Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/10

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिचर्यावतारपञ्जिका

Tác giả
प्रज्ञाकरमति
Thông tin
GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते / निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका // bca_8.176 //

तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये / भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते // bca_8.177 //

भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते / अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः // bca_8.178 //

किं ममानेन यन्त्रेण जीविना वा मृतेन वा / लोष्टादेः को विशेषो ऽस्य हाहंकारं न नश्यसि // bca_8.179 //

शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते / किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा // bca_8.180 //

मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा / न च स्नेहो न च द्वेषस्तत्र स्नेहं करोमि किम् // bca_8.181 //

रोषो यस्य खलीकारात्तोषो यस्य च पूजया / स एव चेन्न जानाति श्रमः कस्य कृतेन मे // bca_8.182 //

इमं ये कायमिच्छन्ति ते ऽपि मे सुहृदः किल / सर्वे स्वकायमिच्छन्ति ते ऽपि कस्मान्न मे प्रियाः // bca_8.183 //

तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते / अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् // bca_8.184 //

तेनालं लोकचरितैः पण्डिताननुयाम्यहम् / अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् // bca_8.185 //

तस्मादावरणं हन्तुं समाधानं करोम्यहम् / विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् // bca_8.186 //

बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः /

9. प्रज्ञापारमिता नाम नवमः परिच्छेदः //

या निर्लेपतया निरुत्तरपदं सर्वप्रपञ्चोज्झिता प्रज्ञापारमितादिसंवृतिपदैराख्यायते ऽनास्रवा / यां सम्यक्प्रतिपद्य निर्मलधियो यान्त्युत्तमां निर्वृतिं तां नत्वा विधिवत् करोमि विवृतिं तस्याः प्रसन्नैः पदैः // *1 //

यत्राचार्यो गुणनिधिरसौ शान्तिदेवः प्रकाशं वक्तुं शक्तः प्रवचनमहाम्भोधिपारं प्रयातः / किं तस्यार्थं हतमतिरहं वक्तुमीशस्तथापि प्रज्ञाभ्यासात्सुकृतमसमं यत्ततो ऽस्मि प्रवृत्तः // *2 //

न नाम काचिद्गुणलेशवासना मतेर्न मे ऽस्ति प्रतिभागुणो ऽर्जितः / तथापि सन्मित्रनिषेवणाफलं यदेव मे तादृशि वाक् प्रसर्पति // *3 //

अथ यो नाम कश्चिद् गोत्रविशेषात् पर्युपासितकल्याणमित्रतया त्रिजगत्पर्यापन्नसमस्तजनदुःखदुःखी सर्वप्राणभृतां निःशेषदुःखसमुद्धरणाशयः स्वसुखनिरपेक्षः तत्प्रशमोपायभूतं बुद्धत्वमेव मन्यमानः तत्प्राप्तिवाञ्छया समुत्पादितबोधिचित्तो महात्मा सौगतपदसाधनोपायभूतसंभारद्वयपरिपूरणार्थं क्रमेण दानादिषु प्रवर्तते / तस्य तथा प्रवर्तमानस्य सम्यक्प्रतिपन्नशमथस्यापि दानादयः प्रज्ञाविकलतया जगदर्थसंपादननिदानं बुद्धत्वं नावहन्तीत्यभिसंधाय अवश्यं संसारदुःखनिर्मोक्शार्थिना प्रज्ञोत्पादनाय यतितव्यम् / यथोक्तम्-

शमथेन विपश्यनासुयुक्तः [8.4]

इत्यादि / तत्र शमथप्रतिपादनं कृतम् / इदानीं तदनन्तरप्राप्तां विपश्यनां प्रज्ञापरनामधेयां प्रतिपादयन्नाह-

इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ / तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया // bca_9.1 //

इममिति समनन्तरमिह शास्त्रे लक्षणतः प्रतिपादितं दानादिकमिदंतया प्रत्यक्षतया परामृशति / परिकरमिति परिवारं परिच्छेदम् / संभारमिति यावत् / सर्वमुक्तप्रकारमन्यच्च / (bcp 168) प्रज्ञार्थ हि मुनिर्जगाविति संबन्धः / प्रज्ञा यथावस्थितप्रतीत्यसमुत्पन्नवस्तुतत्त्वप्रविचयलक्षणा, सैव अर्थः प्रयोजनं संबोधिहेतुभावोपनायकतया यस्य दानादिलक्षणस्य परिकरस्य स तथा, तमिति / दानपारमितादिषु धर्मप्रविचयस्वभावायाः प्रज्ञायाः प्रधानत्वात् / तथा हि दानं संबुद्धबोधिप्राप्तये प्रथमं कारणम्, पुण्यसंभारान्तर्भूतत्वात् / तच्च शीलालंकृतमेव सुगतिपरंपरां सुखभोगोपकरणसंपन्नामावहदनुत्तरज्ञानप्रतिलम्भहेतुः / क्षान्तिरपि तद्विपक्षभूतप्रतिघप्रतिपक्षतया दानशीलसुकृतमयं संभारमनुपालयन्ती सुगतत्वाधिगतये संप्रवर्तते / एतच्च शुभं दानादित्रितयसंभूतं पुण्यसंभाराख्यं वीर्यमन्तरेण न भवतीति तदपि उभयसंभारकारणतया सर्वावरणप्रहाणाय समुपजायते / समाहितचित्तस्य च यथाभूतपरिज्ञानमुत्पद्यत इति ध्यानपारमितापि अनुत्तरज्ञानहेतुरुपपद्यते / एवमेते दानादयः सत्कृत्य संभृता अपि प्रज्ञामन्तरेण सौगतपदाधिगमहेतवो न भवन्तीति नापि पारमिताव्यपदेशं लभन्ते / प्रज्ञाकृतपरिशुद्धिभाजः पुनः अव्याहतोदारप्रवृत्तितया तदनुकूलमनुवर्तमानाः तद्धेतुभावमधिगच्छन्ति, पारमितानामधेयं च लभन्ते / तथा दातृदेयप्रतिग्राहकादित्रितयानुपलम्भयोगेन प्रज्ञापरिशोधिताः सादरनिरन्तरदीर्घकालमभ्यस्यमानाः प्रकर्षपर्यन्तमुपगच्छन्तः अविद्याप्रवर्तितसकलविकल्पजालमलरहितं क्लेशज्ञेयावरणविनिर्मुक्तमुभयनैरात्म्याधिगमस्वभावं सर्वस्वपरहितसंपदाधारभूतं परमार्थतत्त्वात्मकं तथागतधर्मकायमभिनिर्वर्तयन्तीति प्रज्ञाप्रधाना दानादयो गुणा उच्यन्ते //

न चैतद्वक्तव्यम्- यदि प्रज्ञा प्रधानं दानादीनाम्, सैव केवला संबोधिसाधनमस्तु, किमपरैर्दानादिभिरिति / तदन्येषामुपयोगस्य वर्णितत्वात्, केवलं नेत्रविकला इव दानादयः प्रज्ञानेतृका एव यथाभिमतां सौगतीं भूमिमभिसरन्तीति प्रज्ञोपनायका उच्यन्ते, न तु प्रज्ञैव केवला सम्यक्संबोधिसाधनम् / तस्माद्दानादिपरिकरः प्रज्ञार्थः इति सिद्धम् //

सर्वकल्पनाविरहात् समारोपापवादान्तद्वयमौनात् अशैक्षकायवाङ्मनःकर्मलक्षणमौनत्रययोगाद्वा मुनिर्बुद्धो भगवान् / त्रिदुःखतादुःखितसर्वजगत्परित्राणाध्याशयो जगौ जगाद / उक्तवानित्यर्थः / आर्यप्रज्ञापारमितादिसूत्रान्तेषु प्रज्ञार्थमुक्तवान् क्रमेण दानादिपरिकरम् / यथोक्तमार्यशतसाहस्रयां प्रज्ञापारमितायाम्-

तद्यथापि नाम सुभूते सूर्यमण्डलं चन्द्रमण्डलं च चतुर्षु द्वीपेषु कर्म करोति, चतुरश्च द्वीपाननुगच्छति अनुपरिवर्तते, एवमेव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति, पञ्च पारमिता अनुगच्छति, अनुपरिवर्तते, प्रज्ञापारमिताविरहितत्वात् पञ्च पारमिताः पारमितानामधेयं न लभन्ते / तद्यथापि नाम सुभूते राजा चक्रवर्ती विरहितः सप्तभी रत्नै श्चक्रवर्तिनामधेयं न लभते, एवमेव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वान्न पारमितानामधेयं लभन्ते / तद्यथापि नाम सुभूते याः काश्चन कुनद्यः, सर्वास्ता येन गङ्गा महानदी तेनानुगच्छन्ति / ता गङ्गया महानद्या सार्धं महासमुद्रमनुगच्छन्ति, एवमेव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति / इति विस्तरः //

पुनश्चोक्तम्-

इयं कौशिक प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां दानपारमितामभिभवति, शीलपारमितामभिभवति, क्षान्तिपारमितामभिभवति, [वीर्यपारमितामभिभवति,] ध्यानपारमितामभिभवति / तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा अपरिणायकानामभव्यं मार्गावतरणाय, कुतः पुनर्नगरानुप्रवेशाय, एवमेव कौशिक अचक्षुष्काः पञ्च पारमिता जात्यन्धभूता भवन्ति विना प्रज्ञापारमितया अपरिणायकाः, विना प्रज्ञापारमितया अभव्या बोधिमार्गावतरणाय, कुत एव सर्वाकारज्ञतानगरानुप्रवेशाय / यदा पुनः कौशिक पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता भवन्ति, तदा एताः पञ्च पारमिताः सचक्षुष्का भवन्ति / प्रज्ञापारमितापरिगृहीताश्चैताः पञ्च पारमिताः पारमितानामधेयं लभन्ते // इति विस्तरः //

एवमन्यत्रापि यथासूत्रमवगन्तव्यम् / उक्तं च-

सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिते / चन्द्रलेखेव ताराभिरनुयातासि सर्वदा // इति // [प्रज्ञापारमितास्तव-8] अथवा- इममिति समनन्तरप्रक्रान्तरूपं शमथात्मकं प्रबन्धम् / परिकरमिति प्रज्ञासमुत्थापकतया तत्कारणसंदोहं पीठिकाबन्धं च / प्रज्ञार्थमिति प्रज्ञैव पूर्वोक्ता अर्थः प्रयोजनं साध्यतया यस्य तम् / शमथपरिशोधितचित्तसंताने प्रज्ञायाः प्रादुर्भावात् सुप्रशोधितक्षेत्रे सस्यनिष्पत्तिवत् / यथोक्तं शिक्शासमुच्चये-

किं पुनरस्य शमथस्य माहात्म्यम्? यथाभूतज्ञानजननशक्तिः / यस्मात्-

समाहितो यथाभूतं जानातीत्युक्तवान् मुनिः / इति // [शिक्षासमुच्चयकारिका-9]

एतदपि धर्मसंगीतावुक्तम्-

समाहितचेतसो यथाभूतदर्शनं भवति / यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते / इदं मया समाधिमुखं सर्वसत्त्वानां निष्पादयितव्यम् / स तया महाकरुणया संचोद्यमानो ऽधिशीलमधिचित्तमधिप्रज्ञं च शिक्षाः परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते / इति विस्तरः //

हिरिति यस्मात् प्रज्ञार्थं दानादिपरिकरं शमथात्मकपरिकरं वा मुनिर्जगौ, तस्मादुत्पादयेत् प्रज्ञामिति योजनीयम् / उत्पादयेदिति निष्पादयेत् साक्षात्कुर्यात् भावयेत सेवयेत् बहुलीकुर्याद्वा //

सा च प्रज्ञा द्विविधाहेतुभूता फलभूता च / हेतुभूतापि द्विविधा अधिमुक्तिचरितस्य च भूमिप्रविष्टस्य च बोधिसत्त्वस्य / फलभूता तु सर्वाकारवरोपेता सर्वधर्मशून्यताधिगमस्वभावा (bcp 170) अनिमित्तयोगेन / तत्र प्रथमतो हेतुभूता श्रुतचिन्ताभावनामयी क्रमेण अभ्यासाद्भूमिप्रविष्टस्य प्रज्ञां निर्वर्तयति / सा च अपरापरभूमिप्रतिलम्भयोगेन प्रकर्षमभिवर्धयन्ती यावदुभयावरणविगमात् सकलकल्पनाजालविगतबुद्धत्वस्वभावप्रज्ञां निष्पादयति / अत एवाहदुःखनिवृत्तिकाङ्क्षयेति / दुःखस्य पञ्चगतिसंगृहीतसत्त्वराशिगतस्य स्वात्मगतस्य च सांसारिकस्य जातिव्याधिजरामरणस्वभावस्य प्रियविप्रयोगाप्रियसंप्रयोगपर्येष्यमाणलाभविघात लक्षणस्य, संक्षेपतः पञ्चोपादानस्कन्धात्मकस्य च, निवृत्तिः निर्वाणम् उपशमः / पुनरनुत्पत्तिधर्मकतया आत्यन्तिकसमुच्छेद इत्यर्थः / तस्याः काङ्क्षया अभिलाषेण / छन्देनेति यावत् / तथाहि विपर्याससंज्ञिनो ऽसत्सत्त्वसमारोपाभिनिवेशवशादात्मात्मीयग्रहप्रवृत्तेरयोनिशोमनसिकारप्रसूतो रागादिक्लेशगणः समुपजायते, तस्मात् कर्म, ततो जन्म, ततश्च व्याधिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाश्च प्रजायन्ते / एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / तदेवमनुलोमाकारं प्रतीत्यसमुत्पादं सम्यक्प्रज्ञया व्यवलोकयतः, पुनस्तमेव निरात्मकमस्वामिकं मायामरीचिगन्धर्वनगरस्वप्नप्रतिबिम्बादिसमानाकारतया परमार्थतो निःस्वभावं पश्यतो यथाभूतपरिज्ञानात्तद्विपक्षात्मकतया मोहस्वभावमविद्याभवाङ्गं निवर्तते, अविद्यानिरोधात्तत्प्रत्ययाः संस्कारा निरुध्यन्ते /

एवं पूर्वपूर्वस्य कारणभूतस्य निरोधादुत्तरोत्तरकार्यभूतस्य निरोधो वेदितव्यः / यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाश्च निरुध्यन्ते / एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति / तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनो व्यवच्छेदः / संस्कारा भवश्च कर्मवर्त्मनो व्यवच्छेदः / परिशिष्टान्यङ्गानि दुःखवर्त्मनो व्यवच्छेदः / पूर्वान्तापरान्तनिरोधो निरोधवर्त्मनो व्यवच्छेदः / एवमेव त्रिवर्त्म निरात्मकम् आत्मात्मीयरहितं संभवति च संभवयोगेन, विभवति च विभवयोगेन, स्वभावान्नडकलापसदृश इति / एतच्च उत्तरत्र विस्तरेण युक्तयागमाभ्यां प्रतिपादयिष्यते //

तदेवं प्रज्ञया स्वप्नमायादिस्वभावं संस्कृतं प्रत्यवेक्षमाणस्य सर्वधर्माणां निःस्वभावतया प्रतिपत्तेः परमार्थाधिगमात् सवासननिःशेषदोषराशिविनिवृत्तिर्भवतीति सर्वदुःखोपशमहेतुः प्रज्ञा उपपद्यते //

यथा च युक्त्यागमाभ्यां विचारयतः अविपरीतवस्तुतत्त्वप्रविचयः समुपजायते, तदुपदर्शयितुं सत्यद्वयव्यवस्थामाह संवृतिरित्यादि-

संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् / बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते // bca_9.2 //

संव्रियते आव्रियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्च अनयेति संवृतिः / अविद्या मोहो विपर्यास इति पर्यायाः / अविद्या हि असत्पदार्थस्वरूपारोपिका स्वभावदर्शनावरणात्मिका च सती संवृतिरुपपद्यते / यदुक्तमार्यशालिस्तम्बसूत्रे-

पुनरपरम्- तत्त्वे ऽप्रतिपत्तिः मिथ्याप्रतिपत्तिः, अज्ञानमविद्या / इति / उक्तं च-

अभूतं ख्यापयत्यर्थं भूतमावृत्य वर्तते / अविद्या जायमानैव कामलातङ्कवृत्तिवत् //

इति /

तदुपदर्शितं च प्रतीत्यसमुत्पन्नं वस्तुरूपं संवृतिरुच्यते / तदेव लोकसंवृतिसत्यमित्यमिधीयते लोकस्यैव संवृत्या तत् सत्यमिति कृत्वा / यदुक्तम्-

मोहः स्वभावावरणादि संवृतिः सत्यं तया ख्याति यदेव कृत्रिमम् / जगाद तत्संवृतिसत्यमित्यसौ मुनिः पदार्थं कृतकं च संवृतिम् // इति / [म. अ. 6.28] सा च संवृतिर्द्विविधा लोकत एव, तथ्यसंवृतिर्मिथ्यासंवृतिश्चेति / तथा हि किंचित् प्रतीत्यजातं नीलादिकं वस्तुरूपमदोषवदिन्द्रियैरूपलब्धं लोकत एव सत्यम्, मायामरीचिप्रतिबिम्बाद्विषु प्रतीत्य समुपजातमपि दोषवदिन्द्रियोपलब्धं यथास्वं तीर्थिकसिद्धान्तपरिकल्पितं च लोकत एव मिथ्या / तदुक्तम्-

विनोपघातेन यदिन्द्रियाणां षण्णामपि ग्राह्यमवैति लोकः / सत्यं हि तल्लोकत एवं शेषं विकल्पितं लोकत एव मिथ्या // इति / [म. अ. 6.25] एतत्तदुभयमपि सम्यग्दृशामार्याणां मृषा, परमार्थदशायां संवृतिसत्यालीकत्वात् / एतत् समनन्तरमेव उपपत्त्या प्रतिपादयिष्यामः / तस्मादविद्यावतां वस्तुस्वभावो न प्रतिभासते इति //

परमः उत्तमः अर्थः परमार्थः, अकृत्रिमं वस्तुरूपम्, यदधिगमात् सर्वावृतिवासनानु संधिक्लेशप्रहाणं भवति / सर्वधर्माणां निःस्वभावता, शून्यता, तथता, भूतकोटिः, धर्मधातुरित्यादिपर्यायाः / सर्वस्य हि प्रतीत्यसमुत्पन्नस्य पदार्थस्य निःस्वभावता पारमार्थिकं रूपम्, यथाप्रतिभासं सांवृतस्यानुपपन्नत्वात् / तथा हि- न तावत् यथापरिदृश्यमानरूपेण सत्स्वभावो भावः, तस्य उत्तरकालमनवस्थानात्, स्वभावस्य च सर्वदा अनागन्तुकतया अविचलितरूपत्वात् / यो हि यस्य स्वभावः, स कथं कदाचिदपि निवर्तेत? अन्यथा तस्य स्वभावताहानिप्रसङ्गान्निःस्वभावतैव स्यात् / नापि स उत्पद्यमानः सत्स्वभावरूपेण कुतश्चिदागच्छति, निरुध्यमानो वा क्वचित् संनिचयं गच्छति, अपि तु हेतुप्रत्ययसामग्रीं प्रतीत्य मायावदुत्पद्यते, तद्वैकल्यतो निरुध्यते च / हेतुप्रत्ययसामग्रीं प्रतीत्य जातस्य परायत्तात्मलाभस्यप्रतिबिम्बस्येव (bcp 172) कुतः सत्स्वभावता? न च कस्यचित् पदार्थस्य परमार्थतो हेतुप्रत्ययसामग्रीतः समुत्पत्तिः संभवति, तस्या अपि अपरसामग्रीजनितात्मतया परायत्तात्मलाभाया निःस्वभावत्वात् / एवमन्यस्याः पूर्वपूर्वायाः स्वस्वकारणसामग्रीजन्यतया निःस्वभावता द्रष्टव्या / इत्थं कारणानुरूपं कार्यमिच्छता कथं निःस्वभावात् सस्वभावस्योत्पत्तिरभ्युपेतव्या? यद्वक्ष्यति-

मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् / आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् //

यदन्यसंनिधानेन दृष्टं न तदभावतः / प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् //

इति /

उक्तं च-

यः प्रत्ययैर्जायति स ह्यजातो न तस्य उत्पादु सभावतो ऽस्ति / यः प्रत्ययाधीनु स शून्य उक्तो यः शून्यतां जानति सो ऽप्रमत्तः //

इति / [अनवतप्तह्रदापसंक्रमणसूत्रम्]

इति शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्य इति //

न च स्वपरोभयरूपहेतुनिबन्धनमहेतुनिबन्धनं वा भावस्य जन्म अतिपेशलमुपपद्यते / तथा हि आत्मस्वरूपं भावानां स्वजन्मनिमित्तं भवेत्, निष्पन्नमनिष्पन्नं वा भवेत् / न तावन्निष्पन्नस्य सतः स्वात्मनि कारणता, तस्य सर्वात्मना स्वयं निष्पन्नत्वात् क्व पुनरस्य व्यापारो ऽस्तु? उत्पाद्यस्य पुनरस्यानिष्पन्नस्यान्यस्य स्वभावस्याभावात्, एकस्य चास्य निरंशत्वात् / न च पश्चादुत्पद्यमानस्यापरस्य तत्स्वभावता युक्ता, तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् / इति न स्वात्मनो निष्पन्नात् कस्यचिदुत्पत्तिरस्ति / न चापि स्वतौत्पत्तिपक्षे प्राङ्निष्पन्नं स्वरूपमितरेतराश्रयदोषसङ्गात् कस्यचित् संभवति / नापि तदनिष्पन्नस्वभावमाकाशकुशेशयसंकाशमशेषसामर्थ्यशून्यं स्वनिष्पत्तौ हेतुभावमुपगन्तुमर्हति, अन्यथा खरविषाणस्यापि स्वस्वभावजनकत्वप्रसङ्गात् //

नापि परत इति पक्षः, आदित्यादपि अन्धकारस्य, सर्वस्माद्वा सर्वस्य उत्पत्तिप्रसङ्गात्, जनकाजनकाभिमतयोर्विवक्षितकार्यापेक्षया परत्वाविशेषात् / जन्यजनकैकत्वैकसंततिप्रतिनियमो ऽपि अनुत्पन्ने कार्ये काल्पनिकतया वस्तुतो न संगच्छते / न च अनागतावस्थितधर्मापेक्षया कार्यादिव्यवहारो वास्तवः, अर्थस्वभावसद्भावस्य निरूपयिष्यमाणत्वात् / नापि बीजावस्थासु विद्यमानाङ्कुरापेक्षया बीजस्य परत्वमकाल्पनिकमस्ति, कारणे कार्यास्तित्वस्य (bcp 173) निषेत्स्यमानत्वात् / यत्र परिदृश्यमानमेव रूपं विचारतो नावतिष्ठते, तत्र अनागतादिषु संभावितस्य का चिन्ता?

नापि उभयत इति पक्षः, प्रत्येकपक्षोक्तसमुदितदोषप्रसङ्गात्, कार्यानुत्पतौ च उभयरूपस्य हेतोः परमार्थतो ऽभावात् / उत्पत्तौ वा न किंचिज्जनयितव्यमस्तीति कुत्र उभयरूपस्य हेतोर्व्यापारः स्यात्?

नापि अहेतुत इति विकल्पः, यतो नायं प्रसज्यप्रतिषेधात्मतया अहेतुत इति युज्यते / अहेतुकत्वे हि भावानां देशकालनियमाभावप्रसङ्गः स्यात्, नित्यं सत्त्वासत्त्वप्रसङ्गो वा / उपेयार्थिनां प्रतिनियतोपायानुष्ठानं च न स्यात् / प्रधानेश्वरादीनां कारणस्य प्रतिषेत्स्यमानत्वात् / तन्न अहेतुतो भावाः स्वभावं प्रतिलभन्ते //

तस्मान्न स्वपरोभयरूपहेतुभ्य उत्पद्यन्ते सत्स्वभावा भावाः / तदुक्तम्-

न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन // इति / [म. शा.1.3] एकानेकस्वभावविचारणयापि सर्वभावानां स्वभावविकलत्वान्न सत्स्वभावत्वम् / तस्मात् स्वप्नमायाप्रतिबिम्बादिवत् इदंप्रत्ययतामात्रमेव अविचारमनोहरमस्तु / किमिह सर्वदुःखहेतुना भावाभिनिवेशेन प्रयोजनम्? अतः इदमर्थस्य तत्त्वम्-

निःस्वभावा अमी भावास्तत्त्वतः स्वपरोदिताः / एकानेकस्वभावेन वियोगात्प्रतिबिम्बवत् //

[मध्यमकालंकारकारिका-1]

एवं निःस्वभावतैव सर्वभावानां निजं पारमार्थिकं रूपमवतिष्ठते / तदेव प्रधानपुरुषार्थतया परमार्थः उत्कृष्टं प्रयोजनमभिधीयते //

अत्रापि नाभिनिवेष्टव्यम् / अन्यथा भावाभिनिवेशो वा शून्यताभिनिवेशो वेति न कश्चिद्विशेषः, उभयोरपि कल्पनात्मकतया सांवृतत्वात् / न च अभावस्य कल्पितस्वभावतया किंचित् स्वरूपमस्ति / न च भावनिवृत्तिरूपो ऽभावः, निवृत्तेर्निःस्वभावत्वात् / यदि च भावस्यैव कश्चित् स्वभावः स्यात्, तदा तत्प्रतिषेधात्मा अभावो ऽपि स्यात् / भावस्य तु स्वभावो नास्तीति प्रतिपादितमेव / अतो न भावनिवृत्तिरूपः अभावो नाम कश्चित् / न च भावाभावयोरुक्तक्रमेण असत्त्वे प्रतिपादिते तदुभयसंकीर्णात्मता संभवति उभयप्रतिषेधस्वभावता वा, भावविकल्पस्यैव सकलविकल्पनिबन्धनत्वात् / तस्मिन्निराकृते सर्व एव अमी एकप्रहारेण निरस्ता भवन्तीति / तस्मात्-

न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् /

किंचिदभिनिवेशविषयतया मन्तव्यम् / तदुक्तमार्यप्रज्ञापारमितायाम्-

सुभूतिराह- इहायुष्मन् शारद्वतीपुत्र बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशलो रूपं शून्यमिति प्रजानाति, सङ्गः / वेदनां शून्यामिति संजानाति, सङ्गः / संज्ञां शून्यामिति संजानाति, सङ्गः / संस्कारान् शून्यानिति संजानाति, सङ्गः / विज्ञानं शून्यमिति संजानाति, सङ्गः / एवं चक्षुः श्रोत्रं घ्राणं जिव्हा कायो मनः, यावत् सर्वधर्मशून्यतां शून्यामिति संजानाति, सङ्गः / इति विस्तरः //

उक्तं च-

सर्वसंकल्पहानाय शून्यतामृतदेशना / यस्य(यश्च) तस्यामपि ग्राहस्त्वयासाववसादितः // इति / [चतुःस्तवनिरुपम-21] न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् / चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः //

इति /

एवं चतुष्कोटिविनिर्मुक्तमादिशान्तमनुत्पन्नानिरुद्धानुच्छेदाशाश्वतादिस्वभावतया निष्प्रपञ्चत्वादाकाशवदासङ्गानामनास्पदमशेषं विश्वमुत्पश्याम इति //

सत्यद्वयमिदं मतमिति / किं तत्? संवृतिः परमार्थश्चेति पश्चाद्योजनीयम् / भूतमियं ब्राह्मणी, आवपनमियं मुष्टिकेति यथा / संवृतिरेकं सत्यमविपरीतम्, परमार्थश्च अपरं सत्यमिति / चकारः सत्यतामात्रेण तुल्यबलतां समुच्चिनोति / तत्र संवृतिसत्यमवितथं रूपं लोकस्य, परमार्थसत्यं च सत्यमविसंवादकं तत्त्वमार्याणामिति विशेषः / इत्थं विशेषोपदर्शनार्थो ऽपि युक्तश्चकारः //

एतदुक्तं भवति- सर्व एव अमी आध्यात्मिका बाह्याश्च भावाः स्वभावद्वयमाबिभ्रतः समुपजायन्ते यदुत सांवृतं पारमार्थिकं च / तत्रैकमविद्यातिमिरावृतबुद्धिलोचनानामभूतार्थदर्शिनां पृथग्जनानां मृषादर्शनविषयतया समादर्शितात्मसत्ताकम् / अन्यत् प्रविचयाञ्जनशलाकोद्धातिताविद्यापटलसम्यग्ज्ञाननयनानां तत्त्वविदामार्याणां सम्यग्दर्शनविषयतया उपस्थितस्वरूपम् / तदेतत् स्वभावद्वयं सर्वे पदार्था धारयन्ति / अनयोश्च स्वभावयोर्मृषादृशां बालिशानां यो विषयः, तत् संवृतिसत्यम् / यश्च सम्यग्दृशामधिगततत्त्वानां विषयः, तत् परमार्थसत्यमिति व्यवस्था शास्त्रविदाम् / यदाह-

सम्यग्मृषादर्शनलब्धभावं रूपद्वयं बिभ्रति सर्वभावाः / सम्यग्दृशां यो विषयः स तत्त्वं मृषादृशां संवृतिसत्यमुक्तम् // इति // [म. a.6.23] इति द्वयोः समुदायो द्वयमिति युज्यते / मतमिति संमतमभिमतम् / केषाम्? प्रहीणावरणधियां बुद्धानां भगवताम्, तन्मार्गानुयायिनामार्यश्रावकप्रत्येकबुद्धबोधिसत्त्वानां च / इदमेव सत्यद्वयं नान्यत् सत्यमस्तीति अवधारणार्थो ऽपि युज्यते चकारः / तदुक्तम्-

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना / लोकसंवृतिसत्यं च सत्यं च परमार्थतः // इति / [म. शा.-24.8] पितापुत्रसमागमे चोक्तम्-

सत्य इमे दुवि लोकविदूनां दिष्ट स्वयं अश्रुणित्व परेषाम् / संवृति या च तथा परमार्थो सत्यु न सिध्यति किं च तृतीयु //

इति /

ननु चत्वारि आर्यसत्यानि दुःखसमुदयनिरोधमार्गलक्षणानि अभिधर्मे कथितानि भगवता, तत् कथं द्वे एव सत्ये इति? सत्यम्, किं तर्हि वैनेयजनाशयानुशयवशादेते द्वे एव चत्वारि कृत्वा कथितानि (कथिते?), अमीषां द्वयोरेवान्तर्भावात् / तथा हि दुःखसमुदयमार्गसत्यानि संवृतिस्वभावतया संवृतिसत्ये ऽन्तर्भवन्ति, निरोधसत्यं तु परमार्थसत्ये, इति न कश्चिद्विरोधः //

स्यादेतत्- संवृतिरविद्योपदर्शितात्मतया अभूतसमारोपस्वरूपत्वाद्विचारात् शतशो विशीर्यमाणापि कथं सत्यमिति / एतदपि सत्यम् / किं तु लोकाध्यवसायतः संवृतिसत्यमित्युच्यते / लोक एव हि संवृतिसत्यमिह प्रतिपन्नः / तदनुवृत्त्या भगवद्भिरपि तथैव अनपेक्षिततत्त्वार्थिभिः संवृतिसत्यमुच्यते / अत एव लोकसंवृतिसत्यं चेति शास्त्रे ऽपि विशेष उक्त आचार्यपादैः / वस्तुतस्तु परमार्थ एव एकं सत्यम्, अतो न काचित् क्षतिरिति / यथोक्तं भगवता-

एकमेव भिक्षवः परमं सत्यं यदुत अप्रमोषधर्म निर्वाणम्, सर्वसंस्काराश्च मृषा मोषधर्माणः //

इति //

सत्यद्वयमिदमुक्तम् / तत्र अविद्योपप्लुतचेतसां तत्स्वभावतया संवृतिसत्यमिति प्रतीतम् / परमार्थसत्यं तु न ज्ञायते कीदृक् किंस्वभावं किंलक्षणमिति / अतो वक्तव्यं तत्स्वरूपमित्याह बुद्धेरगोचरस्तत्त्वमिति / बुद्धेः सर्वज्ञानानाम्, समतिक्रान्तसर्वज्ञानविषयत्वादगोचरः अविषयः / केनचित् प्रकारेण तत् सर्वबुद्धिविषयीकर्तुं न शक्यते इति यावत् / इति कथं तत्स्वरूपं प्रतिपादयितुं शक्यम्? तथा हि सर्वप्रपञ्चविनिर्मुक्तस्वभावं परमार्थसत्यतत्त्वम्, अतः सर्वोपाधिशून्यत्वात् कथं कयाचित् कल्पनया पश्येत्? कल्पनासमतिक्रान्तस्वरूपं च शब्दानामविषयः / विकल्पजन्मानो हि शब्दा विकल्पधियामविषये न प्रवर्तितुमुत्सहन्ते / (bcp 176) तस्मात् सकलविकल्पाभिलापविकलत्वादनारोपितमसांवृतमनभिलाप्यं परमार्थतत्त्वं कथमिव प्रतिपादयितुं शक्यते? तथापि भाजनश्रोतृजनानुग्रहार्थं परिकल्पमुपादाय संवृत्या निदर्शनोपदर्शनेन किंचिदभिधीयते //

यथा तिमिरप्रभावात् तैमिरिकः सर्वमाकाशदेशं केशोण्डुकमण्डितमितस्ततो मुखं विक्षिपन्नपि पश्यति / तथा कुर्वन्तमवेक्ष्य अतैमिरिकः किमयं करोतीति तत्समीपमुपसृत्य तदुपलब्धकेशप्रणिहितलोचनो ऽपि न केशाकृतिमुपलभते, नापि तत्केशाधिकरणान् भावाभावादिविशेषान् परिकल्पयति / यदा पुनरसौ तैमिरिकः अतैमिरिकाय स्वाभिप्रायं प्रकाशयति- केशानिह पश्यामीति, तदा तद्विकल्पापसारणाय तस्मै यथाभूतमसौ ब्रवीति- नात्र केशाः सन्तीति / तैमिरिकोपलब्धानुरोधेन प्रतिषेधपरमेव वचनमाह / न च तेन तथा प्रतिपादयतापि कस्यचित् प्रतिषेधः कृतो भवति विधानं वा / तच्च केशानां तत्त्वं यदतैमिरिकः पश्यति, तन्न तैमिरिकः //

एवमविद्यातिमिरोपघातादतत्त्वदृशो बालाः यदेतत् स्कन्धधात्वायतनादिस्वरूपमुपलभन्ते, तदेषां सांवृतं रूपम् / तानेव स्कन्धादीन् येन स्वभावेन निरस्तसमस्ताविद्यावासना बुद्धा भगवन्तः पश्यन्ति अतैमिरिकोपलब्धकेशदर्शनन्यायेन, तदेषां परमार्थसत्यमिति / यदाह शास्त्रवित्-

विकल्पितं यत्तिमिरप्रभावात् केशादिरूपं वितथं तदेव / येनात्मना पश्यति शुद्धदृष्टिस्तत्तत्त्वमित्येवमिहाप्यवेहि // इति / [m.अ. 6.29] इति परमार्थतो ऽवाच्यमपि परमार्थतत्त्वं दृष्टान्तद्वारेण संवृतिमुपादाय कथंचित् कथितम् / न तु तदशेषसांवृतव्यवहारविरहितस्वभावं वस्तुतो वक्तुं शक्यते इति / यदुक्तम्-

अनक्षरस्य धर्मस्य श्रुतिः का देशना च का / श्रूयते देश्यते चार्थः समारोपादनक्षरः //

इति /

तस्माद्वयवहारसत्ये एव स्थित्वा परमार्थो देश्यते / परमार्थदेशनावगमाच्च परमार्थाधिगमो भवति, तस्यास्तदुपायत्वात् / यदुक्तं शास्त्रे-

व्यवहारमनागम्य परमार्थो न देश्यते / परमार्थमनागम्य निर्वाणं नाधिगम्यते // इति / [म. शा.-24.10] एवं परमार्थदेशनोपायभूता संवृतिः, परमार्थाधिगमश्च उपेयभूत इति / अन्यथा तस्य देशयितुमशक्यत्वात् / ननु च तथाविधमपि तथाविधबुद्धिविषयः परमार्थतः किं न भवतीत्यत्राह- बुद्धिः संवृतिरुच्यते इति / सर्वा हि बुद्धिः आलम्बननिरालम्बनतया विकल्पस्वभावा, विकल्पश्च सर्व एव अविद्यास्वभावः, अवस्तुग्राहित्वात् / यदाह-

विकल्पः स्वयमेवायमविद्यारूपतां गतः / इति

अविद्या च संवृतिः / इति नैव काचिद् बुद्धिः पारमार्थिकरूपग्राहिणी परमार्थतो युज्यते / अन्यथा सांवृतबुद्धिग्राह्यतया परमार्थरूपतैव तस्य हीयेत, परमार्थस्य वस्तुतः सांवृतज्ञानाविषयत्वात् / तत्र चेदमुक्तं भगवता आर्यसत्यद्वयावतारे-

यदि हि देवपुत्र परमार्थतः परमार्थसत्यं कायवाङ्यनसां विषयतामुपगच्छेत्, न तत् परमार्थसत्यमिति संख्यां गच्छेत्, संवृतिसत्यमेव तद्भवेत् / अपि तु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तम्, निर्विशेषम्, असमुत्पन्नमनिरुद्धम्, अभिधेयाभिधानज्ञेयज्ञानविगतम्, यावत् सर्वाकारवरोपेतसर्वज्ञज्ञानविषयभावसमतिक्रान्तं परमार्थसत्यमिति विस्तरः //

अत एव तदविषयः सर्वकल्पनानां यद्भावाभावस्वपरभावसत्यासत्यशाश्वतोच्छेदनित्यानित्यसुखदुःखशुच्यशुच्यात्मानात्मशून्याशून्यलक्ष्यलक्षणैकत्वान्यत्वोत्पादनिरोधादयो विशेषास्तत्त्वस्य न संभवन्ति, अमीषां सांवृतधर्मत्वात् / एतदुक्तं भगवता पितापुत्रसमागमे-

एतावच्चैव ज्ञेयम्- यदुत संवृतिः परमार्थश्च / तच्च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतम् / तेन सर्वज्ञ इत्युच्यते / तत्र संवृतिर्लोकप्रचारतस्तथागतेन दृष्टा / यः पुनः परमार्थः, सो ऽनभिलाप्यः, अनाज्ञेयः, अपरिज्ञेयः, अविज्ञेयः, अदेशितः, अप्रकाशितः, यावदक्रियः, अकरणः, यावन्न लाभो नालभो न सुखं न दुःखं न यशो नायशो न रूपं नारूपमित्यादि //

इति प्रत्यस्तमितसमस्तसांवृतवस्तुविशेषमशेषोपाधिविविक्तमुक्तमनन्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मना भगवता परमार्थसत्यमिति / तदेतदार्याणामेव स्वसंविदित स्वभावतया प्रत्यात्मवेद्यम् / अतस्तदेवात्र प्रमाणम् / संवृतिसत्यं तु लोकव्यवहारमाश्रित्य प्रकाशितम् / तदेवं यथावद्विभागतः सत्यद्वयपरिज्ञानादविपरीतो धर्मप्रविचय उपजायते //

एवं संवृतिपरमार्थभेदेन द्विविधं सत्यं व्यवस्थाप्य तदधिकृतश्च लोको ऽपि द्विविध एवेत्युपदर्शयन्नाह- तत्र लोके इत्यादि-

तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा / तत्र प्राकृतको लोको योगिलोकेन बाध्यते // bca_9.3 //

तत्र तयोः संवृत्तिपरमार्थसत्ययोरधिकृतः व्यवस्थितः / तत्सत्यप्रतिपत्तेति यावत् / लोको जनः / द्विधा द्विप्रकारः संवृतिपरमार्थसत्यवेदी / लोक इति समुदायवचनम्, तेन (bcp 178) राशिद्वयमित्यर्थः / दृष्ट इति प्रतिपन्नः, युक्तेरागमाच्च / कथं कृत्वा द्विधेत्याह- योगी प्राकृतकस्तथेति / योगः समाधिः सर्वधर्मानुपलम्भलक्षणः, सो ऽस्यास्तीति योगी लोक इत्येकः प्रकारो राशिः / तथा प्रकृतिः संसारप्रवृत्तेः कारणमविद्या तृष्णा, तस्या जात इति प्राकृतः / प्राकृत एव प्राकृतको लोक इति द्वितीयः / तत्र योगी प्रधानतत्त्वमविपरीतं पश्यति, प्राकृतकश्च विपर्यस्तं वस्तुतत्त्वं पश्यति भ्रान्तत्वात् //

स्यादेतत्- उभयोरपि यथास्वं तत्त्वदर्शित्वात् कतरः पुनरनयोर्भ्रान्तिमानस्तु य एवान्यतरेण बाध्यते? कः पुनरनयोः केन बाध्यत इत्याह- तत्रेत्यादि / तत्रेति सप्तम्या समुदायनिर्देशः, निर्धारणे च सप्तमी / तत्र तयोर्योगिप्राकृतकयोर्लोकयोर्मध्ये प्राकृतको लोकः प्राकृतकत्वजात्या समुदायान्निर्धार्यते, निर्धार्य च बाध्यते, इति बाधनं विधीयते / केनेत्यपेक्षायामाह- योगिलोकेनेति / योगी एव लोकः योगिलोकः, तेन बाध्यते इति विपर्यस्तमतिर्व्यवस्थाप्यते / कथम्? धीविशेषेणेति योजनीयम् / न तु योगी प्राकृतकेन बाध्यते //

इदमिहाभिमतम्- यथा विभ्रमाहितसद्भावं तिमिरोपहतचक्षुषः असद्भूतकेशोण्डुकादिदर्शिनो ज्ञानं यथावस्थितवस्तुतत्त्वग्राहिणो ऽतैमिरिकज्ञानेन बाध्यते, न तथा तैमिरिकज्ञानेन अतैमिरिकज्ञानं बाध्यते, एवमविद्यामलतिमिरदूषितबुद्धिचक्षुषो विपरीतवस्तुस्वरूपग्राहिणः प्राकृतकस्य ज्ञानं प्रज्ञासलिलक्षालितविगतमलानास्रवज्ञानचक्षुषः भावनिजतत्त्ववेदिनः योगिलोकस्य ज्ञानेन बाध्यते, न पुनरितरज्ञानेन योगिज्ञानमिति / तथा चोक्तम्-

न बाधते ज्ञानमतैमिराणां यथोपलब्धं तिमिरेक्षणानाम् / तथामलज्ञानतिरस्कृतानां धियास्ति बाधा न धियो ऽमलायाः // इति // [म. अ.-6. 27] तस्मात् प्राकृतकज्ञानमेव भ्रान्तमिति बाध्यते //

अथ किं प्राकृता एव बाध्यन्ते योगिभिः, उत योगिनो ऽपीत्याह- बाध्यन्त इत्यादि-

बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः /

योगिनो ऽपि योगिभिरपरापरैर्बाध्यन्ते / न केवलं प्राकृतका इत्यपिशब्दार्थः / किंभूतैः? उत्तरोत्तरैः / उत्तरे च उत्तरे च उत्तरोत्तराः, तैः / तारतम्यभेदावस्थितगुणविशेषप्रतिलम्भोत्कर्षप्राप्तैः / अधिकाधिकैरित्यर्थः / तदपेक्षया अपचितगुणा अधराधरे बाध्यन्ते, ज्ञानमाहात्म्यादिभिरभिभूयन्ते / कथम्? धीविशेषेणेति / धियो ज्ञानस्य प्रज्ञाया विशेषः तत्तदावरणविगमात् प्रकर्षः, तेन / उपलक्षणं चैतत् / ध्यानसमाधिसमापत्त्यादिविशेषेणापि / तथा हि- प्रमुदिताख्यप्रथमभूमिलाभिनो बोधिसत्त्वस्य ज्ञानादिगुणापेक्षया तदुत्तरविमलाभिधानद्वितीयभूमिलाभिनो बोधिसत्त्वस्य ज्ञानप्रभावादयो गुणा विशिष्यन्ते / एवमन्येषामपि (bcp 179) उत्तरोत्तरभूमिलाभिनां वेदितव्यम् / तथा प्रथमध्यानादिलाभिनामपि उत्तरोत्तरैर्बाधनं योजनीम्, यावत् सास्रवाणामनास्रवैरिति //

स्यादेतत्- सत्यपि योगिनां धियो विशेषे प्राकृतज्ञानं भ्रान्तमिति कथमवगमयितुं शक्यत इत्याह दृष्टान्तेनोभयेष्टेनेति- दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः // bca_9.4 // उभयेषां योगिप्राकृतकानामिष्टः अभिमतः, तेन दृष्टान्तेन निदर्शनेन / य एष सूत्रेषु भगवता मायामरीचिगन्धर्वनगरप्रतिबिम्बादिरुक्तो दृष्टान्तः, स च उभयेषामपि निःस्वभावतया प्रसिद्धः / तत्साधर्म्येण सर्वधर्माणां निःस्वभावत्वप्रतिपादनात् / तथा हि- ये तावत् सर्वजनप्रतिपन्नस्वरूपा रूपादयः, ते योगिनामेव परमार्थसत्याधिगमान्निःस्वभावतया सिद्धाः / ये पुनरिमे स्वप्नमायादिषु उपलब्धाः, ते प्राकृतकानामपि / अतस्तत्र उभयोरपि विप्रतिपत्तेरभावात् दृष्टान्तधर्मता न विहन्यते / येषां तु मीमांसकादीनां देशकालान्यथात्मकं वस्तु एव तत्तथा प्रतिभासते इति मतम्, ते ऽन्यत्र निराकृता इति न तन्मतमिह निरस्यते / ये तु स्वयूथ्याः चित्तमेव वस्तुसत् स्वप्नादिषु तथा प्रतिभासते इति मन्यन्ते, ते ऽपि यथावसरमग्रतः [9.17-18] स्वसंवेदननिराकरणान्निराकरिष्यन्ते / युक्तिसिद्धमपि उभयसिद्धमेव / अतस्तेन दृष्टान्तेन विपरीतवस्तुस्वरूपग्राहितया प्राकृतकज्ञानं भ्रान्तमिति व्यवस्थाप्यते / एवं योगिनामपि यथासंभवं वक्तव्यम् //

ननु यदि निःस्वभावाः सर्वभावा इति वस्तुतत्त्वम्, कथं तर्हि सर्वसत्त्वसमुद्धरणाशयेन दानादिषु संभारपरिपूरणार्थं तत्त्ववेदिनामपि बोधिसत्त्वानां प्रवृत्तिः? तेषामपि निःस्वभावत्वात्, इत्यत आह- कार्यार्थमविचारतः इति / कार्यं साध्यम्, उपादेयम् / फलमुच्यते / तदर्थं तन्निमित्तम् / अविचारतः अविचारेणैव तद्धेतौ प्रवर्तनात् / तथाभूतेष्वपि तत्र इदंप्रत्ययतानियमस्य विद्यमानत्वात् न हेतुफलभावस्य विरोधः / एतदुक्तं भवति- यद्यपि मायादिस्वभावतया निःस्वभावा दानादयः, तथापि त्रिकोटिपरिशुद्ध्या सादरादियोगेन अभ्यस्यमानाः तथाभूता अपि परमार्थाधिगमाय हेतुभावमापद्यन्ते, तेषां तदुपायत्वात्, प्रतीत्यसमुत्पादस्य च अचिन्त्यत्वात् / एतादृशादेव हेतोरेतादृशं फलमधिगम्यते, तस्य तदुपेयत्वात् / तदुक्तम्-

उपायभूतं व्यवहारसत्यमुपेयभूतं परमार्थसत्यम् / इति / [म. अ.-6.80]

अवश्यं चैतदेवम् / अन्यथा मार्गाभ्यासतः समलावस्थाया निर्मलावस्था, सविकल्पावस्थाया निर्विकल्पावस्था कथमुत्पद्येत? तस्याः परमार्थतस्तत्स्वभावत्वात् / अन्यत्रापि समानमेतत् / सर्वधर्माणां परमार्थतो निःस्वभावत्वात् हेत्वनुरूपं च सर्वत्र फलमिष्यते / अतः सांवृतादपि निःस्वभावाद्धेतोः निःस्वभावताधिगम एव फलम्, कथमन्यथा संस्कृतादपि (bcp 180) मार्गादंसंस्कृतं निर्वाणमवाप्येत? इति दानादयो वस्तुतो निःस्वभावा अपि परमार्थतत्त्वाधिगमाय सर्वसत्त्वेषु करुणायमानैर्बोधिसत्त्वैरुपादीयन्ते, अन्यथा परमार्थाधिगमायोगात् / ततो दानादिषु प्रवृत्तिरनिवारिता / एवमिष्टानिष्टफलप्राप्तिपरिहारार्थिनां कुशलाकुशलयोः प्रवृत्तिनिवृत्ती वक्तव्ये / एतत् पुनः पश्चाद्वयक्तीकरिष्यते //

स्यादेतत्- यदेतन्मायादिसमानस्वभावं वस्तुरूपं योगिनः प्रतिपद्यन्ते, तदेव यदि प्राकृतको ऽपि जनः प्रतिपद्यते, क्व तर्हि विप्रतिपत्तिरस्तीत्याह लोकेनेत्यादि-

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः / न तु मायावदित्यत्र विवादो योगिलोकयोः // bca_9.5 //

लोकेन प्राकृतकजनेन / हेतुप्रत्ययं प्रतीत्य भवन्ति स्वरूपं लभन्ते इति भावाः / न पुनः पारमार्थिकं रूपं निजमेषामस्ति, इति भावशब्देन निःस्वभावताभिधानं प्रतीयते / सत्स्वरूपेण न केवलं दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः / यथाप्रतीतस्वभावेनैव परमार्थतो ऽध्यवसीयन्ते / अभिनिविश्यन्ते इति यावत् / यदेतदस्मत्प्रतीतिगोचरो वस्तुरूपम्, तद्वास्तवमेवे त्यभिमननात् / न तु मायावत्, न तु पुनर्यथा योगिना मायेव मायावत् स्वभावशून्या दृश्यन्ते, परमार्थतस्तथा प्रतीयन्ते, इत्यत्रास्मिन् विवादो विप्रतिपत्तिर्योगिलोकयोः योगिना सह लोकस्येत्यर्थः / तत्प्रतिपन्ने वस्तुत्तत्त्वे लोकस्याप्रतिपत्तेः लोकेन सह वा योगिनः, तत्प्रतिपन्ने योगिना यथार्थताप्रतिषेधात् / अयमभिप्रायः- सर्वभावानां सांवृतं पारमार्थिकं चेति रूपद्वयमस्ति, तत्र यत् सांवृतं तदेव लोकेन प्रतीयते, यत्तु पारमार्थिकं तद् योगिनेत्युक्तम् / यथा मायाकारनिर्मितहस्त्यादिरूपमेव मन्त्रादिसामर्थ्यविभ्रमितलोचनो जनः पश्यति, माया कारस्तु तत्स्वभावादि निजं तत्स्वरूपम्, एवं योगिलोकयोरपि यथायोगं प्रतिपत्तव्यम् //

अथापि स्यात्- यदेतत् समस्तजनसाधारणमर्थक्रियाक्षमं प्रत्यक्षप्रमाणप्रतीतं वस्तुरूपम्, तत् कथमपह्रोतुं शक्यत इति परस्य हृदयमाशङ्कयाह प्रत्यक्षमपीत्यादि-

प्रत्यक्षमपि रूपादि प्रसिद्धया न प्रमाणतः /

यदपि च प्रत्यक्षमभिधीयते रूपादि / आदिशब्देन शब्दादि वेदनादि गृह्यते / तदपि प्रसिद्धया रूढ्या लोकप्रवादेन न प्रमाणतः / न प्रमाणेनाधिगतं सत् प्रत्यक्षं रूपादीति संबन्धः / सांव्यवहारिकप्रमाणत्वात् प्रत्यक्षादीनाम्, तदधिगतं सांवृतमेव रूपादि / न च लौकिकप्रमाणसमधिगम्यं तात्त्विकं रूपम्, सर्वजनानां तत्त्ववेदित्वप्रसङ्गात् / यदाह-

इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि / जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा // इति / [चतुः 3.18] तस्मात् प्रत्यक्षमपि न प्रमाणेनाधिगतम् //

रूपादि तत्त्वं प्रत्यक्षमपि यदि न प्रमाणाधिगतम्, कथं तत्प्रसिद्धिः? प्रसिद्धिश्चेत् कथं मृषेत्यत्राह अशुच्यादिष्वित्यादि- अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा // bca_9.6 // यथा च परमार्थतो ऽशुचिनि स्त्रीकलेवरादौ तदासक्तिविपर्यस्तचेतसां शुचिबुद्धिरुपजायते / आदिशब्दादनित्यादौ नित्यादिबुद्धिर्गृह्यते / सा च अतस्मिंस्तद्गहान्मृषा / वितथग्राहिणीत्यर्थः / तद्वदियं रूपादावपीत्यविशेषः //

यदि न प्रत्यक्षप्रमाणात् तत्सिद्धिः, आगमात्तर्हि भविष्यति / तथा हि स्कन्धधात्वायतनादिस्वभावतया भगवता भावाः सूत्रे देशिताः, क्षणिकादिस्वभावतया च / तत्रेदमुक्तं भगवता-

सर्वं सर्वमिति ब्राह्मण यावदेव पञ्च स्कन्धाः, द्वादशायतनानि, अष्टादशः धातवः / इति /

तथा-

क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया / भूतिर्यैषां क्रिया सैव कारकं सैव चोच्यते //

इति //

न च मायादिस्वभावानां क्षणिकाक्षणिकादिधर्मताप्रतिपादनमुचितम्, निःस्वभावानां कस्यचित् स्वभावस्याभावात् / तत्कथममी न परमार्थसन्त इत्यत्राह लोकावतारणेत्यादि-

लोकावतारणार्थं च भावा नाथेन देशिताः / तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते // bca_9.7 //

लोकानां भावाभिनिवेशिनां स्कन्धादिदेशनावैनेयानां सत्त्वानामापाततः शून्यतादेशनानधिकृतानां शून्यतायामवतारणार्थं सुकुमारोपक्रमेण प्रवर्तनाय / चो हेतौ / यस्माद्भावाः स्कन्धायतनादिलक्षणाः, वस्तुतो निःस्वभावत्वे ऽपि सर्वधर्माणाम्, नाथेन नरकादिदुःखात् सत्त्वान् परित्रायमाणेन अभ्युदयनिःश्रेयससुखं प्रापयता सत्त्वाशयादिवेदिना बुद्धेन भगवता देशिताः प्रकाशिताः, न तु परमार्थतः / तस्मान्न सूत्रविरोधः / तदुक्तम्-

ममेत्यहमिति प्रोक्तं यथा कार्यवशाज्जिनैः / तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः //

इति / [युक्तिषष्टिका]

यदि न परमार्थतो देशिताः, कथं तर्हि ते क्षणिका इत्याह- तत्त्वतः क्षणिका नैते इति / तत्त्वतः परमार्थतः निःस्वभावत्वात् क्षणिका अपि न भवन्ति एते इमे भावाः / क्शणिकादिदेशना वैनेयानां तत्स्वभावताप्रकाशनात् / यदि न तत्त्वतः क्षणिकाः, कथं (bcp 182) तर्हि देशनायामपि कथिता इति मनसि निधाय [आह] संवृत्या चेत् [इति]- यदि संवृत्या क्षणिका अभिधीयन्त इत्युच्यते, इत्युत्तरमाशङ्कय दूषयति, तदा विरुध्यते, संवृत्या क्षणिका न परमार्थतः इति विरुध्यते न संगच्छते / अक्षणिकतया प्रतीतेः प्रतीतिविरोधः, सांव्यवहारिभिरक्षणिकत्वप्रतीतेः न क्षणिकत्वं सांवृतं रूपमिति यावत् //

एतत् सिद्धान्तवादी परिहरति न दोषो योगिसंवृत्येति-

न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः / अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे // bca_9.8 //

नायं प्रतीतिविरोधलक्षणो दोषः / कुतः? योगिनां पुद्गलनैरात्म्यसमाधिलाभिनां या संवृतिर्व्यवहारः, तया क्षणिकतया प्रतीतेः / अयमभिप्रायः- यदि नाम अर्वाग्दर्शनैः क्षणिकत्वं न प्रतीयते, तथापि योगिव्यवहारगोचरः / योगिव्यवहारो ऽपि संवृतिरूपतां न जहाति, बुद्धिः संवृतिरूच्यते [9.2] इति वचनात् / न च प्रतीतिबाधितं बाधितमेव, तथाविधायाः प्रतीतेरप्रमाणत्वात् //

कुतः पुनरेतत् सांवृतमपि क्षणिकत्वादि योगिन एव पश्यन्ति नार्वाग्दर्शिन इत्याह- लोकात्ते तत्त्वदर्शिन इति / लोकादर्वाचीनदर्शनात् सकाशात् ते योगिनस्तत्त्वदर्शिनः अतीन्द्रियदर्शिनः / हेतुपदमेतत् / यस्मात् तत्त्वदर्शिनस्ते, तस्मात् क्षणिकत्वनैरात्म्यादि लोकाप्रतीतमपि प्रतिपद्यन्ते / अत एव न तेषां लोकप्रतीतिबाधा //

अवश्यं चैतदङ्गीकर्तव्यमित्याह- अन्यथेत्यादि / अन्यथा यदि चैवं न स्वीक्रियते, तदा भवदभ्युपगते ऽपि लोकबाधा स्यात् / कुत्र? अशुचिस्त्रीनिरूपणे इति / अशुचिभावनासमये अशुचीति स्त्रियाः कामिन्या निरूपणे विभावनायां लोकबाधा स्यात्, लोकप्रतीतेन विरोधो भवेत्, लोकेन शुचिस्वभावतया स्त्रीशरीरस्याध्यवसानात् / तस्मान्न लोकप्रतीतेन योगिदर्शनबाधेति / अत्र-

यथोपलब्धं तिमिरेक्षणानम्

इत्यादिना उपचयहेतुत्वेन योजनीयम् / इति नागमादपि भावानां परमार्थतः सिद्धिरस्ति / तस्मान्मायास्वप्नादिस्वभावाः सर्वधर्मा इति निश्चितमेतत् //

स्यादेतत्- यदि सर्वव्यापिनी मायोपमस्वभावता, बुद्धो ऽपि तर्हि मायोपमः स्वप्नोपमः स्यात् / उक्तं चैतद् भगवत्याम्-

एवमुक्ते सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्राः सत्त्वाः / स्वप्नोपमास्ते देवपुत्राः सत्त्वाः / इति हि माया च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् / सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः / स्त्रोतआपन्नो ऽपि मायोपमः स्वप्नोपमः / स्त्रोतआपत्तिफलमपि (bcp 183) मायोपमं स्वप्नोपमम् / एवं सकृदागाम्यपि सकृदागामिफलमपि / अनागाम्यपि अनागामिफलमपि / अर्हन्नपि अर्हत्त्वमपि मायोपमं स्वप्नोपमम् / प्रत्येकबुद्धो ऽपि मायोपमः स्वप्नोपमः / प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम् / सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपमः / सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपमम् / यावत् निर्वाणमपि मायोपमं स्वप्नोपमम् / सचेन्निर्वाणादपि कश्चिद् धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपमं वदामि //

एवं कथं तत्र सत्कारापकारयोः पुण्यपापसमुद्भव इति परस्याभिप्रायमाशङ्कयन्नाह मायोपमादित्यादि-

मायोपमाज्जिनात्पुण्यं सद्भावे ऽपि कथं यथा /

यदि भगवानपि मायोपमस्वभावः, तदा मायोपमान्निःस्वभावाज्जिनाद्भगवतः पुण्यं सुकृतं पूजासत्कारपादवन्दनादिभिः कथं यथा कथमिवेति मन्यसे? उपलक्षणं चैतत् / पापमपि तदपकारे कथमिति द्रष्टव्यम् / न हि मायाकारनिर्मितपुरुषसत्कारापकारयोः पुण्यपापप्रसूतिर्युक्तेति परस्या भिप्रायः / अत्र प्रागुक्तमेवोत्तरम् / तथात्र परमेव परिपृच्छति- सद्भावे ऽपि कथं यथेति / सद्भावे ऽपि परमार्थसत्यत्वे ऽपि भगवतः कथमिव पुण्यम्? कथं यथेत्युभयत्रापि योजनीयम् / अयमभिप्रायः- यथा कस्यचित् परमार्थसतो जिनात् परमार्थसत् पुण्यमुपजायते, तथा अन्यस्य मायोपमान्मायोपममेवेत्यावयोर्न कश्चिद्विशेषः, इदंप्रत्ययतामात्रस्योभयसाधारणत्वात् / इति यदेवोत्तरं भवताम्, तदेवास्माकमपि, नातिरिच्यते किंचित् / न च युक्तिसिद्धं परमार्थसद् वस्तुस्वरूपं किंचिदस्तीति प्रतिपादितम् //

भवतु नाम मायोपमादपि जिनात् पुण्यम् / इदं तु कथं समाधीयते इत्याह यदि मायोपम इत्यादि- यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः // bca_9.9 // अथवा अन्यथावतार्यते- यदि जिनो ऽपि मायोपमः, का वार्ता तर्हि सांसारिकेषु सत्त्वेषु? ते ऽपि तथेति ब्रूमः / मायोपमास्ते देवपुत्राः सत्त्वाः इति वचनात् / एवं सति महान् दोषः प्रसज्यते इत्याह- यदीत्यादि / यदि मायोपमो मायास्वभावसमानधर्मः सत्त्वः प्राणी, तदा किं पुनर्जायते मृतः? किमिति प्रश्ने अक्षमायां वा / किं पुनर्जायते उत्पद्यते? मृतो निकायसभागतायाश्च्युतः / कारणमत्र वक्तव्यम्, नैतद्युक्तमिति वा / नहि मायापुरुषो विनष्टः पुनरुत्पद्यते / तस्मात् परमार्थसन्तो भावा इत्युपगन्तव्यम् //

नैतदुपगन्तव्यमित्याह यावदित्यादि-

यावत्प्रत्ययसामग्री तावन्मायापि वर्तते /

यावत्कालं प्रत्ययानां कारणानां मन्त्रौषधादीनां सामग्री समुदायः, समग्राणि कारणानि, तावत्कालं मायापि वर्तते, न अर्वाङ् निवर्तते, नापि ततः परं प्रवर्तते / एवं यावदविद्याकर्मतृष्णास्वभावा सामग्री, तावत् सत्त्वसंतानमायापि वर्तते, इदंप्रत्ययतायत्तवृत्तित्वात् / (bcp 184) यदि न परमार्थतः सत्त्वो ऽस्ति, कथमासंसारं सत्त्वसंतानः प्रवर्तते, न तु मायावदचिरं निवर्तते? उक्तमत्र- यावत्प्रत्ययसामग्री तावत् प्रवर्तते, यस्य तु तथा नास्ति, स नानुवर्तते इति / अपि च / न चिरकालावस्थितिः सम्यक्त्वव्यवस्थानिबन्धनमित्याह दीर्घसंतान इत्यादि- दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः // bca_9.10 // दीर्घश्चिरकालावस्थितः संतानः प्रवाहः, स एव केवलस्तन्मात्रं तेन / कथमिति पृच्छति- केन प्रकारेण सत्त्वो ऽस्ति विद्यते? सत्यतः परमार्थतः / एतावांस्तु विशेषः- यस्य हि दीर्घकालावस्थितिहेतुप्रत्ययविशेषो ऽस्ति, स दीर्घकालमनुवर्तते / यस्य तु तथा नास्ति, स नानुवर्तते इति / न तु तावता सम्यङ्यिथ्यात्वम् / तस्मान्मायास्वभावत्वे ऽपि न पुनर्जन्मासंभवः //

एवं तर्हि यथा मायापुरुषवधादौ न प्राणातिपातः, तथा तदपरपुरुषवधादावपि न स्यात्, अभिन्नस्वभावत्वात्, इत्यत्राह मायापुरुष इत्यादि-

मायापुरुषघातादौ चित्ताभावान्न पापकम् /

मायापुरुषस्य घातादौ मारणादौ / आदिशब्देन तस्य अदत्तादि गृह्णतः / समाने ऽपि निःस्वभावत्वे चित्तस्य विज्ञानस्य मायापुरुषसंताने ऽभावात् असत्त्वात् न पापकं न अकुशलमुत्पद्यते प्राणातिपातादि / पापमेव पापकम् / स्वार्थे कन्विधानात् / तत्रापि मारणाभिप्रायेण प्रहारं ददतो भवत्येव अशुभम्, न तु प्राणातिपातः / मायापुरुषादन्यत्र कथं प्राणातिपात इति चेदाह चित्तमायेत्यादि- चित्तमायासमेते तु पापपुण्यसमुद्भवः // bca_9.11 // चित्तमेव माया चित्तमाया, तया समेते युक्ते / मायास्वभावेन चित्तेन संबद्धे इत्यर्थः / तुशब्दः पूर्वस्माद्विशेषार्थः / पुण्यं च पापं च पुण्यपापे, तयोः सुकृतदुष्कृतयोः समुद्भवः समुत्पत्तिः / उपकारापकारयोः इति सामग्रीविशेषात् कार्यविशेषः / यथा सत्यपि गोमयेतरजन्मनोर्वर्तिकयोराकारसाम्ये कारणभेदात् स्वभावभेदः / तथा इहापि नोक्तदोषप्रसङ्गः //

यदुक्तम्- चित्तमायेति, तत् परो विघटयन्नाह मन्त्रादीनामित्यादि-

मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः /

मन्त्रादीनाम्, आदिशब्दादौषधादीनां चित्तोत्पादं प्रति असामर्थ्यादव्यापारात् न मायाचित्तसंभवः न मायास्वभावं चित्तं संभवति / यथा परव्यामोहनिबन्धनानां मायाकारप्रयुक्तानां मन्त्रादीनां प्रभावेण हस्त्याद्याकारनिर्वृत्तिः, न तथा चित्तस्येति परस्य भावः / एतत् परिहरन्नाह सापि नानाविधेत्यादि-

सापि नानाविधा माया नानाप्रत्ययसंभवा /

अपिशब्दो ऽवधारणार्थो भिन्नक्रमश्च / सा माया नानाविधैव नानाप्रकारैव / अत एव नानाप्रत्ययसंभवा नानाप्रत्ययात् अनेकप्रकारकारणात् संभव उत्पादो यस्याः सा तथोक्ता / अयमभिप्रायः- यदि माया मायेति शब्दसाम्यमस्ति, तथापि न तत्कारणस्याप्यभेदः, मायास्वभावत्वे ऽपि कार्यस्य नानास्वभावत्वात् / न हि एकस्मिन् कार्ये किंचित् कारणं दृष्टमिति कार्यशब्दसाम्यात् सर्वत्र तदेव प्रकल्पयितुं युज्यते, अपि तु क्वचिदेव कस्यचित् सामर्थ्यम्, शब्दसाम्ये ऽपि स्वभावभेदात् / एतदेवोपदर्शयन्नाह नैकस्येति- नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् // bca_9.12 // नैकस्य क्वचिदुपलब्धसामर्थ्यस्य प्रत्ययस्य कारणस्य हेतोः सर्वसामर्थ्यं सर्वस्मिन् कार्ये सामर्थ्यं शक्तिरस्ति संभवति / क्वचिदृष्टमिति कृत्वा कुत्रचिदिति कस्मिंश्चित् समये देशे काले वा दृष्टमिष्टं वा / ततश्च काचिन्माया मन्त्रादिसामर्थ्यप्रतिलब्धस्वभावा, काचित् पुनरनादिसंसारप्रवृत्तमाहात्म्या अविद्यादिप्रभावप्रवर्तिता / तस्मान्न सर्वासु मन्त्रादिसामर्थ्यमिति / एतत् सर्व लोकव्यवहारानुगतं कल्पनानिर्मितं सांवृतं वस्तुतत्त्वमुपादय समुत्थितं न तु परमार्थतः / परमार्थदशायां जननमरणोत्पादनिरोधहेतुफलभावाभावादिकल्पनाया अभावात्, प्रकृतिनिर्वृतत्वात् सर्वधर्माणामिति //

एतदसहमानः परः पुनरन्यथा प्रसञ्जयन्नाह निर्वृत इति-

निर्वृतः परमार्थेन संवृत्या यदि संसरेत् /

निर्वृतः स्वभावशून्यत्वादुत्पादनिरोधरहितः / परमार्थेन परमार्थसत्यतः प्रकृतिनिर्वाणतया आदिशान्तत्वात् / यदि संवृत्या संवृतिसत्येन काल्पनिकत्वेन संसरेत्, जातिजरामरणयोगी भवेत्, तदा अयं महान् विरोधः स्यादित्याह बुद्धो ऽपि संसरेदेवमित्यादि- बुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया // bca_9.13 // एवमभ्युपगम्यमाने बुद्धो ऽपि सर्वावरणप्रहाणतो निर्वृतो ऽपि संसरेत् जन्मादिभाग् भवेत् / यत एवम्, ततः तस्मात् कारणात् किं बोधिचर्यया? बोधये बुद्धत्वाय चर्या करचरणशिरःप्रदानाद्यनेकदुष्करशतलक्षणा, तया किम्? न किंचित् प्रयोजनम्, उक्तक्रमेण वैफल्यात् / सा हि सर्वसांसारिकधर्मनिवृत्तये सर्वगुणसमुच्चयाश्रितबुद्धत्वप्राप्तये च समाश्रीयते, तथापि न सांसारिकधर्मनिवृत्तिश्चेत्, किं तत्समाश्रयेण संसाधितमिति भावः //

तत् प्रत्युक्तमेव यावत्प्रत्ययसामग्रीत्यादिना, पुनरपि विस्पष्टयन्नाह प्रत्ययानामित्यादि-

प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि / प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः // bca_9.14 //

प्रत्ययानां कारणानाम् / अनुच्छेदे अविनाशे / हिर्यस्मात् / मायापि न केवलं संसार इति समुच्चये अपिशब्दः / नैवोच्छिद्यते न निवर्तते / प्रत्ययानां कारणानां तु (bcp 186) विच्छेदात् निवृत्तेः, संवृत्त्यापि काल्पनिकव्यवहारेणापि न संभवो न संसरणम् / प्रत्ययानां समुच्छेदः पुनस्तत्त्वाभ्यासादविद्यादिनिरोधक्रमेण वेदितव्यः / तद्यथोक्तमार्यशालिस्तम्बसूत्रे-

एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रमेतदवोचत्- यदुक्तं भगवता धर्मस्वामिना सर्वज्ञेन- यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति, स धर्म पश्यति / यो धर्मं पश्यति, स बुद्धं पश्यति / तत्र कतमः प्रतीत्यसमुत्पादो नाम? यदिदम्- अविद्याप्रत्ययाः संस्काराः / संस्कारप्रत्ययं विज्ञानम् / विज्ञानप्रत्ययं नामरूपम् / नामरूपप्रत्ययं षडायतनम् / षडायतनप्रत्ययः स्पर्शः / स्पर्शप्रत्यया वेदना / वेदनाप्रत्यया तृष्णा / तृष्णाप्रत्ययमुपादानम् / उपादानप्रत्ययो भवः / भवप्रत्यया जातिः / जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः / एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / तत्र अविद्यानिरोधात् संस्कारा निरुध्यन्ते / पेयालं / एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति / अयमुच्यते प्रतीत्यसमुत्पादः / पेयालं / य इमं प्रतीत्यसमुत्पादं सततसमितं निर्जीवं यथावदविपरीतमजातमभूतमसंस्कृतमप्रतिघमनालम्बनं शिवमभयमहार्यमव्युपशमस्वभावं पश्यति, स धर्मं पश्यति / यस्तु एवं सततसमितं यावदव्युपशमस्वभावं धर्मं पश्यति, सो ऽनुत्तरं धर्मशरीरं बुद्धं पश्यति / पेयालं / तत्र अविद्या कतमा? एतेषामेव षण्णां धातूनां या एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुजसंज्ञा मानवसंज्ञा अहंकारममकारसंज्ञा / एवमादि विविधमज्ञानम्, इयमुच्यते ऽविद्या / एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते /

तत्र ये रागद्वेषमोहा विषयेषु, अमी अविद्याप्रत्ययाः संस्कारा इउत्युच्यन्ते / वस्तुप्रतिविज्ञप्तिर्विज्ञानम् / चत्वारि महाभूतानि चोपादाय रूपमैकध्यरूपम् / विज्ञानसहजाश्चत्वारो ऽरूपिण उपादानस्कन्धा नाम, तन्नामरूपम् / नामरूपसंनिश्रितानि इन्द्रियाणि षडायतनम् / त्रयाणां धर्माणां संनिपातः स्पर्शः / स्पर्शानुभवो वेदना / वेदनाध्यवसानं तृष्णा / तृष्णावैपुल्यमुपादानम् / उपादाननिर्जातं पुनर्भवजनकं कर्म भवः / भवहेतुकः स्कन्धप्रादुर्भावो जातिः / जात्यभिनिर्वृत्तानां स्कन्धानां परिपाको जरा / स्कन्धविनाशो मरणम् / म्रियमाणस्य संमूढस्य साभिष्वङ्गस्य अन्तर्दाहः शोकः / शोकोत्थलपनं परिदेवः / पञ्चविज्ञानसंप्रयुक्तमाघातानुभवनं दुःखम् / दुःखमनसिकारसंप्रयुक्तं मानसं दुःखं दौर्मनस्यम् / ये चान्ये एवमादाय उपक्लेशाः, इमे उपायासा इत्युच्यन्ते //

तत्र महान्धकारार्थेन अविद्या / अभिसंस्कारार्थेन संस्काराः / विअज्ञाननार्थेन विज्ञानम् / मननार्थेन नामरूपम् / आयद्वारार्थेन षडायतनम् / स्पर्शनार्थेन स्पर्शः / अनुभवनार्थेन वेदना / परितर्षणार्थेन तृष्णा / उपादानार्थेन उपादानम् / पुनर्भवजननार्थेन (bcp 187) भवः / स्कन्धप्रादुर्भावार्थेन जातिः / स्कन्धपरिपाकार्थेन जरा / विनाशार्थेन मरणम् / शोचनार्थेन शोकः / वचनपरिदेवनार्थेन परिदेवः / कायसंपीडनार्थेन दुःखम् / चित्तसंपीडनार्थेन दौर्मनस्यम् / उपक्लेशार्थेन उपायासाः / इति विस्तरः //

एवमुपदर्शितप्रत्ययानामनुच्छेदे संसारो ऽविकलः प्रवर्तते, द्वादशाङ्गप्रतीत्यसमुत्पादस्यैव संसारत्वात् / यदाहुराचार्यपादाः-

यथाक्षेपं क्रमाद् द्वृद्धः संतानः क्ल्रेशकर्मभिः / परलोकं पुनर्यातीत्यनादि भवचक्रकम् //

स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः / इति / [अभि. कोश. 3.19-20]

प्रत्ययानां पुनरुच्छेदे सर्वथैव संसरणं न स्यात्, कारणवैकल्यात् / ततश्च ऽबुद्धो ऽपि संसरेदेवम्ऽ इत्येतन्न प्रसज्यते इति //

एवं तावत् सौत्रान्तिकादिचोद्यमुदस्य योगाचारविप्रतिपत्तिनिराकरणाय तन्मतेन दूषणमुद्भावयन्नाह यदा न भ्रान्तिरपीत्यादि- यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते // bca_9.15 // यदा सर्वं जगत् मायात्मकतया स्वभावशून्यमुपगतं मध्यमकवादिभिः, मायास्वभावसंवृतिग्राहिणी बुद्धिरपि भवतां नास्ति बाह्यवत्, तदा माया केनोपलभ्यते, केन प्रतीयते तद्गाहकवस्तुसज्ज्ञानमन्तरेण? नैव केनचिदित्यर्थः / यस्य पुनः स्वचित्तमेव परमार्थसत् बाह्यरूपतया भ्रान्तं तथा प्रतिभासते, न तस्यायं दोष इति भावः //

एतन्निराकर्तुमाह यदा मायैवेत्यादि-

यदा मायैव ते नास्ति तदा किमुपलभ्यते /

यदा मायैव ग्राह्यतया हस्त्याद्याकारप्रवृत्या तव विज्ञानवादिनो नास्ति, चित्तमात्रं जगदभ्युपगच्छन्तो बहिरर्थाभावात्, तदा किमुपलभ्यते, तदा किमिह प्रतिभासते? बहिरर्थाभावाद्देशादिविच्छेदेन प्रतिभासो न युक्त इत्यर्थः / अत्र परस्याभिप्रायमाशङ्कयन्नाह चित्तस्यैव स इत्यादि- चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः // bca_9.16 // उक्तमत्र चित्तमेव बहीरूपतया भ्रान्तं हस्त्याद्याकारं प्रतिभासते इति / उक्तमेव / किं तु यद्यपि चित्तस्यैव ज्ञानस्यैव स इति देशादिविच्छेदेन ग्राह्यतया प्रतिभासमान आकारो निर्भासः, अन्य इत्यपरः आन्तराद् ग्राहकाच्चित्ताकारात्, अस्ति विद्यते, तत्त्वतो वस्तुतः //

यद्यपीत्यभ्युपगम्योक्तम्, तथापि नैतत् संगच्छत इत्याह चित्तमेव यदा मायेत्यादि-

चित्तमेव यदा माया तदा किं केन दृश्यते /

चित्तमेव विज्ञानमेव वेदकतया स्वीकृतम्, यदा माया नान्या, न हि वेदकचित्तव्यतिरिक्ता काचिदन्या माया नाम, तदात्मतया तस्यास्तथा प्रतिभासोपगमात्, तदा किं (bcp 188) केन दृश्यते, किं केन प्रतीयते? दर्शनमेव हि केवलमस्ति न दृश्यम् / दृश्यमन्तरेण दर्शनमपि न स्यात्, दृश्यापेक्षत्वात्तस्य / अतो न केनचित् किंचित् दृश्येत, इति आन्ध्यमशेषस्य जगतः प्राप्तमिति भावः / ननु स्यादेवैतत् यदि ज्ञानस्य आत्मसंवेदनं न स्यात्, यावता स्वसंवेदनतया स्वरूपं संवेदयत् तदभिन्नं मायादिप्रतिभासमपि वेदयेत् / तथा च सति न काचित् क्षतिः / इति विज्ञानवादिनो ऽभिप्रायमाशङ्कयाह-

उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति /

स्वभावशून्यमेव सर्व जगद् यदा युक्तितः प्रतिपादितम्, तदा कः कस्य स्वभावो वस्तुतः इति कस्य केन वेदनं स्यात्? उक्तं च भगवता-

सर्वधर्माः शून्याः, शून्यतालक्षणं चित्तम् / सर्वधर्मा विविक्ताः, विविक्ततालक्षणं चित्तम् / इति /

किं च / उक्तं च कथितं च लोकनाथेन लोकानां सर्वसत्त्वानां नाथेन शरण्येन बुद्धेन भगवता / किमुक्तम्? चित्तं चित्तं न पश्यतीति, चित्तं स्वात्मानं न जानाति, सत्यपि वस्तुत्वे स्वात्मनि कारित्रविरोधात् / कथमिव? न च्छिनत्ति यथात्मानमसिधारा तथा मनः // bca_9.17 // यथा सुतीक्ष्णाप्यसिधारा खङ्गधारा तदन्यवदात्मानं स्वकायं न च्छिनत्ति न विघाटयति, स्वात्मनि क्रियाविरोधात्, तथा मनः / असिधारावच्चित्तमपि स्वात्मानं न पश्यतीति योज्यम् / तथा हि न तदेवैकं ज्ञानं वेद्यवेदकवेदनात्मस्वभावत्रयं युक्तम् / एकस्य निरंशस्य त्रिस्वभावतायोगात् / तत्रेदमुक्तमार्यरत्नचूडसूत्रे- स चित्तं परिगवेषमाणो नाध्यात्मं चित्तं समनुपश्यति / न बहिर्धा चित्तं समनुपश्यति / न स्कधेषु चित्तं समनुपश्यति / न धातुषु चित्तं समनुपश्यति / नायतनेषु चित्तं समनुपश्यति / स चित्तमसमनुपश्यंश्चित्तधारां पर्येषते- कुतश्चित्तस्योत्पत्तिरिति / आलम्बने सति चित्तमुत्पद्यते / तत् किमन्यच्चित्तमन्यदालम्बनम्, अथ यदेवालम्बनं तदेव चित्तम्? यदि तावदन्यदालम्बनमन्यच्चित्तम्, तद् द्विचित्तता भविष्यति / अथ यदेवालम्बनं तदेव चित्तम्, तत् कथं चित्तं चित्तं पश्यति? न हि चित्तं चित्तं समनुपश्यति / तद्यथा न तस्यैव असिधारया सैव असिंधारा शक्यते छेत्तुम्, न तेनैव अङ्गुल्यग्रेण तदेव अङ्गुल्यग्रं स्प्रष्टुं शक्यते, एवमेव तेनैव चित्तेन तदेव चित्तं द्रष्टुमिति विस्तरः //

अत्र चित्तामात्रवादिनः स्वात्मनि क्रियाविरोधं विघटयितुं स्वपक्षप्रसाधनाय दृष्टान्तमुद्भावयन्नाह आत्मभावमित्यादि-

आत्मभावं यथा दीपः संप्रकाशयतीति चेत् /

आत्मभावं स्वस्वरूपं यथा दीपः प्रदीपः संप्रकाशयति द्योतयति / यथा हि किल अन्धकारावृतघटादिवस्तुप्रतिपत्तये प्रदीप उपादीयते, न तथा प्रदीपप्रकाशनाय प्रदीपान्तरम्, अपि तु घटादि प्रकाशयन्नेव आत्मानमपि प्रकाशयति, तथा प्रकृते ऽपि स्वसंवेदने (bcp 189) वेदितव्यम् / न चापि क्वचिद्विरोधो दृष्ट इति सर्वत्र योजनीयम् / तस्मात् प्रदीपवदविरोध एवेति चेत्, यद्येवं मन्यसे, तदा नैवं वक्तव्यम् / कुत इत्याह नैवेत्यादि- नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः // bca_9.18 // नैव प्रकाश्यते घटादिवन्नैव उद्दयोत्यते दीपः, यस्मान्न तमसावृतः न अन्धकारपिहितः / विद्यमानस्यावरणस्य अपनयनं प्रकाशनम्, ततो युक्तं घटादीनां प्रकाशनम्, तेषां प्राग् विद्यमानत्वात् / नैवं प्रदीपस्य, तस्य प्रागविद्यमानत्वात् / न च अविद्यामानस्य प्रकाशनं युक्तम्, असत्त्वात् / तस्मान्नैव प्रकाश्यते दीपः / इति विसदृशत्वान्न प्रदीपदृष्टान्तात् साध्यसिद्धिः //

स्यादेतत्- आत्मभावमित्यादिना नैतदभिधीयते यदात्मानं घटवत् तमसावृतं प्रकाशयति दीपः, अपि तु तत्स्वभावं प्रति परनिरपेक्षतामात्रमस्याभिधीयते / एतदेवोपदर्शयन्नाह न हीत्यादि-

न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते / तथा किंचित्परापेक्षमनपेक्षं च दृश्यते // bca_9.19 //

हिरिति यस्मात् / यथा स्फटिकोपलः स्वयमनीलः सन्, नीलत्वे नीलगुणोत्पत्तिनिमित्तमन्यमुपाधिं नीलपत्रादिसंनिधिमपेक्षते, तथा स्वयमेव यद्वस्तु नीलम्, तदपि न नीलत्वे ऽन्यमुपाधिमपेक्षते / तथा तेन प्रकारेण किंचिद् घटादिकं परापेक्षं प्रदीपाद्यपेक्षं प्रकाशं दृश्यते, किंचित् पुनः प्रदीपादिकमनपेक्षं च स्वयंप्रकाशात्मकं दृश्यते उपलभ्यते / एतावन्मात्रमेव विवक्षितम् //

एवं विज्ञानवादिना उपदर्शिते विशेषे सिद्धान्तवादी नीलमेव तावन्नीलत्वे परनिरपेक्षं दृष्टान्तत्वेनोपदर्शितं प्रतिषेधयन्नाह अनीलत्व इत्यादि-

अनीलत्वे न तन्नीलं नीलहेतुर्यथेक्ष्यते / नीलमेव हि को नीलं कुर्यादात्मानमात्मना // bca_9.20 //

अयमपि न सदृशो दृष्टान्तः, यतो नीलमपि न नीलत्वे स्फटिकवन्निरपेक्षम्, तद्भावं प्रति स्वहेतुप्रत्ययापेक्षत्वात् / कदा पुनरिदमनपेक्षं स्यात्? यदि तदनीलमेव स्वहेतोरुत्पद्येत / पुनस्तद्भावे परनिरपेक्षं स्वयमेव नीलमात्मानं कुर्यात् / न चैतदस्ति / यतः अनीलत्वे नीलगुणरहितत्वे सति / नेति निषेधयति / तदिति नीलाभिमतं वस्तु / नीलं नीलगुणयुक्तमात्मानं स्वरूपमात्मना स्वयमेव न कुर्यात्, न कर्तुं शक्नोति, पूर्ववत् स्वस्मिन् क्रियाविरोधात् / तस्मान्न नीलस्यापि परानपेक्षता नीलत्वं प्रति स्फटिकवत् / तथा हि (bcp 190) स्फटिकोपलो ऽपि वस्तुतो ऽवस्थितरूप एव उपाधिसंनिधौ न नीलोपरागमनुभवति, अपि तु सर्वस्वोपादानलक्षणात् / नीलोपाधिविशेषहकारिणश्च पूर्वस्वरसनिरोधात् अन्य एव नीलगुणोपरक्तः स्फटिकोपल उत्पद्यते इति सिद्धान्तः / तस्मात् साधारणमनयोस्तद्गुणं प्रति हेतुप्रत्ययाधीनत्वम् / इति प्रकृते ऽपि साध्ये न कश्चिद्विशेषः //

ननु प्रियमिदमनुष्ठितं प्रियेण यस्मात् जडस्वभावव्यावृत्तात्मतया स्वहेतुप्रत्ययात् उत्पत्तिरेव ज्ञानस्य प्रकाशान्तरनिरपेक्षस्य आत्मप्रकाशता स्वसंवेदनमुच्यते / एतदेव त्वयापि नीलस्वरूपपरामर्षेण समर्थितम् / एतावन्मात्रेण प्रदीपो ऽपि दृष्टान्तीकृतः / न पुनरस्माभिः कर्मकर्तृक्रियाभेदेन ज्ञानस्यात्मप्रकाशनमिष्यते / एकस्य सतः कर्मादिस्वभावत्रयस्यायोगात् / तन्न क्रियादिभेदेन दूषणे ऽपि किंचिद्दूषितमस्माकं स्यात्, स्वहेतुजनितस्यात्मप्रकाशस्यानुपघातात् / इति नात्मसंवेदने प्रतिपादितदोषप्रसङ्गः / तदुक्तम्-

विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते / इयमेवात्मसंवित्तिरस्य या जडरूपता //

क्रियाकारकभेदेन न स्वसंवित्तिरस्य तु / एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः // इति / [तत्त्वसंग्रह-2000-1] अत्रोच्यते- क्रियाकारकभेदेन व्यवहारप्रसिद्धं शब्दार्थमधिगम्य दूषणमुक्तम्, स्वसंवेदनशब्दस्य तदर्थाभिधायकत्वात् / यदि पुनर्दोषभयाल्लोकप्रसिद्धो ऽपि शब्दार्थः परित्यज्यते, तदा लोकत एव बाधा भवतो भविष्यति / इत्थमपि न परमार्थतः स्वसंवेदनसिद्धिः / तथा हि हेतुप्रत्ययोपजनितस्य प्रतिबिम्बस्येव निःस्वभावत्वमुक्तम् / तथा च सुतरां न स्वसंवेदनं ज्ञानस्य, तत्त्वतो निजस्वभावाभावात् / न च स्वभावाभावे गगनोत्पलस्य आत्मसंवेदनमुचितम् / न चापि जडस्वभावता मध्यमकवादिनं प्रति परमार्थतः कस्यचित् सिद्धा, येन जडव्यावृत्तमजडं स्वसंवेदनं स्यत् / तस्मादन्यानेव वस्तुवादिनः प्रति युक्तमेतद्वक्तुम् / ततो निःस्वभावतया न कथंचिदपि स्वसंवेदनसिद्धिः / एतत् पुनः पश्चात् स्मृत्युपस्थानोपदर्शनप्रस्तावे [9.24] विस्तरेणोपदर्शयिष्यामः //

सांप्रतं प्रदीपस्य स्वयंप्रकाशतामभ्युपगम्य बुद्धेः स्वसंवेदनमयुक्तमिति प्रतिपादयन्नाह दीप इत्यादि-

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते / बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते // bca_9.22 //

भवतु वा प्रदीपस्य प्रकाशात्मता, तथापि न बुद्धिसंवेदनसाधनं प्रति सदृशो दृष्टान्त इति समुदायार्थः / दीपः प्रकाशत इति आभासते प्रकाशान्तरनिरपेक्षः स्वयमेव, इति ज्ञात्वा प्रतीत्य ज्ञानेन बुद्ध्या कथ्यते प्रतिपाद्यते, प्रदीपस्य ज्ञानविषयत्वात् / बुद्धिर्ज्ञानं (bcp 191) प्रकाशते इति यदुच्यते, तत् पुनः केन ज्ञानेन ज्ञात्वा कथ्यते इति परं पृच्छति / न चात्र किंचिद् बुद्धिप्रतिपत्तिनिबन्धनमस्तीति असंभावनां प्रकाशयति / न तावत् पूर्वज्ञानेन तत्प्रतिपत्तिः, तत्कालमनुत्पत्तेस्तस्यासत्त्वात् / नापि पश्चात्कालभाविना तदानीं क्षणिकतया ग्राह्यस्यातीतत्वात् / न च तत्समानकालभाविना तेन तस्यानुपकारात् / न च अनुपकारकस्य विषयभावः, नाकारणं विषयः इति वचनात् / नापि स्वयम्, तत्रैव विप्रतिपत्तेः / तत् कथं तत्प्रतीतिरिति न विद्मः //

इत्थं सर्वथा बुद्धेरप्रतिपत्तौ तत्संवेदनमतीव अयुक्तमित्याह प्रकाशा वेत्यादि-

प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् / वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा // bca_9.23 //

प्रकाशा वा प्रकाशात्मिका दीपवत् / अप्रकाशा वा अप्रकाशात्मिका घटादिवत् / परस्परसमुच्चये वाशब्दद्वयम् / बुद्धिः यदा दृष्टा न केनचित्, न प्रतिपन्ना केनचित् प्रतिपन्त्रा स्वयंरूपेण वा / यदेति पदं तदेत्याकर्षति / तदा वन्ध्याया अप्रसवधर्मिण्याः स्त्रिया दुहिता पुत्री, तस्या लीला विलासो ललितं तद्वत् / कथ्यमानापि आख्यायमानापि सा मुधा / सेति बुद्धिः / मुधेति निष्फला / वन्ध्यादुहितुरविद्यमानतया प्रतिपन्नत्वात् तल्लीला सुतरामप्रतिपन्नेत्यभिप्रायः / अथवा / अनुत्पन्नानिरुद्धस्वभावतया वन्ध्यादुहितृस्थानीया बुद्धिः / अप्रतीततत्स्वभावतया तल्लीलावत् स्वसंवित्तिः / तदप्रतीतेः तस्या अपि अप्रतीतिरिति कथ्यमानापि युक्तिरहितेन वचनमात्रेण सा स्वसंवित्तिर्मुधाः, अनुपादेयत्वान्निष्प्रयोजना //

स्यादेवम्- युक्तिशून्यं वचनमात्रमेतत् / यतः इयमत्र युक्तिरस्तीत्याह यदि नास्तीत्यादि-

यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम् /

यदि स्वसंवेदनं विज्ञानस्य नास्ति न विद्यते, तदा विज्ञानं स्मर्यते कथम्? विज्ञानस्य स्वसंवेदनाभावादुत्तरकालं स्मरणं न स्यात् / न हि अननुभूतस्मरणं युक्तम्, अतिप्रसङ्गात् / तस्मादनुभवफलस्य स्मरणस्य उत्तरकालं दर्शनात् ज्ञानसंवेदनमस्तीत्यनुमीयते इति / नैतत् साधनं साधीयः / यतो यदि स्वसंवेदनकार्यतया स्मरणं निश्चितं भवेत्, भवेद् वह्वेर्यथा धूमः स्वसंवेदनस्य कारणं स्मृतिः / न च असिद्धे स्वसंवेदने प्रमाणतः, स्मरणस्य तत्कार्यताग्रहणमस्ति / सर्वथा उभयप्रतिपत्तिनान्तरीयकत्वात् कार्यकारणभावप्रतिपत्तेः / न च चक्षुरादेरिव विज्ञानम्, अदर्शने ऽपि स्मरणं तत्कार्यं सेत्स्यति, चक्षुषो हि व्यतिरेके नीलादिज्ञानाभावतो [व्यतिरेकद्वारेण] तत्कार्यमनुमीयते / स्मृतिस्तु ज्ञानसंवेदनमन्तरेणापि भवतीति प्रतिपादयिष्यामः, इति स्वसंवेदनकार्यतानिश्चयमन्तरेण स्मरणस्य (bcp 192) तद्विनाभावान्न संवेदनसिद्धिः / अतः स्मरणमपि ज्ञानत्वात् कथं सिद्धमिति वक्तव्यम् / न च स्वयमसिद्धं लिङ्गं ज्ञापकमन्यस्य / न च स्मरणं स्वसंवेदनस्य प्रत्यक्षतया ग्राहकम्, तस्य तस्मादन्यत्वात् / न च ज्ञानस्य ज्ञानान्तरविषयत्वम्, बहिरर्थवत् संबन्धासिद्धयादिदोषप्रसङ्गात् / अन्यत्वाविशेषात् संतानान्तरभाविनापि स्मरणेन तस्य ग्रहणं स्यात् / अथ तेन पूर्वमननुभूतत्वान्न स्मर्यत इति चेत्, एकसंततिपतितेनापि न पूर्वमनुभूतमिति समानः प्रसङ्गः //

कार्यकारणभावो ऽपि न तस्य नियामको युज्यते, कार्यकारणभावस्यैव परमार्थतो ऽभावात्, सत्यपि तस्मिन् सर्वज्ञानानां स्वप्रतिपत्तिनिष्ठतया तद्गहणस्याशक्यत्वात् / यथाव्यवहारमभ्युपगमे काल्पनिकत्वम्, काल्पनिकत्वे च सर्वव्यवहाराणां कल्पनानिर्मितत्वात् सांवृतत्वमिति साधितं नः साध्यम् / इति न स्मृतेः स्वसंवेदनसिद्धिः //

भवतो ऽपि कथं तर्हि स्वसंवेदनाभावे स्मृतिरित्याह अन्यानुभूत इत्यादि- अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा // bca_9.24 // ज्ञानादन्यस्मिन् ग्राह्ये वस्तुनि विषये ऽनुभूते सति ज्ञाने स्मृतिः स्मरणमुपजायते / ननु अन्यस्मिन्ननुभूते अन्यत्र स्मरणे अतिप्रसङ्गः स्यादित्याह- संबन्धादिति / विषये ऽनुभूते तद्विज्ञानस्मरणं संबन्धाद्भवति / विज्ञानं हि तद्गाहकतया तत्संबद्धम्, अतो विज्ञानं स्मर्यते, नान्यत् / सत्यपि संबन्धे अन्यस्मिन्ननुभूते अन्यस्य स्मरणे विप्लुतं स्मरणं स्यादिति चेन्न, पूर्वमनुभूतो विषयः उत्तरकालमनुस्मर्यमाणः स एवानुभवविशिष्टो ऽनुस्मर्यते / तद्विशिष्टस्य तस्य ग्रहणात् / ज्ञानमेव च विषयानुभवो नान्य इति विषयानुभवस्मरणात्तत्संबद्धतया ज्ञाने स्मरणमभिधीयते, न तु विषयरहितं ज्ञानमपि केवलमनुस्मर्यते इत्यदोषः //

ननु कथमिव ज्ञानसंवेदनाहितस्मृतिवासनाबीजमन्तरेण स्मृतिरुत्तरकालं स्यादित्याहआखुविषं यथेति / आखुविषं मूषिकविषं यथा संबन्धात् कालान्तरेण जायते, तथा स्मृतिरपीत्यर्थः / तथा हि मूषिकविषमेकस्मिन् क्षणे शरीरसंक्रान्तं पुनः कालान्तरेण मेघस्तनितमधिगम्य विनापि स्वसंवेदनाहितस्मृतिवासनाबीजमिदंप्रत्ययतामात्रायतवृत्तित्वात् अन्यस्मिन् क्षणे विकृतिमुपयाति, तथा प्रकृते ऽपि न दुष्यतीति भावः //

पुनरपि विज्ञानवादी ज्ञानसंवेदनसिद्धये प्रकारान्तरमुपदर्शयितुमाह प्रत्ययान्तरेति-

प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते /

प्रत्ययान्तरं कारणान्तरम् [कालान्तरम् ?] / ईक्षणिकादिविद्या परचित्तादिज्ञानाभिज्ञा च ताभ्यां युक्तस्य तत्सामग्रीसंबद्धस्य चित्तस्य दर्शनात् प्रतिभासनात् विज्ञानस्य खं प्रकाशते स्वरूपं प्रतिभासते / संवेदनमस्तीति यावत् / यदि हि तत् सर्वदा परोक्षरूपं कथं कदाचित् सामग्रीविशेषादुपलभ्येत, ततो यथा सामग्रीविशेषात् परचित्तमुपलभ्यते, तथा समनन्तरालम्बनादिप्रत्ययात् स्वचित्तमप्युपलभ्यते इति भावः / एतदपि न ज्ञानसंवेदनसामर्थ्यमित्याह सिद्धाञ्जनेत्यादि- सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् // bca_9.25 // सिद्धं च तदञ्जनं च, सिद्धस्य वा अञ्जनम्, तस्य विधिः विधानं प्रयोगः, तस्माद् दृष्टः प्रतीतः घटो निधानादि वा नैव अञ्जनं भवति / न च घटादिरञ्जनमेव स्यात् / न यद् यस्मात्प्रतीयते तदेव तद्भवति / एवमीक्षणिकादिविद्यासहकारिणा ज्ञानेन परचित्तं च घटादिवद् दृष्टमिति नैतावता तत्संवेदनं सिद्धं स्यात् / तस्मान्नैतदपि साध्योपयोगि साधनम् / ननु यदि ज्ञानमविदितस्वरूपं स्यात्, अर्थस्यापि प्रतीतिर्न स्यात् / अव्यक्तव्यक्तिकत्वाद् ज्ञानस्य, न हि अर्थस्य व्यक्तिः / तदप्रतीतौ कथमर्थस्य प्रतीतिः? तथा हि स्वसंवेदनस्य प्रतिषेधात्, अन्येन अन्यस्य ग्रहणायोगाच्च, तद्गहणाभ्युपगमे च उत्तरोत्तरस्य अप्रतीतस्य प्रतीतये ज्ञानान्तरानुसरणेन अनवस्थाप्रसङ्गाच्च न कथंचिदपि अर्थस्य प्रतीतिरिति / तेन यदुक्तम् "अन्यानुभूते" इत्यादि, तदसंगतम्, अर्थस्यानुभवाभावात् //

सर्वश्चायं दृष्टादिव्यवहारो लोके न स्यादित्याह यथा दृष्टमित्यादि / यदुच्यते दृष्टादिव्यवहारो न स्यादिति, स किं परमार्थतो न स्यात्, संवृत्या वा? तत्र यदि परमार्थतो न स्यादित्युच्यते, तदा प्रियमिदमस्माकम् / न हि सांवृतस्य परमार्थचिन्तायामवतारो ऽस्ति / अथ लोकप्रसिद्धिः, तदा-

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते /

इति / यथा दृष्टमिति चक्षुरादिविज्ञानेन प्रत्यक्षेण प्रतिपन्नम् / श्रुतमिति परपुद्गलादागमाच्च / ज्ञातमिति त्रिरूपलिङ्गजादनुमानान्निश्चितम् / तदेतदिह सर्वं व्यवहारमाश्रित्य नैव प्रतिषिध्यते, नैव वार्यते / यद् यथा लोकतः प्रतीयते, तत् तथैव अविचारितस्वरूपमभ्युपगम्यते लोकप्रसिद्धितः, न तु पुनः परमार्थतः / तेन ज्ञानसंवेदनाभावादर्थानधिगमादयो ऽपि दोषाः परमार्थपक्षवादिन इह नावतरन्ति / यदि तत् तथैवाभ्युपगम्यते, किं नाम तर्हि प्रतिषिध्यते इत्याह सत्यत इत्यादि- सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते // bca_9.26 // सत्यतः परमार्थतः / कल्पना आरोपः / तुशब्दः पुनरर्थे / सा पुनरत्र विचारे सिद्धान्ते वा / निवार्यते प्रतिषिध्यते / कुतः? दुःखहेतुरिति / हेतुपदमेतत् / दुःखस्य हेतुः कारणं यस्मात्, तस्मादित्यर्थः / उपादानस्कन्धानां सदसदादिकल्पनाहितप्रवृत्तिहेतुत एव च संसारः / संसारश्च दुःखस्वभावः /

दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते / [अभि. कोश-1.8]

इति वचनात् / इति सत्यतः कल्पना दुःखहेतुर्भवति / तस्मादसत्समारोपकल्पनाभिनिवेशप्रतिषेधमात्रमत्राभिप्रेतम्, न तु वास्तवं किंचित् प्रतिषिध्यते इति / तदेवं स्वसंवेदनं ज्ञानस्य न कथंचिदचिदपि युज्यते / तदुक्तम्-

न बोध्यबोधकाकारं चित्तं दृष्टं तथागतैः / यत्र बोद्धा च बोध्यं च तत्र बोधिर्न विद्यते //

इति /

यत्तु क्वचिद् भगवता चित्तमात्रतास्तित्वमुक्तम्, तत् स्कन्धायतनादिवन्नेयार्थतयेति कथयिष्यते //

इदानीं प्रासङ्गिकं परिसमाप्य प्रकृते योजयन्नाह चित्तादन्येत्यादि-

चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते / वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः // bca_9.27 //

तर्हि चित्तादन्या माया स्यात्, अनन्या वा स्यात्, उभयस्वभावा वा, अनुभयस्वभावा वा, इति चत्वारो विकल्पाः / तत्र न तावत् प्रथमपक्षः, चित्तादन्याभ्युपगमे ऽपि चित्तमात्रं जगदिच्छतः सिद्धान्तविरोधः स्यात् / द्वितीयपक्षे तु "यदा मायैव ते नास्ति" [9.6] इत्यादिना प्रतिपादित एव दोषः / तृतीयस्तु प्रकारो न संगच्छते, परस्परविरुद्धयोरेकत्राभावात् / अथ चतुर्थी कल्पना, सापि न संगच्छते / तामुपादायोच्यतेचित्तादन्या न माया इत्यन्यत्वप्रतिषेधः / अनन्या तर्हि, नाप्यनन्येति तत्त्वस्यापि प्रतिषेधः, इति उभयपक्षपातश्चेद्यदि कल्प्यते व्यवस्थाप्यते, सो ऽपि न युक्तः, अन्योन्यपरिहारवतोरेकप्रतिषेधस्य अपरविधिनान्तरीयकत्वात् तयोरेकत्राभावात् चतुर्थी कल्पना सापि न संघटते // अपि च / वस्तु चेदिति / यदि सा माया वस्तुसती कथं नान्या चित्ताद्वयतिरिक्ता न भवति? अथ अनन्या चेत्, यदि चित्तमेव माया, तदा नास्ति वस्तुतः, न विद्यते परमार्थतः, तस्यास्तत्स्वभावत्वात् चित्तमेव केवलम् इत्येतत् तदेवायातम् / यदुक्तम्-

यदा मायैव ते नास्ति तदा किमुपलभ्यते / इति //

अधुना प्रकृतं प्रसाध्य उपसंहरन्नाह असत्यपीत्यादि-

असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः /

असती उपलभ्यमाना माया हस्त्यादिवद्वस्तुतो ऽसत्स्वभावा / तादृश्यपि दृश्या दर्शनविषया यथा माया, द्रष्टु तथा मनः / सैव असती माया दृश्या दृष्टान्तः, तथा मनः परमार्थतो ऽसत्स्वभावमपि दर्शनसमर्थं भविष्यति / तेन "यदा न भ्रान्तिरप्यस्ति" [9.15] इत्यादि यदुक्तं परेण तत् प्रसाध्य उपसंहारेण दर्शितम् / पुनरपि प्रकारान्तरेण परमार्थसद्विज्ञानसाधनाय परोपक्रममभिसंधाय आह वस्त्वाश्रयश्चेत्यादि- वस्त्वाश्रयश्चेत्संसारः सो ऽन्यथाकाशवद्भवेत् // bca_9.28 //

तथाहि- संक्लेशो व्यवदानं च हेयोपादेयतया द्वयमिदं यथावत् प्रतिपत्तव्यम् / तत्र रागादिमलावृतं चित्तं संक्लिष्टमित्युच्यते / ते च अभूतसमारोपबलोत्पन्नत्वादागन्तुकाश्चित्ताश्रिताः प्रवर्तन्ते / तत्प्रभूतकर्मजन्मपरंपरोपनिबन्धः संसारः प्रजायते / तदेव चित्तं परमार्थतः प्रकृतिप्रभास्वरमनागन्तुकमभूतपरिकल्पसमुत्थग्राह्यग्राहकादिद्वयसमारोपाभिनिवेशवासनाशून्यमद्वयस्वभावमागन्तुकदोषविनिर्मुक्तमाश्रयपरावृत्तेर्व्यवदानमित्युच्यते / तदेवं (bcp 195) संक्लेशव्यवदानयोर्वस्तुसमुद्भूतचित्तमन्तरेण व्यवस्थापनं न घटते इति मन्यन्ते, संसारनिर्वाणयोश्चित्तधर्मत्वात् / चित्तमेव संक्लिश्यते, चित्तमेव व्यवदायते इति वचनात् / तदेव परमतं निरूपयति-वस्त्वेव वस्तुसद्भूतचित्तमेव आश्रयः अस्येति वस्त्वाश्रयः / चेत् यदि संसारो व्यवस्थाप्यते, तदा संसारो ऽन्यथा भवेत्, चित्तादन्यः स्यात्, वस्तुनो ऽन्यत्वे अवस्तु स्यात्, चित्तस्यैव च वस्तुत्वात् / कथमिव? आकाशवत् गगनमिव / य एष चित्ताश्रयः संसारो ऽभिधीयते, स किं वस्तु अवस्तु वा? वस्त्वपि चित्तं तदन्यद्वा? तत्र यदि वस्तु चित्तमेव, तदा न चित्तादन्यः संसारस्तदाश्र्यः, चित्तमेव सः / चित्तं च प्रकृतिप्रभास्वरतया व्यवदानस्वभावत्वान्न प्रहेयम् / अथ चित्तादन्यः, तदा चित्तव्यतिरिक्तस्य अन्यस्याभ्युपगमात् सिद्धान्तक्षतिः / अथ अवस्तु, तदा संसारो नाम न किंचिदस्ति, खरविषाणवत् / अत एवाह आकाशवत् इति / यथा आकाशं प्रज्ञप्तिसन्मात्रमसत्, न क्वचिदर्थक्रियायां समर्थम्, तथा संसारो भवतः स्यात् / अथवा / आकाशवदिति

निःस्वभावत्वादस्मत्सिद्धान्तानुप्रवेशः //

स्यादेतत्- यदि नाम अवस्तु, तथापि वस्तुसद्भूतचित्तसमाश्रितत्वात् तस्य अर्थक्रियासामर्थ्यं भविष्यतीत्याह वस्त्वाश्रयेणेत्यादि-

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.