Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

संघाटसूत्र

Thông tin
GRETIL — Oskar von Hinüber.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[ससू 254] अथ खलु भगवान् कलविङ्करुतस्वरमनोज्ञघोषस्तथागतः स्मितं प्रादुष्चकार; अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्व उत्थायासनाद् येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय यद्भगवतो मुखद्वाराच्चतुरशीति रश्मिशतसहस्राणि निश्चरन्ति / तैश्च रश्मिभिरियं त्रिसाहस्रमहासाहस्रा लोकधातुरवभासेन स्फुटाभूत् सर्वे च द्वातृंशन् महानिरया स्फुटा अभूवन् द्वातृंशतिश्च देवभवनान्यवभासितानि / ताश्च रश्मयो नानावर्णाः तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवरणाः एताश्च रश्मयो भगवतो मुखद्वारान्निश्चर्य त्रिसाहस्रमहासाहस्रायां लोकधातौ सत्त्वानां सर्वमुखोपधानं कृत्वा पुनरेव प्रत्युदावृत्य भगवन्तं सप्तकृत् प्रदक्षिणाकृत्य भगवतो मूर्धन्यन्तरधीयन्त;

[ससू 255] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कञ्चिदेव प्रदेशं सचेन्मे भगवान् अवकाशं कुर्यात् पृष्टः प्रश्नव्याकरणाय; // एवमुक्ते भगवां भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहं ते तस्य तस्यैव (पृष्टस्य) प्रश्नस्य व्याकरणेन चित्तमारधयिष्यामि /

[ससू 256] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तृंशत्कोटीसहस्राणि भगवन्नवकानां सत्त्वानां प्रादुर्भूतानि ते तथागतस्य सूक्ष्मान् धर्मदेशनामवगाहन्ति / सूक्ष्मं भगवन् बृद्धानां सत्त्वानां परिभाषन्ति परिवदन्ति परिपीडयन्ति / न यूयं बृद्धाः सत्त्वा धर्मं जानीथ नित्यं यूयंमधर्मे चाकुशले च रज्यथ / तद् भगवान् मृष्टा मनापा वाग्भाषन्ते तत्केन कारणेन भगवन्तमेवं वाग्भाषन्ते / भगवान् आह - न विजानासि भैषज्यसेन केन कारणेनैते सत्त्वा एवं वाग्भाषन्ते / तथागतस्यैभिर्मृदुकं सुकुकारं भाषितं धर्मं श्रुत्वा तेनैते भैषज्यसेन सर्वधर्माणां अर्थमवभोत्स्यन्ते सर्वगुणसमन्वागताश्च भविष्यन्ति / सर्वे च धारणामवगाहिष्यन्ति / अद्य-द्-अग्रेण दशभूमिप्रतिष्ठिता भविष्यन्ति / अद्य महादुन्दुभिशब्दं प्रकरिष्यन्ति / अद्य महाधर्मप्रकारसमन्वागता भविष्यन्ति / पश्यसि त्वं भैषज्यसेन इमानि कूटागाराणि // भैषज्यसेन आह - पश्यामि भगवन् पश्यामि सुगत / भगवान् आह - अद्येमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारेष्वभिरुह्य धर्माभिसमयमनुप्राप्स्यन्ति / अद्येमे सर्वकुशलधर्मपारिपूरिं करिष्यन्ति / अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति / अनेकेषां च देवनिकायानामद्य धर्माभिसमयो भविष्यति / बहूनाञ्च नैरयिकानां सत्त्वानां विनिपातसंप्रस्थितानां तथागतज्ञाननिर्देशं श्रुत्वा सर्वसंसारपराङ्मुखपराजयो भविष्यति /

[ससू 257] तस्याम् च वेलायां वृद्धसत्त्वैर्नवानवतिभिः कोटीशस्रैः (सर्वे) स्रोतआपत्तिफलं प्राप्तं ते च सर्वधर्मसमन्वागता भविष्यन्ति / सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति / सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति / सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति / अवलोकय भैषज्यसेन चतुर्दिशं

[ससू 258] अवलोकयति भैषज्यसेनो बोधिसत्त्वो महासत्त्वः समन्ता चतुर्दिशं स पश्यति पूर्वस्यान् दिशि पंचाशत् कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / दक्षिणस्यान् दिशि षष्टि कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / पश्चिमस्यांन् दिशि सप्तति कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / उत्तरस्यान् दिश्यशीति कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / अधस्ताद्दिशि नवकोटीसहस्राणि गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / ऊर्ध्वायां दिशि कोटीशतसहस्रं गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति / ते चागतागता बोधिसत्त्वा महासत्त्वा भगवतः पुरतः पादौ शिरशाभिवन्द्यैकान्ते तशुः

[ससू 259] एकान्तस्थितानां दशदिग्भ्यागतानां बोधिसत्त्वानाम् महासत्त्वानामथ भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किमेतद् भगवन् खग-म्-अन्तरीक्षे कृष्णरूपं लोहितरूपं (च) पश्यामि / भगवान् आह - किमिदं भैषज्यसेन / न संजानासि यदेतदन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि / आह / न जानामि भगवन् न जानामि सुगत / भगवान् आह - एष तथागत एव जानाति / मारो ऽयं भैषज्यसेन विचक्षुस्करणायेहोपसंक्रान्तः इच्छसि भैषज्यसेनैतान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं य एते खगान्तरीक्षे व्यवस्थिताः आह / इच्छामि भगवन्निच्छामि सुगत /

[ससू 260] अथ भगवांस्तान् बोधिसत्त्वान् दर्शयित्वा भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म / ईदृशानां भैषज्यसेन कोटीशतगंगानदीवालिकासमानि बोधिसत्त्वाना आगतानि / आह / को भगवन् हेतुः कः प्रत्ययो यदेते बोधिसत्त्वा एतावन्त इहागता / भगवान् आह - दहराणां सत्त्वानां प्रत्ययेन भैषज्यसेन संप्रतं सर्वसत्त्वा धर्मध्यानसमन्वागता भविष्यन्ति / पश्यसि त्वं भैषज्यसेन य एते बोधिसत्त्वा महासत्त्वा नानारूपा आगता ऋद्धिबलाधानेन / आहावलोकितानि मया कोटीशतगंगानदीवालिकासमा लोकधातवस्तत्र मया कोटीनियुतशतसहस्रगंगानदीवालिकासमा बोधिसत्त्वा महासत्त्वा दृष्टाः स्वकस्वकेन ऋद्धिबलेन तिष्ठन्ति नानारूपा नानावर्णा नानाबलसंस्थानास्तिष्ठन्ति / आर्यधर्मविहारेषु ते बोधिसत्त्वस्तिष्ठन्ति / धर्मविहारेषु ते बोधिसत्त्वपरिवारास्तिष्ठन्ति /

[ससू 260] इदमवोचद्भगवान् आत्तमनाः सर्वशुरो बोधिसत्त्वो महासत्त्वः भैषज्यसेनो बोधिसत्त्वो महासत्त्वः सर्वे च नवपुराणका बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितं अभ्यनन्दत्

चोलोफोन् ब्: // 0 // संघाटं ना[म] महायानसूत्रं महाधर्मपर्यायं //0//

चोलोफोन् द्: // 0 // आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम् //0//

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.