Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
प्रव्रज्यावस्तु
- Thông tin
- GRETIL — Vogel/Wille: Pravr-v I (foll. 7-12) = C. Vogel, K. Wille: "Some Hitherto Unidentified Fragments of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", NAWG 1984, pp. 297Ō337. Pravr-v II (foll. 2-6) = C. Vogel, K. Wille: "Some more Fragments of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen II, Göttingen 1992. Pravr-v III (foll. 43-48v4) = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyāvastu Portion of the Vinayavastu Manuscript Found Near Gilgit,
तीर्थ्यानां पोषधश् चातुर्दशिको भिक्षूणां च पांचदशिकः स चतुर्दश्यां तीर्थिकानाम् अन्तिके पोषधं प्रत्यनुभवति पंचदश्यां भिक्षूणां ।
यावद् अपरेण समयेन ऊनरात्रीपतितं भिक्षूणाम् अपि चातुर्दशिकः पोषधो जातः तस्य संशय उत्पन्नः किं तत्र गच्छामि आहोस्विद् इहैव पोषधं प्रत्यनुभवामीति । तस्य बुद्धिर् उत्पन्ना । अमी श्रमणाश् शाक्यपुत्रीयाः सूरतास् सुखसंवासाः मम सब्रह्मचारिणो दुःशीलो दुःखसंवासाः सचेन् न गमिष्यामि स्थानम् एतद् विद्यते यच् छलाका मे पातयिष्यन्ति फलकं संपरिवर्तयिष्यन्ति खोरं निकुब्जयिष्यन्ति सब्रह्मचारिमध्याद् उद्धरिष्यन्तीति स तीर्थ्यानां मध्ये गतः
यावद् उपधिवारिको वृद्धान्ते स्थितः भिक्षूं समनुयुंक्ते । तं न पश्यति । स प्रष्टुम् आरब्धः आयुष्मन्त एवंनामा कश्चिद् भिक्षुर् आगतः छन्दो वास्यानीतः ते कथयन्ति नास्तीति । उक्तं भगवता । चतुर्दिशं व्यवलोक्य पोषधः कर्तव्य इति । तैर् भिक्षुभिश् चतुर्दिशं व्यवलोक्य पोषधः कृतः
ततः पश्चाद् द्वितीये दिवसे स भिक्षुर् आगतः स भिक्षुभिर् उक्तः आयुष्मं कुतस् त्वम् आगतः स कथयति सब्रह्मचारिणाम् अन्तिकात्* के तव सब्रह्मचारिणः तीर्थ्याः मम युष्माकम् अन्तिके आमिषसंभोगस् तेषाम् अन्तिके धर्मसंभोग इति ॥ एतत् प्रकरणं भिक्षवो भगवत (प्रव्र्-व् इव् 30) आरोचयन्ति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । तीर्थिकावक्रान्तको ऽयं पुद्गलो नाशयत यूयं भिक्षवस् तीर्थिकावक्रान्तकं पुद्गलम् अस्माद् धर्मविनयाद् अप्ररोहणधर्मा भिक्षवस् तीर्थिकावक्रान्तकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवो यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तीर्थिकावक्रान्तक इति अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥ ॥
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति यद् उक्तं भदन्त भगवता तीर्थिकावक्रान्तकः पुद्गलो नाशनार्ह इति । कियता भदन्त तीर्थिकावक्रान्तकः (50र् = ग्ब्म् 6.700) पुद्गलो नाशनार्हः यतश् चोपालिं तीर्थ्य इमं ध्वजं धारयति तां च दृष्टिं रोचयते । तत्र चारुणम् उद्गमयति इयता तीर्थिकावक्रान्तकः पुद्गलो नाशनार्हः ॥ ॥
श्रावस्त्यान् निदानम्* ॥ श्रावस्त्याम् अन्यतमो गृहपतिस् तेन सदृशात् कुलात् कडत्रम् आनीतं स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः स पत्नीम् आमन्त्रयते । भद्रे जातो ऽस्माकं ऋणहरो धनहरः गच्छाम्य् अहं पण्यम् आदाय देशान्तरं । सा कथयत्य् आर्यपुत्र एवं कुरु ।
स पण्यम् आदाय देशान्तरं गतः तत्रैवानयेन व्यसनम् आपन्नः तयाप्य् असौ पुत्रो ज्ञातिबलेन हस्तबलेन आपायितो पोषितः संवर्धितः सो ऽपरेण समयेन वयस्यकेन सार्धम् अन्यतमस्य गृहसमीपे गच्छति । तस्मिं गृहे दारिकावतिष्ठति तया तस्योपरि स्रग्दामं क्षिप्तं । तेन सा दृष्टा
वयस्यकेनाभिहितः वयस्य मा त्वम् अस्मिं गृहे कृतसंकेतः स कथयत्य् आम कृतसंकेतो ऽहं । स कथयति वयस्य विषमम् एतद् गृहं मा प्रवेक्ष्यसि मा अनयेन व्यसनम् आपत्स्याम इति । स तेन सकलं दिवसं भ्रामयित्वा मातुस् सकाशं नीतः अम्ब अयं ते पुत्रो अमुष्मिं गृहे कृतसंकेतः मया कृत्स्नं दिवसं रक्षितस् त्वम् इदानीं रात्रिं रक्षस्व विषमं तद् गृहं मा प्रवेक्ष्यति मा अनयेन व्यसनम् आपत्स्यत इति । सा कथयति पुत्र शोभनं ते कृतं यद् अस्माकम् आरोचितम्*
तया तस्य अववरके शय्या प्रज्ञप्ता । द्वौ कर्परकौ प्रवेशितौ पानीयं च मृत्तिकां च तस्मिन्न् अववरके प्रवेशयित्वा आत्मनो द्वारे खट्वां प्रज्ञपयित्वा शयिता । स कथयति अम्ब द्वारं देहि । पुत्र कस्यार्थे । प्रस्रावं करिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परकः प्रवेशितस् तत्र प्रस्रावं कुरु । स मुहूर्तं स्थित्वा कथयति । अम्ब द्वारं प्रयच्छ । कस्यार्थे । उच्चारभूमिं गमिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परको मृत्तिका पानीयं च प्रवेशितम् अत्रैवोच्चारं कुरु । स पुनर् अपि मुहूर्तं स्थित्वा कथयति अम्ब द्वारम् अनुप्रयच्छ । सा कथयति पुत्र किम् अहं न जाने यत्र त्वं गन्तुकामः न शक्यं मया द्वारं दातुं । अम्ब अहं ते प्रघातयिष्ये । सा कथयति पुत्र श्रेयो ऽहं मृतिका न त्व् एवाहं पुत्रवधं पश्यामि । कामां खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्माकरणीयम् (प्रव्र्-व् इव् 31) इति । तेन निर्घृणहृदयेन त्यक्तपरलोकेन उत्कोशम् असिं कृत्वा तस्या उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितं । स तां प्रघात्य गतः पापकारी सत्वो वेपते स तया दारिकयाभिहित आर्यपुत्र मा भैर् नास्त्य् अत्र कश्चिद् दारिकाद्वितीया । स संलक्षयत्य् आरोचयिष्याम्य् अस्याः प्रियो भविष्यामि । स कथयति भद्रे मया त्वदर्थे माता प्रघातिता । सा कथयति । किं धात्री आहोस्विज् जनित्री । स कथयति जनित्री ।
सा संलक्षयति यो नाम गुणानाम् अनभिज्ञो भूत्वा मातरं प्रघातयति यदा ममान्तिके प्रकोपं जनयिष्यति का मे समवस्था भविष्यति । सा कथयत्य् आर्यपुत्र तिष्ठ तावद् उपरिमं तलकम् अभिरुह्यागच्छामि (50व् = ग्ब्म् 6.701) स कथयत्य् एवं कुरु । तया उपरिमं तलकम् अधिरुह्य चोरश् चोर इति शब्दः कृतः स भीतो भयेन निष्पलायितः आत्मीयं गृहं गत्वा द्वारमूले ऽसिं प्रक्षिप्य अयं स चोरः मातरं मे प्रघात्य निष्पलायित इति । स तां मातरं सत्कार्य गतः
पापकर्मकारी सत्वो धृतिं न लभते स तानि तानि तीर्थानि तपोवनानि गत्वा पप्रच्छ । भवन्तः किं कर्म क्रियेत येन पापकं कर्म क्षयं गच्छेत्* तत्र कश्चित् कथयति अग्निं प्रविश । कश्चित् कथयति प्रपाते प्रपत । कश्चित् कथयत्य् उदके । कश्चित् कथयति रज्ज्वावबद्ध्वा म्रियेति सर्वे ते मरणोपायं दर्शयन्ति । न च कश्चिन् निःसरणोपायं ।
सो ऽपरेण समयेन जेतवनं गतः स तत्र पश्यति भिक्षुं स्वाध्यायं कुर्वन्तं ।
यस्य पापकृतं कर्म कुशलेन पिथीयते । सो ऽस्मिन्न् आभासते लोके मुक्तो ऽभ्राद् इव चन्द्रमा इति ।
स संलक्षयति ॥ शक्यं पापकर्म पिथातुं नो तु क्षपयितुं एषां मध्ये प्रव्रजामि क्षपयिष्यामीति । स भिक्षोस् सकाशम् उपसंक्रान्तः आर्य प्रव्रजितुम् इच्छामि । स तेन प्रव्राजित उपसंपादितः । सो ऽत्यर्थम् आरब्धवीर्यस् पठितुम् आरब्धः
तेन पठता स्वाध्यायता त्रीणि पिटकान्य् अधीतानि तृपिटस् संवृत्तः धार्मकथिको युक्तमुक्तप्रतिभानः स भिक्षुभिर् उक्तः आयुष्मं किं त्वम् अनेन वीर्येण प्रार्थयसे । स कथयति पापं कर्म क्षपयामि । किं त्वया पापं कर्म कृतं । माता प्रघातिता । किं धात्री आहोस्विज् जननी । स कथयति जननी । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । नाशयत यूयं भिक्षवो मातृघातकं पुद्गलम् अस्माद् धर्मविनयात्* अप्ररोहणधर्मा भिक्षवो मातृघातकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवः यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि मातृघातक इति । अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥
स संलक्षयति किम् इदानीम् अवप्रव्रजिष्यामि प्रत्यन्तं गच्छामीति । तेन प्रत्यन्तं गत्वान्यतमो गृहपतिर् अन्वावर्तितः तेनाभिप्रसन्नेन (प्रव्र्-व् इव् 32) तम् उद्दिश्य विहारः कारित इति । स नानादिग्देशनिवासिभिर् भिक्षुभिर् आवासितः तस्य चाववादेन प्रभूतैर् अर्हत्वं साक्षात्कृतम्* ॥
सो ऽपरेण समयेन ग्लानस् संवृत्तः स मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयमानो हीयत एव । तेन सार्धंविहारिणो उक्ताः । आयुष्मन्तो जेन्ताकं मे उद्दिश्य कुरुत । तैस् तम् उद्दिश्य जेन्ताकः कृतः ॥
सर्वे क्षयान्ता निचयाः पतनान्तास् समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् इति ॥
च्युतः कालगतः अवीचौ महानरके उपपन्नः
तस्य सार्धंविहारी अर्हां समन्वाहर्तुं प्रवृत्तः कुत्र मे उपाध्याय उपपन्न इति । स देवां व्यवलोकयितुम् आरब्धो न पश्यति मनुष्यांस् तिर्यंच प्रेतांस् तत्रापि न पश्यति ।
यावन् नरकां व्यवलोकयितुम् आरब्धो पश्यत्य् अवीचौ महानरके उपपन्नः स संलक्षयत्य् उपाध्यायश् शीलवान् बहुश्रुतो धर्मेण पर्षदा संगृहीता । किं तेन कर्म कृतं येनावीचौ महानरके (51र् = ग्ब्म् 6.702) उपपन्न इति स समन्वाहर्तुं प्रवृत्तो यावत् पश्यति मातृघातक इति ।
सो ऽप्य् आवीचिकै रश्मिभिस् स्पृष्टः स कथयति अतितीक्ष्णो ऽयं जेन्ताके ऽग्निसन्ताप इति । ततो नरकपालेन मुद्गरेण शिरसि प्रहारं दत्वा उक्तो मन्दभाग्य कुतस् ते ऽत्र जेन्ताको ऽवीचिर् अयं महानरकः । स मुद्गराभिहतः कुशलचित्तः कालगतश् चातुर्महाराजकायिकेषु देवेषूपपन्नः ।
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति स पश्यति नरकेभ्यश् च्युतः चातुर्महाराजिकेषु देवेषूपपन्नः संघे जेन्ताकस्नात्रं कृत्वेत्य्
अथ नरकपूर्विणो देवपुत्रस्यैतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति ।
अथ नरकपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रो दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां येन भगवांस् तेनोपसंक्रान्तः उपसंक्रम्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः अपीदानीं नरकपूर्विणो देवपुत्रस्यानुभावेन सर्वा कूटागारशाला उदारेणावभासेन स्फुटाभूत्* ।
ततो भगवता नरकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा नरकपूर्विणा देवपुत्रेण तस्मिन्न् एवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतं ।
स दृष्टसत्यस् त्रिर् उदानम् उदानयति । इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् नेष्टेन स्वजनबन्धुवर्गेण यद् भगवतास्माकं कृतम् उच्छोषिता रुधिरास्रुसमुद्रा लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः प्रतिष्ठापितो देवमनुष्येष्व्
आह च ॥
तवानुभावात् पिहितस् सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः अपावृता स्वर्गगतिस् सुपुण्या निर्वाणमार्गश् च मयोपलब्धः त्वदाश्रयाच् चाप्तं अपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि । जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* ॥
अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः प्रणिपत्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ।
अथ नरकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः सस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतः तयैव विभूत्या स्वभवनं गतः
तस्य सार्धंविहारी संघस्थविरो ऽर्हं भक्ताग्रे निषण्णो ऽन्यश् चास्य सार्धंविहारी (51व् = ग्ब्म् 6.703) संघे पानीयं चारयति । यावत् तेन संघस्थविरेण पानीयं कांसिकायां गृह्णता अङ्गुल्यग्रेण स्पृष्टम् अतिशीतलं । स संलक्षयति वयन् नाम ईदृशं पानीयं पिबाम उपाध्यायो ऽप्य् अवीचौ महानरके क्वथितं ताम्ररसं पास्यतीति । सो ऽवीचिं महानरकं व्यवलोकयितुम् आरब्धो न पश्यति
तिरश्चः प्रेतांश् च मनुष्यां अन्यांश् च नरकांस् तेष्व् अपि न पश्यति यावद् देवां व्यवलोकयितुम् आरब्धः पश्यति चातुर्महाराजिकेषु देवेषूपपन्नः देवभूतेन च भगवतो ऽन्तिके सत्यदर्शनं कृतं देवेषूच्चावतिष्ठन्तं । स स्मितपूर्वंगमो भगवति लब्धप्रसाद उदानम् उदानयम्* । अहो बुद्ध । अहो धर्म अहो संघ : अहो धर्मस्य स्वाख्यातता यत्रेदानीम् एवंविधा अपि पापकारिणो विनिपातं गताः एवंविधं गुणगणम् अधिगच्छन्तीति ।
स तेन समानोपाध्यायेन हृष्टतुष्टप्रमुदितो दृष्टः उक्तश् च आयुष्मन् किं त्वं परितुष्टो ऽस्य् उपाध्यायः कालगतो ऽहं संघस्थविरो जात इति । स कथयत्य् आयुष्मन् न कालस् तावत् ते प्रश्नस्य व्याकरणाय । संघमध्ये मे प्रक्ष्यसि तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणायेति ।
यावद् अपरेण समयेन भिक्षुसंघे सन्निषण्णे सन्निपतिते संघस्थविरस् तं समानोपाध्यायं पृच्छति । आयुष्मन् किं त्वं तस्यां वेलायां कथयसीति । स कथयति त्वं मयोक्तः किं त्वं तुष्टो ऽस्य् उपाध्यायः कालगतो ऽहं संघस्थविरो जात इति । स एतत् प्रकरणं विस्तरेण संघमध्ये तस्य निवेदयाम् आस । सो ऽप्य् आत्तमनात्तमना भिक्षवश् च उदानम् उदानयंति । अहो बुद्ध अहो धर्म अहो संघ । अहो धर्मस्य स्वाख्यातता । यत्रेदानीम् एवंविधा अपि पापकारिणो विनिपातं गता एवंविधं गुणगणम् अधिगच्छन्तीति ॥ यथा मातृघातक एवं पितृघातको विस्तरेण वक्तव्यः ॥ ॥ उद्दानम्* ॥
अर्हद्वधश् च संघश् च दुष्टचित्तेन शोणितम्* अन्तिमापन्नकेन चत्वार उत्क्षेपकेन त्रीणि च ॥ ॥
बुद्धो भगवाञ् च्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवता राजा बिम्बिसारस् सत्येषु प्रतिष्ठापितस् सार्धम् अशीत्या देवतासहस्रैर् अनेकैश् च मागधकैर् ब्राह्मणगृहपतिशतसहस्रैः तेन स्वे विजिते घण्टावघोषणं कारितं । न मम विजिते चौर्यं कर्तव्यं यः करोति तम् अहं निर्विषयं करोमि । स्वस्माच् च कोशकोष्ठागारान् मोषकं ददामीति ।
यदा च भगवता राजा प्रसेनजित् कौसलो दह्रोपमेन सूत्रेण विनीतस् तदा तेनापि स्वे विजिते घण्टावघोषणं कारितं न मम विजिते चौर्यं कर्तव्यं यः करोति तस्य वधो दण्डः स्वस्माच् च कोशकोष्ठागारान् मोषकं ददामीति । ततो ये मगधविषये चौरा ये च कौसलविषये ते सीमान्तरिकां गत्वावस्थिताः यो मगधविषयात् सार्थ आगच्छति तम् अपि मुष्णन्ति । यो ऽपि कोसलविषयात्* ।
यावद् अपरेण समयेन मगधविषयात् सातियात्रः सार्थः कोसलविषयं संप्रस्थितो यदा सीमान्तरिकां प्राप्तस् तदा स सार्थवाहः कथयति । भवन्तो ऽसौ राजा प्रसेनजित् कौसलो व्याडो विक्रान्तः शक्तो ऽस्माकं मोषं दापयितुं (52र् = ग्ब्म् 6.704) किमर्थं वयम् आयात्रिकाणां भृतिम् अनुप्रयच्छाम प्रतिनिवर्तन्त्व् अत एव एत इति । ते तैः प्रतिनिवर्तिताः अवगणको ऽसौ सार्थस् संप्रस्थितः ते च चोरा भलिन् दत्वावस्थिताः तेन समाख्यातं भवन्तो ऽवगणकः सार्थो आगच्छति । किम् उदासीनाः तिष्ठतेति । ततस् ते तस्कराः प्रधाविताः तत्र केचिद् (प्रव्र्-व् इव् 35) वणिजो जीविताद् व्यवरोपिताः केचित् पण्यं छोरयित्वा निष्पलायिताः असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते । अर्हन्तो ऽपि तेन सार्थेन गच्छन्तो जीविताद् व्यवरोपिताः
तत्र ये वणिजो निष्पलायितास् ते पांसुना शिरो गात्रं च धूलयित्वोद्ध्वस्तमस्तका विक्रोशन्तो राज्ञः प्रसेनजितः कौसलस्य सकाशं गताः कृतकरपुटा विज्ञपयन्ति देव तव विजिते वयम् अवणिजो व्यवस्थापिताः किं कृतं । चोरैर् मुषिताः स्म । कतरस्मिन् प्रदेशे । अमुष्मिन्*
राज्ञा विरूढकस्य सेनापतेर् आज्ञा दत्ता शीघ्रं मोषकं तस्करांश् चानयेति । स चतुरङ्गं बलकायं सन्नाह्य हस्तिकायं अश्वकायं रथकायं पत्तिकायं सन्नाह्य निर्गतः ते ऽपि चौरा विस्रब्धविहारिणः मुक्तसन्नाहाः अन्यतमस्यां सालाटव्यां मोषकं भाजयमानास् तिष्ठन्ति । ते विरूढकेन चतुर्दिशं वेष्टयित्वा मध्ये शंखपटहशब्दैर् वित्रासिताः तेषां केचिन् मोषकं छोरयित्वा निष्पलायिताः केचित् प्रघातिताः षष्टिस् तु जीवग्राहं गृहीता स तान् मोषकं चादाय राज्ञस् सकाशं गतो देव अमी चोराः अयं च मोषक इति ।
ततस् ते राज्ञाभिहिता भवन्तो न युष्माभिः श्रुतं राज्ञा घण्टावघोषणं कारितं । न मे विजिते केनचिच् चौर्यं कर्तव्यं । यः करोति तस्य वधो दण्डः स्वस्माच् च कोशकोष्ठागारान् मोषकं दास्यामीति । ते कथयन्ति । श्रुतम्* अथ कस्माद् वणिजो मुषिताः देव न जीवामः कस्माज् जीविताद् व्यवरोपिता भयम् उपदर्शयद्भिः कीदृशं युष्माभिर् भयम् उपदर्शितम् ऽपीदानीं वस् तादृशं भयम् उपदर्शयामि यन् न केनचिद् दर्शितपूर्वं ।
ततो राज्ञामात्यानाम् आज्ञा दत्ता गच्छन्तु भवन्तस् सर्वान् एतां प्रघातयत । ते रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यमाणा आघतनं नीयन्ते ऽन्यतमश् च चोरः रथ्यासंबाधे निष्पलायितो जेतवनं भिक्षोस् सकाशम् उपसंक्रम्य कथयत्य् आर्य प्रव्रजितुम् इच्छामि । स तेन प्रव्राजित उपसंपादितः ते ऽपि चोराः प्रघातिताः
उक्तं भगवता आत्मविपत्तिं परविपत्तिं आत्मसंपत्तिं परसंपत्तिं भिक्षवो ऽभीक्ष्णं प्रत्यवेक्षध्वं तत् कस्य हेतोर् आत्मविपत्तिः भिक्षवः संवेजनीयं स्थानं परविपत्तिः आत्मसंपत्तिः परसंपत्तिः संवेजनीयं स्थानम् इति । यावद् अपरेण समयेन भिक्षवः श्मशानचारिकां चरन्ति । सो ऽपि तैस् सार्धं श्मशानचारिकां चरति । तेन ते चौरा दृष्टाः प्रघातिताः सास्रुकण्ठो व्यवस्थितः भिक्षवः कथयन्त्य् आयुष्मन्तः ईदृशो ऽप्य् अयं भद्राशयो नवप्रव्रजित इति । स मुक्तकेनैव कण्ठेन रोदितुम् आरब्धः भिक्षुभिर् उच्यते आयुष्मं कस्यार्थे (प्रव्र्-व् इव् 36) त्वम् एवम् ओराटिकां करोषीति । स कथयत्य् अयं मे पिता अयं मे भ्राता अयं मे पितृव्यो ऽयं मे मातुल इति ।
ते कथयन्त्य् एभिर् अर्हन्तो जीविताद् व्यवरोपिता मा त्वयापि व्यवरोपिताः स कथयति व्यवरोपिताः । एतत् प्रकरणं भिक्षवो भगवत (52व् = ग्ब्म् 6.705) आरोचयन्ति । भगवान् आह ॥ अर्हद्घातको ऽयं भिक्षवः पुद्गलो नाशयत यूयम् अर्हद्घातकं पुद्गलम् अस्माद् धर्मविनयाद् अप्ररोहणधर्मा अर्हद्घातकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवो यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मास्य् अर्हद्घातक इति अपृष्ट्वा प्रव्राजयत्य् उपसंपादयति सातिसारो भवति ॥ ॥
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त पूर्विकायां प्रव्रज्यायां तथागतस्य श्रावकसंघो भिन्नः सचेत् स आकांक्षेत् स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः । न प्रव्राजयितव्य उपालिं । तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि संघभेदक इत्य् अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त तथागतस्यान्तिके दुष्टचित्तरुधिरम् उत्पादितं स आकांक्षं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिं । तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादक इत्य् अपृष्ट्वा प्रव्राजयति सातिसारो भवति । ॥
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यो भदन्त पूर्विकायां प्रव्रज्यायां चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नः सचेत् स आकांक्षेत् स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिं ॥ तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्न इत्य् अपृष्ट्वा प्रव्राजयति उपसंपादयति वा सातिसारो भवति ॥ ॥
बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । सचेद् भिक्षवो ऽदर्शनायोत्क्षिप्तकः पुद्गलो विभ्रान्तकः पुनर् आगत्य ब्रूयात् प्रव्राजयन्तु माम् आयुष्मन्तो द्रक्ष्याम्य् आपत्तिम् इति । प्रव्राजयितव्यः । प्रव्राजयित्वा ब्रूयाद् उपसंपादयन्तु माम् आयुष्मन्तो देशयिष्याम्य् आपत्तिम् इत्य् उपसंपादयितव्यः यद्य् उपसम्पन्नो ब्रूयान् न पश्याम्य् आपत्तिम् इति । सचेत् संघसामग्रीम् आरागयति पुनर् अपि अदर्शनायोत्क्षिप्तव्यो नो चेद् (प्रव्र्-व् इव् 37) आरागयिष्यत्* सचेद् उपसम्पन्नः सूपसम्पन्नो दुर्लभो हि पुद्गलस्य स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः
यथादर्शनायोत्क्षिप्तकः एवम् अप्रतिकर्मणायोत्क्षिप्तकः ॥ ॥
बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितं षड्वर्गिकाणां यं प्रव्राजयंत्य् उपसंपादयन्ति वा स तैस् सार्धं तावत् संवसति यावन् न जानीते दुष्ठुलसमुदाचारा एत इति । यदा तु संजानीते तदा प्रकृतिस्थैर् भिक्षुभिस् सार्धं प्रतिवसति । नान्यत्र शास्तुर् आज्ञया तृःकालं दर्शनायोपसंक्रामति ।
ततस् ते संजल्पं कुर्वन्ति । नन्दोपनन्द एते कालपात्रिका जातापहारिणो यादृशां वयं प्रव्राजयाम एते ऽपहरन्ति इदानीं तादृशं प्रव्राजयामो यो न कालपात्रिकैर् अपह्रियत इति ।
यावद् अपरेण समयेन उपनन्देन (53र् = ग्ब्म् 6.706) परिभ्रमता हस्तच्छिन्नकः पुरुषो दृष्टः उक्तश् च भद्रमुख किमर्थं न प्रव्रजसीति । स कथयत्य् आर्य को मां हस्तविकलं प्रव्राजयतीति । उपनन्दः कथयति भद्रमुख करुणाप्रभावितं भगवतश् शासनम् अहं ते प्रव्राजयामीति । स तेन प्रव्राजित उपसंपादितो
ततो द्वौ त्रीन् वा दिवसान् आसमुदाचारिकान् धर्मां शिक्षयित्वाभिहितो भद्रमुख न मृगो मृगं पुष्णाति विस्तीर्णा श्रावस्ती स्वो गोचरः पित्र्यो विषयः पिण्डपातम् अटित्वा जीविकां कल्पयस्वेति । स कथयत्य् उपाध्याय कथं पिण्डपातम् अटामीति । स कथयत्य् एतावत्त्वं न परिज्ञायते अहं ते कथयामीति । तेन तस्य रज्ज्वा निवासनं बद्धं कण्टकैश् चीवरं प्रावृतं । वामे बाहौ पात्रपोणिका न्यस्ता । दक्षिणे बाहौ खक्खरको बद्धः
ततो ऽसौ श्रावस्तीं गोचराय प्रसृतो मातृग्राम उरसि प्रहारं दत्वा कथयति । आर्य केन ते प्रव्रजितस्य हस्तौ च्छिन्नाव् इति । स कथयत्य् आगारिकस्य मे च्छिन्नौ न प्रव्रजितस्य । केन प्रव्राजितः स कथयत्य् उपाध्यायोपनन्देन ।
ताः कथयन्ति तं दुष्ठुलसमुदाचारं मुक्त्वा को ऽन्य एवंविधं प्रव्राजयिष्यत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः हस्तच्छिन्नकं प्रव्राजयन्ति । भगवान् आह । न भिक्षुणा हस्तच्छिन्नकः प्रव्राजयितव्यः उपसंपादयितव्यो वा भिक्षुर् हस्तच्छिन्नकं प्रव्राजयत्य् उपसंपादयति सातिसारो भवति ॥
यथा हस्तच्छिन्नक एवं पादच्छिन्नकाः अङ्गुलीफणहस्तकाः अनोष्ठा लक्षणाहताः कशाहताः चित्राङ्गाः अतिवृद्धाश् च न प्रव्राजयितव्याः अतिबालां प्रव्राजयन्ति ते सांघिकं शयनासनम् उच्चारप्रस्रावेण नाशयन्ति । भगवान् आह ॥ ते ऽपि न प्रव्राजयितव्याः
खंजां प्रव्राजयन्ति । भगवान् आह ॥ न प्रव्राजयितव्याः काण्डरीककाणकुणिकुब्जवामनगलगण्डजडमूकफक्कबधिरपीठसर्पिश्लीपदां प्रव्राजयन्ति । भगवान् आह । एवंविधापि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ।
भिक्षवस् स्त्रीच्छिन्नां भारच्छिन्नां मार्गच्छिन्नां कन्दलीच्छिन्नकतालमुक्तकां प्रव्राजयन्ति भगवान् आह । एवंविधा अपि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ॥
भिक्षवः कुष्ठगण्डकिटिभकिलासदद्रूकण्डूरजतविचर्चिकाक्षयकासश्वासशोषापस्माराटक्करपाण्डुरोगगुल्मभगन्दराभिभूतां प्रव्राजयन्ति । भगवान् आह [|]। एवंविधापि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ॥ ॥ उद्दानम्* ॥
हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः अनोष्ठकाश् च चित्राङ्गाः अतिवृद्धातिबालकाः एवंविधा हि पुरुषाः प्रतिक्षिप्ता महर्षिणा । ॥
ये चान्ये बहवः प्रोक्ताः खञ्जस्त्रीवामनादयः ते ऽपि न प्रव्राजयितव्या इति समादिष्टं महर्षिणा । ॥
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसम्पदा । आख्याता सत्यनाम्ना वै सम्बुद्धेन प्रजानता । ॥ ॥
प्रव्रज्यावस्तु समाप्तम्* ॥ ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
