Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सारतम

Tác giả
रत्नाकरशान्ति
Thông tin
GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तथा हि द्वौ पर्यन्तौ पूर्वा च कोटिरपरा च / तौ च न स्तः सर्वधर्माणाम् / अतीतानगतयोरसत्त्वात् / तस्मादपर्यन्ताः सर्वधर्माः / तद्वत्प्रज्ञापारमितापि / प्रज्ञापारमिताया अनुत्पादता / कुतः? सर्वधर्मानुत्पादतया / तथाहि निःस्वभावाः सर्वधर्माः / तस्मान्नोत्पद्यन्ते खरविषाणवत् / तस्मादनुत्पादाः / तद्वत्प्रज्ञापारमितापि / अनिरोधा प्रज्ञापारमिता / कुतः? सर्वधर्माणामनिरोधतया / न ह्यमी निरुध्यन्ते ऽसत्त्वात् खरविषाणवत् / तद्वत्प्रज्ञापारमितापि / प्रज्ञापारमिताया अपर्यन्तता / केनोपमानेन? गगनापर्यन्ततया / तथाहि गगनस्य नास्ति पर्यन्तो दशसु दिक्षु त्रिषु चाध्वेषु / एवं प्रज्ञापारमितायाः / [या] दशदिक्त्रैयध्विका सर्वधर्मतथतामात्रप्रथनात् / समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति / यथा ह्याकाशस्य नास्त्यन्तस्तथैव दशदिग्लोकधातूनां किम्पुनरनन्तेषु लोकधातुषु समुद्राणाम् / ततः सिद्धा समुद्रापर्यन्तता / तद्वत्प्रज्ञापारमितायाः / तथा हि या तेषां समुद्राणां तथता या च सर्वधर्माणां या च प्रज्ञापारमितायाः, एकैवैषा तथता / तथतालम्बना च प्रज्ञापारमिता / तस्मात्समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति सिद्धम् /

ननु स्वप्नोपमतयापि ज्ञानं प्रज्ञापारमिता गगनोपमतयापि / तत्र पूर्वा विचित्रप्रतिभासा उत्तरा निराभासा / कथमनयोरेकार्थतेत्यत आह / मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति / यथा ह्येकरसमाकाशं प्रकृत्या तथापि (rst_201) मेरुपार्श्वानां विचित्राणामाधिपत्यात्तद्वदेव विचित्रं ख्याति / एवमेकरसैव तथता न विचित्रा / तथतालम्बना च प्रज्ञापारमिता / यस्तु स्वप्नोपमादिज्ञाने विचित्रप्रतिभासः सो ऽभूतपरिकल्पधर्मः / तस्मात्स्वप्नोपममायोपमादिज्ञानं संवृतिः / निराभासे या च परिमार्थिके ज्ञाने सत्त्वनामवतारणाय निर्दिश्यते, निराभासपृष्ठभावी चाविकल्पोयं तदनुभूतनिश्चयार्थः / तस्मात्सिद्धमिदं मेरुविचित्रतया प्रज्ञापारमिताविचित्रतेति /

ननु सैव निराभासा प्रज्ञापारमिता स्वयमनुभूयमानं परमार्थमित्थं निश्चिनोति निःस्वभावाः सर्वधर्मा इति / तत्कथमसौ निर्विकल्पेत्यत आह / गगनाकल्पनतया प्रज्ञापारमिताकल्पनतेति / प्रज्ञापारमिताया याकल्पनता न सा किञ्चिद्विकल्पयति विकल्पपारगतत्वात् / तद्यथा गगनं न किञ्चिद्विकल्पयति जडत्वात् / अजडा प्रज्ञापारमिता किन्न विकल्पयतीति चेत् / उक्तमत्र / विकल्पश्च भ्रान्तिरभ्रान्ता च सा / तस्मान्न विकल्पयतीति सिद्धम् /

रूपापर्यन्ततया प्रज्ञापारमितापर्यन्ततेति / यथा ह्याकाशमपर्यन्तं तथारूपस्कन्धोपि / यत्रान्यद्रूपं नास्ति तत्रावश्यं तमः प्रकाशो वास्ति / तद्वत्तदीयतथताप्रतिभासिनी प्रज्ञापारमिताप्यपर्यन्तता / यथैव समुद्रापर्यन्ततया प्रज्ञापारमितापर्यन्ततास्माभिर्व्याख्याता तथैव सत्त्वानामानन्त्यात् वेदनापर्यन्ततयापि संस्कारपर्यन्ततयापि विज्ञानापर्यन्ततयापि पृथिवीधात्वपर्यन्ततयापि अप्धात्वपर्यन्ततयापि तेजोधात्वपर्यन्ततयापि वायुधात्वपर्यन्ततयापि आकाशधात्वपर्यन्ततयापि विज्ञानधात्वपर्यन्ततयापि व्याख्यातव्या / अथ या विज्ञानस्कन्धापर्यन्ततया या च विज्ञानधात्वपर्यन्ततया तयोः को विशेषः? स्कन्धधातुशब्दाभ्यां प्रयोगकृतः /

वज्रोपमधर्मसमतया प्रज्ञापारमितासमतेति / चित्तधारणाद्धर्मः समाधिः / तस्य या सर्वधर्मेषु समता तयोमानेन प्रज्ञापारमितायाः समता सर्वधर्मेषु सर्वधर्मासम्भेदनतया प्रज्ञापारमितासम्भेदनतेति सर्वधर्माणामसम्भेदो अभेदः / भेदकानां स्वलक्षणानामभावात् / तद्वत्प्रज्ञापारमिताया अपि न भेदः / सम्वेद्यमानेनैव रूपेण तेषां तस्यामभावात् / सर्वधर्मानुपलब्धितया प्रज्ञापारमितानुपलब्धितेति / सर्वधर्मा न किञ्चिदुपलभन्ते / रूपस्य जडत्वात् / शेषाणामप्यात्मनि परत्र वा ग्राहकत्वायोगात् / नाप्युपलभ्यन्ते ग्राहकाभावात् / तद्वत्प्रज्ञापारमितापि नोपलभते नाप्युपलभ्यते / तस्मात्तेषां तस्याश्चानुपलब्धिता / सर्वधर्माविभावनासमतया प्रज्ञापारमिताविभावनासमतेति / विभावनां परेभ्यो (rst_202) वाचा देशना / सा सर्वधर्माणां न विद्यते तस्मादविभावनया समता तेषाम् / तद्वत्सर्वालम्बनेषु प्रज्ञापारमिताया अविभावनासमता / सर्वधर्मनिश्चेष्टतया प्रज्ञापारमितानिश्चेष्टतेति / चेष्टा ईहाव्यापारः / अव्यापारः सर्वधर्माः / कथं तर्हि कश्चित्कुतश्चिदुत्पद्यते? इदंप्रत्ययमात्रेण / अस्मिन् सतीदं भवति, असति न भवतीत्येतावता हेतुफलभावः / तस्मादमी निश्चेष्टाः तद्वत्प्रज्ञापारमितापि / सर्वधर्माचिन्त्यतयापि प्रज्ञापारमिताचिन्त्यतेति / यथा हि धर्माः परेभ्यो न देश्यन्ते निर्विषयत्वाद्वाचः / तथा स्वयमपि न चिन्त्यन्ते न निरूप्यन्ते वाग्विकल्पयोरेकार्थत्वात् / तद्वत्प्रज्ञापारमिताप्यचिन्त्या / वेदितव्येत्यन्ते यत् पठ्यते तत्सर्वधर्मसमतादिवाक्येषु सर्वेषु सम्बध्यते ऽन्तर्दीपकत्वात् /

अथ खल्वित्यादि / अथेति देशनापरिसमाप्तौ / तथा निषण्णस्वंवेति श्रुतासनादनुत्थितस्य / अथेत्युद्देशः / कृतः / तस्यैव निर्देशः तस्यां वेलायामिति / येनैव क्रमेण यैरेवाकारैः प्रज्ञापारमिता देशिता तेनैव क्रमेण तैरेवाकारैस्त्रिंशत्समाधय उत्पन्ना इति समुदायार्थः / तत्र सर्वधर्मसमताद्याकारत्वात्समाधयस्तथा व्यपदिश्यन्ते / कथममी आकाराः? एभि प्रकारैर्वस्तुज्ञानात् / यथोक्तम्-

वस्तुज्ञानप्रकाराणामाकार इति लक्षणम् /

इति / किं तर्ह्यालम्बनम्? तदेव वस्तु यथास्वम् / अथवा सर्वधर्मसमतादिरेवालम्बनम् / तदालम्बनत्वात्समाधयस्तथोक्ताः / वस्तून्यधिष्ठानि / आकारो यथास्वं निर्निमित्ततादिः / एवं प्रमुखानीति त्रिंशत्समाधिप्रमुखानि / कथमेषां प्रमुखत्वम्? एभिरवशेषाणामाक्षेपात् / शतसहस्राणीति लक्षाणि //

धर्मोद्गतेन लक्षितः परिवर्तस्तत्परिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकत्रिंशत्तमः परिवर्तः //

32. परीनन्दनापरिवर्तो नाम द्वात्रिंशत्तमः /

सहप्रतिलब्धानामित्यादि / अनेन लब्धानां समाधीनां तत्कालजमनुशंसमाह / अत एव सहशब्दः समानकालतार्थः / प्रतिलब्धानामिति (rst_203) प्रतिलब्धेषु सत्सु / एभिरेव नयेरिति यथोक्तवस्तुभिरष्टाभिरभिसमयैः / एभिरेव नामभिरिति सर्वाकारज्ञतादिभिः / सर्वासु च जातिषु न जातु बुद्धविरहितो ऽभूदित्युद्देशः / अस्य निर्देश उत्तरो ग्रन्थः स्वप्नान्तरगतोपीति यावत् /

तत्र खल्वित्यादिरुपोद्घातः परीन्दनायाः / तदनेनापि पर्यायेणैति सदाप्ररुदितवृत्तान्तेनापि / तस्मात्तर्हीत्यादिना अनुशासनीशब्दपर्यन्तेन प्रथमा परीन्दना / अत्र च तथागताधिष्ठानेनेति वचनं किमर्थम्? महार्थत्वाभ्दगवती बव्हन्तराया च विना बुद्धाधिष्ठानेन लिखितुमपि [न] शक्येति प्रदर्शनार्थम् / इयमस्माकमनुशासनीतीयमस्माकं परीन्दना / यथा अस्याः श्रवणादिकं न विच्छिद्यते तथा त्वया कर्तव्यमित्यर्थः / तत्कस्य हेतोरिति / तत्परीन्दनं केन प्रयोजनेनेत्यर्थः / अत आह / अत्र हीत्यादि /

तत्कथमित्यादिना द्वीतीयपरीन्दनाया उपोद्घातः / अस्मिन् मम समुच्छय इति मम शरीरे / तथतदिति / एतत्प्रेमादिकम् / एतेनोपाद्घातेन द्वे परीन्दने / यत आह द्विरपि त्रिरपीति / परीन्दामीति समर्पयामि / अनुपरीन्दमीत्यानुकूल्यं समर्पयामि / कथं परीन्दनेत्यत आह यथेयमित्यादि / अन्यः पुरुष इत्यभक्तः / कस्मादस्यामेतावद्गौरवमित्यत आह / यावदित्यादि बहुविधाश्च पूजाभिरिति यावत् /

भगवत्याः परिसमाप्तिमुद्योतयन् सङ्गीतिकार आह / इदमवोचदित्यादि / इदमिति प्रज्ञापारमितासूत्रम् / अवोचदिति भाषितवान् / भगवानिति शास्ता / परार्थरसिकास्तथागताः / परार्थ च परार्थक्रिया भगवत्या देशना / तत आह / आत्तमना इति / निरुत्तरधर्मदेशनया प्रीतः सन्नित्यर्थः / श्रोतारः किमुकुर्वन्नित्याह / भगवतो भाषितमभ्यनन्दन्निति / अभिपूर्वो नन्दिः सकर्मकः / स कदाचिदभिलाषे वर्तते / कदाचित्प्रीतौ / यदा प्रीतौ तदा तदालम्बनमेवास्य कर्म भवति / तत्पुनः कर्म भगवतो भाषितम् / एषैव देशना / के पुनस्ते श्रोतार इत्याह / ते चेत्यादि / लोकः सत्त्वसमूहः / स च श्रोतॄणां राजगृहस्य च प्रकृतत्वान्मनुष्यसमूह एव केवलो गम्येत / तथा मा भूदिति विशेषणं क्रियते / सदेवमानुषासुरगन्धर्वश्चेति / ते च बोधिसत्त्वादयः सदेवादिश्च लोक इति समुच्चयः //

परीन्दनाभिधायी परिवर्तः परीन्दनापरिवर्तः //

नानाविभ्रमलाञ्छनव्यपगमादग्राह्यमग्राहकम् / भात्येतत्तथतात्मना समरसं यस्यामशेषं जगत् //

प्रज्ञापारमिता विकल्पतरणी सा बोधिसत्त्वस्य धीः / धीरैः सैव विशुद्धिपारगमने ताथागती कथ्यते //

स(श)सत्यष्टौ यदभिसमयान् यत्सहस्राणि चाष्टौ / सूत्रं तत्ते भगवति मया यश्च लब्धो विभज्य //

पुण्यस्कन्धः फलतु स यथा युक्तिमुक्तिं प्रजानाम् / निःसीमानां मम च वशितां विश्वकार्यक्रियासु //

अनुपमगुणमृष्टा निर्मलाशेषवर्णा / हरति भवरतिं वो भारती गौतमस्य / भवति महति(?) वर्तिर्या दया स्नेहपूर्णे जनमनसि तदन्तर्ज्ज्योतिषः संक्रमाय //

प्रज्ञापारमितायाः प्रमिताया दशशतीभिरष्टाभिः / सारतमेत्यभिसमये स्फुटा घना पञ्जिकेयं मे //

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः //

?(?) सम्वत् आ तो राज्ञः श्रीहर्षदेवराज्ये श्रीगण्डिगुल्मविषये / कुलपुत्रकायस्थः (? स्थस्य) पण्डितश्रीजीवन्धरशिं(सिं)हस्य पुस्तको(? स्तिके)यमिति // 0 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.