम् / अस्माकमेव प्रत्यन्तद्वीपिकानां ब्राह्मणानां सर्षपफलमात्रं धातुं करण्डके निक्षिप्य धारणमुचितम् / अहं ते वरं याचे येन सत्त्वाः क्षिप्रमेव त्रिदशाधिपत्यं प्रतिलम्भिनो भविष्यन्ति / त्वं किल भो लित्सविकुमार सर्षपफलमात्रं धातुं तथागतस्य याचितुम् / धातुं रत्नकरण्डके निक्षिप्य धारणात् सर्वसत्त्वानां त्रिदशाधिपत्येश्वरलाभ इतीच्छसे / एवं मया च लित्सविकुमार इष्टं वरम् /

अथ सर्वसत्त्वप्रियदर्शनो नाम लित्सविकुमार आचार्यव्याकरणप्राप्तं कौण्डिन्यब्राह्मणं गाथाभिरभ्यभाषत /

यदा स्त्रोतःसु गङ्गाया रोहेयुः कुमुदानि च / रक्ताः काका भविष्यन्ति शङ्खवर्णाश्च कोकिलाः // suv_2.9 //

जम्बुस्तालफलं दद्यात् खर्जूरश्चाम्रमञ्जरीम् / तदा सर्षपमात्रं च व्यक्तं धातुर्भविष्यति // suv_2.10 //

यदा कच्छपलोमानां प्रावारैः सुवृतो भवेत् / हेमन्ते शीतहरणो तदा धातुर्भविष्यति // suv_2.11 //

यदा मशकपादानामट्टकालम्बनं भवेत् / दृढं चाप्यप्रकम्पि च तदा धातुर्भविष्यति // suv_2.12 //

यदा तीक्ष्णा महान्तश्च दन्ता जायन्ति पाण्डुराः / जलौकानां हि सर्वेषां तदा धातुर्भविष्यति // suv_2.13 //

यदा शशविषाणेन निःश्रेणी सुदृढा भवेत् / स्वर्गस्यारोहणार्थाय तदा धातुर्भविष्यति // suv_2.14 //

तां निश्रेणीं यदारुह्य चन्द्रं भक्षति मूषिकः / राहुं च परिधावेत तदा धातुर्भविष्यति // suv_2.15 //

यदा मद्यघटं पीत्वा मक्षिका ग्रामचारिण्यः / अगारे वासं कल्पेयुस्तदा धातुर्भविष्यति // suv_2.16 //

यदा बिम्बोष्ठसम्पन्नो गर्दभः सुखितो भवेत् / कुशलं नृत्यगीतेषु तदा धातुर्भविष्यति // suv_2.17 //

यदा ह्युलूककाकाश्च रमयेयुः सहागताः / अन्योन्यमनुकूलेन तदा धातुर्भविष्यति // suv_2.18 //

यदा पलाशपत्राणां छत्रं हि विपुलं भवेत् / वर्षस्य प्रतिपाताय तदा धातुर्भविष्यति // suv_2.19 //

यदा सामुद्रिका नावः सयन्त्राः सपताकिकाः / स्थलमारुह्य गच्छेयुस्तदा धातुर्भविष्यति // suv_2.20 //

यदा ह्युलूकशकुनाः पर्वतं गन्धमादनम् / तुण्डेनादाय गच्छेयुस्तदा धातुर्भविष्यति // suv_2.21 //

एताश्च गाथाः श्रुत्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो ब्राह्मणः सर्वलोकप्रियदर्शनं लित्सविकुमारं गाथाभिः प्रत्यभाषत /

साधु साधु कुमाराग्र जिनपुत्र महागिर / उपायकुशलो वीरः प्राप्तव्याकरणोत्तमः // suv_2.22 //

मम कुमार शृणोहि लोकनाथस्य तायिनः / तथागतस्य माहात्म्यं यथाक्रममचिन्तितम् // suv_2.23 //

अचिन्त्यं बुद्धविषयमसमाश्च तथागताः / सर्वबुद्धाः शिवा नित्यं सर्वबुद्धाः समाचराः // suv_2.24 //

सर्वबुद्धाः समवणा एषा बुद्धेषु धर्मता / न कृत्रिमो ऽसौ भगवान्नोत्पन्नश्च तथागतः // suv_2.25 //

वज्रसंहननकायो निर्मितकायदर्शकः / नापि सर्षपमात्रं च धातुर्नाम महर्षिणाम् // suv_2.26 //

अनस्थिरुधिरे काये कुतो धातुर्भविष्यति / उपायधातुनिक्षेपःसत्त्वानां हितकारणम् // suv_2.27 //

धर्मकायो हि सम्बुद्धो धर्मधातुस्तथागतः / इदृशो भगवत्काय ईदृशी धर्मदेशना // suv_2.28 //

एतच्छ्रुतं मया ज्ञात्वाभियाचितं वरं मया / तत्त्वव्याकरणार्थाय वरोत्पादं मुनेः कृतम् // suv_2.29 //

अथ खलु द्वात्रिंशद्देवपुत्रसहस्राणि तथागतस्य यं गम्भीरमायुःप्रमाणनिर्देशं श्रुत्वा सर्वैरनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि ते प्रहृष्टमनःसंकल्पा एकस्वरनिर्घोषेण गाथामभाषन् /

न बुद्धः परिनिर्वाति न धर्म परिहीयते / सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् // suv_2.30 //

अचिन्त्यो भगवान्बुद्धो नित्यकायस्तथागतः / देशेति विविधान्व्यूहान्सत्त्वानां हितकारणात् // suv_2.31 //

अथ खलु रुचिरकेतुर्बोधिसत्त्वस्तेषां बुद्धानां भगवतां तयोश्च द्वयोः सत्पुरुषयोरन्तिकाद्भगवतः शाक्यमुनेरायुःप्रमाणनिर्देशं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातश्चोदारेण प्रीतिप्रामोद्येन स्फुटो ऽभूत् / अस्मिंस्तथागतायुःप्रमाणनिर्देशे निर्दिश्यमाने ऽप्रमेयाणामसंख्येयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम् / ते च तथागता अन्तरिता इति /

इति श्रीसुवर्णप्रभासोओत्तमसूत्रेन्द्रराजे तथागतायुःप्रमाण निर्देशपरिवर्तो नाम द्वितीयः //

// स्वप्नपरिवर्तः //

अथ खलु रुचिरकेतुर्नाम बोधिसत्त्वः स्वुप्तः स्वप्नान्तरगतः सुवर्णां सुवर्णमयीं भेरीमद्राक्षीत् / समन्तादवभासमानां तद्यथापि नाम सूर्यमण्डलं सर्वासु दिक्ष्वप्रमेयानसंख्येयान्बुद्धानद्राक्षीद्रत्नवृक्षमूले सिंहासने वैडूर्यमये प्रतिनिषण्णाननेकशतसहस्रिकायां परिषदायां परिवृतायां पुरस्कृतायां धर्मदेशयमानान् / तत्र च ब्राह्मणरूपेण पुरुषमद्राक्षीत् तां भेरीं पराहन्तम् / तत्र भेरीशब्दादिमामेवंरूपां गाथां निश्चरमाणामश्रौषीत् /

अथ खलु रुचिरकेतुर्बोधिसत्त्वः प्रतिविबुद्धः समनन्तरं तां धर्मदेशनागाथामनुस्मरति स्म / अनुस्मरमाणस्तस्या रात्र्या अत्ययेन राजगृहान्महानगरान्निष्क्रम्यानेकैः प्राणिसहस्रैः सार्धं येन गृध्रकूटः पर्वतराजो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्यैकान्ते न्यषीदत् /

अथ खलु रुचिरकेतुर्बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य याश्चैव ताः स्वप्नान्तरे दुन्दुभिशब्देन देशनागाथाः श्रुतास्ता उवाच /

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे स्वप्नपरिवर्तो नाम तृतीयः //

// देशनापरिवर्तः //

एकरात्रमतन्द्रेण स्वप्नान्तरगतं मया / दुन्दुभी रुचिरा दृष्टा समन्तकनकप्रभा // suv_4.1 //

ज्वलमानं यथा सूर्यं समन्तेन विरोचितम् / प्रभासिता दश दिशो दृष्टा बुद्धाः समन्ततः // suv_4.2 //

निषण्णा रत्नवृक्षेषु वैडूर्ये च प्रभास्वरे / अनेकशतसाहस्र्या परिषदा प्रभास्कृताः // suv_4.3 //

दृष्टा ब्राह्मणरूपेण पराहन्यन्ती दुन्दुभी / तेनास्यास्ताड्यमानाया इमे श्लोका अभिश्रुताः // suv_4.4 //

सुवर्णप्रभासोत्तमदुन्दुभेन शाम्यन्तु दुःखा त्रिसहस्रलोके / अपायदुःखा यमलोकदुःखा दारिद्रदुःखानि तथैव लोके // suv_4.5 //

अनेन चो दुन्दुभिशब्दनादिना शाम्यन्तु सर्वव्यसनानि लोके / समन्तसत्त्वा हृदयाहता तथा तथाभया शान्तभया मुनीन्द्र // suv_4.6 //

यथैव सर्वार्यगुणोपपन्नः संसारसर्वज्ञमहामुनीन्द्रः / तथैव भोन्तु गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैरुपेताः // suv_4.7 //

अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्त्वाः / स्पृशन्तु बुद्धत्ववराङ्गबोधिं प्रवर्तयन्तू शुभधर्मचक्रम् // suv_4.8 //

तिष्ठन्तु कल्पानि अचिन्तियानि देशेन्तु धर्मं जगतो हिताय / हनन्तु क्लेशान्विधमन्तु दुःखां शमेन्तु रागं तथ दोषमोहम् // suv_4.9 //

ये सत्त्व तिष्ठिन्ति अपायभूमौ आदीप्तसंप्रज्वलिताग्निगात्राः / शृण्वन्तु ते दुन्दुभिसंप्रवादितां नमो ऽस्तु बुद्धाय वचो लभन्तु // suv_4.10 //

जातिस्मराः सत्त्व भवन्तु सर्वे जातीशता जातिसहस्रकोट्यः / अनुस्मरन्तः सततं मुनीन्द्रं शृण्वन्तु तेषां वचनं ह्युदारम् // suv_4.11 //

अनेन चो दुन्दिभि घोषनादिना लभन्तु बुद्धेहि सदा समागमम् / विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि // suv_4.12 //

नरासुराणामपि सर्वप्राणीनां याचन्तु तां देशनप्रार्थनाय / अनेन चो दुन्दुभिघोषनादिना तत्सर्वि तेषां परिपूरयेयम् // suv_4.13 //

ये घोरनरके उपपन्नसत्त्वा आदीप्तसंप्रज्वलिताग्निगात्राः / निस्तीर्णशोकाश्च परिभ्रमन्ति निर्वापणं भेष्यति तेषु चामुना // suv_4.14 //

ये दुःखसत्त्वाः सुदारुणार्श्च घोरा नरकेषु प्रेतेषु मनुष्यलोके / अनेन च दुन्दुभिघोषनादिना सर्वे च तेषां प्रशमन्तु दुःखाः // suv_4.15 //

निस्राणमपरित्राणमशरण्यं कृतानि च / त्राता तेषां भवेयं च शरण्यः शरणोत्तमः // suv_4.16 //

समन्वाहरन्तु मां बुद्धां कृपाकारुण्यचेतसः / अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिताः // suv_4.17 //

यच्च मे पापकं कर्म कृतपूर्वं सुदारुणम् / तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रतः // suv_4.18 //

मातापितॄनवजानन्ता बुद्धानामप्रजानता / कुशलं चाप्रजानन्ता यत्तु पापं कृतं मया // suv_4.19 //

एश्चर्यमदमत्तेन कुलरूपमदेन च / तारुण्यमदमत्तेन यत्तु पापं कृतं मया // suv_4.20 //

दुश्चिन्तितं दरुक्तं च दुष्कृतेनापि कर्मणा / अनादीनवदृष्टेन यत्तु पापं कृतं मया // suv_4.21 //

बालबुद्धिप्रचारेण अज्ञानावृतचेतसा / पापमित्रवशाच्चैव क्लेशव्याकुलचेतसा // suv_4.22 //

क्रीडारतिशाच्चैव शोकरोगवशेन च / अतृप्तधनदोषेण यत्तु पापं कृतं मया // suv_4.23 //

अनार्यजनसंसर्गादीर्ष्यामात्सर्यहेतुना / शाठ्यदारिद्रदोषेण यत्तु पापं कृतं मया // suv_4.24 //

व्यसनागमकाले ऽस्मिन्कामानां भयहेतुना / अनैश्वर्यगतेनापि यत्तु पापं कृतं मया // suv_4.25 //

चलचित्तवशेनैव कामक्रोधवशेन वा / क्षुप्तिपासार्दितेनापि यत्तु पापं कृतं मया // suv_4.26 //

पानर्थां भोजनार्थं च वस्त्रार्थं स्त्रीप्सुहेतुना / विविधक्लेशसंतापैर्यत्तु पापं कृतं मया // suv_4.27 //

कायवाङ्भानसं पापं त्रिधातुचरितं च तत् / यत्कृत्मीदृशैः रूपैस्तत्सर्वं देशयाम्यहम् // suv_4.28 //

यत्तद्बुद्धेषु धर्मेषु श्रावकेषु तथैव च / अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम् // suv_4.29 //

यत्तत्प्रत्येकबुद्धेषु बोधिसत्त्वेषु वा पुनः / अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम् // suv_4.30 //

सद्धर्मः प्रतिक्षिप्तः स्यादजानन्तेन मे सदा / मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम् // suv_4.31 //

मूर्खत्वेनापि बालत्वान्मानदर्पावृतेन च / रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम् // suv_4.32 //

पूजयित्वा दशदिशि लोके दशबलाञ्जिनान् / उद्धरिष्याम्यहं सत्त्वान्सर्वदुःखाद्दशद्दिशि // suv_4.33 //

स्थापयिष्ये दशभुवि सर्वसत्त्वानचिन्तियान् / दशभूमौ हि स्थित्वा च सर्वे भोन्तु तथागताः // suv_4.34 //

एकैकस्य हि सत्त्वस्य चरेयं कल्पकोटयः / यावच्छक्यं हि तत्सर्वं मोक्षितुं दुःखसागरात् // suv_4.35 //

तेषां सत्त्वानां देशेयं गम्भीरां देशनामिमाम् / स्वर्णप्रभोत्तमां नाम सर्वकर्मक्षयंकरीं // suv_4.36 //

येन कल्पसहस्रेषु कृतं पापं सुदारुणम् / एकवेलं प्रकाशन्तु सर्वे व्रजन्तु संक्षयम् // suv_4.37 //

देशयिष्ये इमां धर्मां स्वर्णप्रभामनुत्तराम् / ये शृण्वन्ति शुभां तेषां संयान्तु पापसंक्षयम् // suv_4.38 //

स्थास्यामि दशभूमौ तान्दशरत्नाकरे वरे / आभासयन्बुद्धगुणैस्तरेयं भवसागरात् // suv_4.39 //

यच्च बुद्धसमुदौघं गम्भीरं गुणसागरम् / अचिन्तियबुधगुणैः सर्वज्ञत्वं प्रपूरये // suv_4.40 //

समाधिशतसाहस्रैर्धारणीभिरचिन्तितैः / इन्द्रियबलबोध्यङ्गैर्भवे दशबलोत्तमः // suv_4.41 //

व्यवलोकय मां बुद्ध समन्वाहृतचेतसा / अत्ययं प्रतिगृह्णातु विमोचयतु मां भयात् // suv_4.42 //

यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च / तस्यार्थे शोकचित्तो ऽहं कृपणस्तृष्णयार्दितः // suv_4.43 //

विभेमि पापकर्मो ऽहं सततं हीनमानसः / यत्र यत्र चरिष्यामि न चास्ति मङ्गलं क्वचित् // suv_4.44 //

सर्वे कारुणिका बुद्धाः सत्त्वभयहराः जिनाः / अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात् // suv_4.45 //

क्लेशकर्मफलं मह्यं प्रवाहन्तु तथागताः / स्नापयन्तु च मां बुद्धाः कारुण्यविमलोदकैः // suv_4.46 //

सर्वपापं देशयामि यत्तु पूर्वं कृतं मया / यच्च ह्येतर्हि मे पापं तत्सर्वं देशयाम्यहम् // suv_4.47 //

आयत्या सर्वमापद्यन्सर्वदुष्कृतकर्मणा / न च्छादयामि तत्पापं यद्भवेन्मम दुष्कृतम् // suv_4.48 //

त्रिविधं कायिकं कर्म वाचिकं तु चतुर्विधम् / मानसं त्रिप्रकारं च तत्सर्वं देशयाम्यहम् // suv_4.49 //

कायकृतं च वाक्कृतं मनसा च विचिन्तितम् / कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम् // suv_4.50 //

दशाकुशल वर्जित्वा सेवित्वा कुशलान्दश / स्थास्यामि दशभूमौ च पश्ये दशबलोत्तमम् // suv_4.51 //

यच्च मे पापकं कर्म अनिष्टफलवाहकम् / तत्सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः // suv_4.52 //

ये चापि जम्बुद्वीपे ऽस्मिन्ये चान्यलोकधातुषु / कुर्वन्ति कुशलं कर्म तत्सर्वमनुमोदये // suv_4.53 //

यच्च पुण्यार्जितं मह्यं कायवाङ्भनसापि च / तेन कुशलमूलेन स्पृशेयं बोधिमुक्तमाम् // suv_4.54 //

भवगतिसंकटबालबुद्धिना पापं ह्यपि यच्च कृतं सुदारुणम् / दशबलसंमुखमग्रतः स्थितस्तत्सर्वपापं प्रतिदेशयामि च // suv_4.55 //

तत्पापं समुच्चितं जन्मसंकटे विविधकामप्रचारसंकटे / लोकसंकटे भवसंकटे च सर्वमूर्खकृतक्लेशसंकटे // suv_4.56 //

चापल्यमदनचित्तसंकटे पापमित्रागमसंकटैरपि / संसारसंकटरागसंकटे द्वेषमोहतमसंकटैरपि // suv_4.57 //

अक्षयसंकटकालसंकटे पुण्यमपार्जनसंकटैरपि / अतुलियजिनसंमुखस्थितः तत्सर्वपापं प्रतिदेशयामि च // suv_4.58 //

वन्दामि बुद्धान् गुणसागरोपमान् सुवर्णवर्णानवभासितदिगन्तान् / तेषां जिनानां शरणं व्रजामि मूर्ध्रा च तान्सर्वजिनान्नमामि // suv_4.59 //

सुवर्णवर्णं ---- कनकाचलाभम् वैडूर्यनिर्मलविशुद्धसुलोचनाङ्गम् / श्रीतेजकीर्तिज्वलनाकरबुद्धसूर्यं करुणाप्रभं विधमकं तमसान्धकानाम् // suv_4.60 //

सुनिर्मलं सुरुचिरं सुविराजिताङ्गं संबुद्धसूर्यकनकामलनिःसृताङ्गम् / क्लेशाग्नितप्तमनसां ज्वलनाग्निकल्पं प्रह्लादनं मुनिनिशाकररश्मिजालम् // suv_4.61 //

द्वात्रिंशलक्षणधरं ललितेन्द्रियाङ्गम् अनुव्यञ्जनः सुरुचिरं सुविराजिताङ्गम् / श्रीपुण्यतेजज्वलनाकुलरश्मिजालं संतिष्ठसे तमसि सूर्य इव त्रिलोके // suv_4.62 //

वैडूर्यनिर्मलविशालविचित्रवर्णस्ताम्रारुणै रजतस्फटिकलोहिताङ्गम् / नानाविचित्रसमलङ्कृतरश्मिजालं त्वं संविरोचसि महामुनि सूर्यकल्पः // suv_4.63 //

संसारनद्यपतितव्यसनौघमध्ये शोकाकुले मरणतोयजरातरङ्गे / दुःखार्णवे परमकम्पितचण्डवेगे संतारय सुगतभास्कररश्मिजालैः // suv_4.64 //

वन्दामि बुद्धान् कनकोज्वलाङ्गान् सुवर्णवर्णव्यवभासिताङ्गान् / ज्ञानाकरान् सर्वत्रिलोकसारान् विचित्ररूपान् शुभलक्षणाङ्गान् // suv_4.65 //

यथा समुद्रे जलमप्रमेयं यथा मही चाणुरजैरनन्ता / यथोपलैर्मेरुरनन्ततुल्यो यथैव चाकाशमनन्तपारम् // suv_4.66 //

तथैव बुद्धस्य गुणा अनन्ताः न शक्य ज्ञातुं खलु सर्वसत्त्वैः / अनेककल्पानि तु चिन्तयन्ते न शक्य पर्यन्तगुणानि ज्ञातुम् // suv_4.67 //

मही सशैला सगिरिः ससागरा गणं तु कल्पैरपि शक्य जानितुम् / जलं च वालाग्रमपि प्रमाणं न शक्य बुद्धस्य गुणाग्रपारम् // suv_4.68 //

एतादृशी सत्त्व भवन्तु सर्वे गुणेन वर्णेन यशेन कोट्या / गात्रेण ते शोभितलक्षणेन अशीत्यनुव्यञ्जनमण्डितेन // suv_4.69 //

अनेन चाहं कुशलेन कर्मणा भवेय बुद्धो न चिरेण लोके / देशेय धर्मं जगतो हिताय मोचेय सत्त्वान्बहुदुःखपीडितान् // suv_4.70 //

जयेय मारं सबलं ससैन्यं प्रवर्तयेयं शुभधर्मचक्रम् / तिष्ठेय कल्पानि अचिन्तियानि तर्पेय सत्त्वानमृतेन पाणिना // suv_4.71 //

पूरेय षट्पारमिता अनुत्तरा यथैव पूर्वं जिनपूर्वकानाम् / हनेय क्लेशान्विधमेय दुःखान् शमेय रागांस्तथ द्वेषमोहान् // suv_4.72 //

जातिस्मरो नित्य भवेय चाहं जातिशता जातिसहस्रकोट्यः / अनुस्मरेयं सततं मुनीन्द्रं शृण्वीय तेषां वचनं ह्युदारम् // suv_4.73 //

अनेन चाहं कुशलेन कर्मणा लभेय बुद्धेहि सदा समागमम् / विवर्जयेयं खलु पापकर्म चरेय पुण्यानि शुभाकराणि // suv_4.74 //

सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च पापाः प्रशमन्तु लोके / ये सत्त्वा विकलेन्द्रिय अङ्गहीनाः ते सर्वि कुशलेन्द्रिय भोन्तु सांप्रतम् // suv_4.75 //

ये व्याधिना दुर्बलक्षीणगात्रा निश्राणभूताश्च दशोदिशासु / ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियानि // suv_4.76 //

कुराजचौरसमार्जितबध्यप्राप्ता नानाविधैर्मयशतैर्व्यसनोपपन्नाः / ते सर्वि सत्त्वा व्यसनागतदुःखिता हि मुच्यन्तु ते भयशतैः परमैः सुघोरैः // suv_4.77 //

ये पीडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु संस्थिता हि / अनेकआयाससहस्रव्याकुला विचित्रभयदारुणशोकप्राप्ताः // suv_4.78 //

ते सर्वे मुच्यन्तु च बन्धनेभ्यः संताडिता मुच्यन्तु च ताडनेभ्यः / वध्याश्च मुच्यन्तु जीवितेभ्यो व्यसनागता निर्भया भोन्तु सर्वे // suv_4.79 //

ये सत्त्व क्षुत्तर्षनिपीडिताश्च लभन्तु ते भोजनपानचित्रम् / अन्धाश्च पश्यन्तु विचित्ररूपान् वधिराश्च शृण्वन्तु मनोज्ञघोषान् // suv_4.80 //

नग्नाश्च वस्त्राणि लभन्तु चित्रा दरिद्रसत्त्वाश्च धनांल्लभन्तु / प्रभूतधनधान्यविचित्ररत्नाः सर्वे च सत्त्वाः सुखिनो भवन्तु // suv_4.81 //

मा कस्यचिद्धावतु दुःखवेदना सुदर्शनाः सत्त्व भवन्तु सर्वे / अभिरूपप्रासादिकसौम्यरूपा अनेकसुखसंचित नित्य भोन्तु // suv_4.82 //

मनःशान्तपौराः सुसमृद्धपुण्याः वीणा मृदङ्गा पटहा सुघोषा / उत्साः सराः पुष्करिणी तडागाः सुवर्णपद्मोत्पलपद्मिनीभिः // suv_4.83 //

सहचित्तमात्रेण तु तेष भोन्तु अन्नं च पानं च तथैव वस्त्रम् / धनं हिरण्यं मणिमुक्तिभूषणं सुवर्णवैडूर्यविचित्ररत्नम् // suv_4.84 //

मा दुःखशब्दाः क्वचि लोकि भोन्तु भा चैकसत्त्वः प्रतिकूलदर्शी / सर्वे च ते भोन्तु उदारवर्णाः प्रभाकरा भोन्तु परस्परेण // suv_4.85 //

या काचि संपत्ति मनुष्यलोके सा तेषु भोतू मनसोपपत्तिः / सर्वाभिप्राया सहचित्तमात्रैः पुण्येन फलेन परिपूरयन्तु // suv_4.86 //

गन्धं च माल्यं च विलेपनं च धूपं च चूर्णं कुसुमं च पूर्णम् / त्रिकाले वृक्षेहि प्रवर्षयन्तु गृह्णन्तु ते सत्त्व भवन्तु तुष्टाः // suv_4.87 //

कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम् / सबोधिसत्त्वान् सश्रावकाणां धर्मस्य बोधिप्रतिसंस्थितस्य // suv_4.88 //

नीचां गतिं सर्वि विवर्जयन्तु तरन्तु अष्टाङ्गिकवीचिवृत्ताः / आसादयन्तु जिनराजमूर्ति लभन्तु बुद्धेहि सदा समागमम् // suv_4.89 //

उच्चैः कुलीना हि भवन्तु नित्यं प्रभूतधनधान्यसमृद्धकोशाः / रूपेण शौर्येण यशेन कीर्त्या समलङ्कृता भोन्तु अनेककल्पान् // suv_4.90 //

सर्वा स्त्रियो नित्य नरा भवन्तु शूराश्च वीराश्च विज्ञपण्डिताश्च / ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारमितासु षट्सु // suv_4.91 //

पश्यन्तु बुद्धान् दशसू दिशासु रत्नोत्तमवृक्षसुखोपविष्टान् / वैडूर्यसिंहासनि संनिषण्णान् शृण्वन्तु धर्मांश्च प्रकाश्यमानान् // suv_4.92 //

पापानि कर्माणि मया जितानि पूर्वार्जिता यद्भवसंकटेषु / ये पापकर्माभिरता वहन्ते ते सर्वि क्षीयन्तु च निर्विशेषाः // suv_4.93 //

ते सर्वसत्त्वा भवबन्धनस्थाः संसारपाशैर्दृढबन्धबद्धाः / प्रज्ञाकरैर्भासित भोन्तु बन्धनान्मुच्यन्तु दुःखैरुपजा भवन्तु // suv_4.94 //

ये चापि सत्त्वा इह जाम्बुद्वीपे ये चापि अन्यषु च लोकधातुषु / कुर्वन्तु गम्भीरविचित्रपुण्यं तत्सर्वपुण्यं ह्यनुमोदयामि // suv_4.95 //

तेनैव पुण्याभ्यनुमोदनेन कायेन वाचा मनसार्जितेन / प्रणिधानसिद्धिः सफला मयास्तु स्पृशेय बोधिं विरजामनुत्तराम् // suv_4.96 //

यो वन्दते तोष्यति दशबलान् सदा च प्रसन्नशुद्धामलमानसेन / इमाय परिणामनदेशनाय षष्टिं च कल्पान् जहते अपायान् // suv_4.97 //

एतेभि श्लोकेभि च वर्णितेभिः पुरुषाः स्त्रियो ब्रह्मणक्षत्रिया च / यस्तोष्यते मुनिं स कृताञ्जलिभिः स्थिहित्व सर्वत्र जातिस्मरु शतजातिषु // suv_4.98 //

सर्वाङ्ग सर्वेन्द्रिय शोभिताङ्गो विचित्रपूर्णेभिर्गुणैरुपेतः / नरेन्द्रराजैश्च सुपूजितः सदा एतादृशो भेष्यति तत्र तत्र // suv_4.99 //

न तैरेकस्य बुद्धस्य चान्तिके कुशलं कृतम् / न द्वयोरपि त्रयेषु न पञ्चसु न दशसु // suv_4.100 //

तथा बुद्धसहस्राणामान्तिके कुशलं कृतम् / येषामिदं कर्णपुटे देशनं प्रविष्यतीति // suv_4.101 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे देशनापरिवर्तो नाम चतुर्थः //

// कमलाकरसर्वतथागतस्तवपरिवर्तः //

अथ खलु भगवांस्तां बोधिसत्त्वसमुच्चयां कुलदेवतामेतदवोचत् / तेन खलु पुनः कुलदेवते कालेन तेन समयेन राजा सुवर्णभुजेन्द्रो नामासीत् / एतेन कमलाकरेण सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नान् बुद्धान् भगवतो ऽभ्यस्तावीत् //

ये जिन पूर्वक ये च भवन्ति ये च ध्रियन्ति दशोदिशि लोके / तेष जिनान करोमि प्रणामं तं जिनसंघमहं प्रशयिष्ये // suv_5.1 //

शान्तप्रशान्तविशुद्धमुनीन्द्रं सुवर्णवर्णप्रभासितगात्रम् / सर्वसुरासुरसुस्वरबुद्धं ब्रह्मरुते स्वरगर्जितघोषम् // suv_5.2 //

षट्पदमौलमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् / शङ्खतुषारसुपाण्डलदन्तं हेमविराजितभासितनाभम् // suv_5.3 //

नीलविशालविशुद्धसुनेत्रं नीलमिवित्पलप्रच्युतिभासम् / पद्मसुवर्णविशालसुजिह्वं पद्मप्रभासितपद्ममुखाभम् // suv_5.4 //

शङ्खमृणालनिभामुखतोर्णं दक्षिणवर्तितवेरुलिवर्णम् / सूक्ष्मनिशाकरक्षीणशशीव गात्र मुनेर्म्रमराज्वलनाभम् // suv_5.5 //

काञ्चनकोटि सुवर्णमृदुरं नासमुखोन्नत पीवरघ्राणम् / अग्रधराग्रविशिष्टसुनासं मृदुक सर्वजिनांश सततम् // suv_5.6 //

एकसमे चित्तरोममुखाग्रं वालसुरोमप्रदक्षिणवर्तम् / नीलनिभा ज्वलकुण्डलजातं नीलविराजितमौलिसुग्रीवम् // suv_5.7 //

जातसमानप्रभासितगात्रं पूजितसर्वि देशोदिशि लोके / दुःखमनन्तप्रशान्तत्रिलोके सर्वसुखेन च तर्पितसत्त्वम् // suv_5.8 //

नरकगातिष्वथ तिर्यग्गतीषु प्रेतसुरासुरमनुष्यगतीषु / तेषु च सर्वसुखार्पितसत्त्वं सर्वप्रशान्त अपायगतीषु // suv_5.9 //

वर्णसुवर्णकनाकनिभासं काञ्चनतप्तप्रभासितगात्रम् / सौम्यशशाङ्कसुविमलवक्रं विकासितराजितसुविमलवदनम् // suv_5.10 //

तरुणतनूरुहकोमलगात्रं सिंहमिवाक्रमविक्रमनागम् / लम्बितहस्त प्रलम्बितबाहुं मारुतप्रेरितशाललतेव // suv_5.11 //

व्योमप्रभाज्वलमुञ्चितरश्मिं सूर्यसहस्रमिव प्रतपन्तम् / निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासित क्षेत्रमनन्तम् // suv_5.12 //

चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रशतेषु / ते ऽपि च निष्ठित सर्वमभूषि बुद्धप्रभासविरोचनतायै // suv_5.13 //

बुद्धदिवाकरलोकप्रदिपं बुद्धदिवाकरशतसहस्रम् / क्षेत्रमनन्तसहस्रशतेषु पश्यतु सत्त्व तथागतसूर्यम् // suv_5.14 //

पुण्यसहस्रशताच्चितकायं सर्वगुणेभिरलङ्कृतगात्रम् / शौण्डगजेन्द्रनिभं जिनबाहुं विमलसुलक्षणमण्डितहस्तम् // suv_5.15 //

भूमितलोपमरजसमतुल्यं सूक्ष्मरजोपम ये गतबुद्धाः // सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये च स्थिहन्ति // suv_5.16 // तेष जिनान करोमि प्रणामं कायतु वाचमनेन प्रसन्नः / पुष्पप्रदानसुगन्धप्रदानैर्वर्णशतेन सुचेतसि चापि // suv_5.17 //

जिह्वशतैरपि बुद्धगुणानि कल्पसहस्रशते न हि वक्तुम् / ये गुणसाधुनिवृत्ति जिनानां सा च वराग्रविचित्र अनेकैः // suv_5.18 //

एकजिनस्य गुणा न हि शक्या जिह्वशतैरपि भाषितु कश्चित् / काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तर वक्तुम् // suv_5.19 //

सर्वसदेवकुलोक्तसमूहः सर्वभवाग्रभवे जलपूर्णा / केशग्रहणेन तु शक्य प्रमातुं नैव च एकगुणा सुगतानाम् // suv_5.20 //

वर्णित संस्तुत मे जिनसर्वं कायतु वाच प्रसन्नमनेन / यन्मम सञ्चितपुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् // suv_5.21 //

एवं स्तवित्व नरपति बुद्धं एवं करोति नृपः प्रणिधानम् / यत्र च कुत्रचि मह्य भवेत जाति अनागतकल्पमनन्ता // suv_5.22 //

ईदृशि भेरि मि पश्यमि स्वप्ने ईदृश देशन तत्र शृणोमि / ईदृश जीनस्तुतिकमलाकर जातिषु तत्र लभे स्मरणत्वम् // suv_5.23 //

बुद्धगुणानि अनन्तमतुल्या ये ऽपि च दुर्लभ कल्पसहस्रैः / अमु श्रुणेय च स्वप्नगतो ऽपि तेषु च देशयि दिवसगतो ऽपि // suv_5.24 //

दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभि पि पारमिताभिः / बोधिमनुत्तर पश्च लभेयं क्षेत्र भवेत ममा असमर्थ्यम् // suv_5.25 //

भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः / संमुख पश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् // suv_5.26 //

ये इम दारक द्वौ मम पुत्रौ कनकेन्द्र कनकप्रभास्वरः / ते उभि दारक तत्र लभेयं बोधिमनुत्तर व्याकरणं च // suv_5.27 //

ये ऽपि च सत्त्व अरक्ष अत्राणा शरणविहीन वियासगताश्च / तेषु भवेय अनागत सर्व त्राणपरायणशरणेभिश्च // suv_5.28 //

दुःखसमुद्भवसंक्षयकर्ता सर्वसुखस्य च आकरभूतः / कल्प अनागत बोधि चरेयं यत्तक पूर्वककोटिगताश्च // suv_5.29 //

स्वर्णप्रभोत्तमदेशनताय पापसमुद्र शोषतु मह्यम् / कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विच्छिद्यतु मह्यम् // suv_5.30 //

पुण्यसमुद्र प्रपूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् / विमलज्ञानप्रभासबलेन सर्वगुणान समुद्र भवेया // suv_5.31 //

बोधिगुणैर्गुणरत्न प्रपूर्णा देशनस्वर्ण प्रभासबलेन / पुण्यप्रभास भविष्यति मह्यं बोधिप्रभास विशोध्यतु मह्यम् // suv_5.32 //

कायप्रभास भविष्यति मह्यं पुण्यप्रभास विरोचनता च / सर्वत्रिलोकि विशिष्ट भवेयं पूण्यबलेन समन्वित नित्यम् // suv_5.33 //

दुःखसमुद्र उत्तारयिता सर्वसुखस्य च सागरकल्प्य / कल्पमनागत बोधि चरेयं यत्तकपूर्वककोटिगताश्च // suv_5.34 //

यादृशक्षेत्रविशिष्ट त्रिलोके सर्वजिनानमनन्त गुणेन / तादृशक्षेत्रमनन्तगुणं भेष्यति मह्यमनागतसर्वम् // suv_5.35 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे कमलाकरसर्वतथागतस्तवपरिवर्तो नाम पञ्चमः //

// शून्यतापरिवर्तः //

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत //

अन्येषु सूत्रेषु अचिन्तियेषु अतिविस्तरं देशितशून्यधर्माः / तस्मादिमे सूत्रवरोत्तमे वः संक्षेपतो देशित शून्यधर्माः // suv_6.1 //

सत्त्वो ऽल्पबुद्धिरविजानमानो न शक्य ज्ञातुं खलु सर्वधर्मा / पश्येह सूत्रेन्द्रवरोत्तमेन संक्षेपतो देशित शून्यधर्माः // suv_6.2 //

अन्यैरुपायैर्नयहेतुभिश्च सत्त्वान कारुण्यवशोदयार्थम् / प्रकाशितं सूत्रवरेन्द्रमेतं यथाभिजानन्ति हि सर्वसत्त्वाः // suv_6.3 //

अयं च कायो यथ शून्यग्रामः षड्ग्राम चोरोपम इन्द्रियाणि / तान्येकग्रामे निवसन्ति सर्वे न ते विजानन्ति परस्परेण // suv_6.4 //

चक्षुरिन्द्रियं रूपमेतेषु धावति श्रोत्रेन्द्रियं शब्दविचारणेन / घ्राणेन्द्रियं गन्धविचित्रहारि जिह्वन्द्रियं नित्य रसेषु धावति // suv_6.5 //

कायेन्द्रियं स्पर्शगतो ऽभिधावति मनेन्द्रियं धर्मविचारणेन / षडिन्द्रियाणीति परस्परेण स्वकं स्वकं विषयमभिधावति // suv_6.6 //

चित्तं हि मायोपम चञ्चलं च षडिन्द्रियं विषयविचारणं च / यथा नरो धावति शून्यग्रामे संग्राम चौरेभि समाश्रितश्च // suv_6.7 //

चित्तं यथा षड्विषयाश्रितं च प्रजानते इन्द्रिय गोचरं च / रूपं च शब्दं च तथैव गन्धं रसं च स्पर्श तथ धर्मगोचरम् // suv_6.8 //

चित्तं च सर्वत्र षडिन्द्रियेषु शकुनिरिव चञ्चलं इन्द्रियसंप्रविष्टम् / यत्र यत्रेन्द्रियसंश्रितं च न चेन्द्रियं कुर्वतु जानमात्मकम् // suv_6.9 //

कायश्च निश्चेष्ट निर्व्यापारं च असारकः प्रत्ययसंभवश्च / अभूतविकल्पसमुत्थितश्च स्थितकर्मयन्त्रं इवं शून्यग्रामः // suv_6.10 //

क्षित्यम्भतेजो ऽनिलानि यथा चौरग्रामान्तः स्थित देशदेशे / परस्परेणैव सदा विरुद्धा यथैव आशीविष एकवेश्मनि // suv_6.11 //

धातूरगास्ते च चतुर्विधानि द्वे ऊर्ध्वगामी द्वय हेष्टगामी / द्वयाद्वयं दिशि विदिशासु सर्वं नश्यन्ति ता धातुभुजङ्गमानि // suv_6.12 //

क्षित्युरगश्च सलिलोरगश्च इमौ च हेष्टा क्षयतां व्रजेते / तेजोरगश्चानिलमारुतोरग इमौ हि द्वे ऊर्ध्वगतौ नभो ऽन्ते // suv_6.13 //

चित्तं च विज्ञानमध्यस्थितं च गत्वा यथा पूर्वकृतेन कर्माणा / देवे मनुष्यएषु च त्रिष्वपाया यथाकृतं पूर्वभवे प्रवर्त्त्या // suv_6.14 //

श्लेष्मानिलपित्तक्षयान्तप्राप्तः कायः शकृन्मूत्रपरीषपूर्णः / निराभिरामः कृमिक्षुद्रपूर्णः क्षिप्तः श्मशाने यथ काष्ठभूतः // suv_6.15 //

पश्याहि त्वं देवत एभि एवं कत्यत्र सत्त्वस्तथ पुद्गलो वा / शून्या हि एते खलु सर्वधर्मा अविद्यतः प्रत्ययसंभवाश्च // suv_6.16 //

एते महाभूत अभूत सर्वाश्च यस्मान्महाभूतप्रकृत्यभावा / तस्माच्च भूता हि असंभवाश्च अविद्यमाना न कदाचि विद्यते // suv_6.17 //

अविद्यतः प्रत्ययसंभवाश्च अविद्यमानैव अविद्यवाचः / तस्मान्मया उक्त अविद्य एषा संस्कारविज्ञान सनामरूपम् // suv_6.18 //

षडायतनस्पर्श तथैव वेदना तृष्णा उपादान तथा भवश्च / जातिजरामरणशोक उपद्रवाणां दुःखानि संस्कार अचिन्तियानि // suv_6.19 //

संसारचक्रे च यथा स्थितानि अभूत संभूत असंभवाश्च / अयोनिशश्चित्तविचारणं तथा दृष्टीगतं छेत्स्यथ आत्मनैव // suv_6.20 //

ज्ञानासिना छिन्दथ क्लेशजालं स्कन्धालयं पश्यथ शून्यभूतम् / स्पर्शेथ तं बोधिगुणं ह्युदारं विवर्त च मे अमृतपुरस्य द्वारम् // suv_6.21 //

संदर्शि तं अमृतपुरस्य भाजनं प्रवेक्ष्य तं अमृतपुरालयं शुभम् / तर्पिष्य ह अमृततरसेन आत्मनां पराहता मे वरधर्मभेरीः // suv_6.22 //

आपूरितो मे वरधर्मशङ्खः प्रज्वालिता मे वरधर्म उल्का / सुवर्षितं मे वरधर्मवर्षं पराजिता मे परक्लेशशत्रवः // suv_6.23 //

उच्छ्रेपितं मे वरधर्मध्वजं प्रतारिता मे भवसत्त्वसमुद्राः / पिधितानि मे ऽपायपथानि त्रीणि क्लेशाग्निदाहं शमयित्व प्राणिनाम् // suv_6.24 //

यस्माद्धि पूर्वमहमनेककल्पान् अचिन्तिया पूजित्व नायका हि / चरित्व बोधाय दृढव्रतेन सद्धर्मकायं परिवेषमाणः // suv_6.25 //

हस्तौ च पादौ च परित्यजित्वा धनं हिरण्यं मणिमुक्तभूषणम् / नयनोत्तमाङ्गं प्रियदारपुत्रं सुवर्णवैडूर्यविचित्ररत्नानि // suv_6.26 //

छिन्दित्वा त्रिसाहस्रायां सर्ववृक्षवनस्पतीम् / सर्वं च चूर्णयित्वा तत् कुर्यात् सूक्ष्मरजोपमम् // suv_6.27 //

चूर्णराशिं करित्वा तु यावदाकाशगोचरम् / अशकद्भभागभिन्नाय धरणीरजःसमानि वा // suv_6.28 //

सर्वसत्त्वा अनेके हि ज्ञानवत तथैव च / सर्वं गणयितुं शक्यं न तु ज्ञातं जिनस्य च // suv_6.29 //

एकक्षणप्रवृत्तं तु यज्ज्ञानं च महामुनेः / अनेककल्पकोटीषु न शक्यं गणयितुं क्वचित् // suv_6.30 //

इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे शून्यतापरिवर्तो नाम षष्ठः //

// चतुर्महाराजपरिवर्तः //

अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराज उत्थायसनेभ्य एकांसेन चीवराणि प्रावृत्य दक्षिणजानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् / अयं भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः सर्वतथागतभाषितः सर्वतथागतावलोकितः सर्वतथागतसमन्वागतः सर्वबोधिसत्त्वगणनमस्कृतः सर्वदेवगणपूजितः सर्वेदेवेन्द्रगणसंप्रहर्षकः सर्वलोकपालस्तुतः स्तवितो वर्णितः प्रशंसितः सर्वदेवभवनावभासितः सर्वसत्त्वानां परमसुखप्रदायकः सर्वनरकतिर्यग्योनियमलोकदुःखसंशोधकः सर्वभयप्रतिशमनः सर्वपरचक्रप्रतिनिवर्तको दुर्भिक्षकान्तारप्रशमनो व्याधिकान्तारप्रणाशको ज्ञानप्रकाशकः परमशान्तिकरः शोकायासप्रशमनो विविधनानोपद्रव्यप्रशमयितोपद्रवशतसहस्रप्रणाशयिता / इममस्य भदन्त भगवन् सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य विस्तरेण पर्षदि संप्रकाश्यमानस्यास्माकं चतूर्णां महाराजानां सबलपरिवाराणाम् / एतेन च धर्मश्रवणेन धर्मामृतरसेन च दिव्यात्मभावमहातेजसा विवर्धयिष्यन्ति // अस्माकं कायेषु वीर्यं च बलं स्थाम च संजनितं भविष्यन्ति / तेजश्च श्रियं च लक्ष्मीं चास्माकं कायेष्वाविशन्ति / वयं भगवंश्चत्वारो महाराजा धार्मिकाश्च धर्मवादिनश्च धर्मराजा धर्मेण वयं भदन्त भगवन् देवनागयक्षगन्धर्वासुरगरुडनरमहोरगाणां राजत्वं कारयिष्यामः / ते वयं भगवन्, चत्वारो महाराजाः सार्धमष्टाविंशतियक्षसेनापतिभिरनेकैश्च यक्षशतसहस्रैः सततसमितं सर्वे जम्बुद्वीपं दिव्येन विशुद्धेनातिक्रान्तमानुष्यकेण व्यवलोकयिष्याम आरक्षयिष्यामः परिपाचयिष्यामः / तेन हेतुना भदन्त भगवन्नस्माकं चतुर्णां महाराजानां लोकपाल इति संज्ञोत्पादिता //

ये केचिद्भदन्त भगवन्नस्मिन् जम्बुद्वीपे विपर्यासाः परचक्रेण चोपहता भविष्यन्ति, दुर्भिक्षकान्तरेण वा नानाविधैरुपद्रवशतैरुपद्रवसहस्रैरुपद्रवशतसहस्रैरुपहता भविष्यन्ति, ते वयं भदन्त भगवन् चत्वारो महाराजा इदमस्य सुवर्णप्रभासोओत्तमसूत्रेन्द्रराजस्य तेषां च सूत्रेद्रधारिणां भिक्षूणां संचोदनां करिष्यामः / यदा चेमे भदन्त भगवन् धर्मभाणका भिक्षवो ऽस्माकं चतुर्णां महाराजानां संचोदनया बुद्धाधिष्ठानेन च येषु विषयेषूपसंक्रमेयुस्तेषु ते विषयेषुः चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण संप्रकाशयेयुः / य इमान्येवंरूपाणि विषयगताति नानाविधान्युपद्रवशतान्युपद्रवसहस्रान्युपद्रवशतसहस्राणि च प्रशमयिष्यन्ति //

यस्य च भदन्त भगवन् मनुष्यराजस्य विषये ते सूत्रेन्द्रधारका भिक्षवा धर्मभाणाका उपसंक्रान्ता भविष्यन्ति / अयं च मनुष्यराज इमं सुवर्णप्रभाससूत्रेन्द्रराजं शृण्यात् / श्रुत्वा च तेषां सूत्रेन्द्रधारकाणां भिक्षूणां सर्वप्रत्यर्थिकेभ्य आरक्षां कुर्यात् परित्राणं परिग्रहं परिपालनं कुर्यात् / ते वयं भदन्त भगवन् चत्वारो महाराजास्तस्य मनुष्यराजस्य सर्वविषयगतानां च सत्त्वानामारक्षां करिष्यामः परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः / यदा च भदन्त भगवन् सर्वमनुष्यराजः सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां सर्वसुखोपधानैः सुखतां कुर्यात् / ते वयं भदन्त भगवन् चत्वारो महाराजास्तं मनुष्यराजं सर्वराजेभ्यः सत्कृततरं करिष्यामो गुरुकृतं च करिष्यामो मानितं च पूजितं च सर्वविषयेषु च प्रसंशनीयं करिष्यामः /

अथ खलु भगवांश्चतुर्णां महाराजानां साधुकारमदात् / साधु साधु महाराजाः साधु साधु युष्माकं महाराजाः / यथापि ते यूयं पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता धर्मिकाश्च धर्मवादिनश्च धर्मेण देवानां च मनुष्याणां च राजत्वं कारयध्वम् / यथापि पूर्वदीर्घरात्रं सर्वसत्त्वानां हितचित्ताः सुखमैत्रीचित्ताः सर्वसत्त्वहितसुखाध्याशयप्रतिपन्नाः (बग्छि 38) सर्वाहितप्रतिषेधिकाः सर्वसत्त्वानां सर्वहितोपसंहाराभियुक्ताः / ते यूयं चत्वारो महाराजास्तेषां मनुष्यराजस्य च सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य पूजासत्काराभियुक्तानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत / तेन युष्माभिश्चतुर्महाराजैः सबलपरिवारैरनेकैश्च यक्षशतसहस्रैरतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां धर्मनेत्र्यारक्षिता भविष्यति परिपालिता च परिगृहीता च भविष्यति / तेन युष्माकं चतुर्णां महाराजानां सबलपरिवाराणमनेकेषां यक्षशतसहस्राणां देवानां देवासुरसंग्रामे जयो भविष्यति, असुराणां च परिजयो भविष्यति / सर्वपरचक्रप्रमर्दकस्य सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत //

अथ वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरुढको महाराजो विरूपाक्षो महाराज उत्थायासनेभ्य एकांसानि चीवरैः प्रावृत्य दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् / अयं भदन्त भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजो ऽनागते ऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु प्रचरिष्यति यस्य यस्य मनुष्यराजस्य विषयमनुप्राप्तो भविष्यति / कश्चिद्भदन्त भगवन्मनुष्यराजो भगवन् येनानेन देवेन्द्रसमयेन राजशास्रेण राजत्वं कारयेत् / अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवंस्ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्सततसमितं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं शृणुयात् / अनेन धर्मश्रवणेन संचोदनधर्मामृतपुण्यात्मकानामस्माकं चतुर्णां महाराजानां सकलपरिवाराणामनेकेषां च यक्षराक्षसशतसहस्राणामिमान् दिव्यात्मभावान् महतौजसा विवर्धयेत् / महान्तं वीर्यं च स्थाम च बलं चास्माकं कायेषु तेजःश्रियश्च लक्ष्मी चास्माकं विवर्धयेत् / तेन वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैः (बग्छि 39) यक्षशतसहस्रैरदृश्यद्भिः कायात्मभावैरेतर्हि चानागते ऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामः तत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः प्रचरिष्यति / तेषां च मनुष्यराजानामस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणां मातापितॄणां चारक्षां करिष्यामः / परित्राणं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामः / तेषां च राजकुलानां तेषां च राष्ट्राणां तेषां च विषयाणामारक्षां करिष्यामः / परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामः / तांश्च विषयान् सर्वभयोपायासेभ्यः परिमोचयिष्यामः परचक्राणि च प्रतिनिवर्तयिष्यामः /

यः कश्चित् तस्य मनुष्यराजस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतुर्मानयितुः पूजयितुरन्यः सामन्तकः प्रतिशत्रुराजा भवेत् / यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रो राज्ञ एवं चित्तमुत्पादेत् / सो ऽहं चतुरङ्गेन बलकायेन सार्धमस्य विषयमुपसंक्रमेयं विनाशयितुम् / तेन खलु पुनर्भदन्त भगवान् कालेन तेन समयेनास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजो ऽनुभावेन तस्य सामन्तकस्य प्रतिशत्रुराजस्यान्यै राजभिः सार्धं संग्रामे भविष्यति / स्वविषयगताश्च विषयविलोपाश्च भविष्यन्ति / दारुणाश्च राजसंक्षोभा भविष्यन्ति / ग्रहरोगाश्च विषये प्रादुभूता भविष्यन्ति / नानाव्याक्षेपशतानि विषये प्रादुर्भूतानि भविष्यन्ति / यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रुराजस्य स्वविषयगतान्येवंरूपाणि नानोपद्रवशतानि नानाव्यक्षेपशतानि भवेयुः / स च भदन्त भगवन् सामन्तकप्रतिशत्रुराजश्चतुरङ्गीणीं सेनां योजयित्वा परचक्रगमनाय स्वविषयान्निष्क्रान्तो भवेत् / यत्रायं सुवर्णप्रभासोत्तमः सुत्रेन्द्रराजो भवेत् स प्रतिशत्रुराजः सार्धं चतुरङ्गबलकायेन तं विषयमुपसंक्रमितुकामो भवेत् / तं विनाशितुकामो भवेत् / ते वयं भदन्त भगवञ्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षराक्षसशतसहस्रैरदृश्यैरात्मभावैस्तत्रोपसंक्रमिष्यामः तं परचक्रमध्वानं मार्गप्रतिपन्नं (बग्छि 40) तथैव प्रतिनिवर्तयिष्यामो नानाव्याक्षेपशतानि चोपसंहरिष्यामो विघ्नांश्च करिष्यामः / यथा च तत्परचक्रं न शक्ष्यति तत्र विषय उपसंक्रमितुम् / कुतः पुनर्विनाशं करिष्यति //

अथ खलु भगवांस्तेषां चतुर्णां महाराजानां साधुकारमदात् / साधु साधु महाराजाः साधु खलु पुनर्युष्माकं महाराजानाम् / यद्यूयमत्या असंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीताया अनुत्तरायाः सम्यक्संबोधेरर्थाय तेषां मनुष्यराजानामस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणामारक्षां करिष्यथ / परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यथ / तानि च राजकुलानि तानि नगराणि तानि च राष्ट्राणि तानि च विषयाण्यारक्षयिष्यथ / परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यथ / तानि च विषयाणि सर्वमयोपद्रवोपसर्गापायासेभ्यः परिमोचयिष्यथ / परचक्राणि च निवर्तयिष्यथ / सर्वजम्बुद्वीपगतानां चास्य मनुष्यराजस्याकलहयाभण्डनयाविग्रहया विवादयौत्सुक्यमपपद्यथ / यथा च ते युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामस्मिञ्जम्बुद्वीपे तेषु चतुर्षु नगरसहस्रेषु तानि चतुरशीतिनगरसहस्राणि तेषु तेषु विषयेष्वभिरमेयुस्तेन च राज्यैश्वर्येणाभिरमेयुस्तेन च धनस्कन्धेन परस्परं न विहेठयेयुः / न परस्परं विहेठं जनयेयुः / स्वेन च यथा पूर्वकर्मोपचयेन राजत्वं प्रतिलभेयुः / स्वेन च राज्यैश्वर्येण च तुष्टा भवेयुः / न च परस्परेण विनाशयेयुः / न विषेय विनाशाय परक्रमेयुः //

यथा चास्मिञ्जम्बुद्वीपे तेषु चतुरशीतिषु विषयनगरसहस्रेषु तानि चतुरशीतिराज सहस्राणि परस्परेण हितचित्तानि मैत्रीचित्तानि सुखचित्तानि परस्परेण कलहयाभण्डनयाविग्रहयाविवादया स्वेषु स्वेषु विषयेष्वभिरमेरन्तेन पुण्येन चतुर्णां महाराजानां सबलपरिवाराणामयं च जम्बुद्वीपः स्फीतो भविष्यति / सुभिक्षश्च रमणीयश्च बहुजनसमाकीर्णश्चर्द्धश्चौजोवतरश्च भविष्यति / ऋतुमासार्धमाससंवत्सराणि च सर्वाणि समाचारयुक्तानि भविष्यन्ति / अहोरात्रं ग्रहनक्षत्रचन्द्रसूर्याश्च समाग्रहिष्यन्ति / कालेन च वर्षधाराः पृथिव्यां निपतिष्यन्ति / सर्वजम्दुद्वीपगतानि च सत्त्वानि सर्वधनधान्यसमृद्धानि भविष्यन्ति / महाभोगानि चामत्सराणि च भविष्यन्ति / परित्यागवन्ति दशकुशलकर्मपथसमन्वागतानि च भविष्यन्ति / यद्भूयसा सुगतौ स्वर्गलोक उपपत्स्यन्ते / देवभुवनानि चाकीर्णानि भविष्यन्ति देवैर्देवपुत्रैश्च //

यत्कश्चिन्महाराजो भवेद् य इत्थमस्य सुवर्णप्रभासत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवेन्मानयिता च पूजयिता च तेषां च सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामौत्सुक्यं सत्कुर्याद् गुरुकुर्यान्मानयेत्पूजयेत् / युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणामनुकम्पार्थाय सततसमितं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजेन्द्रं शृण्वन् / अनेन धर्मश्रवणसलिलोदकेन युष्माकमेतान्यात्मभावानि संतर्पयेत् / महतौजसा युष्माकमेतानि शरीराणि विवर्धयेत् / महच्च युष्माकं वीर्यं च स्थाम बलं च वपुषः संजनयेत् / तेजश्च श्रियश्च लक्ष्मीश्च युष्माकं विवर्धयेत् / तेन च मनुष्यराजेन मम शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्याचिन्त्या महाविपुलविस्तीर्णा पूजा कृता भविष्यति / तेन तस्य मनुष्यराजेनातीतानागतप्रत्युत्पन्नानां बुद्धानामनेकेषां तथागतानां कोटीनियुतशतसहस्राणामचिन्त्या महती विस्तीर्णा सर्वोपकरणैः पूजा कृता भविष्यति / तेन तस्य मनुष्यराजस्य महत्यारक्षा कृता भविष्यति / तेन च तस्य राज्ञो रक्षां परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं कृतं भविष्यति / अग्रमहिष्याश्च राजपुत्राणां च सर्वान्तःपुरस्य च राजकुलस्य च सर्वस्य महत्यारक्षा कृता भविष्यति / परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं कृतं भविष्यति / राजकुलनिवासन्यश्च सर्वदेवता ओजोवत्तराश्च चित्तेन सुखसौमनस्येन समन्वागता भवितारो रतिमनुभविष्यन्ति / तानि च राष्ट्राणि तानि च विषयाणि चारक्षितानि भविष्यन्ति / परिपाचितानि चानुत्पीडितानि चाकण्टकानि भविष्यन्ति / सर्वपरचक्रान्यवमर्दितानि चानुपसर्गाणि चानुपायासानि चेति //

एवमुक्ते वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजस्ते सर्वे भगवन्तमेतदवोचन् / तेन च भगवन्मनुष्यराजेन सुस्नातगात्रेण भवितव्यं सुगन्धवासनधारिणा नवरुचिरवस्त्रप्रावृतेन नानालंकारविभूषितेन भवितव्यम् / आत्मनश्च नीचतरमासनं प्रज्ञपयितव्यम् / तत्रासने निषीदित्वा राज्यमदमत्तेन न भवितव्यम् / न चोच्चै राज्ञा स्वयं प्रज्ञपयितव्यम् / शाठ्यमानमददर्पविवर्जितेन चित्तेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः / तस्य च धर्मभाणकस्य भिक्षोरन्तिके शास्तृसंज्ञोत्पादयितव्या / तेन मनुष्यराजेन तस्मिन्काले तस्मित्समये ऽग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च (बग्छि 42) प्रियहिताभ्यां प्रेक्षितव्याः / प्रियवचनैश्चाग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च आलपयितव्याः / नानाविचित्राश्च धर्मश्रवणपूजा आज्ञापयितव्याः / अचिन्त्ययातुल्यया प्रीत्यात्मानं संतर्पयितव्यम् / अचिन्त्येन प्रीतिसुखेन सुखापयितव्यम् / सुखेन्द्रियेण च भवितव्यम् / आत्मनश्च महाबलेन भवितव्यम् / महता प्रहर्षेणात्मा प्रहर्षयितव्यः / महता प्रेमजातेन धर्मभाणकः प्रत्युत्थातव्यः //

एवमुक्ते भगवांस्तांश्चतुरो महाराजानेतदवोचत् / तस्मिंश्च खलु पुगर्महारजाः काले तस्मिन्समये तेन मनुष्यराजेन सर्वश्वेतानि पाण्डुराणि नवरुचिवस्त्राणि प्रावरितव्यानि / नानाविभूषणालंकारैरात्मा समलंकर्तव्यं / महता राजानुभावेन महता राजव्यूहेन नानाविचित्ररत्नमङ्गलपरिगृहीतैस्ततो राजकुलादभिनिष्क्रमितव्यम् / तस्य च धर्मभाणकस्य भिक्षोः प्रत्युद्गमनाय गन्तव्यम् / तत्कस्य हेतोः? यावन्ति मनुष्यराजस्तत्र पदानि भावयति तावन्ति कल्पकोटीनियुतशतसहस्राणि संसारात्पराङ्मुखानि करिष्यति तावतां चक्रवर्तिराजकुलकोटीनियुतशतसहस्राणां लाभी भविष्यति / यावन्ति स तत्र पदान्यतिक्रमिष्यति तावतां चैव दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धिष्यते / अनेककल्पकोटीनियुतशतसहस्राणामुदारोदाराणां चावस्थानानां सप्तरत्नमयानां दिव्यविमानानां लाभी भविष्यति / अनेकेषां च दिव्योदाराणां मानुष्यकाणां राजकुलपुत्रशतसहस्राणां लाभी भविष्यति / सर्वत्र च जातिषु महैश्वर्यप्राप्तो भविष्यति / दीर्घायुष्कश्च भविष्यति / चिरंजीवी च भविष्यति / प्रतिभाणवांश्चादेयवचनश्च यशस्वी च सुविशालकीर्तिश्च भविष्यति / सदेवमानुषासुरस्य लोकस्य सुखितश्च भविष्यति / उदारोदाराणां च दिव्यमानुष्यकाणां सुखानां लाभी भविष्यति / महाबलश्च महानग्नबलवेगधारी चाभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतश्च भविष्यति / सर्वत्र जातिषु तथागतसमवधानगतो भविष्यति / सर्वकल्याणमित्राणि च प्रतिलप्स्यते / अपरिमितपुण्यस्कन्धस्य परिगृहीतो भविष्यति //

इमन्येवंरूपाणि महाराजगुणानुशंसानि संपश्यमानेन तेन राज्ञा धर्मभाणको योजनात्प्रत्युत्थातव्यः / तस्य धर्मभाणकस्यान्तिके शास्तृसंज्ञोत्पादयितव्या / एवं चित्तमुत्पादयितव्यम् / अद्य मम शाक्यमुनिस्तथागतो ऽर्हन्सम्यक्संबुद्ध इह राजकुले प्रवेक्ष्यति / अद्य मम शाक्यमुनिस्तथागतो ऽर्हन्सम्यक्संबुद्ध इह राजकुले स्वजनमनुशसिष्यते / सर्वलोकविप्रत्ययनीयं धर्मश्रवणं श्रोष्यामि / (बग्छि 43) अद्याहमनेन धर्मश्रवणेनावैवर्तिको भविष्याम्यनुत्तरायां सम्यक्संबोधौ / अद्य मया तथागतकोटीनियुतशतशस्राण्यारागितानि भविष्यन्ति / अद्य मयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्या महती विपुला विस्तीर्णा पूजा कृता भविष्यति / अद्य मम नरकगतितिर्यग्योनियमलोकदुःखान्यन्तशः समुच्छिन्नानि भविष्यन्ति / अद्य मयानेकानां ब्रह्मेन्द्रराजत्वकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति / अद्य मयानेकानां शक्रकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलान्यवरोपितानि भविष्यन्ति / अद्य मयानेकानि चक्रवर्तिराजकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति / अद्य मया सत्त्वकोटीनियुतशतसहस्राणि संसारात्परिमोचितानि भविष्यन्ति / अद्य मयाचिन्त्यसुविपुलविस्तीर्णापारमितपुण्यस्कन्धः परिगृहीतो भविष्यन्ति / अद्य मम सर्वान्तःपुरस्य महत्यारक्षा कृता भविष्यन्ति / अद्य मम राजकुले ऽचिन्त्या समबिशिष्टानुत्तरा महती शान्तिः कृता भविष्यति स्वस्त्ययनं च / अद्य ममायं सर्वविषय आरक्षितो भविष्यति / परिपालितश्चानुत्पीडितश्चानुत्कण्ठिकश्च सर्वपरचक्रानवमर्दितश्चानुपसर्गश्चानुपायासश्च भविष्यति //

यदा च महाराजाः स मनुष्यराजो ऽनेनैवंरूपेण सद्धर्मगौरवेण सुवर्णप्रभासोत्तमसूत्रेन्द्रराजधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेद्युष्माकं चतुर्णां महाराजानां सबलपरिवाराणां तेषां च देवगणानामनेकेषां च यक्षशतसहस्राणां महा तथा धर्माङ्गप्रत्यक्षं दद्यात् येन चैवासौ मनुष्यराजः पुण्यभिसंस्कारेण कुशलाभिसंस्कारेण च तेनैव चात्मभावेन च दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धयिष्यति / दृष्टधार्मिकेणाचिन्त्येन महता राजतेजसा समन्वागतो भविष्यति / श्रिया च तेजसा च लक्ष्म्या चालंकृतो भविष्यति / सर्वप्रत्यर्थिकाश्च सर्वशत्रवश्च सहधर्मेण सुनिगृहीता भविष्यन्ति //

एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् / यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् सो ऽनेनैवंरूपेण धर्मगौरवेणेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयात् / ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत् / अस्माकं चतुर्णां महाराजानामर्थाय तद्राजकुलं सुशोधितं शोधयेत् / नानागन्धोदकसंसिक्तं कुर्यात् / तं च धर्मश्रावणमस्माभिश्चतुर्भिश्च महाराजैः सार्धं साधारणं शृण्यादात्मनो ऽर्थाय सर्वदेवता च किंचिन्मात्रं कुशलं प्रत्यक्षं दद्यात् / समन्तरनिषण्णस्य च भदन्त भगवंस्तस्य भिक्षोर्धमासनगतस्य तेन मनुष्यराजेनास्माकं चतुर्णां महाराजानामर्थाय नानागन्धा धूपयितव्याः / सहधूपितेषु भदन्त भगवंस्तस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धेषु नानागन्धधूपलता निश्चरन्ति / तस्मिन्नेव क्षणलवमुहूर्ते ऽस्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतान्युपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति / उदारांश्च गन्धानाघ्रास्यन्ति / सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति / तेन चावभासेनास्माकं भवनान्यवभासितानि भविष्यन्ति / ब्रह्मणः सहांपतेः शक्रस्य च देवानामिन्द्रस्य सरस्वत्याश्च महादेव्या दृढायाश्च महादेव्याः श्रियश्च महादेव्याः संजयस्य च महायक्षसेनापतेरष्टाविंशतीनां च महायक्षसेनापतीनं महेश्वरस्य च देवपुत्रस्य वज्रपाणेश्च महायक्षसेनापतेर्माणिभद्रस्य च महायक्षसेनापतेर्हारीत्याश्च पञ्चपुत्रशतपरिवाराणामनवतप्तस्य च नागराजस्य चैतेषां भदन्त भगवन्स्वकस्वकभवनगतानाम् / तेन क्षणलवमुहूर्तेनोपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति / उदारांश्च नानागन्धानाघ्रास्यन्ति / सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति / तया चावभासया सर्वभवनान्यवभासितानि भविष्यन्ति //

एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् / न केवलं युष्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतानामुपर्यन्तरीक्षगताति नानागन्धधूपलताछत्राणि संस्थास्यन्ति / तत्कस्य हेतोः? सहप्रधूपिताश्च महाराजास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजोपस्थानाय / ततश्चैव धूपकुण्डहस्तपरिगृहीता नानागन्धधूपलता निश्चरिष्यन्ति / तेन क्षणलवमुहूर्तेन सर्वस्यामस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यत्र कोटीशतं चन्द्राणां (बग्छि 45) कोटीशतं सुमेरूणां पर्वतराजानां कोटीशतं चक्रवाडमहाचक्रवाडानां पर्वतराजानां कोटीशतं चतुर्महाद्वीपानां कोटीशतं चतुर्महाराजकायिकानां देवानां कोटीशतं त्रयस्त्रिंशानां देवानां कोटीशतं यावन्नैवसंज्ञायतनोपगानां देवानाम् / सर्वत्र च तेषु त्रिसाहस्रमहासाहस्रलोकधातुकोटीशतेषु त्रयस्त्रिंशेषु देवनिकायेषु सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाणां च भवनगतानां चोपर्यन्तरीक्षगतानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति / उदारांश्च नानागन्धानाघ्रास्यन्ति / सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति / ताभिश्चावभासाभिः सर्वभवनान्यवभासितानि भविष्यन्ति / रत्नच्छत्राणि संस्थास्यन्ति / उदारोदाराञ्च गन्धानाघ्रास्यन्ति सर्वदेवभवनेषु सुवर्णवर्णावभासाः प्रादुर्भविष्यन्ति / तेन चावभासेन सर्वदेवभवनान्यवभासितानि भविष्यन्ति / यथा त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वदेवभवनान्युपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति /

तथा चास्य महाराजाः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजसा कुण्डहस्तेन धूपितास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धधूपलताछत्राणि संस्थास्यन्ति / तेन क्षणलवमुहूर्तेन समन्ताद्दशसु दिक्ष्वनेकेषु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकेषां गङ्गानदीवालुकासमानां तथागतकोटीनियुतशतसहस्राणामुपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति / तेषु वालुकोपमेषु बुद्धकोटीनियुतशतसहस्रेष्वुदारोदारान्नानागन्धधूपानाघ्रास्यन्ति / सुवर्णवर्णमयावभासाः प्रादुर्भविष्यन्ति / तेन चावभासेन तान्यनेकानि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राण्यभासितानि भविष्यन्ति / समनन्तरप्रादुर्भूतानि च महाराजा इमान्येवंरूपाणि महाप्रातिहार्याणि तान्यनेकानि गङ्गानदीवालुकासमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि प्रतिष्ठितास्तथागतास्तं च धर्मभाणकं समन्वाहरिष्यन्ति / साधुकाराणि च प्रदास्यन्ति साधु साधु सत्पुरुष साधु पुनस्त्वं सत्पुरुष / यस्त्वमिममेवंरूपं गम्भीरमेवं गम्भीरार्थमेवं गम्भीरावभासमेवमचिन्त्यगुणधर्मसमन्वागतं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयितुकामः / (बग्छि 46) न चैते सत्त्वा इतरेण कुशलमूलेन समन्वागता भविष्यन्ति / य इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजमन्तशः श्रोष्यन्ति, प्रागेवोद्ग्रहीष्यन्ति धारयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति / विस्तरेण पर्षदि संप्रकाशयिष्यन्ति देशयिष्यन्त्युद्देक्ष्यन्ति स्वाध्यायिष्यन्ति योनिशो मनसि भावयिष्यन्ति /

तत्कस्य हेतोः? सहश्रवणेनास्य पुरुषस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानेकानि बोधिसत्त्वकोटीनियुतशतसहस्राण्यवैवर्तिकानि भविष्यन्त्यनुत्तरायाः सम्यक्सबोधेः //

अथ खलु तानि समन्ताद्दशसु दिक्षु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकानि तथागतकोटीनियुतशतसहस्राणि स्वकस्वकेषु बुद्धक्षेत्रेषु प्रतिष्ठितानि तेन कालेन तेन समयेनैकपादेनैकवाचैकस्वरनिर्घोषेण तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्यैतदूचुः / उपसंक्रमिष्यसि त्वं सत्पुरुषानागते ऽध्वनि बोधिमण्डम् / प्रदर्शयिष्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो द्रुमराजमूलोपविष्टः सर्वत्रैलोक्यप्रतिविशिष्टानि सर्वसत्त्वांस्त्रिकालान्तराणि व्रततपश्चरणबलाधानान्यधिष्ठानान्यधिष्ठितान्यनेकानि दुष्करकल्पकोटीनियुतशतसहस्राणि समलंकरिष्यसि त्वं सत्पुरुष बोधिमण्डम् / परित्रायिष्यसि त्वं सत्पुरुष सर्वांस्त्रिसाहस्रमहासाहस्रलोकधातून् / पराजयिष्यसि त्वं सत्पुरुष द्रुमराजमूलोपविष्टः कृतिमरूपपरमबीभत्सदर्शनं नानाविकृतरूपमचिन्त्यमारसैन्यम् / अभिसंभोत्स्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो ऽनुपमप्रशान्तविरजस्कगम्भीरामनुत्तरां सम्यक्संबोधिम् / प्रवर्तयिष्यसि त्वं सत्पुरुषार्यसारदृढवज्रासनोपविष्टः सर्वजनाभिसंस्तुतं परमगम्भीरं द्वादशाकारमनुत्तरधर्मचक्रम् / पराहनिष्यसि त्वं सत्पुरुषानुत्तरं धर्मगञ्जवाद्यम् / आपूरयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मशङ्खम् / उच्छ्रयिष्यसि त्वं सत्पुरुष महाधर्मध्वजम् / प्रज्वलयिष्यसि त्वं सत्पुरुषानुत्तरां धर्मोल्काम् / प्रवर्षयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मवर्षम् / पराजयिष्यसि त्वं सत्पुरुषनेकानि क्लेशशतसहस्राणि / प्रतारयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि सुभीमान्महाभयसमुद्रात् / परिमोचयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि संसारचक्रात् / आरागयिष्यसि त्वं सत्पुरुषानेकानि तथागतकोटीनियुतशतसहस्राणि //

एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् / अस्य भदन्त भगवन्सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्येमान्येवंरूपाणि दृप्धार्मिकाणि मारपराजयिकानि च गुणानि संपश्यमानस्य बुद्धसहस्रावरुप्तकुशलमूलस्य मनुष्यराजस्यानुकम्पाच्चापरिमितपुण्यस्कन्धपरिग्रहं संपश्यमानास्ते वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षशतसहस्रैः सार्धं स्वभवनगता नानागन्धधूपलताछत्राः संचोदिताः समाना अदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्योपगतसंस्कारकूटसुशोधितं नानागन्धोदकसुसंसिक्तं नानालंकारसमलंकृतं राजकुलं तेनोपसंक्रमिष्यामो धर्मश्रवणाय / ब्रह्मा च सहांपतिः शक्रश्च देवानामिन्द्रः सरस्वती च महादेवी श्रीश्च महादेवी दृढा च पृथिवीदेवता संजयश्च महायक्षसेनापतिरष्टाविंशतिमहायक्षसेनापतयश्च महेश्वरश्च देवपुत्रो वज्रपाणिश्च गुह्यकाधिपतिर्माणिभद्रश्च महायक्षसेनापतिर्हारीती च पञ्चपुत्रशतपरिवारा अनवतप्तश्च नागराजः सागरश्च नागराजः / अनेकानि च देवकोटीनियुतशतसहस्राण्यदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्य तत्र त नानालंकारसमलंकृतं राजकुलं यत्र तस्य धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायां धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायं धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मासनं प्रज्ञप्तं तत्र भविष्यन्ति धर्मश्रवणाय //

ते वयं भदन्त भगवंश्चत्वारो महाराजा अनेकैर्यक्षशतसहस्रैरेभिश्च सर्वैः सार्धं समग्रा भविष्यामस्तस्य मनुष्यराजस्य कल्याणमित्रसहायकस्य कल्याणसंप्रापकस्यानुत्तरमहारसोदारदातुरनेन धर्मामृतरसेन संतर्पिताः संतर्प्य तस्य मनुष्यराजस्यारक्षां करिष्यामः / परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः / तस्य राजकुलस्य च नगरस्य च विषयस्य च रक्षां करिष्यामः / परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामं / तच्च विषयं सर्वोपद्रवोपसर्गोपायासेभ्यः परिमोचयिष्याम इति //

यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् / यस्य च मनुष्यराजस्य विषये ऽयं सूत्रेन्द्रराजं संप्रचरेत् / यदा चासौ भदन्त भगवन्मनुष्यराजः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य (बग्छि 48) धारकान् भिक्षुभिक्षुण्युपासकोपासिका न सत्कुर्यान्न गुरुकुर्यान्न मानयेन्न पूजयेत् / अस्माकं चतुर्णां महाराजानामनेकानि यक्षकोटीनियुतशतसहस्स्राण्यनेन धर्मश्रवणेनैनेन धर्मामृतरसेन न संतर्पयेरन्न प्रतिमानयेरन् / इमानि दिव्यात्मभावानि महता तेजसा न विवर्धयेन्न चास्माकं वीर्यं च बलं च संजनयेत् / तेजश्च श्रियश्च लक्ष्मीं चास्माकं कायेषु न विवर्धयेत् / न ते ऽपि वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षकोटीनियुतशतसहस्रैस्तस्य च विषये रक्षां करिष्यामः / भदन्त भगवन्विषयमस्माकमुपेक्षन्तः सर्वविषयवासिनो देवगणास्तं विषयमुपेक्ष्यन्ति / देवताश्च भदन्त भगवन्तं विषयमुपेक्ष्यन्ते //

तत्र तत्र विषये नानाविधा विषयलोपा भविष्यन्ति / दारुणानि च राजसंक्षोभानि भविष्यन्ति / सर्वविषयगतानि च सत्त्वानि कलहजातानि भविष्यन्ति / भण्डनजातानि विगृहीतानि विवादमापन्नानि नानाविधाश्च ग्रहरोगा विषये प्रादुर्भाविष्यन्ति / नानादिगभ्य आगताश्चोल्कापाताः प्रादुर्भविष्यन्ति / ग्रहनक्षत्राणि च परस्परेण विरुद्धानि भविष्यन्ति / सूर्यप्रतिरूपकाणि शशिन उत्पादयिष्यन्ति / चन्द्रग्रहाश्च भविष्यन्ति / सूर्यग्रहाश्च सततसमितं गगनान्तरगतौ सूर्यचन्द्रमसौ नो दृक्यथगतौ भविष्यतः / उल्कापातसदृशवर्णानि परिवेशकानि गगनान्तरे कालेन कालं प्रादुर्भविष्यन्ति / पृथिवीकम्पाश्च भविष्यन्ति / कूपाश्च पृथिवीगताः संक्षेपन्तः शोक्ष्यन्ति / विषमवाताश्च वास्यन्ति / विषमवर्षाश्च भविष्यन्ति / दुर्भिक्षकान्तारश्च सर्वविषये भविष्यति / परचक्राणि च तद्विषयं वेक्ष्यन्ति / आयासबहुलं भविष्यति / तेषामस्माकं भदन्त भगवंश्चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणां विषयवासिनां च देवनागानां तं विषयमुपेक्षतस्तत्र विषय इमान्येवं रूपाणि नानाविधान्युपद्रवशतानि भविष्यन्त्युपद्रसहस्राणि वा //

यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् / य आत्मनो महतीमारक्षां कर्तुकामो भवेत् / चिरं च नानाविधानि राजसौख्यान्यनुभवितुकामो भवेत् / सर्वसुखसमर्पितो न चिरेण राजत्वं कर्तुकामो भवेत् / सर्वविषयवासिनां च सत्त्वानां सुखापयितुकामो भवेत् / सर्वपरचक्राणि च पराजयितुकामो भवेत् / सर्वसुखेन विषयं परिपालयितुकामो भवेत् / धर्मेण राजत्वं कारयितुकामो भवेत् / स्वविषयं च सर्वभयोपद्रवोपसर्गोपायासेभ्यः परिमोचयितुकामो भवेत् //

तेन च भदन्त भगवन्मनुष्यराजेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः / श्रुत्वा चैतास्तद्धारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः / वयं चत्वारो महाराजाः सबलपरिवारा अनेनैव धर्मश्रवणकुशलमूलोपचयेनानेन धर्माकृतरसेन संतर्पयितव्याः / अस्माकं चेमानि दिव्यात्मभावानि महातेजसा विवर्धयितव्यानि / तत्कस्य हतोः? यद्भदन्त भगवंस्तेन मनुष्यराजेनावश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः //

यावन्ति भदन्त भगवन्ब्रह्मेन्द्रेण लौकिकलोकोत्तराणि च नानाविधानि शास्त्राण्युपदर्शितानि / यावन्ति च शक्रेण देवेन्द्रेण नानाविधानि शास्त्राण्युपदर्शितानि / यावन्ति च नानाविधैः पञ्चभिज्ञै ऋषिर्भिर्लौकिकलोकोत्तराणि च सत्त्वानामर्थाय शास्त्राण्युपदर्शितानि / भदन्त भगवंस्तेभ्यो ब्रह्मेन्द्रशतसहस्रेभ्यो ऽनेकेभ्यश्च शक्रकोटीनियुतशतसहस्रेभ्यः सर्वेभ्यश्च पञ्चाभिज्ञेभ्य ऋषिकोटीनियुतशतसहस्रेभ्यस्तथागतो ऽग्रतरश्च विशिष्टतरश्चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानामर्थाय संप्रकाशयितः //

यथायं सर्वजम्बुद्वीपगतानां मनुष्यराजानां राजत्वं कारयितव्यम् / यथा च सर्वसत्त्वानि सुखार्पितानि भविष्यन्ति / यथा च सर्वविषयानुत्पीडिताश्च भविष्यन्त्यकण्टकाः / यथा परचक्राणि पराजितानि भविष्यन्ति / पराङ्मुखीभूतानि / यथा च ते विषया अनुपायासाश्च / यथा च सर्वविषयधर्मा अनुपायासाश्च भविष्यन्त्यनुपद्रुताश्च / यथा च तैर्मनुष्यराजैः स्वेषु विषयेषु महती धर्मोल्काः प्रज्वलिता भविष्यन्त्यादीपिताश्च / यथा च सर्वदेवताभवनानि (बग्छि 50) आदीपितानि भविष्यन्ति देवैर्देवपुत्रैश्च / यथ च वयं चत्वारो महाराजाः सबलपरिवारा अनेकानि यक्षशतसहस्राणि सर्वजम्बुद्वीपगताश्च देवगणाः संतर्पिता भविष्यन्ति संप्रसादिताश्च / यथा चास्माकं काये महान्तं वीर्यं च बलं च स्थाम च संजनितं भविष्यन्ति / यथा चास्माकं काये तेजश्च श्रीश्च लक्ष्मीश्च भूयस्या मात्रयाभिनिचिशन्ति / यथा च सर्वजम्बुद्वीपः सुभिक्षो भविष्यति रमणीयश्च बहुजनाकीर्णमनुष्यश्च / यथा च सर्वजम्बुद्वीपगतानि सत्त्वानि सर्वसुखानि भविष्यन्ति / नानारतिमनुभविष्यन्ति / यथा च सत्त्वान्यनेककल्पकोटीनियुतशतसहस्राण्ययिन्त्यान्युदारोदाराणि सुखान्यनुभविष्यन्ति / बुद्धैश्च भगवद्भिः सार्धं समवधानगतानि भविष्यन्ति / अनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / तत्सर्वमेतर्हि भगवता तथागतेनार्हता सम्यक्संबुद्धेन महता कारुण्यबलाधिष्ठानेन शक्रकोटीनियुतशतसहस्राणि दिव्यातिरेकतरे ऽनुत्तरे तथागतज्ञाने नानाविधानेकसर्वपञ्चाभिज्ञर्षिगणकोटीनियुतशतसहस्राणि चातिरेकसम्यक्संबुद्धेन ब्रह्मेन्द्रकोटीनियुतशतसहस्राणि चातिरेकव्रततपो ऽधिष्ठानेन स भगवता तथागतोनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण सर्वसत्त्वानामर्थायेह जम्बुद्वीपे संप्रकाशितः //

तेन मनुष्यराजेन सर्वजम्बुद्वीपगतानि लौकिकलोकोत्तराणि राजकार्याणि राजशास्राणि राजकरणानि निर्यातानि / यैरिमे सत्त्वाः सुखिनो भविष्यन्ति / तानि सर्वाणि भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमसूत्रेन्द्रराज उपदर्शितः परिदीपितः संप्रकाशितः / तेन भदन्त भगवन्हेतुना तेन प्रत्ययेन च तेन मनुष्यराजेनावश्यमायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कृत्य मानयितव्यः सत्कृत्य पूजयितव्यः //

एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् / तेन हि चत्वारो महाराजाः सबलपरिवारा अवश्यं तेषां मनुष्यराजानामस्य सुवर्णप्रभासोत्तमय सूत्रेन्द्रराजस्य श्रोतॄणां पूजयितॄणां महान्तमौत्सुक्यं करिष्यन्ति रक्षार्थम् एताश्च महाराजाः सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका बुद्धक्षेत्रमारात्प्रदर्शन्ते देवमानुषासुरस्य लोकस्य बुद्धकृत्यानि (बग्छि 51) करिष्यन्ति / इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यन्ति / अवश्यं युष्माभिश्चतुर्भिर्महाराजैस्तेषां सूत्रेन्द्रेधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षा कर्तव्या / परिपालनं परित्राणं परिग्रहं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं कर्तव्यम् / यथा च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका आरक्षिता भवेयुरनुत्पीडिता अनुसर्गोपायासां सुखचित्ताः / इमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानां संप्रकाशयितुम् //

अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजोत्थायासनेभ्य एकांसानि चीवराणि प्रावृत्योत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य तस्यां वेलायामभिमुखं सारूप्याभिर्गाथाभिर्भगवन्तमभितुष्टुवुः //

जिनचन्द्रविमलवपुषं जिनसूर्यसहस्रकिरणाभम् / जिनकमलविमलनेत्रं जिनकुमुदतुषारविरजदशनाग्रम् // suv_7.1 //

जिनगुणसागरकल्प अनेकरत्नाकर जिनसमुद्रम् / ज्ञानाम्बुसलिलपूर्णं समाधिशतसहस्रसंकीर्णम् // suv_7.2 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.