Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
निबन्धावली
- Tác giả
- रत्नकीर्ति
- Thông tin
- GRETIL — Anantalal Thakur: Ratnakīrti Nibandhāvalī. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स्खलद्गतिरयं राहोः शिर इत्यादिनिर्देश इति चेत् / यदि सत्यमेतत्, तदा शिरो ऽतिरिक्तस्य राहोरिव क्ष्मातलादेरतिरिक्तस्य विवेकस्य दृश्यानुपलम्भबाधितत्वादयमपि निर्देशः स्खलद्गतिरेव, तथापि नेति कोषपानं प्रमाणम् / तस्मात्सघटात् (#निबन्ध् 124#) प्रदेशान्तरात् प्रदेश एवायमन्यो घटविविक्तः स्वहेतोरुत्पन्नो न तु घटविवेकेन विशेषितः, स्वहेतोरुत्पन्नस्य विविक्तस्याभावे विवेकस्याभावात् / किं च
व्याप्तं भिदा यदि विशेष्यविशेष(ण)त्वं भेदात्ययान्ननु तदा तदभाव एव / देशो विशिष्ट इति चास्ति यथा तथेदमप्यस्ति दृश्यमतभेददृगस्ति नेति //
तस्मान्नाभावो नाम कश्चिद् यत्र कारणव्यापारः / तदेवं सहेतुकविनाशत्वादिति हेतुः स्वरूपासिद्ध इति स्थितम् //
सतामक्षणिकत्वं कार(ण)वत्त्वादित्यप्यसंबद्धमेव, क्षणिकत्वकारणवत्त्वयोर्विरोधाभावादक्षणिकत्वेन कारणवत्त्वस्य व्याप्तेरसिद्धेः सन्दिग्धव्यतिरेकित्वात् / न चास्य विपर्यये वृत्तिशङ्का नाशस्य सहेतुकत्वमेव निवर्तयति, उक्तक्रमेण नाशस्यैवाभावादिति //
तथा प्रमेयत्वादपि स्थिरसिद्धिर्मनोरथमात्रम् / साकारवेदनोदयपक्षस्थितौ हि द्वितीयक्षणानुवृत्तावप्यर्थस्य व्यवहितत्वात्, प्रकाशानुपपत्तेर्विषयस्वरूपवेदनमेव ज्ञानस्य विषयवेदनम् / एवं च वर्तमानानुरोधः / अतीते ऽपि तत्प्रत्यासत्तेरप्रच्युतेः / न चातिप्रसङ्गः, अनन्तरातीतादन्येन क्षणेन सारूप्यासमर्पणात् / ततश्च कारणत्वाद् यदि नाम प्रमेयत्वस्य पूर्वकालसत्त्वेन व्याप्तिस्तथापि प्रमेयत्ववत् पूर्वकालसत्त्वमपि क्षणिके ऽविरुद्धमिति प्रमेयत्वाक्षणिकत्वयोर्व्याप्तिसाधनो व्यापकानुपलम्भो ऽसिद्धः / ज्ञानाकारार्पकत्वं हि हेतुत्वम्, प्रमेयत्वं प्रामाणिकप्रतीतत्वम् / तच्चानन्तरातीत एव क्षणे समुपपद्यते //
ज्ञानसत्त्वासमये ऽर्थानुवृत्तेरभावान्निर्विषयतेति चेत् / नन्वनुवृत्तावपि तदर्पिताकारस्वरूपसंवेदनमेव तद्वेदनम् / तदेव च सविषयत्वम् / इयं च प्रत्यासत्तिरनन्तरातीते ऽपि क्षणे ऽक्षीणेति न द्वितीयक्षणानुवृत्तेरनुरोध इत्युक्तम् / अतः सन्दिग्धव्यतिरेकित्वादनैकान्तिकमेव प्रमेयत्वम् //
अथ साकारवादविद्वेषादनाकारज्ञानग्राह्यत्वं प्रमेयत्वमभिप्रेतं तदासिद्धतास्य हेतोः / इन्द्रियार्थसन्निकर्षादेर्ज्ञानमुत्पद्यतां नाम / तच्चानुभवैकरसत्वेन सर्वत्रार्थे सदृशाकारत्वात् कस्य ग्राहकमस्तु, येनाभिसंबद्धमिति चेत् / आत्ममनःसंयोगादीनामपि ग्रहणं स्यात् / जनकस्य ग्रहणमिति चेत् / तथाप्यात्मादीनां ग्रहणप्रसङ्गः / विषयत्वेन जनकस्य ग्रहणमित्यप्यसाधु, विषयत्वस्याद्याप्यनिश्चयात् / इदं दृष्टं श्रुतं वेदमित्यध्यवसायो यत्रार्थे स विषय इति चेत् / नन्वस्त्येव प्रतिनियतो व्यवहारः / कः पुनरत्र प्रत्यासत्तिनियम इति पृच्छामः / स चेदुपवर्णयितुं न शक्यते, व्यवहारो ऽपि त्वन्मते नियतो न स्यादिति ब्रूमः / अस्ति तावदिति चेत् / अत एवार्थसारूप्यमसाधारणं प्रत्यासत्तिनिमित्तमस्तु, निर्मिमित्ते नियमायोगात् //
(#निबन्ध् 125#) ननु सारूप्यमप्यर्थादर्शने कथमवधार्यते / तच्च किमेकदेशेन, सर्वात्मना वा / आद्ये पक्षे सर्वं सर्वस्य वेदनं स्यात् / द्वितीये तु ज्ञानमज्ञानतां व्रजेत् / किं च सारूप्यादर्थवेदने ऽनन्तरं ज्ञानं तुल्यविषयं विषयः स्यादिति चेत् / माभूदर्थस्य दर्शनम् / आकारविशेषबलादध्यवसितार्थस्यार्थक्रियाप्राप्तेरेवार्थो ऽपीदृश इति सारूप्यव्यवहारो ऽविरुद्धः / अत एव स्थूलगतं परमाणुगतं वा सारूप्यं न चिन्त्यते / ज्ञानाकारस्य स्थूलत्वे ऽप्येकसामग्रीप्रतिबद्धपुञ्जविशेषादप्यभीष्टक्रियाकरणात् पुरुषार्थसिद्धेः / सारूप्यं चैकदेशेनैव / न चात्र सर्ववेदनप्रसङ्गः, सर्वेषां ज्ञानं प्रत्यजनकत्वात् / जनकानां च स्वव्यपदेशनिमित्तासाधारणैकदेशार्पकत्वेन ग्राह्यत्वात् / नापि तुल्यविषयान्तरज्ञानग्रहणप्रसङ्गः, तस्य स्वसंवेदनादेव प्रमाणात् सिद्धत्वात् / प्रमाणान्तरस्य तत्र वैयर्थ्यात् / जडत्वे सत्याकारार्पकस्य वस्तुनो ग्राह्यत्वादित्यस्यार्थस्याभीष्टत्वाच्च / बाह्यार्थस्थितौ चेयं चिन्तेति सर्वमनवद्यम् / तदेवमयं प्रमेयत्वादिति हेतुः साकारवादपक्षे सन्दिग्धव्यतिरेकः, निराकारपक्षे चासिद्ध इति स्थितम् /
न चार्थापत्तिरति स्थिरात्मसाधनी, कार्यकारणभावग्रहणादीनामन्यथोपपत्तेः / तथा हि उपादानोपादेयभावस्थितचित्तसन्ततिमप्याश्रित्येयं व्यवस्था सुस्थेति कथमात्मानं प्रत्युज्जीवयतु / तत्र कार्यकारणभावप्रतीतिस्तावदनाकुला / तथापि प्राग्भाविवस्तुनिश्चयज्ञानस्योपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्तुज्ञानेनास्मिन् सतीदं भवतीति निश्चयो जन्यते / तथा प्राग्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानोपादेयभूतेन तदर्पितसंस्कारगर्भेण पश्चाद्भाविवस्त्वपेक्षया केवलभूतलनिश्चायकज्ञानेनास्मिन्नसतीदं न भवतीति व्यतिरेकनिश्चयो जन्यते / यथोक्तम्
एकावसायसमनन्तरजातमन्यविज्ञानमन्वयविमर्शमुपादधाति / एवं तदेकविरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् //
अत एव देवदत्तेनाग्नौ प्रतीते यज्ञदत्तेन च धूमे प्रतीते न कार्यकारणभावग्रहणं तज्ज्ञानयोरुपादानोपादेयभावाभावात् / यत्र त्वेकसन्ताने ज्ञानक्षणयोरुपादानोपादेयभावस्तत्र कार्यादिग्रहः सुग्रहः / अन्यथा सत्यपि नित्यात्मनि प्रतिसन्धातरि कार्यकारणभावादीनामप्रतीतिरेव स्यात् /
तथा हि आत्मनः सकाशात् प्रतिसन्धेयबुद्धीनामभेदो भेदो वा भेदाभेदो वा / प्रथमपक्षे आत्मैव स्यात् प्रतिसन्धाता, बुद्ध्य एव वा स्युः प्रतिसन्धेया इति कः प्रतिसन्धानार्थः / भेदपक्ष ऽपि बुद्धिभ्यो भिद्यमानस्य जडस्यात्मनः कः प्रतिसन्धानार्थ इति न विद्मः / बुद्धियोगाद् द्रष्टुत्ववत् प्रतिसन्धातृत्वमिति (#निबन्ध् 126#) चेत् / बुद्धि रेव तर्हि द्रष्टी प्रतिसन्धात्री चेती नियमस्वीकारे तद्योगादस्य तथात्वमिति किमनेन याचितकमण्डनेन / बुद्धीनां कर्तृत्वाभावादिति चेत् / तद्द्वारेणापि तर्हि तस्यात्मनो द्रष्टृत्वादिव्यवहारानुपपत्तिः / यदि हि बुद्धिर्हेतोः फलस्य वा द्रष्ट्री स्यात् तदानन्तर्यप्रतिनियमस्य चानुसन्धात्री कल्पिता / तद्योगाद् द्रष्टृत्वं प्रतिसन्धातृत्वं चोच्यत इति स्यादपि प्रतिविषयमलब्धविशेषायां च बुद्धौ संबन्धो ऽपि न विशेषं व्यवहारयितुमीशः - अधुना निबन्धनाधिगन्ता, अधुना फलस्य, इदानीं प्रतिसन्धातेति / तथाविधबुद्धिगतविशेषस्वीकारे तु किमपरेणात्मना कर्तव्यम्, तावतैव पर्याप्तत्वाद् व्यवहारस्य /
स्थिरात्मानमन्तरेण सैव बुद्धिर्न स्यादिति चेत् / केनैवं प्रतारितो ऽसि / अहो मोहमाहात्म्यं यदीदृशानपि परवशीकरोति / तथा हि नेदमिदमन्तरेण यदुच्यते तत् खल्वन्यत्र प्रत्यक्षानुपलम्भाभ्यां सामर्थ्यावधारणे सति युज्यते वह्नेरिव धूमे, चक्षुरादिवद्वा दृष्टकारणान्तरसामग्र्या कार्यादर्शने पश्चाद् दर्शने च किञ्चिदन्यदपेक्षणीयमस्तीति सामान्याकारेण /
आद्यः पक्षस्तावन्नास्तीति व्यक्तम् / द्वितीयो ऽपि न संभवी / न हि कारणबुद्धिसमनन्तरं कार्यबुद्धौ सत्यां निश्चयप्रवृत्तस्येदमस्यानन्तरं दृष्टं मयेति प्रतिसन्धानमदृष्टपूर्वं कदाचित् यतो ऽन्यस्य सामर्थ्यपरिकल्पनं स्यादित्युदस्य व्यामोहमुक्तक्रमेणैव कार्यकारणग्रहणव्यवस्था स्वीकर्तव्या /
भेदाभेदपक्षस्तु धिक्कार एव, तस्यैव तदपेक्षया भेदाभेदविरुद्धधर्माध्यासादेकत्वानुपपत्तेः / ततश्च यद्भिन्नं भिन्नमेवाभिन्नं चाभिन्नमिति नैकस्य भेदाभेदौ /तथाप्यभेदे विश्वमेकमिति युगपदुत्पादस्थितिप्रलयप्रसङ्गः / एवं क्रमिवस्तुग्राहकैः क्रमिज्ञानैरुपादानोपादेयभूतैः साक्षात् पारम्पर्येण क्रमेणामी जायन्त इति निश्चयो जन्यते / ऐककालिकानेकवस्तुग्राहकैरेव तज्ज्ञानैरेकोपादानत्वात् सकृदिमानि जातानीति विकल्पः क्रियत इति क्रमाक्रमग्रहणमप्यनवद्यम् /
कथमनेकज्ञानादेकविकल्प इति चेत् / कि दोषः /
भवन्तु भिन्ना मतयस्तथापिता दधत्युपादानतयैककल्पनम् / न भिन्नसंख्या फलहेतुबाधिनी न चान्यसन्तानभवा इवाक्षमाः //
यदप्युक्तं शङ्करेण पूर्वोत्तरक्षणयोः संवित्तीः, ताभ्यां वासना, तया हेतुफलभावाध्यवसायी विकल्प इति चेत् / किमिदानीं यत्किञ्चिदाशङ्कितेन वक्तव्यमित्येवं विधिरनुष्ठीयते भवता / विकल्पो हि गॄहीतानुसन्धानमतद्रूपसमारोपो वा स्यात् / न तावत् पूर्वः पक्षः, अदृष्टान्वयव्यतिरेकस्य पुरुषस्य हेतुफलभावाग्रहे ऽनुसन्धानप्रत्ययहेतोर्वासनाविशेषस्यैवानुपपत्तेः / अगृहीतस्य चानुसन्धाने ऽतिप्रसङ्गादिति /
(#निबन्ध् 127#) तदेतन्न सम्यगालोचितम् / यतो हेतुफलभूतयोः पूर्वोत्तरक्षणयोरेकैकेन ज्ञानेनाननुभवे ऽप्युपादानोपादेयभूताभ्यां क्रमिज्ञानाभ्यां हेतुफलत्वे गृहीते एव / केवलं हेतुकाले फलाभावात् / तद्विषयसामर्थ्यग्रहणे ऽपि फलादर्शनात् तदवसाय एवाप्रवृत्तः कार्यदर्शनेन प्रवर्त्यते / तथा फलावलोकने ऽपि तत्कार्यता गृहीतैव विकल्पेनानुसन्धीयत इति गृहीतानुसन्धानरूप एवायं विकल्प इति यत्किञ्चिदेतत् /
यदाह महाभाष्यालङ्कारः
यदि नामैकमध्यक्षं न पूर्वापरवित्तिमत् / अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथम् // इति //
तथा स्मरणमभिलाषः, स्वयं विहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणम्, कर्मफलसंबन्धः, संशयपूर्वकनिर्णयश्च पूर्वपूर्वानुभवैकोपादानकारणैः समर्पितसंस्कारगतैरुत्तरोत्तरार्थानुभवैवोपादेयभूतैर्जन्यमानो युज्यत इति किमधिकेनात्मना परिकल्पितेन / उपादानोपादेयभावनियमादेव च न सन्तानान्तरे स्मरणादिप्रसङ्गः सङ्गतः / किमिदमुपादानमिति चेत् / उच्यते / यत्सन्ताननिवृत्त्या यदुत्पद्यते तत्तस्योपादानकारणम् / यथा मृत्सन्ताननिवृत्त्योत्पद्यमानस्य कुम्भस्य मृदुपादानमिति शास्त्रे प्रपञ्चितम् / न चात्र परलोकक्षतिः //
यदप्युक्तम् - चित्तशरीरयोः कियत्कालस्थितिनिबन्धनस्य दृष्टस्य निवृत्तौ चित्तस्यापि निवृत्तिप्रसङ्गः / मरणवेदनया हि चित्तं विकलम् / ततो ऽविकला चित्तान्तरजननावस्था न संभवति / तस्मादुपस्थिते मरणदुःखे सर्वसंस्कारविरोधिनि चित्तमप्युच्छिद्येतेति नास्तिक्यमायातमिति / तदयुक्तम् / यतो मरणदुःखं चित्तविशेष एव, तस्य चित्तान्तरजननसामर्थ्यस्वभावस्य स्वभावादवार्यैव ज्ञानोत्पत्तिरिति / बन्धान्मोक्षो ऽपि संसारिचित्त सबन्धादनाश्रवचित्तप्रबन्धो यः / शुभादिमोक्षयोरपि प्रवृत्तिरवार्या / यतः सत्यप्यात्मन्यहमेव मुक्तो भविष्यामि सुखी चेत्यात्मग्रहणक्षणादध्यवसायात् प्रवर्तते / न पुनरात्मना गलहस्तितः / स चानाद्यविद्यापरम्परायातः पूर्वापरयोरेकत्वारोपको मिथ्यासङ्कल्पो बाधिते ऽप्यात्मन्यव्याहतप्रसर इति कथमप्रवृत्तिः / ननु
नैरात्म्यवादपक्षे (तु) पूर्वमेवावबुध्यते / मद्विनाशात्फलं न स्यान्मत्तो ऽन्यस्याथवा भवेत् // इति /
अप्रवृत्तिरेवास्त्विति चेत् / अस्तु, को दोषः / यद्ययमात्मग्रहो निर्विषयो ऽपि प्रवृत्तिमनाक्षिप्त क्षणमपि स्थातुं (न) प्रभवति / यथा हि जातस्यावश्यं मृत्युरिति (#निबन्ध् 128#) ज्ञातवतोप्यप्रतिक्रियपुत्रादिमरणे सोरस्ताडमाक्रन्दो मरणादौ च यत्नः शोकोद्रेकात् एवमविद्योद्रेकादेव नैरात्म्यं जानन्नपि प्रवर्तते, न सुखमास्त इति किमत्र क्रियताम्, अविद्यायाः प्रवर्तनशक्तेरवार्यत्वात् / प्रत्यभिज्ञा च पूर्वमेव ध्वस्ता / कार्यकारणभावनियता पश्चाद्भाविपूर्वभाविता / सा च क्षणिके ऽप्यविरुद्धा / उपादानोपादेयता च क्रमिस्वसंवेदनज्ञानद्वयेन साक्षात्कृता तत्पृष्ठभाविना निश्चीयत इति, असत्यप्यात्मनि प्रतिसन्धातरि कार्यकारणग्रहणादय उपपद्यमाना नात्मानमुपस्थापयितुं प्रभवन्ति / अतो ऽर्थापत्तिरति न क्षमेति भाग्यहीनमनोराज्यमिव स्थिरसिद्धिर्विशीर्यत एव / तथा च क्षणभङ्गसन्देहे सत्त्वाद्यनुमानं प्राप्तावसरम् //
// स्थिरसिद्धिदूषणं समाप्तम् //
(#निबन्ध् 129#) // 9 //
// चित्राद्वैतप्रकाशवादः //
// नमस्तारायै //
दिगेषा स्वपराशेषप्रतिवादिप्रसाधनी / चित्राद्वैतमताबोधध्वान्तस्तोमकदर्थिनी //
इह खलु सकलजडपदार्थराशौ प्रत्याख्याते निराकृते च निराकारविज्ञानवादे प्रतिहते चालीकाकारयोगिनि पारमार्थिकप्रकाशमात्रे सम्यगुन्मूलिते च साकारविज्ञानालीकत्वसमारोपे प्रतिसन्तानं च स्वप्नवदबाधितदेहभोगप्रतिष्ठाद्याकारप्रकाशमात्रात्मके जगति व्यवस्थिते यस्य यदा यावदाकारचक्रप्रतिभासं यद्विज्ञानं परिस्फुरति तस्य तदा तावदाकारचक्रपरिकरितं तद्विज्ञानं चित्राद्वैतमिति स्थितिः / तदेवं चित्रमद्वैतं विज्ञानमिति पदत्रयमिह प्रत्युपस्थितम् //
अत्र च विप्रतिपत्तिर्नाम किं चित्रतायामद्वैते विज्ञानत्वे सर्वत्रैवेति विकल्पाः //
न तावदसौ चित्रस्वरूपानुसारिणी भवितुमर्हति, तन्मात्रस्य सर्वज्ञानुभवसिद्धत्वात्, अन्यथा शशविषाणादाविव जडमिदमलीकं विज्ञानं वेति विप्रतिपत्तीनामनवकाशप्रसङ्गात् / नापि विज्ञानत्वे विवादः कर्तुंमुचितः,
सहोपलम्भनियमाद्
इत्यादिना पूर्वमेव नीलादीनां साकारविज्ञानत्वप्रसाधनात् / अत एव सर्वत्रापि विमतिरसङ्गता, साकारविज्ञानसिद्धावेव चित्राद्वैतवादावतारात् / तस्माच्चित्रतेयमद्वैतविरोधिनीति व्यामोहादेकत्व एव विप्रतिप्रत्तिरिति तत्र प्रसाधनं साधनमिदमुच्यते //
यत् प्रकाशते तदेकम् / यथा चित्राकारचक्रमध्यवर्ती नीलाकारः / प्रकाशते चेदं गौरगान्धारमधुरसुरभिसुकुमारसातेतरादिविचित्राकारकदम्बकमिति स्वभावहेतुः /
न तावदस्यासिद्धिरभिधातुं शक्यते, प्रत्यक्षप्रमाणप्रसिद्धसद्भावे विज्ञानात्मकनीलाद्याकारचक्रे धर्मिणि प्रकाशमानतायाः प्रत्यक्षसिद्धत्वात् / न चास्य (#निबन्ध् 130#) हेतोर्विरुद्धता संभवति, विचित्राकारमध्यवर्तिनि नीलाकारे दृष्टान्तधर्मिणि प्रकाशमानतालक्षणस्य साधनस्य दृष्टत्वात् / ननु चैकत्वे साध्ये यदपरमेकत्वाधिकरणं तदिह दृष्टान्तीकर्तुमुचितम् / न चास्य नीलाकारस्य एकता विद्यते, विरुद्धधर्माध्यासप्रसिद्धस्यानेकत्वस्य संभवात् / देशकालाकारभेदो हि विरुद्धधर्माध्यासः / ततश्च यथा चित्रिताकारचक्रस्याकारभेदतो भेदस्तथा नीलाकारस्यापि देशभेदतो भेदः / तदयं साध्यशून्यो दृष्टान्तो हेतुश्च विपक्षे परिदृश्यमानो यदि तत्रैव नियतस्तदा विरुद्धः //
तत्रापि संभवे ऽनैकान्त इति चेत् / अत्रोच्यते / यदि देशभेदतो विज्ञानात्मकस्थूलनीलाकारस्य भेदस्तदास्य प्रतिपरमाणुदेशभेदे भेदसंभवातु परमाणुप्रचयमात्रात्मको विज्ञानात्मकस्थूलनीलाकारः स्यात् / तथा च सति सर्वेषां विज्ञान(अ)त्मकनीलपरमाणूनां स्वस्वरूपनिमग्नत्वेन संतमसनिमग्नानेकपुरुषवत् व्यतिवेदनाभावात् स्थूलनीलाखण्डलकप्रतिभासाभावप्रसङ्गः सङ्गतः स्यात्, ग्राह्यग्राहकलक्षणयोः पुरस्तादपकर्तव्यत्वात् / न चैवं वक्तव्यम् परमाणूनां स्वरूपनिमग्नत्वे ऽप्येकोपादानतया पुञ्जात्मैव स्थूलः स्थूलमात्मानं ज्ञास्यतीति, सत्यप्येकोपादानत्वे स्वस्वरूपनिमग्नत्वादेव स्थूलव्यवस्थापकस्य भिन्नस्यात्मनो ऽन्योन्यं वा ग्राह्यग्राहकभावस्यायोगात् / तादात्म्येन व्यतिवेदनस्य चानभ्युपगमात् /
वर्गो वर्गं वेत्ति
इत्यस्यानुपदत्वात् / न च यथा बाह्यार्थवादे स्थूलैकाकारज्ञानप्रतिभास एव बाह्यपरमाणुप्रचयप्रतिभासव्यवस्था गत्यन्तराभावात्, तथा ज्ञानपरमाणुप्रचयव्यवस्था(पक) स्थूलैकाकारयोगिविज्ञानान्तरस्थानभ्युपगमात् / अभ्युपगमे वा तस्यैव दृष्टान्तत्वात् / तस्माद् यावद् यावत् प्रतिभासस्तावत्तावत् स्थूलतयैव व्याप्तः / अस्थूले परमाणौ स्थूलनिवृत्तिमात्रे च प्रतिभासस्य दृश्यानुपलम्भबाधितत्वात् / यथा प्रसिद्धानुमाने सत्त्वं क्षणिकत्वेन व्याप्तं क्रमाक्रमकारित्वेनापि, क्षणिकत्वाभावाच्च कर्माक्रमनिवृत्तौ निवर्तमानं क्षणिकत्वे नियतं सिध्यति, तथात्रापि प्रकाशमानत्वं साधनमेकत्वेनापि स्थौल्येनापि, एकत्वाभावाच्च विपक्षात् परमाणुपुञ्जात्मन एकत्वनिवृत्तिमात्रात्मनश्च स्वविरुद्धोपलम्भात् स्थौल्यस्य व्यापकस्य निवृत्तौ निवर्तमानमेकत्वं नियतं सिध्यति / ततश्च यथा बहिर्व्याप्तिपक्षे घटे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलात् सत्त्वं क्षणिकत्वनियतमवधार्य सत्त्वात् पक्षे क्षणभङ्गसिद्धिः, त(था) त्रापि नीलाकारे दृष्टान्तधर्मिणि विपर्ययबाधकप्रमाणबलादेव प्रकाशमानत्वमेकत्वनियतमवगम्य प्रकाशमानत्वाद् विचित्राकारचक्रे साध्यधर्मिण्येकत्वसिद्धिरिति न दृष्टान्तस्य साध्यशून्यत्वम् / नापि हेतोर्विरुद्धता / न चानैकान्तिकता //
नन्वेकत्वे साध्ये तत्प्रच्युतिर्द्वित्वं च विपक्षः, तस्माच्च विपक्षाद्धेतुव्यतिरेकप्रतिपत्त्यवसरे किं विपक्षात्मा प्रकाशते न वा / प्रतिभासपक्षे प्रकाशमानत्वस्य (#निबन्ध् 131#) हेतोः साधारणानैकान्तिकता, विपक्षे ऽपि दृष्टत्वात् / अथ न प्रकाशते तदा सन्दिग्धव्यतिरेकित्वम्, कुतो व्यतिरेक इत्यवधेरेवाप्रकाशमानशरीरत्वात् कथमतः साध्यसिद्धिप्रत्याशा /
अत्रोच्यते / इह द्विविधो विज्ञानानां विषयः ग्राह्यो ऽध्यवसेयश्च / प्रतिभासमानो ग्राह्यः / अगृहीतो ऽपि प्रवृत्तिविषयो ऽध्यवसेयः / तत्रासर्वज्ञे ऽनुमातरिसकलविपक्षप्रतिभासाभावान्न ग्राह्यतया विपक्षो विषयो वक्तव्यः, सर्वानुमानोच्छेदप्रसङ्गात्, सर्वत्र सकलविपक्षप्रतिभासाभावात् ततो व्यतिरेकासिद्धेः / प्रतिभासे च देशकालस्वभावान्तरितसकलविपक्ष साक्षात्कारे साध्यात्मापि वराकः सुतरां प्रतीयत इत्यनुमानवैयर्थ्यम् / तस्मादप्रतिभासे ऽप्यध्यवसायसिद्धादेव विपक्षाद् धूमादेर्व्यतिरेको निश्चितः / तत् किमर्थमत्र विपक्षप्रतिभासः प्रार्थ्यते / यदि पुनरस्याध्यवसायो ऽपि न स्यात्तदा व्यतिरेको न निश्चीयत इति युक्तम्, प्रतिनियतविषयव्यवहाराभावात् //
नन्वस्मन्मते वस्त्ववस्त्वात्मकसकलविपक्षप्रतिपत्तिसंभवात् ततो हेतुव्यतिरेकः संप्रत्येतुं शक्यत एव / न च प्रतिभासमात्रेण सत्त्वप्रसङ्गः, अर्थक्रियाकारित्वलक्षणत्वात् सत्त्वस्य / त्वन्मते तु प्रकाश एव वस्तुत्वम् / अतो विपक्षयोरेकत्वप्रच्युतिर्द्वित्वयोः प्रतिभासे प्रकाशमानत्वसाधनस्य विपक्षसाधारणता / अप्रतिभासे चसन्दिग्धव्यतिरेकित्वमिति चोद्यं दुरुद्धरमेवेति चेत् / तदेतदसङ्गतम् / तथा हि धूमादिरवह्न्यादेर्विपक्षाद् व्यावृत्तो वह्न्यादिनियतः सिध्यति, तस्य च वस्त्ववस्त्वात्मकसकलविपक्षपदार्थराशेः स्वरूपनिर्भास इति किं निर्विकल्पकज्ञाने कल्पनायां वा / निर्विकल्पे चेत् / प्रतिभास इति च को ऽर्थः / किं निराकारे ज्ञाने सकलविपक्षादिस्वरूपस्य साक्षात् स्फुरणम्, यदि वा तदर्पितबुद्धिस्वभावभूतसदृशाकारप्रकाशः, अथ समनन्तरप्रत्ययबलायातबुद्धिगतबाह्यसदृशाकारप्रतिभासः, आहोस्विद् बुद्धेरात्मभूतविपक्षसदृशालीकाकारपरिस्फूर्तिः /
न तावदाद्यः पक्षो युक्तः, देशकालस्वभावविप्रकृष्टानां पदार्थानामर्वाचीने जने निराकारे च ज्ञाने स्फुरणायोगादित्यस्यार्थस्य शास्त्रे एव विस्तरेण प्रसाधनात् / स्फुरणे चासाध्यस्यापि प्रकाशनप्रसङ्गे ऽनुमानवैयर्थ्यस्य प्रतिपादनात् /
नापि द्वितीयः पक्षः, देशादिविप्रकृष्टत्वादेव साक्षात्स्वाकारसमर्पणसामर्थ्याभावात् /
न च तृतीयः सङ्गतः, सादृश्यसंभवे ऽपि समनन्तरबलादेवायातस्य बाह्येन सह प्रत्यासत्तेरभावात् /
न चतुर्थो ऽपि प्रकार संभवति, असत्प्रकाशयोर्विरोधात्, स्फुरतो ऽलोकत्वायोगात् / तथा ह्यसत्प्रकाश इति किमसदीश्वरादेः ख्यातिः, भासमानो वा आकारो ऽसन्, सन् वा न कश्चित् ख्यातीति विवक्षितम् / तत्र यस्य पदार्थस्य स्वरूपपरिनिर्भासः स कथमसन्निति प्राणधारिभिरभिधातव्यः / स्फुरतः केशोण्डुकाकारस्य (#निबन्ध् 132#) बाह्यरूपतया बाध्यत्वे ऽपि ज्ञानरूपतयार्थत्वस्य आचार्येण प्रतिपादितत्वात् ग्राहकाभिमतनिराकारप्रकाशस्याप्यसत्त्वाभिधानप्रसङ्गात् //
प्रतिभासे ऽपि बाधनादसत्यत्वमिति चेत् / किं तद् बाधकम्, प्रत्यक्षमनुमानं वा / यद्येकत्र स्वरूपसाक्षात्कारिणि प्रत्यक्षे ऽविश्वासः कथमन्यत्र बाधके स्वरूपान्तरप्रकाश एव निर्वृत्तिस्तत्पूर्वकमनुमानं च सुतरामविश्वासभाजनमिति न बाधकवार्तापि / यदाहुर्गुरवः
यस्य स्वरूपनिर्भासस्तदेवासत्कथं भवेत् / बाधातो यदि साप्येका प्रत्यक्षानुमयोर्ननु //
प्रत्यक्षे यद्यविश्वासः एकत्रान्यत्र का गतिः / तत्पूर्वमनुमानं च कथमाश्वासगोचरः // इति /
ननु
दृष्टमेव द्विचन्द्रादिप्रतिभासे ऽपि बाधितम् / न दृष्टे ऽनुपपन्नत्वं तज्ज्ञातमपि बाध्यते //
इति चेत् / न / बाध्यस्याप्रतिभासनात् / प्रतिभासिनश्चाबाध्यत्वात् / तथा हि बुद्ध्याकारस्य निर्भासो बाधा बाह्यस्य वस्तुनः / स्फूर्तावप्यविश्वासे क्व विश्वास इति कीर्तितम् //
एतेन भासमानो वा आकारो ऽसन्निति द्वितीयो ऽपि पक्षः प्रतिक्षिप्तः, प्रतिभासादेव सत्तासिद्धेर्बाधकाबकाशाभावात् /
तथा सन् वा कश्चिन्न ख्यातीति तृतीयसङ्कल्पो ऽपि व्याकुलः, प्रकाशव्याप्तत्वात् सत्तायाः / अप्रकाशस्यासत्तया ग्रस्तत्वात् //
ननु प्रकाशो नामः वस्तुनः सत्तासाधकं प्रमाणम् / न च प्रमाणनिवृत्तावर्थाभावः / अर्थक्रियाशक्तिस्तु सत्त्वम् / तच्चाप्रकाशस्यापि न विरुध्यत इति चेत् / सत्यमेतत् / बहिरर्थबादे ऽप्रकाशस्यापि सामर्थ्याभ्युपगमात् / केशोण्डुकादिप्रतिभासे ऽध्यवसितस्यार्थक्रियाशक्तिवियोगादेवाभावसिद्धेः / सर्वथा बहिरभावे तु ज्ञानस्य प्रकाशाव्यभिचारात्तावतैव सत्त्वे किमर्थक्रियया /
कथमन्यहृदः सत्त्वं प्रकाशादेव नास्य चेत् / नार्थक्रियापि सर्वस्मै क्वचिच्चेद् भासनं न किम् //
इति / निर्विकल्पे तावत् स्वसंवेदनसिद्धस्वाकारमन्तरेण विपक्षादयो न परिस्फुरन्ति / अथामी विकल्पे प्रतिभासन्त इति द्वितीयः सङ्कल्पो ऽभ्युपगम्यते, अस्मिन्नपि पक्षे प्रतिभासमान आकारो ऽसाधारणो ऽशब्दसंसृष्टतया स्वसंवेदनतादात्म्ये प्रविष्टत्वाद्वस्तुसन्नेव /
अध्यवसेयतया विपक्षादयो गृह्यन्त इति चेत् / तदापि तेषां स्वरूपस्य निर्भासो ऽस्ति न वा / निर्भासे प्रत्यक्षसिद्धतैव, नासत्ख्यातिः / शास्त्रे ऽपि
(#निबन्ध् 133#) ऽस्वरूपसाक्षात्कारित्वमेव प्रत्यक्षत्वम्ऽ
उक्तम् / तस्य चेतरप्रत्यक्षेष्विव विकल्पे ऽपि स्वीकारे विरुद्धव्याप्तोपलम्भेन विकल्पभ्रान्तत्वयोर्दूरमपास्तत्वाद्विकल्पे ऽपि त्वन्मते प्रत्यक्षत्वमक्षतम् / तत् कथं तत्सिद्धस्य प्रत्यक्षान्तरानुमानाभ्यां बाधाभिधानम्, तयोरपि स्वरूपान्तरप्रकाशपौरुषत्वात् //
अथ विकल्पभ्रान्तत्वयोर्व्यापकविरुद्धयोः संभवात् विकल्पे प्रत्यक्षत्वमेवासंभवि / नन्वस्य प्रत्यक्षत्वमसंभवीति स्वरूपसाक्षात्कारित्वमसंभवीत्युक्तम् / अथ विपक्षादिरर्थो ऽस्मिन् प्रकाशत इति वाचा स्वरूपसाक्षात्कारित्वं कथितमिति माता मे बन्ध्येति वृत्तान्तः / इष्यते च त्वया विपक्षादिस्वरूपसाक्षात्कारित्वं बिकल्पस्येति प्रत्यक्षतानतिक्रमः, अप्रत्यक्षत्वे वस्तुस्वरूपस्फुरणायोगात् / ततश्च तत्प्रतिभासिनो ऽपि रूपस्य सत एव ख्यातिर्नासत्ख्यातिः / न च तदेव विकल्पे परिस्फुरद्रूपमसतामीश्वरादीनां स्वरूपम्, असत्त्वस्यैवाभावप्रसङ्गात् / स्वरूपस्फुरणे ऽप्यसत्त्वे ऽन्यत्रापि प्रकाशिन्यनाश्वासात् /
ततो यत् साकारवादे जल्पितम्
नित्यादयः सन्त एव स्युः
इति तदात्मन एव पतितम् / यदाहुर्गुरवः
स्वरूपसाक्षात्करणादध्यक्षत्वं न चापरम् / विकल्पभ्रमभूमित्वमत एव हि बाधितम् //
यदि नाध्यक्षता तस्य रूपनिर्भास एव न / ततस्तदसदीशादि प्रतिभातीत्यसङ्गतम् //
यदि तु प्रतिभासेत रूपमस्य सदेव तत् / तदसत्प्रतिभातीति तच्च भात्यसदेव वः //
अथाध्यवसाये ऽध्यवसेयस्वरूपस्य प्रतिभासो नास्तीत्युच्यते / न तदा कस्यचिदध्यवसायः / कथमतः प्रतिनियतवस्तुव्यवस्थासिद्धिः / किं च को ऽयमध्यवसायोनाम / किं व्यावृत्तिभेदपरिकल्पितस्य प्रकाशांशस्य, स्वाकारांशस्य, अलीकाकारस्य, बाह्यवस्तुनो ऽवस्तुनो वा स्फुरणमध्यवसायार्थः / यदि वा स्वाकारे बाह्यारोपः, बाह्ये वा स्वाकारारोपः, स्वाकारबाह्ययोर्योजना, तयोरेकीकरणमेकप्रतिपत्तिरभेदेन प्रतिपत्तिः भेदाग्रहो ऽध्यवसायार्थ इति विकल्पाः /
तत्र न तावदादिमौ पक्षौ कल्पनामर्हतः / स्वरूपे सर्वस्यैव स्फुरणस्य निर्विकल्पत्वादवसायानुपपत्तिः / इतरथा निर्विकल्पकज्ञानाभावप्रसङ्गात् /
अलीकस्फुरणं तु प्राक् प्रत्याख्यातम् /सत्यपि स्फुरणे ऽस्फुटत्वान्निर्विकल्पकमेतत् / द्विचन्द्रादिज्ञानवत् / अस्तु स्वग्राह्ये तन्निर्विकल्पकम्, बाह्ये तु अध्यवसेये (#निबन्ध् 134#) अध्यवसाय इति चेत् / न तत्संबन्धाभावात, तदप्रतिभासाच्च / अन्यथातिप्रसङ्गादित्युक्तप्रायम् / बाह्यवस्तुस्वरूपस्फुरणे तु प्रत्यक्षप्रतिपत्तिरेवासाविति को ऽध्यवसायः / अवस्तुस्फुरणं पुनस्त्रिधा विकल्प्य प्रागेव प्रत्याख्यातम् /
स्वाकारे तु बाह्यारोपो न संभवत्येव / तथा हि ज्ञानं केनचिदाकारेण सत्येनालीकेन वोपजातं नाम / बाह्यारोपस्तु तदाकारे तत्कृतो ऽन्यकृतो वा स्यात् / तत्कृतत्वे न तावत् तत्काल एव व्यापारान्तरमनुभूयत इति कुतस्तदारोपः / कालान्तरे च स्वयमेवासत् कस्य व्यापारः स्यात् /
द्वितीयपक्षे ज्ञानान्तरमपि नाकारारोपरागसङ्गिनीमुत्पत्तिमन्तरेण व्यापारान्तरेण क्वचित् किञ्चित्करं नाम / तदेतदर्वाचीनज्ञानसदृशाकारगोचरीकरणे ऽपि न बाह्यारोपव्यापारमपरं स्पृशति तदाकारलेशानुकारमपहाय / न च शब्दामुखीकरणमतिरिक्तो व्यापारः, शब्दाकारस्यापि स्वरूप एवान्तर्भावादिति नाकारादन्यो ज्ञानव्यापारः / आरोप्यमाणश्चासावर्थो बाह्यः / तत्र बुद्धौ यदि स्वरूपेण स्फुरति सत्यप्रतीतिरेवासौ, क आरोपः / अथ न परिस्फुरति तथापि क आरोपः / स्फुरणे वा अधिकरणभूतस्वाकारातिरिक्तस्यारोप्यमाणाकारस्यापि प्रतिभासप्रसङ्गः /
तदाकारस्फुरणमेव तस्य स्फुरणमिति चेत् / न / तस्यारोपविषयत्वात् / न हि मरीचिस्फुरणमेव जलस्फुरणमिति न स्वाकारे बाह्यारोपः / अत एव बाह्ये स्वाकारारोपो नास्ति, आरोपविषयस्य बाह्यस्यास्फुरणात् / तत एव स्वाकारबाह्ययोर्योजनाप्यसंभविनी, योग्ययोरप्रतिभासात् / न चैकीकरणमध्यवसायः / को ऽयमेकीकरणार्थः / यद्येकतापत्तौ प्रयोजकत्वं तदारोप्यारोपविषययोः कदाचिदेकीभावाभावादसंभव एव / न हि शशविषाणे कारणं किञ्चित् / न च पूर्वमनेकमेकतामेतीति क्षणिकवादिनः सांप्रतम् / अर्थान्तरोत्पत्तिमात्रं तु स्यात् / न च तदुपलब्धिगोचरो ऽन्यत्रारोपविषयात् स्वाकारात् / न च तावताप्यर्थस्य किञ्चिदिति कथमेकीकरणम् /
अथैकप्रतीतिरध्यवसायः / तथापि न द्वयोरेकप्रतिपत्तिरध्यवसेयानुभवाभावात् / न च द्वयोः प्रतीतिरित्येवाध्यवसायः नीलपीतवत् /
न चाभेदेन प्रतीतिरध्यवसायः / यतः पर्युदासपक्षे ऐक्यप्रतीतिरुक्ता भवति / सा च प्रत्युक्ता, अध्यवसेयप्रतिपत्त्यभावात् / भेदेन प्रतीतिनिषेधमात्रे ऽपि न बाह्यस्य प्रतीतिरुक्तेति कुतस्तदध्यवसायः / यदि हि बाह्यं प्रकाशेत एकत्वेनानेकत्वेन वा सता असता वा प्रतीतिरिति युक्तम् /
सर्वाकारतत्स्वरूपतिरस्कारेण सा प्रतीतिरित्येकप्रतीतिरिति चेत् / तत्स्वरूपतिरस्कारे तर्हि तदप्रतिभासनमेव / कस्यचिदंशस्य प्रतिभासनादिति चेत् / न / निरंशत्वाद्वस्तुनः सर्वात्मना प्रतिभासो ऽप्रतिभासो वेति शास्त्रमेवात्र विस्तरेण परीक्ष्यते /
(#निबन्ध् 135#) न च भेदाग्रहो ऽध्यवसायो वक्तव्यः / तथा हि किं बाह्ये गृह्यमाणे ऽगृह्यमाणे वा / न च प्रथमः पक्षः, बाह्यग्रहणस्य प्रतिक्षिप्तत्वात् / ग्रहणे वाध्यवसायस्य प्रत्यक्षताप्रसङ्गात् / अगृह्यमाणे तु बाह्ये प्रवृत्तिनियमो न स्यात्, अन्येषामपि तदानीमग्रहणादन्यत्रापि प्रवृत्तिप्रसङ्गात् /
त्रिलोचनो ऽपीत्थमध्यवसायं दूषयति / को ऽयमध्यवसायः / किं ग्रहणम्, अहोस्वित् करणम्, उत योजना, अथ समारोपः / तत्र स्वाभासमनर्थमर्थ कथं गृह्णीयात्, कुर्याद् वा विकल्पः / न हि नीलं पीतं शक्यं ग्रहीतुं कर्तुं वा शिल्पकुशलेनापि / नाप्यगृहीतेन स्वलक्षणेन स्वाकारं योजयितुमर्हति विकल्पः / न च स्वलक्षणं विकल्पग्रहणगोचरः / न च स्वाकारमनर्थमर्थमारोपयति / न तावदगृहीतस्वाकारः शक्य आरोपयितुमिति तद्ग्रहणमेषितव्यम् / तत्र किं गृहीत्वा आरोपयति, अथ यदैव स्वाकारं गृह्णाति तदैवारोपयति / नाद्यः / न हि क्षणिकं विकल्पविज्ञानं क्रमवन्तौ ग्रहणसमारोपौ कर्तुमर्हति / उत्तरस्मिंस्तु कल्पे ऽविकल्पस्वसंवेदनप्रत्यक्षाद्विकल्पाकारादहङ्कारास्पदादनहङ्कारास्पदः समारोप्यमाणो विकल्पेन स्वगोचरो न शक्यो ऽभिन्नः प्रतिपत्तुम् / नापि बाह्यस्वलक्षणकत्वेन शक्यः प्रतिपत्तुम्, विकल्पाकारे स्वलक्षणस्य बाह्यस्याप्रतिभासनादिति /
बाचस्पतिरपि अध्यवसायं प्रतिक्षिपति / अनर्थं स्वाभासमर्थमध्यवस्यतीति निर्वचनीयमेतत् / नन्वयमारोपयतीति किं विकल्पस्य स्वरूपानुभव एवारोपः, उत व्यापारान्तरं स्वरूपानुभवात् / न तावत् पूर्वः कल्पः, अनुभवसमारोपयोर्विकल्पाविकल्परूपतया द्रवकठिनवत्तादात्म्यानुपपत्तेः / व्यापारान्तरत्वे तु क्रमः समानकालता वा / न तावत् क्रमः, क्षणिकस्य विज्ञानस्य क्रमवद्व्यापारायोगात् / अक्षणिकवादिनामपि बुद्धिकर्मणोर्विरम्य व्यापारानुपपत्तेः न क्रमवद्व्यापारसंभवः / अनुभवसमारोपौ समानकालाविति चेत् / भवतु समानकालत्वं केवलम् / आत्मा स्वभावस्थित एव वेद्यः, परभावेन वेदने स्वरूपवेदनानुपपत्तेः / तथा चात्मा ज्ञानस्य ग्राह्यग्राहकाकारो ऽनुभूतो ऽर्थश्च समारोपितः / न त्वात्मा वेद्यमानः समारोपितो नार्थः समारोप्यमाणः प्रत्यक्षवेद्यः / स च समारोपः सतो ऽसतो वा ग्रहणमेव / न च ज्ञानातिरिक्तस्य ग्रहणं संभवतीत्युपपादितम् /
स्वप्रतिभासस्य बाह्याद्भेदाग्रहो बाह्यसमारोपस्ततो बाह्ये वृत्तिरिति चेत् / स किं गृह्यमाणे बाह्ये न वा / न तावद् गृह्यमाणे / उक्तं ह्येतन्न तद्ग्रहणं संभवतीति / अगृह्यमाणे तु भेदाग्रहे न प्रवृत्तिनियमः स्यात्, अन्येषामपि तदानीमग्रहादन्यत्रापि प्रवृत्तिप्रसङ्गादिति / तस्माद् यथा यथायमध्यवसायश्चिन्त्यते तथा तथा विशीर्यत एव / तथा विकल्पारोपाभिमानग्रहनिश्चयादयो ऽप्यध्यवसायवत् स्वाकारपर्यवसिता एव स्फुरन्तो बाह्यस्य वार्तामात्रमपि न (#निबन्ध् 136#) जानन्तीत्यध्यवसायस्वभावा एव शब्दप्रवृत्तिमित्तभेदे ऽपि तत्कथं युक्त्यागमबहिर्भूतो ऽनात्मस्फुरणमाचक्षीत /
नन्वेवं विकल्पादीनामसंभवे संभवे ऽप्यनात्मप्रकाशकत्वानभ्युपगमे सर्वजनप्रसिद्धविधिप्रतिषेधव्यवहारोच्छेदप्रसङ्ग इति लोकविरोधः / विकल्प इत्यध्यवसायैत्यारोप इत्यभिमान इति ग्रह इति निश्चय इत्यादिकं शास्त्रे प्रतिपदं प्रतिपादितम्, तत्सिद्धं च बहिरर्थादिकमभ्युपगतमित्याचार्यविरोधः, न्यायविरोधश्च / तथा हि सवरेव प्रकारैरविपरीतस्वरूपसंवेदनाद् भ्रान्तेरत्यन्तमभावः स्यात् / ततश्च सर्वसत्त्वाः सदैव सम्यक्सम्बुद्धा भवेयुः /
विकल्पिता बुद्धिर्भ्रान्तिः, स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायादिति चेत् / कथमवसीयमानस्तया सो ऽर्थो न प्रकाशते / प्रकाशमानो वा कथमसौ तस्यां न प्रकाशते / अथ प्रकाशत एव, तदार्थस्य तादात्म्यप्रसङ्गः / असति चार्थे सारस्यात् अभून्मान्धाता, भविष्यति शङ्खो ऽस्त्यात्मा, नित्यः शब्द इति सर्वात्मना च निश्चयः स्यात् / गौरिति स्पष्टेन च स्वेन लक्षणेन प्रकाशेत / स्वलक्षणे च सङ्केतायोगात् विकल्पिकैव सा बुद्धिर्न स्यात् / तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रकाशनमस्या गवार्थावसाय इत्येष्टव्यम् / एवं ह्येते दोषा न स्युः, अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति //
अत्राभिधीयते / न तावल्लोकशास्त्रविरोधौ, अगृहीते ऽपि बाह्ये प्रवृत्तिनिवृत्त्यादिसमर्थनात् स्वपरवादिदुरतिक्रमाध्यवसायस्वरूपनिर्वचनात् / न्यायविरोधस्य तु गन्धो ऽपि नास्ति /
तथा हि का पुनरियं भ्रान्तिरसत्ख्यातिरतस्मिंस्तद्ग्रहो वा यदभावादिदानीमेव मुक्तिरासज्यते /
न तावदाद्यः पक्षः, असत्ख्यातेः प्रत्याख्यानात् / यदाहुर्गुरवः
यस्य स्वरूपनिर्भासो बाधकाद् यदि तन्न सत् / बाधके ऽपि क आश्वासः स्वरूपान्तरभासिनि //
अन्यस्वरूपोपनयात् तत्स्वरूपनिवारणम् / तत्रापि संशयो जातः पूर्वबाधोपलब्धितः //
इयमेवाग्रहे बाधा नाद्यजस्यापरा यदि / अस्य पूर्वैव भवतु रूपनिर्भासनं समम् //
नान्या व भाविनीत्यत्र प्रमाणं किञ्चिदस्ति वः / अपि स्वरूपनिर्भासे यदा बाधकसंभवः //
(#निबन्ध् 137#) अनिर्भासे स्वरूपस्य हेतुशोधनविप्लवे / बाधशङ्काविनिर्भासे ऽप्येवं चेद् विप्लवो महान् // इति //
शास्त्रे च अतस्मिंस्तद्ग्रहात् स्वप्रतिभासे ऽनर्थे ऽर्थाध्यवसायाद् दृश्यविकल्प्ययोरेकीकरणाद् भ्रान्तिरुक्ता / तामयं समर्थयितुमसमर्थः स्वातन्त्र्येणालीकस्फुरणं भ्रान्तिरिति काव्यं विरचय्य विस्तारयति //
नन्वतस्मिंस्तद्ग्रहो ऽपि भ्रमः स्वाकारपर्यवसितज्ञानादतिरिक्तो बहुभिर्बहुधा विचार्यं प्रत्याख्यातः / तत् कथं तस्मिन्नपि पक्षे न भ्रान्तिक्षतिर्येनेदानीमेव मुक्तिप्रसङ्गो न स्यादिति चेत् / तदेतद् भगवतो भाष्यकारस्य मतविद्वेषविषव्याकुलविक्रोशितमतिकातरयति कृपापरवशधियः / तथा हि समनन्तरप्रत्ययबलायातस्वप्रतिभासविशेषवेदनमात्रादगृहीते ऽपि परत्र प्रवृत्त्याक्षेपो ऽध्यवसायः / न चासौ पूर्वोक्तवाग्जालैः प्रतिहन्तुं शक्यः, सर्वप्राणभृतां प्रत्यात्मविदितत्वात्, कैश्चिदप्यनुद्भिन्नत्वात् / अयमेव च संसारस्तत्क्षयो मोक्ष इति क्वेदानीमेव तद्वार्तापि / तथा हि विचित्रानादिवासनावशात् प्रबोधकप्रत्ययविशेषापेक्षया विकल्पः केनचिदाकारेणोपजायमान एव बहिर्मुखप्रवृत्त्यनुकूलमर्थक्रियास्मरणाभिलाषादिप्रबन्धमाधत्ते / ततः पुरुषार्थक्रियार्थिनो बहिरर्थानुरूपाणि प्रवृत्तिनिवृत्त्यवधारणानि भवन्ति / पृथग्जनसन्तानज्ञानक्षणानां तादृशो हेतुफलभावस्य नियतत्वात् / अनिश्चितार्थसंबन्धविकल्पकाले ऽपि सदसत्तानिर्णयादिप्रवृत्तिप्रसवः / तत्र यदुभयथा प्रवृत्तिसाधनसामर्थ्यमस्य स्वहेतुबलायातमयमेव प्रवृत्तिविषयत्वारोपो ऽध्यवसायापरनामा / यथा चन्द्रादिज्ञानस्य भ्रान्तस्याभ्रान्तस्य वा तद्दर्शनावसायजननमेव ग्रहणव्यापारः /
स्वविदपीयमर्थविदेव कार्यतो द्रष्टव्येति
न्यायात् / तथा विकल्पस्याप्यग्निरत्रेत्यादिनाकारेणोत्पद्यमानस्य प्रवृत्त्याक्षेपकत्वमेव बाह्यावसानं नाम / यथा च निर्विकल्पद्विचन्द्राद्याकारतैव तथावसायसाधनी, एवमवसायस्यापि तादृशाकारतैव विषयान्तरविमुखप्रवृत्तिसाधनी //
ननु तथा च तच्च तेन प्रतिपाद्यते न च तज्ज्ञाने तत् प्रकाशत इति शपथेनापि न संप्रत्यय इति चेत् / असंबद्धमेतत् / न ह्यध्यवसायाद् बाह्यस्य पटादेर्वस्तुनो बाधकावतारात् पूर्वसन्दिग्धवस्तुभावस्य क्षणिकादेरवस्तुनो वा शशविषाणादेरस्फुरणे ऽपि सिद्धिप्रतिबन्धो ब्रह्मणापि प्रतिविधातुं शक्यः / द्विविधो हि विषयव्यवहारः, प्रतिभासादध्यवसायाच्च / तदिह प्रतिभासाभावे ऽपि परापोढस्वलक्षणादेरध्यवसायमात्रेण विषयत्वमुक्तम्, सर्वथा निर्विषयत्वे प्रवृत्तिनिवृत्त्यादिसकलव्यवहारोच्छेदप्रसङ्गात् / ततश्च तेन च तत् प्रतिपाद्यते न च ज्ञाने तत्प्रकाश इति सङ्गतिरस्त्येव, प्रकाश्यप्रकाशकभावाभावे ऽप्यध्यवसायाध्यवसायकभावेनापि विषयविषयिभावोपपत्तेः /
(#निबन्ध् 138#) ननु यदि नाध्यवसेयप्रतीतिस्तदागृहीते ऽपि स्वलक्षणादौ प्रवृत्तिरिति सर्वत्राविशेषेण प्रसज्येत, सर्वत्रागृहीतत्वेन विशेषाभावात्, ततश्च प्राप्तिरपि नाभिमतस्य नियमेनेत्यनुमानमपि विप्लुतम् / अत्र ब्रूमः / यद्यध्यवसेयमगृहीतं विश्वमप्यगृहीतम्, तथापि नियतविषयैव प्रवृत्तिर्न सर्वत्र, तथाभूतसमनन्तरप्रत्ययबलायातनियताकारतया नियतशक्तित्वाद्विकल्पस्य / नियतशक्तयो भावा हि प्रमाणपरिनिष्ठितस्वभावाः, न शक्तिसाङ्कर्यपर्यनुयोगभाजः, असदुत्पत्तिवत् सर्वत्रासत्त्वे ऽपि हि बीजादङ्कुरस्यैवोत्पत्तिः, तत्रैव तस्य शक्तेः प्रमाणेन निरूपणात् / तथेहापि हुतवहाकारस्य विकल्पस्य दाहपाकाद्यर्थक्रियार्थिनस्तत्स्मरणवतो हुतवहविषयायामेव प्रवृत्तौ सामर्थ्यं प्रमाणप्रतीतं कथमतिप्रसङ्गभागि / प्रत्यासत्तिचिन्तायां च तात्त्विकस्यापि वह्नेर्ज्वलद्भास्वराकारत्वं विकल्पोल्लिखितस्यापीति, तावता तत्रैव प्रवर्तनशक्तिर्ज्वलनविकल्पस्य न जलादौ //
ननु च सादृश्यारोपेण किं स्वाकारस्य बाह्ये स्वाकारे वा बाह्यस्यारोपः / उभयथाप्यसङ्गति, आरोप्यारोपविषययोः स्वाकारबाहययोर्द्वयोर्ग्रहणासंभवादिति चेत् / न वयमारोपेण प्रवृत्तिं ब्रूमः / किं तर्हि, स्ववासनापरिपाकवशादुपजायमानैव सा बुद्धिरपश्यन्त्यपि बाहयं बाहये प्रवृत्तिमातनोतीति विप्लुतैव संसारात्मिका च / यत् शास्त्रं
न ज्ञाने तुल्यमुत्पत्तितो धियः / तथाविधायाः
इति / तस्मान्न रूप्यादिवदारोपद्वारेण प्रवृत्तिरपि तु तथाविधाकारोत्पत्तिप्रतिबद्धशक्तिनियमात् / न च विचारकस्य वस्त्वदर्शननिश्चयादप्रवृत्तिः सङ्गच्छते / दर्शने ऽपि हि प्रवृत्तिरर्थक्रियार्थितया / अर्थक्रियाप्राप्तिश्च वस्तुसत्तानियमे / स च नियमो यथा दर्शनाद् वस्तुप्रतिबन्धकृतः, तथा विकल्पविशेषादपि पारम्पर्येण वस्तुप्रतिवस्तुप्रतिबन्धकृत इत्यदर्शने ऽपि अध्यवसायात् प्रवृत्तिर्युज्यत इति नानुमानमनवस्थितम् / एतेन तच्च न प्रतीयते, तेन चाभेदाभासनमित्युपालम्भो ऽसंभवीत्युपदर्शितम्, अप्रतिभासे ऽपि प्रवृत्तिविषयीकरणमित्यभेदादिनिष्ठाया दर्शितत्वात् / तस्मादविचाररमणीयो ऽतस्मिंस्तद्ग्रह एव भ्रान्तिरारोपापरनामा, तत्क्षयश्च मोक्ष इति युक्तम् /
यदाहुर्गुरवः
तस्मात्प्रवृत्तेराक्षेपे विकल्पाकारजन्मनि / मतो जलाद्यारोपो ऽपि सत्यासत्यसमश्च सः //
ततो यद्यपि तत्त्वेन नारोपो नाम कस्यचित् / व्यवहारकृतस्त्वेष प्रतिषेद्धुं न शक्यते //
मरीचौ जलवद् यावदनात्मन्यात्मकल्पनम् / भ्रम एव हि संसारो निर्वाणं तत्त्वसंस्थितिः //
(#निबन्ध् 139#) ततश्च यावन्न विचारसंभवो भवो ऽयमन्यः शम इत्ययं नयः / विचारलीलाललिते तु मानसे भवः शमो वा क इहेति कथ्यताम् //
तथा आर्यमैत्रेयनाथपादा अपि
न चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह / तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् //
आर्यनागार्जुनपादाश्च
निर्वाणं च भवश्चैव द्वयमेव न विद्यते / परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते //
इति सर्वैरेव प्रकाशैरविपरीतस्वरूपसंवेदने ऽपि भ्रान्तिव्यवस्थासंभवादस्ति संसारः //
यदप्युक्तं विकल्पस्याविषयश्च बाह्यम् ग्रहणं चास्य शब्देन संयोज्येति विकल्पत्वमपि दुर्योजम्, आत्मनि च शब्दयोजना नास्तीति विकल्पो नाम नास्त्येव, तत्कस्य विकल्पचिन्तेति / अत्रभिधीयते / इहाग्निरत्रेत्यध्यवसायो यथा कायिकीं वृत्तिं प्रसूते तथाग्निर्मया प्रतीयत इति वाचिकीमपि प्रसूते, एतदाकारानुव्यवसायरूपां मानसीमपि प्रसवति / एवं च सति यथा विकल्पेनायमर्थो गृहीत इति निश्चयः, तथा शब्देन संयोज्य गृहीत इत्यपि, अर्थाकारलेशवच्छब्दाकारस्यापि स्फुरणात् / तस्मादर्थग्रहाभिमानवान् मानवस्तावदभिधानसंयुक्तग्रहणाभिमानवानपीत्यवसायानुरोधादेव विकल्पव्यवस्था न तत्त्वतः / यदाहुर्गुरवः
न शब्दैः संसर्गः क्वचिदपि बहिर्वा मनसि वा- क्षराकाराकीर्णः स्फुरति पुनरर्थाकृतिलवः / उभावप्याकारौ यदपि धिय एवाध्यवसितिर् विधत्ते तौ बाह्ये वचसि च विकल्पस्थितिरतः //
अभाने प्रतिभाने वा न चारोपो ऽपि कस्यचित् / प्रतीत्योत्पादभेदेन व्यवस्थामात्रमीदृशम् //
निर्विकल्पाद्विकल्पस्य भावे लेशानुकारिणः / सङ्केतकारिवचनाद् बुद्ध्याकारे विशेषिणि //
(#निबन्ध् 140#) सङ्केतः कृत इत्यास्था तादृक् शब्दश्रुतौ पुनः / प्रवृत्त्याक्षेपबुद्ध्यात्मभावे वाच्यव्यवस्थितिः //
इति /
तस्माद् वस्तु वा घटपटादि सन्दिग्धवस्तु वा साधकबाधकातिक्रान्तम्, अवस्तु वात्मदिक्कालाक्षणिकादिकमध्यवसितमिति, अप्रतिभासे ऽपि प्रवृत्तिविषयीकृतमित्यर्थः / अयमेव चारोपैकीकरणाध्यवसायाभेदग्रहादीनामर्थः सर्वत्र शास्त्रे बोद्धव्यः / तस्मादध्यवसायस्याकारविशेषयोगादगृहीते ऽपि प्रवर्तनयोग्यता नाम यो धर्मस्तया बाह्याध्यवसाययोर्ग्राह्यग्राहकभावश्चेत् संवृत्त्या दुष्परिहरः, तदा विषयिविषयभावो ऽपि लब्ध इत्यध्यवसायमात्रेण विषयविषयित्वमुक्तमिति युक्तम् / यदाह अलङ्कारकारः
कथं तद्विषयत्वं तत्र प्रवर्तनादिति /
एतेन यदुक्तम् कथमवसीयमानस्तयात्मार्थो न प्रकाश्यत इत्यादि, तन्निरस्तम्, तदप्रकाशे ऽपि तदध्यवसायस्य व्यवस्थापितत्वात् / असति चार्थे सा न स्यादित्यप्ययुक्तम्, आत्मादेरध्यवसेयस्य प्रतिभासप्रतिक्षेपे बुद्ध्या सह तादात्म्याभावात् / न च सर्वाकारनिश्चयप्रसङ्गदोषः सङ्गतः / सर्वाकारनिश्चयो हि सर्वेष्वाकारेषु प्रवृत्तिकारकत्वात्मा निरुक्तः, न चैकाकारोल्लेखिनो विकल्पस्याकारान्तरे प्रवर्तनशक्तिरनुभवविषय इति कुतः शब्दप्रमाणान्तरानपेक्षेति युक्तम् / तत्र निर्विकल्पकं स्पष्टप्रतिभासत्वाद् ग्राहकं व्यवस्थाप्यते / विकल्पस्तु स्पष्टैकव्यावृत्त्युल्लेखादारोपकादिव्यवहारभाजनम् / यथा च बाह्ये सति क्वचिद् भ्रमव्यवस्था तथान्तर्नये ऽपि सर्वत्र / केवलं बहिर्मुखप्रवृत्यपेक्षया क्रियमाणो नात्मनि कश्चिद् भ्रम इत्युक्तं भवति / न च गोस्वलक्षणप्रकाशावकाशः, स्वाकारस्यैव स्फुरणात्, स्वलक्षणे च संकेतायोगात् / विकल्पिकैव न स्यादिति तु स्वरूपापेक्षया सिद्धसाधनम् / बाह्यापेक्षया त्वध्यवसायवद् विकल्पिकैव सा बुद्धिस्तथा / तस्मादशेषगोव्यक्तिसाधारणेन गोत्वेन गोबुद्धिरलीकेन साभिलापेन विप्लवात् प्रख्यातीति तथा प्रख्यानमस्या गवावसाय इत्येष्टव्यमित्यपि नेष्टव्यमेव, चरणमर्दनादिना प्रत्यवस्थाने ऽपि युक्तिशास्त्रबहिर्भूतत्वादेतदभावे ऽपि कथितदोषप्रध्वंसात् / न हि विकल्पबुद्धावलीकाकारस्फुरणमेव बाह्यस्याध्यबसाय इति काचिदर्थसङ्गतिः, अर्थस्येति संबन्धानुपपत्ते / बुद्धेरत्र क्रमाभावात् प्रत्यक्षतैव, कथमध्यवसायः / अप्रतिभासमानस्यापि स्वलक्षणस्य भ्रान्त्यावसायादिति तु न बुध्यामहे / अवसायेन हि तद्वितिस्पर्शे प्रतिभासः को ऽपरः / तद्वित्तावप्यस्पष्टत्वादध्यवसाय इत्यप्ययुक्तम्, तद्रूपवित्तावस्पष्टत्वस्यैवाभावात् /
जातो नामाश्रयो ऽन्योन्यश्चेतसां तस्य वस्तुनः / एकस्यैव कुतो रूपं भिन्नाकारावभासि यत् //
(#निबन्ध् 141#) इति आचार्यः स्मर्यताम् / न च तदासौ भ्रान्तिर्भवितुमर्हति, वस्तुस्वरूपस्यैव निर्भासात् //
अलीकवृत्तेरिति चेत् / सैवास्तु / बाह्यस्यास्फुरतो ऽध्यवसायः कथम् / सैव स इति चेत् / अलीकमिदमिति विदुषो बाह्याध्यवसायव्यस्थाभावात्, बाह्यास्फुरणात् तदप्रतिबद्धत्वाच्च / प्रतिबन्धे ऽपि तस्येपि स्यात्, न पुनस्तदध्यवसायः, तदस्फुरणस्फुरणयोरपि तदयोगादित्यलमतिनिर्बन्धेन / तदेवमप्रतिभासिनो ऽपि विपक्षादध्यवसायमात्रसिद्धादेव व्यावृत्तो दोषत्रयनिर्मुक्तः प्रकाशमानतात्मको हेतुर्यावत्प्रकाशावधिज्ञानात्मकचित्राकारचक्रस्यैकत्वं साधयत्येव //
यदाहुर्गुरवः
भासते यत्तदेकं तद्यथा चित्रे सिताकृतिः / भासते चाखिलं चित्रं पीतशीतसुखादिकम् //
नात्रासिद्धिः प्रकाशस्य चित्रे धर्मिणि दर्शनात् / न च साध्यवियुक्तत्वं दृष्टान्तस्यापि दृश्यते //
एकैकाणुनिमग्नत्वात् संवित्तिर्न परस्परम् / न चैकाणुप्रकाशो ऽस्ति स्थूलमेव स्फुरत्यतः //
बाह्याणूनां प्रतीभासो बुद्धिरेका स्थवीयसी / ज्ञानाणूनां क एकस्तु प्रतिभासो भविष्यति //
तस्मात् स्थूलतया व्याप्तो निर्भासस्तन्निवृत्तितः / निवर्तमानो ऽनेकस्मादेकत्वे विनियम्यते //
यथा सजातीयमताद् भागाद्भेदनिराक्रिया / अनाभासप्रसङ्गेन विजातीयमतात् तथा //
तन्नास्तु साध्यो दृष्टान्तो न च शङ्काविपर्यये / अतो निर्दोषतो हेतोश्चित्राद्वैतव्यवस्थितिः //
संग्रहश्लोकश्च
एकत्वेन यथाप्तिमानभिमतो भासस्तथा व्याप्यते स्थौल्येनाप्यणुशो न हि क्वचिदिदं स्वप्ने ऽपि निर्भासनम् / तेन प्रत्यणुभेदनेत्युपरतं तद्व्यापकस्यात्ययाद् एकत्वेन परीतमाकृतिचयश्चायं विनिर्भासते //
इति //
ननु चात्र दृष्टान्तदार्ष्टान्तिकयोरुभयमात्राप्येकत्वं प्रत्यक्षतो ऽनुमानाच्च विरुद्धधर्माध्यासलक्षणात् प्रतिहतम्, तत् कथमनुमानादेकत्वसिद्धिरिति चेत् / उच्यते / यदेतत् प्रत्यक्षं भेदसाधकमुपनीयते, तत् किं नीलादीनामनात्मभूतमात्मभूतं (#निबन्ध् 142#) वा / प्रथमपक्षे, आस्तां तावदेषामतो भेदसिद्धिः, सत्तामात्रमपि न सिध्येत् / स हि नीलादिको ऽर्थो जडो विज्ञानान्तरात्मालीकस्वभावो वा स्वीकर्तव्यः / त्रिष्वपि पक्षेषु प्रकाश्यप्रकाशकभावाभावः / तथा हि ज्ञानस्य प्रकाशकत्वं नाम किं विद्यमानत्वं व्यापारावेशो वा / प्रथमपक्षे सर्वसर्वदर्शित्वप्रसङ्गः, सर्वपुरुषज्ञानविद्यमानतायाः सर्वं प्रत्यविशिष्टत्वात् / तथा नीलादिभिरपि ज्ञानस्य ग्रहणप्रसङ्गः, तेषामपि विद्यमानत्वलक्षणग्राहकत्वसंभवात् //
अथ ज्ञानत्वे सति विद्यमानत्वमिति सविशेषणं लक्षणमुच्यते / तत् किं नीलादीनामज्ञानत्वे कोशपानमायुष्मता कर्तव्यम्, येन सत्तामात्रेण समसमयं स्फुरतोर्विज्ञाननीलाद्योः प्रतिज्ञामात्रादेकस्य जडत्वालीकत्वबाध्यत्वाप्रकाशत्वादि व्यवस्थाप्यते /
अथ द्वितीयस्तदा स किं व्यापारः प्रत्यक्षस्यात्मा ज्ञानान्तरम्, अर्थस्यात्मार्थान्तरं वा स्यात् / प्रथमविकल्पे स्वात्मनि कारित्रविरोधः / द्वितीयपक्षे ज्ञानान्तरं यद्यन्यविषयम् अर्थस्य न किञ्चित् / तद्विषयत्वं चाद्यापि न सिद्धम्, तत्प्रत्यासत्तेरेव चिन्त्यमानत्वात् //
तृतीये पुनः सङ्कल्पे नीलादिकं कृतमेव स्यात्, न प्रकाशितम्, तैलवर्त्यादिभिरिव प्रदीपः / प्रकाशस्तु स्वयमेव / तथा च ज्ञानान्तरत्वात् सन्तानान्तरवदप्रतिभासप्रसङ्गः /
चतुर्थे तु विकल्पे अर्थान्तरे कृते नीलादिकं तदवस्थमेव / न चानात्मप्रकाशनसामर्थ्यं ज्ञानस्य स्वीकर्तुमुचितम्, व्यापारवत् प्रकाशनस्याप्येवं निराकर्तव्यत्वात् / न चाग्निधूमयोः कार्यकारणभाव इव ज्ञानज्ञेययोरपि स्वाभाविको ग्राह्यग्राहकभावो वक्तव्यः, प्रमाणसिद्धकार्यकारणभाववद् ग्राह्यग्राहकस्वरूपयोरद्यापि निर्वक्तुमशक्यत्वादिति क्व नीलादिवार्तापि यद्भेदसिद्धिप्रत्याशा प्रत्यक्षतः सम्पद्यते //
अथात्मभूतं तत् प्रत्यक्षमिति द्वितीयः पक्षः, तदात्मस्वसंवेदनमेव भेदसाधकमभ्युपगतं भवेत् / तच्च यदि प्रत्याकारं भिन्नं तदा सर्वेषां स्वस्वरूपनिमग्नत्वाच्चित्रप्रकाशप्रणाशप्रसङ्ग इत्युक्तम् /
अथैतद्दोषभयात् सर्वेषामाकाराणामेकत्वमेव स्वभावभूतं स्वसंवेदनमिष्यते, तदैतदेव चित्राद्वैतं विज्ञानमुच्यते, यदनेकाभिमतानां सहोपलब्धानां नीलसुखाद्याकाराणां स्वभावभूताखण्डस्वसंवेदनप्रत्यक्षं नाम / यदाहुर्गुरवः
भ्रमाभ्रमाकल्पनकल्पनानि, शातासितादीन्यखिलाक्षजानि / ज्ञानान्यभिन्नानि सहोपलब्धेः, पूर्वापरत्वं तु न वेद्यमेव // इति /
(#निबन्ध् 143#) तदेवं दृष्टान्तदार्ष्टान्तिकयोरुभयत्रापि स्वसंवेदनप्रत्यक्षसिद्धमेकत्वमविद्यावशाद् विप्रतिपत्तौ सत्यामनुमानतः साध्यते / अत एव स्वसंवेदनप्रत्यक्षादनुमानाच्च एकत्वसिद्धौ न प्रत्यक्षान्तरम् / नापि विरुद्धधर्माध्यासलक्षणमनुमानं भेदसाधनाय प्राप्तावसरम्, भेदग्राहकस्य भिन्नस्य प्रत्यक्षस्योक्तक्रमेणाप्रामाण्यात्, पक्षस्य प्रत्यक्षादिबाधितत्वात् /
ननु ब्रूयान्नाम किञ्चित्, तथापि प्रतिभासभेदाद् भेद एव, न हि दृष्टे ऽनुपपन्नं नामेति चेत् / हन्त 1 प्रतिभासशब्देन किमभिप्रेतम्, किमाकारचक्रं स्फुरणं वा / तत्र यदि प्रथमः पक्षः, तदा बाह्ये ऽर्थे प्रत्येतव्ये बुद्ध्याकारः प्रमाणम् / तथाचाकारभेदो व्यवहर्तव्य एव / अन्यथा बाह्यभेदो न सिध्येत् / यदा पुनराकारचक्रमेव प्रमेयम् स्वसंवेदनं च प्रमाणं तदा तेनैव नीलादीनां स्वभावभूतेनाखण्डात्मना एकीकृतानां कथमप्रमादी भेदमाचक्षीत /
द्वितीयपक्षे तु स्फुरणं स्वभावभूताखण्डस्वसंवेदनमेवोक्तमिति / तथापि कथं भेदस्तस्माद् यथोर्ध्वमिन्द्रियप्रत्यक्षतः क्षणभेदे प्रतीते ऽप्यविद्यावशादेकत्वाध्यवसायः तथा तिर्यक्स्वसंवेदनप्रत्यक्षेणाकाराभेदे ऽधिगते ऽप्यविद्यावशादेव भेदावसायः //
यद्येवं विरुद्धधर्माध्यासतो विज्ञानाकारचक्रवद् व्याप्तो ऽपि न भिद्येतेति चेत् / न, बाह्ये धर्मिण्यनेकत्वस्य साध्यस्य प्रत्यक्षाद्यबाधितत्वात् / बुद्ध्याकारकदम्बके तूक्तक्रमेण स्वसंवेदनादिसिद्धैकत्वे ऽनेकत्वस्य प्रत्याख्यानाद् बाधकावतार एव नास्ति / तस्माद् विज्ञानत्वे सतीति हेतुविशेषणं कर्तव्यम् येन बाह्यस्यैव भेदः सिध्यति //
ननु यदि विज्ञानात्मकं विचित्राकारचक्रमेकं तदा नीलाकार एव पीताद्याकारवृन्दं प्रविशेत् / तथा प्रकाशाकारचक्रयोरभेदो व्यक्तिसामान्यवत् प्रकाश एव, आकारचक्रमेव वा स्यादिति चेत् / असदेतत् / तथा हि द्वयोरप्यनयोः प्रसङ्गविपर्यययोः भेदः, स च बाह्यार्थवाद एव युज्यते, तत्र भेदग्राहकस्येन्द्रियप्रत्यक्षस्येष्टत्वात् / विज्ञानवादे त्वनात्मप्रकाशाभावात् स्वसंवेदनमेवैकं प्रमाणम् / ततो ऽपि विपर्ययस्य भेदस्य सिद्धेः प्रसङ्गो ऽप्यसङ्गतः इत्यद्वैतमेव /
किं च एवं स्थूलनीलाद्याकारो ऽपि परमाणुमात्रे प्रविशेदित्यप्रतिभासंजगदापद्येत / अस्ति च प्रतिभासः / तस्माद् यथावस्थितानामेवाकाराणामखण्डस्वसंवेदनात्मतैवैकत्वम्, न भेदो न संकोचः स्वीकर्तव्यो ऽप्रतिभासप्रसङ्गात् / तथा कृतकत्वस्यानित्यत्ववस्तुत्वादिभिरभेदे कृतकत्वमेवानित्यत्वमेव वा स्यादित्यपि प्रसङ्गो वक्तव्य आपद्येत, सामान्यव्यक्त्योरिव तयोर्वस्तुतो ऽभेदो ऽखण्डात्मत्वात् //
व्यावृत्तिभेद एव परमिति चेत् / यद्येवं प्रकाशनीलाद्योरप्ययमेव क्रमो जागर्तीत्येकावशेषप्रसङ्गो बालप्रलापः / तदेवं
(#निबन्ध् 144#) बाह्यं न नश्यति भिदाणुतयापि सत्त्वादर्थक्त्रियाविरहसंकरतात्मभेदे / बुद्धिस्तु नश्यति भिदैव विदैव सत्त्वाच्चित्राप्यतो न भिदमेति किमत्र कुर्मः //
ननु देशवितानाप्तिर्नात्मान्तरवियोगिनः / देशवितानहानौ न भास इत्यपि शक्यते //
इति चेत् /
न स्वात्मान्तरमन्यात्मा स बाह्यस्यैव युज्यते / बुद्धेः स्ववित्तिनिष्ठायाः यः परस्तस्य का गतिः //
हन्त तथापि
नीलादिवत्तदेकं च कथमेतत् समेतु चेत् / नीलमंशान्तरं चैकं कथं तद्भाति सङ्गतम् //
नेष्टं तदपि चेत् तर्हि क्वाण्वन्तर्भिदि भासनम् / न परीक्षाक्षमं चाणुः कुतस्तस्य तदा भिदा //
मा भूदवस्तुभावाच्चेत् सो ऽप्येकत्वहतौ भवेत् / निर्भासादेकतासिद्धौ स्ववित्तेर्वस्तुता स्थिता //
न प्रतीत्यसमुत्पादो ऽनुत्पादो वास्य बाधकः / एकानेकवियोगे ऽपि स्फूर्तिमात्रेण सत्त्वतः //
किं च पूर्वापरज्ञानमद्वैते यन्न विद्यते / प्रतीत्योत्पन्नता तस्मादसिद्धेरप्यसाधनम् //
अनुत्पादो ऽप्यनेकान्तो ऽकार्यकारणरूपकम् / हाने ऽपि हेतुफलयोः स्फुरद्रूपं क्व गच्छतु //
एकानेकतया वस्तुव्याप्तिः सिद्धा यदि क्वचित् / सर्वशून्यत्वसमये हेतुरिष्टविघातकृत् //
अथ लोकप्र(सि)द्धौ च न सर्वलोककल्पितम् / वस्तुव्यवस्था शरणं किं तु मानेन सङ्गतम् //
न चाध्यक्षानुमानाभ्यामनङ्गं क्वचिदीक्षितम् / यस्य राशिरनेकं स्यान्नापि वस्तु च किञ्चिन //
यस्य चैकतरत्वाभ्यां सत्त्वव्याप्तिः स हन्यताम् / अभ्रान्तवित्तिमात्रेण सत्तावादी तु जित्वरः //
// समाप्तश्चित्राद्वैतप्रकाशवादो ऽयम् //
ग्राहयं न तस्य ग्रहणं (न) तेन ज्ञानान्तरग्राहयतापि शून्यः / तथापि च ज्ञानमयः प्रकाशः प्रत्यक्षपक्षस्तु तवाविरासीत् //
(#निबन्ध् 145#)
// 10 //
// सन्तानान्तरदूषणम् //
अथेह प्रकाशसहोपलम्भादिसाधनबलेन जडपदार्थराशावपास्ते नीलपीताद्यशेषपदार्थजाते च स्वचित्तप्रतिभासात्मनि स्वप्नमायादिवदद्वयरूपे सिद्धे सन्तानान्तरसदसत्तानिरूपणार्थमिदमारभ्यते /
एवं हि केचिदाहुः / अस्त्येव सन्तानान्तरमनुमानप्रतीतम् / तथा हीच्छाचित्तसमनन्तरव्याहारव्यवहाराभासस्य दर्शनात् तदभावे चादर्शनादुपलम्भानुपलम्भसाधनमन्वयव्यतिरेकशरीरमिच्छाचित्तेन सह व्याहाराद्याभासस्य कार्यकारणभावमात्मसन्ताने ऽवधार्येच्छाचित्तस्याप्रतिसंवेदनसमये ऽपि विच्छिन्नव्याहाराद्याभासदर्शनात् तत्कारणभूतमिच्छाचित्तमनुमीयमानं सन्तानान्तरमेव व्यवतिष्ठत इति /
अत्रेदमालोच्यते / तदिच्छाचित्तं व्याहाराद्याभासस्य कारणतया व्यवस्थाप्यमानमनुमातुर्दर्शनयोग्यमथ दृश्यादृश्यविशेषणानपेक्षमिच्छामात्रम् / यदितावदाद्योविकल्पस्तदानुमातुर्दर्शनयोग्यत्वादिच्छाचित्तस्यानुमानकाले ऽनुपलब्धिरभावमेव गमयतीत्यनुपलम्भाख्यप्रत्यक्षबाधितत्वात् क्वानुमानावकाशस्तस्य / यदि पुनरिच्छाचित्तमनुमानकाले ऽप्यनुभूयेत, तदा किमस्यानुमानेन / अथैवमग्निधूमयोस्तदुत्पत्तिसिद्ध्यनन्तरं नगनिकुञ्जे धूममुपलभमानो नाग्निमप्यनुमिनुयात्, तत्राप्यग्नेरनुपलब्धिबाधितत्वात्, उपलम्भे चानुमानवैफल्यात् / नैवम्, अनुमानसमये देशविप्रकर्षवतो वह्नेर्दर्शनायोग्यत्वेन दृश्यानुपलब्धिविरहात्, अदृश्यानुपलम्भस्य चाभावसाधनत्वविरोधात् / इच्छाचित्तस्य तु नास्ति देशविप्रकर्षः / इच्छाचित्तं हि स्वसंबद्धमेवानुमातुर्दर्शनयोग्यम्, तस्य च देशादिविप्रकर्ष इत्यलौकिकमेतत् / अथ द्वितीयो विकल्पः / तथा हीच्छाचित्तमात्रं स्वपरसन्तानसाधारणदृश्यादृश्यविशेषणानपेक्षं व्याहाराद्याभासं प्रति कारणतयावधार्यते / तदवधारणं केन प्रमाणेन / व्याहाराद्याभासस्य हीच्छामात्राभावे ऽभावं प्रतीत्य तदुत्पत्तिसिद्धिगवेषणा / न चेच्छामात्रस्य स्वपरसन्तानसाधारणस्य स्वसंवेदनेनान्येन वाभावः शक्यावगमः / यथा हि वह्निमात्रस्य देशकालव्यवहितस्यापि धूमोत्पाददेशकालयोर्यदि स्यादुपलभ्येतैव मयेति संभावितस्यानुमातृपुरुषेन्द्रियप्रत्यक्षेण (#निबन्ध् 146#) धूमोत्पादात् प्रागभावे ऽवधार्यमाणस्तदुत्पत्तिसिद्धिमध्यासयतीति व्यवहितदेशकालस्यापि वह्नेर्धूममात्रं प्रति कारणत्वावधारणम्, स्वभावविप्रकृष्टस्य तु जठरभवादिसाधारणस्य सर्वथानुमातृपुरुषाशक्याभावप्रतीतिकस्य व्याप्तिबहिर्भाव एव / तथात्रापीच्छाचित्तं परसन्तानसाधारणमपि यावद्यदीय स्यादुपलभ्येतैव मयेति यदि संभावयितुं शक्येत तदा तद्व्यतिरेकसिद्धिद्वारेण कारणतयावधार्यते / केवलं स्वभावविप्रकृष्टे चित्तमात्रे ऽस्तमितेयं कथेति //
न च परचित्तं कालविप्रकृष्टं वर्तमानत्वादस्य, अतीतानागतयोरेव कालविप्रकृष्टत्वेन व्यवहारात् /
नापि देशविप्रकृष्टम्, यस्मिन्नेव हि शुक्लशङ्खादिदेशे स्वचित्तं शुक्लाकारप्रतिभासि स्वसंवेदनेन वेद्यते तद्देशवर्त्येव पीताकारप्रतिभासि परसन्तानभावि चित्तं न वेद्यते / तत् कथमेष देशविप्रकर्षः //
अथेच्छाचित्तमात्रं स्वसंवेदनमात्रापेक्षया न स्वभावविप्रकृष्टम् / न ह्यग्निरप्येको येनैवेन्द्रियविज्ञानेन दृश्यते तेनैवान्यो ऽपि दृश्यम् / तत्र यथा चक्षुर्विज्ञानमात्रापेक्षया अग्निमात्रं दृश्यमिति व्यवस्थाप्यते तथात्रापि स्वसंवेदनमात्रापेक्षया इच्छाचित्तमात्रं स्वपरसन्तानसाधारणमपि दृश्यमेवेति /
अत्रोच्यते / किमत्र मात्रशब्देनानुमातृपुरुषसंबन्धासंबन्धाभ्यामविशेषितं यस्य कस्यचित् पुरुषस्येन्द्रियज्ञानं वस्तुविषयीकुर्वाणमस्य दृश्यतासंभवे ऽपिनानिमितमभिमतम् / यद्येवं पिशाचादिरपि दृश्यः स्यात् / सो ऽपि हि कस्यचित् पुंसो योग्यादेः स्वजातीयस्य वा पिशाचान्तरस्य भवत्येवेन्द्रियज्ञानगोचर इति न कश्चित् स्वभावविप्रकृष्टः स्यात् / तस्मादनुमातृपुरुषसंबन्धित्वमनपास्य विज्ञानस्य स्वलक्षणादिभेदनिरासपर एव मात्रशब्दो युक्तः / एतदेवाशङ्कय धर्मोत्तरेणाभिहितम् -
एकप्रतिपत्त्रपेक्षं चेदं प्रत्यक्षलक्षणम् /
इत्यादि / तेनैवं दृश्यतासंभावना यदीह देशे काले वा स्याद् घटादिर्नियमेनोपलभ्येत, मदीयस्य चक्षुर्विज्ञानमात्रस्य विषयीभवेदिति / परचित्ते तु न शक्यमेवम् / यदीह परचित्तं स्यात् नियमेन मदीयस्य स्वसंवेद(न) मात्रस्य विषयि स्यादिति //
यदि चेच्छाचित्तमात्रं तदुत्पत्तिग्रहणसमये दृश्यतया संभावयितव्यम्, तदानुमानकाले ऽपि दृश्यतया संभाव्य तदनुपलम्भेनाभावसाधने कथमनुमानं प्रवर्तयितुमिदमारब्धम्, प्रत्यक्षेणैव पक्षबाधात् / न च कालभेदेन स्वभावविप्रकर्षेतराविति यत्किञ्चिदेतत् / तस्मादिच्छाचित्तमात्रस्य स्वपरसन्तानसाधारणस्य दृश्यतया संभावयितुमशक्यत्वात् व्यहाराद्युत्पादात् प्रागनुपलम्भे ऽप्यभावसिद्धौ न तदभावप्रयुक्तो व्याहाराद्यभावः प्रतीयत इति कथं कारणत्वसिद्धिर्यतः कार्यहेतुद्वारेणानुमीयेत / इच्छाचित्तविशेषस्तु स्वसन्तानभावी न भवत्येवानुमातुर्दृश्यः / किं तु तस्य दृश्यानुपलम्भाज्जिज्ञासितविशेषे धर्मिणि बाधितस्य कथमनुमानमित्युक्तमेव //
(#निबन्ध् 147#) तदेवमिच्छाचित्तविशेषे स्वसन्तानभाविनि साध्ये पक्षस्य प्रत्यक्षबाधः, इच्छाचित्तमात्रे ऽपि स्वपरसन्तानसाधारणे साध्ये यद्यनुपलम्भमात्रेण दृश्य विशेषणानपेक्षेण प्रतिबन्धसिद्धिसमये तस्याभावः प्रतीयते, तदा पक्षीकृते धर्मिणि तथेति स एव दोषः / अथ न प्रतीयते तदा सन्दिग्धव्यतिरेको हेत्वाभासो व्याहारादिरिति स्थितम् /
एवं तर्हि सन्तानान्तरसाधकस्याभावाद् बाधकस्यापि कस्यचिददर्शनाद्भवतु तत्र सन्देह एवेति केचित् / तैरिदं बाधकमभिधीयमानमवधीयताम् / यदि हि सन्तानान्तरं संभवेत् तदा ततो भेदेन स्वसन्तानस्यावश्यं भवितव्यम् / अन्यथा स्वसन्तानादपि प्रकाशमानात्तस्य परसन्तानाभिमतस्य भेदो न स्यात् / न चाभेदस्तयोरिति स्वसन्तानाद् भेदाभेदाभ्यामबाध्यस्य परसन्तानस्य सामान्यशशविषाणादिवदभाव एवायात इति कथं सन्देहः / तस्मात् परसन्तानापेक्षया स्वसन्तानस्य भेदो ऽप्यवश्यम्भाव्यः / स च भेदः सन्तानस्य स्वभावः स्वसन्ताने प्रतिभासमाने नियमेन प्रतिभासेत / कथमपरथा प्रतिभानाप्रतिभानलक्षणविरुद्धधर्माध्यासे ऽपि स्वसन्तानस्य परसन्तानाद् भेदः स्वभावतामासादयेत् //
न चासौ भेदः प्रतिभासते / भेदप्रतिभासे हि उपगम्यमाने तदवधिभूतस्यापि परसन्तानस्य प्रतिभासो दुरपह्नवः स्यात् /
अस्माद्भिन्नमितीदं चेत् स्वरूपं स्वस्य चेतसः / सावधेरस्य भासः स्यान्न वा ग्राह्यं तदात्मना //
भेदे ऽन्यलेशमपि नैति कुतो भिन्नः /
एवमादिकमशेषमिह प्रवचनप्रदीपश्रीसाकारसङ्ग्रहादिवचनमनुस्मर्यताम् /
यथा हि स्वसन्तानमात्रे परिस्फुरति शशविषाणादस्फुरतो न भेदः प्रतिभाति तथा परसन्तानादपि स्फुरणविरहिणो न भात्येव भेदः / न हि परसन्तानापेक्षया कश्चिद् विशेषलेशः स्वसन्तानस्य परिस्फुरति यो नास्ति शशविषाणापेक्षया / न च शशविषाणपरसन्तानावपेक्ष्य समाने स्वसन्तानप्रतिभासे शशविषाणापेक्षया न भेदो नाप्यभेदः प्रतिभाति / परसन्तानापेक्षया तु भेद एव भातीत्येवमवस्थापयितुं शक्यम् /
भेदाभेदयोरभावपरिहारेण हि यथा भेदो व्यवस्थितः तद्वद् भेदप्रतिभासो ऽपि भेदाभेदाभावप्रतिभासविलक्षण एवोचितो भवितुम्, न च तथानुभूयते / तथापि भेदः प्रतिभातीति वचनरचनमेतत् / भाष्यकारन्यायो ऽप्यत्र भेदप्रतिभासदूषणे विस्तरतो ऽवगन्तव्यः //
(#निबन्ध् 148#) यदि चावधिप्रतिभासविरहे ऽपि भेदप्रतिभानमिदं परचित्तानु(कम्पया) क्षमितव्यं (तर्हि) बहिरर्थस्यापि कथमभावः सिध्यति / शक्यं हि तत्रापि सन्देहमवतारयितुम्, न बहिरर्थः कस्यचिदाभासते, परसन्तानस्तु परस्य प्रतिभासत एव, ततश्चात्रैव सन्देहो न बहिरर्थ इति चेत् / एतदपि सकलं सन्दिग्धमेव / न ह्यवश्यं परसन्तानः परस्याभासते, कदाचिदसौ नास्त्येव न चासाववभासत इत्यपि वक्तुं शक्तेः /
किं च मा नाम भासीष्ट बहिरर्थः कस्यचिदपि तथापि कथं तदभावसिद्धिर्भेदप्रतिभासाभ्युपगमवादिन इतीयन्मात्रमिह विवक्षितम् / न चात्र कश्चिद् दोषः / तस्माद् बहिरर्थेन साधारणं सन्तानान्तरमिति कथं विज्ञप्तिवादिनामपि संमतं भविष्यति / किं च कार्यकारणभावो ऽपि विज्ञानद्वयस्य भेदप्रतिभासवादिना बाधितुमशक्यः / पूर्वभाविनी हि संवित्तिः परसंवित्त्यपेक्षया भेदं पूर्वत्वं चात्मनो गृह्णात्येवावधिप्रतिभासविगमे ऽपि //
परभाविन्यपि संवित्तिः पूर्वसंवित्त्यपेक्षया भेदं परत्वं चात्मनो ऽधिगच्छत्येव सन्तानान्तरवदिति नियतपूर्वापरभावलक्षणे कार्यकारणभावे ऽवभासमाने ऽवसीयमाने च नीलादिचित्राकारवत् कथम्
संवृत्त्यास्तु यथा तथा
इति भगवतो वार्तिककारस्य वचनेन फलितमत्र मते / अपि च चित्राकारचक्रे धर्मिण्यद्वैतसाधनार्थमुपन्यस्तस्य प्रकाशमानत्वादिहेतोर्भेदग्राहकप्रत्यक्षापहृतविषयत्वमुद्भावयतः प्रतिवादिनो भेदग्रहणमनुमन्यमानेन सन्तानान्तरसन्देहं च विना कथमुत्तरितव्यं भवता //
नन्वेवमपि सन्तानान्तराभावः केन प्रमाणेन सिद्धः / न तावत् प्रत्यक्षेण, तस्य विधिविषयस्य प्रतिषेधसाधनातधिकारात् / नाप्यनुमानेन, तस्य दृश्याभावसाधननियतस्यातीन्द्रियपरचित्ताभावसाधने ऽनवतारादिति चेत् / अत्र ब्रूमः / सन्तानान्तरसंभवे नियतभावः ततओ भेदः स्वचित्तस्य / अभेदे स्वसन्तानात् परसन्तान एव स्यात् / यथा च यदुपलभ्यमानं येनं रूपेण न भासते न तत् तेन रूपेण सद्व्यवहारयोग्यं यथा नीलं पीतरूपेण / नोपलभ्यते च स्वचित्तमुपलभ्यमानं परसन्तानाद् भिन्ने(न)रूपेणेति भेदस्य स्वचित्ततादात्म्यनिषेधे दृश्यविशेषणप्रयोगानपेक्षा स्वभावानुपलब्धिरियम् //
नाप्यसिद्धिः, भेदप्रतिभासे तदवधेरपि प्रतिभासप्राप्तेः / अवध्यप्रतिभासे तु भेदप्रतिभासाभावः शशविषाणभेदप्रतिभासाभाववत् सिद्ध एव / एवमनेन प्रमाणेन सन्तानान्तरस्य स्वचित्तापेक्षया भेदे प्रतिक्षिप्ते अभेदे च स्वयमेवासंभविनि भेदाभेदाभ्यामवाच्यत्वं सिद्धम् / सामान्यादिवद् वस्तुतापहतिरिति, कथं (#निबन्ध् 149#) बाधकाभावात् सन्तानान्तरे सन्देहो ऽभिधीयते / एतच्च शास्त्रीयप्रमेयस्मारणमात्रफलं किञ्चिल्लिखितमिति / परमिह स्वयमनुसन्धेयम् /
अपि च सन्तानान्तरे तावदर्वाग्दृशां सन्देहो भवद्भिरनुमन्यते / भगवतस्तु किमवस्थाप्यताम् / संदेहावस्थापने कथं सर्वज्ञता / विद्यमानमेव कदाचित् सन्तानान्तरं भगवता नावधार्यते तथाप्यसौ सर्वज्ञ इति कथमेतत् / अनुमानं च सन्तानान्तरविषयं प्रागेव चिन्तितम् / न चानुमानेन प्रतीतावपि सर्वज्ञता भवितुमर्हति / प्रत्यक्षेण परचित्तप्रतीतौ ग्राह्यग्राहकभावो ऽपि परचित्तस्य भगवच्चित्तेन सहायात इति बहिरर्थवाद एव मुखान्तरेणोपगतः स्यात्, कथमयं वञ्चयति वादः //
अस्मदीयमतेन तु परचित्तं नास्त्येवेति तदवधारणकृतो(न) भगवतः सर्वज्ञताक्षतिदोषः / यावच्च भेदग्रहणाभिमानरूपा संवृस्त्तितावत् सन्तानान्तरे सन्देहात्तदवबोधनार्थं वचनादिरपि प्रवर्तत इति स्ववचनविरोधो ऽपि न संभवत्येव / न खलु सन्तानान्तरविषयः सर्वथा सन्देहो नास्त्येवेत्यभिमतमस्माकम्, अपि तु परमार्थगतिरियमुपदर्शिता / इदं हि सन्तानान्तराभावसाधनमद्वयसाधनेन साधारणमिति नैकनियतः स्ववचनादिविरोधस्तत्परिहारो वा / चित्राकारसंभवमात्रेणापि च वेदान्तध्वान्तापसारो भाष्यकारेण दर्शितः / तथा च
आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित्
इत्यादिवार्तिकव्याख्यानभाष्यम् /
आत्मवादस्तर्हि प्रसक्त इति चेत् / न चित्राकारसंवेदनात् इत्यादि द्वेषविकलुषाशेषा एव तुषाकारो ऽपि वेदान्तसिद्धान्त इति अलक्षित तद्ग्रन्थानुत्थापयन्ती सन्तानान्तरापेक्षया पठितवतीत्यवस्था (?) सर्वा संवृतिसत्यान्तः पातिनी ह्येवापै(ती) ति सकलमनाकुलमिति //
// सन्तानान्तरदूषणं समाप्तम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
