Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिचर्यावतारपञ्जिका
- Tác giả
- प्रज्ञाकरमति
- Thông tin
- GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भगवानाह- एवमेव महाराज बालो ऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि अभिनिविशते / सो ऽभिनिविष्टः समनुनीयते / समनुनीतः संरज्यते / संरक्तो रागजं कर्माभिसंस्करोति त्रिविधं कायेन, चतुर्विधं वाचा, [त्रिविधं मनसा] / तच्च कर्माभिसंस्कृतमादित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति, न दक्षिणाम्, न पश्चिमाम्, नोत्तराम्, नोर्ध्वम्, नाधः, नानुविदिशम्, नेह, न तिर्यक्, नोभयमन्तरा / तत् पुनः कालान्तरेण मरणकालसमये प्रत्युपस्थिते जीवितेन्द्रियनिरोधे आयुषः परिक्षयात् तत्सभागस्य कर्मणः क्षीणत्वात् चरमविज्ञानस्य निरुध्यमानस्य मनस आरम्बणीभवति / तद्यथापि नाम शयितविबुद्धस्य जनपदकल्याणी / इति हि महाराज चरमविज्ञानेनाधिपतिना तेन च कर्मारम्बणेन औपपत्त्यंशिकं द्वयप्रत्ययं प्रथमं विज्ञानमुत्पद्यते / यदि वा नारकेषु, यदि वा तिर्यग्योनौ, यदि वा यमलोके, यदि वा आसुरकाये, यदि वा मनुष्येषु, यदि वा देवेषु / तस्य च प्रथमविज्ञानस्य औपपत्त्यंशिकस्य समनन्तरनिरुद्धस्य अनन्तरं सभागा चित्तसंततिः प्रवर्तते, यत्र विपाकस्य (bcp 225) प्रतिसंविदा प्रज्ञायते / तत्र यश्चरमविज्ञानस्य निरोधः, तत्र च्युतिरिति संख्या भवति, यः प्रथमविज्ञानस्य प्रादुर्भावः, तत्रोपपत्तिरिति / इति महाराज न कश्चिद्धर्मो ऽस्माल्लोकात् परलोकं गच्छति, च्युत्युपपत्ती प्रज्ञायेते / तच्च महाराज चरमविज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति / कर्माप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति / [प्रथमविज्ञानमप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति] / तत् कस्य हेतोः? स्वभावविरहितत्वात् / चरमविज्ञानं चरमविज्ञानेन शून्यम्, कर्म कर्मणा शून्यम्, प्रथमविज्ञानं प्रथमविज्ञानेन शून्यम्, च्युतिश्च्युत्या शून्या, उपपत्तिरुपपत्त्या शून्या / कर्मणां च अवन्ध्यता प्रज्ञायते, विपाकस्य च प्रतिसंवेदना / न तत्र कश्चित् कर्ता, न भोक्ता, अन्यत्र नामसंकेतात् // इति विस्तरः //
एवं द्वेषमोहाभ्यामपि कर्माभिसंस्करणं यथायोग्यं वाच्यमिति //
शालिस्तम्बसूत्रे ऽप्युक्तम्-
पुनरपरं तत्त्वे ऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या / एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः आनञ्जयोपगाश्च / इमे उच्यन्ते अविद्याप्रत्ययाः संस्कारा इति / पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति, अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति, आनञ्ज्योपगानां संस्काराणामानञ्ज्योपगमेव विज्ञानं भवति / इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति / तदेव विज्ञानप्रत्ययं नामरूपम् / नामरूपविवृद्ध्या षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते, तन्नामरूपप्रत्ययं षडायतनमुच्यते / षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते / अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते / यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते / इयं स्पर्शप्रत्यया वेदनेत्युच्यते / यस्तां वेदयति, विशेषेणास्वादयति, अभिनन्दयति, अध्यवस्यति, अधितिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते / आस्वदना, अभिनन्दना, अध्यवसायस्थानम्, आत्मप्रियरूपसातरूपैर्वियोगो मा भवत्विति अपरित्यागो भूयो भूयश्च प्रार्थना, इदं तृष्णाप्रत्ययमुपादानमित्युच्यते / एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयत्ति कायेन वाचा मनसा, स उपादानप्रत्ययो भव इत्युच्यते / तत्कर्मनिर्जातानां पञ्चस्कन्धानामभिनिर्वृत्तिर्या, सा भवप्रत्यया जातिरित्युच्यते / या (यो) जात्यभिनिर्वृत्तानां स्कन्धानामुपचयपरिपाकाद्विनाशो भवति, तदिदं जातिप्रत्ययं जरामरणमित्युच्यते / पेयालं / तत्र विज्ञानं बीजस्वभावत्वेन हेतुः / कर्म क्षेत्रस्वभावत्वेन हेतुः / अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः /
कर्मक्लेशा विज्ञानबीजं संजनयन्ति / तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति / तृष्णा विज्ञानबीजं स्नेहयति / अविद्या विज्ञानबीजमवकिरति / असतामेषां प्रत्ययानां विज्ञानबीजस्याभिनिर्वृत्तिर्न भवति / तत्र कर्मणां नैवं भवति- अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमि / (bcp 226) तृष्णायां अपि नैवं भवति- अहं विज्ञानबीजं स्नेहयामीति / अविद्याया अपि नैवं भवति- अहं विज्ञानबीजमवकिरामीति / विज्ञानबीजस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति / अपि तु विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिस्यन्दितम् अविद्यावकीर्णं विरोहति, नामरूपाङ्कुरस्याभिनिर्वृत्तिर्भवति / स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः / अथ च मातापितृसंयोगादृतुसमवायादन्येषां च प्रत्ययानां समवायादास्वादनानुप्रबद्धं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् / पेयालं / न तत्र कश्चिद्धर्मो ऽस्माल्लोकात् परलोकं संक्रामति / अस्ति च कर्मफलम्, अस्ति च विज्ञप्तिः, हेतुप्रत्ययाना मवैकल्यात् / पेयालं / यथा अग्निरुपादानवैकल्यान्न ज्वलति, उपादानावैकल्याच्च ज्वलति, एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् /
एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः //
तत्र आध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः / कतमैः पञ्चभिः? न शाश्वततः, नोच्छेदतः, न संक्रान्तितः, परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः, तत्सदृशानुप्रबन्धतश्चेति / कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति / न तु य एव मारणान्तिकाः स्कन्धाः, त एव औपपत्त्यंशिकाः प्रादुर्भवन्ति / अतो न शाश्वततः / कथं नोच्छेदतः? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, नाप्यनिरुद्धेषु / अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, तुलादण्डोन्नामावनामवत् / अतो नोच्छेदतः / कथं न संक्रान्तितः? विसदृशात् सत्त्वनिकायाद्विसभागाः स्कन्धा जात्यन्तरे ऽभिनिर्वर्तन्ते / अतो न संक्रान्तितः / कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः? परीत्तं कर्म क्रियते, विपुलफलविपाको ऽनुभूयते / अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः / कथं तत्सदृशानुप्रबन्धतः? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाको ऽनुभूयते / अतस्तत्सदृशानुप्रबन्धतः / एवमाध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः [कारणैः-आकारैः] द्रष्टव्यः // इति विस्तरः //
तदेवमात्मादिविरहे ऽपि कर्मफलसंबन्धो ऽविकलः सूत्रेषु भगवता स्वयमुपदर्शित इत्युपदर्शितं भवति / इति नैकस्योभयानुवर्तिनो ऽभावे ऽपि किंचिद्विरुध्यते इति //
यदि कथंचिदपि नास्त्येवात्मा, कथं तर्हि-
आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत् / आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः //
[=धम्मपद]
इति गाथायामुक्तम्? चित्तमेव अहंकारसंनिश्रयतया अस्यामात्मशब्देनोक्तम् / अन्यत्र सूत्रे-
चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् / [=धम्मपद]
इति चित्तस्य दमनवचनात् / तदपि च आत्मदृष्टयभिनिविष्टानामन्यत्रात्मग्राहपरिकल्पविच्छेदार्थं नेयार्थतया संवृत्या चित्तमात्मेति प्रकाशितं न तु परमार्थतः / एतेन यदुक्तमार्यलङ्कावतारे-
पुद्गलः संततिः स्कन्धाः प्रत्यया अणवस्तथा / प्रधानमीश्वरः कर्ता चित्तमात्रं वदाम्यहम् //
[लङ्का. 2.139, 10.133]
इति, तदपि व्याख्यातं भवति / यतः तदपि च अन्यत्र पुद्गलाद्यभिनिवेशबाधनाय वचनम् / न तु तावता चित्तस्य परमार्थसत्त्वमुक्तम् / एवमन्यत्रापि स्कन्धादिष्वात्मदेशना नेयार्था / अतश्चित्तमपि वस्तुतो नाहंप्रत्ययस्य विषयः //
भवतु वा चित्तं परमार्थसत् / तथापि न वस्तुतः तदहंकारगोचर इत्युपदर्शयन्नाह अतीतेत्यादि-
अतीतानागतं चित्तं नाहं तद्धि न विद्यते /
त्रिधा हि चित्तं संभवति परिकल्पमुपादाय अतीतमनागतं प्रत्युत्पन्नं च / तत्र / अतीतानागतं नष्टाजातं चित्तं नाहं न अहंदर्शनविषयः / कुतः? हिर्यस्मात् / तदतीता नागतं चित्तं न विद्यते, न संप्रत्यस्ति, नष्टाजातत्वात् / यदतीतं तत् क्षीणं निरुद्धं विगतं विपरिणामितम् / यदनागतम्, तदप्यसंप्राप्तमिति / प्रत्युत्पन्नं तर्हि चित्तमहं भविष्य तीत्यत आह- अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः // bca_9.74 // यथा उत्पन्नं वर्तमानं चित्तमहमस्तु, तदपि न युक्तम् / यतो नष्टे ऽस्मिन्नास्त्यहं पुनः, अस्मिन् प्रत्युत्पन्ने चित्ते नष्टे द्वितीयक्षणे अतीते सति नास्त्यहं पुनः, पश्चादहंप्रत्ययस्य विषयो नेष्टः स्यात् / प्रत्युत्पन्नस्य स्थितिर्नोपलभ्यते / तत् कुतश्चित्तमालम्ब्यतां येन आलम्बनं स्यात्? अतो न चित्तालम्बनो ऽपीति निरालम्बन एवायमहंप्रत्यय उत्पद्यते //
एवमात्मनो ऽसत्त्वात् नात्मा, त्र्यध्ववर्तिनाश्चित्तस्य च तद्विषयत्वात् / नापि चित्तमहंकारस्य विषय इति प्रसाध्योपसंहरन्नाह यथैवेत्यादि-
यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः / तथाहमप्यसद्भूतो मृग्यमाणो विचारतः // bca_9.75 //
यथैव कदलीस्तम्भो रम्भादण्डखण्डम्, भागशः प्रत्यवयवशः कृतो ऽवधूतो न कश्चित् न वस्तुसन् प्राप्यते, तथा अहमप्यसद्भूतः कदलीस्तम्भवत् / अहमपि अहंप्रत्ययस्य विषयो ऽपि असद्भूतः अवस्तुभूतः, वन्ध्यातनयवत् / न कश्चिद्विषयो ऽस्यास्तीति भावः / कथम्? मृग्यमाणो विचारतः निरूपणतः //
पुनरन्यद्बाधकमात्मप्रतिषेधे प्रसञ्जयन्नाह यदीत्यादि-
यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् /
यदि सर्वथैव सत्त्वः आत्मा पुद्गलो वा विचार्यमाणो न विद्येत, न स्यात्, तदा कस्योपरि कृपा करुणा बोधिसत्त्वानां भवेत्, सत्त्वमन्तरेण किमालम्ब्य प्रवर्तेत? करुणा च सम्यक्संबोधिसाधनम्, तत्पूर्वकमेव संभारनिदानेषु दानादिषु प्रवर्तनात् / अतः करुणापुरःसराः सर्वे बुद्धधर्माः प्रवर्तन्ते / तथा चोक्तमार्यधर्मसंगीतौ-
अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम् / एक एव धर्मो बोधिसत्त्वेन स्वाराधितः कर्तव्यः सुप्रतिबिद्धः / तस्य करतलगताः सर्वे बुद्धधर्मा भवन्ति / तद्यथा- येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति, तेन सर्वबलकायो गच्छति / एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुणा गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति / तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यां बोधिकारकाणां धर्माणां प्रवृत्तिर्भवतीति //
आर्यगयाशीर्षे चोक्तम्-
किमारम्भा मञ्जुश्रीः बोधिसत्त्वानां चर्या, किमधिष्ठाना? मञ्जुश्रीराह- महाकरुणारम्भा देवपुत्र बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना // इति विस्तरः //
तस्मादवश्यं प्रथमतः सत्त्वालम्बना करुणाभ्युपगन्तव्याः दुःखितसत्त्वाधिष्ठानेन समुत्पत्तेः / सत्त्वाभावे च सा न स्यादिति चेत्, एवं मन्यसे यदि, तदा नैतद्वक्तव्यमित्याह कार्यार्थमित्यादि- कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः // bca_9.76 // कार्यमभिमतसाध्यं पुरुषार्थ इत्युच्यते / तदर्थमभ्युपेतेन स्वीकृतेन मोहेन संवृत्या यः प्रकल्पितः समारोपितः सत्त्वः, तस्योपरीत्यर्थः / तथाहि सकलकल्पनाजालरहितं सर्वावरणविनिर्मुक्तं परमपुरुषार्थतया बुद्धत्वमिह साध्यम् / तच्च सर्वधर्मानुपलम्भमन्तरेण नाधिगम्यते / स च प्रज्ञाप्रकर्षगमनात् संपद्यते / तच्च सादरनिरन्तरदीर्घकालाभ्यासादुपजायते / तदारम्भश्च करुणावशादुत्पद्यते / सा च प्रथमतो दुःखितसत्त्वेषु प्रवर्तमाना संभारारम्भनिदानमुपपद्यते इति कार्यार्थं मोहस्य संवृतिसत्यरूपस्याभ्युपगमः / ततः प्रथमतः सत्त्वालम्बनैव करुणा, ततः परं धर्मालम्बना, अनालम्बना च / अयमभिप्रायः- न सर्वथा सत्त्वस्याभावः / स्कन्धादयो हि संवृत्त्या आत्मशब्देनोच्यन्ते / यथोक्तं भगवता-
ये केचिद्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति इमानेते (तान्?) पञ्चोपादानस्कन्धान् / इति /
ततो यदि नाम प्रज्ञया निरूपयतः परमार्थतः सत्त्वानुपलम्भः, तथापि संवृत्या न निषिध्यते इति / तदुक्तम्-
यतः प्रज्ञा तत्त्वं भजति करुणा संवृतिमतः तवाभून्निःसत्त्वं जगदिति यथार्थं विमृशतः / यदा चाविष्टो ऽभूर्दशबलजनन्या करुणया तदा ते ऽभूदार्ते सुत इव पितुः प्रेम जगति // इति / [रत्नदासविरचितं गुणपर्यन्तस्तोत्रम्-33] चतुःस्तवे ऽपि-
सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते / दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः // इति / [चतुः-1.9] तस्मादमी रूपादय एव संवृत्या सत्त्वशब्देनोच्यन्ते / इति न करुणा निर्विषया //
ननु परमार्थतः सत्त्वाभावे कस्य तत् कार्यम्, इति कथं तत्साधनाय कस्यचित् प्रवृत्तिरित्यभिसंधाय आह कार्यमित्यादि-
कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः /
न चेत् सत्त्व इति / यदि सत्त्वो नास्ति, तदा एकस्यानुयायिनो ऽभावात् रूपादीनां च उत्पन्नविनाशित्वात् कार्यं कस्य? न कस्यचित् स्यादित्यर्थः / सत्यमित्यभ्युपगमे इति / एवमेव एतन्मतमेव अस्माकम्- नैव कस्यचित् परमार्थतः कार्यम्, अस्वामिकत्वात् सर्वधर्माणाम् / यद्येवम्, कथं तर्हि तत्साधनाय प्रथमतः प्रवृत्तिरिति चेत्, ईहा तु मोहतः / ईहा चेष्टा पुनस्तत्कार्यार्थितया व्यापारः मोहात् / ममैव तत् कार्यं भविष्यतीत्येकत्वाध्यवसायेन सत्त्वाभावे ऽपि संवृत्या मायास्वभावतया / वस्तुतो निरीहत्वात् सर्वधर्माणामन्यत्र प्रतीत्यसमुत्पादात् / तदुक्तम्-
निरीहा वशिकाः शून्या मायावत्प्रत्ययोद्भवाः / सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः // इति / [चतुः-2.22] तस्मात् संवृतेरेव कार्यार्थव्यापारः / ननु च मोहो नाम अविद्यास्वभावतया सर्वथैव अनुपादेयः / तत् कथं पुनस्तस्यैव स्वीकारः इत्यत आह दुःखेत्यादि- दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते // bca_9.77 // द्विविधो हि मोहः- संसारप्रवृत्तिहेतुः तत्प्रशमहेतुश्च / तत्र यः संसारनिदानम्, स प्रहातव्य एव / अन्यस्तु यः परंपरया दुःखव्युपशमार्थं सर्वसत्त्वजात्यादिव्यसननिमित्तं (bcp 230) कार्यमोहः कार्यस्य परमार्थसत्यलक्षणस्याधिगमाय मोहः, स पुनर्न वार्यते, न प्रतिषिध्यते / उपादीयते एव, परमार्थोपयोगित्वात् / इदमिहाधिकृतम्, तदपि कार्यं नात्मसुखाभिलाषेण महद्भिरुपादीयते, अपि तु सर्वसत्त्वानामात्यन्तिकसर्वदुःखव्युपशमार्थम् / तत्र च उपेयभूतः परमार्थाधिगम एव / तस्याप्युपायभूतं [संवृतिसत्यम्] / संवृतिसत्यमन्तरेण परमार्थानधिगमात् / इति दुःखप्रशमार्थता कार्यमोहस्य / एतत् कार्यार्थमविचारतः [9.4] इत्यस्मिन् प्रस्तावे प्रतिपादितमेव पूर्वम् / पुनर्विपञ्चयितुमुक्तम् //
स्यादेतत्- यथा दुःखोपशमहेतुत्वात् कार्यमोहो ऽविद्यास्वभावो ऽभ्युपगम्यते, तथैव आत्ममोहो ऽपि तद्धेतुत्वादस्तु / तत् किमात्मा यत्नेन निषिध्यते? तत्सद्भावे ऽपि आत्मभावनया अहंकारपरिक्षयात् भविष्यति संसारनिवृत्तिः / ततः किं नैरात्म्यभावनयेत्यत्राह दुःखहेतुरित्यादि-
दुःखहेतुरहंकार आत्ममोहात्तु वर्धते /
यथा कार्यमोहो दुःखोपशमहेतुः, न तथा द्वितीय आत्ममोहः, तस्मिन् सति अहंकारक्षयाभावात् / आत्ममोहात्तु अनात्मनि आत्मविपर्यासदर्शनात् पुनरहंकारो वर्धते, वृद्ध उपजायते / किंभूतः? दुःखहेतुः दुःखस्य सांसारिकस्य त्रिदुःखतालक्षणस्य हेतुः कारणम् / अहंकारक्षयाच्च दुःखोपशम इष्यते / सति च आत्मदर्शने कथमसौ निवर्तेत? कारणे ऽविकलसामर्थ्ये कार्यस्य निवृत्त्ययोगात् / ततो दुःखमपि न निवर्तते / तथाहि आत्मानं पश्यतः संस्कृतेषु स्कन्धधात्वायतनेषु अहमिति दृढतरमुत्पद्यते स्नेहः / ततस्तद्दुःखप्रतीकारेच्छया सुखाभिलाषो दोषान् प्रच्छाद्य तदर्थितया गुणाध्यारोपात् तत्साधनेषु प्रवर्तते / स्वोपकारिणि वयमिति बुद्धिरुपजायते / अहं ममेति च दर्शनात् परिपन्थिनि विद्वेषः / ततः समस्तदुःखनिदानं सर्व एव क्लेशोपक्लेशा लब्धप्रसराः प्रवर्तन्ते / इति आत्ममोहप्रवर्तितो दुःखहेतुरहंकारो भवति / तदुक्तमाचार्यपादैः-
यः पश्यत्यात्मानं तस्यात्राहमिति शाश्वतस्नेहः / स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते //
गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते / तेनात्माभिनिवेशो यावत्तावत्तु संसारः //
आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ / अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते //
इति //
इत्थमात्मस्नेहान्निवर्तयितुमशक्यो ऽहंकारः /
ततो ऽपि न निवर्त्यश्चेत्
ततो ऽपि आत्मदर्शनादपि न निवर्त्यो निवर्तयितुमशक्यो ऽहंकारश्चेद् यदि, तदा- वरं नैरात्म्यभावना // bca_9.78 // नैरात्म्यस्य पुद्गलादिविरहस्य भावना अभ्यासः / वरमुत्तमम् / आत्मदर्शनप्रवृत्ताहंकारनिवृत्तिहेतुत्वात् / तावत्कालमस्तु, पश्चात् पुनरियमपि प्रहास्यते, उपलम्भदृष्टित्वादिति भावः / तथाहि तद्भावनाप्रकर्षपर्यन्तगमनात् साक्षान्नैरात्म्यदर्शनात् विरोधि सत्कायदर्शनं निवर्तते / तन्निवृत्तौ च एकस्यानुगामिनो दर्शनाभावात् पूर्वापररूपविकलस्य क्षणमात्रस्य दर्शनम् / ततः पूर्वापरसमारोपाभावात् न अनागतसुखसाधनं किंचिदात्मनः पश्यति / ततो न तस्य क्वचिद्विषये रागो जायते, नापि तत्प्रतिविरोधिनि द्वेषः, आसङ्गाभावादेव / नाप्यकारिणं प्रति अपकारस्थानं पश्यति / येन यस्मिन् कृतो ऽपकारः, तयोर्द्वयोरपि द्वितीयक्षणे ऽभावात् / न च अन्येन कृते ऽपकारे प्रेक्षावतः अन्यत्र वैरनिर्यातनमुचितम्, नापि यस्य कृतस्तेनापि / एवं रागादिनिवृत्तौ अन्ये ऽपि तत्प्रभवाः क्लेशोपक्लेशा नोत्पद्यन्ते / नापि वस्तुतः कश्चित् कस्यचिदपकारी, इदं प्रतीत्य इदमुत्पद्यते इति प्रतीत्यसमुत्पाददर्शनाद्वा / एवं हि पुद्गलशून्यतायां सत्कायदर्शननिवृत्तौ छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति / यथोक्तमार्यतथागतगुह्यसूत्रे-
तद्यथापि नाम शान्तमते वृक्षस्य मूलच्छिन्नस्य सर्वशाखापत्रपलाशं शुष्यति, एवमेव शान्तमते सत्कायदृष्टिप्रशमात् सर्वक्लेशा उपशाम्यन्तीति //
तस्माद्वरं नैरात्म्यभावना //
गतमिदमानुषङ्गिकम् / संप्रति पुनरहंकारविषयं निरूपयितुमुपक्रमते / स्यादेतत्यदि नाम आत्मा विचारेण खरविषाणसदृशत्वान्नाहंकारस्य विषयः, तथापि कायावयवी तद्विषयो भविष्यतीत्यत्राह कायो नेति-
कायो न पादौ न जङ्घा नोरू कायः कटिर्न च / नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः // bca_9.79 //
न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः / न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः // bca_9.80 //
कायो ऽपि विचारेणैको नैव कश्चिदस्तीत्युपदर्शयति- तथा हि करचरणादयो भागा एवं परं दृश्यन्ते, न त्वेकः कायो नाम प्रतिभासते / न च तेष्वन्यतमः कायो युज्यते / यतः कायो न पादौ, न चरणौ, न जङ्घा / जङ्घा च कायो न भवति / नोरू जङ्घैकदेशविशेषौ न कायः / कटिर्न च, श्रोणिरपि नैव कायः / नोदरम्, जठरमपि कायो न भवति / नाप्ययं पृष्ठम्, अयं कायः पृष्ठमपि नैव / नोरः, नोरो वक्षो ऽपि न कायः / बाहू न चापि सः, स कायो भुजावपि न भवति / न हस्तौ, करावपि न कायः / नाप्ययं पार्श्वौ, (bcp 232) अयं कायः पार्श्वावपि न भवति / न कक्षौ, भुजमूले अपि न कायः / नांसलक्षणः, नापि स्कन्धस्वभावः कायः / न ग्रीवा, न कंधरा कायः / न शिरः कायः, मस्तको ऽपि कायो न भवति / चरणादीनां वक्ष्यमाणविचारेण परमाणुशो ऽप्यनवस्थानात्, करचरणादीनामन्यतमच्छेदे कायविनाशेन मरणप्रसङ्गात्, पराभ्युपगमाभावाच्च नैषु प्रत्येकं कायात्मता / एवं यदा न प्रत्येकमेते कायस्वभावाः, एतत्समुदायमात्रं च शरीरम्, तत् कायो ऽत्र कतरः पुनः, अत्र एषु पादादिभागेषु पुरोवर्तिषु शरीरकल्पनानिमित्तेषु कतरः कायो भवतु? नैव कश्चिदेको ऽपि निरूप्यमाणः कायात्मक उपलभ्यते इति यावत् //
अथापि स्यात्- नैवमभिधीयते प्रत्येकं करादयः कायः, किं तर्हि सर्वावयवव्यापकत्वादवयविनः सर्वावयवेषु वर्तते इत्यत्राह यदीत्यादि-
यदि सर्वेषु कायो ऽयमेकदेशेन वर्तते /
सर्वावयवेषु वर्तमानो ऽयमेकदेशेन वर्तते, युगपत् सर्वात्मना वा? तत्र यदि सर्वेषु करचरणादिषु अवयवेषु कायो ऽवयवी, एकदेशेन वर्तते, केनचिद् भागेन कंचिदवयवं व्याप्नोति / न सर्वात्मना सर्वमित्यर्थः / तदा एतन्न वक्तव्यम् / यतः यैरेकदेशैरवयवेषु वर्तते, तेष्वपि किमेकदेशेषु अपरैः एकदेशेन वर्तते, सर्वात्मना वेति विकल्पो न निवर्तते / तत्रापि पुनरेकदेशेन वृत्तिकल्पनायामनवस्थानिवृत्तिर्न स्यात् / अपि च / तस्य अवकाशाभावादेव अवयवेषु न वृत्तिरित्याह अंशा इत्यादि- अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः // bca_9.81 // अंशा भागाः अंशेषु स्वस्वभागेषु वर्तन्ते व्यवतिष्ठन्ते, स्वस्वभागव्यवस्थितत्वात् सर्वभावानाम् / स च कुत्र स्वयं स्थितः? स्वयं पुनरसौ कायो ऽवयवी क्व नु नाम व्यवस्थितः इति न विद्मः //
अथ द्वितीयो विकल्पः, तत्राह सर्वात्मनेति-
सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु / कायास्तावन्त एव स्युर्यावन्तस्ते करादयः // bca_9.82 //
सर्वात्मनापि वृत्तिसंभावनायाम् / अवयवेषु अनवकाशत्वात् स च कुत्र स्वयं स्थितः इति प्रसङ्गो नाद्यापि निवर्तते / तथापि पुनरपरमुच्यते- सर्वात्मना सर्वभावेन नैकदेशेन / सर्वत्र सर्वेषु करादिष्ववयवेषु / आदिशब्दाच्चरणादिषु स्थितः समवेतः कायावयवी चेत् यदि, तदा पुनरयं दोषः स्यादित्याह- काया इति / कायावयविनः तावन्त एव स्युः, तत्संख्यापरिच्छिन्ना एव प्राप्नुयुः / कियन्तः? यावन्तस्ते करादयः, ते करचरणादयो ऽवयवायावन्तः यत्संख्यापरिच्छिन्नाः, तत्समवेता अवयविनो ऽपि तावन्त एव भवेयुः / तस्य निरंशतया सर्वात्मना तेषु परिसमाप्तत्वात् / तदनेकसंबन्धादनेकत्वात् / नान्यथा एकवृत्तिः स्यात् / अयं च प्रसङ्गः अनेकत्र एकदेशेन वृत्तिपक्षे ऽपि योजयितव्यः / यथा रक्तारक्तपिहितापिहितकम्पादयो ऽपि यथायोगं वक्तव्या इति //
एवं प्रत्यक्षादिप्रमाणसमधिगम्यः कायो नास्ति / बाधकं पुनरस्य अनन्तरमुक्तमस्तीति प्रसाधितमित्युपदर्शयन्नाह नैवान्तरित्यादि-
नैवान्तर्न बहिः कायः कथं कायः करादिषु /
पूर्वमन्तर्व्यापारपुरुषप्रतिषेधात् मांसशोणितादीनां विचारितत्वात् नैवान्तर्मध्ये कायः / अधुना पुनरवयविनः प्रतिषेधात् न बहिः न बाह्यः प्रत्यक्षादिगोचरः कायः, इति कथं कायः करादिषु व्यवस्थाप्यते? अथ करादिव्यतिरिक्तो भविष्यतीत्याह करादिभ्य इत्यादि- करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते // bca_9.83 // करादिभ्यो ऽवयवेभ्यः पृथग् भिन्नः उपलब्धिलक्षणप्राप्तः कायो नास्ति, न प्रतिभासते / करादय एव हि केवलाः प्रतिभासन्ते / एवं यो न करादिस्वभावः, नापि तदाधेयः समवेतो नाप्यन्तर्गतः, न चापि तद्वयतिरिक्तः, स कायः कथं नु खलु विद्यते? कथं न्विति कथंचिदपि कायमनुपलभमानः तत्सत्त्वमसंभावयन् पृच्छति- कथं नु केन प्रकारेण / न्विति विमर्शे / विद्यते, तत्सत्ता व्यवस्थाप्यते?
यदा चैवं विचारेण कायो व्यवस्थापयितुमशक्यः, तदा असन्नेव व्यवहर्तव्य इत्युपसंहरन्नाह तन्नास्तीत्यादि-
तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु /
तन्नास्ति काय इति, यस्मादुक्तविचारेण नोपलभ्यते, तस्मादुपलब्धिलक्षणप्राप्तो ऽनुपलभ्यमानो नास्ति कायः यदि नास्ति, कथं तर्हि करादिषु कायबुद्धिरित्याह- मोहात्तु इत्यादि / मोहादविद्यावशात् तु पुनः कायबुद्धिः करादिषु एकद्रव्यरहितेषु, न तु परमार्थतः / अवधारणे वा तुशब्दः / तथाहि अनवराग्रसंसारप्रवृत्तिजन्मपरंपरापरिचितमिथ्याभ्यासवासनावशात् यथावस्थितवस्तुतत्त्वप्रतिपत्तावपि तद्विपरीतसमारोपकल्पना उपजायते / तदुपनिबद्धो ऽयं कायादिव्यवहारो लोके प्रवर्तते, न तु पारमार्थिक इति //
कथमन्यत्र सा न भवति इत्यत्राह संनिवेशेति- संनिवेशविशेषेण स्थाणौ पुरुषबुद्धिवत् // bca_9.84 // करचरणादिसंनिवेशः संस्थानम्, तदेव विशेषो भेद इतरस्मात्, तेन विभ्रमहेतुना करादिष्वेव, न सर्वत्र सा भवति / प्रतिनियतविषया हि भ्रान्तय इष्यन्ते / कथमिव? स्थाणौ पुरुषबुद्धिवत् / यथा स्थाणौ पुरुषस्वभावरहिते ऽपि पुरुषसाधारणोर्ध्वतादिसंनिवेशविशेषमुपलब्धवतो दूरादविवेचितपरविशेषस्य कस्यचित् विभ्रमात् पुरुषबुद्धिरुपजायते, तथा प्रकृते ऽपीत्यर्थः //
स्यादेतत्- कथं पुनरेतदवसितं मोहात् कायबुद्धिः, न तु पुनर्वस्तुतः इत्यत्राह यावदित्यादि-
यावत्प्रत्ययसामग्री तावत्कायः पुमानिव /
यावत् यावत्कालावधिपरिच्छिन्ना प्रत्ययानां कारणानां पृथिव्यादिषड्धातुषट्स्पर्शायतनाष्टादशमनोपविचारात्मकानां कर्मायत्तवृत्तीनां सामग्री समवधानम्, तावत्कालावधिरेव कायः पुमानिव / यथा पुरुषस्वभावविरहितो ऽपि परमार्थतः परिकल्पितरूपतया पुरुष इव प्रतिभासते व्यवह्रियते / उपलक्षणं चैतत् / स्त्री वेत्यपि द्रष्टव्यम् / न पूर्वं कललाद्यवस्थायां न पश्चाद्विकलितत्वाद् भस्माद्यवस्थायां निजस्वभावाभावात् / इदमत्रापि सामान्यमित्युपदर्शयन्नाह एवमित्यादि- एवं करादौ सा यावत्तावत्कायो ऽत्र दृश्यते // bca_9.85 // यथा प्रत्ययसामग्रीसद्भावे कायः पुमानिव प्रतिभासते, सद्भावेन प्रतिभासते, एवं तथा करादौ यावत् सा प्रत्ययसामग्री, तावत् कायो ऽत्र करादौ दृश्यते, कल्पनावशात् प्रतिभासते, न तु परमार्थतः / तस्मात् सामग्रीसाकल्ये भवति, तदभावे च न भवति कायबुद्धिः / अतो मोहादेव करादिषु कायबुद्धिरिति निश्चितम् / अयमत्र समुदायार्थःतत्तत्प्रत्ययसामग्रीसद्भावे तत्तद्वस्तुस्वभावमन्तरेणापि अभूतं तत्त्वमादर्शयन्ती भ्रान्तिवशादसौ कल्पना उपजायते / तद्वशात् संनिवेशविशेषेषु स्त्रीपुरुषकायादिव्यवहारः प्रवर्तते / अत एव भस्माद्यवस्थायां सामग्रीवैकल्यान्निवर्तते / अतो नायं कायादिव्यवहारो वास्तव इति वक्ष्यति / तदुक्तम्-
कायस्वभावो वक्तव्यो यो ऽवस्थारहितः स्थितः / कायश्चेत्प्रतिमाकारः पेशीभस्मसु नास्ति सः //
सूक्ष्मभावेन चेत्तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः / अनिर्देश्यः स्वतः प्राप्तः काय इत्युच्यते कथम् //
इति /
उक्तं च-
हेतुतः संभवो यस्य स्थितिर्न प्रत्ययैर्विना / विगमः प्रत्ययाभावात् सो ऽस्तीत्यवगतः कथम् //
इति / [युक्तिषष्टिका-]
क्वचित् पाठः-
यावत्प्रत्ययसामग्री तावत्काष्ठं पुमानिव //
इति /
तत्रेदं व्याख्येयम्- यावद्विपर्यासप्रत्ययसामग्री स्थाणौ पुरुषप्रतीतिः, तावत् काष्ठं स्थाणुस्वभावं पुमानिव प्रतीयते, न तदभावे / एवमेव करादौ यावत् सा प्रत्ययसामग्री, तावत् कायो ऽत्र करादौ दृश्यते, न पश्चात् / अतो मोहादेव कायबुद्धिरिति निश्चयः //
ननु यदि नाम कायो नास्ति, करचरणादयः पुनरवयवाः प्रत्यक्शोपलब्धत्वात् प्रतिषेद्धुमशक्याः इत्याशङ्कय करादयो ऽपि परिकल्पितस्वभावा एवेत्युपदर्शयितुमाह एवमङ्गुलीत्यादि-
एवमङ्गुलिपुञ्जत्वात्पादो ऽपि कतरो भवेत् /
यथैव विचार्यमाणः कायो नास्ति, एवं करचरणादयो ऽपि न सन्ति / यतः अङ्गुलीनां पुञ्जः समुदायः / अङ्गुलीनामित्युपलक्षणम् / पार्ष्णिप्रभृतीनामपि द्रष्टव्यः / तस्य भावस्तत्त्वम्, तस्मात् तत्स्वभावादित्यर्थः / पादो ऽपि चरणो ऽपि कतरो भवेत्? तत्समुदायमन्तरेण विचार्यमाणो नैव कश्चिदिति भावः / अङ्गुलिपुञ्जो ऽपि नैकस्वभाव इत्याह सो ऽपीत्यादि- सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः // bca_9.86 // सो ऽपि अङ्गुलिपुञ्जो ऽपि विचारतो न वस्तुसन् / कुतः? पर्वसमूहत्वात्, पर्वणामङ्गुलिभागानां समूहत्वात् संघातत्वात् कतरो भवेदिति प्रकृतेन संबन्धः / पर्वणामपि प्रत्येकमवस्तुत्वमित्यत आह- पर्वापि न वस्तु / कस्मात्? स्वांशभेदतः, स्वस्य आत्मनः अंशानामवयवानां भेदतो ऽपि विभागात् //
अंशा अपि तत्त्वतो न सन्तीत्याह-
अंशा अप्यणुभेदेन
इति / अंशाः पर्वभागाः अपि अणुभेदेन परमाणुशो विभागेन भिद्यमानत्वात् कल्पिता एव / अणवो ऽपि न प्रत्येकं परमार्थसन्तः इत्याह-
सो ऽप्यणुर्दिग्विभागतः /
दिशां पूर्वापरदक्षिणोत्तराधरोर्ध्वस्वभावानां संबन्धेन विभागतो नानात्वात् / तद्विभागभेदाद्भिद्यमानस्य परमाणोः षडंशता स्यात् / दिक्षु वा विभागाः नानादिगवस्थिता नानारूपांशाः परमाणोः, ततो भेदेन न तस्य स्वभावो ऽवतिष्ठते //
दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते / [विंशकारिका-14]
इति न्यायात् / तथाहि- पूर्वापरादिदिगवस्थितपरमाण्वभिमुखं यत् तत् परमाणोर्मध्यवर्तिनो रूपम्, तत् किमेकमेव, अपरापरं वा? यदि एकमेवेति पक्षः, तदा सर्वपरमाणूनां परिवार्यावस्थितानामेकदेशताप्रसङ्गः / यतः पूर्वादिदिगवस्थितपरमाणुसमानदेशतामन्तरेण अपरदिगाद्यवस्थितपरमाणुना न प्राग्देशावस्थितपरमाण्वभिमुखरूपाभिमुखं स्यात्, अन्यथा रूपभेदप्रसङ्गात् / तत्समानदेशता च न तत्स्वरूपान्तर्भावमन्तरेण, तस्यापि पूर्वदिगवस्थितस्य परमाणोरपरपरमाणुना सर्वात्मना संबन्धेन तत्स्वरूपान्तर्भावात् परमाणुमात्रं द्रव्यं स्यात् / तथा च सति प्रचयरूपा भूधरादयो न स्युः / अतो भवनादीनां प्रचयमिच्छता द्वितीय एव पक्षः समभ्युपेयः / तदा च षड्भिरपरापररूपेण युगपत् संबन्धात् षड्भागो मध्यपरमाणुः स्यात्, तत्तद्देशावस्थितापरापरपरमाणुसंबन्धेन तत्परमाणुरूपस्य भेदात् / इति परमाणुरपि नैकस्वभावो युक्तः / यदुक्तमाचार्यपादैः-
षट्केन युगपद्योगात्परमाणोः षडंशता / षण्णां समानदेशत्वात् पिण्डः स्याद्वाणुमात्रकः // इति / [विंशकारिका-12] ते ऽपि पुनरणीयांसो भागाः तथैव निरूप्यमाणाः निरात्मतया नभःस्वभावतां प्रतिपद्यन्ते इत्याह दिग्विभागो ऽपीत्यादि- दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः // bca_9.87 // दिग्विभागो ऽपि दिग्भेदेन परमाणोर्विभागो ऽपि पूर्ववत् षडंशतया भिद्यमानः कतरो भवेत्? न किंचिद्वस्तु स्यात् / एतत् सर्वत्र पूर्वेषु योजनीयम् / कुतः? अनंशत्वात् / अतो ऽभिनिकृष्यमाणो निःस्वभावतया आकाशं शून्यमेव / तेन कारणेन नास्त्यणुः, न विद्यते परमाणुरिति / एवं करादयो ऽपि विचारतो निःस्वभावा द्रष्टव्या इति / ततः कायो ऽपि न परमार्थतः कश्चिदस्ति, एकानेकस्वभाववियोगस्य प्रतिपादनात् / इत्थं न केशादयः, न चात्मा, नापि चित्तम्, न च कायः अहंकारस्य विषयो वस्तुतः / तस्मादविद्यासमुत्थापितात्मतया आत्मादिसत्त्वमन्तरेणापि प्रवर्तमानो ऽयमहमिति प्रत्ययो निर्विषय एव समुत्पद्यते / तेन यदुक्तम्-
अहमेव न किंचिच्चेद्भयं कस्य भविष्यति /
इति, तत् समर्थितम् / सर्वेण चैतेन कायस्मृत्युपस्थानमुपदर्शितं भवति / यदुक्तं धर्मसंगीतिसूत्रे-
पुनरपरं कुलपुत्र बोधिसत्त्व एवं कायस्मृतिमुपस्थापयति- अयं कायः पादपादाङुलिजङ्घोरुत्रिकोदरनाभीपृष्ठवंशहृदयपार्श्वपार्शुकाहस्तकलाचीबाह्वङ्गग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारकोपचितः नानाक्लेशोपक्लेशसंकल्पविकल्पशतसहस्राणामावासः / बहूनि चात्र द्रव्याणि समवहितानि यदुत केशरोमनखदन्तास्थिचर्मपिशितवपास्नायुमेदोवसालसिकायकृन्मूत्रपुरीषामाशयपक्काशयरुधिरखेटपित्तपूयसिंघाणकमस्तिष्कमस्तकलुङ्गानि / एवं बहुद्रव्यसमूहः / तत् को ऽत्र कायः? तस्य प्रत्यवेक्षमाणस्य एवं भवति- आकाशसमो ऽयं कायः / स आकाशवत् काये स्मृतिमुपस्थापयति / सर्वमेतदाकाशमिति पश्यति / तस्य कायपरिज्ञानहेतोर्न भूयः क्वचित् स्मृतिः प्रसरति, न विसरति, न प्रतिसरतीति //
पुनरुक्तम्-
अयं कायो न पूर्वान्तादागतो नापरान्ते संक्रान्तो न पूर्वान्तापरान्तावस्थितो ऽन्यत्रासद्विपर्याससंभूतः कारकवेदकरहितो नाद्यन्तमध्ये प्रतिष्ठितमूलः, अस्वामिको ऽममो ऽपरिग्रहः / आगन्तुकैर्व्यवहारैर्व्यवह्रियते काय इति देह इति भोग इति आश्रय इति कुणप इति आयतनमिति / असारको ऽयं कायः मातापितृशुक्रशोणितसंभूतः अशुचिपूतिदुर्गन्धिस्वभावः (bcp 237) रागदोषमोहविषादतस्कराकुलः नित्यं शतनपतनभेदनविकिरणविंध्वंसनधर्मा नानाव्याधिशतसहस्रनीड इति //
एवं यदा विचार्यमाणो वस्तुतः शून्यस्वभावतया आकाशसंकाशः सर्वथा कायः, तदा मिथ्यैव वस्तुतत्त्वमारोप्य रागादिकमुत्पादयन्तः संसारमुपबृंहयन्ति बालाः इत्याहएवमित्यादि-
एवं स्वप्नोपमे रूपे को रज्येत विचारकः /
एवमित्युक्तक्रमेण स्वप्नोपमे स्वप्नोपलब्धे इव रूपे ऽसौमनस्यस्थानीये को रज्येत, क आसज्येत? अस्य च उपलक्षणत्वात् को द्विष्यात्, को मुह्येत्, इत्यपि वेदितव्यम् / तद्यथा- सौमनस्यस्थानीयानि चक्षुषा रूपाणि दृष्ट्वा रागो जायते / दौर्मनस्यस्थानीयानि चक्षुषा रूपाणि दृष्ट्वा द्वेषो जायते / उपेक्षास्थानीयानि चक्षुषा रूपाणि दृष्ट्वा मोहो जायते इति / यदेतन्मनोप्रतिकूलेषु रूपेष्वनुनीतं चरति, तेनास्य राग उत्पद्यते / प्रतिकूलेषु रूपेषु प्रतिहतं चरति, तेनास्य द्वेष उत्पद्यते / नैवानुकूलेषु न प्रतिकूलेषु संमूढं चरति, तेनास्य मोह उत्पद्यते / एवं शब्दादिषु त्रिविधमालम्बनमनुभवति पूर्ववत् / तत्र यः पण्डितजातीयः, इति हि अत्यन्तया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन तत् पूर्वान्ततो ऽपि नोपलभ्यते, अपरान्ततो ऽपि नोपलभ्यते, मध्यतो नोपलभ्यते स्वभावरहितत्वात् / एवमन्येषु श्रोत्रादिषु वक्तव्यम् / एवमत्यन्ततया रूपायतनं रूपायतनं रूपायतनस्वभावेनेत्यादि पूर्ववत् / एवं शब्दादिषु वाच्यम् //
इति हि मायोपमानीन्द्रियाणि स्वप्नोपमान् विषयान् पश्यति, तस्य कथं रागादिकमुत्पद्यते? अत एवाह- विचारक इति / विचारको विचक्शणः / एवमेतद्यथाभूतं सम्यक् प्रज्ञया पश्यन् को रज्येत द्वेष्टि मुह्यति वा? अत्र च स्वप्नोपलब्धजनपदकल्याणीप्रभृति भगवतोक्तं निदर्शनमुपदर्शितव्यम् / कायाभावे च स्त्रायादिकल्पनयापि रागो न युक्त इत्याह कायश्चेत्यादि- कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः // bca_9.88 //
हेतुसमुच्च्ये चकारः / यस्मात् स्त्र्यादिकल्पनया रागो न भवति / कायो यदा एवमुदितनयेन नास्ति, निःस्वभावः, तदा कायाभावात् का स्त्री कामिनी यस्याः कमनीयतया पुरुषे रागो भवेत्? कश्च पुमान् कामुकः यस्य रञ्जनीयतया स्त्रियां रागो भवेत्? स्त्री हि स्वात्मनि स्त्रीति संकल्प्य बहिर्धा पुरुषे पुरुष इति रागं जनयति / एवं पुरुषो ऽपि स्वात्मनि पुरुष इति संकल्प्य बहिर्धा स्त्रियां स्त्रीति रागं जनयति / कायाभावे तु स्त्रियां स्त्रीति न संविद्यते, पुरुषे पुरुषो न संविद्यते / यच्च स्वभावेन न संविद्यते, न तत् स्त्री न पुरुष इति / तस्मादसति काये स्त्र्यादिकल्पनाकृतो ऽपि न युज्यते रागः / तत्कस्य हेतोः? मन्यनापगता हि सर्वधर्मा इति / यथाप्रधानमयं निर्देशः / एवमेव स्त्रक्चन्दनादयो ऽपि स्वभावरहिता वेदितव्याः / तथा द्वेषमोहविषया अपीति / उक्तं चैतद्भगवता पितापुत्रसमागमे-
षड्धातुरयं महाराज पुरुषः, षट्स्पर्शायतनः, अष्टादशमनोपविचारः / षड्धातुरयं महाराज पुरुष इति खलु पुनरेतद् युक्तम् / किं चैतत् प्रतीत्य कम्? षडिमे महाराज धातवः / कतमे षट्? तद्यथा- पृथ्वीधातुः, अब्धातुः, तेजोधातुः, वायुधातुः, आकाशधातुः, विज्ञानधातुश्च / इमे महाराज षड् धातवः / यावत् षडिमानि महाराज स्पर्शायतनानि / कतमानि षट्? चक्षुःस्पर्शायतनं रूपाणां दर्शनाय यावन्मनःस्पर्शायतनं धर्माणां विज्ञानाय / इमानि महाराज षट् स्पर्शायतनानि / पेयालं / अष्टादश इमे महाराज मनौपचाराः / कतमे अष्टादश? इह पुरुषः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यदौर्मनस्योपेक्षास्थानीयानि रूपाण्युपविचरति / एवं श्रोत्रादिषु वाच्यम् / तेन प्रत्येकमिन्द्रियषट्केन सौमनस्यादित्रयभेदादष्टादश मनौपविचारा भवन्ति / पेयालं / कतमश्च महाराज आध्यात्मिकः पृथ्वीधातुः? यत् किंचिदस्मिन् काये ऽध्यात्मं कक्खटत्वं खरगतमुपात्तम् / तत् पुनः कतमत्? तद्यथा- केशा रोमाणि नखा दन्ता इत्यादि / कतमश्च महाराज बाह्यः पृथ्वीधातुः? यत् किंचिद् बाह्यं कक्खटत्वं खरगतमुपात्तम् / अयमुच्यते बाह्यः पृथ्वीधातुः / तत्र महाराज आध्यात्मिकः पृथ्वीधातुः उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो न क्वचित् संनिचयं गच्छति / भवति महाराज समयो ऽयं यत् स्त्री अध्यात्मं [अहं] स्त्रीति कल्पयति / सा अध्यात्ममहं स्त्रीति कल्पयित्वा बहिर्धा पुरुषं पुरुष इति कल्पयति / सा बहिर्धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगमाकाङ्क्षते / पुरुषो ऽपि अध्यात्मं पुरुषो ऽस्मीति कल्पयतीति पुर्ववत् / तयोः
संयोगाकाङ्क्षायां संयोगो भवति / संयोगप्रत्ययात् कललं जायते / तत्र महाराज यश्च संकल्प्यते, यश्च संकल्पयिता, उभयमेतन्न संविद्यते / स्त्रियां स्त्री न संविद्यते / पुरुषे पुरुषो न संविद्यते / इति हि असन्नसद्भूतः संकल्पो जायते / सो ऽपि संकल्पः सद्भावेन न संविद्यते / यथा संकल्पः, तथा संयोगो ऽपि / कललमपि स्वभावेन न संविद्यते / यच्च स्वभावतो न संविद्यते, तत् कथं कक्खटत्वं जनयिष्यति? इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वमुत्पद्यमानं न कुतश्चिदागच्छतीति / भवति महारज समयः, यदयं कायः श्मशानपर्यवसानो भवति / तस्य तत् कक्खटत्वं संक्लिद्यमानं संनिरुध्यमानं न पूर्वां दिशं गच्छति, न दक्षिणाम्, न पश्चिमाम्, नोत्तराम्, नोर्ध्वम्, नाधः, नानुविदिशं गच्छति / एवं महाराज आध्यात्मिकः पृथिवीधातुर्द्रष्टव्यः / पेयालं / तत्र महाराज पृथिवीधातोरुत्पादो ऽपि शून्यः, व्ययो ऽपि शून्यः, उत्पन्नो ऽपि पृथिवीधातुः स्वभावशून्यः / इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन नोपलभ्यते, अन्यत्र व्यवहारात् / सो ऽपि व्यवहारो न स्त्री न पुरुषः / एवं महाराज यथाभूतं सम्यक् प्रज्ञया द्रष्टव्यमिति / तेन का मन्यना? मन्यना मारगोचरः / तत् कस्य हेतोः? मन्यनापगता हि सर्वधर्माः //
इति //
एवं कायस्मृत्युपस्थानं प्रतिपाद्य वेदनास्मृत्युपस्थानमुपदर्शयितुं वेदनां विचारयन्नाह यद्यस्तीत्यादि-
यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न वाधते / शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते // bca_9.89 //
त्रिविधा हि वेदनासुखा वेदना, दुःखा वेदना, अदुःखासुखा चेति / तत्र रूपवद्वेदनापि नास्ति परमार्थतः / कथमिति चेत् / यद्यस्ति दुःखम्, असातं वेदितम् / तत्त्वेन परमार्थतः / तदा प्रहृष्टान् किं न बाधते, संतोषयुक्तान् किं न दुःखयति? सुखमपि यद्यस्ति तत्त्वेन, तदा शोकाद्यार्ताय / आदिशब्दात् कामभयोन्मादार्ताय / मृष्टादि सुखं चेत्, मृष्टादि सुरसमाहारपानादि / आदिशब्दात् स्त्रकूचन्दनादि सुखं सुखहेतुत्वात् / सुखं चेद्यदि, किं न रोचते? न हि वस्तु सत्स्वभावं कदाचिदपि निवर्तितुमुत्सहते / तस्मात् कल्पनोपस्थापितमेव सुखदुःखं वेदनीयमिति //
यदुक्तं प्रहृष्टान् किं न बाधते इति, तत्र परस्य समाधानमाह बलीयसेत्यादि-
बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते /
न हि प्रहृष्टावस्थायां सर्वथैव दुःखमसत् / किं तर्हि समुद्भूतवर्तिना सुखेन तिरस्कृतत्वात् विद्यमानमपि नानुभूयते, बलीयसा अतिबलवता सुखेन अभिभूतत्वादुपहतत्वात् / सदपि यदि तद्दुःखं नानुभूयते न वेद्यते इत्युच्यते, तदा न युक्तमेतदित्याह वेदनात्वमित्यादि- वेदनात्वं कथं तस्य यस्य नानुभवात्मता // bca_9.90 // वेदनात्वं वेदनास्वभावत्वं कथं केन प्रकारेण तस्याव्यक्तस्य सुखस्य यस्य नानुभवात्मता नानुभूयमानस्वभावता / वेद्यते इति हि वेदनोच्यते, वेदनानुभव इति वचनात् / यदि च अवेद्यमानापि वेदना स्यात्, तदा न किंचिन्न वेदना स्यादित्यतिप्रसङ्गः //
अथापि स्यात्- न सर्वथा नानुभूयते, किं तु सूक्ष्मतया अनुभूतमपि अननुभूतकल्पमित्यत्राह अस्तीत्यादि-
अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु / तुष्टिमात्रापरा चेत्स्यात्तस्मात् साप्यस्य सूक्ष्मता // bca_9.91 //
अस्ति विद्यते सूक्ष्मतया अनुपलक्श्यमाणतया दुःखम्, तर्हि बलीयसा सुखेन किं कृतमस्य? स्थौल्यमेव हृतं ननु, प्रहृष्टावस्थायां प्रवृत्तेन बलवता सुखेन स्थौल्यं प्राबल्यमस्य दुःखस्य हतमभिभूतम् / ननु, नन्विति परस्य संबोधने / इति मतं भो तव, न हि सूक्ष्मता नाम दुःखस्य सातानुभवकाले काचिदुपलभ्यते / तत् कथं सूक्ष्मता तस्येति वक्तव्यम् / अथ तुष्टिमात्रा अपरा तस्मादेव उद्भूतवृत्तेः सुखात्, अपरा तुष्टिमात्रा द्वितीया सुखमात्रा अल्पीयसी सुखकणिका स्यात्, दुःखस्य सूक्ष्मता भवेत्, चेद् यदि अभिप्रेतम्, ननु साप्यस्य सूक्ष्मता सापि तुष्टिमात्रा अपरा, अस्य सुखस्यैव सूक्ष्मता, न तु दुःखस्य, तुष्टेः सुखजातित्वात् / इति दुःखस्य सूक्ष्मता अवेद्यस्वभावा सुखानुभवकाले नास्त्येवेति निश्चितम् //
स्यादेतत्- न दुःखं काल्पनिकतया कादाचित्कम्, किं तर्हि कारणवैकल्यात् कदाचिन्नोपलभ्यते इत्यत्राह विरुद्धेत्यादि-
विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि /
दुःखेन विरुद्धस्य सुखस्य यः प्रत्ययो हेतुः स्पर्शः, तस्योत्पत्तौ आभिमुख्ये सति / अथ वा / विरुद्धस्य प्रत्ययस्य सुखहेतोरुत्पत्तौ जन्मनि, विरुद्धः प्रत्ययो ऽस्येति वा / दुःखेनेत्यपेक्षायामपि गमकत्वाद्भवति समासः / तस्योत्पत्तौ सत्यां प्रहृष्टावस्थायां हेतुवैकल्यात् दुःखस्यानुदयो दुःखस्यानुत्पत्तिश्चेदुच्यते, तदा- कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु // bca_9.92 // ननु यदेव अस्माभिरभिहितं तदेव सांप्रतमागतमायातम् / किं तत्? कल्पनया अभिनिवेशः, कल्पनया कृतो यो ऽभिनिवेशः, हिरवधारणे / स एव वेदना सुखा दुःखा तदितरा वा / नान्यत् वास्तवं सुखाद्यसुखादिहेतुर्वास्ति, इति / तथाहि निजस्वभावरहितमपि यत् सुखसाधनत्वेन परिकल्पितम्, तदभिनिवेशात्सुखं वेदितमुत्पद्यते, इतरस्मादितरत् / कथमन्यथा यदेव अन्यस्य दुःखसाधनम्, तदेव अपरस्य कस्यचित् सुखसाधनं स्यात्? तस्यैवैकस्य यस्य शब्दश्रवणादपि दुःखमासीत्, पुनः कालान्तरेण तस्य दर्शनात् प्रीतिरुपजायते / तस्मात् काल्पनिकमेव सुखादिकं तत्साधनं वा, न वास्तवम् / आह च-
अहिर्मयूरस्य सुखाय जायते विषं विषाभ्यासवतो रसायनम् / भवन्ति चानन्दविशेषहेतवो मुखं तुदन्तः करभस्य कण्टकाः //
इति /
वेदना अभिनिवेशस्वभावत्वादेव च विचारेण निवर्तयितुं शक्यते इत्याह अत एवेत्यादि-
अत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते /
अत एवेति / यत एव अभिनिवेशस्वभावा वेदना, अत एव विचारो ऽयं विमर्शो ऽयं प्रतिपक्षो विरोधी, निराकृतिकारणत्वात् अस्याभिनिवेशस्य सुखादिरूपस्य भाव्यते विचिन्त्यते / तत्साधनाभावे तदभिनिवेशाभावात् / अपि च / इत्थमप्यभिनिवेशो वेदनेत्याह विकल्पेत्यादि- विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः // bca_9.93 // अत एवेति वर्तते / विकल्प एव क्षेत्रं जन्मभूमित्वात् / तस्मिन् संभूतं जातं ध्यानं विविक्तं कामैः, विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं समाधिजं प्रीतिसुखमित्यादि / ध्यानादिभावना समाधिसमापत्तेर्विकल्पभवत्वात्, तदेव आहारः शरीरयापनाहेतुत्वात्, येषां ते तथोक्ताः / के ते? योगिनः / हिर्यस्मात् कल्पनानिर्मितप्रीतिसुखाहारसंधारितशरीरा योगिनः, तस्मात् कल्पनाभिनिवेशो वेदनेति प्रतिपादितम् //
सांप्रतं हेत्वनभिसंभवादेव न वेदना वस्तुसती युक्तेत्याह सान्तरावित्यादि-
सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः /
अयमत्र समुदायार्थः- स्पर्शप्रत्यया वेदना / विषयेन्द्रियविज्ञानानां त्रयाणां संनिपातश्च स्पर्शः / स्पर्शाः षट् संनिपातजाः [अभि. को.-3.30] इति वचनात् / स त्रिकसंनिपातजः स्पर्श एव न घटते, कुतस्तत्प्रत्यया वेदना भविष्यतीति / तथाहिइन्द्रियार्थयोः सान्तरयोर्वा स्यान्निरन्तरयोर्वा? तत्र इन्द्रियार्थावक्षविषयौ सान्तरौ सव्यवधानौ यदि, तदा संसर्गः संनिपातो मेलनं कुतः कस्मात् एतयोरिन्द्रियार्थयोः? नैव युज्यते / स्पर्शो हि संपर्क उच्यते / व्यवधाने सति स कथं भवेत् इति भावः / अथ द्वितीयः प्रकारः, सो ऽपि न युज्यते इत्याह निरन्तरत्वे इत्यादि- निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः // bca_9.94 // निरन्तरत्वे ऽपि व्यवधानाभावे ऽपि सति एकत्वं तादात्म्यमिन्द्रियार्थयोः / एवं हि तयोः सर्वात्मना नैरन्तर्यं भवेत् यदि अणीयसापि नांशेन व्यवधानं स्यात् सधर्मता च / तत्रान्तर्भावे तत्त्वमेव / एवं च कस्य केनास्तु संगतिः? एकत्वे सति भेदाभावात् किं केन संगतं स्यात्? न हि आत्मनैव आत्मनः संगतिर्युक्ताः /
स्यादेतत्- निरंशानामेव परमाणूनां संसर्गो वस्तुतः / न च तत्र अंशांशिव्यवहारो युक्तः, स्थूलरूपाणामेव तत्संभवात् / तत्र च संसर्गदूषणे न किंचिद्दूष्यते इत्याह नाणोरित्यादि-
नाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः /
परमाणूनामपि नैव संपर्को युक्तः / यतः एकस्याप्यणोरन्यस्मिन्नणौ न प्रवेशो ऽस्ति, नान्तर्भावो ऽस्ति / कुतः? चो यस्मात् / निराकाशः सः नीरन्ध्रः परमाणुः / समः स तुल्यः, निम्नोन्नताभावात् / इति कथं निरंशस्य संगतिरस्तु? अथापि स्यात्- मा भूदणोरणौ प्रवेशः, संगतिमात्रं केवलमस्तु, तावता सिद्धं नः साध्यमित्याह अप्रवेश इति- अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः // bca_9.95 // सर्वात्मना हि संपर्कः संगतिरणोः, अन्यथा सांशत्वप्रसङ्गात् / तथा च तत्स्वरूपं स्वात्मना व्याप्नुवत एव तेन संगतिः / एवं तत्स्वरूपमिश्रत्वाभावे संगतिर्न स्यात् / तच्च मिश्रत्वं तत्र प्रवेशमन्तरेण न भवेत् / इत्थमप्रवेशे प्रवेशाभावे सति न मिश्रत्वं नासंभिन्नरूपत्वम् / अमिश्रत्वे मिश्रत्वाभावे च न संगतिः नासङ्गः //
निरंशस्य सर्वथैव संसर्गो न युज्यते इत्याह निरंशस्य चेत्यादि-
निरंशस्य च संसर्गः कथं नामोपपद्यते /
निरंशस्य अंशशून्यस्य च पदार्थस्य / चो दूषणसमुच्चये / संसर्गो मीलनं कथं नामोपपद्यते? नामेति संभावयानाम् / कथं संसर्गः संभाव्यते? सर्वाल्पस्यापि अवश्यमेकेनांशेन भवितव्यम् / यस्य पुनरंश एव नास्ति, तस्य अमूर्तस्य अंशाभावे असत्त्वमेव प्राप्तमिति भावः / न चैतद् भवतो ऽपि प्रमाणप्रतीतं क्वचिदस्तीत्याह संसर्ग इत्यादि- संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय // bca_9.96 // .........................आह विज्ञानस्य त्वित्यादि-
विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते /
तुरतिशयाभिधाने / विज्ञानस्य विषयविज्ञप्तेः / पुनःसंसर्गो नैव युज्यते, न संगच्छते / कुतः? अमूर्तस्येति हेतुपदमेतत् / मूर्तिशून्यस्य विज्ञानस्य / अमूर्तत्वादित्यर्थः / परस्परसंपर्को हि संसर्गः / स च मूर्तिमतामेव विद्यते / यस्य तु मूर्तिरेव नास्ति, तस्य कथं संसर्गः स्यात्? इति त्रयाणामपि संसर्गमवधूय संप्रति समूह एव वस्तुसन् नास्ति इति प्रतिपादयन्नाह समूहस्यापीत्यादि- समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम् // bca_9.97 // अपि दूषणसमुच्चये / समूहस्यापि संघातस्यापि / अवस्तुत्वात् वस्तुरहितत्वात् अश्वविउषाणवत् संसर्गो नैव युज्यते इति प्रकृतेन संबन्धः / समूहस्यैवाभावात् / कथं पुनरवस्तुकत्वम्? यथा पूर्वं विचारितम्, यथा प्राङ् निरूपितम्, एवमङ्गुलिपुञ्जत्वादित्यादिना //
हेत्वसंभवमेव उपसंहरन्नाह तदेवमित्यादिना-
तदेवं स्पर्शनाभावे वेदनासंभवः कुतः /
तस्मादेवं प्रतिपादितक्रमेण स्पर्शनाभावे त्रिकसंपर्काभावे वेदनासंभवः कुतः, वेदनायाः सुखादिरूपायाः संभव उत्पादः कुतः, नैव युज्यते / कारणाभावे कार्यस्य संभवायोगात् / इति परमार्थतो वेदनाभावे हिताहितविषयस्यासंभवात् /
किमर्थमयमायासः
सुखदुःखसाधनप्राप्तिपरिहाराय यो ऽयमायासः क्रियते स किमर्थः? आकाशचर्वणार्थमिव नैवोचित इति भावः / मा भूत् सुखसाधनाय, दुःखस्याभिषोढुमशक्यत्वात् तत्परिहाराय भवतु चेदाह- बाधा कस्य कुतो भवेत् // bca_9.98 // वेदनाया विचारेण निःस्वभावत्वाद् बाधा अविचारतः आत्मादेः पूर्वनिरस्तत्वाद्वेदकाभावः / उपघातहेतोरपि विकल्पकल्पितत्वात् न परमार्थतः सत्त्वम् / इत्येवं बाधा पीडावेदनाभावात् कस्य वेदकाभावाद्भवेत्, कुत उपघातहेतोरभावाच्च भवेत्? नैव परमार्थतः कस्यचित् कुतश्चित् स्यात् / तस्माद्वेदित्रभावादपि वेदना न युक्ता //
संप्रति वेदनाभावात् तत्प्रत्यया तृष्णापि कारणविरहात् परमार्थतो नोत्पादमर्हतीत्युपदर्शयितुमाह यदा नेत्यादि-
यदा न वेदकः कश्चिद्वेदना च न विद्यते / तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे // bca_9.99 //
यो वेदनां वेदयते स वेदकः / यदा कश्चिदात्मादिर्नास्ति, तदभावात्समनन्तरनिरूपणाच्च वेदना न विद्यते / तदा अवस्थामिमां एवंविधां स्वजन्मविकलां दृष्ट्वा उपलभ्य तृष्णे किं न विदीर्यसे, तद्दुःखदुःखितापि सती किं न विशीर्यसे, यदद्यापि तद्वियोगविधुरा त्वमात्मानं न मुञ्चसि //
स्यादेतत्- यदि वेदको न स्यात्, वेदना च नास्ति, केनायं तर्हि सुखसाधनत्वादिना भावेषु दृष्टादिव्यवहारः प्रवर्तते इत्यत्राह दृश्यते इत्यादि-
दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना / चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते // bca_9.100 //
दृश्यते चक्षुरिन्द्रियजेन / स्पृश्यते कायेन्द्रियजातेन चित्तेन ज्ञानेन / एवं तर्हि चित्तमेव वेदकं वस्तुसदस्तीति चेदाह स्वप्नमायोपमात्मना / स्वप्नोपमस्वभावेन मायोपमस्वभावेन च / प्रतीत्यसमुत्पन्नेन चित्तेन, न तु परमार्थसता / कथं चित्ताद् व्यतिरिक्तं चित्तेन दृश्यते? सहजातत्वात्, चित्तेन सहोत्पन्नत्वात् चित्तेन सह जन्म यस्य तस्य दर्शनम्, एकसामग्रीप्रतिबद्धत्वात् प्रतीत्यसमुत्पादस्याचिन्त्यत्वाच्च / न तु परमार्थतो दर्शनमस्ति येनैवं दृष्टादिव्यवहारः / वेदना तेन नेक्ष्यते, येन दृष्टसुखसाधनादिव्यवहारो ऽप्यन्यत एव, तेन कारणेन वेदना नेक्ष्यते, न दृश्यते वस्तुतः //
अथापि स्यात्- न सहजं दृश्यते, अपि तु ज्ञानं विषयाकारतया तत उत्पद्यमानमुत्तरकालं तस्य ग्राहकमुच्यते, इत्येतदपहस्तयितुमाह पूर्वमित्यादि-
पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते /
अवश्यं सहजातस्य वेदनम्, अन्यथा पूर्वं प्राग्भावि पश्चादुत्तरकालं जातेन उत्पन्नेन ज्ञानेन स्मर्यते नानुभूयते स्मृतिरूपेण विषयीक्रियते, न साक्षाद्विद्यते / तज्ज्ञानकाले तस्यातीतत्वात् / न च अतीतस्य स्वरूपेण वेदनमुचितम्, अविद्यमानत्वात् / स्वरूपवेदनं चानुभवः / तस्मात् स्मरणमात्रमेतत् / तत्र युक्तं न स्वरूपवेदनम् / वेदनायाः स्वभावव्यवस्थापकं लक्षणमेव अयुक्तमित्याह स्वात्मानमित्यादि-
स्वात्मानं नानुभवति
स्वात्मानं स्वं स्वरूपं नानुभवति, न वेदयते, स्वसंवेदनस्य पूर्वं निरस्तत्वात् / अन्येन तर्हि सा ज्ञानेनानुभूयते वेदना? आह- न चान्येनानुभूयते // bca_9.101 // न च नैव / अन्येन तत्समानकालभाविना ज्ञानेनानुभूयते, वेद्यते, ज्ञानस्य ज्ञानान्तरेण अवेदनात् //
न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः /
न च नैवास्ति वेदकः कश्चित्, यो वेदनां वेदयते, चित्तमन्यद्वा / अतः अस्मात् कारणात् वेदना अनुभव इति वेदनालक्षणशून्यत्वाद्वेदना न तत्त्वतः न परमार्थतः, अन्यत्राभिनिवेशात् तत्स्वरूपप्रतिपादकस्य कस्यचिदभावात् / एतदुक्तमार्याक्षयमतिसूत्रे-
अपि तु खलु पुनरभिनिवेशो वेदना, परिग्रहो वेदना, उपादानं वेदना, उपलम्भो वेदना, विपर्यासो वेदना, विकल्पो वेदनेत्यादि //
धर्मसंगीतिसूत्रे ऽप्युक्तम्-
वेदनानुभवः प्रोक्ता केनासावनुभूयते / वेदको वेदना वेद्यः पृथग्भूतो न विद्यते //
एवं स्मृतिरुपस्थेया वेदनायां विचक्षणैः / यथा बोधिस्तथा ह्येषा शान्ता शुद्धा प्रभास्वरा //
इति /
तस्माद्वेदकवेदनास्वभावशून्यं प्रतीत्यसमुत्पन्नमात्रं निर्व्यापारमस्वामिकं मायाप्रपञ्चवदुपलम्भगोचरतामुपगतमिदं कलेवरमवभासते, इति न कस्यचित् सुखं वा दुःखं वा स्वकीयं भवतीत्याह निरात्मक इत्यादि- निरात्मके कलापे ऽस्मिन् क एवं बाध्यते ऽनया // bca_9.102 // निरात्मके कस्यचिदात्मादेर्वेदकस्याभावादस्वामिके कलापे एकस्यानुयायिनो ऽभावात् प्रतीत्यसमुत्पन्नमात्रे ऽस्मिन् मायास्वभाववदुपलम्भगोचरतामुपगते / एवमिन्द्रजालवत् पश्यन् संजातविस्मयो ब्रूते- क एवं बाध्यते ऽनया / एवमुक्तक्रमेण कस्यचिद्वेदयितुरभावात् वेदनायाश्च, कः परमार्थतो ऽनया वेदनया बाध्यते पीडयते? विचारतो नैव कश्चित् / तस्मात् विकल्प एवायं सुखादिसाधनाध्यवसायः / तदेतद्वेदनास्मृत्युपस्थानं दर्शितम् //
सांप्रतं चित्तस्मृत्युपस्थानमुपदर्शयितुमाह नेन्द्रियेष्वित्यादि-
नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् / नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते // bca_9.103 //
तत्र षष्ठं तावन्मनोविज्ञानं निरूपयति- तथा क्व पुनरिदं मनोविज्ञानं स्वयमुपस्थितम्? तत्र न तावदिन्द्रियेषु चक्षुरादिषु मनः स्थितं स्थितिमुपगतम् / न रूपादौ विषये मनः स्थितम् / नान्तराले, नापीन्द्रियविषययोरन्तराले मध्ये मनः स्थितम् / एकत्राप्यनिश्चितस्वरूपत्वात् / नाप्यन्तर्न बहिश्चित्तम् / नाप्यन्तर्न मध्ये कायस्य चित्तं नापि बहिः न बाह्येषु शरीरावयवेषु चित्तं लभ्यते / अन्यत्रापि न लभ्यते, उक्तेभ्यः स्थानेभ्यः अन्यत्रापि क्कचिद्देशान्तरे यत्र तत्र वा न लभ्यते, न प्राप्यते विचारतः //
तथा क्कचित् कथंचिद्भवति, ततः कथं तस्य निषेध इत्यत्राह यन्न काये इत्यादि-
यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित् / तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः // bca_9.104 //
यच्चित्तं न काये बाह्याभ्यन्तरे शरीरे / न चान्यत्र, नैव कायादन्यत्र बाह्ये वस्तुनि / न मिश्रम् / क्रियाविशेषणमेतत् / द्वयोराध्यात्मिकबाह्ययोर्मिश्रमपि न स्थितम् / यच्चित्तं न पृथक् कायात्, नापि पृथक् स्वातन्त्र्येण च क्वचिदवस्थितं यच्चित्तम्, तत् परमार्थतो न (bcp 245) किंचित् न वस्तुसत् / कल्पनोपदर्शितमेव तत् / आसंसारं चित्तं मायावत्प्रतिभासो निःस्वभावत्वात् / अतः अस्मात् कारणात् सत्त्वाः प्राणिनः प्रकृत्या स्वभावेन परिनिर्वृताः परिमुक्तस्वभावाः / निःस्वभावतालक्षणस्य प्रकृतिनिर्वाणस्य सर्वसत्त्वसंतानेषु सदा विद्यमानत्वात् / स्वयमेव तु अभूतपरिकल्पवशादसत्यपि सत्यमारोप्य क्लेशवासनोपहतचित्तसंततयः संसारचारकावरोधनिषिद्धस्वातन्त्र्यवृत्तयो ऽपरिमुक्ता इत्युच्यन्ते न तु परमार्थतः //
इति मनो विचार्य चक्षुरादिविज्ञानं विचारयन्नाह ज्ञेयादित्यादि-
ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः / ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः // bca_9.105 //
तथा हि न क्वचित् सदा सद्रूपमवस्थितं ज्ञानम्, किं तु चक्षुरादिसामग्रीं प्रतीत्य उत्पद्यमानं रूपादिज्ञेयग्राहकमित्युच्यते, इति परस्याशयमाशङ्कय विकल्पयति- तत् पुनर्ज्ञेयात् पूर्वं वा स्यात्, ज्ञेयसमानकालं वा, ज्ञेयस्य पश्चाद्वा इति / तत्र यदि प्राचीनो विकल्पः, तत्राह- ज्ञेयात् ग्राह्यविषयात् पूर्वं प्रागेव, अनुत्पन्ने एव ज्ञेये यदि ज्ञानमुत्पन्नमभिधीयते, तदा किमालम्ब्य अस्य संभवः? पूर्वं ज्ञेयमालम्बनमन्तरेण किमालम्ब्य किमाश्रित्य अस्य संभव उत्पादः? द्वितीयपक्षमाश्रित्याह- ज्ञेयेन ग्राह्यविषयेण सह समानकालं चेद्यदि ज्ञानम्, किमालम्ब्य अस्य संभवः? समानकालस्य ज्ञेयस्य अकारणतया अनालम्बनत्वात् / नाकारणं विषयः इति वचनात् //
अथ तृतीयः प्रकारः स्वीक्रियते, अथेत्यादि-
अथ ज्ञेयाद्भवेत् पश्चात् तदा ज्ञानं कुतो भवेत् /
अथेति पृच्छायाम् / ज्ञेयादिति / पूर्वं ज्ञेयम्, पश्चात् तदनन्तरं निवृत्ते ज्ञेये भवेत् उत्पद्येत ज्ञानम्, तदा ज्ञानं कुतो भवेत्, ज्ञानकाले ज्ञेयस्य निवृत्तत्वात्, कुत आलम्बनात् ज्ञानं भवेत्, किमाश्रित्य उत्पद्येत? तस्माद्विषयादिसामग्रीतो ऽपि परमार्थतो न सिध्यति ज्ञानम् / इदं चित्तस्मृत्युपस्थानमार्यरत्नकूटादिष्वभिहितम्-
स एवं चित्तं परिगवेषते- कतरत् तच्चित्तं रज्यति वा दुष्यति वा मुह्यति वा? किमतीतमनागतं प्रत्युत्पन्नं वा? इति / तत्र यदतीतम्, तत् क्षीणम् / यदनागतम्, तदसंप्राप्तम् / प्रत्युत्पन्नस्य स्थितिर्नास्ति / चित्तं हि काश्यप नाध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यते / चित्तं हि काश्यप अरूप्यनिदर्शनमप्रतिघमविज्ञप्तिकमप्रतिष्ठमनिकेतम् / चित्तं हि काश्यप सर्वबुद्धैर्न दृष्टम्, न पश्यन्ति, न द्रक्ष्यन्ति / [यत् सर्वबुद्धैर्न दृष्टम्], न पश्यन्ति, न द्रक्ष्यन्ति, कीदृशस्तस्य प्रचारो द्रष्टव्यः? अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते / चित्तं हि काश्यप मायासदृशमभूतकल्पनतया विविधामुपपत्तिं परिगृह्णाति / पेयालं / चित्तं हि काश्यप नदीस्त्रोतःसदृशमनवस्थितमुत्पन्नभग्नविलीनम् / चित्तं हि काश्यप दीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते / चित्तं हि काश्यप विद्युत्सदृशं (bcp 246) क्षणभङ्गयनवस्थितम् / चित्तं हि काश्यप आकाशसदृशम्, आगन्तुकैः क्लेशोपक्लेशैरुपक्लिश्यते / पेयालं / यावत् चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते / यन्न लभ्यते, तन्नोपलभ्यते / तन्नैवातीतं नानागतं न प्रत्युत्पन्नम् / तत् त्र्यध्वसमतिक्रान्तम् / यत् त्र्यध्वसमतिक्रान्तं तन्नैवास्ति न नस्ति इत्यादि //
एवं चित्तस्मृत्युपस्थानं प्रतिपाद्य धर्मस्मृत्युपस्थानं प्रतिपादयितुमुक्तमेव क्रमं योजयन्नाह एवं चेत्यादि- एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते // bca_9.106 // चकार एवकारार्थः / एवमेव यथोदितन्यायेन सर्वधर्माणां सर्वभावानामुत्पत्तिरुत्पादो नावसीयते न प्रतीयते / तेषामपि स्वहेतुतः पूर्वं समानकालं पश्चाद्वा उत्पत्तौ इदमेव दूषणं यथासंभवं वाच्यम् / उत्पादाभावान्निरोधो ऽपि न युज्यते / अनुत्पन्नस्य निरोधायोगात् / अत एव च अनुत्पन्नानिरुद्धस्वभावतया निष्प्रपञ्चत्वात् सर्वधर्मा विमोक्शाभिमुखा धर्मधातुनिर्याता आकाशधातुपर्यवसाना अप्रज्ञप्तिका अव्यवहारा अनभिलाप्या अनभिलपनीया इत्युच्यन्ते / एवं धर्मस्मृत्युपस्थानेनाविरहितं सर्वधर्मेष्वनासङ्गज्ञानमुत्पद्यते / धर्मस्मृत्युपस्थानभावना च आर्याक्षयमतिसूत्रे दर्शिता / यदुक्तम्-
धर्मे धर्मानुपश्यी विहरन् बोधिसत्त्वो न कंचिद्धर्मं समनुपश्यति / यतो न बुद्धधर्माः, यतो न बोधिः, यतो न मार्गः, यतो न निःसरणम्, सर्वधर्मा निःसरणमिति विदित्वा अनावरणमहाकरुणासमाधिं समापद्यते / स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते- निष्क्लेशा एते धर्मा नैते सक्लेशाः / तत्कस्य हेतोः? तथाहि एते नीतार्थे ऽर्थं समवसरन्ति / नास्ति क्लेशानां संनिचयो राशीभावः, न रागभावः, न द्वेषभावः, न मोहभावः / एषामेवानुबोधाद् बोधिः / यत्स्वभावाश्च क्लेशाः, तत्स्वभावा बोधिः, इत्येवं स्मृतिमुपस्थापयति / इति //
उक्तं च-
उत्पत्तिर्यस्य नैवास्ति तस्य का निर्वृतिर्भवेत् / मायागजप्रकाशत्वादादिशान्तं त्वयत्नतः //
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता / तथाविधश्च सद्धर्मस्तत्समश्च तथागतः //
तत्तत्त्वं परमार्थो ऽपि तथता द्रव्यमिष्यते / भूतं तदविसंवादि तद्बोधाद्बुद्ध उच्यते //
इति / [चतुः 3.27, 39, 20]
एवं धर्मस्मृत्युपस्थानं दर्शयता सर्वधर्मा अनुत्पन्नानिरुद्धाः प्रकाशिताः //
तथा सति संवृतिसत्यमयुक्तमित्युक्तं स्यात् / ततः सत्यद्वयव्यवस्थापनं न घटते इति परिहर्तुं चोद्यमुत्थापयन्नाह यद्येवमित्यादि-
यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः /
यदि परमार्थतः सर्वधर्मा अनुत्पन्नानिरुद्धस्वभावाः, एवं सति संवृतिर्नास्ति, व्यवहारो न स्यात्, परमार्थसत्यमेवैकं स्यात् / ततः संवृतेरभावात् सत्यद्वयं संवृतिसत्यं परमार्थसत्यं चेति यदुक्तम्-
संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् / [9.2]
इति, तदेतत् सत्यद्वयं कुतः? नैव स्यात् / तदभावाच्च परलोकगमनकर्मक्रियाफलसंबन्धस्वभावोपार्जनादि न स्यात्, सर्वव्यवहाराभावात् / अथापि स्यात्- यदि नाम नास्ति, तथा मरीचिकादिषु जलकल्पनयेव संवृतिस्वभावया कल्पनया बुद्ध्या व्यवस्थाप्यते, ततः सत्यद्वयमुपपद्यते इत्याशङ्कयन्नाह अथ सेति-
अथ साप्यन्यसंवृत्या
अथेति प्रश्ने / सापीति संवृतिः / न केवलं परमार्थसत्यमित्यपेरर्थः / अन्यया संवृत्या कल्पनाबुद्धिरूपया व्यवस्थाप्यते / अथवा / अपिरवधारणे भिन्नक्रमे च / अन्ययैव संवृत्येति योजनीयम् / एवमेकं संधित्सतो ऽन्यत् प्रच्यवते इत्युपदर्शयन्नाह- स्यात्सत्त्वो निर्वृतः कुतः // bca_9.107 // यदि परमार्थतस्तत्स्वभावशून्यमपि कल्पनाबुद्धिविषयीकरणात् सांवृतमुच्यते, यो ऽपि तर्हि सर्वधर्मनिःस्वभावतालक्षणं परमार्थसत्यमधिगम्य अनुपलम्भयोगेन सर्वप्रपञ्चविरहात् परिनिर्वृतिमुपयातः, सो ऽपि सत्त्वः परिनिर्वृतो विनिर्मुक्तः कुतो भवेत्? नैव स्यात् / तस्यापि बुद्धया विषयीकरणात् / बुद्धिश्च सर्वैव संवृतिः कल्पनास्वभावत्वात् / बुद्धिः संवृतिरुच्यते इति वचनात् निर्वृतिरपि संवृतिः स्यात् //
अत्र परिहारमाह परचित्तेत्यादि-
परचित्तविकल्पो ऽसौ
परस्य निर्वृतसत्त्वादन्यस्य सत्त्वस्य चित्तं तस्यासौ विकल्पः, यो ऽयं निर्वृतस्यापि बुद्धया विषयीकरणम् / न हि परचित्तविकल्पेन अन्यस्य संवृतिर्युक्ता / ततो ऽन्यबुद्धया विषयीक्रियमाणो ऽपि निर्वृत एवासौ / कुतः? यतः-
स्वसंवृत्या तु नास्ति सः /
तुः पूर्वस्माद्विशेषमभिधत्ते / स्वसंवृत्या निजसंवृत्या स्वकल्पनया स इति परिनिर्वृतो नास्ति, न विद्यते / परिनिर्वृत एव सः इति स्वयमस्य सर्वविकल्पोपरमात् / अन्यत्रापि तर्हि कथमन्यसंवृतिः स्यादित्यत्राह स पश्चादित्यादि- स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः // bca_9.108 // अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते इति इदंप्रत्ययतामात्रमेव संवृतिः / इति धर्मेभ्यो धर्म उत्पद्यमानः पश्चाद्भावी भवेत् / ततः स पश्चान्नियतो धर्मः, सो ऽस्ति यदि, तदा अस्त्येव संवृतिः / न चेद्यदि स नास्ति, तदा नास्त्येव संवृतिः / (bcp 248) गगनेन्दीवरादिषु इदंप्रत्ययताया अभावात् / एतदुक्तं भवति- यदि नाम परिनिर्वृतो बुद्ध्या विषयीकृतः, नैव तावता परचित्तविकल्पमात्रेण तस्यापरिनिर्वृतिः / स्वयमस्य सर्वविकल्पप्रपञ्चोपशमात् / न रक्तचित्तेनालम्बितः स्वयं प्रहीणसर्वक्लेशावरणो वीतरागो ऽप्यवीतरागो भवेत् / तस्मात् सर्वकल्पनाविरहादन्यसंवृत्यालम्बितो ऽपि स्वयं परिनिर्वृत एवासौ परमार्थतः / अत एव सर्वधर्माः सर्वकल्पनाशून्यत्वादनुत्पन्नानिरुद्धस्वभावत्वाच्च प्रकृतिपरिनिर्वृता आदिशान्ता इत्युच्यन्ते / तथापि तथाविधेभ्य एव तथाविधा अन्ये धर्मा उत्पद्यन्ते निरुध्यन्ते च / मायास्वभाववत् / तेन च रूपेण परिकल्पवशात् पुनरालम्ब्यमानाः सांवृताः, वास्तवरूपाभावाच्च अनुत्पन्नानिरुद्धा इत्युच्यन्ते खरविषाणवत् / यदुक्तम्-
शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः / इति //
आर्यललितविस्तरे ऽप्युक्तम्-
संस्कार प्रदीपअर्चिवत् क्षिप्रमुत्पत्तिनिरोधधर्मकाः / अनवस्थित मारुतोपमा फेनपिण्डेव असारदुर्बलाः //
संस्कार निरीह शून्यकाः कदलीस्तम्भसमा निरीक्षतः / मायोपम चित्तमोहना बालौल्लापन रिक्तमुष्टिवत् //
* * * * पेयालं / यथ मुञ्च प्रतीत्य बल्वजं रज्जु व्यायामबलेन वर्तिता / घटियन्त्र सचक्र वर्तते तेषु एकैकश नास्ति वर्तना //
तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता / एकैकश तेषु वर्तनी पूर्वपरान्तत नोपलभ्यते //
* * * * * मुद्रात् प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते / न च तत्र न चैव सान्यतो एव संस्कार अनुछेदशाश्वताः //
* * * * * अरणिं यथ चोत्तरारणिं हस्तव्यायाम त्रयेभि संगति / इति प्रत्ययतो ऽग्नि जायते जातु कृतार्थु लघु निरुध्यते //
अथ पण्डितु कश्चि मार्गते कुतयं आगतु कुत्र याति वा / विदिशो दिशि सर्वि मार्गतो नागति नास्य गतिश्च लभ्यते //
स्कन्धायतनानि धातवः तृष्ण अविद्या इति कर्मप्रत्यया / सामग्रि तु सत्त्वसुचना स च परमार्थतु नोपलभ्यते // इति / [ललित-13.97,98,100,101,104,108-110] चतुःस्तवे ऽप्युक्तम्-
निरुद्धाद्वानिरुद्धाद्वा बीजादङ्कुरसंभवः / मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते //
अतस्त्वया जगदिदं परिकल्पसमुद्भवम् / परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति //
नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः / स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर // इति / [चतुः-1.16-18] तस्मात् परमार्थत उत्पादनिरोधाभावे ऽपि न संवृतिसत्यविरोध इति सर्वं समञ्जसम् //
ननु यदि परमार्थतो ऽनुत्पन्नानिरुद्धाः सर्वधर्माः, तदा न ज्ञानं न च ज्ञेयं वस्तुतः संभवति / तत् किमिह केन विचार्यते इति विचारो ऽपि न स्यात् / अतस्तूष्णीमेव स्थातव्यमित्यत आह कल्पनेत्यादि-
कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् / यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते // bca_9.109 //
कल्पना आरोपिका बुद्धिः / कल्पितं तया समारोपितम् / चेत्युक्तसमुच्चये / इत्येवं द्वयमुभयमन्योन्यस्य निश्रितं परस्परसमाश्रितम्, कल्पनापेक्षया कल्पितम्, कल्पितापेक्षया कल्पनेति / यथाप्रसिद्धं लोकव्यवहारतो निश्चितमाश्रित्य गृहीत्वा विचारो विमर्शः सर्व उच्यते अभिधीयते / सर्व इति न कश्चिदेव विचारो ऽपि संवृतिमाश्रित्य प्रतन्यते, न तु परमार्थसत्यम्, तस्य सर्वव्यवहारातिक्रान्तत्वादित्यर्थः //
विचारो ऽपि बहिर्विचारवत् काल्पनिकस्वभावत्वाद्विचारयितव्य इति चेत्, विचारस्याशक्यविचारत्वादित्यभिसंधायाह विचारितेनेत्यादि-
विचारितेन तु यदा विचारेण विचार्यते / तदानवस्था तस्यापि विचारस्य विचारणात् // bca_9.110 //
विचारितेन तु परीक्षितेन पुनर्यदा विचारेण विचार्यते निरूप्यते, तदा अनवस्था अप्रतिष्ठानं स्यात् / कुतः? तस्यापि विचारस्य विचारणात् / यो ऽसौ विचारस्य विचारणार्थं विचार उपादीयते, तस्यापि विचारस्य विचारणाद्धेतोः //
विचार्ये तर्हि विचार्यमाणे कथमियमनवस्था न स्यादित्यत्राह विचारिते इत्यादि-
विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः / निराश्रितत्वान्नोदेति तच्च निर्वाणमुच्यते // bca_9.111 //
विचार्ये तु परीक्ष्ये पुनर्वस्तुनि विचारिते निर्णीते सति विचारस्य निर्णयस्य पुनरुत्तरकालं कर्तव्यस्य आश्रयो नास्ति, यमाश्रित्य पुनर्विचारानुसरणेनानवस्थानं स्यात् / विचार्यस्य विचारणे चरितार्थतया पुनराकाङ्क्षाभावात् / अत एव निराश्रयत्वान्नोदेति, आश्रयाभावान्न पुनर्विचारः प्रवर्तते / सर्वसमारोपनिषेधं विधाय वस्तुतत्त्वपरिज्ञानात् कृतकृत्यत्वात् प्रवृत्तिनिवृत्त्यभावात् (bcp 250) न क्कचित् सज्यते, नापि विरज्यते / तच्च निर्वाणमुच्यते, सर्वव्यवहारनिवृत्तेः सर्वत्र निर्व्यापारतया प्रशान्तत्वात् तदेव निर्वाणमभिधीयते //
कल्पितविषये ऽवश्यमेव सर्वत्र विचारः सत्यो न तु परमार्थत इत्याह यस्य त्वित्यादि-
यस्य त्वेतद्दूयं सत्यं स एवात्यन्तदुःस्थितः /
यस्य पुनः परमार्थसद्भाववादिनः एतद्दूयं विचारो विचार्यं चेति एतदुभयमपि सत्यं परमार्थसत्, स एव भावस्वभाववादी अत्यन्तदुःस्थितः अत्यन्तमतिशयेन दुःखेन स्थितो दुःस्थितः दुष्करणीयत्वात् / एतदेवोपदर्शयन्नाह यदीत्यादि- यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः // bca_9.112 // यदि ज्ञानवशात् ज्ञानस्य प्रमाणस्य वशात् सामर्थ्यात् अर्थः प्रमेयं व्यवस्थाप्यते, तदा भवतु नाम प्रमाणात् प्रमेयव्यवस्था, को नाम निवारयति? केवलमिदमिह निरूपणीयम्-ज्ञानास्तित्वे तु का गतिः? ज्ञानस्य प्रमाणस्य पुनरस्तित्वं कुतो निश्चितमिति वक्तव्यम् / स्वसंवेदनस्याभावात् प्रमाणान्तरान्वेषणे अनवस्थानं स्यादिति का गतिराश्रयणीया?
स्यादेतत्- स्यादेव अनवस्थानम्, यदि ज्ञानस्तित्वे प्रमाणं मृग्यते / यावता प्रमेयादेव प्रमाणव्यवस्था, तत् कुतो ऽनवस्थानं स्यादित्याशङ्कयन्नाह अथेत्यादि-
अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः /
अथेति पराभिप्रायप्रकाशने / अथ ज्ञेयस्य प्रमेयस्य वशात् ज्ञानं व्यवस्थाप्यते, तर्हि ज्ञेयास्तित्वे तु का गतिः? यदि ज्ञेयवशात् ज्ञानं व्यवस्थाप्यते, तदा स्वयमेव ज्ञेयं ज्ञानास्तित्वे व्यवस्थानिबन्धनं स्यात्, तच्च कुतः प्रमाणात् सिद्धमिति पृच्छति- ज्ञेयास्तित्वे पुनः का गतिरिति / प्रमेयसिद्धये ज्ञानान्तरानुसरणे तदपि ज्ञानान्तरं कुतः सिद्धमिति वक्तव्यम् / तस्मादेव ज्ञेयादिति चेत्, ज्ञेयं कुतः सिद्धम्? तत्सिद्धौ ज्ञानान्तरानुसरणे पुनरनवस्थानमपर्यवसानं स्यात् / स्यादेतत्- भवेदेतत् यदि ज्ञानस्य ज्ञेयस्य वा सिद्धये ज्ञानान्तरापेक्षा स्यात्, अपि तु परस्परमितरेतरस्य सिद्धिः / अतो नोक्तदोषप्रसङ्ग इति परस्याशयमाविर्भावयन्नाह अथान्योन्येत्यादि- अथान्योन्यवशात्सत्त्वमभावः स्याद्दूयोरपि // bca_9.113 // अथ पुनरेवमभिधीयते- अन्योन्यस्य ज्ञानस्य ज्ञेयस्य परस्परस्य वशात् सामर्थ्यात् ज्ञानज्ञेययोरपि सत्त्वमस्तित्वं निश्चीयते ज्ञानवशाज्ज्ञेयस्य ज्ञेयवशाच्च ज्ञानस्येति यावत् / तदेवं सति अभावः स्याद् द्वयोरपि / द्वयोरपि ज्ञानज्ञेययोरभावः स्यात्, एकस्यापि सत्त्वसिद्धिर्न भवेत् / इतरेतराश्रयत्वादेकस्यासिद्धौ द्वितीयस्याप्यसिद्धिः //
अत्र प्रकृतानुरूपदृष्टान्तमाह पिता चेदित्यादि-
पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः / पुत्राभावे पिता नास्ति
पिता जनकः यदि पुत्रं विना पुत्रमन्तरेण न स्यात्, पुत्रजननसापेक्षत्वादस्य व्यपदेशस्य, तर्हि कुतः पुत्रस्य संभवः, कुतः कस्मात् पितुरभावात् पुत्रस्य जन्यस्य संभवः जन्म अस्तु? किमिति चेत्, पुत्राभावे पिता नास्ति / हेतुपदमेतत् / यतः पुत्रस्य अभावे असत्त्वे पिता नास्ति न भवति / पित्रा हि पुत्रो जनयितव्यः / स च न पुत्रं यावज्जनयति, तावत् पितैव न भवति / यावच्च पिता न भवति, तावत् पुत्रस्य तस्मात् संभवो नास्ति / अतः इतरेतराश्रयणादेकाभावादन्यतराभावः स्यादिति द्वयोरप्यनयोरभाव इति समुदायार्थः / अमुमर्थं दार्ष्टान्तिके योजयन्नाह तथेति- तथासत्त्वं तयोर्द्वयोः // bca_9.114 // यथात्र पितापुत्रोदाहरणे, तथा असत्त्वं तथैव अभावः तयोर्द्वयोर्ज्ञानज्ञेययोः / तथाहि- ज्ञेयजननाज्ज्ञानमुच्यते, ज्ञानपरिच्छेद्यतया च ज्ञेयमिति यावत् ज्ञानं न सिध्यति, यावत् परिज्ञानं न सिध्यति, तावत् परिच्छेद्यतया च ज्ञेयं न सिध्यति / इतरेतराश्रयणादुभयाभावः स्यादिति भावः //
स्यादेतत्- न ब्रूमः- अन्योन्यवशात् सिद्धिरनयोः अपि तु ज्ञेयकार्यं ज्ञानम्, ततो ज्ञानादङ्कुराद् बीजमिव ज्ञेयं सेत्स्यति / इति पराशयमुद्भावयन्नाह अङ्कुर इत्यादि-
अङ्कुरो जायते बीजाद्वीजं तेनैव सूच्यते / ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते // bca_9.115 //
अङ्कुरो जायते उत्पद्यते बीजात् खलबिलान्तर्गतात् / बीजं तेनैव बीजाज्जातेन अङ्कुरेण सूच्यते गम्यते यथा, तथा अत्र ज्ञेयात् प्रमेयात् ज्ञानेन जातेन उत्पन्नेन तत्सत्ता तस्य ज्ञेयस्य सत्ता सद्भावः किं न गम्यते, किं न प्रतिपद्यते? अत्रापि बीजाङ्कुरवत् कार्यकारणभावस्य विद्यमानत्वात् //
नायं सदृशो दृष्टान्त इत्याह अङ्कुरादित्यादि-
अङ्कुरादन्यतो ज्ञानाद्वीजमस्तीति गम्यते / ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते // bca_9.116 //
अङ्कुरात् कार्यात् बीजमस्तीति यद्गम्यते, तन्नायमस्यैव केवलस्य प्रभावः, किं तर्हि अन्यतो ज्ञानादङ्कुरव्यतिरिक्तात् तदस्तीति गम्यते / तथा हि- न योग्यतामात्रेण कार्यं कारणस्य गमकम्, बीजस्यैव अङ्कुरजननमप्रतिपन्नस्यापि गमकत्वं स्यात् / नापि स्वरूपप्रतीतिमात्रेण अप्रतिपन्नकार्यकारणभावस्यापि तत्प्रतिपत्तिप्रसङ्गात्, अपि तु अविनाभावित्वेन निश्चितम् / अतः प्राक्प्रतिपन्नकार्यकारणभावस्य पुनः पश्चात् क्कचिद् बीजाविनाभाविनमङ्कुरमुपलब्धवतः अङ्कुरादध्यवसायात्मकमनुमानमुत्पद्यते, ततो बीजमस्तीत्यवसीयते / अतो ज्ञानविषयीकृत एव अङ्कुरो बीजप्रतिपत्तिहेतुः / ज्ञानास्तित्वं ज्ञानस्य सद्भावः कुतो ज्ञातं कस्मात् प्रतीतम्? स्वसंवेदनाभावादनवस्थानभयेन ज्ञानान्तराननुसरणाच्च, ज्ञेयं यत्तेन गम्यते, यद् यस्मात् ज्ञेयं तेन ज्ञानेन ज्ञेयकार्येण गम्यते अवसीयते / न हि स्वयमनिश्चितं लिङ्गं (bcp 252) साध्यस्य गमकमुपपद्यते / ज्ञापकहेतुत्वादस्य ज्ञेयगमकत्वम् / तस्माद्वास्तवपक्षे ज्ञानज्ञेयासिद्धेर्विचारः कर्तुमशक्यः, काल्पनिकपक्षे तु यथाप्रसिद्धव्यवहारमाश्रित्य शक्यते इति निश्चितम् //
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन //
[म. शा. 1.3]
इत्यस्यार्थस्य समर्थनार्थं नाप्यहेतुत इति तुरीयकोटिप्रसाधनाय तावत् स्वभाववादिमतमपाकर्तुमाह लोक इत्यादि-
लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते /
तथा हि ते स्वपरस्वभावसर्वहेतुनिरपेक्षमेव भावग्रामवैचित्र्यमुत्पद्यते इति वर्णयन्ति / यतः न पङ्कजादीनां नालपत्रदलकेसरादिकमनेकप्रकारभेदभिन्नवैचित्र्यमचेतना जलपङ्कादयो निर्वर्तयितुमलम् / न च चेतनो ऽपि कश्चिदन्यः कर्मणा तादृशनिर्माणप्रवीण उपलभ्यते, नापि चाद्रियते, तत्कर्मणो ऽपर्यवसानात् युगपदपर्यन्तविशेषेषु व्यापारायोगाच्च / तस्मात् किंचित्कारणमन्तरेणैव सर्वमिदं जगद्वैचित्र्यमुत्पद्यते इति तेषां मतम्, तदुक्तम्-
सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते / स्वभाववादिभिस्ते च नाहुः स्वमपि कारणम् //
राजीवकेसरादीनां वैचित्र्यं कः करोति हि / मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः //
यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम् / कादाचित्कतया तत्तद्दुःखादीनामहेतुता //
[तत्त्वसंग्रह-110-112]
तदेवंवादिनो लोकप्रतीतादेव हेतुसामर्थ्याद्बाधा स्यादित्युपदर्शयति / लोकः सर्वो जनः / प्रत्यक्षतः इन्द्रियाश्रिताज्ज्ञानात् / प्रत्यक्षत इत्युपलक्षणादनुमानतो ऽपि तत्प्रतीतिभावात् / प्रत्यक्षानुमानाभ्यामिति यावत् / सर्वमनेकप्रकारं हेतुं जगद्वैचित्र्यकारणम्, उदीक्षते तदन्वयव्यतिरेकानुविधायि कार्यमुपजनयन्तं पश्यति / यत् कार्यं यस्य सद्भावे भवति, तदभावे च न भवतीति प्रतीयते, स तस्य हेतुरिति निश्चीयते / इति लोकप्रतीतादेव हेतुव्यापारादस्य अहेतुकत्वप्रतिज्ञा बाध्यते / तदेवोपदर्शयन्नाह पद्मनालादीत्यादि- पद्मनालादिभेदो हि हेतुभेदेन जायते // bca_9.117 // पद्मस्य राजीवस्य नालमादि येषां पद्मदलकेसरादीनां ते तथोक्ताः, तेषां भेदो नानात्वम् / हिर्यस्मात् / हेतुभेदेन हेतोः कारणस्य भेदेन विशेषेण जायते उत्पद्यते, नान्यथा / अनियमेन सर्वत्र सद्भावप्रसङ्गात् / अतः यद् यस्यान्वयव्यतिरेकानुविधानं कुर्वत् प्रतीयते, तत् तस्यैव कार्यं नान्यस्येत्यभ्युपगमनीयम् / यस्मात् प्रतिनियतकारणादेव प्रतिनियतविशेषोत्पत्तिः, तद्भेदेन तद्भेदादिति न अहेतुमती //
ननु भवेदेष विशेषः यदि हेतोरेव स्वयमसौ विशेषः सिद्धः स्यात् / किं तु तस्यैव कुतः स भवतीति वक्तव्यम् / न च निर्विशेषाद्विशेषोत्पत्तिः, पुनरहेतुत्वप्रसङ्गात् / इत्याशङ्कां परिहरन्नाह किंकृत इत्यादि-
किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
