Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिचर्यावतारपञ्जिका
- Tác giả
- प्रज्ञाकरमति
- Thông tin
- GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
किंकृतः केन कृतः कुतो यातः हेतुभेदश्चेत्, हेतोर्भेदो विशेषश्चेदुच्यते / पूर्वहेतुप्रभेदतः पूर्वस्य प्राक्तनस्य तज्जनकस्य हेतोः प्रभेदतः प्रभेदाद्विशेषात् / तस्यापि तत्पूर्वस्य हेतोः कुतो विशेष इति चेत्, पुनस्तत्रापि पूर्वहेतुविशेषादिति वक्तव्यम्, इति उत्तरोत्तरस्य विशेषाकाङ्क्षायां पूर्वपूर्वस्य विशेषादित्युत्तरं वाच्यम् / न चैवमनवस्थानमनिष्टं किंचिदापादयति- अनवराग्रस्य संसारस्य पूर्वकोटिर्न प्रज्ञायते इत्यभ्युपगमात् / अत एव फलाविपर्ययो ऽपि न स्वतो भवतीत्याह कस्माच्चेदित्यादि- कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः // bca_9.118 // कस्मात् कारणात् फलदो विशिष्टफलदानसमर्थो हेतुश्चेत्, पूर्वहेतुप्रभावतः पूर्वस्य तज्जनकस्य हेतोः सामर्थ्यात् स्वहेतुना स तादृशस्तत्स्वभावो ऽजनि येन सहकारिविशेषोपहितकार्योत्पादानुगुणविशेषपरंपरापरिणतिमधिगच्छन् असति प्रतिबन्धवैकल्ययोः संभवे तथाविधमेव फलमुत्पादयति / अतः अविपरीतफलदानमपि स्वहेतुसामर्थ्योपजनितमेव / तेन अभ्युदयनिःश्रेयससाधनहेतोर्यथासंख्यमभ्युदयनिःश्रेयसमेव फलं जायते, तद्विपरीताद्विपरीतमिति न कथंचिदपि विपर्ययः //
एतच्च अवश्यं स्वभाववादिना सहेतुकत्वमकामकेनापि स्वीकर्तव्यम् / कथमन्यथा हेतुमन्तरेण प्रतिज्ञातमहेतुकत्वं भावानां सेत्स्यति? प्रतिज्ञामात्रेण तस्य केनचिदग्रहणात् / हेतुव्यापारेण तत् प्रसाधयतः स्वयमेव पुनः सहेतुकत्वाभ्युपगमात् वन्ध्या मे मातेति ब्रुवतः इव प्रतिज्ञायाः स्ववचनेन बाधनं स्यात् इत्युभयतःपाशा रज्जुरिति संकटप्राप्तो बतायं तपस्वी / तदुक्तम्-
न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञां स्वयमेव शातयेत् / अथापि हेतुप्रणयालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेत् //
इति /
तस्मात् कुदृष्टिविजृम्भितमेवैतत् प्रमाणबाधितत्वात् //
एवं स्वभाववादिनं निराकृत्य चतुर्थप्रकारप्रसाधनार्थमेव ईश्वरकारणतां जगतः प्रत्याख्यातुं तदुपक्षेपं कुर्वन्नाह ईश्वर इत्यादि-
ईश्वरो जगतो हेतुः
ईश्वरकारणवादिनो हि स्वभाववादिमतनिषेधमाकर्ण्य विशेषमभिधातुमर्धमवसितं भारस्येति मन्यमानाः प्राहुः- साहाय्यमेव अनुष्ठितमेवं भवद्भिः / न हि कारणमन्तरेणैव (bcp 254) जगद्वैचित्र्यमुपपद्यते देशाद्यनियमप्रसङ्गात् / केवलमचेतनाः पुनरमी जलपङ्कादयो वैचित्र्यासामर्थ्या इति युक्तमनेनोक्तम् / तत्र अस्त्येव स भगवान् विश्ववैचित्र्यनिर्माणप्रवीणः जगदेकसूत्रधारः सकलजगदादिभूतः नित्यात्मतया सर्वदानुपहतशक्तिप्रभावः सर्वभावानां कार्यकारणभावादितत्त्ववेदी समस्तार्वाचीनदर्शनागोचरमाहात्म्य ईश्वरः / तेन हेतुना सहेतुकं सकलमिदं सचराचरं जगदिति कः सचेतनः अन्यथा वक्तुमुत्सहते? इति नैयायिकादिवेश्मकथामभिधाय प्रत्याचष्टे- ईश्वरो जगतो हेतुः / ईश्वर इति शंकरस्याख्या / स एव जगतो विश्वस्य हेतुः सृष्टिस्थितिप्रलयकारणम् / तस्मादेवैतद्विश्वमशेषमुत्पद्यते / अन्यथा पुनरचेतनोपादानत्वात् कथममी गिरिसरिदवनिसागरादय उत्पत्तिभाजो भवेयुः? चेतनाव दधिष्ठानात् पुनरिमे समुत्पत्तुमुत्सहन्ते, तद्वयापारेणैव प्रवर्तनात् / तदुक्तम्-
सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते / नाचेतनः स्वकार्याणि किल प्रारभते स्वयम् //
न स्यान्मेरुरयं न चेयमवनी नैवायमम्भोनिधिः सूर्याचन्द्रमसौ निवेशसुभगौ नैतौ जगच्चक्षुषी / ईशानो न कुलालवद्यदि भवेदिश्वस्य निर्माणकृत् सत्त्वादीश्वरकर्तृकं जगदिदं वक्तीति कश्चित्किल // इति / [तत्त्वसंग्रह-46-47] तस्माज्जगदेवमचेतनविश्वस्वभावमीश्वरकारणतामात्मनो ब्रूते / अत्रोच्यते- किमनया स्वगृहीतोपकल्पितया प्रमेयरचनया वचनरचनाप्रपञ्चमालया? नैतदुच्यमानमपि स्वसमयाभिनिवेशिनां जडधियां प्रीतिकरं प्रमाणशून्यं विदुषां संतोषमुत्पादयति / तथा हि- यद्यसौ कारुणिकः, किमर्थं पुनरिमान् नरकादिदुःखपीडितान् प्राणिनः करोति? तथा च सति कारुणिकत्वं तस्य श्रद्धासमधिगम्यमेव स्यात् / स्वकृतासत्कर्मफलोपभोगेन तत्क्षेपापनयने यस्य प्रवृत्तिः, कथमकारुणिको नामेति चेत्, न / तत् कर्म कारुणिकः किमिति कारयति येनानिष्टं फलमुपभुज्यते, तत्रापि तस्य व्यापारात्, सर्वोत्पत्तिमतां निमित्तकारणत्वात् / अपि च किं तस्मिन्नव्याप्रियमाणे तत् कर्मफलमुपभुज्यते न वा? यदि प्रथमः पक्षः, तदा कथमेतत्-
अज्ञो जन्तुरनीशो ऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा // इति / [महाभा.-3.30.28] सर्वकार्येष्वेव तद्वयापाराभ्युपगमस्य अनेनैव अनैकान्तिकताप्रसङ्गात् / अथ द्वितीयः, तदा कृपालुरसौ तत्रोपेक्षां किमिति नाधिवासयति, यद् यत्नेन साहाय्यमेव तत्रोपकल्पयति / अथ कृतस्य कर्मणो ऽविप्रणाशादवश्यं तेन तत्फलमनुभवितव्यमिति तदुपभोगाय व्याप्रियते इति चेत्, कथं पुनरेतस्मिन्नव्याप्रियमाणे ऽवश्यं तेनानुभवितव्यं सामग्रीवैकल्यात् / कः पुनरेवं (bcp 255) विप्रणाशे ऽपि दोषः?
प्रयत्नत एव ततो निवर्तितुमुचितं कारुणिकस्य / एवं हि तदिच्छायत्तवृत्तितया तस्यापरिपाकात् तेन स्वमैश्वर्यमुपदर्शितं तत्र भवेत् / अत्र सत्त्वानां तत्कर्मसंचोदितो ऽसौ दयालुरपि स्थातुमशक्तः, महद् बत अनेन स्वमैश्वर्यमित्थं द्योतितमन्यत्र स्यात् / तत् परकर्मणापि समाकृष्टो नाम नात्मनि वशित्वमधिगच्छति, ईश्वरतः कर्मण एव महत् सामर्थ्यमेवं प्रकाशितं स्यात् / तद्वरं कर्मैव पर्युपास्यं यत्सामर्थ्येन समाकृष्यमाणो महेश्वरो ऽपि स्थातुमसमर्थः / तस्मादिदमव्याहतमेव-
नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति // इति / [भर्तृहरि-वैराग्य-92] अथ न कारुणिकः, तदासौ वीतरागः सरागो वा? यदि आद्यो विकल्पः, तदा यदि नाम दयाविरहात् सुखं नोपनयति, दुःखं तु जनस्य कस्मादुत्पादयतीति वक्तव्यम् / दुःखं हि रागादिवशेन कस्यचिदुपनीयते / ते चास्य न सन्ति / कथमकारणमेव जनं दुःखयति? क्रीडार्थं दुःखयतीति चेत्, क्रीडार्थं वीतरागस्य प्रवृत्तिरिति चेत्, निश्चितमसौ न वीतरागः / रागादिमतामपि तावज्जितेन्द्रियाणां न क्रीडार्थं दृश्यते प्रवृत्तिः, किं पुनर्वीतरागाणां तथा भविष्यति / न रक्षःपिशाचादिमन्तरेण अन्यस्य परदुःखेन क्रीडा संभाव्यते //
अथ अवीतराग इति पक्षः, तदा कथमयमितरजनसाधारणः सन्नीश्वरो भवितुमर्हति? रागादिक्लेशपाशायत्तवृत्तेर्जगदैश्वर्यायोगात् / अन्यथा तदन्यस्यापि तथाविधस्य तत्प्रसङ्गात् / नापि संसारचारकोपरुद्धस्वातन्त्र्यस्य विश्ववैचित्र्यरचनाचातुर्यं तदन्यस्येव युज्यते / तदेवमस्तित्वमेव भवन्तं विप्रलम्भयति यदेवंविधस्यापि यावदैश्वर्यमभ्युपगम्यते / भवतु वा तथाविधस्यापि कर्तृत्वम् / तथापि किमसौ स्वस्थात्मा [अस्वस्थात्मा वा]? यदि स्वस्थात्मा, तदा किमिति जनमकाण्डमेव दुःखयति? न हि स्वस्थात्मा निरपराधं जनं पीडयन् दृष्टः / अथ विमार्गगामिनमेव कृतापराधं पीडयतीति चेत्, विमार्गगामिनमपि अयमेव कारयति / तथाभूतमपि कारयित्वा पुनः पीडयतीति स लौकिकेश्वराणामपि जघन्यतया वृत्तिमतिशेते / ते हि स्वयंकृतापराधमेव अपराधिनमनुशासति / अयं पुनरात्मनैव कारयित्वेति महानस्य विशेषः / अथ अस्वस्थात्मा, तदा असाधु तदाराधने स्वर्गापवर्गार्थिनां प्रेक्षावतां प्रवृत्तिः / न हि उन्मत्तस्याराधनमुन्मत्तकादन्यः कर्तुमुत्सहते / तथा हि स्वर्गादिलिप्सया तदाराधनाय प्रवर्तन्ते प्रेक्षावन्तः / तच्च अपरिनिश्चितस्वभावतया ततो न संभाव्यते, विपर्ययो ऽपि वा तदाराधनफलस्य संभाव्यते / तदाराधनप्रवृत्तास्तु गाढतरश्रद्धावशेन तमुन्मत्तमाचक्षाणा आत्मानमेवोन्मत्तकमाचक्षीरन् / कथमन्यथा तदाराधने प्रवर्तन्ते? तदपरोन्मत्तकैर्वा किमपराद्धं यतस्ते न पर्युपास्यन्ते? तेषां प्रभावातिशयविकलत्वादिति चेत्, न वै प्रकृते ऽपि कंचित् प्रभावातिशयमुत्पश्यामः / उन्मत्तकः सकलजगदतिशायिशक्तिरिति को ऽन्य उन्मत्तकाद्वक्तुमर्हति? तदयमभिविचार्यमाणो न क्वचिदवसानं लभते इति अलं दुर्मतिविष्यन्दितेषु आदरेणेति / तस्मात् सूक्तमेतदू यदुक्तम्-
सुखस्य दुःखस्य न को ऽपि दाता परो ददातीति कुबुद्धिरेषा / स्वकर्मसूत्रग्रथितो हि लोकः कर्ताहमस्मीति वृथाभिमानः //
इति /
तस्मादकर्तृकमेव इदं जगदशेषमिति न परिदृष्टकारणादन्यः स्वतन्त्रश्चेतनो वा तस्य कर्ता कश्चिदस्ति / इदमेव विस्तरेण प्रतिपादयितुं सिद्धान्तवादी प्राह-
वद कस्तावदीश्वरः /
ईश्वरकारणवादिनं पृच्छति- वद ब्रूहि को ऽयमीश्वरो भवतो ऽभिमतः? तावच्छब्देनेदमभिधत्ते- येषां क्षित्यादीनामन्वयव्यतिरेकानुविधायि कार्यमुपलभ्यते, तत्र कतमदीश्वरं भवानाचष्टे? न च अनुपलब्धान्वयव्यतिरेकव्यापारस्य कारणता प्रकल्पयितुं युक्ता, अतिप्रसङ्गात् / तस्मात् तत्कारणतामिच्छता दृष्टान्वयव्यतिरेकव्यापार एव अङ्गीकर्तव्यः / न चान्यस्य क्षितिबीजादिव्यतिरिक्तस्य अन्वयव्यतिरेकानुविधानं कुर्वत् दृश्यते कार्यम् / तत् कथं तस्य कार्योपयोगित्वं व्यवस्थाप्यते? यदुक्तम्-
येषु सत्सु भवत्येव [यत्तेभ्यो ऽन्यस्य कल्प्यते] / तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः //
इति //
अथ पृथिव्यादीनि भूतान्येव ईश्वरो भवत्विति पराभिप्रायमाशङ्कयाह भूतानि चेदित्यादि- भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः // bca_9.119 // यदि भूतानि पृथिव्यादीनि ईश्वर उच्यते, तदा अभ्युपगम्यते एव / भवत्वेवम्, एवमस्तु, न वयमत्र विप्रतिपद्यामहे / क्षित्याद्यन्वयव्यतिरेकानुविधानवतः कार्यस्य दर्शनात् / केवलं नाममात्रे ऽपि किं श्रमः? नामैव केवलमर्थभेदशून्यं नाममात्रकम् / अपिरवधारणे / नाममात्रे एव किमिह महासमारम्भेण तत्प्रसाधनाय श्रमः आयासः क्रियते? मया क्षित्यादय उच्यन्ते, त्वया पुनस्तान्येव भूतानि ईश्वरः इति नार्थतः कश्चिद्विशेषः? न चात्र विप्रतिपत्तावर्थशून्यायां किंचित् फलमुपलभ्यते //
अथ अस्त्येव अर्थविशेषः, तदा नैषामीश्वरत्वं युक्तमित्याह अपि त्वित्यादि-
अपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः / लङ्घयाश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः // bca_9.120 //
अपितुशब्देन अधिकमाह / नैते क्षित्यादयो भवतामीश्वरत्वेन कल्पयितुं युज्यन्ते, तल्लक्षणायोगात् / कथं कृत्वा? अनेके नानास्वभावाः, अनित्याश्च विनश्वरस्वभावाः, निश्चेष्टाः, अचेतनतया निर्व्यापाराः / न च देवताः, नापि च आराध्यरूपाः / लङ्घयाश्च अतिक्रमणीयाः अनघृष्यत्वात् / अशुचयश्चैव अपवित्राः / अमेध्यादिष्वपि पृथिव्यादिसद्भावात् / (bcp 257) क्ष्मादयः क्ष्मा पृथिवी आदिर्येषामप्तेजोवायूनां ते तथोक्ताः / न स ईश्वरः, स ईश्वरः तादृक्खभावो न भवति, तत्षट्प्रकारविपरीतत्वात् //
यदि क्ष्मादयो नेश्वरः, आकाशं तर्हि भविष्यतीत्याह नाकाशमित्यादि-
नाकाशमीशो ऽचेष्टत्वात्
आकाशमपि ईशः ईश्वरो न भवति / कुतः? अचेष्टत्वात्, स्वभावविकलतया निर्व्यापारत्वात्, परमते ऽपि निष्क्रियत्वात् / आत्मा तर्हि भवतु-
नात्मा पूर्वनिषेधतः /
पूर्वमेव विस्तरेण आत्मनः प्रतिषिद्धत्वात् निःस्वभावः शशविषाणवदसौ / अथापि स्यात्- अवितर्क्यमाहात्म्यत्वादस्य नार्वाग्दर्शनैरिदमित्थमिति तत्स्वरूपं विवेचयितुं शक्यमित्याह अचिन्त्यस्येत्यादि- अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते // bca_9.121 // यदि असौ चिन्तातिक्रान्तमाहात्म्यः, तदा अचिन्त्यस्य च चिन्तापथमतिक्रान्तस्य ईश्वरस्य कर्तृत्वं युगपत्कारणत्वमपि अचिन्त्यमतर्क्यं किमुच्यते, किमभिधीयते? कर्तृत्वमप्यस्य अचिन्त्यत्वान्न वक्तुमुचितमित्यर्थः //
स्यादेतत्- अतिदुर्लक्ष्यस्वभावतया चिन्तयितुमशक्यो ऽसौ, कार्यं तु तस्य सर्वजनप्रतीतिसाधारणत्वात् चिन्त्यमेव, इति ब्रुवाणं प्रत्याह तेन किमित्यादि-
तेन किं स्त्रष्टुमिष्टं च
भवतु नाम तस्य कार्यं चिन्त्यम्, तथापि तेन किं स्त्रष्टुमिष्टुं च / तेन ईश्वरेण अचिन्त्यमाहात्म्येन किं कार्यं स्त्रष्टुं निर्मातुमिष्टमभिप्रेतं च, इति परस्योत्तरमाशङ्कयन्नाह-
आत्मा चेत्
अत्र पूर्वपदस्याकारेण च्छन्दोनुरोधात् संधिर्न कृतः / आत्मा तेन स्त्रष्टुमिष्टं चेन्मतम्, एतत् प्रतिषेधयति-
नन्वसौ ध्रुवः /
ननु भोः, असावात्मा ध्रुवो नित्यो ऽभिमतो भवताम् / तत् कथमसौ क्रियते? अन्यथा नित्य एव स न स्यात् / सदकारणवन्नित्यमिति नित्यलक्षणाभावप्रसङ्गात् / अन्यत्रापि न तस्य सृष्टिव्यापार उपलक्श्यते इत्याह क्ष्मादीत्यादि- क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च // bca_9.122 // कर्मणः सुखदुःखे च
आदिशब्देन अप्तेजोवाय्वाकाशकालदिङ्मनांसि गृह्यन्ते / तेषां स्वभावो ध्रुवः / सो ऽपि न तेन क्रियते, पृथिव्यादीनां परमाणूनां नित्यत्वाभ्युपगमात् / स्थूलरूपे च तद्वयापारस्य निषेत्स्यमानत्वात् / आकाशादीनामपि नित्यत्वात् / ईशश्चेति / ईश्वरो ऽपि ध्रुवः इति आत्मानमसौ न करोति / ज्ञानं ज्ञेयादनादि चेति / ज्ञानमपि ज्ञेयादुत्पद्यमानमनादि (bcp 258) च, आसंसारं ज्ञेयामालम्ब्य प्रवर्तनात्, तदपि न तेन क्रियते / तत्कर्मणः सुखदुःखे च, कर्मणः शुभाशुभात् यथासंभवं सुखदुःखे च भवतः इष्टानिष्टविपाकजे, तत्रापि न तस्य व्यापारः / एवं सति-
वद किं तेन निर्मितम् /
ब्रूहि किमिदानीं तेनेश्वरेण निर्मितं रचितम्, इति न क्वचित् तस्य सामर्थ्यमुपलभ्यते / तत् कथमस्य जगत्कर्तृत्वमुच्यते? अधुना सर्वत्र साधारणं दूषणमाह हेतोरित्यादि- हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् // bca_9.123 // तथाहि असौ नित्यो वा जगतो हेतुः स्यादनित्यो वा? नित्य एव तद्वादिभिरसौ परिकल्पितः / तत्र नित्यत्वे सति हेतोः कारणस्य आदिर्नास्ति, यदि, तदा फलस्यादिः कुतो भवेत्? नैव स्यादित्यर्थः / नित्यमुपस्थिते समर्थस्वभावे हेतौ कार्यमपि तज्जन्यमजस्त्रमेव जायेत / इति तत्सामर्थ्यप्रतिबद्धं कार्यं सदा प्राप्नोति / तत्-
कस्मात्सदा न कुरुते
कस्मात् कारणात् सदा सर्वकालं न कुरुते? न सर्वं कार्यं जनयतीति कथं कस्यचित् कार्यस्य कदाचित् क्रियाविरामः //
अथवा / अन्यथावतार्यते- यदि च नेश्वरो जगतः कर्ता स्यात्, कथमिदं प्रलयानन्तरमादितः सर्गभाग् भवेत्, इत्यत्राह हेतोरित्यादि- अनवराग्रो हि जातिसंसारः / ततश्च हेतोः क्लेशकर्मादिलक्षणस्य आदिः पूर्वकोटिः न चेदस्ति, फलस्य सत्त्वभाजनलोकविवर्तादिलक्षणस्य आदिः प्रथमारम्भः कुतो भवेत्? नैव विद्यते इत्यर्थः / अनादौ संसारे हि सत्त्वानां कर्माधिपत्येन स्थितिसंवर्तविवर्तानां प्रवर्तनात् / एतच्च उक्तमेव "कर्मणः सुखदुःखे च" [9.123] इत्यनेन //
अथवा / अत्रापि ईश्वरमेवाभिसंधायोक्तं हेतोरिति / हेतोरीश्वरस्य आदिर्न चेदस्ति, प्रलयकाले ऽपि तस्यानुपहततया माहात्म्यस्याभ्युपगमात् फलस्य तत्कृतस्य सर्गादिलक्षणस्य आदिः कुतो भवेत्? नित्यतया तत्कारणस्य सदा समर्थत्वात् सर्गादिकमपि नित्यमेव स्यात् / अतो नित्यसमर्थे तस्मिन् सर्गादेरादिरेव न स्यात् / ततः कथं सर्गस्यादावपि तद्वयापारो भवेत्? अपि च / यदि असौ कर्ता स्यात्, तदा नित्यत्वात्-
कस्मात्सदा न कुरुते
सर्गादिकमिति शेषः / तथाहि यदि कदाचित् सर्गं करोति, तदा तत्कारणस्वभावतया सदा तमेव कुर्यात् / एवं स्थितिसंहारयोरपि वक्तव्यम् / युगपद्वा तस्य सर्गादिक्रिया स्यात् / अत एव च हेतोरुपरमाभावात् / न फलस्यापि विरामः / अन्यत् पूर्ववत् //
अथापि स्यात्- यदि नाम असौ सदा समर्थस्वभावः, तथापि कदाचित् सहकारिवैकल्यान्न करोतीत्याह-
न हि सो ऽन्यमपेक्षते /
इति / समर्थस्वभावो हेतुरीश्वरः / हिर्यस्मात् / नान्यं सहकारिणमपेक्षते / नित्यस्य समर्थस्वभावस्य सतः तदपेक्षायोगात् / न हि नित्यतया अनाधेयातिशयस्य काचिदपेक्षा नाम / विशेषोत्पत्तौ वा तदव्यतिरिक्तस्वभावस्य तस्याप्युत्पत्तिप्रसङ्गात् / व्यतिरेके वा विशेषादेव कार्योत्पत्तिः, तस्य अकारकत्वं स्यात् / तदुक्तम्-
अपेक्ष्यते परः कश्चिद्यदि कुर्वीत किंचन / यदकिंचित्करं वस्तु किं केनचिदपेक्ष्यते // इति / [चतुः -3.12] भवन्तु वा तस्य सहकारिणः / तथापि ते नित्या वा स्युरनित्या वा? ये तावन्नित्याः परमाण्वादयः, तेषां न सद्भाववैकल्यं संभवति, नापि तदायत्तसंनिधीनां संनिधानवैकल्यम् / अनित्यानामपि तदायत्तोदयसंनिधीनां कुतो वैकल्यं नाम, येन सहकारिवैकल्यान्न करोतीत्युच्यते? ततो नायमत्र परिहारः / अत एवाह तेनाकृत इत्यादि- तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम् // bca_9.124 // तेन ईश्वरेण अकृतः, यः उत्पत्तिमांस्तेन अकृतः, स नास्त्येव, न विद्यते अन्यो ऽपरो जगति / तेन कारणेन तदायत्तवृत्तीनां सहकारिणां सदासंनिहितत्वादसौ नित्यः कर्ता किमपेक्षताम्? किमपेक्षमाणः कदाचित् कार्यं न कुर्यात्? इत्थं न काचिदपि तस्यापेक्शास्तीति सदा कार्यं कुर्वीत //
अथापि स्यात्- समवायिकारणम्, असमवायिकारणम्, निमित्तकारणं चेति कारणत्रितयात् कार्यमुत्पद्यते / तदस्य निमित्तकारणत्वात् सामग्रीमपेक्ष्य कार्यं कुर्वतो नोक्तदोषप्रसङ्गः इति पराशयमाशङ्कयाह अपेक्षत इत्यादि-
अपेक्षते चेत्सामग्रीं
यदि नाम असौ सदा सर्वकार्याणि कर्तुं समर्थः, तथापि अपेक्षते सामग्रीम् / न हि सामग्रीमन्तरेण सत्यपि समर्थे कर्तरि कार्यमुत्पद्यते / यथा किल पटोत्पादनसमर्थे ऽपि क्वचिद्धेतौ तुरीतन्तुवेमादिकमन्तरेण न पट उत्पद्यते, तथा प्रकृते ऽपि चेद्यदि, आह-
हेतुर्न पुनरीश्वरः /
यदि सामग्रीसद्भावे करोति, तदभावे च न करोतीत्यभ्युपगभ्यते, तदा पुनरीश्वरो हेतुर्न स्यात् / सामग्र्या एव कार्योत्पत्तेः, ततश्चानुत्पत्तेः / तस्या भावाभावयोः कार्यस्य भावाभावदर्शनात्, न तु पुनरीश्वरभावाभावयोरिति / न सामग्रीकाले ऽपि स पररूपेण कर्ता, स्वरूपं चास्य प्रागपि समर्थं तदेवेति कथं कदाचित् क्रियाविरामः? यदप्युक्तम्- कुविन्दादिवत् कदाचित् करोतीति, तदपि न युक्तम् / यतः कुविन्दादयः प्रागसमर्था एव / पुनः पश्चात् तुर्यादिसामग्रीप्रतिलम्भादपूर्वसामर्थ्याधिगमात् पटादिकार्यं कुर्वन्ति / अन्यथापि तेषामपि पूर्वं तत्सामर्थ्यसद्भावे तत्क्रियाप्रसङ्गो न निवर्तते इति साध्यविकलो (bcp 260) दृष्टान्तः / किं च / सामग्रीजनने ऽपि स एव कारणम्, स च सर्वदा संनिहितस्वभाव इति कथं कदाचित् सामग्रीवैकल्यमप्यस्य? अत एवोपदर्शयन्नाह-
नाकर्तुमीशः सामग्र्यां
इति / नाकर्तुमीशः, न अक्रियायां समर्थः / सामग्र्यां सामग्रीविषये / सर्वकार्यक्रियायां समर्थत्वात् सामग्रीजन्मन्यपि नोदासितुं शक्नोति / जनयतु तर्हि सामग्रीमिति चेदाह- [न कर्तुं तदभावतः] // bca_9.125 // न कर्तुमपि सामग्र्यामीशः / कुतः? तदभावतः, तस्याः सामग्र्या अभावतः अविद्यमानत्वात् / न च अविद्यमानस्वभावे वन्ध्यासुत इव किंचित् कर्तुं शक्यते नीरूपत्वात् / यद्वक्ष्यति-
नाभावस्य विकारो ऽस्ति कल्प[हेतु?] कोटिशतैरपि / इति // [बोधि. 9.147]
भवतु नाम सामग्रीसद्भावे सत्येव कर्ता / तथापि किं सामग्रीबलाकृष्टः स्वयमनिच्छन्नेव करोति, आहोस्विदिच्छन् इति विकल्पौ / तत्र आद्यं विकल्पमाशङ्कयन्नाह करोतीत्यादि-
करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते /
करोति कार्यमभिनिर्वर्तयति अनिच्छन् अनभिलषन् / ईश ईश्वरः / चेन्मतम्, परायत्तः प्रसज्यते, परायत्तः परतन्त्रः प्रसज्यते आसज्यते / सामग्रीवशेन अनिच्छतो ऽपि कुर्वतः तद्वशवर्तित्वप्रसङ्गात् / न च पारतन्त्र्यमनुभवतः ईश्वरत्वं युक्तम्, अतिप्रसङ्गात् / द्वितीयं विकल्पमधिकृत्याह-
इच्छन्नपीच्छायत्तः स्यात्
अथ इच्छन् करोतीति पक्षः स्वीक्रियते, तदापि इच्छायत्तः स्यात् / इच्छासद्भावे कार्यव्यापारात्, तदभावे च अव्यापारात् / तदपेक्षासद्भावात्- कुर्वतः कुत ईशता // bca_9.126 // एवं कुर्वतः कार्यमभिनिर्वर्तयतः सतः तस्य कुत ईशता, कुतः एश्वर्यम्? एतेन यदुक्तं केनचित्- बुद्धिमत्त्वादीश्वरस्य नैष दोषः / बुद्धिशून्यो हि स्वसत्तामात्रजन्यमक्रमेणैव कार्यं कुर्यात्, बुद्धिमांस्तु कर्तुमीशानो ऽप्यनिच्छन्न करोति, इति कस्तस्योपालम्भ इति, तदपि निरस्तम् / तथा हि ता अपि इच्छाः स्वसत्तामात्रनिबन्धनाः किं न करोतीति स एव तस्योपालम्भः / अपि च / यदि ता न सहकारिण्यः, किं तासां वियोगे ऽपि न करोति अथ असहकारिवैकल्ये ऽपि कार्याकरणे सर्वदा तदायत्तः? सहकारिण्यश्चेत्, तथा तद्भावे ऽपि सर्वकार्यं किं न करोति? सहकारिणां साकल्ये शक्तत्वात् / केवलस्य अशक्तस्य न कारकत्वमिति चेत्, तत् किमयं पररूपेण कारकः? तथा चेदकारक एव / न हि स्वरूपेण (bcp 261) अकारकः कारको नाम / स्वरूपमपि अस्य निजशक्तिशब्दवाच्यं कार्योपयोगीति चेत्, अलमिदानीमागन्तुकशक्तिष्वपेक्षया / समर्थो ऽप्येष प्रकृत्या सहकारिणामसंनिधौ नव कारक इति चेत्, मातापि सती प्रकृत्या बन्ध्या इत्येतदपि तर्हि देवानां प्रियेण वक्तव्यमित्यास्तां तावत् / अनित्यस्तु तद्वादिनां नाभिमतः / तथा च सति अन्यसाधारणस्वभावस्य कथमीशत्वमिति नेश्वरकार्यं जगद्वैचित्र्यमिति सिद्धम् //
यदि न बुद्धिमत्कर्तृकं जगत्, तर्हि नित्यपरमाणुपुञ्जमयं द्वयणुकादिक्रमेणोत्थं क्षितितरुपर्वतादिकं भवत्वित्याह ये ऽपीत्यादि-
ये ऽपि नित्यानणूनाहुस्ते ऽपि पूर्वं निवारिताः /
ये ऽपि मीमांसकादिवादिनो नित्यानणून् परमाणुनाहुः जगद्वैचित्र्यकारणत्वेन ब्रुवते, ते ऽपि वादिनः पूर्वम् "अंशा अप्यणुभेदेन" [9.87]इत्यादिना परमाणुविचारसमये तत्प्रतिषेधान्निवारिता निराकृताः अतो नित्यपरमाणुमयमपि नेदं जगत् //
एवमीश्वरकारणतां श्लोकार्धेन अन्तराले एव नित्यपरमाणुस्वभावतां च जगतो निरस्य तस्यैव तुर्यप्रकारस्य समर्थनाय प्रधानपरिणामरूपतां निराकर्तुं सांख्यमतमुद्भावयन्नाह सांख्या इत्यादि- सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् // bca_9.127 // सांख्याः कापिलाः प्रधानं प्रकृतिरित्यपरनामधेयम् इच्छन्ति मन्यन्ते नित्यं लोकस्य कारणम् / तच्च नित्यमविनश्वरस्वभावं लोकस्य सर्वस्य चराचरस्य जगतः कारणं परिणामरूपेण हेतुमिच्छन्ति //
किमिदं प्रधानं नामेति चेदाह सत्त्वमित्यादि-
सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः / प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते // bca_9.128 //
सत्त्वं रजस्तमश्चेति एते त्रयो गुणा अविषमं स्थिताः साम्यावस्थां प्राप्ताः प्रधानमिति कथ्यन्ते, प्रधानमित्युच्यन्ते / एषां तावत् प्रकृत्यवस्था / विषमैर्जगदुच्यते, विषमावस्थां प्राप्तैः पुनरेभिरेव गुणैर्जगदुच्यते, विश्ववैचित्र्यपरिणामः कथ्यते / तथाहि तेषां प्रक्रियायदा पुरुषस्य विषयोपभोगाकारमौत्सुक्यमुपजायते, तदा प्रकृतिः परिज्ञातपुरुषौत्सुक्या पुरुषेण युज्यते / तदा पुनः शब्दादिसर्गरूपेण परिणतिमुपजनयति / तदा अयं क्रमः-
प्रकृतेर्महांस्ततो ऽहंकारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि //
[सांख्यकारिका-22]
अस्यायमर्थः- प्रकृतेर्महान्, प्रधानान्महान् / महानिति बुद्धेराख्या / ततो महतो ऽहंकारः, अहमिति प्रत्ययः / तस्मादहंकाराद्गणश्च षोडशकः, षोडशक इति एकादशेन्द्रियाणि पञ्च च तन्मात्राणि / तत्र पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि / पञ्च बुद्धीन्द्रियाणि (bcp 262) श्रोत्रं त्वकू चक्षू रसनं घ्राणं चेति / उभयात्मकं तु मनः इत्येकादश भवन्ति / पञ्च तन्मात्राणि पुनः शब्दस्पर्शरूपरसगन्धाः / पञ्चभ्यः पञ्च भूतानि / पञ्चभ्यः शब्दादिभ्यः पञ्च भूतानि भवन्ति पञ्च भूतानि च आकाशवायुतेजोजलपृथिव्याख्यानि / आद्यप्रकृतिस्तु कारणमेव न कार्यम् / महदहंकारौ शब्दादयश्च पञ्च कार्यं कारणं च / एकादशेन्द्रियाणि आकाशादयश्च पञ्च कार्यमेव न कारणम् / पुरुषः पुनरुभयस्वभाववर्जित इति / यदाह-
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः // इति / [सांख्यकारिका-3] तच्च प्रधानमशेषकार्यशक्तिमयमेव त्रिगुणात्मकमेव कार्यमभिनिर्वर्तयति / कथमन्यथा तत्राविद्यमानं कार्यं वैश्वरूप्यमुत्पद्यते? तथा चोक्तम्-
अशेषशक्तिप्रचितात् प्रधानादेव केवलात् / कार्यभेदाः प्रवर्तन्ते तद्रूपा एव तत्त्वतः //
यदि त्वसद्भवेत्कार्यं कारणात्मनि शक्तितः / कर्तुं तन्नैव शक्यं तन्नैरूप्याद्वियदब्जवत् // इति / [तत्त्वसंग्रह-7-8] एवं किल प्रधानात् कार्यरूपेण जगद्विवर्तः प्रवर्तते इति कापिलाः / तदेवं तत् सर्वमाकाशे विरचितचित्रमिव प्रतिभासते इति मन्यमानः सिद्धान्तवादी दूषयितुमाह एकस्येति-
एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत् /
एकस्य सतः प्रधानस्य त्रिस्वभावत्वं सत्त्वरजस्तमोभेदेन त्र्यात्मकत्वमयुक्तमसंगतम् / तेन कारणेन नास्ति तत्, न विद्यते तत् त्रिगुणात्मकं प्रधानम् / एकमनेकस्वभावमिति परस्पराहतमेतत् / अतः तस्मिन्नपहस्तिते सर्वं तत्कार्यमपाकृतं भवेत् / मा भून्नाम तदेकस्वभावं त्रिगुणात्मकम्, गुणास्तावत् स्वरूपतः सन्तीत्याह एवमित्यादि- एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा // bca_9.129 // एवमेव प्रधानवत् गुणाः सत्त्वरजस्तमोरूपा न विद्यन्ते / ते ऽपि हि त्रिधा / हिर्यस्मात् / ते ऽपि गुणाः प्रत्येकमेकैकशः त्रिधा त्रिप्रकाराः / तथा हि सर्वं त्रिगुणात्मकं ब्रुवतां प्रत्येकं गुणा अपि स्वरूपेण त्रिगुणात्मकाः प्राप्नुवन्ति / तथा तद्गुणा अपि त्रिगुणात्मकतया नैकस्वभावा विद्यन्ते //
यदा चैवं विचारयतो गुणा न सन्ति, तदा तद्विवर्तरूपाः शब्दादयो ऽपि न युज्यन्ते इत्याह गुणाभावे इत्यादि-
गुणाभावे च शब्दादेरस्तित्वमतिदूरतः /
गुणानां सत्त्वादीनाम् अभावे असत्त्वे च / दूषणान्तरसमुच्चये चकारः / शब्दादेरादिग्रहणात् स्पर्शादिपरिग्रहः / अस्तित्वं सद्भावः अतिदूरतः, सर्वथैव न युज्यते / कारणाभावे कार्यस्य सत्त्वायोगात् / यदप्युक्तम्-
सुखाद्यन्वितमेतद्धि व्यक्तं व्यक्तं समीक्ष्यते / प्रसादतापदैन्यादिरूपस्यैकोपलब्धितः // इति / [तत्त्वसंग्रह-14] तदपि न युक्तम् / यश्च सत्त्वादीनां सुखादिरूपतामुपपादयितुं तत्परिणामस्य रूपादिनो व्यक्तस्य सुखाद्यन्वयो हेतुरुक्तः, सो ऽपि नास्तीत्याह अचेतन इत्यादि- अचेतने च वस्त्रादौ सुखादेरप्यसंभवः // bca_9.130 // अचेतने जडरूपे च / पूर्ववच्चकारः / वस्त्रादौ अचित्स्वभावे पटादौ सुखादेरपि चिदात्मकस्य तादात्म्येनासंभवः अभावः / यतः सत्त्वरजस्तमांस्येव सुखदुःखमोहा उच्यन्ते / ते च गुणा न हि सन्ति / तत् कथं तत्र सुखादयो भवेयुः?
अथापि स्यात्- न सुखाद्यात्मकतया परादयः सुखादिस्वभावा उच्यन्ते, अपि तु सुखादेस्तदुत्पत्तेरित्याशङ्कयन्नाह तद्धेत्वित्यादि-
तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः /
तस्य सुखादेर्हेतुरूपाः कारणस्वभावा भावा बाह्याः पटादयश्चेन्मतम्, ननु भावा विचारिताः / नामी पटादयः अवयविरूपाः, नापि परमाणुस्वरूपा नापि त्रिगुणात्मकाः / एवं भावा विचारिताः निरूपिताः युक्तितः, प्रतिभासमानानां मायावन्निःस्वभावत्वाच्च / तत् के इमे भावाः सुखादिहेतुरूपा भविष्यन्ति? अपि च / व्यक्तस्य सुखादिस्वभावत्वे पटादय एव सुखादिजन्याः स्युरित्याह सुखाद्येवेत्यादि-
सुखाद्येव च ते हेतुः
पटस्यापि सुखाद्येव च / ते तव सांख्यस्य / हेतुः स्यात् / व्यक्तस्य सुखाद्यात्मकत्वात् / तथापि- न च तस्मात्पटादयः // bca_9.131 // आदिशब्दाच्चन्दनमालादयः //
विपर्ययः पुनरिहोपलभ्यते इत्याह पटादेस्त्वित्यादि-
पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत् /
पटादेस्तु / आदिशब्दान्मालादेः / पुनः सुखादि स्यात् / आदिशब्दाद्दुःखादि भवेत् / तदभावात्, तेषां पटादीनामभावात् / सुखाद्यसत्, पटादिकार्यत्वात् सुखाद्यपि न स्यादिति तदन्वयव्यतिरेकानुविधानात् सुखादेस्तत्कार्यत्वम् / सत्त्वादिगुणात्मकतया यदपि सुखादीनां नित्यत्वमिष्टम्, तदपि न सम्यगित्याह सुखादिकानां चेत्यादि- सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते // bca_9.132 // सुखदुःखमोहानां च / चकारो ऽधिकदोषविवक्षायाम् / नित्यत्वं ध्रुवस्वभावत्वं कदाचिन्नोपलभ्यते, न दृश्यते / गुणानामेव असत्त्वात् तेषां नित्यत्वाद्ययोगात् //
यदि च सुखादीनां नित्यत्वं स्यात्, तदा नित्यमुपलभ्येरन्नित्याह सत्यामित्यादि-
सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते /
यदि सत्यमवस्थितरूपाः सुखादयः, तथा सर्वदेति सदा तत्संवेदनं स्यात्, तत्स्वभावापरित्यागादिति समुदायार्थः / सत्यामेव सुखव्यक्तौ, एकदा भूतायां सुखव्यक्तौ सुखस्य नित्यत्वे सति / संवित्तिः किं न गृह्यते, सुखस्य संवेदनं सर्वदा किं न स्यात्? न च सर्वदा संवेदनमस्ति / तस्मात् कदाचिदनुपलभ्यमानं तत् तदा नास्तीति निश्चितमिति कथं नित्यत्वम्? स्यादेतत्- सर्वदा व्यक्तिरूपतायां स्यादेष दोषः / यदा पुनस्तदेव शक्तिरूपतया लयगतं भवति, तदा न दोष इत्याह तदेवेत्यादि- तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् // bca_9.133 // तदेव व्यक्ताववस्थितिं कृत्वा भावसमाश्रयात्, पश्चादनुपलम्भकाले सूक्ष्मतां याति, दिवा नक्षत्राणीव अनुपलब्धस्वभावतां समाश्रयते, तदेतदसंगतम् / कुतः? यद् यस्मात् स्थूलं व्यक्तस्वभावं सत्, सूक्ष्मं तत् कथम्? अव्यक्तस्वभावं तत् सुखादि कथम्? नित्य तया नानास्वभावता एकस्य न युक्तेति भावः //
अथापि स्यात्- एकदा परस्परविरुद्धयोरेकस्मिन्नयोगः पूर्वधर्मनिवृत्तौ तु धर्मान्तरोत्पत्तेर्न दोष इत्याह स्थौल्यमित्यादि-
स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते /
स्थौल्यमाविर्भावरूपतां त्यक्त्वा परित्यज्य भवेत् सूक्ष्मं तिरोहितरूपं स्यात् / एवमभ्युपगमे सति अनित्ये स्थौल्यसूक्ष्मते उत्पादविनाशालीढत्वादध्रुवे स्थौल्यसूक्ष्मते स्याताम् / भवतां नाम अनित्ये, का क्षतिरित्याह सर्वस्येत्यादि- सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते // bca_9.134 // सर्वस्य वस्तुनः पञ्चविंशतितत्त्वलक्षणस्य / तद्वत् स्थौल्यसूक्ष्मतावत् किं नानित्यत्वमिष्यते? किमिति निरन्वयविनाशः न स्वीक्रियते? अयमभिप्रायः- स्थौल्यसूक्ष्मतयोरपि निरन्वयविनाशासदुत्पादमन्तरेण नाविर्भावतिरोभावौ युक्तौ / अन्यथा कथंचित् केनचिद्रूपेण अवस्थानात् पूर्ववत् पुनरुपलब्धेः प्रसङ्गः / तद्वत् सुखादीनामपि / तस्मादवश्यं तयोर्निरन्वयविनाशासदुत्पादौ च अङ्गीकर्तव्यौ / यथा च तयोरेतौ भवतः, तथा अन्येषामपि विशेषाभावात् स्यातामिति //
किं च / यदि स्थौल्यसूक्ष्मतयोर्विनाशोत्पत्ती इष्येते, तदा सुखादीनामनित्यताप्रसङ्गः स्यात् / तथा हि तत् स्थौल्यं सुखाद्भिन्नमभिन्नं वा स्यात् / तत्र यदि भिन्नम्, तदा तस्मिन् निवृत्ते ऽपि पूर्ववत् सुखसंवेदनं स्यात् / न हि पटे निवृत्ते ऽपि घटस्यानुपलब्धिर्युक्ता / तस्य तदिति संबन्धकल्पनायामनवस्थानप्रसङ्गात् / न च सत्यपि संबन्धे अकारणस्य निवृत्तौ अन्यस्य निवृत्तिर्युज्यते, गोनिवृत्ताविव तत्स्वामिनः / नापि सुखस्य तत् कारणम्, पटादेरेव सुखोत्पत्तेः / नापि तदपि कारणम्, सुखादिसमानकालत्वात्तस्य //
अथ अभिन्नमिति पक्षः, अत्रोच्यते-
न स्थौल्यं चेत्सुखादन्यत्
यदि स्थौल्यं सुखादन्यत् भिन्नं न भवति, तदा स्यात् सुखमेव तत् / तदा-
सुखस्यानित्यता स्फुटम् /
तत्स्वभावतया स्थौल्यस्य निवृत्तौ सुखस्य विनिवृत्तेः सुखस्य अनित्यता विनश्वरता स्फुटं निश्चितम् //
स्यादेतत्- यदि सर्वथा विनाशः स्यात्, तदा सुखस्य पुनरुत्पत्तिर्न स्यात् / अत्यन्तासतो गगनोत्पलवदुत्पादायोगात्, इति परमतमुपदर्शयन्नाह नासदित्यादि-
नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम् /
यत् सर्वथा कारणात्मनि अविद्यमानं तन्नोत्पद्यते, यथा गगनाम्भोरुहम् / तथा च अन्यदपि यदि स्यात्, तदा नोत्पद्यते / अतो नासदुत्पद्यते किंचित्, नात्यन्तासत्स्वभावमुत्पद्यते किंचित् / कुतः? असत्त्वात् / अभावात्, इति चेन्मतम्, एवं यदि संमतम्, तदा नैतद्वक्तव्यमित्याह व्यक्तस्येत्यादि- व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता // bca_9.135 // व्यक्तस्यासतः प्राक् शक्तयवस्थायामविद्यमानस्य व्यक्तस्य पश्चादुत्पत्तिरुत्पादः / अनभिलाषिणो ऽपि ते तव सदुत्पत्तिवादिनः स्थिता आपन्ना / अन्यथा प्रागपि तस्य सद्भावे पश्चाद्वत् पूर्वमपि तदुपलब्धिप्रसङ्गः / यथा व्यक्तस्यासत उत्पत्तिः, तथा यदि अन्यस्यापि स्यात्, तदा न विरुध्यते किंचित् //
अपि च / सत्कार्यवादिनः कारणावस्थायां कार्यसद्भावात् इदमपि दूषणमपरमाशङ्कयते इत्याह अन्नाद इत्यादि-
अन्नादो ऽमेध्यभक्षः स्यात्
अन्नमत्तीत्यन्नादः अन्नभक्षकः अमेध्यभक्षः स्यात् अशुचिभोक्ता भवेत् / कथम्?
फलं हेतौ यदि स्थितम् /
कार्यं यदि कारणे सत्स्वभावम् / तथाहि- कार्यममेध्यमन्नस्य, तच्च अन्नावस्थायामेव सत्कार्यवादिनो विद्यते, इति अन्नभक्षणात् तद्भक्षणमाशङ्कयते भवतः / किं च इदमपि सत्कार्यवादिनः प्रसङ्गान्तरमासञ्जयन्नाह पटार्घेणेत्यादि- पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम् // bca_9.136 // फलं हेतौ यदि स्थितमिति संबन्धः / कर्पासबीजे कारणे भविष्यतः पटस्य कार्यस्य सद्भावात् पटस्यार्घेण मूल्येन कर्पासबीजं क्रीत्वा गृहीत्वा निवस्यतां परिधीयताम् //
अथापि स्यात्- यदि नाम परमार्थतः कारणे कार्यमस्ति, तथापि नायं संवृत्यविद्यातिमिरोपहतलोचनः सांव्यवहारिको लोकः पश्यतीत्याशङ्कयन्नाह मोहादित्यादि-
मोहाच्चेन्नेक्षते लोकः
मोहादज्ञानात् सदपि वस्तुतत्त्वं नेक्षते न पश्यति लोकः / ततो नोक्तदोषप्रसङ्गः / चेद्यदि / ननु- तत्त्वज्ञस्यापि सा स्थितिः // bca_9.137 // यदि नाम न लोको ऽपश्यंस्तथा व्यवहारं करोति, तत्त्वज्ञस्य तु युज्यते / न चैवम् / यतः तत्त्वज्ञस्यापि कारणे कार्यमस्तीति परमार्थवेदिनो ऽपि सांख्यस्य सा स्थितिः, सैव सर्वसांव्यवहारिकजनसाधारणी व्यवस्थितिः / ते ऽपि दृश्यन्ते अन्नभक्षणादिषु प्रवर्तमानाः कर्पासबीजं पटार्थिनः परिहरन्तः //
नाप्ययमत्र परिहारो युज्यते इत्याह लोकस्येत्यादि-
लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति /
लोकस्य सांव्यवहारिकजनस्यापि तज्ज्ञानमस्ति, येन कार्यं कारणे ऽस्तीति प्रतिपद्यते, न तत्त्वज्ञस्यैव / तथाहि- कार्यं दृष्ट्वा कारणे अस्तीति निश्चयः उभयोरपि तत्त्वज्ञस्य लोकस्य च साधारणः / अतो लोकः कस्माद्धेतोर्न पश्यति? तत्र लोकस्यादर्शनकारणं वक्तव्यम् / लोकस्य दर्शनमप्रमाणमिति चेदत्राह लोकेत्यादि-
लोकाप्रमाणतायां चेत्
लोकस्य सांव्यवहारिकजनस्य अप्रमाणतायां तज्ज्ञानस्याप्रामाण्ये- व्यक्तदर्शनमप्यसत् // bca_9.138 // व्यक्तस्य आविर्भूतस्वरूपस्य संदर्शनम् / तदप्यसत् अप्रमाणं स्यात् / न तस्माद् वस्तुतत्त्वव्यवस्था प्राप्नोति / एतच्च अस्माभिरिष्यते एव / सर्वसांव्यवहारिकप्रमाणानां परमार्थतो ऽप्रमाणत्वात् / तथा च भवतो ऽपि अस्मत्पक्षनिक्षेपः //
एवं च परिनिष्ठितः कापिलः सिद्धान्तवादिनो ऽपि साधारणदूषणमासञ्जयन्नाह प्रमाणमित्यादि-
प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा /
यदि प्रमाणमपि परमार्थतः प्रमाणं न भवतीति भवतां पक्षः, ननु तत्प्रमितं मृषा, प्रमाणस्याप्रामाण्ये तत्प्रमितं तेन प्रमाणेन परिच्छिन्नं मृषा अलीकं प्राप्नोति / किमतः स्यात्? तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते // bca_9.139 // यदि प्रमाणस्याप्रामाण्ये तत्प्रमितं मृषा, तदा येयं भावानां धर्माणां तत्त्वतः परमार्थतः शून्यता सर्वधर्मनिःस्वभावता तस्मात् प्रमाणान्निश्चिता, सापि नोपपद्यते, न संगच्छते / सर्वप्रमाणोपदर्शितस्य मृषार्थत्वात् सापि सर्वधर्मनिःस्वभावता तद्विचारकप्रमाणोपदर्शितैव इति समानो न्यायः //
अत्र परिहारमाह कल्पितमित्यादि-
कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते /
कल्पनाकल्पितं समारोपितं भावमस्पृष्ट्वा कल्पनाबुद्धया अगृहीत्वा तदभावो न गृह्यते नालम्ब्यते / तथाहि घटमारोपितरूपेण परिकल्प्य तत्संबन्धितया घटाभावं प्रतिपद्यते लोकः / घटस्य विचारेण लोकप्रसिद्धेनैव यदा न किंचित् स्वरूपमवतिष्ठते, तदा तदभावः तद्विपर्ययरूपः सुतरां न कश्चित् / तदेवोपदर्शयन्नाह तस्मादित्यादि- तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा // bca_9.140 // यस्मात् कल्पितभावविवेकेन अभावो गृह्यते, तस्माद्भावो मृषा असत्स्वभावो यः, तस्याभावः स्फुटं मृषा, तस्य निःस्वभावस्य भावस्य अभावो विरहः स्फुटं निश्चितं मृषा असत्यः / तस्यापि परिकल्पितरूपत्वात् / एवं च भावाभावयोः परिकल्पितरूपत्वे सर्वधर्मनिःस्वभावतैव अवतिष्ठते //
पुनरिदमेव उपसंहारव्याजेन विस्पष्टयन्नाह तस्मात् स्वप्ने इत्यादि-
तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना /
यस्माद्भावाभावौ कल्पनोपस्थापितत्वान्मृषार्थौ, तस्मात् स्वप्ने मिद्धाक्रान्तचित्तावस्थायामुत्पन्नविनष्टे सुते पुत्रे सति स पुत्रो नास्तीति विकल्पना तदभावविकल्पः / किं करोति?
तद्भावकल्पनोत्पादं विबध्नाति
तस्य सुतस्य भावः तस्यास्तित्वं तस्य कल्पना सत्त्वसमारोपः तस्योत्पादः उन्मज्जनं तं नि[वि?]बध्नाति / निषेधयति- तथैव तर्हि सेति चेन्न मृषा च सा // bca_9.141 //
सा कल्पना तद्भावकल्पनां विबध्नाति अपि मृषा / अलीकसुतस्य स्वप्ने अनुत्पन्नानिरुद्धत्वात् / अथवा सत्याभिमते एव सुते स्वप्ने नष्टे सर्वमेतद्योजनीयम् / एवं सर्वधर्माणामुत्पादनिरोधौ कल्पनोपदर्शितौ द्रष्टव्यौ / एतदुक्तं भवति- यथा स्वप्नोपलब्धस्य वस्तुनो ऽनुत्पन्नानिरुद्धस्यापि कल्पनोपदर्शितौ भावाभावौ न परमार्थसन्तौ, अथ च कल्पनया व्यवहारगोचरमुपगतौ प्रतिभातः, न च सा कल्पना असत्यार्थविषयतया अप्रमाणम्, तद्विषयस्य परमार्थतो निःस्वभावत्वात्, तथैव जाग्रद्दशायामुपलब्धयोरपि भावाभावयोर्व्यवहारपथमुपगतयोः कल्पनाप्रतिपादितयोर्व्यवस्था / इति तस्या अप्रामाण्ये ऽपि न सर्वधर्मनिःस्वभावता विघटते / यदाह [नागार्जुनः चतुःस्तवे]-
उत्पन्नश्च स्थितो नष्ट उक्तो लोको ऽर्थतस्त्वया / कल्पनामात्रमित्यस्मात्सर्वधर्माः प्रकाशिताः //
कल्पनाप्यसती प्रोक्ता यया शून्यं विकल्प्यते //
[चतुः-3.34]
इति सर्वं समञ्जसम् //
एवमहेतुभूतस्वभावेश्वरप्रधानकर्तृत्वं जगतो निराकृत्य नाप्यहेतुतः इत्यस्यार्थं प्रसाध्य उपसंहरन्नाह तस्मादेवमित्यादि-
तस्मादेवं विचारेण नास्ति किंचिदहेतुतः /
यतः स्वभावादिसंभूतं न किंचित् कार्यमुपपद्यते, तस्मादेवं विचारेण समनन्तरनिरूपणेन नास्ति किंचिदहेतुतः, स्वभावादेरहेतुतो ऽकारणाज्जातं किंचित् कार्यं नास्ति न विद्यते / उपलक्शणं चैतत् / पुरुषकालादिकृतत्वमपि नास्ति, तेषामप्यहेतुत्वात् / अतो नाप्यहेतुत इति सिद्धम् / ननु यदि नाम स्वभावेश्वरप्रधानादेरहेतुतो न किंचिदस्ति, तथापि परिदृष्टकारणादेव परमार्थतः उत्पत्स्यते / तत् कथं सर्वधर्माणां निःस्वभावता सेत्स्यतीति पराशयमाशङ्कय न स्वतो नापि परतो न द्वाभ्याम् इति कोटित्रयं समर्थयन्नाह न च व्यस्तेत्यादि- न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् // bca_9.142 // न च नैव / व्यस्तसमस्तेष्विति व्यस्तेषु समस्तेसु च / तत्र न च व्यस्तेषु, एकैकशः स्वतः परतश्चेति / नापि समस्तेषु द्वाभ्यां स्वपराभ्याम् / प्रत्ययेषु कारणेषु / व्यवस्थितम् उत्पादरूपतया प्रतिष्ठितं किंचित् //
तत्र न तावत् स्वतः स्वभावाद्भावा उत्पद्यन्ते / उत्पादात् पूर्वं तस्य स्वभावस्याविद्यमानत्वात् कुत उत्पद्यन्ताम्? उत्पन्ने च तस्मिन् सत्यपि स्वरूपे तस्यापि निष्पन्नत्वात् किमुत्पद्यन्ताम्? अपि च / स्वत एव जन्मनि जातस्यैव पुनर्जन्म स्यात् / न च तद्युक्तम् / कृतस्य करणयोगात् / जातस्य पुनर्जन्मनि बीजदीनामेव आसंसारं प्रवृत्तेः नाङ्कुरादयः कदाचिदुत्पत्तुमवसरं लभेरन् / न च एतदभ्युपगच्छतो ऽपि लोकत एव बाधामनुभवत् सिद्धिपथमुपयाति, बीजादेरङ्कुराद्युत्पत्तिदर्शनात् / न च बीजाङ्कुरयोरैक्यम्, उभयोरपि भिन्नरूपरसवीर्यविपाकत्वात् / स्वस्वभावजन्यत्वे च कस्यचिदुत्पत्तिरेव न स्यात्, इतरेतराश्रयत्वात् / तथा हि यावत् स्वभावो न भवति, तावदुत्पत्तिर्न स्यात्, यावच्च उत्पत्तिर्न भवति, तावत् स्वभावो न स्यात् / तस्मान्न स्वतः किंचिदुत्पद्यते //
नापि परतः / परतो हि जन्मनि इष्यमाणे शालिबीजादपि कोद्रवाङ्कुरस्योत्पत्तिप्रसङ्गः / शालिकोद्रवयोरपि च कोद्रवाङ्कुरापेक्षया परत्वमविशिष्टम्, सर्वस्य वा जन्म सर्वतो भवेत् / सर्वेषां परस्परं परत्वाविशेषात् / अथ यदि नाम परत्वमविशिष्टम्, तथापि कार्यकारणयोरन्योन्यजन्यजनकभावस्य नियामकत्वात् न सर्वस्योत्पत्तिरिति चेत्, न / अनुत्पन्ने हि कार्ये कस्मिन् पुनरस्य शक्तिरिति वक्तव्यम् / न च कार्यकारणयोरसमानकालतया जन्यजनकभावप्रतिनियमो ऽपि कश्चित् / अत एव एकसंततिप्रतिनियमो ऽपि न युक्तः, कार्यकारणमन्तरेण संततेरभावात् / तस्य च एकक्षणानवस्थानात् केयं संततिर्नाम? पूर्वापरक्षणप्रवाहस्य च कल्पनासमारोपितत्वात् नास्ति संततिर्वास्तवी / एतेन सादृश्यमपि नियामकमिह निरस्तम् / इति न किंचित् केनचिदेकसंततिपतितं सदृशं वा जन्यजनकभावनियतं वा अस्ति, जन्यजनकभावस्यैव चात्र चिन्त्यत्वात्, कथं तेनैव परिहारः? तस्मात् परतो ऽपि न कस्यचित् संभवः //
नापि द्वाभ्याम्, प्रत्येकपक्षोक्तसर्वदोषप्रसङ्गात् / प्रत्येकं च द्वयोरशक्तयोर्मिलितयोरप्यसामर्थ्यात् / न हि एकेनान्धेनादृष्टमार्गो बहुभिरपि द्रष्टुं शक्यते / प्रत्येकं वा सिकतास्तैलदानासमर्था मिलिता अपि तत्समर्था भवन्ति / तस्मादुभयपक्षप्रतिपादितदोषप्रसङ्गात् द्वाभ्यामपि न कस्यचिदुत्पत्तिसंभवः //
इति स्वपरोभयजनितमहेतुजनितं वा तत्त्वतो न किंचिदस्ति / तस्मात् परमार्थतो ऽनुत्पन्नानिरुद्धस्वभावं मायामरीचिप्रतिबिम्बप्रतिश्रुत्कासमं प्रतीत्यसमुत्पन्नं स्वभावशून्यमेव सर्वं विश्वमाभासते / न तु पुनरिदंप्रत्ययतामात्रं सांवृतमिह निषिध्यते / यदुक्तमत्र भगवता शालिस्तम्बसूत्रे-
तत्र कथं प्रतीत्यसमुत्पादं पश्यति? इहोक्तं भगवता- य इमं प्रतीत्यसमुत्पादं सततसमितं निर्जीवं यथावदविपरीतमजीवमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बनं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति, स धर्मं पश्यति / यस्तु एवं सततसमितं निर्जीवम्- इत्यादि पूर्ववत् यावत्- अव्युपशमस्वभावं पश्यति सो ऽनुत्तरधर्मशरीरं बुद्धं पश्यति / [आर्यधर्माभिसमये सम्यग्ज्ञानादुपनयेनैव?] / प्रतीत्यसमुत्पाद इति कस्मादुच्यते? सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्यय इत्युच्यते / पेयालं / अथ च पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पद्यते / कतमाभ्यां द्वाभ्यां कारणाभ्यामुत्पद्यते? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च / सो ऽपि द्विविधो द्रष्टव्यः- बाह्यश्चाध्यात्मिकश्च / तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदं बीजादङ्कुरः, अङ्कुरात् पत्रम्, पत्रात् काण्डम्, काण्डान्नालम्, नालाद्गण्डः, गण्डाद्गर्भम्, गर्भाच्छूकः, शूकात् पुष्पम्, पुष्पात् फलमिति / असति बीजे ऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति / सति तु बीजे अङ्कुरस्याभिनिर्वृत्तिर्भवति / एवं यावत् सति पुष्पे फलस्याभिनिर्वृत्तिर्भवति / तत्र बीजस्य नैवं भवति- अहमङ्कुरमभिनिर्वर्तयामीति / अङ्कुरस्यापि नैवं भवति- अहं बीजेनाभिनिर्वर्तित इति / एवं यावत् पुष्पस्य नैवं भवति- अहं फलमभिनिर्वर्तयामीति, फलस्यापि नैवं भवति- अहं पुष्पेणाभिनिर्वर्तितमिति / अथ पुनर्बीजे सति अङ्कुरस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः / एवं यावत् पुष्पे सति फलस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः / एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः //
कथं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? षण्णां धातूनां समवायात् / कतमेषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशऋतुसमवायात् बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः / तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोति / अब्धातुर्बीजं स्नेहयति / तेजोधातुर्बीजं परिपाचयति / वायुधातुर्बीजमभिनिर्हरति / आकाशधातुर्बीजस्यानावरणकृत्यं करोति / ऋतुरपि बीजस्य परिणामनाकृत्यं करोति / असत्सु एषु प्रत्ययेषु बीजादङ्कुरस्याभिनिर्वृत्तिर्न भवति / यदा बाह्यश्च पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशऋतुधातवश्च अविकला भवन्ति, तदा सर्वेषां (bcp 270) समवायात् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति / तत्र पृथिवीधातोर्नैवं भवति- अहं बीजस्य संधारणाकृत्यं करोमीति / एवं यावदृतोरपि नैवं भवति- अहं बीजस्य परिणामनाकृत्यं करोमीति / अङ्कुरस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनित इति / अथ पुनः सत्सु एतेषु बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति / स चायमङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः / पृथिव्यप्तेजोवाय्वाकाशऋतुसमवायात् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति / एवं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः //
तत्र बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः / कतमैः पञ्चभिः? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः तत्सदृशानुप्रबन्धतश्चेति / कथं न शाश्वतत् इति? यस्मादन्यो ऽङ्कुरो ऽन्यद्वीजम्, न च यदेव बीजं स एवाङ्कुरः / अथवा पुनः- बीजं निरुध्यते, अङ्कुरश्चोत्पद्यते / अतो न शाश्वततः / कथं नोच्छेदतः? न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते, नाप्यनिरुद्धाद्बीजात्, अपि च, बीजं च निरुध्यते, तस्मिन्नेव समये ऽङ्कुर उत्पद्यते, तुलादण्डोन्नामावनामवत् / अतो नोच्छेदतः / कथं न संक्रान्तितः? विसदृशो बीजादङ्कुर इति / अतो न संक्रान्तितः / कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः? परीत्तबीजमुप्यते, विपुलफलान्यभिनिर्वर्तयतीति / अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः / कथं तत्सदृशानुप्रबन्धतः? यादृशं बीजमुप्यते तादृशं फलमभिनिर्वर्तयतीति / अतस्तत्सदृशानुप्रबन्धतश्चेति / एवं बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः // इति /
आध्यात्मिकस्तु प्रतीत्यसमुत्पादः पूर्वमेव विस्तरेण प्रतिपादितः / इहापि योजयितव्यः / एवं परमार्थविचारे सांवृतमप्रतिषिद्धमेव //
ननु भावा नात्यन्तासंभविनो भवन्ति / अपि तु हेतुप्रत्ययबलादनागतादध्वनोवर्तमानमध्वानमागच्छन्ति, वर्तमानात् पुनरनित्यताबलादतीतमध्वानं गच्छन्ति / इत्येवमुत्पादस्थितिविनाशव्यपदेशः / प्रतीत्यसमुत्पादो ऽपि यथावदेवं संगच्छते इति त्रैकाल्यवादिमतमाशङ्कयाह अन्यत इत्यादि-
अन्यतो नापि चायातं न तिष्ठति न गच्छति /
अन्यतो देशकालात् / नायातं नागतं किंचित् / नाप्यागतं सत् वर्तमानादध्वनः क्वचिद्गच्छति / नापि तेनैकस्वभावेन क्वचित्तिष्ठति / तथाहि- यदि अनागतादध्वनो वर्तमानमागच्छेत्, वर्तमानाद्वा अतितम्, तदा संस्कृतमपि नित्यं स्यात्, सर्वदा विद्यमानत्वात् / नानित्यं नामास्ति, स च धर्मो न च नित्यः इति कथमेतत् सेत्स्यति?
अथ पूर्वापरकालयोः कारित्रशून्यतया धर्मस्य अध्वसु विशेषः / तथा हि यदा असंप्राप्तकारित्रः कृत्यं न करोति, तदा अनागतो ऽभिधीयते, यदा करोति तदा प्रत्युत्पन्नः, यदा तु कृत्यान्निवृत्तः तदा अतीत इति विशेषः / एतदपि न किंचित् / तेनैवात्मना तस्यैव (bcp 271) तदापि सद्भावात् कारित्रमपि कथं न स्यादिति वक्तव्यम् / प्रत्ययान्तरापेक्षापि नित्यमवस्थितरूपस्य न संभवति / कारित्रशून्यस्य च वस्तुत्वे अश्वविषाणादीनामपि तत्त्वप्रसङ्गः / कारित्रं वा कथमतीतमनागतं प्रत्युत्पन्नं च उच्यते? किं तदपरकारित्रसद्भावात् स्वयमेव वा? पूर्वत्र अनवस्थानम्, पाश्चात्ये च धर्मस्यापि स्वयमतीतत्वादिव्यवस्थायां न किंचित् क्षीयते / यदि च / यथा वर्तमानं द्रव्यतो ऽस्ति, तथा अतीतमनागतं चास्ति, तदा नैवम् / स्वभावेन सतो धर्मस्य कथमनुत्पन्नविनष्टस्वभावता? किमस्य पूर्वं नासीत् यस्याभावादजात इत्युच्यते? किं च पश्चान्नास्ति यस्याभावाद्विनष्ट इति? तेनैव चात्मना पूर्वापरकालयोरवस्थाने वर्तमानवदुपलब्ध्यादिप्रसङ्गः / तस्मादभूतत्वादभवनधर्मतो न संगच्छते कथंचिदपि अध्वत्रययोगः, तत्त्वाभ्युपगमतो नातीतादिसद्भावः / तदयमत्र संग्रहश्लोकः-
स्वभावः सर्वदा नास्ति भावो नित्यश्च नेष्यते / न च स्वभावाद्भावो ऽन्यो व्यक्तमीश्वरचेष्टितम् //
इति //
यदप्युच्यते- अस्त्यतीतं कर्म, अस्त्यनागतं फलम्, इति सूत्रवचनादस्त्यतीतादिभावः, तदपि हेतुफलापवादे तद्दुष्टिप्रतिषेधार्थमुक्तं भगवता- अस्त्यतीतम्, अस्त्यनागतम्, इति / अतीतं तु यदभूतपूर्वमुत्पद्य विनष्टम्, अनागतं यत् सति हेतौ भविष्यति / एवं हि हेत्वाद्यस्तीत्युच्यते, अस्तिशब्दस्य निपातत्वात् कालत्रयवृत्तित्वम् / इत्थं च एतदेवं यत्परमार्थशून्यतायामुक्तं भगवता-
चक्षुर्भिक्षव उत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित् संनिचयं गच्छति / इति हि भिक्षवः चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छतीति //
यदि च अनागतं चक्षुः स्यात्, नोक्तं स्यादभूत्वा भवतीति / तस्मान्नाध्वसंक्रान्तिरस्ति / यदि चैवम्, न कुतश्चिदागमनम्, क्वचिद् गमनं वा प्रज्ञायते, प्रतिभासमानस्य च प्रत्युत्पन्नस्य न रूपं किंचिद्विचारेणावतिष्ठते, तदा- मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् // bca_9.143 // मायातः ऐन्द्रजालिकनिर्मितहस्त्यादिरूपाया अपि निःस्वभावतया विशेषो नैव कश्चित् अस्य हेतुप्रत्ययोपजनितस्य वस्तुरूपस्य परिदृश्यमानस्य //
कथं न विशेषः? पुनरिदमेव व्यक्तीकुर्वन्नाह माययेत्यादि-
मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् / आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् // bca_9.144 //
मायाशब्देनात्र मायानिर्माणहेतुविज्ञानादिविशेष उच्यते कारणे कार्योपचारात्, हेतोरपि मायास्वभावताप्रतिपादनार्थम् / तया निर्मितम्, यच्च वस्तुरूपं मायाहेतुना मायास्वभावेन यद्विरचितमिति यावत् / यच्च अन्यद्वस्तुरूपं हेतुभिः लोकप्रसिद्धैः कारणैर्जनितम् / परस्परसमुच्चयार्थं चकारद्वयम् / आयाति आगच्छति / तन्मायानिमिर्तं हेतुनिर्मितं वा वस्तुरूपं (bcp 272) कुतः कस्मात्? कुत्र याति च, विनष्टं सत् क्व पुनरेतद् गच्छति? इत्येवं निरूप्यतां सूक्ष्मेक्षिकया विचार्यताम्, यदि तस्य कुतश्चिदागच्छति क्वचिद् गच्छति वा उपलभ्यते //
ननु च / यदि हेतुप्रत्ययसामर्थ्योपजनितं वस्तुरूपम्, तदा कथमिव अलीकं स्यात्? अत एव अलीकमित्याह यदन्येत्यादि-
यदन्यसंनिधानेन दृष्टं न तदभावतः / प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् // bca_9.145 //
यद् वस्तुरूपमन्यस्य हेतुप्रत्ययस्य संनिधानेन दृष्टमुपलब्धम्, न तदभावतः, तस्य अन्यस्य अभावतः न दृष्टम्, तत्पराधीनवृत्तित्वात् / प्रतिबिम्बसमे प्रतिबिम्बेन आदर्शमण्डलप्रतिभासिना मुखादिसादृश्येन तुल्ये / यथा मुखादिबिम्बादर्शमण्डलादिसंनिधानेन प्रतिबिम्बं प्रतिभासते, तथा वस्तुरूपमपि हेतुप्रत्ययसंनिधानयोरिति / एवंभूते वस्तुरूपे कृत्रिमे परायत्तवृत्तितया अस्वाभाविके सत्यता अमृषार्थता कुतः? नैव युज्यते / न हि परोपनिधिस्वभावानामकृत्रिमता युक्ता / तदुक्तम्-
हेतुतः संभवो येषां तदभावान्न सन्ति ये / कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः //
इति / [युक्तिषष्टिका-]
तस्मान्न हेतुप्रत्ययोपजनितं किंचित् परमार्थसदस्ति / न च हेतुप्रत्ययानां सामर्थ्यं क्वचिदपि परमार्थतः संभवति //
तथाहि- स्वपरोभयात्मकैर्हेतुभिर्विद्यमानो वा भावः क्रियेत, अविद्यमानो वा, उभयस्वभावो वा? तत्र न विद्यमानः क्रियते इत्याह विद्यमानस्येत्यादि-
विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् /
विद्यमानस्य कारणव्यापारात् प्रागेव सत्स्वभावस्य हेतुना कारणेन किं प्रयोजनम्? कार्यस्य निष्पन्नात्मकतया निर्वर्त्यस्वभावाभावात् हेतुव्यापारस्यानुपयोगात् / द्वितीयं विकल्पमधिकृत्याह अथापीत्यादि- अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम् // bca_9.146 // अथापीति प्रकारान्तरद्योतने / अविद्यमानो ऽसौ न सत्स्वभावः / तर्हि हेतुना किं प्रयोजनम्? तदापि न हेतुना किमपि प्रयोजनमस्ति, तत्राप्यसत्स्वभावत्वात् हेतुव्यापाराभावात् //
स्यादेतत्- यदि नाम विद्यमानस्य निष्पन्नत्वात् कर्तव्याभावात् न हेतुना किमपि प्रयोजनम्, अविद्यमानस्य तु किं न भवतीत्याह नाभावस्येत्यादि-
नाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि /
न अभावस्य अविद्यमानस्वभावस्य विकारो ऽस्ति, अन्यथात्वं भावस्वभावता अस्ति, नीरूपतया तस्यापि कर्तव्याभावात् / हेतुकोटिशतैरपि, आस्तां तावद् हेतुशतैर्हेतुसहस्रैः, (bcp 273) हेतूनां कोटिशतैरपि, तस्य निःस्वभावतया केनचिदपि विकारयितुमशक्यत्वात् / मा भवतु विकारः, भावस्वभावता केवलमस्यास्तु चेदत्राह तदवस्थ इति-
तदवस्थ कथं भावः
तदवस्थो ऽपरित्यक्ताभावस्वभावः नैव भावः स्यात्, नाभाव एव भावो भवति, केवलमभावस्वभावतानिवृत्तौ भावस्वभावो भवति / अत्राह- को वान्यो भावतां गतः // bca_9.147 // यदि न प्रागभावो भावस्वभावो भवति, को वा तर्हि अभावादन्यः अपरः भावताम्, अभावस्वभावतां परित्यज्य भावरूपतां गतः? नान्यः कश्चित् प्रतीयते, कारणस्य कार्यस्वभावतायाः पूर्वमेव प्रतिषिद्धत्वात् //
स्यादेतत्- नान्यः कश्चिद्भावो भवति, किं तर्हि प्रागभावस्य भावविरोधिनः सद्भावात्तदा भावो न भवति, पश्चात् पुनस्तस्मिन्नपगते भवत्येवेत्याह-
नाभावकाले भावश्चेत्कदा भावो भविष्यति /
नाभावकाले अभावसत्तासमये न भावश्चेत्, यदि भावो न भवति, कदा भावो भविष्यति? अभावकाले भावस्यानुत्पत्तिश्चेत्, न कदाचिद्भावस्योन्मज्जनं स्यात्, अभावेन विरोधिना सदा क्रोडीकृतत्वात् / तेनैवोत्पद्यमानेन भावेन अभावस्य विनाशो भविष्यतीति चेदाह- नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति // bca_9.148 // यावदसौ भावो न जायते, तावदभावस्य विनाशो नास्त्येव / हिर्यस्मात् / तस्मात् न अजातेन अनुत्पन्नेन भावेन सो ऽभावः प्रागभावरूपः अपगमिष्यति निवर्तयिष्यते //
अथापि स्यात्- मा अपगच्छतु नाम अभावः, तस्मिन्ननपगते एव भाव उत्पद्यते / उत्पन्ने च भावे भावाभावयोः परस्परपरिहारात् पश्चादभावः स्वयमेव अपगमिष्यतीत्याह न चेत्यादि-
न चानपगते ऽभावे भावावसरसंभवः /
भवत्येव क्रमः, यदि पूर्वं भाव एव भवेत् / न चैतदस्ति / चो यस्मात् / न चैव अनपगते अनिवृत्ते अभावे भावस्यावसरः अवकाशः, तस्य संभवः / भावोत्पत्तिविरोधिनः अभावस्यैव भावात् / कारणेनैव तदभावो निवर्तयिष्यते चेत्, न / कारणस्य कार्योत्पत्तावेव व्यापारात् / कार्यमुत्पादयदेव तदभावमपि निर्वर्तयतीति चेत्, उत्पादयत्येव कार्यम्, यदि तद्विरोधिनो ऽभावादुत्पादयितुं क्षमते / न च तस्मिन्नप्रतिहतसामर्थ्ये तत्कार्यमुत्पादयितुं क्षमते / न च कारणेन तदभावस्य विरोधः, कारणकाले ऽपि तत्प्रागभावस्य भावात् सत्तावस्थानात् / तस्माद्भावात्मनि अभावात्मनि वा कार्ये न कारणस्य व्यापारो युज्यते / उभयानुभयपक्षे च प्रत्येकपक्षनिषेधादेव कारणव्यापारस्य निषेधः कृतो भवतीति द्रष्टव्यम् / नापि तयोः संभवो ऽस्ति / विरोधिनोरेकत्र एकदा विधिप्रतिषेधयोर्भावायोगात् / तदुक्तम्-
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च / न स्वतो नापि परतो न द्वाभ्यां जायते कथम् // इति / [चतुः-2.13; 3.9] एवं तावद्भावस्योत्पत्तिः परमार्थतो न कथंचिदपि संगच्छते / नापि कथंचिदुत्पन्नस्य सत्स्वभावस्य निवृत्तिर्युज्यते इत्याह भावश्चेत्यादि- भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः // bca_9.149 // पूर्वापेक्षश्चकारः / यथा अभावो भावतां नैति, तथा भावश्च अभावतां नैति, गच्छति / कुतः? द्विस्वभावप्रसङ्गतः / भावस्य सतः यदा अभावस्वभावता भवति, तदा च एकस्यैव वस्तुनः द्वयोः स्वभावयोः प्रसङ्गः स्यात्, एकस्यैव भावाभावरूपत्वात् / न च भावतां परित्यज्य अभावरूपतां यातीति वक्तुमुचितम् / तदा च भावस्यैवाभावात् को ऽभावरूपतां यातीति न विद्मः / न च सत्स्वभावस्य पारमार्थिकत्वे निवृत्तिर्युक्ता, पारमार्थिकत्वस्य अभावप्रसङ्गात् //
इत्थं भावस्योत्पादविनाशयोः परमार्थतो ऽभावं प्रसाध्य उपसंहरन्नाह एवमित्यादि-
एवं न च निरोधो ऽस्ति न च भावो ऽस्ति सर्वदा /
एवमुक्तक्रमेण उत्पादविनाशायोगात् / चो हेतौ / यस्मान्न निरोधो ऽस्ति, न विनाशो ऽस्ति, [न च भावो ऽस्ति,] न वस्तुसत्त्वमस्ति / चः समुच्चये / सर्वदा सर्वस्मिन् काले / "उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मसमता धर्मस्थितिता धर्मनियामता धर्मधातुः तथता अवितथता" / इत्यादिवचनात् / यत एवम्- अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् // bca_9.150 // अजातमनुत्पन्नम् / अनिरुद्धं च अविनष्टं परमार्थतः / तस्मादुत्पादविनाशाभावात् पूर्वोक्तात् / सर्वमशेषम् / इदं निःस्वभावतासमानाधिकरणं जगद्विश्चं सत्त्वभाजनलोकसंज्ञितं सचराचरं वा / मायोत्पादनिरोधवद् व्यवहारवशात् पुनरुत्पादनिरोधौ स्तः / एतेन संवृतिसत्यस्याप्रतिषेध उक्तः / धर्मसंगीतौ चैतदुक्तम्-
तथता तथतेति कुलपुत्र शून्यताया एतदधिवचनम् / सा च शून्यता नोत्पद्यते न निरुध्यते आह- यदि एवं सर्वधर्माः शून्या उक्ता भगवता, तत् सर्वधर्मा नोत्पत्स्यन्ते, न निरोत्स्यन्ते / निरारम्भो बोधिसत्त्वः / आह- एवमेतत् कुलपुत्र, यथाभिसंबुध्यसे / सर्वधर्मा नोत्पद्यन्ते, न निरुध्यन्ते / आह- यदेतदुक्तं भगवता संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च इत्यस्य तथागतभाषितस्य को ऽभिप्रायः? आह- उत्पादनिरोधाभिनिविष्टः कुलपुत्र लोकसंनिवेशः / तत्र तथागतो महाकारूणिको लोकस्य त्रासपदपरिहारार्थं व्यवहारवशादुक्तवान् उत्पद्यन्ते निरुध्यन्ते च / न चात्र कस्यचिद्धर्मस्य उत्पादो न निरोधः // इति //
तस्मात् सर्वधर्मा अनुत्पन्नानिरुद्धस्वभावतया आदिशान्ताः प्रकृतिपरिनिर्वृताः, इति जगतो निःस्वभावतायां तदन्तर्गतानां नरकादिगतीनामपि निःस्वभावतैवेत्युपदर्शयन्नाह स्वप्नेत्यादि-
स्वप्नोपमास्तु गतयो विचारे कदलीसमाः /
स्वप्नेन उपमा तुल्यं यासां ताः तथोक्ताः / तुरवधारणे / स्वप्नोपलब्धस्वभावगतयः नरकप्रेततिर्यङ्यनुष्यदेवानां सभागताविशेषाः / यथा स्वप्ने देशान्तरादिगमनागमनं सुखदुःखाद्यनुभवनं च, तथा अनधिगतपरमार्थतत्त्वस्य नरकादिषु वेदितव्यम्, न तु तत्त्वतः / कथम्? विचारे कदलीसमाः / हेतुपदमेतत् / सर्वधर्माणां निःस्वभावतया विचारे विमर्शे सति यस्मात् कदलीसमाः कदलीवन्निःसाराः गतयः, तस्मादित्यर्थः / एतेन यथोक्तं प्राक्[4.47]
मायैवेयमतो विमुञ्च हृदय त्रासम्
इत्यादि, तदपि प्रसाध्योपदर्शितं भवति / यतश्च अनुत्पन्नानिरुद्धाः सर्वधर्माः, अत आह निर्वृतेत्यादि- निर्वृतानिर्वृतानां न विशेषो नास्ति वस्तुतः // bca_9.151 // निर्वृताः ये सर्वावरणप्रहाणाद्विनिर्मुक्तसर्वबन्धना / अनिर्वृताः ये रागादिक्लेशपाशायत्तचित्तसंततयः संसारचारकान्तर्गताः / तेषामुभयेषामपि विशेषो भेदो नास्ति, न संभवति / कुतः? वस्तुतः परमार्थतः सर्वधर्माणां निःस्वभावतया प्रकृतिपरिनिर्वृतत्वात् / संवृत्या पुनरस्ति एव विशेषः, इत्यनेकधा प्रतिपादितम् / अत एवाह-
बुद्धानां सत्त्वधातोश्च येनाभिन्नत्वमर्थतः / आत्मनश्च परेषां च समता तेन ते मता // इति // [चतुः-3.40] इति परमार्थतत्त्वापरिज्ञानान्मिथ्याभिनिवेशादारोपितजगज्जालमुपकल्प्य आत्मनैव आत्मानमाकुलयति बालजनः इत्युपदर्शयन्नाह एवमित्यादि-
एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् / सत्कृतः परिभूतो वा केन कः संभविष्यति // bca_9.152 //
कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् / का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः // bca_9.153 //
विचारे जीवलोकः कः को नामात्र मरिष्यति / को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् // bca_9.154 //
एवं प्रतिपादितन्यायेन शून्येषु निःस्वभावेषु धर्मेषु किं लब्धम्, किं कुतश्चित् प्राप्तं यल्लाभेषु प्रहृष्यन्ति? किं हृतम्, किमपहृतं केन कस्यचित् भवेत्, यल्लाभापहारेण प्रकुप्यन्ति? (bcp 276) सत्कृतः पूजितः, परिभूतः अपकृतो वा केन कः संभविष्यति? वस्तुस्वभावाभावे न कश्चित् केनचिदित्यर्थः //
कुतः सुखहेतोरभावात् सुखं वा, कुतो दुःखं वा दुःखहेतोरभावात्? अन्योन्यसमुच्चयार्थ उभयत्र वाशब्दः / यत्प्राप्तिपरिहारार्थमायासः क्रियते / किं प्रियं वा किं वल्लभं वा? प्रियरूपतायाः कल्पितत्वात् / किमप्रियं किमनभिलषणीयम्? अप्रियमपि न परमार्थतः किंचित् विद्यते, इति किमर्थं प्रियाप्रियसंयोगवियोगार्थं प्रयत्नः क्रियते? का तृष्णा यया लाभाद्यर्थं तृष्यति जनः? कुत्र सा तृष्णा, क्व पुनरासङ्गस्थाने वस्तुनि तृष्णा? मृग्यमाणा स्वभावतः, अन्विष्यमाणा स्वरूपतः / तद्विषयस्याभावात् निर्विषयतया तस्या अप्यभावः, यद्वशात् तत्तत् कर्म समुच्चीयते //
विचारे परमार्थस्वरूपनिरूपणे सति जीवलोकः सत्त्वलोकः कः? नैव कश्चित् / तदभावात् को नामात्र मरिष्यति? जीवलोकस्य विचारेण असत्स्वभावत्वात् को नामात्र जीवलोके मरिष्यति, उपरतजीवितेन्द्रियो भविष्यति? को भविष्यति, क उत्पत्स्यते? को भूतः पूर्वमुत्पन्नः? इत्यतीतादिव्यवहारः काल्पनिक एव / को बन्धुः, कः स्वजनः? कस्य कः सुहृत्, किं मित्रं कस्य? अत्रेति सर्वत्र योजनीयम् / यदभिष्वङ्गेण अकुशलमपि न गण्यते?
एवं स्वभावशून्यत्वात् कल्पनासमारोपितमेव तत्त्वमित्याह सर्वमित्यादि-
सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः / प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः // bca_9.155 //
सर्वमेतदुक्तम्, अन्यच्च / आकाशसंकाशं समारोपिततत्त्वशून्यत्वादाकाशकल्पम् / परिगृह्णन्तु अविद्यमानमेव तु स्वरूपमारोप्य मद्विधा इति ग्रन्थकारः आत्मानमेव निदर्शनं करोति / मादृशाः अपरिज्ञातपरमार्थतत्त्वा बालजनाः असद्वितर्काकुलितचेतसः प्रकुप्यन्ति, मिथ्याभिनिवेशात् कोपं यान्ति / प्रहृष्यन्ति अलीकलाभयोगात् प्रमुदिता भवन्ति / कैः? कलहोत्सवहेतुभिः कलहहेतुभिः विवादहेतुभिः, उत्सवहेतुभिरानन्दहेतुभिः यथायोगम् / तस्मादनधिगतपरमार्थतत्त्वाः सांवृतमेव वस्तुरूपं सत्यतयाभिनिविष्टाः सर्वमेतन्मन्यन्ते, न तु परमार्थवेदिनः इति / तदुक्तम्-
एतावच्चैव ज्ञेयं यदुत संवृतिः परमार्थश्च / तच्च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतम् / तेन सर्वज्ञ इत्युच्यते / तत्र संवृतिर्लोकप्रचारतस्तथागतेन दृष्टा / यः पुनः परमार्थः, सो ऽनभिलाप्यः अनाज्ञेयो ऽविज्ञेयः अदेशितः अप्रकाशितः, यावत् अक्रियः अकरणः, यावत् न लाभो नालाभो न दुःखं न सुखं न यशो नायशः न रूपं नारूपमित्यादि /
तत्र जिनेन जनस्य कृतेन संवृति देशित लोकहिताय / येन जगत्सुगतस्य सकाशे संजनयीह प्रसादसुखाय //
संवृति प्रज्ञपयी नरसिंहः षङ्गतयो भणि सत्त्वगणानाम् / नरकगतीश्च तथैव च प्रेतान् आसुरकाय नरांश्च मरूंश्च //
नीचकुलां तथ उच्चकुलांश्च आढ्यकुलांश्च दरिद्रकुलांश्च //
इत्यादि //
इदमपि तत्त्वानधिगमस्य फलमित्याह शोकायासैरित्यादि-
शोकायासैर्विषादैश्च मिथश्च्छेदनभेदनैः / यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः // bca_9.156 //
पुत्रकलत्रादिविप्रयोगकृताः शोकाः / सुखदुःखप्राप्तिपरिहारनिमित्तपरिश्रमा आयासाः / तैः शोकायासैर्मद्विधाः यापयन्ति सुकृच्छ्रेणेति संबन्धः / विषादैश्च लाभसत्कारादिविषादैर्दौर्मनस्यैः / मिथश्छेदनभेदनैः, मिथः परस्परं छेदनानि करचरणशिरोनासिकाकर्णप्रभृतीनाम्, भेदनानि बाहुजङ्घोरुवक्षःपार्श्वोदरादीनाम् / चकारो ऽनुवर्तते / तैश्छेदनभेदनैश्च यापयन्ति, कालक्रमेण आयुःसंस्कारान् क्षयपन्ति / सुकृच्छ्रेण महता कष्टेन कथंचिल्लब्धाशनपानवसनाः / किंभूताः सन्तः? पापैरात्मसुखेच्छवः, पापैरकुशलैः कर्मभिः, आत्मनः स्वस्य सुखेच्छवः सुखाभिलषणशीलाः //
तथाविधैश्च समाचारविशेषैश्च-
मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च /
मृताः जीवितेन्द्रियविमुक्ताः / पतन्ति गच्छन्ति अपायेषु नरकप्रेततिर्यक्षु / किंभूतेषु? दीर्घतीव्रव्यथेषु च, दीर्घा चिरकालभाविनी, तीव्रा अतिदुःसहवेदनीयविपाकत्वात्, व्यथा येष्वपायेषु ते तथोक्ताः, तेषु च / चकार उक्तसमुच्चये भिन्नक्रमे वा / केन प्रकारेणेत्याह आगत्यागत्येत्यादि- आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः // bca_9.157 // सुखसंवर्धिता भूत्वा भूत्वा / कथम्? आगत्यागत्य सुगतिम्, शोभनां देवमनुष्यगतिं प्राप्य प्राप्य //
पुनरपि तथाभूतानां दुःखपंरपरासागरनिमज्जनोन्मज्जनमादर्शयन्नाह भव इत्यादि-
भवे बहुप्रपातश्च तत्र चात्तत्त्वमीदृशम् / तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् // bca_9.158 //
भवे संसारे कामरूपारूप्यस्वभावे बहुप्रपातश्च बहुतर उपघातश्च / तत्र चासत्त्वमीदृशम्, तत्र च भवे प्रपाते वा अतत्त्वमीदृशं व्यामोहविजृम्भितमेतादृशं सर्वजनसाधारणं यथाविधं प्रतिपादितं परिदृश्यमानं वा / तत्रान्योन्यविरोधश्च, तत्र एवंविधे अतत्त्वे सति (bcp 278) अन्योन्यविरोधः परस्परविप्रतिपत्तिः / केन कारणेन न भवेत्तत्वमीदृशमिति / तस्माद्वस्तुरूपमेतादृशमनेकाकारसमारोपात् //
तत्र चानुपमास्तीव्रा अनन्ता दुःखसागराः /
तत्र च एवमपि / अनुपमाः तदपरसदृशदुःखाभावादुपमातुमशक्याः / तीव्रा अत्युग्रवेदनाः / अनन्ता अनवधिकालविपाकतया अपर्यन्ता वा दुःखानामतिविपुलतया महायानमनधिगम्य निस्तरीतुमशक्यत्वात्, सागराः / तथापि कथंचित् महता वीर्येण कुशलपक्षोपचयात् भूयसा कालेन सुगतिं प्राप्य क्षपयितुं शक्यन्ते इत्यत आह तत्रैवमित्यादि- तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः // bca_9.159 // तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः / निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा // bca_9.160 //
वृथैवायुर्वहत्याशु विवेकस्तत्र दुर्लभः /
तत्र तथारूपे समावेशे एवं परिदृश्यमानरूपा अल्पबलता / हीनवीर्यतेति यावत् / तत्राप्यल्पत्वमायुषः / तत्रापि एवंभूते सत्यपि / अल्पत्वं स्तोकत्वम्, आयुषः आयुःसंस्काराणाम् / तत्रापि जीवितारोग्यव्यापारैः स्नानाभ्यञ्जनप्रभृतिभिः / आरोग्यस्य आरोग्याय वारोगोपशमाय व्यापारैः विशेषेण कटुतिक्तभैषज्यकषायपानादिभिः / कुशलोपार्जनमन्तरेण वृथा चैव आयुर्वहत्याशु इति वक्ष्यमाणेन संबन्धः / तथा क्षुत्क्लमश्रमैः, क्षुत् बुभुक्षा, क्लमो ग्लानिः, श्रमो मार्गखेदादि, तैः / निद्रया उपद्रवैः, निद्रया स्वप्नेन, उपद्रवैर्हास्योत्प्रासविहेठनादिकृतैः सरीसृपव्यालमृगदंशमशकादिकृतैः बधबन्धनताडनादिलक्षणैः / तथा बालसंसर्गैर्निष्फलैः, तथा बालानां पृथग्जनानां संसर्गैः संपर्कैः / किंभूतैः? निष्फलैः आत्मोत्कर्षादिसंभिन्नप्रलापादिबहुलैः / तथेति न केवलं पूर्वोक्तक्रमेण, इत्थमपि वृथैवायुर्वहत्याशु, वृथैव निष्फलमेव कुशलपक्षोपचयरहितत्वात् आयुर्वहति याति आशु शीघ्रम्, असद्वयापारप्रसङ्गात् त्वारितमेव परिक्षयात् / एवमपि वर्तमानानां विवेकस्तु सुदुर्लभः, विवेकस्तु हेयोपादेयज्ञानं व्यासङ्गपरित्यागो वा, सुदुर्लभः, कथमपि अतिकृच्छ्रेणापि न लभ्यते / भवतु नाम एवम्, तथापि यदि कथंचित् समाधानं जायते, तदा कल्याणं स्यात्, तदपि नास्तीत्याह तत्रापीत्यादि- तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः // bca_9.161 // तत्रापि मारो यतते महापायप्रपातने /
तत्रापि एवमवस्थां गते ऽपि अभ्यस्तविक्षेपः परिशीलितमौद्धत्यं तस्य निवारणं निवर्तनं तस्य गतिरनुप्रवेशः कुतः? नैवास्ति / तत्रापि एवमनर्थपरंपरायां स्थितानां कथंचित् कुशलपक्षं समीक्ष्य मारो यतते महापायप्रपातने, क्लेशमारो देवपुत्रमारो वा यतते उद्यच्छते (bcp 279) महापायप्रपातने प्रपातननिमित्तम् / अवीच्यादिनरकप्रक्षेपणार्थमिति यावत् / एवमपि कदाचित् सत्यरत्नादिषु अभिसंप्रत्ययवशात् कथंचित् कल्याणमुपजायते इत्याह तत्रासन्मार्गेत्यादि- तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया // bca_9.162 // पुनश्च क्षणदौर्लभ्यं बुद्धोत्पादो ऽतिदुर्लभः / क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरंपरा // bca_9.163 //
तत्र एवं दशां प्राप्नोति- सम्यग्दृष्टिविपक्षस्य असन्मार्गस्य चार्वाकमीमांसकादिपरिदीपितस्य बाहुल्यात् भूयस्त्वात् विचिकित्सा सन्मार्गे विमतिश्च दुर्जया, कथंचिदपि विचिकित्सा त्यक्तुं न शक्या / कथंचित् सुगतिप्रतिलम्भे ऽपि पुनश्च क्षणदौर्लभ्यम्, अष्टाक्षणविनिर्मुक्तस्य क्षणस्य दौर्लभ्यं परमदुर्लभत्वम्
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् / [4.20]
कथंचिदितरक्षणसंभवे ऽपि बुद्धोत्पादो ऽतिदुर्लभः, बुद्धानां [भगवतां]समस्तजगदालोककारिणां सर्वदुःखनिदानभूतक्लेशशल्यापहारिणामुत्पादः प्रादुर्भावः अतिदुर्लभः / कथंचित् कर्हिचित् उदुम्बरपुष्पप्रायः संसारसागरोत्तरणोपायभूतः / कथंचित् बुद्धोत्पादसंभवे ऽपि क्लेशौघः [जातिजरामरणा] दीनामोघः अविच्छिन्नः प्रवाहः / स दुर्निवारः, दुःखेनापि निवारयितुमशक्यः / इत्यहो दुःखपरंपरा / इत्येवम् / अहो इति खेदे / दुःखस्य कष्टस्य परंपरा, एकस्माद्दुःखाद्विनिर्गमे ऽपि अपरस्मिन् दुःखे प्रपतनात् //
सांप्रतमेवं सत्त्वान् सुदुःखितान् समीक्ष्य करुणाम्रेडितहृदयः परदुःखदुःखी शास्त्रकारः सत्त्वानां दुःखं शोचयन्नाह अहो बतेति-
अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् /
निपातसमुदायः खेदे / अतिशोच्यत्वमतिशयेन शोचनीयत्वम् / एषां हिताहितपरिज्ञानविकलानां सत्त्वानां दुःखसागरकल्लोलपरंपरानिमज्जनोन्मजन्नाकुलचेतसाम् / के पुनरमी सत्त्वाः शोचनीया इत्याह ये इत्यादि- ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः // bca_9.164 // ये सत्त्वा अविद्यान्धीकृतज्ञानलोचनाः नेक्षन्ते न पश्यन्ति स्वदौःस्थित्यं स्वस्य आत्मनो दुःखावस्थितत्वम् / एवमप्यतिदुःस्थिताः एवमुक्तक्रमेण अतिदुःस्थिता अतिशयेन दुःखावस्थिताः / दुःखपर्यापन्ना इति यावत् //
एतदनुरूपदृष्टान्तेन स्पष्टयन्नाह स्नात्वेत्यादि-
स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः / स्वसौस्थित्यं च मन्यन्ते एवमप्यतिदुःस्थिताः // bca_9.165 //
स्नात्वा स्नात्वा जलावगाहनं कृत्वा कृत्वा यथा कश्चिदुपहतबुद्धिः शीतार्तः सुखाभिलाषी / विशेत् प्रविशेत् / बह्निमग्निम् / मुहुर्मुहुः प्रतिक्षणं पुनः पुनर्वा / तथा एते ऽपि (bcp 280) सत्त्वाः स्वसौस्थित्यम् / आत्मसुखसंपत्तिं च मन्यन्ते अवबुध्यन्ते / एवमप्यतिदुःस्थिताः एवमनेन प्रतिपादितक्रमेण अतिदुःस्थिताः दुःखाग्निज्वालाकवलीकृताः //
अहो बत अतिबहुलतराज्ञानान्धकाराक्रमणममीषां यदात्मगतमपि प्रमादं न पश्यन्तीत्याह अजरेत्यादि-
अजरामरलीलानामेवं विहरतां सताम् / आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः // bca_9.166 //
न विद्यते जरा जीर्णता येषां ते अजराः / न म्रियन्ते ये ते अमराः / तेषामजराणाममराणामिव लीला विचेष्टितं येषां ते तथोक्ताः / तेषामेवमनया लीलया विहरतां निश्चितं विचरतां सताम् / आयास्यन्ति ढौकिष्यन्ते आपदो निरन्तरम् / सर्वे ते दुःखहेतवः जराव्याधिविपत्तयः / घोरा अतीव भयंकराः / कथमायास्यन्ति? कृत्वा मरणमग्रतः, मरणमप्रतीकारपरिहारं मृत्युमग्रतः पुरतः कृत्वा / एतच्चोक्तं राजाववादकसूत्रे-
तद्यथा महाराज चतसृभ्यो दिग्भ्यश्चत्वारः पर्वता आगच्छेयुः, दृढाः, सारवन्तः, अखण्डाः, अच्छिद्राः असुषिराः, सुसंवृत्ताः एकघनाः नभः स्पृशन्तः, पृथिवीं चोल्लिखन्तः, सर्वं तृणकाष्ठशाखापर्णपलाशादिसर्वसत्त्वप्राणभूतान् निर्मथ्नन्तः / तेभ्यो न सुकरं जवेन वा पलायितुम्, बलेन वा द्रव्यमन्त्रौषधैर्वा निवर्तयितुम् / एवमेव महाराज चत्वारीमानि महाभयानि आगच्छन्ति, येषां न सुकरं जवेन वा पलायितुम्, बलेन वा द्रव्यमन्त्रौषधैर्वा निवर्तनं कर्तुम् / कतमानि चत्वारि? जरा व्याधिर्मरणं विपत्तिश्च / जरा महाराज आगच्छति यौवनं प्रमथमाना / व्याधिर्महाराज आगच्छति आरोग्यं प्रमथ्नन् / मरणं महाराज आगच्छति जीवितं प्रमथमानम् / विपत्तिर्महाराज आगच्छति सर्वाः संपत्तीः प्रमथ्नन्ती / तत् कस्माद्धेतोः? तद्यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणमनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति / स च मृगराजो ऽतिबलं व्यालमुखमासाद्य विवशो भवति / एवमेव महाराज विद्धस्य मृत्युशल्येन अपगतमदस्य अत्राणस्य अप्रतिशरणस्य अपरायणस्य मर्मसु च्छिद्यमानेषु मांसशोणिते परिशुष्यमाणे परितुषितविह्वलवदनस्य करचरणविक्षेपाभियुक्तस्य अकर्मण्यस्य असमर्थस्य लालासिंघाणकपूयमूत्रपुरीषोपलिप्तस्य ईषज्जीवितावशेषस्य कर्मभवात् पुनर्भवमालम्बमानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरमाश्वासप्रश्वासेषूपरुध्यमानेषु एकाकिनो ऽद्वितीयस्य असहायस्य इमं लोकं जहतः परलोकमाक्रमतः महापथं व्रजतः महाकान्तारं प्रविशतः महागहनं
समवगाहमानस्य महाकान्तारं प्रपद्यमानस्य महार्णवेनोह्यमानस्य कर्मवायुना नीयमानस्य निमित्तीकृतां दिशं व्रजतो नान्यत् त्राणं नान्यत् शरणं नान्यत् परायणमृते धर्मात् / धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं भवति / तद्यथा- शीतार्तस्याग्निप्रतापः, अग्निमध्यगतस्यापि निर्वापणम्, उष्णार्तस्य वा शैत्यम्, अध्वानं (bcp 281) प्रतिपन्नस्य सुशीतलच्छायोपवनम्, पिपासितस्य सुशीतलं सलिलम्, बुभुक्षितस्य वा प्रणीतमन्नम्, व्याधितस्य वा वैद्यौषधपरिचारकाः, भयभीतस्य बलवन्तः, सहायाः साधवः प्रतिशरणा भवन्ति //
इति विस्तरः //
तस्मादेतद्भयपरिहारार्थं कुशलपक्षेष्वेव प्रज्ञापरिशोधितेषु यत्नः करणीयः //
इदानीं जात्यादिदुःखदुःखिनां दुःखापहरणाय स्वाशयमाशङ्कयन्नाह एवमित्यादि-
एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा / पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः // bca_9.167 //
एवमनन्तरोक्तया नीत्या दुःखाग्नितप्तानाम्, दुःखान्येव अग्नयः तै संतापितानां सत्त्वानां शान्तिं जात्यादिदुःखानलतापप्रशमनम् / कुर्यामहं कदा, कस्मिन् काले कुर्यां विदध्याम् / कथम्? सुखोपकरणैः / सुखस्योपकरणानि सुखसाधनानि वस्त्राभरणानुलेपनशयनासनप्रभृतीनि / किं तदुपार्जितैरेव? नेत्याह- स्वकैः स्वात्मीयैः / मया स्वयमुपार्जितैरित्यर्थः / किं निर्माणादिप्रदर्शितैः? नेत्याह- पुण्यमेघसमुद्भूतैः, पुण्यान्येव मेघाः सर्वदुःखसंतापार्तिशमनसुखोपकरणशीतलवृष्टिप्रदाननिमित्तत्वात् / तेभ्यः समुद्भूतानि निर्जातानि, तैः //
एवमभ्युदयसंपदि परेषां चेतो विधाय निःश्रेयससंपदि प्रदर्शयन्नाह कदेत्यादि-
कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् / संवृत्यानुपलम्भेन पुण्यसंभारमादरात् // bca_9.168 //
कदा कस्मिन् काले उपलम्भदृष्टिभ्यो भावग्राहाभिनिविष्टेभ्यो देशयिष्यामि प्रकाशयिष्यामि / शून्यतां सर्वधर्मनिःस्वभावताम् / कथम्? संवृत्या व्यवहारेण / अन्यथा विकल्पाविषयतया परमार्थशून्यस्य शून्यताया देशयितुमशक्यत्वात् / एवं निःश्रेयसहेतुज्ञानसंभारनिमित्तमुपदर्शितम् / तत्कारणं पुण्यसंभारनिदानमुपदर्शयन्नाह- पुण्येत्यादि / पुण्यस्य ज्ञानादेः संभारं कदा उपलम्भदृष्टिभ्यो देशयिष्यामीति संबन्धः / आदरादिति महता गौरवेण / सत्कृत्य न यदृच्छया / केन प्रकारेण? अनुपलम्भेन, देयदायकप्रतिग्राहकादित्रितयानुपलम्भयोगेन / त्रिकोटिपरिशुद्ध्येति यावत् / एवमुपचितः पुण्यसंभारो बुद्धताधिगमाय जायते / तदेवमनेन सर्वेण अशेषसंक्लेशहेतुसर्वसमारोपविकल्पप्रतिपक्षतया सर्वावरणप्रहाणोपायत्वात् समस्ततथागताधिगमहेतुत्वाच्च सर्वदुःखोपशमोपायप्रज्ञा उपजायते इत्युपदर्शितं भवतीति //
ये गम्भीरनयावगाहनपटुप्रज्ञानिरस्तभ्रमाः संक्लेशव्यवदानपक्षविमलज्ञानोच्छ्रिताः सूरयः / ते सन्तो गुणदोषयोरपि च तैः सारं विमिश्रादतो ग्राह्यं सर्वमकल्मषं विषमिव त्याज्यं दुरुक्तं यदि //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
