Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/10

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिचर्यावतारपञ्जिका

Tác giả
प्रज्ञाकरमति
Thông tin
GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् /

न असद्रूपस्य कश्चिदाश्रयो भवितुमर्हति, आश्रयाश्रयिभावस्य कार्यकारणरूपत्वात् / न च अभावः कस्यचित् कार्यम्, अनिर्वर्त्यविशेषत्वात् / भवतु नाम, तथापि वस्त्वाश्रयेण वस्तुसद्भूतचित्तसमाश्रयेण अभावस्य असदात्मकस्य क्रियावत्त्वम्, अर्थक्रियाकारित्वं कथं भवेत्? न कदाचिदपि युज्यते इत्यर्थः / अन्यथा तस्य भावस्वभावता स्यात् / शक्तिर्हि भावलक्षणम् / सर्वशक्तिविरहो ऽभावलक्षणमिति वचनात् / किमिदानीमिति विचार्यमाणमुपस्थितं भवत इत्याह असत्सहायमित्यादि- असत्सहायमेकं हि चित्तमापद्यते तव // bca_9.29 // असन्नेवः अभावः सहायो ऽस्येति असत्सहायम् / हिरवधारणे / एकमद्वितीयमेव चित्तमापद्यते तव चित्तैकपरमार्थवादिनः //

ननु उक्तमेव- ग्राह्यग्राहकाद्याकारविनिर्मुक्तमद्वयलक्षणं चित्तम्, इति चित्तैकताप्रतिपादने न किंचिदनिष्टमस्माकम् / तदयुक्तम् / संक्लेशस्यापि प्रहेयतया वस्तुत्वमुक्तम् / तत् कथं चित्तमेवैकं वस्तु? अस्तु नाम, तथापि न बाधकान्मुक्तिरित्याह ग्राह्यमुक्तमित्यादि-

ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः /

ग्राह्यमित्युपलक्षणम् / ग्राहकादिमुक्तमपि वेदितव्यम् / अथवा ग्राह्याधीनं ग्राहकत्वमिति तदभावाद् ग्राहकाभावः / ग्राहकाभावे च तदुपकल्पितस्य अभिलाप्यस्याभावात् अभिलापस्याभाव इत्युपदर्शयितुं ग्राह्यमुक्तमित्युक्तम् / ग्राह्याद्याकारविविक्तमद्वयस्वभावं यदा सर्वस्य जगतश्चित्तम्, तदा तस्य चित्तस्य सर्वसत्त्वसंतानान्तर्गतत्वात् सर्वसंसारिणः सत्त्वाः (bcp 196) तथागता बुद्धा भगवन्तः प्राप्नुवन्ति / न कश्चित् पृथग्जनः स्यात् / ततश्च संक्लेशप्रहाणार्यमार्गभावनावैयर्थ्यप्रसङ्गः / न चैवम् / तस्मात् सत्यपि ग्राह्यग्राहकवैधुर्ये भावाभिनिवेशस्य तदवस्थत्वान्न सर्वथा संक्लेशप्रहाणमित्यभिसंधायाह एवं चेत्यादि- एवं च को गुणो लब्धश्चित्तमात्रे ऽपि कल्पिते // bca_9.30 // एवं चेति निपातसमुदायः एवं सतीत्यस्मिन्नर्थे / अप्यर्थे चकारः / एवमपि स्वीकृते को गुणो लब्धः? नैव कश्चित् / चित्तमात्रे ऽपि विज्ञप्तिमात्रतायामपि कल्पितायां कल्पनया समारोपिते, अद्वयतत्त्वपरिज्ञानान्वये ऽपि सर्वसत्त्वसंताने रागादीनां पर्यवस्थानात् //

ननु एतत्समानं निःस्वभाववादिनो भवतो ऽपीति समानदूषणतामापादयन्नाह मायोपमत्वे ऽपीत्यादि-

मायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते / मायोपमत्वे मायास्वभावत्वे ऽपि जगतो ज्ञाते कथं क्लेशो निवर्तते, कथं रागादिगणः प्रहीयते इति पृच्छति / किमत्र प्रहाणानुपपत्तिकारणं यत् पृच्छसीत्याह यदा मायेत्यादि- यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते // bca_9.31 // इदमत्र प्रहाणानुपपत्तिबीजं दृश्यते- यदा मायास्त्रियां मायाकारविनिर्मितायामबलायां रागः संरक्तचित्तता जायते उत्पद्यते / कस्य जायते? तत्कर्तुरपि / न केवलं यद्वयामोहनाय सा विनिर्मिता, तेषामेव जायते, किं तु तस्या मायास्त्रियाः कर्तुः निर्मातुरपि जायते इति अपिशब्दार्थः / यदा हि परचित्तविभ्रमसंपादनार्थं मन्त्रौषधिसामर्थ्यविनिर्मितां सर्वाङ्गप्रत्यङ्गावयवलक्षणपरिपूर्णामभिनवयौवनशोभासंपत्समापन्नां प्रसन्नमनोहरवर्णां लावण्यातिशयशालिनीम् अतीव तदाकारनिर्माणप्रवीणः कश्चिन्मायाकारो जनपदकल्याणीं स्त्रियमुपदर्शयति, तदा न तावत् तदन्ये तामभिसमीक्ष्य मन्मथशरप्रहारान्तरव्यथितचेतसो जायन्ते, अपि तु यो ऽपि स तस्याः कमनीयकान्तिसंपदः कामकलाकौशलोत्कण्ठितमूर्तेरभिनिर्माता, मया स्वयमेव चैषा विरचितेति तत्स्वभावविचक्षणः, सो ऽपि कामकलया परमदशामासादयन् न कथंचिदपि चेतः संधारयितुमलम्, तत् कथं मायोपमत्वे ऽपि निश्चिते संसारसंततिच्छेदः स्यात्?

एतत् परिजिहीर्षन्नाह अप्रहीणा हि तदित्यादि-

अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना / तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना // bca_9.32 //

हिर्यस्मादर्थे / नैतद्दूषणमस्माकमासज्जते / यस्मादप्रहीणा अनिवृत्ता / तत्कर्तुः मायास्त्रीनिर्मातुः / किमप्रहीणा? ज्ञेयसंक्लेशवासना ज्ञेयसंक्लेशः सस्वभावतासमारोपादासङ्गादिः, वस्तुतासमारोपो वा / ज्ञेयावरणं यावत् / तस्य वासना अनादिसंसारजन्मपरंपराभ्यस्तमिथ्याविकल्पजनिततद्वीजभूतचित्तसंततिसंस्काराधानम्, तस्या अप्रहीणत्वात् / ननु एतत् (bcp 197) समानं विज्ञानवादिनो ऽपि प्रतिविधानम् / तस्यापि अद्वयतत्त्वस्य सत्त्वे ऽपि आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् न सर्वे तथागता भवन्ति / नैतत् समानम् / यस्मादभावात्मानो मलाः कार्यकलाविकला नावरणं भवितुमर्हन्ति, इत्युक्तमेव / अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम् / सा यस्मादप्रहीणा, अतो ऽस्मात् कारणात् / तद्दृष्टिकाले, तस्या ज्ञेयसस्वभावताया दृष्टिः उपलब्धिः, तस्याः काले / तस्या वा मायास्त्रिया दृष्टिकाले उपलम्भकाले / तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः / दुर्बला शून्यवासनेति शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः / छन्दोनुरोधाद् भावप्रत्ययस्य लोपं कृत्वा शून्येति निर्देशः / वासना संस्काराधानम्, स दुर्बला सामर्थ्यविकला, आरोपितस्य दर्शनात् / अतस्तदा भाववासना बलवती //

कथं तर्हि सा निवर्तते इत्याह शून्यतेत्यादि-

शून्यतावासनाधानाद्धीयते भाववासना /

शून्यताया मायास्वभावनिःस्वभावताया वासना तस्य आधानम् आवेधः / अभ्यासेन दृढीकरणमिति यावत् / तस्माद्विरूद्धप्रत्ययात् हीयते निवर्तते / वह्निसंनिधानाच्छीतस्पर्शवत् / किम्? भाववासना अनवराग्रसंसाराभ्यस्तवस्तुसद्राहाध्यवसानवासना / तस्या भूतार्थत्वात्, वस्तुनिजस्वभावत्वाच्च / इतरस्या अलीकत्वात् आगन्तुकत्वाच्च / ननु भावाभिनिवेशो वा शून्यताभिनिवेशो वा इति नाभिनिवेशं प्रति कश्चिद्विशेषः, तस्यापि कल्पनास्वभावानतिक्रमात् / यदाह-

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं बुधैः / येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे // इति / [म. शा.-13.8] एतत् परिहर्तुमाह किंचिन्नास्तीत्यादि- किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते // bca_9.33 // किंचिदिति भावो वा शून्यता वा / नास्ति न विद्यते / चशब्दः पूर्वापेक्षया समुच्चये / इत्येवं चाभ्यासात् भाववासनाप्रहाणस्य पश्चात् सापि शून्यवासनापि प्रहीयते निवर्तते / अयमभिप्रायः- शून्यतावेधो हि भावाभिनिवेशस्य प्रतिपक्षत्वात् प्रहाणोपायभूतः / अधिगते च उपेये पश्चात् कोलोपमत्वात् उपायस्यापि प्रहाणमनुष्ठीयते / एतदेवाह-

सर्वसंकल्पहानाय शून्यतामृतदेशना / यश्च (यस्य) तस्यामपि ग्राहस्त्वयासाववसादितः // इति // [चतुः-2.21] स्यादेतत्- यदि नाम किंचिन्नास्तीति मनसिकाराभ्यासाद् भवति शून्यतावासनायाः प्रहाणम्, तथापि तदभ्यासात् पुनरभावकल्पना प्रवर्तमाना निवर्तयितुमशक्या / ततश्च गण्डप्रवेशे ऽक्षितारानिर्गमो जात इति तदवस्थं तव दौष्ठयम्, इत्यत्राह यदा न लभ्यते इत्यादि-

यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते / तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः // bca_9.34 //

इयमपि [अभावकल्पना] विचारेण नावतिष्ठते इति / यो भावो नास्तीति प्रकल्प्यते, यस्य भावस्य प्रतिषेधः क्रियते, स यदि विचार्यमाणो निःस्वभावतया न लभ्यते न प्राप्यते तैमिरिकोपलब्धकेशस्तबकवत् / तदा निराश्रय इति / यस्यासौ परिकल्पितो भावः, तस्य संबन्धिनो ऽभावात् निरालम्बः अभावः कल्पनाविदर्शितमूर्तिः कथं तिष्ठेन्मतेः पुरः, कथमसौ विचारेण बुद्धेरग्रतः प्रतिभासते? स्वयमेव भावनिःस्वभावतायां निवर्तते //

अथवा अन्यथावतार्यते- भवतु नाम शून्यताबलाधानाद् भाववासनाविनिवृत्तिः / तत्प्रतिषेधाभावादभावाभिनिवेशस्तु केन वार्यते इत्यत आह- यदा न लभ्यते इत्यादि / अन्यत् सर्वं पूर्ववत् //

अयमत्र समुदायार्थः- सर्वधर्मशून्यता हि भावाभिनिवेशप्रहाणाय उपादीयते / सापि शून्यता शून्यताभिमुखीकरणात् पश्चात् प्रहीयते / यापि च कथंचिद् भावकल्पना जायते, सापि समनन्तरविचारेण निवर्तते / अत एव एतत्समस्तकल्पनाजालविनिवर्तनाय भगवत्यां प्रज्ञापारमितायां विस्तरेण अध्यात्मशून्यतादयो ऽष्टादश शून्यताः प्रोक्ताः / न च शून्यता भावाद् व्यतिरिक्ता, भावस्यैव तत्स्वभावत्वात् / अन्यथा शून्यताया भावाद् व्यतिरेके धर्माणां निःस्वभावता न स्यात् / निःस्वभावता तत्स्वभाव इति प्रसाधितं प्राक् / एतदपि प्रज्ञापारमितायामुक्तम्-

पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरेवं प्रत्यवेक्षते- न रूपशून्यतया रूपं शून्यम्, रूपमेव शून्यम्, शून्यतैव रूपम् / न वेदनाशून्यतया वेदना शून्या, वेदनैव शून्या, शून्यतैव वेदना / न संज्ञाशून्यतया संज्ञा शून्या, संज्ञैव शून्या, शून्यतैव संज्ञा / न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्याः, शून्यतैव संस्काराः / न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानमेव शून्यम्, शून्यतैव विज्ञानम् // इति विस्तरः / उक्तं च-

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता / भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः // इति / [चतुः-2.20] इति न शून्यता धर्माद् व्यतिरिक्ता / तस्माच्छून्यतायामपि नाभिनिवेशः कर्तव्यः इति //

एवं सर्वविकल्पप्रत्यस्तमयात् समस्तावरणनिर्मुक्तिरुपजायते इत्युपदर्शयन्नाह यदा न भाव इत्यादि-

यदा न भावो नाभावो मतेः संतिष्ठते पुरः / तदान्यगत्यभावेन निरालम्बा प्रशाम्यति // bca_9.35 //

यदा न भावः परमार्थसत्स्वभावो मतेर्बुद्धेः संतिष्ठते पुरो ऽग्रतः, न अभावः, नापि भावविरहितलक्षणो ऽभावः यदा मतेः संतिष्ठते पुरः, तदा अन्यगत्यभावेन विधिप्रतिषेधाभ्यां गत्यन्तराभावात्, उभयानुभयपक्षयोरेतद्दूयविधिप्रतिषेधात्मकत्वात्, आभ्यामव्यतिरिक्ततया अनयोः संग्रहे तावपि संगृहीताविति निराश्रया, सदसतोरालम्बनयोरयोगात् बुद्धिः प्रशाम्यति उपशाम्यति / सर्वविकल्पोपशमान्निरिन्धनवह्निवत् निर्वृतिमुपयातीत्यर्थः //

कथं तर्हि सकलकल्पनाविरहादनेककल्पासंख्येयाभिलषितं परार्थसंपदुपायभूतं बुद्धत्वमधिगम्य परार्थमभिसंपादयति भगवानित्यत्राह चिन्तामणिरिति-

चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः / विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते // bca_9.36 //

चिन्तामणिरिति चिन्तितफलदाता रत्नविशेषः / कल्पतरुरिति कल्पितफलदाता वृक्षविशेषः / स यथा विकल्पमन्तरेणापि लोकानां यथाभव्यमिच्छायाः परिपूरणः अभिलाषस्य संपादकः / जिनबिम्बं तथेक्ष्यते इति संबन्धः / चतुर्मारजयाज्जिनो भगवान्, पापकधर्मजयाद्वा / जिनस्य बुद्धस्य भगवतः बिम्बं द्वात्रिंशता महापुरुषलक्षणैर्विराजितं शरीरम् / तथा तेन प्रकारेण ईक्ष्यते सर्वकल्पनाभावे ऽपि परहितसुखसंपादनसमर्थं प्रतीयते / कथं पुनरेतदिष्टमात्रेण भविष्यतीत्याह- विनेयप्रणिधानाभ्यामिति / विनेयवशात् ये बुद्धस्य भगवतो विनेयाः, तदुपाधिफलविशेषप्रतिलम्भहेतुकुशलकर्मपरिपाकात्, तद्वशात् / प्रणिधानवशाच्च, यत्पूर्वं बोधिसत्त्वावस्थायामनेकप्रकारं भगवता सत्त्वार्थसंपादनं प्रणिहितं तस्याक्षेपवशात्, कुलालचक्रभ्रमणाक्षेपन्यायेन अनाभोगेन प्रवर्तनात् सर्वसत्त्वहितसुखसंपादनमुपपद्यते / यदुक्तम्-

यस्यां रात्रौ तथागतो ऽभिसंबुद्धो यस्यां च परिनिर्वृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतम् / तत् कस्य हेतोः? नित्यं समाहितो भगवान् / ये च अक्षरस्वररुतवैनेयाः सत्त्वाः, ते तथागतमुखादूर्णाकोशादुष्णीषात् ध्वनिं निश्चरन्तं शृण्वन्तीत्यादि /

उक्तं च-

तस्मिन् ध्यानसमापन्ने चिन्तारत्नवदास्थिते / निश्चरन्ति यथाकामं कुड्यादिभ्यो ऽपि देशनाः //

ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः / हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते // इति / [तत्त्वसंग्रह 3241-42] चतुःस्तवे ऽप्युक्तम्-

नोदाहृतं त्वया किंचिदेकमप्यक्षरं विभो / कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः // इति // [चतुः-1.7] एवमसाधारणं कारणमाख्याय पुनरन्यथा हेत्ववस्थाया एव स तादृशः प्रभावाति- शयविशेषो यदनाभोगेन परार्थसंपादनसमर्थफलमुपजायते इति वृत्तद्वयेनोपदर्शयन्नाह यथा गारुडिक इत्यादि-

यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति / स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत् // bca_9.37 //

यथा गारुडिको विषतत्ववित् लब्धमन्त्रसामर्थ्यः स्तम्भं काष्ठमयं वा अन्यद्वा साधयित्वा मन्त्रेणाभिसंस्कृत्य ममाभावादयमेव सर्वविषापहारचतुरो भविष्यतीति विनश्यति, स्वयमुपरतव्यापारो भवति / स स्तम्भः तेनाभिमन्त्रितः तस्मिन् गारुडिके चिरनष्टे ऽपि प्रभूतकालमुपरते ऽपि विषादीनुपशामयेत्, आदिशब्दात् ग्रहादिविकारमपहरेत् / छान्दससमयं परिपालयता मितो ऽपि उपधाया णिचि ह्रस्वो न कृतः / संज्ञापूर्वकस्य विधेरनित्यत्वाद्वा //

एवं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयन्नाह बोधिचर्येति-

बोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः / करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते // bca_9.38 //

यथाशब्दस्तथेत्याकर्षयति / तथा बोधौ बोधिनिमित्तं बुद्धत्वार्थं चर्या [बोधिचर्या] / बोधिसत्त्वे ऽपि निर्वृते इति, बोधिः बुद्धत्वम्, एकानेकस्वभावविविक्तमनुत्पन्नानिरुद्धमनुच्छेदमशाश्वतं सर्वप्रपञ्चविनिर्मुक्तमाकाशप्रतिसमं धर्मकायाख्यं परमार्थतत्त्वमुच्यते / एतदेव च प्रज्ञापारमिताशून्यतातथताभूतकोटिधर्मधात्वादिशब्देन संवृतिमुपादाय अभिधीयते / इदमेव च अभिसंधायोक्तम्-

धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः / धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् // इति / [वज्रच्छेदिका-26] उक्तं च-

अलक्षणमनुत्पादमसंस्कृतमवाङ्मयम् / आकाशं बोधिचित्तं च बोधिरद्वयलक्षणा //

इति /

तत्र [बोधिः] सत्त्वमभिप्रायो ऽस्येति बोधिसत्त्वः / तस्मिन्निर्वृते ऽपि / अपिशब्दो भिन्नक्रमः / अप्रतिष्ठितनिर्वाणत्वेन परमां शान्तिं गते ऽपि / हेत्ववस्थानिवृत्तौ फलावस्थाप्राप्तौ चेत्यर्थः / इति उभयथापि सर्वथा कल्पनाविरहे ऽपि सत्त्वार्थसंपादनमविकलमुपदर्शितं भवति //

स्यादेतत्- यदि भगवानुपरतसकलविकल्पालम्बनतया निवृत्तसर्वचित्तचैत्तव्यापारः, कथं तर्हि तथागतपूजा महाफला वर्ण्यते इत्याशङ्कयन्नाह अचित्तके इत्यादि-

अचित्तके कृता पूजा कथं फलवती भवेत् /

संवृतिचित्तविविक्ते भगवति कृता उपहृता पूजा काराविशेषः कथं फलवती भवेत्, सफला स्यात्? तत्र असत्युपभोक्तरि दायकदानपतीनां कथं पुण्यं भवेत्? अत्रोत्तरमाह तुल्यैवेत्यादि- तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च // bca_9.39 // तुल्यैव समैव / पठ्यते आगमे प्रतिपाद्यते / यस्मात् तिष्ठतो निर्वृतस्य च तस्मात् फलवती भवेदिति योजनीयम् / तिष्ठतो ऽपरिनिर्वृतस्य / निर्वृतस्य निरुपधिनिर्वाणं गतस्य पूजाया नास्ति विशेषः / अयमभिप्रायः- द्विविधं हि पुण्यम्- त्यागान्वयं च, त्यागादेव यदुत्पद्यते / परिभोगान्वयं च, देयधर्मपरिभोगाद् यदुत्पद्यते / तत्र यदि नाम निर्वृते भगवति प्रतिग्रहीतुरभावात् परिभोगान्वयं न भविष्यति पुण्यम्, परित्यागान्वयं च केन वार्यते? अप्रतिगृह्णति कस्मिंश्चित् कथं परित्यागान्वयमपि पुण्यम्? किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं पुण्येन, नासति? कस्यचिदप्यभावादिति चेत्, इदमकारणमेव / यदि हि पुण्यं परानुग्रहादेव स्यात्, मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् / तस्मात् द्रष्टव्यं स्वचित्तप्रभवं परानुग्रहमन्तरेणापि पुण्यम् / तथा व्यतीते ऽपि गुणवति तद्भक्तिकृतं स्वचित्ताद्भवत् पुण्यं न विरुध्यते इति //

अपि च सर्वपुण्यपापसद्भावे सर्वेषामागमः साक्षीत्याह आगमाच्चेत्यादि- आगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा /

किमत्र उपपत्त्यन्तरेण? आगमात् भगवत्प्रवचनात् फलं भगवत्पूजाकृतं महाभोगतादिलक्षणमवगम्यते / तत्रेति निर्वृतानिर्वृते भगवति पूजायाम् / एतावांस्तु विशेषः- कस्यचित् तत् फलं सांवृतम्, कस्यचित् पुनः पारमार्थिकमभिमतम् / एवमनन्तरविचारमनादृत्य विशेषेणोच्यते / संवृत्या तत्त्वतो ऽपि वा पुण्यपापक्रियायाः फलं भगवदागमात् प्रतीयते, तत्र च आवयोरविवाद एव तत्र इदमुक्तं भगवता पुष्पकूटधारण्याम्- ये केचित् सिंहविक्रीडित तथागतस्य पूजां करिष्यन्ति तिष्ठतो वा परिनिर्वृतस्य वा, सर्वे ते त्रियानादेकतरेण यानेन परिनिर्वास्यन्ति / यश्च खलु सिंहविक्रीडित तथागतमर्हन्तं सम्यक्संबुद्धं दृष्ट्वा चित्तं प्रसादयेत्, प्रसन्नचित्तः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् उपचरेत्, लाभेन चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैरुपतिष्ठेत् / यश्च परिनिर्वृतस्य तथागतस्य सर्षपफलमात्रधातौ शरीरपूजां कुर्यात्, समो विपाकः प्रतिकाङ्क्षितव्यः / तथा पूजायै नास्ति विशेषो नानाकरणं च / इति //

उक्तं च-

तिष्ठन्तं पूजयेद्यस्तु यश्चापि परिनिर्वृतम् / समचित्तप्रसादेन नास्ति पुण्यविशेषता //

इति / [दिव्या]

पुनरिदमुक्तम्-

यश्च खलु पुनः सिंहविक्रीडित तथागतं वर्षशतं वा वर्षसहस्रं वा सर्वसुखोपधानेनोपतिष्ठेत्, यश्च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तपरिगृहीतैकपुष्पमारोपयेत्, तथागतपूजायै जलाञ्जलिं चोपनामयेत्, जलेन चोपसिञ्चेत्, ईषिकापदं वा दद्यात्, निर्माल्यं वा अपनयेत्, उपलेपनप्रदानं वा दीपप्रदानं वा कुर्यात्, आत्तमनाः, एकक्रमपदव्यतिहारं वा अतिक्रम्य वाचं भाषेत- नमस्तमै बुद्धाय भगवते इति, मा ते अत्र सिंहविक्रीडित काङ्क्षा वा विमतिर्वा विचिकित्सा वा, यदसौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेत्, नेदं स्थानं विद्यते // इति /

एतदवश्यमभ्युपेयमिति [आह] सत्यबुद्धे इत्यादि- सत्यबुद्धे कृता पूजा सफलेति कथं यथा // bca_9.40 //

सत्यबुद्धे परमार्थसति भगवति कृता पूजा सफलेति फलवती, इत्येतदपि कथं यथेति / कथमिवेत्युदाहरणमुपदर्शयति / नान्यदत्रोदाहरणमागमादिति भावः / तस्मात् सर्वथा भगवत्पूजायां फलसद्भाव आगमादवगम्यते //

शून्यतावासनाधानादित्यादि यदुक्तम्, तत्र वैभाषिकादयः सर्वधर्मशून्यतायाः सर्वावरणप्रहाणमसहमानाः चतुरार्यसत्यदर्शनभावनां च तदुपायमिच्छन्तः प्राहुः सत्यदर्शनत इत्यादि-

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् /

चतुर्णामार्यसत्यानां दुःखसमुदयनिरोधमार्गलक्षणानां दर्शनतः उपलब्धितः / साक्षात्करणादित्यर्थः / दर्शनत इत्युपलक्षणम् / भावनातो ऽपि द्रष्टव्यम् / तदुक्तम्-

क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् / इति / [अभि. को. 6.1]

तत्र वृत्तस्थस्य श्रुतचिन्तावतो भावनायां प्रवृत्तस्य अशुभानापानस्मृतिस्मृत्युपस्थानभावना निष्पत्तिक्रमेण अनित्यतो दुःखत शून्यतो ऽनात्मतश्च इत्येतैः षोडशभिराकारैः दुःखादिसत्यं पश्यतः उष्मगतादिचतुर्निर्वेधभागीयद्वारेण दुःखे धर्मज्ञानक्षान्त्यादिपञ्चदशक्षणलक्षणस्य दर्शनमार्गस्य, ततः परं भावनामार्गस्याधिगमात्, दर्शनभावनाहेयत्रैधातुकक्लेशोपक्लेशराशिप्रहाणात् क्षयानुत्पादज्ञानोत्पत्तिरित्यार्यसत्येषु संक्षेपतो ऽभिसमयक्रमः / इत्थमार्यसत्यदर्शनतो मुक्तिरुच्यते / तस्मादत एव मुक्तिरस्तु, शून्यतादर्शनेन किम्, शून्यतायाः सर्वधर्मनिःस्वभावताया (bcp 203) दर्शनेन अधिगमेन / साक्षात्करणेनेति यावत् / किम्? न किंचित् प्रयोजनम् / तदपरस्य मुक्तेरुपायस्य विद्यमानत्वात् / अत्राह न विनेत्यादि- न विनानेन मार्गेण बोधिरित्यागमो यतः // bca_9.41 // न उपायान्तरमस्ति, तस्मादित्यर्थः / इदं महार्थस्य तत्त्वम् / तथा हि- सर्व एव हि भावा आरोपितमनारोपितं चेति रूपद्वयमुद्वहन्ति / तत्र यत् तदविद्याप्रवाहितमारोपितं रूपम्, तत् सर्वजनसाधारणमिति न तदुपलब्धेः संक्लेशप्रहाणमुपपद्यते / अन्यथा सर्वे बालजनास्तथागताः स्युरिति प्राचीनप्रसङ्गः / इति अनारोपितमेव तत्त्वमनुपलम्भयोगेन अधिगम्यमानमज्ञानास्रवक्षयाय सामर्थ्यवदुपलभ्यते / तच्च प्रज्ञया विवेच्यमानं सर्वधर्मानुपलम्भलक्षणमवसितमिति सर्वधर्मशून्यतैव सर्वावरणविभ्रमप्रहाणाय पटीयसीत्यवगम्यते / इति युक्तितो निरूपितं प्राक्, निरुपयिष्यते च पश्चात् / इह पुनरागमत एव एनमर्थमवग्राहयितुम्-

न विनानेन मार्गेण बोधिरित्यागमो यतः /

इत्युक्तवान् / यदुक्तं प्रज्ञापारमितायाम्-

भगवानाह- इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति / वेदनां भाव इति न भावयति / संज्ञां भाव इति न भावयति / संस्कारान् भाव इति न भावयति / यावत् मार्गाकारज्ञतां भाव इति न भावयति / यावत् सर्वाकारज्ञतां भाव इति न भावयति / सर्ववासनानुसंधिक्लेशप्रहाणं भाव इति न भावयति / तत्कस्य हेतोः? नास्ति भावसंज्ञिनः प्रज्ञापारमिताभावना / यावत् नास्ति भावसंज्ञिनो दानपारमिताभावना / नास्ति भावसंज्ञिनो ऽभावशून्यताभावना / नास्ति भावसंज्ञिनः षडभिज्ञाभावना / यावत् नास्ति सर्वसमाधिसर्वधारणीमुखतथागतबलवैशारद्यप्रतिसंविन्महामैत्रीमहाकरुणावेणिकबुद्धधर्माणां भावना / तत्कस्य हेतोः? तथा हि स भावः एषो ऽहमिति द्वयोरन्तयोः सक्तः / दाने शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायाम् / एषो ऽहमिति द्वयोरन्तयोः सक्तः / यश्च द्वयोरन्तयोः सक्तः, तस्य नास्ति मोक्षः / तत्कस्य हेतोः? नास्ति सुभूते भावसंज्ञिनो दानम्, यावत् नास्ति प्रज्ञा, नास्ति मार्गः, नास्ति ज्ञानम्, नास्ति प्राप्तिः, नास्ति अभिसमयः, नास्त्यानुलोमिकी क्षान्तिः, नास्ति रूपस्य परिज्ञा, नास्ति वेदनायाः परिज्ञा, यावत् नास्ति प्रतीत्यसमुत्पादस्य परिज्ञा / नास्ति आत्मसत्त्वजीवजन्तुपोषपुद्गलनुजमानवकारकवेदकजानकपश्यकसंज्ञायाः परिज्ञा / यावत् नास्ति सर्ववासनानुसंधिक्लेशप्रहाणस्य परिज्ञा / कुतः पुनरस्य मोक्षो भविष्यतीति //

अत एव पुनस्तत्रैवोक्तम्-

भगवानाह- एवमेतत् कौशिक, एवमेतत् / ये ऽपि ते ऽभूवन्नतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / (bcp 204) ये ऽपि ते भविष्यन्ति अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / ये ऽपि ते एतर्हि दशदिग्लोकधातुषु अप्रमेयासंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति, ध्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः / ये ऽपि ते ऽभूवन्नतीतानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽपि ते भविष्यन्ति अनागतानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽपि ते एतर्हि प्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, ते ऽपि इमामेव प्रज्ञापारमितामागम्य प्रत्येकबोधिं प्राप्ताः, प्राप्स्यन्ति प्राप्नुवन्ति च / तत्कस्य हेतोः? अत्र प्रज्ञापारमितायां सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि / तानि पुनरनिमित्तयोगेन अनुपलम्भयोगेन अनुत्पादयोगेन असंक्लेशयोगेन अव्यवदानयोगेन, यावत् तत्पुनः लोकव्यवहारेण अपरमार्थयोगेन / इति विस्तरः //

उक्तं च-

बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविता / मार्गस्त्वमेका मोक्षस्य नास्त्यन्य इति निश्चयः //

इति // [प्रज्ञापारमितास्तुतिः]

एतन्महायानवचनमसहमान आह नन्वसिद्धमित्यादि-

नन्वसिद्धं महायानं

ननु भोः शून्यतावादिन्, महायानमागमत्वेन मम असिद्धम्, असंमतम्, तदस्योपन्यासो न साधनतया साधुः / अत्र परस्य समानपरिहारदूषणमाह कथमित्यादिना-

कथं सिद्धस्त्वदागमः /

यदि महायानमसिद्धम्, कथं केन प्रकारेण त्वदीयागमो भगवद्वचनमिति सिद्धः? तत्र न किंचिदागमत्वप्रसाधकं प्रमाणमुत्पश्यामः / परः परिहारमाह यस्मादिति-

यस्मादुभयसिद्धो ऽसौ

यस्मात् कारणात् उभयस्य तव मम च सिद्धः आगमत्वेन निश्चितो ऽसौ ममागमः / न हि मदागमे भवतो ऽपि महायानानुयायिनो बुद्धवचनत्वेन विप्रतिपत्तिरस्ति, तस्मात् सिद्धो ऽसौ / न तु महायाने मम संप्रतिपत्तिः, येन इदमेवोत्तरं भवतो ऽपि स्यात् / सिद्धान्तवादी आह- न सिद्धौऽसौ तवादितः // bca_9.42 // इति / यद्यपि उभयसिद्धत्वं त्वदागमस्य आगमसिद्धौ हेतुः, तदापि नैतद्वक्तव्यम्, असिद्धत्वात् / यस्मात् तवैव तावदसौ त्वदागमः न सिद्धः / कदा? आदौ तत्स्वीकारात् पूर्वम् / न हि अभ्युपगमात् प्राक् तव कथंचिदप्यसौ सिद्धः, इति उभयसिद्धत्वमसिद्धत्वादसाधनम् //

यद्यपि उभयसिद्धत्वमसिद्धम्, इदं तर्हि साधनमस्तु- यद् गुरुशिष्यपरंपरया आम्रायायातं बुद्धवचनत्वेन, यच्च सूत्रे ऽवतरति, विनये संदृश्यते, धर्मतां [प्रतीत्यसमुत्पादं] च न विलोमयति, तद् बुद्धवचनं नान्यत् / इत्यत्राह यत्प्रत्ययेत्यादि-

यत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु /

यः प्रत्ययो निबन्धनम् अस्या आस्थायाः, सा तथोक्ता / यत्प्रत्यया यन्निबन्धना / आस्था आदेयता आदरः / तत्र स्वागमे / तां तत्प्रत्ययामास्थाम् इह महायाने ऽपि कुरु विधेहि / महायाने ऽपि उक्तस्य आस्थाकारणस्य विद्यमानत्वात् / इदं पुनः सर्वप्रवचनसाधारणमव्यभिचारि लक्षणं यदुक्तमध्याशयसंचोदनसूत्रे-

अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषितं वेदितव्यम् / कतमैश्चतुर्भिः? इह मैत्रेय प्रतिभानमर्थोपसंहितं भवति नानर्थोपसंहितम् / धर्मोपसंहितं भवति नाधर्मोपसंहितम् / क्लेशप्रहायकं भवति न क्लेशविवर्धकम् / निर्वाणगुणानुशंससंदर्शकं भवति न संसारगुणानुशंससंदर्शकम् / एतैश्चतुर्भिः / पेयालं / यस्य कस्यचिन्मैत्रेय एतैश्चतुर्भिः प्रतिभाति प्रतिभास्यति वा, तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर्वा बुद्धसंज्ञा उत्पादयितव्या / शास्तृसंज्ञां कृत्वा स धर्मः श्रोतव्यः / तत्कस्य हेतोः? यत् किंचिन्मैत्रेय सुभाषितम्, सर्वं तद्बुद्धभाषितम् / तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेत्- नैतानि बुद्धभाषितानीति, तेषु च अगौरवमुत्पादयेत्, पुद्गलविद्वेषेण तेन सर्वं बुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति / धर्मं प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मणा अपायगामी भवति //

तदत्र धर्मताया अविलोमनमेव सम्यग्लक्षणमुक्तम् / उक्तं च-

यदर्थवद्धर्मपदोपसंहितं त्रिधातुसंक्लेशनिबर्हणं वचः / भवेच्च यच्छान्त्यनुशंसदर्शकं तदुक्तमार्षं विपरीतमन्यथा //

इति /

एतन्महायाने सर्वमस्तीति कथमुपादेयं न स्यात्? यदुक्तम् "न सिद्धो ऽसौ तवादितः" इति, तत्र परो विशेषमभिधत्ते / न ब्रवीमि यदावयोर्द्वयोः सिद्धमुभयसिद्धमिति, किं तर्हि आवाभ्यामन्येषामुभयेषां मदागमः सिद्ध इत्युपादेयः, न महायानम्, एतद्विपरीतत्वात् / तेन नोपादेयमित्याह अन्योभयेष्टेत्यादि- अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता // bca_9.43 // यदि आवयोर्विवादारूढत्वात् आवाभ्यामन्ये ये केचिदप्रतिपन्ना उभये, तेषामिष्टं अभिमतम् / संमतमिति यावत् / तस्य सत्यत्वे यथार्थत्वे अभ्युपगम्यमाने सति वेदादेरपि सत्यता वेदवाक्यस्य चोदनालक्षणस्य / आदिशब्दात् कणादादिवचनस्यापि / सत्यता (bcp 206) अमृषार्थता स्यात् / तत्रापि वादिप्रतिवादिभ्यामन्योन्योभयसंमतिः संभाव्यते, इति तदप्युपादेयं भवतः स्यात् / तस्मान्नायमपि विशेषः //

अथापि स्यात्- मदागमे बुद्धवचनत्वे ऽविवादः, न तु महायाने / तेन स उपादेयो नेतरदित्याशङ्कयन्नाह सविवादं महायानमित्यादि-

सविवादं महायानमिति चेदागमं त्यज / तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम् // bca_9.44 //

सविवादं सविप्रतिपत्तिकं महायानम् / केचिद् बुद्धवचनतया प्रवृत्त्यङ्गमिच्छन्ति, केचित् तद्विपरीतसमारोपान्नेच्छन्ति, इति हेतोः, चेत् यदि न ग्राह्यम्, तदा आगमं त्यज, स्वागममपि विजहीहि, सो ऽपि प्रवृत्त्यङ्गं न स्यात् / कस्मात्? तीर्थिकैर्मीमांसकादिभिः सविवादत्वात् विप्रतिपत्तिसंभवात् परित्यागमर्हति / न केवलं तीर्थिकैः, अपि तु स्वयूथ्यैरित्याह- स्वैरिति / चतुर्निकायमष्टादशभेदभिन्नं भगवतः शासनम् / तत्र एकस्यैव निकायस्य अनेकभेदसंभवात् स्वयूथ्यैरपि परस्परविवादः संभवति / स्वैरिति स्वनिकायान्तर्गतभेदान्तरावस्थितैः / परैरिति अन्यनिकायव्यवस्थितैः / चकारः पूर्वापेक्षया समुच्चयार्थः / सविवादत्वात् आगमान्तरं त्यजेति संबन्धः / त्वदभ्युपगतादागमादन्य आगमः आगमान्तरम् / तदपि सविवादत्वान्न स्वीकारमर्हति / त्वदागमस्यापि अपरापेक्षया सविवादत्वं समानमिति परित्यागे तुल्य एव न्यायः / अथवा / स्वैरिति एकभेदव्यवस्थितैः सौत्रान्तिकाभिधर्मिकवैनयिकैः परस्परं सविवादत्वात् सूत्राभिधर्मविनयाः परित्यागमर्हन्ति / अस्ति हि एकभेदावस्थितानां सौत्रान्तिकादीनामन्योन्यं विवादः / परैरिति एकनिकायाश्रितभेदान्तरगतैः / एतेन यदुक्तम्गुरुपर्व[शिष्य?]क्रमेणाम्नायायातं बुद्धवचनमित्यादि, तदनेनैव प्रत्याख्यातं द्रष्टव्यम् / न हि अविस्मृतसंप्रदायानामन्योन्यस्य विवादो युक्तः / न च सर्वज्ञवचनेषु परस्परहतिरस्ति / न च सूत्राभिधर्मविनयानां परस्परमेकवाक्यता भवतः संभवति / तत् कथं सूत्रादिसंस्यन्दनं बुद्धवचनत्वे हेतुरुक्तम्? तस्माद् यत्किंचिदेतत् //

एवं समानपरिहारदूषणतामभिधाय पुनर्विशेषेण परस्याभ्युपगमे दूषणमुद्भावयन्नाह-

शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता /

शासनमित्यादिनोपक्रमते- शासनं भगवता हिताहितस्वीकारपरिहारदेशनालक्षणम् / तच्च भिक्षुतामूलम् / अथवा / आगमविप्रतिपत्तिमानुषङ्गिकीं परिसमाप्य यदुक्तम्-

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् / [9.41]

इति निराचिकीर्षन्नाह- शासनमित्यादि / शासनम्- इदं कर्तव्यमिदं न कर्तव्यमित्याज्ञाप्रणयनम् / तद् भिक्षुतामूलम् / भिक्शुभावो भिक्षुता, सैव मूलं कन्दो यस्येति तत्तथोक्तम्, तत्प्रतिष्ठितत्वात् / यथा किल दृढमूलो वृक्षः चिरमवस्थितिमनुभवन् काण्डशाखाप्रशाखापत्रपुष्पफलच्छायादानसंतापाद्यपहरणसमर्थो भवति, तथा भगवतो ऽपि शासनकल्पपादपोभिक्षुताकन्दमासाद्य स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गध्यानारूप्यसमाधिसमापत्तिबोधिपाक्षिकार्याष्टाङ्गिकमार्गश्रामण्यफलसंपन्नः (bcp 207) ऋद्धिप्रातिहार्यादिभिः क्लेशोष्मसंतापाद्यपहरणपटुर्भवति, इति भिक्षुताया मूलसाधर्म्यम् / तत्र संज्ञाभिक्षुः, प्रतिज्ञाभिक्षुः, भिक्षणशीलो भिक्षुः, ज्ञप्तिचतुर्थकर्मणोपसंपन्नो भिक्षुः, भिन्नक्लेशो भिक्षुः इति पञ्चप्रकारो भिक्षुः / तत्र चतुर्थपञ्चमं द्वयमग्र्यम्, इतरेषां समानाभिधानमात्राभिधेयत्वात् / तदुभयमपि शासनावस्थाननिदानमविरुद्धम् / तत्रापि भिन्नक्लेशो भिक्षुः प्रधानम् / तस्यैवेह ग्रहणम् / तद्भावो भिक्षुता / सा च आर्यसत्यदर्शनतो न संगच्छते इत्याह- भिक्षुतैव चेत्यादि / भिक्षुता भिन्नक्लेशता / क्लेशप्रहाणमिति यावत् / चो वक्तव्यान्तरं समुच्चिन्वन् हेतौ वर्तते / यस्मात् सा भिक्षुतैव दुःस्थिता, शून्यतादर्शनमन्तरेण असमञ्जसा केवलसत्यदर्शनतो न युज्यते / तस्मात् सत्यदर्शनतो मुक्तिरिति न वक्तव्यमित्यभिप्रायः / केषां सा दुःस्थिता? सावलम्बनचित्तानामिति / सहावलम्बनेन वस्त्वभिनिवेशेन वर्तते इति सावलम्बनम्, तत्तादृशं चित्तं येषां योगिनां ते तथोक्ताः, तेषामिति / यतः ते दुःखादिसत्यं क्लेशविसंयोगं च वस्तुत्वेनावलम्बन्ते इति मतं भवताम् / अतस्तेषामुपलम्भदृष्टीनां दुःस्थिता, न निरालम्बनचित्तानाम् //

यत्पुनरुक्तं- सत्यदर्शनतो मुक्तिरिति, तद्विकल्पनीयम् / द्विधा हि सत्यदर्शनं संभाव्यते, परमार्थतः संवृतितो वा / तद् यदाद्यो विकल्पः, तदा नास्माकं विप्रतिपत्तिः, अस्मत्पक्षस्य प्रधानत्वात्, सर्वधर्माणामस्माभिः परमार्थतो दर्शनाभ्युपगमात् / अथ द्वितीयः, तन्न सहामहे, युक्तिविरोधात् / न हि संवृतिसत्यदर्शनान्मुक्तिरुत्पद्यते, सर्वसत्त्वानां मुक्तिप्रसङ्गात् / तथा हि युक्त्यागमाभ्यां तत्त्वातत्त्वविवेचनात्, परमार्थसत्यमेवात्र क्लेशप्रहाणाय निश्चीयते न संवृतिसत्यम् / तच्च सर्वधर्मानुपलम्भलक्षणम् / न हि तदन्तरेण संक्लेशनिवृत्तिर्युज्यते / यावद्भावाभिनिवेशः, तावत् कल्पना न निवर्तते, यावच्च कल्पना तावदखण्डितमहिमानः संक्लेशाः चित्तसंतानमध्यावसन्ति / यावच्च संक्लेशाः तावत् कर्मनिर्मितजन्मपरंपराप्रसवः संसारो ऽपि सुतरामव्याहतप्रसरः प्रवर्तते / तस्मात् सर्वधर्मशून्यतैव अविद्याप्रतिपक्षत्वात् संसारसंततिविच्छित्तिहेतुरवसीयते, न केवलं सत्यदर्शनम् / इदमेव आचार्यपादैरुक्तम्-

मुक्तिस्तु शून्यतादृष्टेस्तदर्थाशेषभावना //

इति /

यथाआर्यसत्यानि सत्यद्वये ऽन्तर्भवन्ति तथोपदर्शितमेव प्राक् / इत्यलमतिप्रसङ्गेन / अपि च- सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् // bca_9.45 // इति न केवलं भिक्षुता, किं तर्हि निर्वाणमपि, इत्यपेरर्थः / निर्वाणं क्लेशविसंयोगान्निरुपधिशेषं दुःस्थितं दुर्घटम् //

तत्र भिक्षुतायास्तावदसंगतिमाह-

क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा /

यदि च आर्यसत्यदर्शनतः क्लेशाः प्रहीयन्ते, ततो विमुक्तिरुपजायते, तदा तदनन्तरं क्लेशप्रहाणात् समनन्तरमेवास्तु सा मुक्तिर्भवस्तु / भवतु एवम् / को वै नाम अन्यथा ब्रूते? नैतदस्ति, कुत इत्याह- दृष्टं च तेषु सामर्थ्यं निष्क्लेशस्यापि कर्मणः // bca_9.46 // चो हेतौ / दृष्टं प्रतिपन्नम् / आगमतः / यस्मात् तेषु प्रहीणक्लेशेषु आर्यमौद्गल्यायनार्याङ्गुलिमालप्रभृतिषु सामर्थ्यं फलदानं प्रति शक्तिः / तस्मान्न तदनन्तरमेव मुक्तिरस्ति / कस्य सामर्थ्यं दृष्टम्? कर्मणः शुभाशुभलक्षणस्य / किं पूर्वमनार्यावस्थायां क्लेशसहितस्य? नेत्याह- अक्लेशस्यापि क्लेशसहकारिरहितस्यापि कर्मणः //

ननु च सत्यदर्शनादविद्यादि प्रहीयते, तत्प्रहाणात् संस्कारादिप्रहाणक्रमेण तृष्णापि प्रहीयते / तृष्णाविपर्यासमती च पुनर्भवोत्पत्तिनिमित्ते / ततश्च तयोरभावात् तुषरहितस्य बीजस्येव कर्मणः सद्भावे ऽपि न किंचिद्विहन्यते इति / तदुक्तम्-

मिथ्याज्ञानतदुद्भूततर्षसंचेतनावशात् / हीनस्थानगतिर्जन्म त्यक्त्वा चैतन्न जायते //

इति /

अथवा / तृष्णैव केवला पुनर्भवकारणम्, समुदयाकारत्वात् / उक्तं हि भगवता-

तत्र कतमत् समुदयार्यसत्यम्? येयं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभि-

नन्दिनी, यदुत कामतृष्णा भवतृष्णा विभवतृष्णा चेति //

तदेवं यस्य तृष्णा नास्ति, तस्य प्रहीणसमुदयस्य कारणाभावात् न पुनर्जन्मसंभवः / इति पराभिप्रायमुत्थापयन्नाह-

तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते /

अविद्याप्रहाणात् तृष्णा पुनर्भवोपादानं कारणं तावन्नास्ति, न विद्यते चेद्यदि संप्रधार्यते निश्चीयते, तदा नैतद्वक्तव्यम् / यतः उपलम्भदृष्टीनामविद्याप्रहाणमनुपपन्नम् / तद्भावात् तृष्णाप्रहाणस्याप्यभावात् / भवतु वा, तथाप्यभिधीयते- किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती // bca_9.47 // अक्लिष्टापि सती क्लेशासंप्रयुक्तापि तृष्णा किमेषां भवद्योगिनां नास्ति न संभवति / कथमिव? संमोहवत् अक्लिष्टाज्ञानवत् //

इत्थमपि तृष्णा निषेद्धुमशक्येत्याह-

वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते /

स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया च तृष्णा / सा वेदना तृष्णाकारणमेषामस्ति / तृष्णा तु तत्कार्यम्, अविकले ऽपि कारणे न समस्ति इति कथमभिधातुं शक्यते? निरविद्यस्य वेदनायामपि तृष्णा न भवतीति चेत्, न / भावाभिनिवेशिनां निरविद्यत्वमेव असिद्धम्, इत्युक्तम् / ततो यदि अक्लिष्टाज्ञानवत् नाभ्युपगम्यते तृष्णा, तथापि शून्यतादर्शनमन्तरेण न्यायबलादापतति / अयमत्र समुदायार्थः- यदा मुक्तसंताने ऽपि कर्मणः फलदानसामर्थ्यमुपलभ्यते, (bcp 209) तृष्णा च वेदनासद्भावे संभाव्यमाना, तदा क्लेशप्रहाणमपि संदिह्यमानं कथमिव विमुक्तौ निश्चयं कुर्यात्? तस्मान्न शून्यतामन्तरेण भिक्षुता सुस्थिता प्रतिभासते इति / यदुक्तम्-

सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् /

इति, तदुपपादयन्नाह- सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा // bca_9.48 // सालम्बनेन सोपलम्भेन चित्तेन स्थातव्यमासक्तव्यम् / यत्र तत्र वा यत्र तत्र आसङ्गस्थानेषु आर्यसत्यादिषु तद्भावनाफलेषु वा / आसङ्गसंभावनायां न पुनर्जन्मनिवृत्तिरिति कथं पुनर्जन्मसंभावनायां निर्वाणमपि न संदिग्धं स्यात्?

तस्मादुक्तशून्यतैव निर्वाणकारणमुक्तेत्याह-

विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः / यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् // bca_9.49 //

विना शून्यतया शून्यतामन्तरेण चित्तं विज्ञानं सालम्बनं बद्धं संयतम् आलम्बनासङ्गपाशेन / उत्पद्यते पुनः, समाधिबलात् कियत्कालं निवृत्तमपि पुनरुत्पत्तिमद् भवति / क्व पुनरिदं दृष्टमित्याह- यथा असंज्ञिसमापत्तौ इति / यथा असंज्ञिसमापत्तिं समापद्यमानानां तावत्कालं चित्तचैत्तनिरोधे ऽपि पुनस्तदुत्पत्तिः स्यात्, तथा अन्यत्रापि इत्यर्थः / उपलक्षणं चैतत् / यथा निरोधसमापत्तावित्यपि द्रष्टव्यम् / अथ वा / यथा असंज्ञिसमापत्तिं समापद्य असंज्ञिषु देवेषु उपपद्यमानानामनेककल्पशतं यावन्निरुद्धानामपि तत्समापत्तिविपाकफलपरिसमाप्तौ चित्तचैत्तानां पुनरुत्पत्तिः, तथा / यतः शून्यतामन्तरेण न भिक्षुता न निर्वाणमुपपद्यते, ततः उभयार्थिनां शून्यतैव भावनीयेत्याह भावयेदित्यादि / येन कारणेन विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः, तेन कारणेन निर्वाणाद्यर्थी शून्यतामेव भावयेत् / तद्भावना हि क्लेशप्रहाणं निर्वाणं चाधिगमयति / न केवलैव सत्यादिभावनेति यावत्, सालम्बनत्वात् / यदुक्तमार्यवज्रच्छेदिकायां प्रज्ञापारमितायाम्-

तत् किं मन्यसे सुभूते अपि तु स्त्रोतआपन्नस्यैवं भवति- मया स्त्रोतआपत्तिफलं प्राप्तमिति? सुभूतिराह- नो हीदं भगवन् / तत्कस्य हेतोः? न हि भगवन् किंचिदापन्नः, तेनोच्यते स्त्रोतआपन्न इति / न रूपमापन्नो न शब्दान् न गन्धान् न रसान् न स्प्रष्टव्यानि न धर्मानापन्नः, तेनोच्यते स्त्रोतआपन्न इति / सचेद् भगवन् स्त्रोतआपन्नस्यैवं भवेत्- मया स्त्रोतआपत्तिफलं प्राप्तमिति, स एव तस्य आत्मग्राहो भवेत् सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत् / पेयालं / तत्किं मन्यसे सुभूते अपि नु अर्हत एवं भवति- मयार्हत्त्वं प्राप्तमिति? सुभूतिराह- नो हीदं भगवन् / तत्कस्य हेतोः? न कश्चिद्धर्मो यो ऽर्हन्नाम / सचेद्भगवन् अर्हत एवं भवेत्- मयार्हत्त्वं प्राप्तमिति, स एव तस्यात्मग्राहो भवेत् / पेयालं / (bcp 210) भगवानाह- तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन एवमप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न क्वचित् प्रतिष्ठितं चित्तमुत्पादयितव्यम्, न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न शब्दगन्धरसस्प्रष्टव्यप्रतिष्ठितं चित्तमुत्पादयितव्यमिति /

तस्माच्छून्यतैव बोधिमार्ग इति स्थितम् //

*** [अद्देद्:] *** यत्सूत्रे ऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते / महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् // bca_9.50 //

एकेनागम्यमानेन सकलं यदि दोषवत् / एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् // bca_9.51 //

महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते / तत्त्वयानवबुद्धत्वादग्राह्यं कः करिष्यति // bca_9.52 //

यत्सूत्रे ऽवतरेदित्यादि अनुष्टुप्त्रयं केनचित् प्रतिक्षिप्तमिव लक्ष्यते, अपक्रमनिवेशितत्वात् / आगमविप्रतिपत्तिरस्य विचारस्य प्रस्तावः / शासनं भिक्षुतेत्यादिषु आगमविवादात्, प्रक्रमान्तरत्वात् पूर्वमेव वक्तुमुचितम् / अनेनान्तरितस्य विवादस्य पुनरुपक्रमो ग्रन्थकारस्य प्रस्तावाकौशलं स्यात् / यत्प्रत्ययेत्यादिना च प्राक्तनवृत्तद्वयार्थस्याभिहितत्वात् / महाकाश्यपमुख्यैरित्यादिवचनस्याश्लीलत्वात् ग्रन्थकाराप्रयुक्तमिति निश्चितम् / तस्मात् प्रक्षेप एवायमिति //

स्यादेतत्- यथा सालम्बनचित्तस्यासङ्गसंभवात् न मुक्तिः स्यात्, तथा शून्यतायामपि भयमुपजायाते / तद्वरमुभयपरिहारेण संसार एव स्थितिर्युक्तेत्याह-

सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः / मोहेन दुःखिनामर्थे शून्यताया इदं फलम् // bca_9.53 //

सक्तिरासङ्गः / त्रासो भयम् / शून्यताश्रवणात्, तदर्थापरिज्ञानात् / सक्तित्रासमिति समाहारः / तस्मादुभयपक्षपरिहारेण संसारे त्रैधातुकस्वभावे सिध्यति स्थितिरवस्थानमुपजायते / तुशब्दः पुनर्दोषपरिहारार्थम् / इदं तु शून्यताभ्युपगमे दूषणं स्यात् / साधारणं दूषणमिति यावत् / कुतः? अनिर्मुक्त्या / हेतौ तृतीया / मुक्तेरभावादित्यर्थः / कतमेषाम्? दुःखिनां पञ्चगतिसंसारे जात्यादिदुःखपीडितानां सताम् / कथम्? अर्थे अर्थविषये / मोहेन अविद्यया / आलम्बनासङ्गेनेति यावत् / अतः शून्यताया इदं फलम्, यत् पुनरपि निवृत्य संसारे ऽवस्थानम् / अयमभिप्रायः- यथा शून्यताव्यतिरेकेण उपलम्भदृष्टेर्न मुक्तिः स्यात्, तथा विषयासङ्गसुखचेताः सर्वधर्मशून्यताभयभीतकातरः वरं संसार एवावस्थानमिति मन्यमानो बालः प्रशमसुखविमुखो विनिवृत्य जात्यादिदुःखमनुभवन् पुनस्तत्रैवावतिष्ठते इति किमनया प्रसाधितमिति //

अन्ये तु सक्तित्रासान्तनिर्मुक्तयेति पाठं मन्यमाना एवं व्याचक्षते- सक्तेर्हेतुत्वात् सक्तिरासङ्गस्थानम् / त्रासहेतुत्वात् त्रासो भयस्थानम् / तावेव अन्तौ सक्तित्रासान्तौ / (bcp 211) शाश्वतोच्छेदान्तौ इत्यर्थः / तथा हि- शाश्वतदृष्टेरासक्तिः, उच्छेददृष्टेश्च त्रासो जायते / तयोर्निर्मुक्तया परित्यागेन / पूर्ववत् तृतीया / यत् परमार्थविचारेण शाश्वतान्तविवर्जनम्, संवृतिसत्याभ्युपगमेन च उच्छेदान्तपरित्यागः, इति समारोपापवादान्तपरिहारान्मध्यमा प्रतिपत्तिरियमुपदर्शिता भवति / तथा च किं संपद्यते इत्याह- संसारे सिध्यति स्थितिः / प्रज्ञया संसारदोषालिप्तस्य करुणापरतन्त्रत्वात् संसारे सिध्यति निष्पद्यते स्थितिरवस्थानम् / किमर्थम्? दुःखिनामर्थे परदुःखदुःखितया दुःखिनां संसारिणामर्थे, तद्दुःखसमुद्धरणाभिलाषात् //

ननु संसारिणो नाम परमार्थतो न सन्त्येव, तत् कथं तदवस्थानमित्यत्राह- मोहेन विपर्यासेन संवृत्या सत्त्वस्योपलम्भात् / एतच्च "दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते" [9.77] इत्यत्र पश्चाद् व्यक्तीकरिष्यते / तस्माच्छून्यताया इदं फलम्, यत्करुणया संसारे ऽवतिष्ठमानो ऽपि शून्यतादर्शनात् संसारदोषैर्न लिप्यते / इदमप्रतिष्ठितनिर्वाणता शून्यतायाः फलम्, शून्यतामन्तरेण अस्याभावात् / तस्मादासंसारं सत्त्वार्थमवस्थानमिच्छद्भिः शून्यतैव भावयितव्या //

एतत् सर्वमुपसंहारेणोपदर्शयन्नाह-

तदेवं शून्यतापक्षे दूषणं नोपपद्यते /

तदेतत् एवमुक्तक्रमेण शून्यतापक्षे उक्तं दूषणम्- शून्यतायां त्रासात् संसारावस्थानलक्षणं नोपपद्यते न संगच्छते वक्ष्यमाणसमाधानात् / इति प्रथमपक्षे योजना / यत एवम्- तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता // bca_9.54 // निर्गतो विचिकित्साया निर्विचिकित्सः निःसंदेहः / तेन सता भावनीयैव अभ्यसनीयैव शून्यता सर्वधर्मनिःस्वभावता अनुपलम्भयोगेन //

एतेन यदुक्तम्- "न विनानेन मार्गेण" [9.41] तदुपसंहृतं भवति / यत्पुनरुक्तम् "शून्यतादर्शनेन किम्", तत्र शून्यताया विशेषमाह-

क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता / शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् // bca_9.55 //

क्लेशा रागादयः / ज्ञेयं पञ्चविधम् / आवृतिशब्दस्तु उभयत्र संबध्यते / क्लेशा एवावृतिः / ज्ञेयं च आवृतिरावरणमिति विभज्य योजनीयम् / ज्ञेयमेव समारोपितरूपत्वादावृतिः, सैव तम इव तमः, वस्तुतत्त्वावरणात्, तस्य प्रतिपक्षः प्रहाणहेतुः / हि यस्मात् शून्यता, तस्मात् शीघ्रं त्वरितं सर्वज्ञतायां बुद्धत्वे कामो ऽभिलाषो यस्यासौ तथोक्तः / सर्वज्ञतां कामयते इति वा सर्वज्ञताकामः / न भावयति तां कथमिति, तां शून्यतां कथं न भावयति नाभ्यस्यति? अपि तु महता यत्नेन भावयेदेव //

यदप्युक्तम्- त्रासाच्छून्यतायां प्रवृत्तिर्न स्यात्, तदपि न युक्तमित्याह- यद्दुःखेत्यादि / द्वितीयपक्षे पुनरित्थमवतारणीयम्- अस्त्येव शून्यतायामेषो ऽनुशंसः, केवलं प्रथमत एव तत्र संत्रासात्प्रवृत्तिर्न स्यादिति / आह-

यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम् / शून्यता दुःखशमनी ततः किं जायते भयम् // bca_9.56 //

यद्वस्तु दुःखजननं पीडाकरम्, तस्माद्वस्तुनः सकाशात् त्रासः भयं जायतां नाम / शून्यता पुनः प्रत्युत दुःखशमनी सर्वसांसारिकदुःखापहन्त्री / ततः तस्याः शून्यतायाः किं किंनिमित्तं अभयस्थाने कातरस्य जनस्य भयं जायते? सर्वगुणनिदानत्वात् प्रेमैव तस्यामुचितमिति भावः //

आत्मग्रहजनिताहंकारप्रसूतं हि भयमतत्त्वविदामुत्पद्यते / स चात्मा कल्पनासमारोपितमूर्तिरिति अहंकारो ऽपि तदभावादनास्पद इत्युपदर्शयन्नाह-

यतस्ततो वास्तु भयं यद्यहं नाम किंचन / अहमेव न किंचिच्चेद्भयं कस्य भविष्यति // bca_9.57 //

यतस्ततो वा भयाभयस्थानात् अस्तु भवतु भयम् / कदा? यदि अहं नाम किंचन / अहमिति अहंप्रत्ययस्य विषयः कथितः / अहं नाम अहंप्रत्ययवेद्यं यत्किंचन किंचिद्वस्तु स्यात् / अव्यक्तनिर्देशान्नपुंसकता / तदा युक्तमेव भयम् / यदा पुनरहमेव न किंचित् न वस्तुसत् विचार्यमाणमहं किंचित् शब्दविकल्पमात्रादन्यत, तदा भयं कस्य? अहमित्यस्याभावात् / भविष्यति उत्पत्स्यते / इतो ऽपि विचारात् त्रासो निवर्तते इति भावः / तदुक्तम्-

नास्म्यहं न भविष्यामि न मे ऽस्ति न भविष्यति / इति बालस्य संत्रासः पण्डितस्य भयक्षयः //

इति /

यथा च अहंप्रत्ययविषयस्य कल्पनामात्रोपदर्शितत्वादसत्त्वम्, तथा प्रतिपादयन्नाह-

दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् / न सिंघाणं न च श्लेष्मा न पूयं लसिकापि वा // bca_9.58 //

दन्तकेशनखा नाहम् / प्रत्येकममी अहंप्रत्ययविषया न भवन्ति / नास्थि नाप्यस्मि शोणितम् / अस्थि हट्टम् / शोणितं रुधिरम् / एतद्दूयमपि नास्मि नाहम् / सिंघाणं न च श्लेष्मा न पूयम् / सिंघाणं नासिकाविवरनिर्यातः क्लेदः / श्लेष्मा मुखविवरविनिर्गतः / पूयं व्रणे पक्वरुधिरम् / एतान्यपि नाहं भवन्ति / लसिकापि वा, लसिका व्रणक्लेदः, सापि नाहम् //

नाहं वसा न च स्वेदो न मेदो ऽस्त्राणि नाप्यहम् / न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च // bca_9.59 //

नाहं वसा न च स्वेदो न मेद इति / वसा शरीरस्नेहः / स्वेदः प्रस्वेदः / मेदश्चतुर्थो धातुः / इमान्यपि नाहम् / अन्त्राणि नाप्यहमिति / अन्त्राणि प्रसिद्धानि, तान्यपि (bcp 213) नाहम् / न चाहमन्त्रनिर्गुण्डी अन्त्रनिर्गुण्डी सूक्ष्मात्मिका, सापि नैवाहम् / गूथमूत्रमहं न च, गूथं विष्ठा / एतदपि द्वयं नाहं न भवामि //

नाहं मांसं न च स्त्रायु नोष्मा वायुरहं न च / न च च्छिद्राण्यहं नापि षड् विज्ञानानि सर्वथा // bca_9.60 //

नाहं मांसं न च स्नायु नोष्मा / स्नायु सिरा / ऊष्मा शरीरतेजोधातुः / इमे ऽपि नाहम् / वायुरहं न च, वायुराश्वासप्रश्वासादिलक्षणः, सो ऽपि नैवाहम् / न च च्छिद्राणि चक्षुरादीनि, तान्यपि नाहम् / नापि षड् विज्ञानानि सर्वथा, षट् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि, तान्यपि नाहं भवन्ति / सर्वथा सर्वप्रकारेण प्रत्येकं समुदितानि वा / तथा हि दन्तादिसमुदायात्मकमेव विचार्यमाणं शरीरमुपलभ्यते / तच्च प्रत्येकमहंप्रत्ययवेद्यं न भवति, प्रत्येकमहंप्रत्ययस्य तेषु अभावात् / न हि परेषामपि एकैकशः केशादयो ऽहं प्रत्ययवेद्या भवन्ति / समुदिता अपि ते एव केवलाः पूर्ववत् / न च समुदितेषु तेषु कश्चिदेकः संभवति, तस्य प्रतिषेत्स्यमानत्वात् / नाप्यनेके समुदिता अपि एकप्रत्ययविषया भवितुमर्हन्ति / न च अनेकेषु एकप्रत्ययो भ्रान्तो युक्तः / न च भ्रान्तेस्तत्त्वव्यवस्था / तस्मात् कल्पनामात्रमेतदहमित्यर्थशून्यमाभातीति निश्चितम् / उक्तं चैतदशुभभावनाप्रस्तावे शिक्षासमुच्चये-

सन्ति अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वकू मांसास्थि स्नायु शिरा बुक्का हृदयं प्लीहकः क्लोमकः अन्त्राणि अन्त्रगुणाः आमाशयः पक्काशयः औदरीयकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिंघाणकं वसा लसिका मज्जा मेदः पित्तं श्लिष्मपूयशोणितं मस्तकलुङ्गं प्रस्रावः / एषु च वस्तुषु बोधिसत्त्वः उपपरीक्षणजातीयो भवति / एतत् पुनः पश्चात् कायस्मृत्युपस्थानपर्यन्ते निर्देक्ष्यामः / इति / एवं निर्विषय एवाहंप्रत्ययविशेषः //

स्यादेतत्- यदि नाम केशादयो ऽहंप्रत्ययवेद्या न भवन्ति, तथापि नायं निर्विषयः सिध्यति / यतः अन्तर्व्यापारपुरुषगोचर एव अहंप्रत्ययो ऽस्माभिरिष्यते इति नैयायिकादयः / नैतदपि युक्तम् / यस्मात्- अहं गौरः कृशो दीर्घो गच्छामीत्याद्याकारपरामर्शात्मक एव अयमहंप्रत्ययः प्रतिभासते / न च आत्मन एतद्रूपमिष्यते परैः / न च अन्याकारेण ज्ञानेन अन्यस्य ग्रहणं युक्तम्, अतिप्रसङ्गात् / तथा हि तद्वान्, इदमिदं तस्य लक्षणमुपवर्णयन्ति परे / तत्र नैयायिकास्तावत् नित्यं सर्वगतं प्रतिप्राणिभिन्नमचेतनं चेतनायोगात्तु चेतनं सुखादिगुणाधारं शुभाशुभकर्मकर्तारं तत्फलोपभोक्तारं परलोकिनं च आत्मानमिच्छन्ति / नैयायिकवद्वैशेषिका अपि / तदुक्तम्-

अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् / स्वतो ऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा //

शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च / भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः // इति / [तत्त्वसंग्रह-171-172] जैमिनीयास्तुव्यावृत्त्यनुगमात्मकं बुद्धिरूपेण परिणामिनं चैतन्यरूपमात्मानमिच्छन्ति / तच्च चैतन्यं बुद्धिस्वभावम् / न च तस्य प्रवृत्तिनिवृत्ती भवतः, तस्योभयत्रानुगतरूपत्वात् / तद्यथा- सर्पस्य कुण्डलावस्थानिवृत्तौ ऋजुत्वावस्थाप्रवृत्तौ च सर्पत्वस्योभयत्राप्यवृत्तिः / यथोक्तम्- व्यावृत्त्यनुगमात्मानमात्मानमपरे पुनः / चैतन्यरूपमिच्छन्ति चैतन्यं बुद्धिलक्षणम् //

यथाहेः कुण्डलावस्था व्यपेति तदनन्तरम् / संभवत्यार्जवावस्था सर्पत्वं न निवर्तते //

तथैव नित्यचैतन्यस्वभावस्यात्मनो ऽपि न / निःशेषरूपविगमः सर्वस्यानुगमो ऽपि च // इति / [तत्त्वसंग्रह-222-224] इति विशेषः / अन्यत् सर्वं पूर्ववत् //

जैनास्तु जैमिनीयवच्चेतनमात्मानमिच्छन्ति द्रव्यपर्यायरूपेण यथायोगमनुगमव्यावृत्त्यात्मकम् / तथा चोक्तम्-

जैमिनीया इव प्राहुर्जैनाश्चिल्लक्षणान्तरम् / द्रव्यपर्यायरूपेण व्यावृत्त्यनुगमात्मकम् //

[तत्त्वसंग्रह-311]

कापिलास्तु नित्यं व्यापकं निर्गुणं स्वयमेव चैतन्यात्मकमात्मानमिच्छन्ति, न तु बुद्धिसंबन्धात् / बुद्धेः स्वयमचित्स्वभावत्वात् / चैतन्यं पुरुषस्य स्वरूपमिति वचनात् / नापि स कस्यचित् कार्यस्य कर्ता, स्वयं तत्फलोपभोक्ता वा, निष्क्रियत्वात् / प्रकृतिरेव तत्कर्त्री तस्य, तत्फलोपनेत्री च / विपर्यासवशादसौ स्वात्मनि तत् समारोपयति / तथा हि- यदा पुरुषस्य शब्दादिविषयोपभोगाकारमौत्सुक्यमुपजायते, तदा प्रकृतिः परिज्ञातपुरुषौत्सुक्या पुरुषेण युज्यते, ततः शब्दादिसर्गं करोति / शब्दादिषु श्रोत्रादिवृत्तिभिर्मनसाधिष्ठिताभिः परिगृहीतेषु विषयेषु बुद्धिरध्यवसायं करोति / ततो बुद्ध्यवसितमर्थं पुरुषश्चेतयते इति / एवं चैतन्यस्वरूपत्वान्निर्गुणत्वम्, व्यापित्वान्निष्क्रियत्वमिति सांख्यपुरुषस्य विशेषः / उक्तं च-

चैतन्यमन्ये मन्यन्ते भिन्नं बुद्धिस्वरूपतः / आत्मनश्च निजं रूपं चैतन्यं कल्पयन्ति ते //

प्रधानेनोपनीतं च फलं भुङ्क्ते स केवलम् / कर्तृत्वं तस्य नैवास्ति प्रकृतेरेव तन्मतम् //

[तत्त्वसंग्रह-285-86]

प्रवर्तमानान् प्रकृतेरिमान् गुणान् तमोवृतत्वाद्विपरीतचेतनः / अहं करोमीत्यबुधो ऽभिमन्यते तृणस्य कुब्जीकरणे ऽप्यनीश्वरः // इति / [सांख्यक्रमदीपिका-43] उपनिषद्वादिनस्तु समस्तप्राणिसंतानान्तर्गतमेकमेव व्यापि नित्यं च ज्ञानमिच्छन्ति / तद्विवर्तरूपतया सकलमिदं क्षितिजलपवनहुताशनादिकं जगदवभासते / तत्स्वभाव एव चात्मा / न बाह्यं किमप्यवयवि परमाण्वादिकं ग्राह्यं प्रमाणप्रसिद्धमस्ति / आह च-

नित्यो ज्ञानविवर्तो ऽयं क्षितितेजोजलादिकः / आत्मा तदात्मकश्चेति संगिरन्ते ऽपरे पुनः //

ग्राह्यलक्षणसंयुक्तं न किंचिदिह विद्यते / विज्ञानपरिणामो ऽयं तस्मात्सर्वं परीक्ष्यते // इति / [तत्त्वसंग्रह-328-29] पुद्गलवादिनस्तु पुनरन्तश्चरतीर्थिकाः / स्कन्धेभ्यस्तत्त्वान्यत्वाभ्यामवाच्यं पुद्गलनामानमात्मानमिच्छन्ति / अन्यथा तीर्थिकसिद्धान्ताभिनिवेशदर्शनं स्यात् / आह च-

केचिच्च सौगतंमन्या अप्यात्मानं प्रचक्षते / इति / [तत्त्वसंग्रह-336]

कथमात्मनो ऽहंप्रत्ययविषयता स्यात्? स्वस्वरूपेण तत्राप्रतिभासनात् / तत्कथमात्मा अहंप्रत्ययतया प्रतिभासते इत्युच्यते? तस्माद् विकल्पमात्रमेतत् / निर्विषयमुत्पद्यते इति स्थितम् //

संप्रति चित्स्वभावात्मवादिनः सांख्यादयः षड्विज्ञानानामात्मनिषेधमसहिष्णवः प्राहुः- शब्दादिज्ञानं चिदात्मकमात्मैवास्माभिरभिधीयते / तत्कथमस्यात्मताप्रतिषेध उच्यते? इति पराभिप्रायमाकलय्य सिद्धान्तवादी प्रसङ्गमासञ्जयन्नाह-

शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा /

ननु यदि शब्दज्ञानात्मक आत्मा, तस्य च नित्यत्वात् शब्दज्ञानं नित्यं स्यात्, तदा शब्दो ऽपि सदा नित्यमेव तद्भावाभावकालयोर्ग्रहीतव्यः स्यात्, शब्दग्रहणस्वभावस्य तस्य तत्सदसत्ताकाले सर्वदानुवर्तनात् / अन्यथा नित्यत्वमेव तस्य हीयेत / भवतु, एवमेवेति चेत्, आह- ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते // bca_9.61 // ज्ञानमेव नित्यमुपस्थितम्, शब्दस्य तु कादाचित्कत्वात् न सर्वदा सत्ताभिव्यक्तिः / ततश्च तदसत्ताकाले ज्ञेयं विना विषयमन्तरेण किउं वेत्ति किं जानाति तद् ज्ञानम्? तुशब्दो ऽसत्ताकालप्रश्नविशेषे वर्तते / येन ज्ञेयेन शून्यमपि ज्ञानं निरुच्यते अभिधीयते / ज्ञेयं जानातीति ज्ञानमाख्यायते, तदभावात् कथं ज्ञानमित्याशयः //

एतदेवाह-

अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते /

यदपि विषयं न जानाति, तदपि यदि ज्ञानमुच्यते, तदा काष्ठमज्ञानस्वभावं ज्ञानं प्रसज्यते / न हि तेन किंचिदपराद्धं येन न विज्ञानं स्यात् / न चैवम् / तस्माद्विषयपरिज्ञानाभावात् यथा काष्ठं ज्ञानं न भवति, तथा अन्यदपि न स्यादित्याह- तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः // bca_9.62 // येन निर्विषयं न ज्ञानम्, तेन कारणेन असंनिहितज्ञेयं असंनिहितमयोग्यदेशस्थं ज्ञेयं ग्राह्यो विषयो यस्य तत्तथोक्तं ज्ञानं नास्ति न विद्यते इति निश्चयः एकान्त एषः / सापेक्षत्वात् //

स्यादेतत्- शब्दस्य सदाविद्यमानत्वात् नासंनिहितविषयं शब्दज्ञानम् / अग्रहणं तु कदाचित् कादाचित्काभिव्यक्तित्वादिति नोक्तदोषप्रसङ्गः / नैतदस्ति / यतो यदस्य ज्ञानस्य परिच्छेद्यं रूपं व्यक्तमित्युच्यते, तस्य सदासंनिहितविषयतया ग्राहकमज्ञानमभिधीयते / शब्दस्य तु सदा सत्त्वमसत्त्वं वा न विवक्षितम् / ज्ञानं तु कदाचिदग्राहकमित्येतावतैव साध्यसिद्धेः / तस्मादसंनिहितज्ञेयमित्यनेन ज्ञानस्यैव अग्राहकत्वं साध्यते / येन रूपेण ज्ञानस्य ग्राह्यो विषयः, तस्य न सर्वदा संनिधानमस्तीति कृत्वा इति कथं नोक्तदोषप्रसङ्गः? शब्दस्य यथा सर्वदा सत्त्वं नास्ति, तद्विस्तरभयान्नोच्यते //

अपि च / यदि शब्दज्ञानमेवात्मा, तदा तद्ग्रहणात्मकत्वात्तस्य रूपग्रहणं न स्यात् / नैतदस्ति / यतः तदेव रूपग्राहकमिष्यते इति चेदत्राह तदेवेत्यादि-

तदेव रूपं जानाति तदा किं न शृणोत्यपि /

तदेव शब्दज्ञानमेव यदि रूपं जानातीति मतम्, तदा किं न शृणोत्यपि, तदा रूपग्रहणकाले किमिति न शृणोत्यपि, शब्दमपि किं न गृह्णाति? शब्दज्ञानत्वात् / अथ गृह्णात्येव, यदि संनिहितं स्यात् / केवलमसंनिधानात् न दोष इति परस्योत्तरमाशङ्कयाह शब्दस्येत्यादि- शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत् // bca_9.63 // शब्दस्य विषयतामापन्नस्य असंनिधानादयोग्यदेशात् ग्रहणं न स्यात्- यदि, एवमभिधीयते, ततस्तत् ज्ञानमप्यसत् / तत् तस्मात् तर्हि शब्दस्यासंनिधानात् तत् ज्ञानमपि शब्दज्ञानम् असदविद्यमानम् / शब्दज्ञानमेव तर्हि तन्न भवतीत्यर्थः //

किं च / यदि शब्दज्ञानं तदा रूपग्रहणाद्यात्मकं तन्न युज्यते इत्याह शब्दग्रहणेत्यादि-

शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम् /

शब्दस्य ग्रहणरूपं शब्दस्य ग्रहणस्वभावम् / शब्दग्राहकमिति यावत् / यत् ज्ञानं तद् रूपग्रहणं रूपग्रहणात्मकं कथम्? न कथंचिदपि स्यात् / एकस्य निरंशस्य रूपद्वयायोगात् / ननु यथा कश्चिदेक एव कस्यचिदपेक्षया पिता, कस्यचिदपेक्षया च स एव पुत्रः स्यात्, तथा प्रकृते ऽपि रूपद्वयमेकस्य भविष्यतीत्याह एकः पितेत्यादि- एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः // bca_9.64 // एकः पिता एव जनकः पुत्रश्च जन्यः स एवेति कल्प्यते, स तु तदपेक्षया कल्पनया व्यवस्थाप्यते / न तु तत्त्वतः, न पुनः परमार्थतः / एक एव स्वभावः उभयात्मकः कल्पनासमारोपितव्यपदेशात् [रूपभेदेन] पुनरेक एव तथा नानाभिधानेन नैवाभिधीयते / उभयवास्तवरूपद्वयमेकस्य घटनीयम्, तच्च कथंचिदपि न संगच्छते, रूपद्वयव्यतिभिन्नतया वस्तुनो ऽपि द्वित्वप्रसङ्गात् / तस्मात् यथा वास्तवमेकस्य द्विरूपत्वं तन्न दृष्टान्तधर्मिण्यस्ति, यच्चास्ति काल्पनिकम्, तत् प्रकृतानुपयोगीति यत्किंचिदेतत् //

इतो ऽपि न पारमार्थिको ऽयं व्यपदेश इत्याह सत्त्वं रज इति-

सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः /

एतच्च अवश्यं त्वयापि स्वीकर्तव्यम्- सांख्यमते हि त्रिगुणमेकं जगत्, ततः सत्त्वं रजस्तमो वापीति समुदायः समुच्चयार्थः / यतो यस्मादेते गुणाः स्वस्वभावावस्थिताः प्रत्येकं समुदिता वा / तस्मान्न पिता न पुत्रः परमार्थतः / सर्वदा गुणा एव केवलाः सन्ति / अयमर्थः- पुत्रावस्थायां ये सत्त्वरजस्तमोलक्षणा गुणाः, ते एव प्राप्तजनकभावा अपि तेन पूर्वापरकालयोरविशिष्टस्वभावा एव / ते ततस्तदपेक्ष्य पिता पुत्रश्चाभिधीयन्ते, न तु तत्र कश्चिद्विशेषः / ततः काल्पनिक एवायं व्यवहारः / यदि च रूपग्रहणकाले ऽपि शब्दग्रहणात्मकमेकमेव तज्ज्ञानम्, तदा तत्स्वभावमुपलभ्येत, न चोपलभ्यते / ततो न तद्ग्रहणात्मकमित्याह शब्दग्रहणेत्यादि- शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते // bca_9.65 // शब्दग्रहणेन युक्तः संबद्धः / तुशब्दो विशेषाभिधाने / स्वभावस्तस्य रूपग्राहकस्य ज्ञानस्य नेक्ष्यते न प्रतीयते / अतस्तदा तस्य शब्दग्रहणता नास्तीति निश्चीयते //

स्यादेतत्- यदि नाम न प्रतीयते, तथापि तदेव तत् / कथं तर्हि रूपग्रहणमित्याह तदेवेत्यादि-

तदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः /

तदेव शब्दज्ञानम् / अन्येन रूपेण स्वभावेन रूपग्रहणात्मकेन रूपं गृह्णातीति शेषः / कथमिव तस्यानुरूपता? नटवत् / यथा नाट्यसमये रङ्गभूमिगतो नटः एक एव (bcp 218) नानारूपेणावतरति, तथा प्रकृते ऽपीति न दोषः / अत्राह- सो ऽप्यशाश्वतः इति अनित्यः पूर्वस्वभावपरित्यागेन रूपान्तरमाविशति / न च पूर्वापरकालयोरेकस्वभाव एव नटो नानारूपसंबन्धात्, अन्यथा तस्य रूपद्वयमेकदेति भाषेत / इति साध्यविकलो दृष्टान्तः / अथापि स्यात्- भावः स एव / स्वभावः पुनरस्य अपरापर उत्पद्यते निरुध्यते च / ततः अयमदोष इत्यत्राह स एवान्येत्यादि- स एवान्यस्वभावश्चेदपूर्वेयं तदेकता // bca_9.66 // स एवात्मा नटो वा / अन्यस्वभावः अपरस्वभावः / चेद् यदि उच्यते, तदा अपूर्वेयं तदेकता, अपूर्वेयमदृष्टपूर्वेयमीदृशी तदेकता / तस्य भावस्य अपरस्वभावोत्पत्तावपि एकता अभिन्नात्मता / तथा हि- स एवेति तत्त्वमाख्यायते, पुनरन्यस्वभाव इति तस्यैव अन्यत्वम् / न चैतत् परस्परविरुद्धधर्मद्वयमेकस्य युक्तम् / न हि भावो नाम अन्य एव स्वभावात्, येन तस्योत्पादनिरोधयोरपि भावस्य तौ न स्याताम् / नापि तदभिन्नस्य स्वभावस्य उत्पादनिरोधयोर्भावस्य तादवस्थ्यं युक्तमभेदाभावप्रसङ्गात् / भेदे वा संबन्धासिद्धिरिति भावः //

स्यादेतत्- भवत्वेव एष प्रसङ्गः यदि रूपद्वयमस्यात्मनः सत्यं स्यात् / किं तर्हि निजमस्य रूपमपहाय अपरं रूपमतात्त्विकम्, तेन नोक्तदोषप्रसङ्गः, इत्याशयमाशङ्कयन्नाह अन्यद्रूपमित्यादि-

अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम् /

अन्यद्रूपं तद्विषयोपाधिकं स्फटिकोपलस्येव असत्यमस्वाभाविकम्, इति चेद्यदि, तर्हि निजं तद्रूपमुच्यताम् निजं स्वाभाविकं तस्यात्मनो रूपं तत्त्वमुच्यताम् / अस्त्येवान्यद्रूपं तस्य / किं तत्? ज्ञानता चेत्- ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते // bca_9.67 // ज्ञानात्मतैव तस्य पूर्वापरकालानुगामिनी निजं रूपम् / किमन्यद्वक्तव्यम्? [तद्रूपेण पूर्वापरान्यरूपसंबन्धे ऽपि स्फटिकवद् यदि एको ऽस्तीत्युच्यते, एवं सर्वपुंसामैक्यं प्रसज्यते, एवं ज्ञानत्वेन तत्साधारणरूपत्वात् / तद्यथा पूर्वपरकालिकयोः शब्दरूपज्ञानयोर्भिन्नाकारत्वाद् भिन्नयोरप्येकत्वमेव, तथा सर्वसत्त्वानां प्राणिगतिगतानामेकात्मता प्रसज्यते] आपद्यते, वस्तुतो भेदे ऽपि विशेषाभावात् //

इत्थं च पुनरिदमतिप्रसज्यते इत्याह चेतनेत्यादि-

चेतनाचेतने चैक्यं तयोर्येनास्तिता समा /

यदि वा अवान्तरं भेदनिबन्धनं विशेषमपास्य किंचिदाकारकमाश्रित्य एकत्वमुच्यते तदा चेतना पुरुषधर्मः, अचेतना प्रकृत्यादिधर्मः / चकारो दोषान्तरसमुच्चये / ते ऽपि एकमभिन्नं वस्तु स्याताम् / कथम्? तयोश्चेतनाचेतनयोः येन कारणेन अस्तिता समा / सापि भावानां निजं रूपम् / समा द्वयोरपि तुल्या /

ननु च / अत्रापि सादृश्यनिबन्धनमिष्यते एव एकत्वं वस्तुभेदे ऽपि / ततो ऽयमिष्टप्रसाधनाददोष इत्याह विशेषश्चेत्यादि- विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा // bca_9.68 // दूषणान्तरद्योतने चकारः / विशेषो भेदः सर्वभावानामनियमेन यदा मिथ्या असत्यम् [त्यः?], निजमेव रूपं सत्यम्, तदा कः सादृश्याश्रयः स्यात्? किमाश्रित्य सादृश्यं व्यवस्थाप्यते? विशेषसद्भावे हि किंचिन्मात्रसाधर्म्येण सादृश्यं स्यात् / विशेषाभावे च तदेव तत् स्यान्न सदृशम् / न हि गोगवययोर्गोविशेषमननुभवन् न गवयो गोसदृशो भवेत्, अपि तु गौरेव स्यात् / अतो विशेष एव सादृश्याश्रयः / स च यदा पारमार्थिको न भवति, तदा कः सादृश्यस्य समानाकारतायाः पुंसामन्यस्य वा आश्रयो निबन्धनं वा भवेत्? नैव कश्चिदित्यर्थः / अतो वस्तुत एव एकत्वमापतितं भवतः, न सादृश्यकृतम् / तत् कथं सिद्धसाधनाददोष इत्युच्यते?

एवं कापिल [जैन]जैमिनीयपरिकल्पितस्य चित्स्वभावस्यात्मनः सत्त्वमसिद्धम् / उपनिषद्वादिपरिकल्पिते ऽपि यथासंभवं दूषणमभिधेयमिति //

सांप्रतमचेतनस्य नैयायिकादिपरिकल्पितस्यात्मनः सद्वयवहारप्रतिषेधायाह अचेतनश्चेत्यादि-

अचेतनश्च नैवाहमाचैतन्यात्पटादिवत् /

चेतनस्तावदात्मा उक्तक्रमेण न युज्यते / अचेतनो ऽपि नैवाहमात्मा युक्त इति चकारार्थः / कुतः? आचैतन्यात् चैतन्याभावात् / न विद्यते चेतना अस्येत्यचेतनः / तस्य भावः आचैतन्यम् / उभयपदवृद्धिः पारलौकिकादिवत् / तस्मात् / अचेतनत्वादित्यर्थः / कथमिव? पटादिवत् / यथा पटवृक्षपर्वतादयः चैतन्यविरहादात्मा न भवन्ति, तथा अभिमतो ऽपि / कर्मकर्तृत्वादेरस्याभ्युपगमात् / अन्यथा न किंचित् प्रयोजनं तेन / न च अचेतनस्य तद्युक्तम्, यथा पटादेः / यदि नाम स्वयमसावचेतनः, तथापि बुद्धेश्चेतना चेतयते, तेनायमदोषः इति पराभिप्रायं संभावयन्नाह अथ ज्ञ इत्यादि- अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते // bca_9.69 // अथेति पृच्छायाम् / अथायमात्मा चेतनायोगाद् बुद्धिसमवायात् स्वयमचेतनो ऽपि ज्ञो भवति / जानातीति ज्ञः इति कप्रत्ययान्तस्य रूपम् / एवमुपगम्यमाने अज्ञो नष्टः प्रसज्यते / यदा तर्हि मदमूर्च्छावस्थायां चेतनानिवृत्तौ अयमात्मा अज्ञो न किंचिदपि जानाति, तदा नष्टः प्राक्तनचैतन्यसंबद्धस्वभावपरित्यागाद्विनष्टः प्रसज्यते //

चैतन्यसंबन्धासंबन्धकालयोरेकस्वभावत्वान्नायं दोष इति परमाशङ्कयन्नाह अथाविकृत इत्यादि-

अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् /

अथ चैतन्योत्पादनिरोधयोरविकृत एव अनुत्पन्नानिरुद्धस्वभाव एवात्मा / यद्येवम्, तर्हि चैतन्येनास्य किं कृतम्, अचेतनस्य सर्वकालमविकृतस्य सतः अस्यात्मनः चैतन्येन बुद्धिसमवायेन किं कृतम्, किमतिशयाधानमनुष्ठितम्? न किंचित् / बुद्धिसमवाये ऽपि तथैवाप्रच्युतप्राच्यस्वभावस्य अवस्थानादचेतन एवात्मा / तथा च सति किमनुष्ठितं भवद्भिरित्याह- अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता // bca_9.70 // अज्ञस्य किंचिदपि हिताहितं ज्ञातुमशक्तस्य निष्क्रियस्य निर्गतो बहिर्भूतः क्रियाया इति निष्क्रियः / तस्य सर्वप्रतीकाररहितस्य अनाधेयातिशयतया असंस्कर्तव्यस्य / अथवा सर्वकर्मणि शक्तिविकलस्य गमनाधिक्रियाशून्यस्य वा आकाशस्य प्रकृतानुपयोगित्वादाकाशकल्पस्य / एवं सति आत्मता आत्मस्वभावव्यवस्था व्यवस्थापिता / एतच्च स्वमतेनोदाहरणम् / यथा निःस्वभावतया सर्वक्रियाशून्यं प्रज्ञप्तिसन्मात्रमाकाशम्, तथा आत्मापीत्यर्थः / परमतेनापि वा / यथा च न कर्मकर्त्रादिरूपमाकाशमचेतनत्वादक्रियत्वाच्च, तथा आत्मपीति भावः //

इदानीं पुनरन्यथा आत्मप्रतिषेधबाधकं परमतेनोत्थापयन्नाह न कर्मेत्यादि-

न कर्मफलसंबन्धो युक्तश्चेदात्मना विना /

यदि न कश्चिदेकः परलोकी स्यात्, तदा तेनात्मना परलोकगामिना विना अन्तरेण कर्मफलसंबन्धो ऽयुक्तः / कर्म शुभाशुभम्, फलं च तस्यैव इष्टानिष्टलक्षणम्, तयोः संबन्धः / कर्मणः कृतस्य फलेन वा संबन्धः / येनैव कृतं कर्म, तस्यैव तत्फलप्रतिलम्भो नान्यस्येति / न युक्तो न घटते / इष्यते च परलोके कर्मफलसंबन्धः / तत्र च सौगतानामप्यविवादः / तथा च सूत्रम्-

अनेनैव कृतं कर्म, को ऽन्यः प्रत्यनुभविष्यति? न हि भिक्षवः कृतोपचितानि कर्माणि पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ / उपात्तेष्वेव स्कन्धधात्वायतनेषु............ इति विस्तरः /

उक्तं च-

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् //

इति /

ततः कर्मफलसंबन्धो ऽनिवारितो भवतामपि / तस्मादवश्यमङ्गीकर्तव्य आत्मा / अन्यथा सर्वमेतदसंगतं स्यात् / कथमसति आत्मनि कर्मफलसंबन्धो घटते इत्याह कर्म कृत्वेत्यादि- कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति // bca_9.71 // हि यस्मात् कर्म कृत्वा कर्मोत्पाद्य शुभाशुभलक्षणम् / विनष्टे निरुद्धे सति कर्मकर्तरि / फलं कस्य भविष्यति / आत्मनो ऽसत्त्वे परलोकगामिनः कस्यचिदभावात् / येन चित्तक्षणेन कृतं कर्म, तस्य क्षणिकतया तत्कर्मक्रियाकाले निवृत्तत्वात्, कृतस्य कर्मणः फलं सुगतौ दुर्गतौ वा सुखदुःखात्मकं कस्य भविष्यति उत्पत्स्यते? नैव कस्यचित् स्यात् / परलोके च कृतकर्मण एव फलयोगिनो ऽन्यस्य कस्यचिदुत्पादात्, इति कृतविप्रणाशो ऽकृताभ्यागमश्च स्यात् //

उपलक्षणं चैतत् / स्मृतिप्रत्यभिज्ञानसंशयनिर्णयस्वयंनिहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारणभावतदधिगतप्रमाणबन्धमोक्षादयो ऽपि न स्युः चेद्यदि मतम्, तन्न युक्तमित्याह द्वयोरित्यादि-

द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले /

द्वयोरप्यावयोः / आत्मवादिनो भवतः, मम च नैरात्म्यवादिनः / सिद्धे निश्चिते / के सिद्धे? आहभिन्नाधारे क्रियाफले कर्म क्रिया अस्मिन् भवे, तस्याः फलं परलोके / ते भिन्नाधारे नानाधिकरणे सिद्धे / तथाहि- न येनैव शरीरेण तस्मिन् जन्मनि कर्म करोति, तेनैव प्रेत्य फलमुपभुङ्क्ते / अतः अन्यदेव कर्मकर्तृ, तदन्यच्च फलभोक्तृ / अतो भिन्नाधारे क्रियाफले भवतः / अत्र च अविप्रतिपत्तिरावयोः / स्यादेतत्- आत्मव्यापारमन्तरेण ते एव कर्तृत्वोपभोक्तृत्वे न स्यातामित्यत्राह- निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु // bca_9.72 // निर्व्यापारो व्यापाररहितः / तत्र तयोः कर्मक्रियाफलोपभोगयोः आत्मा निष्क्रियत्वादचेतनत्वात् / नित्यत्वान्न क्वचिदपि क्रियायां समर्थः / यदप्युक्तम्-

ज्ञानमात्रादिसंबन्धः कर्तृत्वं तस्य भण्यते / सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता // इति / [तत्त्वसंग्रह-176] तदपि पूर्वापरकालयोरविचलितस्वभावस्य उक्तक्रमेण न संगच्छते / इति हेतोरत्रात्मनि निर्व्यापारे वादो विवादो वृथा निष्फलः / यदर्थमसावङ्गीकृतः, तत्र तस्यानुपयोगित्वात् / नन्विति परसंबोधने //

ननु यदि आत्मा न भवेत्, कथं तर्हि कृतविप्रणाशादिदोषो न स्यात्? ततो न वृथा तद्वाद इत्याह हेतुमानित्यादि-

हेतुमान् फलयोगीति दृश्यते नैष संभवः /

यो हेतुमान् कर्मणा युक्तः, स एव फालयोगी फलसंबद्धः इति एवमेष संभवो न दृश्यते, नोपलभ्यते / यस्मात्-

अन्य एव मृतो लोके जायते अन्य एव हि /

ततो हेतुमतः फलयोगो न दृश्यते / एतत्तर्हि कथं नीयते यदुक्तम्- अनेनैव कृतं कर्म, को ऽन्यः प्रत्यनुभविष्यतीति? अत्राह संतानस्येत्यादि- संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् // bca_9.73 // संतानस्य उत्तरोत्तरानेकक्षणपरंपरालक्षणस्य कार्यकारणभावे न प्रवर्तमानस्य ऐक्यमाश्रित्य अनेकेषु एकत्वं लोकाध्यवसायवशादारोपितमेव निमित्तीकृत्य कर्ता भोक्ता इति देशितम्- य एव कर्मणः कर्ता स एव तत्फलस्योपभोक्ता च / इत्येतद्देशितत्वे ऽपि नेयाभिप्रायवशात् भगवता प्रकाशितम् / अन्यथा कर्मफलोच्छेदं मन्येत जनः / न तु तावता उभयलोकानुगामिनः सत्त्वमाख्यातम् / अत एव च तत्रैवोक्तम्- उपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते इति / तथा चेतना कर्म, चेतयित्वा कर्म इति वचनाच्च / तदुक्तम्-

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् / चेतना मानसं कर्म तज्जे वाक्कायकर्मणी // इति / [अभि. को. 4.1] अन्यत्राप्युक्तम्-

सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम् / कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय न चास्ति // इति / [म. अ. 6.89] तस्मान्न चित्तविनिर्मुक्तमन्यत् कर्मास्ति / तच्च कुशलाकुशलं चित्तमुत्पद्य निरुध्यमानं स्वोपादेयचित्तक्षणे कुशलाकुशलादिसंस्कारविशेषवासनामादधाति / तदपि तदाहितवासनमुत्तरोत्तरतदभिसंस्कृतक्षणपरंपराविच्छेदतः संतानप्रवर्तमानं परिणतिविशेषमुपगच्छत् कर्मविशेषानुरूपं तथाविधं सुखादिस्वभावं चित्तात्मकमेव फलमभिनिर्वर्तयति परलोके / तद्यथा क्षितिबीजादयः परस्परोपसर्पणप्रत्ययविशेषात् समधिगतातिशयतया प्रथमक्षणोपनिपातिनः स्वोपादेयभूतद्वितीयक्षणकलापे कार्योत्पादानुगुणविशेषोत्पादनद्वारेण तदुत्तरोत्तरतारतम्यमुपजनयन्तः संततिपरिणामविशेषादन्त्यक्षणलक्षणं प्रकर्षपर्यन्तमासादयन्तो बीजानुरूपशालिकोद्रवाङ्कुरमुत्पादयन्ति / यथा च लाक्षारसपरिभावितं मातुलुङ्गादिबीजमुप्तं तत्संस्कारपरंपराप्रवृत्तेः तत्पुष्पादिषु रक्ततामुत्पादयति, न च तत्र कश्चित् पूर्वापरकालयोरेको ऽनुगामी समस्ति / तच्च कुशलाकुशलसमानस्यापि (?) कल्पनोपस्थापितत्वात् नोपन्यासो युक्तः / तदुक्तम्-

यस्मिन्नेव हि संताने आहिता कर्मवासना / फलं तत्रैव बध्नाति कर्पासे रक्तता यथा //

इति /

तस्माद्यथा बीजादिषु आत्मानमन्तरेणापि प्रतिनियमेन कार्यं तदुत्पत्तिश्च क्रमेण भवति, तथा प्रकृते ऽपि परलोकगामिनमेकं विनापि कार्यकारणभावस्य नियामकत्वात् प्रतिनियतमेव फलम्, क्लेशकर्माभिसंस्कृतस्य संतानस्य अविच्छेदेन प्रवर्तनात् परलोके फलप्रतिलम्भो ऽभिधीयते, इति नाकृताभ्यागमो न कृतविप्रणाशो बाधकम् / ततो नात्मानमन्तरेण कर्मफलसंबन्धो न युज्यते / यथा च सत्येवात्मनि स न घटते, तथा सप्रचयमुच्यमानमतिविस्तरं स्यादिति नेह प्रतन्यते // आह च-

नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् / अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् //

इति // [अभि. को.]

पुद्गलतद्वादिभिस्तत्त्वान्यत्वप्रतिषेधपक्षाभ्युपगमात् स्वयमेव वस्तुत्वं प्रतिषिद्धम् / वस्तुनो हि तत्त्वान्यत्वप्रकारानतिक्रमात्, परस्परपरिहारवतोरेकप्रतिषेधापरविधिनान्तरीयकत्वात् / भारहारादिसूत्रमपि समर्थितमत्रार्थे / तस्मादाभिप्रायिकीं भगवतो देशनामजानद्भिः परिकल्पितो ऽसौ, न वस्तुसत् / वस्तुत्वाभ्युपगमे नान्यत्वम्, इत्यात्मनो निराकरणेनैव निरस्तः, इति न पुनर्विशेषेण प्रतिषेधितः / उक्तं चैतद्भगवता-

इति हि भिक्षवः अस्ति कर्म, अस्ति फलम् / कारकस्तु नोपलभ्यते य इमान् स्कन्धान् विजहाति, अन्यांश्च स्कन्धानुपादत्ते, अन्यत्र धर्मसंकेतात् / अत्रायं धर्मसंकेतः, यदस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते इति //

एतेन भगवतैव इदंप्रत्ययतामात्रलक्षणः कार्यकारणभावो ऽपि दर्शित एव / अयमपि च संतानस्येत्यनेन [संतान एक इत्यनेन] यथाव्यवहारमनिरूपितस्वरूपः सूचित एव, संतानवचनेन इदंप्रत्ययतामात्रस्याभ्युपगमात् / अन्यथा संतान एव न स्यात् / तेन वास्तवकार्यकारणभावभाविनो दोषा नावलीयन्ते / इदमेव आचार्यपादैरप्युक्तम्-

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु / दृष्टा शक्तिर्मता सा चेत्संवृत्यास्तु यथा तथा //

इति /

कार्यकारणभावप्रतिनियमादेव स्मृत्यभावो ऽपि निरस्तः / एकस्यानुगमात्मनो ऽभावात् न स्मर्ता कश्चिदिह विद्यते, किं तर्हि स्मरणमेव केवलमारोपवशात् स्मर्यमाणवस्तुविषयम् / न च अत्र स्मर्तुरभावे ऽपि कश्चिद् व्याघातः / अनुभूते हि वस्तुनि विज्ञानसंताने स्मृतिबीजाधानात् कालान्तरेण संततिपरिपाकहेतोः स्मरणं नाम कार्यमुत्पद्यते / एवं प्रत्यभिज्ञानादयो ऽपि द्रष्टव्याः / अतिविस्तरभयात् प्रत्येकमिह न प्रतिविधीयन्ते इति तत्समर्थनमन्यत्रैव विस्तरेणावधार्यमिति //

सर्वमेतत् संवृतिसत्यमुपादाय समर्थितम् / परमार्थे तु सर्वधर्माणां निःस्वभावत्वात् सर्वविकल्पोपरमाच्च न किंचिदुत्पद्यते वा निरुध्यते वा सात्मकमनात्मकं वा / नापि विचार्यमाणं कर्म तत्फलं वा, नापि इहलोको न परलोको वा न कश्चिदस्ति, कल्पनाविठपितत्वात् / तस्मात् सर्वमेतत् प्रतिबिम्बसंनिभं निःस्वभावमुत्पद्यते निरुध्यते च / कार्यकारणं च सात्मकं निरात्मकं च नित्यमनित्यं चाभिधीयते / स्वप्नवत् कर्मकर्तृत्वम्, तत्फलोपभोगः, इहलोकः, परलोकः, सुगतिदुर्गतिगमनं च कल्पनानामप्रहाणात् / इति सर्वत्र सुस्थम् / यद्वक्ष्यति-

एवं न च निरोधो ऽस्ति न च भावो ऽस्ति तत्त्वतः / अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् //

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः / इत्यादि / [बोधि. 9.151-52]

उक्तं च-

कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः / परस्परापेक्षिकी तु सिद्धिस्ते ऽभिमतानयोः //

न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् / यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया // इति / [चतुः 2.8-9] यथा निरात्मानश्च सर्वे धर्माः कर्मफलसंबन्धाविरोधश्च, निःस्वभावता च, यथा दृष्टसर्वधर्माविरोधश्च, तथा पितापुत्रसमागमे देशितम् / तदुक्तम्-

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.