Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

निबन्धावली

Tác giả
रत्नकीर्ति
Thông tin
GRETIL — Anantalal Thakur: Ratnakīrti Nibandhāvalī. Patna : Kashiprasad Jayaswal Research Institute, 1975, pp. 1-149.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

न च क्रमाद्यभावस्त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वे ऽपि आश्रयासिद्धिदोषपरिहारात् / यत्त्वनेन प्रमाणान्तरान्नित्यानामसत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्युक्तम्, तद्वालस्यापि दुरभिधानम् / नित्यो हि धर्मी / असत्त्वं साध्यम् / क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः / अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वमुच्यते / तच्च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्यभावधर्मत्वं प्रागेव विध्योर्व्याप्तिसाधनात् प्रत्यक्षादनुमानादेकस्माद्वा प्रमाणान्तरात् सिद्धमिति नेतरेतराश्रयदोषः /

न च सत्तायामिवासत्तायामपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात् / वस्तुभूतं हि तत्र साध्यं साधनं च / तयोर्धर्म्यपि वस्त्वेव युज्यते / वस्तुनस्तु प्रत्यक्षानुमानाभ्यामेव सिद्धिः / तयोरभावे नियमेनाश्रयासिद्धिरिति युक्तम् / असत्तासाधने त्ववस्तुधर्मो हेतुरवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः / तथा अक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्येव / तथा विकल्पादेवाक्षणिको विरोधी सिद्धः / विकल्पोल्लिखित श्चास्य स्वभावो नापर इत्यपि व्यवहर्तव्यम् / अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकमयुक्तम्, तत्स्वरूपस्यानुल्लेखादन्यस्योल्लेखा दित्यक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः / अस्ति च / अतो यथा प्रमाणाभावे ऽपि विकल्पसिद्धस्य (#निबन्ध् 94#) बन्ध्यासुतादेः सौन्दर्यादिनिषेधो ऽनुरूपस्तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तत एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृशो दोषः स्यात् / यदि चाक्षणिकानुभवाभावाद् विरोधप्रतिषेधस्तर्हि बन्ध्यापुत्राद्यनुभवाभावादेव सौन्दर्यादिनिषेधो ऽपि मा भूत् //

नन्वेवं विरोधस्यापारमार्थिकत्वम् / तद्द्वारेण क्षणभङ्गसिद्धिरप्यपारमार्थिकी स्यादिति चेत् / न हि विरोधो नाम वस्त्वन्तरं किञ्चिदुभयकोटिदत्तपादसंबन्धाभिधानमिष्यते अस्माभिरूपपद्यते वा येनैकसंबन्धिनो वस्तुत्वाभावे ऽपारमार्थिकं स्यात् / यथा त्विष्यते तथा पारमार्थिक एव / विरुद्धाभिमतयोरन्यो ऽन्यस्वरूपरिहारमात्रं विरोधार्थः / स च भावाभावयोः पारमार्थिक एव / न भावो ऽभावरूपमाविशति, नाप्यभावो भावरूपं प्रविशतीति यो ऽयमनयोरसंकरनियमः स एव पारमार्थिको विरोधः / कालान्तरैकरूपतया हि नित्यत्वम् / क्रमाक्रमौ क्षणद्वये ऽपि भिन्नरूपतया / ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर्भावाभाववद् विरोधो ऽस्त्येव //

ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य बास्तवत्वमिति चेत् / न / न हि धर्मान्तरस्य संभवेन विरोधस्य पारमार्थिकत्वं ब्रूमः / किं तु विरुद्धयोर्धर्मयोः सद्भावे / अन्यथा विरोधनामधर्मान्तरसंभवे ऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसंभवः / विरुद्धौचेद्धमौ तावतैव तात्त्विको विरोधव्यवहारः किमपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण /

तदयं पूर्वपक्षसंक्षेपः

नित्यं नास्ति न वा प्रतीतिविषयस्तेनाश्रयासिद्धता हेतोः स्वानुभवस्य च क्षतिरतः क्षिप्तः सपक्षो ऽपि च / शन्यश्य द्वितयेन सिध्यति न चासत्तापि सत्ता यथा नो नित्येन विरोधसिद्धिरसता शक्या क्रमादेरपि // इति //

अत्र सिद्धान्तसंक्षेपः

धर्मस्य कस्यचिदवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किमिहास्ति नो वा / क्वाप्यस्ति चेत् कथमियन्ति न दूषणानि नास्त्येव चेत् स्ववचनप्रतिरोधसिद्धिः //

(#निबन्ध् 95#) तदेवं नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः / ततश्च सत्तायुक्तमपि नैवेति परमार्थः / ततश्च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावादक्षणिकान्निवर्तमानमिदं सत्त्वं क्षणिक एव विश्राम्यत्तेन व्याप्तं सिध्यतीति सत्त्वात् क्षणिकत्वसिद्धिरविरोधिनी //

प्रकृतिः सर्वधर्माणां यद्बोधान्मुक्तिरिष्यते / स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसाधितः //

इति कृतिरियं रत्नकीर्तेः //

(#निबन्ध् 96#) // 6 //

// प्रमाणान्तर्भावप्रकरणम् //

प्रमाणद्वितयादन्यप्रमाणगणदूषणम् / नापूर्वमुच्यते तत्तु प्रयोगेणात्र मुद्रयते //

इह खलु प्रमाणमात्रे न केचिद् विप्रतिपद्यन्ते / अन्ततश्चार्वाकस्यापि संप्रतिपत्तेः / प्रमाणमात्रोच्छेदवादी च तत्तदाङ्शक्य प्रतिविधानादस्मद्गुरुभिरवज्ञातः

प्रमाणमप्रमाणं चेद् विचारावसरो हतः / ब्रुवता नियतं किञ्चित् साध्यं वा बाध्यमेव वा //

तत्रायुक्तिं ब्रुवाणस्य श्लाघा सदसि कीदृशी / नानुमायाः परायुक्तिः किं सिद्धं तदनादरे //

स्वीकृता तेन सेत्यस्मात्तन्मत्या बाधनं यदि / अबाधने ऽस्याः स्वीकारात्तद्भिया बाधनं कथम् //

साध्यं न किञ्चिदिति चेद् बाधाया अपि साध्यता / सापि नेति वचो व्यर्थं प्रश्नमात्रे ऽपि किं फलम् //

फलं यदि गिरः क्वापि नान्यत्तच्चावबोधनात् / वाचः प्रत्यायने शक्ता नाक्षधूमादि सुन्दरम् //

सं(वृ)तौ मानमिष्टं चेद् विचारो ऽप्येष संवृतिः / संवृतावपि नेष्टं चेद् वदन् जेता यथा तथा //

संवृतिश्च विना मानं वाङ्मात्रेण न सिध्यति / मानतो यदि दुअर्वारः प्रमाणस्य परिग्रहः //

आचार्योप्याह -

अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम् / भावाभावव्यवस्थां कः कर्तुं तेन विना प्रभुः //

इति /

तदेवं प्रमाणमात्राप्रतिक्षेपे प्रत्यक्षं तावदादौ गणनीयम्, तन्मूलत्वादपरप्रमाणोपपत्तेः / न च चार्वाको ऽप्यनुमानमनवस्थाप्य स्थातुं प्रभवति, व्यापारत्रयकरणात् /

(#निबन्ध् 97#) तच्छास्त्रे हि प्रत्यक्षेतरसामान्ययोः प्रमाणेतरविधानं लक्षणप्रणयनतो विधातव्यम् / तच्च लक्षणं प्रत्यक्षे धर्मिणि लक्ष्ये प्रामाण्ये प्रत्येतव्ये स्वभावो हेतुः / परबुद्धिप्रतिपत्तौ च कायादिव्यापारः कार्यहेतुः / परलोकप्रतिषेधे च दृश्यानुपलम्भो ऽङ्गीकर्तव्य इति कथमनुमानापलापः / यदाचार्यः

प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः / प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् //

अपि च

अर्थस्यासंभवे ऽभावात्प्रत्यक्षे ऽपि प्रमाणताः / प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् //

इत्यनुमानमपि प्रमाणम् / प्रामाण्यं च प्रमाणान्तरागृहीतनिश्चितप्रवृत्तिविषयार्थतया तत्प्रापणे शक्तिः //

नन्वस्तु प्रापणे शक्तिः प्रामाण्यम्, परमसौनार्थादुत्पत्तेः, अपि त्वर्थदर्शनादि(ति) चेत् / किमिदमर्थदर्शनम् / अर्थस्य धर्मो दृश्यत्वम् / ज्ञानस्य धर्मो द्रष्टृत्वम् / प्रथमपक्षे नीलत्ववद् दृश्यत्वस्यापि साधारणत्वादेकगोचरो ऽर्थः सर्वगोचरः स्यात् / न हि प्रतिपुरुषमर्थानां भेदो नैरात्म्यप्रसङ्गात् / द्वितीयपक्षे तु कथमन्यस्मिन् ज्ञानस्वभावे द्रष्टृत्वे सत्यन्यस्यासम्ब(द्ध)स्यार्थस्य प्रत्याशा स्यात् / द्रष्टृत्वं दृश्यत्वमन्तरेणानुपपद्यमानं तदाक्षिपतीति चेत् / ननु ज्ञानार्थयोरुत्पत्तिसारूप्यबलतो द्रष्टृदृश्यत्वव्यवस्था(प)नमेतत् / अनभ्युपगमे द्रष्टृत्वं दृश्यत्वं च न संभवतीति किं केनाक्षिप्यताम् / भवतु वा प्रकारान्तरेणापि द्रष्टृदृश्यभावस्तथापि भेदे सत्यव्यभिचारस्तदुत्पत्तिरेव प्राप्तिनिमित्तम् / सा च प्रापणशक्तिः प्रत्यक्षानुमानयोरविशिष्टेति प्रमाणे एव /

नन्वन्यदपि शाब्दोपमानादिकं प्रमाणमस्ति / तथा हि शब्दाच्चोदनारूपादसन्निकृष्टे ऽर्थे स्वर्गादौ यज्ज्ञानमुत्पद्यते तदपि शाब्दं ज्ञानं प्रमाणमेव / प्रत्ययितोदितवाक्यप्रसूतं च ज्ञानं प्रमाणम् / यदाह कुमारिलः

तच्चाकर्तृकतो वाक्यादन्याद्वा प्रत्ययितो (?) दितात् / इति /

तत्र यदा शब्दसमुत्थं ज्ञानं प्रमाणं तदोपादानादिबुद्धिः फलम् / यदा तु शब्दस्तदा तदालम्बनं ज्ञानं फलमिति / नैयायिकस्य पुनः

आप्तोपदेशः शब्दः

इति शब्दप्रमाणलक्षणसूत्रम् / तत्र शब्द इति लक्ष्यपदम् / आप्तोपदेश इति लक्षणपदम् / अस्यायं संक्षेपार्थः / आप्तोपदिष्टः शब्दः प्रमाणमिति / आप्तश्च (#निबन्ध् 98#) साक्षात्कृतहेयोपादेयतत्त्वो यथादृष्टस्य चार्थस्याचिख्यासया प्रयुक्त उपदेष्टा अभिधीयते / प्रमाणफलव्यवस्था च पूर्ववद् द्रष्टव्येति /

तथा मीमांसकानामुपमानं प्रमाणम् / यदुक्तं शबरस्वामिना उपमानमपि सादृश्यमसन्निकृष्टे ऽर्थे बुद्धिमुत्पादयति / यथा गवयदर्शनं गोः स्मरणस्येति /

अस्यायमर्थः / एकत्र दृश्यमानं सादृश्यं कर्तृ / प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयैतत्सादृश्यविशिष्टो ऽसौ इत्यसन्निकृष्टे ऽर्थे यां बुद्धिमुत्पादयति तदुपमानं प्रमाणमिति / यत्तदोरध्याहार इति / तस्मात् स्मरतीति स्मरणं पुरुषः / तेनायमर्थः - यथा गवये दृश्यमानं सादृश्यं गां स्मरतो मनुष्यस्य एतत्सादृश्यविशिष्टो ऽसौ गौरिति बुद्धिमुत्पादयतीति /

न चेदमुपमानं स्मरणं कर्तव्यम्, गवयसादृश्यविशिष्टस्य गोर्गोविशिष्टस्य च सादृश्यस्य प्रमेयत्वात् / गोसादृश्ययोर्विशेषणविशेष्यभावस्योपमानप्रमाणविषयस्य गोग्राहिणा गवयग्राहिणा वा प्रत्यक्षेण केनचिदग्रहणात् / यदाह भट्टः

प्रत्यक्षे ऽपि यथा देशे स्मर्यमाणे च पावके / विशिष्टस्यान्यतः सिद्धेरनुमानप्रमाणता //

प्रत्यक्षेणावबुद्धे च सादृश्ये गवि च स्मृते / विशिष्टस्यान्यतो ऽसिद्धेरुपमानप्रमाणता //

न च ग्रहणमन्तरेण स्मरणमस्ति / तस्मान्नोपमानं स्मरणमतः प्रमाणमिति / नैयायिकादीनां तूपमानसूत्रम्,

प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् इति /

अस्यायमर्थः / प्रसिद्धं साधर्म्यं यस्य तस्माद् गवयादेः साध्यस्य संज्ञासंज्ञिसम्बन्धस्य साधनं सिद्धिस्तदुपमानफलम् / समाख्यासम्बन्धप्रतिपत्तिहेतुरुपमानमित्यर्थः / अयमस्य प्रपञ्चः / यः प्रतिपत्ता गां जानाति न गवयम्, आदिष्टश्च स्वामिना गच्छारण्यम् गवयमानयास्मादिति, गवयशब्दवाच्यमर्थम जानानो वनेचरमन्यं वा तज्ज्ञं पृष्टवान्, भ्रातः कीदृशो गवय इति / तेन चादिष्टं यथा गौस्तथा गवय इति / तस्य श्रुतातिदेशवाक्यस्य कस्याञ्चिदरण्यान्यामुपगतस्यातिदेशवाक्यार्थस्मरणसहकारि यद् गवयसारूप्यज्ञानं तत्प्रथमत एवासौ गवयशब्दवाच्यो ऽर्थ इति प्रतिपत्तिं प्रस्तुवानमुपमानं प्रमाणमिति /

(#निबन्ध् 99#) तथार्थापत्तिसंज्ञं प्रमाणं मीमांसकस्य / अर्थापत्तिरपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपद्यमानो यदर्थान्तरं परिकल्पयति / सार्थापत्तिः / यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यार्थस्य परिकल्पना / अस्यायमर्थः / प्रत्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धोः यो ऽर्थः स येन विना न युज्यते तस्यार्थस्य कल्पनमर्थापत्तिरिति / सा च षट्प्रमाणपूर्विका षट्प्रकारैवेति //

प्रत्यक्षानुमानादिप्रमाणपञ्चकाभावस्वभावमभावाख्यं प्रमाणम् / प्रमेयं घटाद्यभावः / नास्तीह घटादीति ज्ञानं घटाद्यभावालम्बनं फलम् / यदाह कुमारिलः

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते / सात्मनो ऽपरिणामो वा विज्ञानं वान्यवस्तुनि //

प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते / वस्तुसत्तावबोधार्थं तत्राभावप्रमणता //

इति //

एतानि षट् प्रमाणानि प्रत्यक्षादीन्यसंकीर्णस्वस्वलक्षणयोगित्वादन्योन्याप्रविष्टस्वभावानि प्रत्येतव्यानीति //

अत्रोच्यते / चोदनायास्तावद् वाह्ये ऽर्थे प्रतिबन्धाभावान्न प्रामाण्यम् / प्रयोगः - यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यम् / यथा दहने ऽप्रतिबद्धस्य रासभस्य / अप्रतिबद्धाश्च बहिरर्थे वैदिकाः शब्दाः इति व्यापकानुपलब्धिः / न तावदयमसिद्धो हेतुः / शब्दानां वस्तुतः प्रतिबन्धाभावात् / प्रतिबद्धस्वभावता हि प्रतिबन्धः / न च सा निर्निबन्धना, सर्वेषां सर्वत्र प्रतिबद्धस्वभावताप्रसङ्गात् / निबन्धनं चास्यास्तादात्म्यतदुत्पत्तिभ्यामन्यन्नोपलभ्यते, अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् / न हि शब्दानां वहिरर्थस्वभावतास्ति भिन्नप्रतिभासावबोधविषयत्वात् / नापि शब्दा बहिरर्थादुपजायन्ते, अर्थमन्तरेणापि पुरुषस्येच्छाप्रतिबद्धवृत्तेः शब्दस्योत्पाददर्शनात् /

ननु योग्यतयैव किञ्चत् प्रतिबद्धस्वभावमुपलभ्यते / यथा चक्षुरिन्द्रियं रूपे / चक्षुः खलु व्यापार्यमाणम् रूपमेवोपलभ्भयति / तथैवैते वैदिकाः शब्दास्तादात्म्यतदुत्पत्तिवियुक्ता अपि योग्यतामात्रेणातीन्द्रियमर्थं बोधयिष्यन्ति तत्कथं तादात्म्यतदुत्पत्तिविरहमात्रेणाप्रतिबन्धो येनैवं व्यापकानुपलब्धिः सिध्यतीति / नैष दोषः / यतश्चक्षुरिन्द्रियमपि रसादिपरिहारेण रूप एव प्रकाशकत्वेन प्रतिनियतं तत्कार्यत्वात् / रूपं हि चक्षुरुपकरोति / न सत्तामात्रेण चक्षू रूपं प्रकाशयति, व्यवहितस्यापि रूपोपलब्धिप्रसङ्गात् / तस्माद् रूपाद् योग्यदेशसन्निहितात् तज्ज्ञानजननयोग्यतामासाद्य चक्षू रूपज्ञानमुत्पादयत्तत्कार्यमिति व्यक्तमवसीयते / अन्यथा तदुपकारानपेक्षस्य तस्यापि तत्प्रकाशननियमो नोपपद्यते / (#निबन्ध् 100#) न ह्यनुपकार्यत्वाविशेषे चक्षू रूपस्यैव प्रकाशकम्, न रसादेरिति घटामुपैति नियमः / अयमेव तर्हि नियमः कुतो यद् रूपेणैव चक्षुरूपकर्तव्यम्, न रसादिनेति / यदि वस्तुवशादेव रूपमुपकरोति न रसादिकम्, हन्त तर्हि यथोपकार्यत्वं प्रति नियमश्चक्षुषो रूपेण, तथा शब्दानामपि स्वाभाविक एवास्तु बहिरर्थप्रत्यायननियम इति /

अत्रोच्यते / न चक्षुषः स्वाभाविको रूपोपकार्यतानियमः, कस्यचिद् वस्तुनः स्वाभाविकत्वानुपपत्तेः / तथा हि स्वाभाविकत्वं वस्तुधर्मस्यानुजानानः प्रष्टव्यः - किं स्वाभाविक इति स्वतो भवति, आहोस्वित् परतः, अथाहेतुतः / यदि स्वतो भवति, तदसङ्गतम्, स्वात्मनि क्रियाविरोधात् / अथाहेतुतः तदयुक्तम्, अहेतोर्देशादिनियमायोगात् / तस्मान्न स्वाभाविको रूपोपकार्यताप्रतिनियमश्चक्षुषः / किंनिबन्धनस्तर्हि स्वहेतुप्रतिबद्ध इति, ब्रूमः - चक्षूः खलु स्वहेतुना जन्यमानं तादृशमेव जनितम् यद्रूपोपकर्तव्यमेव भवति / रूपमपि तादृशमेव स्वहेतुना जनितं यत्तदुपकारकस्वभावम् /

शब्दानामपि स स्वभावः स्वहेतुप्रतिबद्धो येनैते बाह्यार्थाव्यभिचारिण इति चेत् / न शक्यमेवमभिधातुम्, नित्यत्वाभ्युपगमाद्वेदवाक्यानाम् / अथानित्यत्वमभ्युपगम्यायमाक्षेपः परिहर्तुमिष्यते, तदपि दुष्करम्, दोषान्तरप्रसङ्गात् / यदि स्वहेतुनैव ते नियमार्थोपदर्शनशक्तिमन्तो जनिताः, तदाव्युत्पन्नसमयस्यापि स्वार्थमववोधयेयुः / यथा चक्षुः स्वहेतो रूपप्रकाशकमुत्पन्नं सत् प्रकाशयत्येव रूपमसङ्केतविदो ऽपि, न च शब्दादुच्चरितात् प्रागप्रतीतसमयस्यापि विशेषावगमः समस्ति / तस्मान्न स्वहेतुप्रतिबद्धश्चक्षुरादेरिव शब्दानामर्थप्रतिपादननियम इति निश्चयः //

अथ स्वहेतुभिरेवायमीदृशस्तेषां स्वभावो दत्तो येन ते संकेतविशेषसहाया एव कमप्यर्थमवबोधयन्ति / न तर्हि सङ्केतपरावृत्तौ पदार्थान्तरवृत्तयो भवेयुः / यदि ह्ययमग्निहोत्रशब्दः संकेतापेक्षो यागविशेषप्रतिपादकः, कथं सङ्केतान्यत्वेनार्थान्तरं प्रतिपादयति / न हि क्षित्याद्यपेक्षेण बीजेन स्वहेतोरङ्कुरजननस्वभावेनोत्पन्नेन रासभः शक्यो जनयितुम्, तथा शब्दो ऽपि यदर्थप्रतिपादननियतस्तमेव प्रकाशयेत् //

अथ तत्तत्सङ्केतापेक्षस्तत्तदर्थप्रत्यायनयोग्य एवायं जात इत्युच्यते / तदपि न प्रस्तुतोपयोगि / न ह्येवमस्य प्रामाण्यमवतिष्ठते / यदा हि सङ्केतेनापुरुषार्थ प्रतिपादनमपि संभाव्यत एव, तदा न शक्यमुपकल्पयितुं किमयमभिमतस्यैवार्थस्य द्योतको न वेति / तर्हि वाच्यवाचकलक्षणः शब्दार्थयोः संबन्धो भविष्यति / तथा चाह

वाच्यवाचकसंबन्धाः सन्ति यद्यपि वास्तवाः / सङ्केतैरनभिव्यक्ता न ते ऽर्थव्यक्तिहेतवः //

(#निबन्ध् 101#) इति चेत् / ननु तस्य वास्तवत्वे ऽसङ्केतविदो ऽप्यर्थप्रतिपत्तिर्भवेदित्युक्तम्, सङ्केतापेक्षायां चार्थान्तरे न प्रवर्तेतेत्याद्यभिहितम् / अतः पूर्वमेवायं प्रत्याख्यातो वाच्यवाचकलक्षणः सम्बन्धः / तस्मान्न बहिरर्थे प्रतिबन्धः शब्दानामिति निर्णयः //

ततश्च नासिद्धो हेतुः //

नापि विरुद्धः, विपर्ययव्याप्त्यभावात् / तदभावश्च सपक्षे वृत्त्युपदर्शनात् / न हि विरुद्धस्य साधर्म्यवति धर्मिणि सद्भावो युक्तः, साध्यविपर्ययस्य तत्राभावात् / न च व्यापकमन्तरेण व्याप्यस्य संभवः, तत्प्रच्युतिप्रसङ्गात् //

नाप्यनैकान्तिको हेतुः, विपर्यये बाधकप्रमाणसंभवात् / प्रामाण्यप्रतिषेधे हि साध्ये प्रमाण्यमेव विपक्षः / न च तस्मिन् प्रतिबन्धाभावलक्षणो हेतुरस्ति, स्वविरुद्धेन प्रतिबन्धेन व्याप्तत्वात् / न खल्वयं प्रादेशिकः प्रमाणशब्दो ज्ञानेषु निर्निबन्धन एव, सर्वज्ञानेषु प्रामाण्यव्यपदेशप्रसङ्गात् / निबन्धनं च स्वविषयप्रतिबन्धादन्यन्नोपपद्यते / तस्मात् प्रमाणस्य प्रमाणव्यपदेशविषयत्वं स्वविषयप्रतिबन्धने व्याप्तम् / अतः प्रमाणे धर्मिणि विपक्षे प्रामाण्यस्य विरुद्धव्याप्तस्योपलम्भेन विपक्षे व्यवच्छेदसिद्धेर्नानैकान्तिको हेतुः /

न चान्यो दोषः संभवी / तस्मान्निरस्ताशेषदोषेण हेतुना यत् प्रसिद्धं तदुपादेयमेव सताम् (इति) पण्डितश्रीजितारिपादैरेव वेदाप्रामाण्ये दर्शितम् /

एवं च वैदिकशब्दानां प्रमाण्ये निरस्ते तदुत्थं ज्ञानमप्यप्रमाणमेव / आप्तप्रणीतस्य पुनर्वचनस्यार्थाव्यभिचारे तज्जन्मनो ज्ञानस्याव्यभिचारसंभवे ऽपि न प्रामाण्यमुपगन्तुं शक्यते, परचित्तवृत्तीनामशक्यनिश्चयत्वेनाप्तत्वापरिज्ञानात् वचनस्यापि तत्प्रणीतत्वाप्रतिपत्तेः / प्रयोगश्चात्र -

यद् येन रूपेण न निश्चितं न तत् तेन रूपेण व्यवह्रियते / यथा रथ्यापुरुषः सर्वज्ञत्वेन / न प्रतीयते चाभिमतपुरुष आप्तत्वेनेति व्यापकानुपलब्धिः //

नायमसिद्धः, आप्ताभिमतस्य तथात्वानिश्चयात् / तथा हि परचित्तवृत्तयो ऽतीन्द्रियत्वान्न प्रत्यक्षसमधिगम्या इति कायवाग्व्यवहारतो ऽनुमातव्याः / तौ च कायवाग्व्यवहारौ बुद्धिपूर्वमन्यथापि कर्तुं शक्येते / ततस्तत्प्रतिबद्धत्वेनानिश्चयात् कथं कायवाग्व्यवहारतो विशिष्टपरचित्तवृत्त्यनुमानम् //

नापि विरुद्धः, सपक्षे सद्भावसंभवात् //

नाप्यनैकान्तिकः, प्रामाणिकतद्रूपव्यवहर्तव्यत्वनिश्चितत्वयोर्व्याप्यव्यापकभूतयोर्विधिभूतयोर्वृक्षत्वशिंशपात्वयोरिव प्रत्यक्षानुपलम्भाभ्यां सर्वोपसंहारेण (#निबन्ध् 102#) व्याप्तेः सिद्धत्वात् / तदतः साधनाद् दोषत्रयरहितात् साध्यं सिद्ध्यदवाच्यमेव / तदेवमाप्तत्वस्य दुर्बोधत्वेन तत्प्रणीतत्वानिश्चयादेकप्रहारनिहतमाप्तवचसः प्रामाण्यम् /

अतो यदेतस्य प्रामाण्यप्रसिद्ध्यर्थं वाचस्पतिप्रभृतीनां वल्गितं तदप्राप्तावसरमेव / एवं प्रत्ययोदितमपि भट्टाभिमतं शाब्दं प्रमाण्यं व्यस्तमिति बोद्धव्यम् / तस्मात् स्थितमेतत् न शाब्दं बहिरर्थे प्रमाणमस्तीति / बुद्ध्याकारे तु तत्कार्यप्रसूतत्वात्तदनुमानमेवेति /

मीमांसकोक्तं तावदुपमानं मानमेव न भवति, निर्विषयत्वादस्य / इहापि प्रयोगः -

यस्य न विषयवत्त्वं न तस्य प्रामाण्यम् / यथा केशोण्डुकज्ञानस्य / न सिद्धं च विषयवत्त्वमुपमानज्ञानस्येति व्यापकानुपलम्भः /

नायमसिद्धो हेतुः, निर्विषयत्वादुपमानस्य / तथा हि सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयो वर्ण्यते / न सदृशवस्तुव्यतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात् /

ननु सादृश्यं वस्तु दुर्वारमेव / यदाह

सादृश्यस्य च वस्तुत्वं न शक्यमपवाधितुम् / भूयो ऽवयसामान्ययोगो जात्यन्तरस्य तत् //

इति / अत्रोच्यते / यदि सदृशातिरिक्तं सादृश्यं वस्तु दृश्यं स्यात्, तदा दृश्यानुपलम्भग्रस्तमेव, शास्त्रानाहितसंस्कारेणापि केनचित्तस्यादर्शनात् / तस्य चास्तित्वे सर्व सर्वत्रास्तीत्यप्रवृत्तिनिवृत्तिकं जगदापद्येत / अथादृश्यं तत्सादृश्यमुपेयते, तथापि तत्र प्रसिद्धलिङ्गाभावादसिद्धमेव / सिद्धेन च तेन विषयवत्तोपमानस्य सिध्येत / सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनापि क्रियमाणोघटत एव इति न सादृश्यमुपस्थापयितुं प्रभवति / उपमानप्रमाणबलादेव सादृश्यसिद्धिरिति चेत् / न / प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डयोर्विशेषणविशेष्यभावस्योपमानविषयत्वात् कथं सादृश्यमात्रस्योपमानात् सिद्धिः / ततश्च सादृश्यस्यासिद्धेर्न तद्विशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयः / तदेवमुपमानस्य निर्विषयत्वं सिद्धमिति नासिद्धो हेतुः /

नापि विरुद्धः, सपक्षे भावात् /

न चानैकान्तिकः / तथा हि प्रामाण्याभावे साध्ये प्रमाण्यमेव विपक्षः / तच्च विषयवत्तया व्याप्तम्, निर्निमित्तत्वे सर्वज्ञानप्रामाण्यप्रसङ्गात् / तदयं विरुद्धव्याप्तोपलब्ध्या विपक्षान्निवर्तमानो विषयवत्त्वाभावलक्षणो हेतुः प्रामाण्याभावलक्षण एव विश्राम्यतीति व्याप्तिसिद्धिः / अतो नोपमानं प्रमाणमिति /

(#निबन्ध् 103#) नैयायिकपरिकल्पितोपमाननिराकरणार्यमप्ययमेव प्रयोगो द्रष्टव्यः, तस्यापि निर्विषयत्वात् / तथा हि समाख्यासंबन्धस्तस्य विषयो वर्ण्यते / स च परमार्थतो नास्ति / स हि संबन्धः संबन्धिभ्यां भिन्नो ऽभिन्नो वा / यदि भिन्नस्तदा तयोरिति कुतः / न च संबन्धान्तरादिति वक्तव्यम्, तदपि कथं तेषामिति चिन्तायामनवस्थाप्रसङ्गः / न च यथा प्रदीपः प्रकाशान्तरमन्तरेण प्रकाशते तथा संबन्धो ऽपि संबन्धान्तरमन्तरेण संबद्धो भविष्यतीति वक्तुमुचितम् / प्रमाणसिद्धे हि वस्तुरूपे ऽयमस्य स्वभाव इति वर्ण्यते / यथा प्रदीपस्यैव / संबन्धस्तु न प्रमाणप्रतीतः / तत्क एवं जानात्वयमस्य स्वभाव इति, यद्वा नास्त्येवायमिति / अयमनयोः संबन्धः संबद्धावेताविति तु बुद्धिः स्वहेतुबलात् संबद्धवस्तुद्वयादपि संभाव्यमाना न संबन्धमाक्षेप्तुं प्रभवति / तस्मान्न भिन्नसंबन्धसिद्धिः / अथाभिन्नः तदा संबन्धिनावेव केवलाविअति न समाख्यासंबन्धो नाम, यः कश्चिदुपमानस्य विषयः स्यात् /

ननु संबन्धबुद्धिजनकत्वं संबद्धपदार्थाद्भिन्नमभिन्नं वा / भेदे च स एव सम्बन्धः, नाम्नि परं विवादः / अथाभिन्नम्, तदा यथा संबद्धपदार्थस्य स्वभावः सर्वपदार्थसाधारणस्तथा तदपि रूपं तदव्यतिभिन्नं सर्वपदार्थसाधारणमिति स पदार्थो ऽभिमतपदार्थेनेव परैरपि पदार्थैः सह संबद्धः स्यात् /

नचैवम्, तस्माद्भिन्नं तत्सबन्धबुद्धिजनकत्वं संबद्धपदार्थादेष्टव्यमिति चेत् / नन्वेतदाशङ्क्य राजकुलपादैः परिहृतमेव / तथा हि

संबद्धं स्वयमेव चेन्ननु यथा तं तस्य संबन्धिनं प्रत्यात्मा जगतीमपि प्रति तथा तत्केन योगो ऽस्य न / संबन्धे परतो ऽपि तुल्यमखिलं तेनैव चेत् संयमो हेतुः किं न नियामकः स च कथं योगः क्वचिन्नापरे //

इति / तस्मात् संबन्धाभावात् पूर्वोक्तेन न्यायेन सारूप्याभावाच्चासिद्धं नैयायिकस्यापि निर्विषयमुपमानं प्रमाणमतो ऽनन्तरेणैव व्यापकानुपलम्भेन निराकृतम् /

अर्थापत्तिरपि / यदेतत् सामान्यलक्षणं प्रत्यक्षादिप्रतीतो यो ऽर्थः स येन विना नोपपद्यते तस्यार्थस्य परिकल्पनमर्थापत्तिरित्यत्र विचार्यते / यस्यार्थस्य दर्शनाद् यो ऽर्थः परिकल्प्यते तयोर्यदि प्रतिबन्धो ऽस्तितदार्थापत्तिरनुमानमेव / अर्थापत्तिरिति नामान्तरकरणे नास्माकं काचिद्विप्रतिपत्तिः / तथा हि प्रमाणपरिदृष्टो ऽर्थः केनचिद्विना नोपपद्यत इति कुतो लभ्यते, यदि परिदृश्यमानपरिकल्प्यमानयोः कश्चित् संबन्धः स्यात् / अन्यथा तेन विना नोपपद्यत इत्यह्रीकादन्यो न ब्रूयात्, (#निबन्ध् 104#) घटपटवत् / स च सम्बन्धः क्वचित् पूर्वमवश्यं प्रत्यक्षानुपलम्भतः क्वचिददृश्यत्वे ऽपि विपर्ययबाधकप्रमाणबलाद्वा निश्चेतव्यः / अन्यथा तेन विनानुपपत्तिज्ञानस्यैवानुपपत्तेः / सति चैवम्, एकं संबन्धिनं दृष्ट्वा यत्रस्थेन विना तत्रस्थं नोपपद्यते, तस्य द्वितीयस्य संबन्धिनः कल्पनमनुमानमेव / तत्र स्वभावप्रतिबन्धे स्वभावहेतुजैव सार्थापत्तिः / तदुत्पत्तिप्रतिबन्धे कार्यालिङ्गजैव / तदुक्तम् - अन्यथानुपपन्नत्वमन्वयव्यतिरेकिण्यर्थे भवति यत्, तस्मान्नार्थापत्तिः प्रमाणान्तरमिति / तस्मात् परिदृश्यमानपरिकल्प्यमानयोः सति प्रतिबन्धे नार्थापत्तिः प्रमाणान्तरमिति / अथ तयोर्न प्रतिबन्धः, तदार्थापत्तिः प्रमाणमेव न भवतीति मन्तव्यम्, साक्षात् पारम्पर्येण च संबन्धाभावात् / यस्य यत्र प्रतिबन्धो नास्ति न तस्य तत्र प्रामाण्यमित्यादिर्वेद निराकरणार्थ यः पूर्वमुपन्यस्तः स एवास्या अपि प्रामाण्यनिराकरणाय द्रष्टव्यः / सामान्येनैवार्थापत्तौ निराकृतायां प्रत्यक्षादिपूर्वकत्वलक्षणस्तत्प्रपञ्चो निरस्तो भवत्येवेति तदर्थं न प्रबन्धो ऽभिधीयते, गवि निराकृते शावलेयनिराकृतिवत् / तस्मान्नार्थापत्तिः प्रमाणान्तरमिति /

तथा अभावप्रमाणस्यापि प्रामाण्यं नोपपद्यते, तस्यापि निर्विषयत्वात् / ततश्च मीमांसकोपवल्गितोपमाननिराकरणार्थमुपन्यस्तो यो विषयवत्त्वाभावलक्षणो ऽनुपलम्भः स एवास्यापि निरासार्थमुपन्यसितव्यः / ननु चात्रासिद्धो हेतुः / तथा हि यदि घटाभावो वास्तवः प्रमेयभूतो न स्यात्, तदा नास्तीह घट इति प्रत्ययः कथमुत्पद्यत इति चेत् / केवलप्रदेशग्राहिप्रत्यक्षादिति ब्रूमः / ननु यदि कैवल्यं प्रवेशस्वरूपं तत्तर्हि सघटे ऽपि प्रदेशे विद्यत इति तत्रापि तस्य प्रत्ययस्य सद्भावप्रसङ्गः / अथातिरिक्तः, मुखान्तरेणाभाव एवाभ्युपगतो भवतीति चेत्, न / कैवल्यं तद्विविक्तत्वमसङ्कीर्णत्वमित्यादिभिः पदैः प्रदेशस्य घटं प्रत्यनापन्नाधारभावस्य स्वहेतुत उत्पन्नस्य घटप्रदेशादन्य एवात्माभिधीयते / स एव चाभावप्रत्ययं जनयतीति किमपरेणाभावेन कर्तव्यम् /

ननु घटं प्रत्यनापन्नाधारभावस्य प्रदेशस्येति घटाभावयुक्तस्य प्रदेशस्येत्युक्तं भवतीति चेत् / तर्हि घटाभावो ऽपि घटं प्रत्यनापन्नाधारभावः किमभावान्तरेण स्वरूपेणैव वा / प्रथमपक्षे ऽनवस्था / अथ तदभावरूपत्वादभावान्तरमन्तरेणैव घटाभावो घटं प्रत्यनापन्नाधारभावः / यद्येवमसहायः प्रदेशविशेषो ऽपि पर्युदासवृत्त्या घटाभावरूपत्वादभावं विनैव घटं प्रत्यनापन्नाधारभावो युक्त इति किमकाण्डमाहोपुरुषिकया मिथ्याप्रलापेनाबोधविक्लवं शिष्यपुद्गलमाकुलयसि / तस्माद् भूतलातिरिक्तस्याभावस्यासिद्धत्वान्नायं विषयवत्ताभावलक्षणो हेतुरसिद्धः / प्रमाणपञ्चकाभावादेव तु प्रमेयाभावसिद्धिप्रत्याशापि न युज्यते, विप्रतिपत्तिविषयत्वादस्या नेनैव प्रमेयाभावसिद्धेरयोगात् /

विरुद्धानैकान्तिकत्वे च पूर्वमेव हेतोः परिहृते / तदतः सिद्धमभावप्रमाणाभिमतस्याप्रामाण्यमिति /

(#निबन्ध् 105#) अथवाभावप्रमाणस्वरूपमेव निरूप्यताम् / कःपुनः प्रमाणाभावात्माभिमतो भवताम्, किं प्रसज्यवृत्त्या प्रमाणानुत्पत्तिमात्रम्, अथ वा पर्युदासवृत्त्या भावान्तरम् / वस्त्वन्तरमपि जडरूपं ज्ञानरूपं वा / ज्ञानरूपमपि ज्ञानमात्रकमेकज्ञानसंसर्गिवस्तुज्ञानं वेति षड् विकल्पाः /

तत्र न तावन्निवृत्तिरूपो ऽभावो युज्यते / स खलु निखिलशक्तिविकलतया न किञ्चित् / यच्च न किञ्चित् तत्कथमभावं परिच्छिन्द्यात्, तद्विषयं वा ज्ञानं जनयेत्, प्रतीतं वा तत्कथमिति सर्वमन्धकारनर्तनम् / यदाहुः -

न ह्यभावः कस्यचित् प्रतिपत्तिः प्रतिपत्तिहेतुर्वा तस्यापि कथं प्रतिपत्तिरिति / नापि वस्त्वन्तरतापक्षे जडरूपो ऽभावः सङ्गच्छते, तस्याभावलक्षणप्रमेयपरिच्छेदाभावात्, परिच्छेदस्य ज्ञानधर्मत्वात् / नापि ज्ञानमात्रस्वभावो ऽभावो वक्तव्यः, देशकालस्वभावविप्रकृष्टस्यापि ततो ऽभावप्रसङ्गात्, तदपेक्षयापि ज्ञानमात्रत्वात् तस्य / अथैकज्ञानसंसर्गिवस्तुज्ञानस्वभावो ऽनुमन्यते तदास्तमभावप्रमाणप्रत्याशया, प्रत्यक्षविशेषस्यैवाभावनामकरणात् / तस्य चास्माभिर्दृश्यानुपलम्भाख्यसाधनत्वेन स्वीकृतत्वात् / अतो न काचिद् विप्रतिपत्तिर्नाम / तस्मादभावप्रमाणस्वरूपमर्पि निरूप्यमाणं विशीर्यत एव / यदप्यस्य लक्षणमुक्तम्

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते /

इत्यादि, तदपि याचितकमण्डनम् / तस्मात् स्थितमेतत्, प्रमाणस्य सतो ऽत्रैवान्तर्भावात् प्रमाणे एव //

प्रमाणान्तर्भावप्रकरणं समाप्तम् //

(#निबन्ध् 106#) // 7 //

// व्याप्तिनिर्णयः //

इह दहनादिना धूमादेरर्थान्तरस्य व्याप्तिस्तदुत्पत्तिलक्षणा / सा च विशिष्टान्वयव्यतिरेकग्रहणप्रवणविशिष्टप्रत्यक्षानुपलम्भसाधनेति न्यायः / अत्र च भट्टप्रभृतयो विप्रतिपद्यन्ते / तथा हि ते ऽग्निमति प्रदेशे धूमस्य भूयोदर्शनं तद्वियुक्ते च तथैवादर्शनमित्यन्वयव्यतिरेकित्वं कल्पयाम्बभूवुः /

ननु भूयसापि प्रवृत्ते दर्शनादर्शने घटकुलटादावुपलब्धो व्यभिचार इति चेत् / किमेतावता तत्राप्यनुमानमस्तु, तद्वद्वा धूमादावपि भा भूत् / प्रथमपक्षस्तावद् व्यभिचारादेव निरस्तः / द्वितीयो(ऽपि) व्यभिचारादेव / न ह्यन्यस्य व्यभिचारे धूमस्य किञ्चित् / तस्मादग्निधूमयोरव्यभिचारस्यासंभवे शतमपि तदुपपत्तयः तत्प्रसाधकविशिष्टप्रत्यक्षानुपलम्भा वा नानुमानोपयोगिनः / संभवे वा किं तदुत्पत्त्या तदुपयोगिना विशिष्टप्रत्यक्षानुपलम्भेन, दर्शनादर्शनाभ्यामेवाव्यभिचारसिद्धेः / तथा च काशिकाकारः प्राचीनानेकदर्शनजनितसंस्कारसहायेनचरमेण चेतसा धूमस्याग्निनियतत्वं गृह्यत इति //

त्रिलोचनस्त्वाह - प्रत्यक्षानुपलम्भयोर्विशेषविषयत्वात् कथं ताभ्यां सामान्ययोः संबन्धप्रतिपत्तिः / अथानग्निव्यावृत्तेनाधूमव्यावृत्तस्य संबन्धः प्रतीयत एवेति / ननु सो ऽपि कस्य प्रमाणस्य विषयः / न तावत्प्रत्यक्षस्य, स्वलक्षणविषयत्वात्तस्य / नाप्यनुमानस्य, तस्यापि तत्पूर्वकत्वात् / न च व्यावृत्योः कश्चित्संबन्धः / अथ प्रत्यक्षपृष्ठभावी विकल्पो दृष्टे भेदे ऽभेदमध्यवस्यति, तदेव सामान्यम् / एवमपि विकल्पानां न वस्त्वेन विषयः / अपि तु ग्राह्याकारः / स च न वस्तु / वस्तु तु तेषां परोक्षमेवेति, कथं तेनापि सम्बन्धग्रहः / अस्माकं तु भूयोदर्शनसहायेन मनसा तज्जातीयानां संबन्धो गृहीतो भवति / अतो धूमो नाग्निं व्यभिचरति / तद्व्यभिचारे धूम उपाधिरहितं संबन्धमतिक्रामेदिति हेतोविपक्षशङ्कानिवर्तकं प्रमाणमुपलब्धिलक्षणप्राप्तोपाधिविरहहेतुरनुपलम्भाख्यं प्रत्यक्षमेव / ततः सिद्धः स्वाभाविकः सम्बन्धः //

वाचस्पतेस्तु प्रपञ्चः / तथा हि धुमादीनां वह्न्यादिभिः स्वाभाविकः संबन्धः / न तु वह्न्यादीनां धूमादिभिः / ते हि विनापि धूमादिभिरुपलभ्यन्ते / वह्न्यादयस्तु यदार्द्रेन्धनसंबन्धमनुभवन्ति तदा धूमादिभिः संबध्यन्ते / वह्न्यादीनां (#निबन्ध् 107#) तु स्फुटमार्द्रेन्धनाद्युपाधिकृतः संबन्धो न तु स्वाभाविकः / ततो ऽनियतः / स्वाभाविकस्तु धूमादीनां वह्नयादिभिः संबन्धः, तदुपाधेरनुपलभ्यमानत्वात् / क्वचिद् व्यभिचारस्यादर्शनात् अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः / न चादृश्यमानो ऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सग्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम् /

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्

इति तु दत्तावकाशा लौकिकमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित् प्रवर्तेत / सर्वत्रैव कस्यचिदनर्थस्य कथञ्चिच्छङ्कास्पदत्वात् / अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् / अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणदर्शनात् / तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेवशङ्कनीयम् / न त्वदृष्टपूर्वमपि / विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति / न च स्मृतिरननुभूतचरे भवितुमर्हति / तदुक्तं मीमांसावार्तिककृता -

नाशङ्का निःप्रमाणिका इति /

तस्मादुपाधिं प्रयत्नेनान्विष्यन्तो ऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं संबन्धस्य निश्चिनुमः /

स्यादेतत् / अन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः संबन्धो भवेत्, सर्वं सर्वेण स्वभावतः संबध्येत / सर्वं सर्वस्माद् गम्येत / अथान्यस्य चेदन्यत् कार्यं कस्मात् सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात् / ततश्च स एवातिप्रसङ्गः / यद्युच्येत न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषे ऽपि किञ्चिदेव कारणं कार्यं च किञ्चिदिति / नन्वेष स्वभावानामनुयोगो भिन्नानामकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव / तस्माद् यत्किञ्चिदेतदपि / केन पुनः प्रमाणेनैष स्वाभाविकः संबन्धो गृह्यते / प्रत्यक्षसंबन्धिषु प्रत्यक्षेण / तथा हि अभिजाअतमणिभेदतत्त्ववद् भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकासंबन्धग्राहीति युक्तमुत्पश्यामः / एवं मानान्तरविदितसंबन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि स्वाभाविकसंबन्धग्रहणे प्रमाणान्युन्नेतव्यानि / स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन यदि (#निबन्ध् 108#) साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येवेति //

अत्रोच्यते / इह खलु भेदे तदुत्पत्तिरेव व्याप्तिः / न चासावन्यो वा स्वत एवाविनाभावलक्षणः स्वाभाविकः संबन्धो भूयोदर्शनमात्रतः सिध्यति / तथा हि, किं यत्र भूयोदर्शनप्रवृत्तिस्तत्र नियतत्वव्यवस्था, यत्र वा नियतत्वमस्ति तत्रैव भूयोदर्शनप्रवृत्तिः / प्रथमपक्षे घटादपि कुलटा, पार्थिवत्वादपि लोहलेख्यत्वं सिध्येत्, भूयोदर्शनसंभवे ऽपि नियतत्वसंभवात् /

व्यभिचारदर्शनान्नैवमिति चेत् / कस्य पुनर्व्यभिचारदर्शनम् यस्य कस्यचित् शास्त्रकारस्य, प्रतिपत्तुर्वा / प्रथमपक्षे प्रतिपत्तुः किमायातं यतो नानुमानमयं कुर्यात् / अन्यथान्यस्य तद्विषयप्रत्यक्षीकारेणैव सो ऽपि कृतार्थ इति किमवश्यमनुमानमन्वेषते / न चाप्तवचनादव्यभिचारदर्शनादनुमानम् / आप्तस्य निश्चेतुमशक्यत्वादित्यन्यत्र प्रसाधनात् / शास्त्रकारं च पृष्ट्वा दृष्टसंबन्धो ऽपि धृमादग्निमनुमास्यत इत्यलौकिकम् / प्रतिपत्तुस्तु नावश्यं सन्नपि व्यभिचारो गोचरीभवति / न हि यत्र व्यभिचारस्तत्रैव तावति काले देशे वावश्यं प्रतीतिमवतरति / अप्रतीयमानश्च नास्त्येवेति न नियमः / सत्यपि व्यभिचारे दर्शनसामग्रयभावात् तस्मादर्शनात् / अतिचिरकालव्यवधाने ऽपि दर्शनात् ब्राह्मण्यादिव्यभिचारवत् //

घटपार्थिवादौ प्रतिपत्तैव प्रवृत्तः / तदैव क्रमेण वा व्यभिचारं पश्येदिति चेत् / यदि तावदसौ कथञ्चित् प्रवर्तते, प्रवृत्तो ऽपि वा सामग्र्यभावाव्यभिचारं न पश्येत् / वज्रं वा लोहेन व्यापारयेत् / व्यक्तं तस्य तावत् तदप्यमानमापन्नमिति महत् पाण्डित्यम् / तस्माद् यदि व्यभिचारादर्शनादनुमानं तदादृष्टव्यभिचारस्य प्रतिपत्तुर्घटपार्थिवत्वादप्यस्ति / तथा अदर्शनमात्रेण व्यभिचाराभावो न सिध्यति, योग्यानुपलब्धेरेव सर्वत्राभावसाधने ऽधिकारात् / ततो बहुलं सहचारमात्रेण न व्यभिचारी न वाव्यभिचारी निश्चित इति शङ्कावकाशः //

यद्येवमदृष्टव्यभिचारादपि धूमादनुमानं मा भूत् / न / ईदृशस्य शङ्कावकाशस्य सर्वत्र तदुत्पत्तिरहिते संभवादिति / अथ कदाचित् प्रतिपत्ता प्रवृत्तो व्यभिचारं पश्यति / न तर्हि यत्र भूयोदर्शनम्, तत्र नियतत्वस्थितिः / तत्र कुतो धूमे प्रतिबन्धसिद्धिः / भूयोदर्शनस्यान्यत्र नियतत्वोपस्थापकत्वक्षतौ मलिनपौरुषत्वेन सर्वत्रानाश्वासात् //

यद्येवं द्विचन्द्रादौ चक्षुरादिप्रत्यक्षं मलिनपौरुषमुपलब्धमिति घटादिकमपि नोपस्थापयेदिति चेत् / न / इन्द्रियविषयकार्यं हि प्रत्यक्षम् / न द्विचन्द्रादिज्ञानमीदृशमर्थकार्यत्वाभावात् / (#निबन्ध् 109#) ततो भिन्नलक्षणस्य प्रत्यक्षाभासत्त्वे ऽपि घटज्ञानं प्रत्यक्षमेव / न चैवं धूमादौ पार्थिवत्वादौ च व्याप्तिग्राहकस्य भूयोदर्शनस्य लक्षणभेदो येनैकत्राश्वासः स्यात् //

एते एवार्थकार्यत्वाकार्यत्वे लक्षणभेद इति चेत् / न / घटादिज्ञानस्य ह्यर्थकार्यत्वविवादे प्रमाणान्तरतो ऽर्थक्रियालाभतो वा निश्चयः, न प्रतिज्ञामात्रेण / न चात्र धूमस्याग्निसहचारः सदातनो ऽयमथ सुहृद्द्वयस्येव सात्ययो गृहीत इति संशये सदातनसहचारप्रसाधकप्रमाणान्तरसङ्गतिरस्ति, तत्कार्यं वा किञ्चिदुपलभ्यते / तर्हि बाध्यमानत्वाबाध्यमानत्वलक्षणो लक्षणभेदो भविष्यतीत्यपि न वक्तव्यम्, अव्यभिचारग्राहकस्य भूयोदर्शनस्य बाधितत्वासिद्धेः / अबाधमात्रं हि प्रसज्यप्रतिषेधो ऽप्रमाणम् / प्रमाणान्तरसङ्गतिरर्थक्रियालाभो वा पर्युदासश्चासिद्ध इति न तावत् प्रथमः पक्षः / नापि द्वितीयः / नियतत्वाभावे ऽपि पार्थिवत्वादौ भूयोदर्शनसंभवादिति न भूयोदर्शनगम्या व्याप्तिः //

त्रिलोचनचोद्ये ऽपि ब्रूमः / यदि प्रत्यक्षं स्वलक्षणविषयमित्ययोगव्यवच्छेदेनोच्यते तदा सिद्धसाधनम् / अन्ययोगव्यवच्छेदस्त्वसिद्धः, प्रत्यक्षानुमानादिसर्वज्ञानानां ग्राह्यावसेयभेदेन विषयद्वैविध्यानतिक्रमात् / यद्वि यत्र ज्ञाने प्रतिभासते तद् ग्राह्यम् / यत्र तु तत् प्रवर्तते तदध्यवसेयत् / तत्र प्रत्यक्षस्य स्वलक्षणं ग्राह्यम् / अध्यवसेयं तु सामान्यम्, अतद्रूपपरावृत्तस्वलक्षणमात्रात्मकम् / अनुमानस्य तु विपर्ययः / ततश्च सांव्यवहारिकप्रमाणापेक्षया रूपरसगन्धस्पर्शसमुदायात्मकस्य घटस्य रूपभेदमात्रग्रहणे ऽपि प्रत्यक्षतः समुदायसिद्धिव्यवस्था / तथैकस्यातद्रूपपरावृत्तस्य ग्रहणे ऽपि साध्यसाधनसामान्ययोरतद्रूपपरावृत्तवस्तुमात्रात्मनोरयोगव्यवच्छेदेन विषयभूतयोर्व्याप्तिग्रहो युक्त एव / अत एव विकल्पानामवस्त्वेव विषयः, वस्तु तु तेषां परोक्षमेवेत्यपि दुर्ज्ञानम्, सर्वविकल्पानामध्यवसेयापेक्षया वस्तुविषयत्वात् / शास्त्रे ऽपि तथैव प्रतिपादनात् / न च मनसा तज्जातीयानां व्याप्तिग्रहः शक्यः, मनसो बहिरस्वातन्त्र्यात् / अन्यथा अन्धबधिराद्यभावप्रसङ्गात् / न च वह्निव्यभिचारे धूम उपाधिरहितं आंबन्धमतिक्रामेदिति वक्तुमुचितम्, स्वकपोलकल्पितस्वाभाविकसंबन्धस्य याचितकमण्डनत्वादिति //

यदपि वाचस्पतिजल्पितम्, यो यत्रोपाधिना नियतस्तत्र तस्य स्वाभाविकः संबन्धः / यथा दहने धूमस्य / तदुपाधेर्दृश्यस्यानुपलभ्यमानत्वात् क्वचिद् व्यभिचारस्यादर्शनादित्यत्रेदं विचार्यते / यस्यादर्शनतः स्वाभाविकः संबन्धो व्यवस्थापनीयः, स खलु धूमस्वरूपादर्थान्तरमुपाधिर्वक्तव्यो यथा दहनादिन्धनम् / अर्थान्तरं च किञ्चिद् दृश्यमदृश्यं च किञ्चित्, न तु सर्वमेव दृश्यतानियतम् / ततश्च धूमस्यापि हुताशने स्यादुपाधिः, न चोपलभ्यते इत्युपाधिमात्रानुपलब्धिरनैकान्तिकी / तत्कथमदर्शनमात्रान्नास्त्येवोपाधिः, यतः स्वाभाविकसंबन्धसिद्धिः (#निबन्ध् 110#) स्यात् / दृश्योपाध्यभावसाधने तु सिद्धसाधनम् / परमदृश्योपाधिशङ्कासंभवे स्वाभाविकत्वप्रतिरोधस्तदवस्थ एव / क्वचिद् व्यभिचारादर्शनादित्यसंबद्धमेव, उपाधिवत् व्यभिचारस्याप्यदर्शनमात्रादभावासिद्धेः / व्यभिचारस्य सर्वदेशकालयोः संभवे ऽपि दृश्यत्वे ऽपि सर्वदा सर्वत्र सर्वेण सामग्र्यभावादपि निश्चेतुमशक्यत्वात् / ब्राह्मण्यादिव्यभिचारवदेवाहत्यादर्शने ऽपि देशकालान्तरे तद्दर्शनस्य निषेद्धुमशक्यत्वात् /

ननु यदि धूमस्यापेक्षणीयमर्थान्तरमुपाधिः स्यात् कथं धूम इत्येव पावकसत्तानियम इति चेत् / नन्विदमेव चिन्त्यते किं धूमे सत्यवश्यमग्निः संभवीन वेति / कदाचिदर्थान्तरमुपाधिमपेक्ष्य धूमो ऽपि स्यान्नाग्निरिति किमत्र निष्टब्धं कारणम् / तस्मात् पावकपराधीनोदयो धूमः परिनिष्ठितः कथं तदभावे भावं स्वीकुर्यादित्येव साधु /

अथ व्यक्तौ जातौ वा वह्निव्यभिचारो न दृष्टः, कथं तत्र शङ्कयत इति चेत् / तत् किं स्थाणुव्यक्तौ जातौ वा पुरुषत्वं दृष्टं येन स्थाणौ शङ्कयते / अन्यत्रोर्ध्वतालिङ्गिते दृष्टमिति चेत् / इहाप्यन्यत्र भूयः सहचारिणि पार्थिवत्वादौ दृष्ट एव व्यभिचारः / यत्रैव तु यत् संशय्यते तत्रैव तस्य दर्शनमपेक्ष्यत इत्यलौकिकम् / यदि धूमव्यक्तौ व्यभिचारो दृष्टस्तदा धूमसामान्यं व्याप्तौ बहिर्भूतमेव, कथं संशयः / अथ जातौ दृष्टस्तदापि व्यभिचारनिश्चय एव, कथं संशयः / अतो धूमजातावदृश्यमानो ऽपि व्यभिचार उपाधिर्वा दर्शनायोग्यतया निषेद्धुमशक्य इति संशयो दुर्वारप्रसरः / स चेदानीमुपाधेर्व्यभिचारस्य वा संशयः स्वाभाविकत्वसंशयस्वभावः स्वाभाविकत्वनिश्चयं तावदवश्यं प्रतिबध्नाति / तस्मात् स्वाभाविकत्वनिश्चयप्रतिबन्ध एवार्थतः, निश्चयमन्तरेण गमकस्य स्वयमकिञ्चित्करत्वात् / तदेवमुपाध्यनुपलब्धिर्व्यभिचारस्यानुपलब्धिर्वानैकान्तिकी न तयोरभावं साधयति, यतः संबन्धस्य स्वाभाविकत्वसिद्धिः स्यात् / असिद्धा चेयमुपाध्यनुपलब्धिः / यथा दहनो नेन्धनेन विना धूमेन संबध्यते तथा धूमो ऽपि न तेन विनाग्निना संबध्यत इति समानमुपाधित्वमिन्धनस्योभयत्र /

अथ सिद्धस्याग्नेरिन्धनसाहित्येन धूमलाभ इत्युपाधिव्यवस्था, असिद्धस्य तु धूमस्य तन्निमित्तात्मलाभतयाव्यभिचारात् स्वाभाविकः संबन्ध इति व्यवस्था प्यत इति चेत् / एवमपि सैव तदुत्पत्तिरायाता / सैव स्वाभाविकः संबन्धः / न पुनः प्रतिज्ञासिद्धः सहचारमात्रात्मकः / किं च स्वाभाविकत्वादव्यभिचारः सर्वत्र, सर्वत्राव्यभिचाराच्च स्वाभाविकत्वमितीतरेतराश्रयत्वमनिवार्यम् / यस्य तु सकृत्तदुत्पत्तिप्रतीतिरेव सर्वत्राव्यभिचारप्रतीतिस्तस्य नायं प्रसङ्गः /

यद्येवं ममापि भूयोदर्शनादव्यभिचारसिद्धिरिति चेत् / न / भूय इत्यपरिनिष्ठितवारसंख्यत्वात् कियता दर्शनेन लक्षणानुसारी निर्वृतिमासादयेत् / अस्माकं (#निबन्ध् 111#) तु प्रत्यक्षानुपलब्धौ परिगणितसंख्यावेव / यदाहुः

प्रागदृष्टौ क्रमात् पश्यन् वेत्ति हेतुफलस्थितिम् / दृष्टौ वा क्रमशो ऽपश्यन्नन्यथा त्वनवस्थि(ति)रिति //

यत्त्वनुपलभ्यमानस्यापि कल्पनानुपपत्तेरिति विलपितम्, तद्वालस्याप्यसाम्प्रतम् / अनुपलभ्यमाने ऽर्थे च कल्पनावकाशात् / न हि दृश्यमानो घटः कल्पित उच्यते / न च सन्दिह्यमान उपाधिः संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति युक्तम्, साधकबाधकाभाव एव संशयस्य न्यायप्राप्तत्वात् / अत एव न सर्वत्र शङ्कापिशाचावकाशः / तत्कथं नायं प्रवर्तेतं /

प्रमाणविषये ऽपि शङ्का कर्तुं शक्यत इति चेत् / न / स्वीकृतप्रमाणस्य हि निश्चयफलत्वात् प्रमाणस्याविप्रतिपन्नप्रमाणविषये निश्चयस्वीकारनान्तरीयक एव तत्स्वीकारः / न च शङ्केत्येव न प्रवृत्तिः, अर्थसंशयेनापि प्रवृत्तेरनिवार्यत्वात् स्निग्धान्नपानोपयोगवत् / तदुपयोगे कदाचिन्मरणदर्शने ऽपि कोटिशो जीवितदर्शनात् / न च प्रामाणिकलोलयात्राक्षतिः, प्रामाणिकैरेव प्रमाणाभावे संशयस्य विहितत्वात् / यथादर्शनमाशङ्कनीयमित्याद्यपि सिद्धसाधनम्, अन्यत्र दृष्टस्यैवोपाधेर्व्यभिचारस्य वा शङ्कितत्वात् / किं च बाधकादर्शने ऽपि साधकभावादपि शङ्का स्यादेव /

यदपि स्यादेतदिति वल्गितं तदपि निःसारम् / प्रमाणसिद्धे हि रूपे स्वाभावावलम्बनम् / नतु स्वभावावलम्बनेनैव वस्तुस्वरूपव्यवस्था / तद्यदि नियतविषयान्वयव्यतिरेकग्राहकप्रत्यक्षानुपलम्भप्रमाणसिद्धे हेतुफलभावे स्वभाववादस्तत् किमायातं स्वाभाविकसंबन्धे / यत्र तदुत्पत्तिसामग्रीं हृदयेन दूरीकृत्यान्यतः सहचरितद्वयाद् विशेषंण प्रतीतौ प्रत्युपाय एव देवीयान् / तत्सामग्र्यपेक्षणे च तदुत्पत्तिरेव सा / किमाहोपुरुषिकया नामान्तरकरणेन / केन पुनः प्रमाणेन एष स्वाभाविकः संबन्धो गृह्यत इत्यादिस्तद्ग्रहणप्रकारः पूर्वमेव निराकृतः / तथा स्वाभाविकत्वासिद्धौ स्वभावतश्च प्रतिबद्धा हेतव इत्याद्युपसंहारोपि मनोराज्यमात्रम् / तस्मादर्थान्तरे गम्ये कार्यहेतुस्तद्भावसिद्धिश्च प्रत्यक्षानुपलम्भादिति स्थितम् / तदेवं स्वाभाविकवादेन हृदयानुलेपनमशुचिनेव परिहार्यं दूरत इति /

// व्याप्तिनिर्णयः समाप्तो रत्नकीर्तिपादानाम् //

(#निबन्ध् 112#) // 8 //

// स्थिरसिद्धिदूषणम् //

नमस्तारायै //

यद्योगादन्धवद्विश्वं संसारे भ्रमदिष्यते / सा कृपावशगैः पापा स्थिरसिद्धिरपास्यते //

इह परे सकलपदार्थस्थैर्यप्रसाधनार्थं प्रत्यक्षमनुमानमर्थापत्तिं(च) प्रमाणान्याचक्षते / तथा हि स एवायं घटस्फटिकादिरिति प्रत्यभिज्ञाख्यं प्रत्यक्षमुदीयमानं स्थैर्यमुत्थापयति / न चेदमप्रमाणमभिघातव्यम् / अप्रामाण्यं हि भवदप्रामाण्यकारणोपपत्त्या वा भवेत्, प्रामाण्यलक्षणविरहाद् वा / यद्याद्यः पक्षः किमप्रामाण्यकारणम्, मिथ्यात्वमज्ञानं संशयो वा / न तावदत्र मिथ्यात्वम् / मिथ्यात्वं हि तद्विषये बाधकप्रत्ययाद् वा हेतूत्थदोषतो वा संभाव्येत / न तावद् बाधगन्धो ऽपि संभवति, देशकालनरान्तरेष्वप्यसंभवात् / न चानवगतापि बाधा कदाचिदपि भविष्यतीति शङ्का युक्तिमती, निर्बीजशङ्कानुपपत्तेः /

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् /

इति दत्तावकाशा संशयपिशाची लब्धप्रसरा न क्वचिन्नास्तीति नायं क्वचित्प्रवर्तेत / अन्ततः स्निग्धान्नपानोपयोगे ऽपि मरणदर्शनेन सर्वत्र शङ्कानिवृत्तेः / तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमेव शङ्कनीयं नादृष्टपूर्वमपि / यदुक्तं कारिकायां

नाशङ्का निष्प्रमाणिका /

इति /

बृहट्टीकायामपि

उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् / स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् //

इति /

क्षणभङ्गसाधनं बाधकमस्येति चेत् / न / अनुमानस्य परम्परयापि प्रत्यक्षपूर्वकत्वात् प्रत्यक्षं प्रधानम् / प्राधान्याच्चानुमानस्य बाधकम् / न त्वनुमानमस्य / प्रत्यक्षान्तरं तु बाधकं भवति / यथा सर्पादिप्रत्ययस्य रज्वादिप्रत्यक्षम् / तच्चात्र न संभवति /

ननु प्रत्यक्षे ऽपि बाधके कस्मान्न भवति परस्परप्रतिबन्धेन द्वयोरप्यप्रत्यक्षता / न / अर्थक्रियासमर्थवस्तुविषयाविषयत्वेन समानत्वाभावादेकस्य प्रत्यक्षाभासत्वादिति न (#निबन्ध् 113#) सद्विषयत्वं बाधकप्रत्ययान्मिथ्यात्वम् / नापि हेतूत्थदोषत्तः, देशकालनरान्तरे ऽर्थविसंवादात् / नाप्यज्ञानमप्रामाण्यकारणमत्रास्ति, प्रत्यभिज्ञानसंवेदनसंभवात् / न च संशयः / न हि तदेवेदं स्याद् वा न वेति स्फटिकादिषूदयति मतिः,किं तु तदेवेदं स्फटिकादिकमिति निरस्तविभ्रमाशङ्का / तन्नाप्रामाण्यकारणोपपत्त्या प्रत्यभिज्ञानस्याप्रामाण्यम् / नापि लक्षणक्षयात् / यदेव हि उत्पन्नमसन्दिग्धमदुष्टकारणजन्यं देशकालनरान्तरेष्वबाधितं च तदेव प्रमाणमिति नः सिद्धान्तः / तदुक्तम्

तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति / ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् //

तथा बृहट्टीकापि

तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् / अदुष्टकारणारब्धं प्रमाणं लोकसंमतम् //

इति / एतच्च लक्षणमुक्तन्यायेन प्रत्यभिज्ञाने ऽपि संभवतीति प्रमाणमेवेदम् / नन्विदमेकमेव न भवति, कारणभेदात्, विषयभेदात्, स्वभावविरोधाच्च / तथा हि स इति संस्कारकार्यम्, अयमिति चेन्द्रियकार्यम् / न च कारणभेदे ऽपि कार्याभेदो विश्ववैचित्र्याहेतुकत्वप्रसङ्गात् / तथा सत्यपि स्फटिकः स्फटिक इति व्यपदेशाभेदे पूर्वदेशकालसंबन्धापरदेशकालसंबन्धाभ्यां विरुद्धधर्माभ्यां योगात् स्फटिकः पूर्वापरकालयोर्भिद्यत इति विषयभेदो वक्तव्यः / तथा स इति परोक्षम्, अयमिति साक्षात्कारः / न चानयोः स्वभावविरुद्धयोर्दहनतुहिनयोरिव शक्या शक्रेणाप्येकता आपादयितुम्, त्रैलोकस्यैक्यप्रसङ्गात् / न चास्य प्रामाण्यम्, विकल्पत्वेनावस्तुनिर्भासित्वात्,स्मार्तादविशेषाच्च / तस्मात् प्रत्यभिज्ञा एकत्वं स्थापयति भावानामिति मनोरथमात्रम् //

अत्रोच्यते / एकमेवेदं प्रत्यभिज्ञानं समाख्यातम् / यद्यपीन्द्रियं केवलमसमर्थम्, यद्यपि संस्कारमात्रम्, संस्कारसध्रीचीनं तु इन्द्रियं भावयिष्यति प्रत्यभिज्ञानम्, तद्भावाभावानुविधानात् प्रत्यभिज्ञाभावाभावयोः / न हि नाजीजनद् बीजमात्रमङ्कुरमिति मृदादिसहितमपि न जनयति / अथ भवतु देशकालयोस्तत्संसर्गयोर्वा परस्परनानात्वम्, न तदवच्छिन्नस्य पद्मरागस्य, तस्य ताभ्यां तत्संसर्गाभ्यां चान्यत्वात् //

ततो ऽन्यत्वे तत्संसर्गयोः कुतस्तदीयत्वमिति चेत् / स्वभावादेवेति संसर्गपरीक्षायां निपुणतरमुपपादयिष्यते / न च स्वभावविरोधः, अनुमानस्याप्यनेकत्वप्रसङ्गात् / तदपि हि प्रत्यक्षमप्रत्यक्षं च, अविकल्पो विकल्पश्च, असमारोपः समारोपश्च / स्वानुभवावस्थापिताभेदस्य स्वरूपतद्ग्राह्यभेदापेक्षया प्रत्यक्षादीनामविरोध इति चेत् / न, इहापि साम्यात् / न खल्वेतदपि विज्ञानं (#निबन्ध् 114#) तत्तेदन्ताधिकरणमेकमाभ्यामनुरक्तं स्फटिकं गोचरयदभिन्नं नानुभूयते नावसीयते वा / एकत्वे ऽपि च वस्तुनस्तदनुरञ्जकतत्तेदन्ताभेदापेक्षया प्रत्यक्षतापरोक्षते न विरोत्स्येते, सहसंभवात्, विज्ञानैकत्वस्य च प्रमाणसिद्धत्वात् / न च स इति पूर्वदेशकालसंसर्गो ऽयमिति च सन्निहितदेशकालसंसर्गं एकस्य विरुध्यते, यतो युक्तं यत्पद्मरागस्य स्वरूपे परिच्छिद्यमाने तदभावो व्यवच्छिद्यत इति तदव्यवच्छेदे तत्स्वरूपापरिच्छेदात् स्वप्रच्युतिव्यवच्छेद्यस्वभावत्वात् पद्मरागभावस्य तदनवच्छेदे तत्परिच्छेदानुपपत्तेः //

कस्मात् पुनस्तदन्ये पुष्परागादयो व्यवच्छिद्यन्ते / तदभावाविनाभावादिति चेत् / स एव कुतः / प्रत्यक्षेण कदाचिदपि पुष्परागपद्मरागयोस्तादात्म्यानुपलम्भादिति चेत् / यत्र तर्हि ततस्तादात्म्यप्रतीतिः, न तत्र तदविनाभावः / समस्ति च सो ऽयं पद्मराग इति देशकालावस्थानुगतमेकं पद्मरागमवभासयन्ती साक्षात्कारवती प्रतीतिः / न विकल्परूपतयास्या अप्रामाण्यम्, अभिलापसंसर्गप्रतिभासत्वप्रामाण्ययोरविरोधात् / न चेदं स्मार्तम्, अदेशकालावस्थावतो ऽयं देशकालावस्थानुगतत्वेनाधिक्यादिति //

अथ केशकुशकदलीस्तम्बादौ सत्यपि भेदे प्रत्यभिज्ञानमुत्पन्नमिति चेत् / उत्पद्यतां को दोषः / किमनेन प्रतिपादितं भवति / किं प्रत्यभिज्ञायाः साधारणानैकान्तिकत्वम्, अथ शब्दसाम्यादुभयोरप्यप्रामाण्यम्, उत संशयापादनमात्रम् / प्रथमः पक्षो ऽनभ्युपगमादेव निरस्तः / न हीयमनुमानत्वेनोपन्यस्ता / अनुमानत्वे ऽप्यबाधितत्वादिति विशेषणे न दोष इति प्रतिपादयिष्यामः / नापि द्वितीयः पक्षः, दृष्टान्तमात्रतः साध्यसिद्धेरयोगात् / केशोण्डुकादिविषयस्य चक्षुर्विज्ञानस्याप्यप्रामाण्ये घटादिप्रत्यक्षस्याप्रामाण्यप्रसङ्गात् / संशयमात्रं तु व्यवहारोच्छेदकत्वान्नाश्रयणीयमेवति प्रतिपादितमिति न तृतीयो ऽपिओ पक्षः //

किं च केशादौ यदि प्रत्यभिज्ञा व्यभिचारिणो, कार्यकारणप्रतीतिः किं न व्यभिचारिणी / या व्यभिचारिणो सा कार्यकारणप्रतीतिरेव न भवतीति चेत् / यद्येवं या विसंवादिनी सा प्रत्यभिज्ञैव न भवति तदाभासत्वादिति समानम् / प्रत्यभिज्ञानस्य च सति प्रामाण्ये ऽनुमानादिष्वनन्तर्भावे प्रत्यक्षतैव, संस्कारसहायेन्द्रियान्वयव्यतिरेकानुविधायित्वाच्च / सत्संप्रयोगे सतीन्द्रियाणां भावाच्च / तदियं प्रत्यभिज्ञा अनेकदेशकालावस्थासंबद्धमेकं स्फटिकादिकं गोचरयन्ती स्थैर्यं व्यवस्थापयति //

तथानुमानतो ऽपि स्थिरतासिद्धिः / प्रयोगः - विवादाध्यासितः स एवायं स्फटिकं इत्यादिप्रत्यभिज्ञाप्रत्ययो यथार्थः, अबाधितप्रत्ययत्वात् / यावानबाधितप्रत्ययः स सर्वो यथार्थ उपलब्धः / यथा स्वसंवेदनप्रत्ययः / अबाधितश्चायम् / तस्मात्तथेति / अबाधितत्वं च परोद्भावितक्षणिकत्वसाधनबाधकोद्धारान्निश्चेयम् //

(#निबन्ध् 115#) अथापरः प्रयोगः / विवादाध्यासिता भावाः पूर्वापरकालयोरेकस्वभावाः, अबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायमानत्वात् / यद्यदबाधितप्रत्यभिज्ञया प्रत्यभिज्ञायते तत्सर्वमभिन्नम् / यथा यस्त्वया दृष्टो नीलो ऽर्थः स एव मया दृष्ट इति नीलो ऽर्थः प्रत्यभिज्ञायते / तथा चैते भावाः / तस्मात्तथेति / पूर्वं प्रत्ययस्य धर्मिता, अधुना भावानामिति विशेषः /

किं च सहेतुकत्वाद्विनाशस्य स्थैर्य सिद्धम् / प्रयोगः - विवादास्पदीभूता भावा यथास्वं विनाशहेतुसन्निधेः प्राङ् न विनाशिनः, सहेतुकविनाशत्वात् / यद्यद्धेतुकं तत्तदसन्निधौ न भवति / यथा वह्न्याद्यभावे धूमादिः / सहेतुकविनाशाश्चामी भावाः / तस्मात्तथेति / सहेतुकविनाशत्वं च घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धम् / न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधानमुचितम्, अङ्कुरादिहेतोरपि तथात्वप्रसङ्गात् / शक्यं हि वक्तुमर्थस्याभविष्णुतायामसमर्थो जन्महेतुः, भविष्णुतायां व्यर्थ इति / अपि च अक्षणिकाः सन्तः, कारणवत्त्वात् / यत् कारणवत्तदक्षणिकम् / यथा भावविनाशः / कारणवन्तश्चेमे सन्तः / तस्मादक्षणिका इति /

कारणवत्त्वस्य साध्यविपर्यये वृत्तिशङ्का विनाशस्य सहेतुकत्वमेव निवर्तयतीति प्रसिद्धव्याप्तिकात् कारणवत्त्वादक्षणिकत्वसिद्धिरिति //

तथा शङ्करः स्थिरसिद्धौ प्राह / नोत्पत्त्यनन्तरविनाशी भावः, प्रमेयत्वात्, वस्तुव्यावृत्तिवदिति / अविद्यमानविपक्षत्वादन्वय्येव हेतुः / प्रमेयत्वस्य क्षणिकत्वेन विरोधाभावात् सन्दिग्धव्यतिरेकित्वमिति चेत् / न खलु क्षणिकत्वे कस्यचित्प्रमेयत्वं सिध्यति, क्षणस्थितिधर्मणः प्रमाणकाले ऽपातात् / अतीतस्य च प्रमेयत्वे ऽतिप्रसङ्गादिति /

एवमेव प्रयोगमुपस्तुवन् त्रिलोचनो ऽप्याह / अक्षणिकाः सर्वभावाः, प्रमेयत्वात् / यत् प्रमीयते तदक्षणिकम् / यथा भावविनाशः / प्रमेयाश्च सर्वभावाः / तस्मादक्षणिका इति /

असिद्धो दृष्टान्तधर्मीति चेत् / न / स्वकारणकलापादुत्पन्नवतो भावस्यान्तरेण निवृत्तिप्रसवं सर्वदावस्थानप्रसङ्गात् / तदैव भावो ऽस्ति न पूर्वं न प्रश्चादित्यपि शब्दः क्षणिकपर्यायत्वेनेष्यमाणः क्षणादूर्ध्वं सत्त्वाविच्छेदोपजननमन्तरेण नार्थवान् देवैरपि शक्यः परिकल्पयितुम् / विनाशकालापेक्षया हि क्षणो ऽल्पीयान् कालः / तेन सो ऽस्यास्तीति क्षणिको वक्तव्यः / इतरथा जन्मविनाशयोरेकस्मिन् काले भवतोः तुल्यहेतुकत्वेनैकत्वप्रसङ्गः / एकत्वे तु द्वयोरेकतरः प्रहातव्यः / तत्र जन्मप्रहाणे भावा निःस्वभावाः प्रसज्येरन् / निवृत्तिपरित्यागे च जन्मिनो भावा नित्या इति दुर्निवारः प्रसङ्गः / तत् सिद्धो दृष्टान्तः //

(#निबन्ध् 116#) ननु प्रमेयत्वक्षणिकत्वयोर्विरोधासिद्धेः सन्दिग्धविपक्षव्यावृत्तिकं प्रमेयत्वमिति चेत् / नैतदस्ति / यस्मादर्थं कञ्चित् प्रापयत् प्रत्यक्षं तेन प्रत्यासन्नत्वात्प्रापयति / प्रत्यासत्तिश्च तदुत्पतिरेवावकल्पते, न तादात्म्यम्, साकारनिराकारवादयोरप्रकृतत्वात् / अन्यत्र निराकृतत्वाच्च / सा च नियतवस्तुप्रतिभासाक्षिप्ता कार्यकारणभावलक्षणा प्रत्यासत्तिस्तुल्यकालं प्रमाणप्रमेययोरनुपपन्ना, सव्येतरविषाणयोरिव / ततः प्रमाणमर्थसत्तां बोधयत्तदधीनोत्पादतया बोधयति / कारणभावमात्रानुबन्धित्वाच्च तस्य पूर्वकालसत्तया भवितव्यम् / अतः पूर्वकालसत्त्वेन व्याप्तं प्रमेयत्वम् / पूर्वकालसत्त्वं च क्षणिकत्वे ऽनुपपन्नमिति व्यापकानुपलब्ध्या विपक्षात् क्षणिकत्वाद् व्यावर्तमानं प्रमेयत्वमक्षणिकत्वेन व्याप्यत इति असन्दिग्धो व्यतिरेकः / तदेवमनुमानप्रमाणसिद्धो ऽक्षणिक इति //

एवमर्थापत्तिरप्यस्य साधिका / तथा हि कार्यकारणभावग्रहणं क्रमयौगपद्यग्रहणस्मरणम् अभिलाषः स्वयंनिहितप्रत्यनुमार्गणं दुष्टार्थकुतूहलविरमणं कर्मफलसंबन्धः संशयपूर्वकनिर्णयः बन्धमोक्षः मोक्षप्रयत्नः शुभोदर्के कर्मणि प्रवृत्तिः प्रत्यभिज्ञा कार्यकारणभावः उपादानोपादेयभावप्रभृतयः स्थिरसत्तामन्तरेणानुपपद्यमानाः स्थैर्य साधयन्ति / प्रतिक्षणं भेदे सत्यनुभवितुर्विनष्टत्वे ऽन्यस्य कार्यकारणभावग्रहणाद्यनुपपत्तेरिति कथं क्षणभङ्गशङ्कापि //

अत्राभिधीयते / अप्रमाणमेवायं प्रत्यभिज्ञाख्यो विकल्पो मिथ्यात्वं च सद्विषयत्वबाधकप्रत्ययात् / नन्वस्य बाधकं प्रत्यक्षमसम्भवि, अनुमानं चासमर्थमावेदितमिति चेत् / नन्वस्य प्रत्यभिज्ञानस्य स्वार्थाविनाभावदार्ढ्ये प्रत्यक्षसहस्रेणापि किम् / संवादशैथिल्ये तु बाधकप्रत्यक्षवदनुमानमपि प्राप्तावकाशम्, प्रमाणस्यैव सिद्धिबाधयोरधिकारात् / तथा हि मायाकारः शिरसि निमज्जितं गोलकमास्येन निःसारयतीति प्रत्यभिज्ञा शिरसि च्छिद्रप्रसङ्गसङ्गतेनानुमानेन बाध्यमाना प्रतीतैव / बाध्यमाना न प्रत्यभिज्ञेति प्रस्तुते ऽप्यस्तु / यथावनताकाशप्रतिभासः सर्वसंप्रतिपत्तावपि बाध्य एव तद्वदेकताग्रहः सर्वसंप्रतिपत्तावपि बाध्यो ऽस्तु / तस्मादस्याः प्रत्यक्षताकीर्तनं याचितकमण्डनमात्रमत्राणम् / कथमतः स्थैर्यस्थितिरस्तु / ततश्चानुमानत्वमप्यस्या ध्वस्तम्, उक्तक्रमेण अबाधितत्वविशेषणविरुद्धबाध्यमानतायाः प्रसाधनादिति विशेषणासिद्धो हेतुः / यदापि क्षणभङ्गसाधकं बाधकं नोच्यते अस्यास्तदापीयमप्रमाणमेव, लूनपुनर्जातकेशपाशादौ व्यभिचारोपलम्भात् //

ननूक्तं या व्यभिचारिणी सा न प्रत्यभिज्ञेत्यादि / युक्तमेतत्, यदि कार्यकारणभावप्रतीतिवल्लक्षणभेदः प्रतिपादयितुं शक्येत / यथा ह्यन्वयव्यतिरेकग्रहणप्रवणप्रत्यक्षानुपलम्भादुपपन्नो निश्चयः कार्यकारणभावप्रतीतेरन्यस्तदाभासप्रतीतिरित्यनयोर्लक्षणभेदः, तथा यदि प्रत्यभिज्ञाने ऽपि लक्षणभेदो दर्शितः स्यात्, दर्शयितुं (#निबन्ध् 117#) वा शक्यो व्यभिचाराव्यभिचारोपयोगी, तदा भवतु प्रत्यभिज्ञातदाभासयोर्विवेकः / न त्वेवमस्ति, सर्वत्रात्यन्तसदृशे वस्तुनि पृथग्जनप्रत्यभिज्ञाया एकरसत्वात् //

संवादित्वासंवादित्वे लक्षणभेद इति चेत् / न / अलिङ्गस्य हि विकल्पस्य संवादो नाम प्रमाणान्तरसङ्गतिरर्थक्रियाप्राप्तिर्वा / तत्र न तावदाद्यः पक्षः, पश्चादपि स एवायमिति स्वतन्त्रैकाध्यवसायमात्रादपरस्य प्रमाणगन्धस्याप्यभावात् /

नापि द्वितीयः पक्षः संगच्छते / न हि पूर्वापरकालयोरेकवस्तुप्रतिबद्धा सिद्धा काचिदर्थक्रियाः, भिन्नेनापि तत्समानशक्तिना तादृगर्थक्रियायाः करणाविरोधात् / तथा हि यथैको घटो वारि धारयतीति तत्कालभाविनो ऽप्यन्यस्य देशान्तरवर्तिनो न वारिधारणवारणम् तथा द्वितीयादिक्षणोप्यन्यो यदि वारि धारयति, कीदृशो दोषः स्यात् / विसदृशक्रियायां तु चिन्तैव नास्ति / तत्कथं प्रत्यभिज्ञानस्य संवादसंभवः //

ननु यद्येकं प्रत्यभिज्ञानं बिसंवादि दृष्टमिति सर्वमेव प्रत्यभिज्ञानं विसंवादि शङ्क्यते, तदैकमिन्द्रियज्ञानं केशोण्डुकद्विचन्द्रादौ विसंवाद्युपलब्धमिति घटादिष्वपि सर्वमेव प्रत्यक्षं विसंवादि संभाव्यताम्, इन्द्रियजन्यत्वस्यैकलक्षणस्य सर्वत्र संभवादिति चेत् / न / तत्रापि लक्षणभेदस्य सद्भावात् / तथा हि बहिरर्थस्थिताविन्द्रियार्थकार्यतया साक्षादर्थाकारानुकारित्वं प्रत्यक्षत्वम् / तच्चाभ्यासविशेषासादितपटिम्ना प्रत्यक्षेण निश्चीयते / क्वचित्त्वर्थक्रियाप्राप्तिज्ञानादिति प्रत्यक्षत्वमनवद्यमेव / द्विचन्द्रादौ त्वर्थविनाकृतेन तिमिरादिविप्लुतचक्षुइर्मात्रेण तज्ज्ञानं जनितमिति प्रत्यक्षाभासमेव / द्विचन्द्राद्यर्थाभावस्तु देशकालनरान्तरैर्द्विचन्द्रादेरर्थस्य बाधितत्वादव्याहत इति प्रत्यक्षाभासपरिहारे ऽपि प्रत्यक्षेषु क आश्चासविरोधः / प्रत्यभिज्ञाने ऽपि सर्वमिदमस्तीति न युक्तम् //

यथा हि पूर्वं पावकादौ पाकादिक्रिया प्रतिबद्धा सिद्धा पश्चादनुभूयमाना दहनज्ञानस्य संवादमावेदयति, अन्यथा बाह्यार्थोच्छेदान्निरीहं जगज्जायते, न तथा प्रथमचरमकालयोरेकीमावप्रतिबद्धा काचिदर्थक्रिया उपलब्धिगोचरा पूर्वापरकालयोरेकत्वमन्तरेण वा प्रवृत्त्यादिक्षतिर्येनैकतावग्रहो ऽपि संवादी स्यात् / तदियमनुमानबाधितत्वाद् व्यभिचारशङ्काकलङ्कितत्वाच्चन प्रत्यक्षमनुमानं वेति कथमतः स्थैर्यसिद्धिरनुमानप्रतिहतिर्वा //

यत् पुनर्वाचस्पतिरूवाच संस्कारेन्द्रिययोर्मिलितयोरेव प्रत्यभिज्ञानं प्रति कारणत्वमिति, तदयुक्तम्, भिन्नसामग्रीप्रसूतत्वादनयोर्ज्ञानयोः / तथा हि निमीलिते चक्षुषि स इत्यत्रेन्द्रियविनाकृतस्यैव संस्कारस्य सामर्थ्यमुपलब्धम् / प्रथमदर्शने त्वयमित्यत्र संस्काररहितस्यैवेन्द्रियस्य सामर्थ्यं दृष्टम् / तस्मात् सामग्रीद्वयप्रतिबद्धं (#निबन्ध् 118#) ज्ञानद्वयमिदमवधारितम् / कथमुभाभ्यां मिलित्वैकमेव प्रत्यभिज्ञानमुत्पादितमित्युद्घुष्यते / बीजक्षित्याद्योस्तु पृथक् सामर्थ्यं न दृष्टमित्येकैव सामग्रीत्यङ्कुरो ऽप्येक एवास्तु / तथा पूर्वदेशकालापरदेशकालाभ्यां तत्संबद्धाभ्यामन्यत्वात् पद्यरागस्याभेद इत्यप्यसङ्गतम् / विरुद्धयोर्धर्मयोः पद्मरागादन्यत्वे ऽपि विरुद्धधर्मयोगात् पद्मरागस्य भेदः कथमपह्नयते, त्रैलोक्यैकत्वप्रसङ्गस्य दुर्वारत्वात् / न हि धर्मधर्मिणोरन्यत्वे ऽपि ब्राह्मणत्वचाण्डालत्वे एकाधारे भवितुमर्हत इति पद्मरागस्य भेदो दुरतिक्रमः / तथा च न स्वभावविरोधो ऽनुमानस्याप्यनेकत्वप्रसङ्गात् / तदपि प्रत्यक्षमप्रत्यक्षं चाविकल्पो विकल्पश्चासमारोपः समारोपश्चेत्यप्ययुक्तम् / अनुमानस्य हि परमार्थतः स्वसंवेदनप्रत्यक्षात्मनो ऽविकल्पस्यासमारोपस्वभावस्याप्रत्यक्षत्वविकल्पत्वसमारोपत्वादेः परापेक्षया प्रज्ञप्तत्वाद् विरुद्धधर्माध्यासाभावात् कथं भेदसिद्धिः / स ए वायमिति तु प्रत्यभिज्ञानस्य स इत्यस्पष्टाकारयोगित्वम्, अयमिति स्पष्टाकारयोगित्वमिति विरुद्धधर्मद्वयं भेदकम् //

न चैवं वक्तव्यम् तत्तेदन्तापेक्षया प्रत्यभिज्ञानस्याप्येकस्यैव पारोक्ष्यापारोक्ष्यमविरुद्धमिति / न होदमेकाकारतया व्यवस्थितम्, येनानुमानवदस्यापि पारोक्ष्यापारोक्ष्यव्यवस्थामात्रं स्यात् / यावदतीतार्थाकारानुकारो वर्तमानार्थानुकारश्च स्वधर्मो न भवति तावत्तदर्थगोचरतैव नास्ति / कुतः पारोक्ष्यापारोक्ष्यव्यवहारो भविष्यति / तस्मात् स्पष्टास्पष्टाकारद्वयविरुद्धधर्माध्यासात् प्रत्यभिज्ञानं

प्रत्ययद्वयमेतदिति स्थितम् //

तथा सहेतुकविनाशत्वादयमप्यसिद्धो हेतुः / यत्पुनरत्रोक्तम् सहेतुकविनाशत्वं घटस्याग्निधूमयोरिव प्रत्यक्षानुपलम्भतो मुद्गरघटविनाशयोरपि कार्यकारणभावसिद्धौ सिद्धमिति, तदसङ्गतम्, अग्निधूमयोर्द्वयोरपि दृश्यत्वात्, प्रत्यक्षानुपलम्भतो धूमस्य वह्निकार्यता सिध्यतु / विनाशशब्दवाच्यस्त्वर्थो न कश्चिदिदन्तया दृष्टः / कर्परमेव घटमुद्गराभ्यामुत्पद्यमानमुपलब्धम् / यदाहुर्गुरवः

दृष्टस्तावदयं घटो ऽत्र च पतन् दृष्टस्तथा मुद्गरो दृष्टा कर्परसंहतिः परमतो नाशो न दृष्टः परः / तेनाभाव इति श्रुतिः क्व निहिता किं वात्र तत्कारणं स्वाधीना पलिघस्य केवलमियं दृष्टा कपालावलिः //

तदयमभावो दृश्यानुपलब्धिबाधितः कथं प्रत्यक्षतो मुद्गरादिकार्यमवधार्यः //

यत्पुनरस्मिन्नदृश्यमाने ऽपि दृश्यत इति वाग्जालं सा भण्डविद्या / तद्वचनाद् गृह्णान्नपि पशुरेव / तथा हि

कस्यचित् प्रतिभासेन साध्यते ऽप्रतिभासि यत् / प्रतिभासो ऽस्य नास्येति नोपपत्तेस्तु गोचरः // इति /

(#निबन्ध् 119#) अथैवं वक्तव्यम् किमन्येन ध्वंसेन, कर्परमेव घटध्वंसो ऽस्तु, तथा च सति मुद्गराद्यभावे कर्पराभावात् घटस्थैर्यमव्याहतमिति / दुराशा खल्वेषा / तथा हि यथा नाशशब्देन कर्परमुच्यते तथा यद्यभावशब्देनापि कर्परमेवोच्यते तदैकत्र प्रदेशे घटमेकमपनीय घटान्तरन्यासे तत्रापनीतघटस्याभावव्यवहारो न स्यात्, तत्प्रध्वंसकपालयोस्तत्रानुत्पादात् / तस्माद्यथापनीतघटस्य प्रच्युतिमात्रापेक्षया न्यस्तघटे ऽभावव्यवहारस्तथा मुद्गरादिकारणाभावात् प्रध्वंसकर्परयोरनुत्पादे ऽपि प्रच्युतिमात्रापेक्षयैव प्रतिक्षणमन्यान्यत्वव्यवहारो घटस्य सिध्यतीति कुतः स्थैर्यसिद्धिः / तस्मात् प्रध्वंसकर्पराभावे ऽपि प्रच्युतिमात्रात्मकभावापेक्षयाप्यस्मन्मतमव्याहतम् / यदाहुर्गुरवः

आस्तां कर्परपंक्तिरेव कलशध्वंसो न चेयं पुरा तेन स्थैर्यमपि प्रसिध्यतु ततो भिन्नेन नाशेन किम् /

अत्रोत्तरम्,

नाशः सैव यथोच्यते यदि तथाभावो ऽपि कुम्भान्तर् अन्यासे ऽभाववचः कथं मतमतः सिध्यत्यभावो ऽपि न //

इति /

ननु यदि स्वहेतुजनितो नाशो नास्ति, कथं क्वचिदेव देशे काले घटो नष्ट इति प्रतीतिनियमः / न च मुद्गरादन्यो नाशस्य हेतुर्वक्तव्यः, प्रागपि नाशसंभवे नष्टघटबुद्धिसंभवप्रसङ्गात् / यदाहुः

नाशो नास्ति यदि स्वहेतुनियतः किं देशकाले क्वचित् कुम्भो नष्ट इति प्रतीतिनियमस्तेनास्ति कार्यश्च सः / नाप्यन्यत् किल कारणं रयवतो दण्डात्पुराप्यन्यथा नाशोक्ता न कृता विनष्टघटधीः केनोद्धुरा वार्यते //

इति चेत् / तर्हीदानीमर्थापत्त्या प्रध्वंसं प्रसाध्य मुद्गराधीनत्वमस्य साधयितुमारब्धम् / तथा च सति धूमाग्निवत् प्रत्यक्षतः प्रध्वंसस्य मुद्गरादिकार्यत्वं सिद्धमित्युत्फुल्लगल्लमुल्लपितं व्यालुप्तम् //

न चार्थापत्तितो ऽपि तत्सिद्धिः संद्यपते, कुम्भो नष्ट इति प्रतीतेरन्यथाप्युपपद्यमानत्वात् / विनाशं विनापि हि घटदर्शनवतो मुद्गरकृतकपालानुभव एवनष्टघटावसायसाधनः, किमपरेण नाशेन कर्तव्यम्, घटो नष्ट इति बुद्धेर्घटनिश्चयपूर्वकमुद्गरकृतकपालानुभवमात्रान्वयव्यतिरेकानुविधानदर्शनात् / न चेयं सामग्रीपूर्वमप्यस्ति / मुद्गराभावे कर्परपंक्तेरेवाभावात् कथं प्रागपि नष्टघटबुद्धिप्रसङ्गः संगतो नाम / यदाहुर्गुरवः

दृष्टे ऽम्भोभृति मुद्गरादिजनिता दृष्टा कपालावली सङ्केतानुगमाद्विनष्टघटधीस्तावत् समुत्पाद्यते / (#निबन्ध् 120#) सामग्र्यामिह नाशनाम न किमप्यङ्गं न चास्यामपि स्यादेषा न कदापि नापि च पुराप्येषा समग्रा स्थितिः //

अर्थापत्तिरतो गता क्षयमियं न ध्वंससिद्धौ प्रभुः // इति //

यदि नाशानुभवो नास्ति कपालानुभवात् कपालकल्पनैव स्यात्, न नष्टघटबुद्धिरिति चेत् / तदेतदतिसाहसम्, घटनिश्चयपूर्वककपालवलयदर्शनादेव नष्टघटबुद्धेः साक्षादेवानुभूयमानत्वात् / तदपलापे धूमादीनामपि दहनादिपूर्वकत्वनिश्चयो न स्यादित्यतिप्रसङ्गः //

ननु घटो नष्ट इति बुद्धिर्विशेष्यबुद्धिः / सा च विनाशं विशेषणमाक्षिपतीति चेत् / तदसत्, यतः

स्वबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् /

उच्यते / न चाविद्यमानमदृश्यं वा स्वबुद्ध्या किञ्चिद्रञ्जयति / प्रयोगो ऽत्रयस्य न स्वरूपनिर्भासस्तन्न कस्यचित् स्वानुरक्त प्रतीतिनिमित्तम् / यथा करिकेशरः / नास्ति च स्वरूपनिर्भासो ध्वंसस्येति व्यापकानुपलब्धिः / नास्या असिद्धिः, अभावस्य स्वरूपेणैवेदन्तया निर्भासाभावात् / न च विरुद्धता, सपक्षे भावात् / नाप्यनैकान्तिकत्वम्, प्रतिभासाभावे ऽपि स्वानुरक्तप्रतीतिहेतुत्वे शशविषाणादेरपि तथात्वं स्यादित्यतिप्रसङ्गः /

ननु

न ध्वंसेन विना विनश्यति जगद् भावेन सार्धं सचेत् सच्चासच्च किमस्तु वस्तुनियतं भावानुजो ऽसौ ततः / भावात् तेन तु भिन्नकारणतया तत्कारणासंभवे ऽभावात्तेन कृतान्यतापि गलिता भङ्गः कुतो ऽनुक्षणम् //

अत्रोच्यते / कारणान्तरादुत्पद्यमानो ध्वंसो ऽभिन्नो भिन्नो वा / नाद्यः पक्षः, भिन्नकारणत्वात्, तैरनभ्युपगतत्वाच्च / अथ द्वितीयः पक्ष / तदा कः पुनर्भावस्य प्रद्वेषो येन प्रध्वंसाख्ये वस्तुनि स्वहेतोरुत्पन्ने निवर्तते नाम //

यत्पुनरेतदुच्यते - नाभावस्योत्पादे भावस्यापरा निवृत्तिः, किं त्वभावोत्पत्तिरेव तन्निवृत्तिरिति / कथमन्यस्योत्पादे ऽन्यस्य निवृत्तिः / अत्र स्वभावभेदैरुत्तरं वाच्यम् ये परस्परपरिहारस्थितयः स्वहेतुभ्यो जायन्ते / न हि स्वतो ऽन्यस्याङ्कुरस्य वह्निर्न कारणमित्यन्यत्वाविशेषाद् भस्मनो ऽपि न कारणम् / स्वभावभेदेनतु कार्यकारणभावसमर्थनं परस्परपरिहारस्थितिनियमे ऽपि तुल्यम् / यथा चोत्पादस्य पुरस्तादखिलसामर्थ्यरहितस्याङ्कुरप्रागभावस्यापकारं कञ्चिदकुर्वन्तो ऽपि बीजादयो ऽङ्कुरमारभमाणाः प्रागभावं निवर्तयन्ति, तदुत्पादस्यैव तत्प्रागभावनिवृत्तिरूपत्वात्; एवं तदभावहेतवो ऽपि भावरूपे ऽकिञ्चित्करा (#निबन्ध् 121#) अपि तदभावमादधानास्तन्निवर्तयन्ति, अभावोत्पादस्यैव भावनिवृत्तिरूपत्वात् / तेन पूर्ववन्नार्थक्रियाकरणप्रसङ्ग इति / तदुचितं स्याद् यदि कार्यकारणयोरिवास्या प्यात्मा प्रमाणप्रतीतः स्यात्, केवलं दृश्यानुपलम्भग्रस्ते ऽप्येतस्मिन्नुपलभ्यत इति प्रलापो व्यक्तमियं भण्डविद्येत्युक्तम् / अर्थापत्तिरपि क्षीणेत्यपि प्रागभावस्य च दृष्टान्तत्वेनोपन्यासो भण्डालेख्यन्यायः /

किं च कः पुनरत्र विरोधः

सहस्थानाभावो यदि तव विरोधो ऽर्थविपदोः सहस्थानासङ्गः क्षणमपि यथा शीतशिखिनोः / स च ध्वंसो ध्वंसान्तरमुपनयन् संप्रति भवेद् विरोधी सो ऽप्यन्यं क्षयमिति न नाशः कथमपि //

अन्यथा सिद्धसत्तामात्रेण विरोधित्वे सर्वं सर्वेण विरुद्धं प्रसज्येत / स्वभावालम्बनमप्यदर्शनादेव निरस्तमिति /

अथान्योन्याभावप्रकृतिकतयार्थे सतो तदा क्षयस्यैवाभावः सह भवतु वा हेतुबलतः / अनेन ध्वंसे च प्रकृतहतिरस्य त्वनुदये बलीयानेवार्थः स्वयमपचये ऽन्येन किमिह //

सच्चासच्च किमस्तु वस्त्विति तु प्रसङ्गः त्रिलोचनप्रस्तावे निराकरणीयः / अत एवात्र प्रस्तावे भुवनैकगुरून् भगवतः कीर्तिपादानवमन्यमानः शङ्करः पशोरपिपशुरिति कृपापात्रमेवैष जाल्मः /

यदप्याह त्रिलोचनः भावव्यतिरिक्तां निवृत्तिमनिच्छद्भिरशक्या स्वरूपनिवृत्तिरवस्थापयितुम् / या हि तस्य प्राक्तनी काचिदवस्था भवद्भिरर्थक्रियानिर्वर्तनयोग्या दृष्टा सैव यद्युत्तरकालमप्यनुवर्तते तर्हि स्वरूपेणैव निवृत्तो भावः कथमवस्थाप्यते / तदानीमयं नष्टो नाम यदि स्वहेतुप्रतिलब्धस्वरूपव्यतिरेकिणी तस्य काचिदवस्थोत्पद्येत, उत्पत्तौ सैव तस्यात्मान्तरं जातमित्यतादवस्थ्यमेवास्य विनाशं ब्रूमः / तादवस्थ्ये तादात्म्ये च स्वरूपेण निवृत्तो भाव इत्यस्य शब्दस्य सत्यमर्थं न विद्मः / स्वरूपनिवृत्तिः खल्वियं भवन्ती भाव एव स्यात्, भावादन्या वा / तत्त्वे स्वकारणेभ्यो निष्पन्नस्यार्थस्यान्यथानुपपत्तावुत्पत्तेरारभ्य सत्त्वान्नित्यत्वं प्रसज्येत / अन्यत्वे च तदेव निवृत्तेरन्यत्वनिवृत्ति(रिति) प्रियमनुष्ठितं प्रियेण / तस्मादुत्सृज्य विभ्रमं नाशोत्पत्तिरेव नष्टत्वमभ्युपगन्तव्यमिति /

(#निबन्ध् 122#) तदेतदज्ञानफलम् / तथा हि

स्वकारणादेव यथान्यदेशविच्छिन्नरूपः समुदेति भावः / विच्छिन्नभिन्नक्षणवृत्तिरेवं स्वकारणादेव न जायते किम् //

अभावतो ऽर्थान्तररूपबाधे तत्रापि चार्थान्तरमीक्षणीयम् / प्रदीपदृष्टान्तमतं न कान्तं स्वरूपसंदर्शनविप्रयोगात् //

यथा हि देशान्तरपरावृत्तमनीलादिपरावृत्तं च स्वहेतोरुत्पन्नं वस्तु तथा द्वितीयक्षणान्तरपरावृत्तमपि / यथा चान्यदेशानवस्थायित्वं तद्देशावस्थायित्वेनाविरुद्धम्, विरुद्धं च देशान्तरावस्थायित्वेनैव तथा द्वितीयक्षणावस्थायित्वं प्रथमक्षणावस्थायित्वेनाविरुद्धम्, विरुद्धं पुनर्द्वितीयक्षणावस्थायित्वेनैव / केवलं देशान्तरद्वितीयक्षणयोस्तत्प्रच्युतिमात्रं व्यवह्रियते / तदन्योन्याभावप्रध्वंसाभावयोः पदार्थयोः सद्भावे ऽप्यवार्यम्, अभावान्तरास्वीकारे ऽपि भावाभावयोरप्यमिश्रत्वास्वीकारे तादात्म्यप्रसङ्गात् / तस्माद् भावाभावयोस्तादात्म्यमिति / यथार्थक्रियाकारित्वस्य तद्देशवर्तित्वनीलत्वादिभिन्नविरोधस्तथा द्वितीयक्षणानवस्थायित्वेनापीति विवक्षितम् / परमार्थतस्तु धर्मिधर्मयोस्तादात्म्यं व्यावृत्तिकृतो भेदव्यवहार इति अपोहसिद्धौ प्रसाधितम् / एतच्चोक्तक्रमेणाविरुद्धमापादितम् / एतावति तु तत्त्वे वाक्छलमात्रप्रवृत्ता द्वेषविषज्वलितात्मानः क्षुद्राः प्रलपन्तीति किमत्र ब्रूमः /

ततश्च व्यतिरिक्तनिवृत्त्युत्पत्तिमन्तरेण स्वरूपनिवृत्तेरुपपत्तेः कथं क्षणादूर्ध्वं प्राक्तनसत्तावस्थितिः / तस्मादुत्सृष्टविभ्रमं नष्टव्यवहारमात्रमस्तु, न त्वस्यान्यत् किञ्चिज् जायेत, भावस्य तादवस्थ्यप्रसङ्गात् / अभावः कथं निषिध्यत इति चेत् / न, तदनुत्पत्तिमात्रविषयस्य वाचानिश्चयेन च पश्चादभावव्यवहारमात्रप्रवर्तनस्येष्टत्वाद् वस्तूत्पत्तेरेव निषिद्धत्वात् /

ननु केयं वाचोयुक्तिः, अभावव्यवहारमात्रमिष्यते पश्चान्नाभाव इति / एवं सति विसंवादिताप्रसङ्गो ऽभावव्यवहारस्य / अभावश्च मिथ्येति भाव एव प्रतिषेध्यस्य स्यात् / स चाभावः पश्चा(द्) भवतीति स्फुटतरमस्य कादाचित्कत्वात्सहेतुकत्वम्, वस्तुत्वं चेति / असदेतत्, अभावाख्यवस्त्वन्तरास्वीकारे ऽपि प्रच्युतिमात्रापेक्षयापि व्यवहारस्य चरितार्थत्वप्रतिपादनात् /

यत्तु तद्विविक्तभूतलादेर्विषयत्वमाशङ्क्योक्तम्, न भूतलादेर्वस्त्वन्तरत्वात् / न च वस्त्वन्तरे प्रतिपादिते प्रतीते वा घटादि वस्तुभूतमिति प्रतिपादितं प्रतीतं (#निबन्ध् 123#) वा भवति / एवं वस्त्वन्तरमेव नाश इति अस्मिन् मते यद् दूषणमुक्तं तत् स्वयमेव परिहृतं स्यादिति, तदप्यसंबद्धम्, केवलं हि भूतलमस्य विषय इति कथं न घटादेरभूतत्वबोधः / यैव हि घटाद्यपेक्षया कैवल्यावस्था प्रदेशस्य स एव घटविरहः / वचनादिनाप्येवं केवलप्रदेशप्रतिपादने कथमिव न प्रकृतघटाद्यभावप्रतिपादनम् / कैवल्यं चासहायप्रदेशादव्यतिभिन्नमेव //

न चेह घटो नास्तीति प्रत्ययस्य घटवत्यपि प्रदेशे प्रसङ्गः, स्वहेतोस्तथोत्पन्नस्य सघटप्रदेशस्य केवलप्रदेशादन्यत्वात् / न च प्रत्यभिज्ञानतः सघटाघटप्रदेशयोरेकत्वम्, पूर्वमस्य निराकरणात् / न च विनाशहेतोरसामर्थ्यवैयर्थ्याभिधाने ऽङ्कुरादिहेतोरपि तथाभिधातुमुचितम् / असिद्धे हि कार्ये हेतोराश्रयणमवार्थम् / सिद्धे चेयं चिन्ता, यदि हेतोर्नित्यो ऽनित्यो वार्थो जातः किं नाशकारणेनेति हेतुपुरस्कारेणैव प्रवृत्तेः / न चैवमसिद्धे ऽङ्कुरादौ कार्ये शक्यमभिधातुम्, स्वरूपस्यैवाभात् तद्धर्मकत्वा(तद्) धर्मकत्वादिपर्यनुयोगस्य निर्विषयत्वात् //

ननु त्वयापि भावाभावयोर्लक्षणभेदो ऽभिहितः / तत्कथमेकत्वं सर्वार्थानाम् / लक्षणभेदादेव भेदव्यवस्था / ततो ऽपि चेन्न भेदव्यवस्थितिः, न कस्यचित् कुतश्चिद् भेदव्यवस्थितिरित्यद्वैतप्रसङ्ग इति चेत् / न / यो हि नश्वरस्वभावः स एव नाशोः, नश्यतीति बहुलाधिकारात् कर्तरि घञः प्रसाधनात्, तं नाशं भावस्वभावमिच्छामः / नशनं नाश इति तु प्रसज्यात्मा द्विधा कर्तव्यः / तत्त्वतस्तावद् वस्तुत्वविरहात् तत्त्वान्यत्वविरहित एवासौ भावो न भवतीति तद्भावनिषेधमात्रपातं तु भवति खरशृङ्गादिवत् / संवृतौ तु यथा कालभेदेन विकल्प्यमानः कादाचित्क इव प्रतिभाति तथा सर्वोपाख्याविरहरूपतया भावाद्भिन्न इव प्रतिभातीति नावस्तुत्वोपलक्षणभेदाख्यानविरोधः / एवं च सति संवृत्त्या लक्षणभेदे भावाभावयोर्भेदस्येष्टत्वात् / तत्वेन च लक्षणैकताविरहे भावस्य तेनैक्यनिषेधात् कथमद्वैतप्रसङ्गोपालम्भः //

स्यादेतत् / न च विवेकाप्रतीतौ तद्विविक्तग्रहणं भवति / तद्विवेकश्च न भूतलादिस्वरूपमेव विशेषणत्वादिति / तदेतन्न्यायबहिष्कृतम् / विशेषणविशेष्यभावो हि सङ्कल्पारुढे रूपे बाह्यार्थस्पर्शे विकल्पशब्दलिङ्गान्तराणां वैयर्थ्यप्रसङ्गादिति शास्त्रे विस्तरेण प्रतिपादनात् / स च सङ्कल्पो ऽभिन्नमपि भावं भिन्नमिवाकलयति / यथा शिलापुत्रकस्य शरीरम्, शरीरे करणादयः, लम्बकर्णो देवदत्त इत्यादि / तस्मात् कल्पनाधीनो विशेषणविशेष्यभावः / अभिन्ने ऽपि भावे भेदविवक्षापेक्षो भेदव्यवहारः कथं भेदनियतमात्मानमातनोतु //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.