Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
बोधिचर्यावतारपञ्जिका
- Tác giả
- प्रज्ञाकरमति
- Thông tin
- GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(bcp 68) सर्वेषां हीनमध्योत्कृष्टानां सत्त्वानाम् / सर्वे वा उपक्रमाः दुःखपरिहारेण तुष्टयर्थाः / सर्वारम्भपरिश्रमेण तुष्टिरेवोत्पादयितव्येत्यर्थः / सा च तुष्टिर्धनविसर्गैरपि दुर्लभा, स्याद्वा न वेति / इह पुनरयत्नसिद्धोपस्थिता कस्मात्परिहीयत इति मत्वा भोक्ष्ये अनुभविष्यामि संतोषसुखम् अन्ययत्ननिष्पादितैर्गुणैरुपनामितम् / न हि प्रियपुत्रगुणैरक्षमायुक्ता / इति भावनया परगुणश्रवणाच्चित्तकार्कश्यमपकुर्यात् //
अत्रैवोपचयमाह-
न चात्र मे व्ययः कश्चित्परत्र च महत्सुखम् / अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च // bca_5.78 //
नैव अस्मिन्नर्थे प्रवृत्तिमतो मम इहलोके वा उपक्षयलेशो ऽपि संभवति / उपचयः पुनर्विद्यत एवेति दर्शयति- परत्र महत्सुखं परगुणाभिनन्दनात् / एवमक्रियमाणे पुनरपचयो दृश्यते, उभयलोके ऽपि दुःखं परगुणासहनात् //
तस्मात् सर्वकल्मषपरित्यागेन इयमुचिता कर्मकारिता शिक्सणीयेत्याह-
विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् / श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् // bca_5.79 //
सर्वावद्यविनिर्मुक्तत्वाद्विश्चस्तम् / आनुपूर्व्या व्यवस्थितपदम् / असंदिग्धार्थम् / मनःप्रह्लादनकरम् / श्रवणाप्यायकम् / करुणारसनिष्यन्दभूतं न रागादिनिदानम् / मृदुस्वरमकर्कशवचनम् / मन्दस्वरं यावता ध्वनिना प्रतिपाद्यस्य प्रतीतिः स्यात्, न ततो न्यूनं नातिरिक्तमुदीरयन् /
ऋजु पश्येत्सदा सत्त्वांश्चक्षुषा संपिबन्निव / एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति // bca_5.80 //
अवक्रमकुटिलं परमप्रीतिरसभरावनतेन चक्षुषा तृषित इव शीतलजल परमाह्लादकरं संपिवन्निव सत्त्वान् व्यवलोकयन् / न रक्तेन न दुष्टेन मुग्धेन / परमोपकारका ह्येते / कुतः? यस्मादेतान् सत्त्वान् समासाद्य दुर्लभलाभं बुद्धत्वं मे भविष्यति उत्पत्स्यते / एवं च विहरन् अद्यत्वे ऽपि सत्त्वार्थसमर्थो भवत्येव / यदुक्तम्-
सर्वत्राचपलो मन्दमितस्निग्धाभिभाषणात् / आवर्जयेज्जनं भव्यमादेयश्चापि जायते //
इति / [शिक्षा. स. कारिका-10]
एतदेव च बोधिसत्त्वस्य कृत्यं यदुत सत्त्वावर्जनं नाम / यथा धर्मसंगीतिसूत्रे आर्याप्रियदर्शनेन बोधिसत्त्वेन परिदीपितम्-
तथा तथा भगवन् बोधिसत्त्वेन प्रतिपत्तव्यं यत्सहदर्शनेन सत्त्वाः प्रसीदेयुः / तत्कस्माद्धेतोः? न भगवन् बोधिसत्त्वस्यान्यत् करणीयमस्ति अन्यत्र सत्त्वावर्जनात् / सत्त्वपरिपाक एवेयं भगवन् बोधिसत्त्वस्य धर्मसंगीतिरिति //
(bcp 69) एवमक्रियमाणे को दोष इति चेत्-
अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम् / भस्मच्छन्नं यथा बह्निं पच्येत नरकादिषु //
इति / [शिक्षा. स. कारिका-11]
तस्मात् सत्त्वाराधनमेव बोधिसत्त्वस्य कर्म उपकारिक्षेत्रमसाधारणं पुण्यप्रसूतिहेतुरिति //
तत्प्रसङ्गेन अन्यदपि दर्शयन्नाह-
सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च / गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् // bca_5.81 //
समादानेन क्रियमाणम् / अभिनिवेशोत्थं तीव्रप्रसादजनितम् / प्रतिपक्षोत्थं क्लेशप्रतिपक्षशून्यतादिभावनाप्रसूतम् / गुणक्षेत्रं बुद्धबोधिसत्त्वादि / उपकारिक्षेत्रं मातापितादि / दुःखिता ग्लानादयः / एतेषु स्वल्पमति कृतमप्रमेयशुभहेतुरुपजायते //
इदमपि बोधिसत्त्वेनाभ्यसनीयमित्याह-
दक्ष उत्थानसंपन्नः स्वयंकारी सदा भवेत् / नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु // bca_5.82 //
दक्षः सर्वत्र पटुप्रचारः / उत्थानसंपन्नः कौसीद्यापनयनाद् वीर्यसमन्वागतः / अत एव स्वयमेव सर्वं करणीयम्, न परापेक्षा क्वचिदपि कर्मणि कार्या / इदमेव नावकाश इत्यादिना दर्शयति //
पारमिताभ्यासे ऽनर्थविवर्जनायानुपूर्वकारितामाह-
उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः / नेतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः // bca_5.83 //
उपर्युपरितः / दानाच्छीलं श्रेष्ठम्, शीलात् क्षान्तिरित्यादयः / अतो ऽवरपारमिताहेतोरुत्तरं न त्यजेत् / तद्विरोधेन न सेवेतेति भावः / किं सर्वथा? नेत्याह- अन्यत्रेति / बोधिअत्त्वानां य आचारः शिक्षासंवरलक्षणः स एव कुशलजलरक्षणाय सेतुबन्धो विहितः, तस्मादन्यत्र तं विहाय / स यथा न भिद्यते इत्यर्थः //
तस्मात्संभारमुपादित्सुना करुणापरतन्त्रेण सर्वं करणीयमुक्तमित्याह-
एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः / निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः // bca_5.84 //
एवमनुत्तरं ज्ञात्वा सत्त्वानां हितसुखविधानाय नित्यमारब्धवीर्यो भवेत् / प्रतिषिद्धार्थे प्रवृत्तौ कथं न सापत्तिक इति चेत्, न / क्वचिन्निषिद्धमपि सत्त्वार्थविशेषं प्रज्ञाचक्षुषा (bcp 70) पश्यतः करणीयतया अनुज्ञातं भगवता / सनिःसरणं च भगवतः शासनम् / तच्चापि न सर्वस्य, अपि तु कृपालोः करुणाप्रकर्षप्रवृत्तितया तत्परतन्त्रस्य परार्थैकरसस्य स्वप्रयोजनविमुखस्य / इति प्रज्ञाकरुणाभ्यामुद्भूतपरार्थवृत्तेरुपायकुशलस्य प्रवर्तमानस्य नापत्तिः / अत्र च उपालिपरिपृच्छायामापत्त्यनापत्तिविभागो वेदितव्यः / तथा उपायकौशल्यसूत्रे ज्योतिष्कमाणवकाधिकारे //
एषा रक्षात्मभावस्य भैषज्यवसनादिभिः / [शिक्षा. स. कारिका-13]
इत्येतत् प्रतिपादयितुमाह-
विनिपातगतानाथव्रतस्थान् संविभज्य च / भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् // bca_5.85 //
भैषज्यवसनादिभिरात्मभावो हि परिपालनीयः परार्थोपयोगित्वात् / यथोक्तं प्राकूतत्र द्विविधं भैषज्यं सततभैषज्यं ग्लानप्रत्ययभैषज्यं च / तत्र सततभैषज्यमोदनादि / तदर्थं पिण्डाय गोचरे चरता ग्रामप्रवेशे यथोक्तशिक्षायां स्मृतिमाधाय चरितव्यम् / ततो लब्धात् पिण्डपातात् चतुर्थभागविभक्तात् विनिपातगताननाथव्रतस्थान् संविभागिनः कुर्यात् / एकं प्रत्यङ्गं विनिपातिनाम् / द्वितीयमनाथानाम् / तृतीयं सब्रह्मचारिणां दत्वा चतुर्थमात्मना परिभुञ्जीत / स परिभुञ्जानो न रक्तः परिभुङ्क्ते असक्तः, अगृद्धः, अनध्यवसितः, अन्यत्र यावदेवास्य कायस्य स्थितये यापनायै / मध्यमां मात्राम् / तथा च परिभुङ्क्ते यथा नातिसंलिखितो भवति, नातिगुरुकायः / तत्कस्य हेतोः? अति संलिखितो हि कुशलपक्षपराङ्मुखो भवति, अतिगुरुकायो मिद्धावष्टब्धो भवति / तेन तं पिण्डपातं परिभुज्य कुशलपक्षाभिमुखेन भवितव्यम् / इति आर्यरत्नमेघे ऽभिहितम् / आर्यरत्नराशावपि-
परिभुञ्जता च एवं मनसिकार उत्पादयितव्यः- सन्ति अस्मिन् काये अशीतिकृमिकुलसहस्राणि, तानि अनेनैवोजसा सुखं विहरन्तु / इदानीं चैषामामिषेण संग्रहं करिष्यामि / बोधिप्राप्तश्च पुनर्धर्मेण संग्रहं करिष्यामि / इति विस्तरः //
पुनरत्रैवोक्तम्-
द्वयोरहं काश्यप श्रद्धादेअयमनुजानामि / कतमयोर्द्वयोः? युक्तस्य मुक्तस्य च / इति //
अनया दिशा सर्वपरिभोगाः सत्त्वार्थमधिष्ठातव्याः / अन्यथा-
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते //
इति //
[शिक्षा. स. कारिका-13]
(bcp 71) यथोक्तं चन्द्रप्रदीपसूत्रे-
ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः / तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः //
[=समाधि. 9. 29]
विस्तरेण चैतच्छिक्षासमुच्चये द्रष्टव्यम् //
ग्लानभैषज्यं तु यामिकं साप्ताहिकं यावज्जीविकमिति त्रिविधम् / एतच्च भिक्षुविनये प्रतिपादितं तत्रैवावधार्यम् //
वसनादिभिरात्मरक्षामाह- त्रिचीवरबहिस्त्यजेत् / इति / सचेदागत्य कश्चिद् बोधिसत्त्वं पात्रचीवरं याचेत, तेन अतित्यागो न कर्तव्यः / किं तु यत्तदनुज्ञातं भगवता- त्रिचीवरं श्रमणकल्पः, ततो ऽतिरिक्तं च यद्भवेत्, त्यक्तव्यमर्थिने, नान्यथा / उक्तं च बोधिसत्त्वप्रतिमोक्षे- सचेत्पुनः कश्चिदागत्य पात्रं वा चीवरं वा याचेत, सचेत्तस्यातिरिक्तं भवेद् बुद्धानुज्ञातात्त्रिचीवरात्, यथापरित्यक्तं दातव्यम् / सचेत्पुनस्तस्य ऊनं त्रिचीवरं भवेत् यन्निश्रित्य ब्रह्मचर्यावासः, तन्न परित्यक्तव्यम् / तत्कस्माद्धेतोः? अविसर्जनीयं हि त्रिचीवरमुक्तं तथागतेन / सचेच्छारिपुत्र बोधिसत्त्वस्त्रिचीवरं परित्यज्य याचनगुरुको भवेत्, न तेन अल्पेच्छता आसेविता भवेत् / इति //
अतित्यागं निषेधयन् पुनरात्मरक्षामुपदर्शयन्नाह-
सद्धर्मसेवकं कायमितरार्थं न पीडयेत् / एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् // bca_5.86 //
सतां सत्पुरुषाणां बोधिसत्त्वानां धर्मः / लौकिकलोकोत्तरपरहितसुखविधानम् / तत्सेवकं कायम् अल्पार्थनिमित्तं न पीडयेत् / अन्यथा महतो ऽर्थराशेर्हानिः स्यात् / अत एव पूर्वस्मिन् हेतुपदमेतत् / कुतः पुनरेवम्? यस्मादनेनैव सुकुमारोपक्रमेण संवर्धमानः शीघ्रमेव सत्त्वानां हितसुखसंपादनसमर्थो भवति //
यत एवं तस्मात्-
त्यजेन्न जीवितं तस्मादशुद्धे करुणाशये / तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते // bca_5.87 //
स्वशरीरशिरोदानादि न कर्तव्यमिति निषिद्धम् / कदा? अशुद्धे मित्रामित्रेतरसर्वव्यसनिजनसाधारणप्रवृत्ते कृपाचित्ते / अत्यारब्धेन हि वीर्येण स्वपरहितार्थस्य बाधा स्यात् / समप्रवृत्ते पुनराशये स्वपरात्मनो ऽतिरिक्ते वा न निषिध्यते / यदुक्तम्- तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ / अधिकसत्त्वार्थशक्तेस्तुल्यशक्तेर्वा (bcp 72) बोधिसत्त्वस्य अधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याविति सिद्धं भवति / इदमेव च संधाय बोधिसत्त्वप्रातिमोक्षे ऽभिहितम्- यस्तु खलु पुनः शारिपुत्र अभिनिष्क्रान्तगृहावासो बोधिसत्त्वो बोध्यङ्गैरभियुक्तः, तेन कथं दानं दातव्यम्, कतरं दानं दातव्यम्, कियद्रूपं दानं दातव्यम् / पेयालं / धर्मदायकेन भवितव्यम् / यश्च शारिपुत्र गृही बोधिसत्त्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नपरिपूर्णानि तथागतेभ्यो ऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्यात्, यश्च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्त्वः एकां चतुष्पदिकां गाथां प्रकाशयेत्, अयमेव ततो बहुतरं पुण्यं प्रसवति / न शारिपुत्र तथागतेन प्रव्रजितस्य आमिषदानमनुज्ञातम् / पेयालं / यस्य पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद्धार्मिको धर्मलब्धः, तेन साधारणभाजिना भवितव्यं सार्धं सब्रह्मचारिभिरिति //
तत्रैवाह- यस्तु खलु पुनः शारिपुत्र अनभिनिष्क्रान्तगृहावासो बोधिसत्त्वः, तेन धर्म आसेवितव्यः / तत्र तेनाभियुक्तेन भवितव्यमिति / अन्यथा हि एकसत्त्वार्थसंग्रहार्थं महतः सत्त्वराशेस्तस्य च सत्त्वस्य बोधिसत्त्वाशयपरिकर्मान्तरायान्महतो ऽर्थस्य हानिः कृता स्यादिति //
अनेनोपायकौशलेन विहरन् न बोधिमार्गात्परिभ्रश्यते / अयमभिप्रायः- दत्तः पूर्वमेव अनेन आत्मभावः सर्वसत्त्वेभ्यः / केवलमकालपरिभोगात्परिरक्षणीयः / अतो न मात्सर्यस्यावकाशः / नापि प्रतिज्ञातार्थहानिरिति / यदुक्तम्-
भैषज्यवृक्षस्य सुदर्शनस्य मूलादिभोग्यस्य यथैव बीजम् / दत्वापि संरक्ष्यमकालभोगात् संबुद्धभैषज्यतरोस्तथैव //
इति //
सत्त्वाशयरक्षणादप्यात्मा रक्षितव्य इत्याह-
धर्मं निर्गौरवे स्वस्थे न शिरोवेष्टिते वदेत् / सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके // bca_5.88 //
देवमनुष्यपूजितो हि भगवतो धर्मः / ततो ऽवध्यायन्ति देवतादयो गौरवमकुर्वतो धर्मप्रकाशनात् / निषिद्धं चैतद्भगवता इति तदाज्ञातिक्रमे सापत्तिको भवेत् / न वस्त्रादिबद्धशिरसि / सहशब्देन त्रिष्वपि संबन्धः / तथोत्तरीयादिना पिहितशीर्षे / प्रत्येकं स्वस्थ इति संबन्धनीयम् / ग्लाने पुनरनापत्तिः / उपलक्षणं चैतत् / न स्थितेन सुप्ताय निषण्णाय वा, न निषण्णेन सुप्ताय, न चानासनेन निषण्णाय / नोत्पथयायिना मार्गयायिने, नाग्रगामिने पृष्ठगामिना, नाप्यलंकारयुक्ताय / इत्यादयो ऽपि द्रष्टव्या इति //
इदमप्यनर्थविवर्जनाय मूलापत्तिकारणमकरणीयमित्याह-
गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना /
(bcp 73) गम्भीरो दुर्मेधसामगाधत्वात् / उदारश्च प्रकर्षपर्यन्तत्वात् / तादृशं च धर्ममल्पेषु असंस्कृतबुद्धिषु हीनाधिमुक्तिषु वा न वदेदिति प्रकृतेन संबन्धः / न मातृग्रामस्य एकाकी रहोगतो धर्मं वदेत् / वदन् सापत्तिको भवति / न दोषः पुरुषो यदि स्यात् // हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् // bca_5.89 // श्रावकयानभाषितेषु वा महायानभाषितेषु वा धर्मेषु तुल्यं चित्तप्रसादादिकं कुर्यात् / अन्यथा सद्धर्मप्रतिक्षेपः स्यात् //
नोदारधर्मपात्रं च हीने धर्मे नियोजयेत् / न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् // bca_5.90 //
गम्भीरोदारधर्मभाजनं च सत्त्वं निमित्तज्ञैर्ज्ञात्वा न श्रावकयानादिधर्मेष्ववतारयेत् / न च आचारं शिक्षासंवरकरणीयतां मुक्त्वा सूत्रान्तादिपाठेनैव तव शुद्धिर्भविष्यति इति धर्मकामं प्रभावयेत् / आह चात्र- पुनरपरो ऽनर्थो रत्नकूटे दृष्टः- अपरिपाचितेषु सत्त्वेषु विश्वासो बोधिसत्त्वस्खलितम् / अभाजनीभूतेषु उदारबुद्धधर्मप्रकाशना बोधिसत्त्वस्खलितम् / उदाराधिमुक्तिकेषु सत्त्वेषु हीनयानप्रकाशना बोधिसत्त्वस्खलितमिति //
आर्यसर्वधर्मवैपुल्यसंग्रहे सूक्ष्मो ऽप्यनर्थ उक्तः- सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावरणम् / यो हि कश्चिन्मञ्जुश्रीः तथागतभाषिते धर्मे कस्मिंश्चित् शोभनसंज्ञां करोति, क्वचिदशोभनसंज्ञाम्, स सद्धर्मं प्रतिक्षिपति / तेन सद्धर्मप्रतिक्षेप्त्रा तथागतो ऽभ्याख्यातो भवति, संघो ऽपवादितो भवति, य एवं वदति- इदं युक्तमिदमयुक्तम् / इति विस्तरः //
आर्याकाशगर्भसूत्रे च मूलापत्तिप्रस्तावे चोक्तम्- पुनरपरमादिकर्मिको बोधिसत्त्वः केषांचिदेवं वक्ष्यति- किं भोः प्रातिमोक्षविनयेन? शीलेन सुरक्षितेन शीघ्रं त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयस्व / महायानं पठ / यत्ते किंचित् कायवाङ्मनोभिः क्लेशप्रत्ययादकुशलं कर्म समुदानीतम्, तेन ते शुद्धिर्भविष्यत्यविपाकम्, यावद्यथा पूर्वोक्तम् / इयमादिकर्मिकस्य बोधिसत्त्वस्य तृतीया मूलापत्तिरिति //
अतः इदमपि प्रातिमोक्षनिषिद्धं नाचरणीयमित्याह-
दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् / नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् // bca_5.91 //
खेटस्य श्लेष्मणो विसर्जनमपावृतं न कुर्यात् / जले स्थले भोग्ये उपभोग्ये मूत्रपुरीषादेरपि कुत्सितम् / अत्रापि देवताद्यवध्यानादपुण्यं प्रसवेत् //
मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम् / प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् // bca_5.92 //
मुखं पूरितं कृत्वा महत्कवलग्रहणात् / सशब्दं सुकसुनिकादिशब्देन / [प्रसृताननं] दूरं विदारितमुखम् / प्रलम्बपादं भूम्याद्यलग्नपादं खट्वाद्यारोहणे सति नासीत / द्वावपि बाहू सममेकस्मिन् काले न मर्दयेत् / क्रममर्दने न दोषः / सति प्रत्यये //
(bcp 74) नैकयान्यस्त्रिया कुर्याद्यानं शयनमासनम् /
एकया अद्वितीयया अन्यस्त्रिया / गृहिप्रव्रजितयोरिदमिह साधारणमित्यन्यग्रहणम् / न कुर्याद्यानादि / संक्षेपेण संकलय्य दर्शयन्नाह- लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् // bca_5.93 // लोकानां यत् प्रसादजनकं न भवति, तत् सर्व दृष्ट्वा शास्त्रे व्यवहारे वा / पृष्ट्वा विज्ञान् / वर्जयेत् / अनेनैतद्दर्शितं भवति- दृष्टे ऽपि यद्बाधाकरमेवंविधं तद्वर्जयेत् आपत्तिर्भवतीति / यदुक्तम्-
रत्नमेघे जिनेनोक्तस्तेन संक्षेपसंवरः / येनाप्रसादः सत्त्वानां तद्यत्नेन परित्यजेत् //
इति //
[शिक्षा. स. कारिका-12]
यथाह- कतमे च ते बोधिसत्त्वसमुदाचाराः? यावदिह बोधिसत्त्वो नाघःस्थाने विहरति, नाकाले / नाकाले भाणी भवति / नाकालज्ञो भवति / नादेशज्ञो भवति / यतोनिदानमस्यान्तिके सत्त्वा अप्रसादं प्रतिसंवेदयेयुः / स सर्वसत्त्वानुरक्षया आत्मनश्च बोधिसंभारपरिपूरणार्थं सम्यगीर्यापथो भवति, मृदुभाणी मन्दभाणी असंसर्गबहुलः प्रविवेकाभिमुखः सुप्रसन्नमुखः इति //
न बोधिसत्त्वेन अवमन्यना क्वचिदपि कर्तव्येत्याह-
नाङ्गुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् / समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् // bca_5.94 //
एकया अङ्गुल्या तर्जन्यादिकया न किंचिदुपदर्शयेत्, अपि तु समस्तेनैव समग्रेणैव हस्तेन / दक्षिणेन न वामेन / मार्गमपि कथयेत् / आस्तां तावत्सगौरवं वस्तु //
लोकाप्रसादनिवारणायाह-
न बाहूत्क्षेपकं कंचिच्छब्दयेदल्पसंभ्रमे / अच्छटादि तु कर्तव्यमन्यथा स्यादसंवृतः // bca_5.95 //
न भुजमुत्क्षिप्य कंचिदाह्वयेत्, अल्पप्रयोजनतारतम्ये / महति पुनरदोषः / अच्छटादिशब्दं तु कुर्यात् / तदकरणे ऽसमाहितचारितायामसंवृतः स्यात् / एतावता औद्धत्यपरिहारो ऽपि दर्शितो भवति //
स हि शय्यां परिकल्पयन्नेवं परिकल्पयेदित्युपदर्शयन्नाह-
नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा / संप्रजानंल्लघूत्थानः प्रागवश्यं नियोगतः // bca_5.96 //
भगवतो महानिर्वाणशय्यामिव शय्यां परिकल्पयेत् / अभिमतया दिशा शिरो विधाय, दक्षिणेन पार्श्वेन, पादस्योपरि पादमाधाय, दक्षिणं बाहुमुपधानं कृत्वा, वामं च (bcp 75) प्रसार्य जङ्घोपरि निवेश्य, चीवरैः सुसंवृतकायः, स्मृतः, संप्रजानानः, उत्थानसंज्ञी, आलोकसंज्ञी, शयितः, नाचित्तकमिद्धावष्टब्धः / न च निद्रासुखमाखादयेत्, न च पार्श्वसुखम् अन्यत्र यावदेवैषां महाभूतानां स्थितये यापनायै इति / लघुत्थानः शीघ्रमेवोत्तिष्ठेत् / न तु जृम्भिकां गात्रमोटनं कुर्वन्नालस्योपहितश्चिरेण / एतेभ्य एव सर्वेभ्यः पूर्वमेव //
इदमपरमभिसंक्षिप्य कथयन्नाह-
आचारो बोधिसत्त्वानामप्रमेय उदाहृतः / चित्तशोधनमाचारं नियतं तावदाचरेत् // bca_5.97 //
आचारः शिक्षणीयम् / अप्रमेयः असंख्येयः बोधिसत्त्वप्रातिमोक्शादिषु प्रदर्शितः / तत्संग्रहरूपं प्रथमतः चित्तशोधनमेव आचारमाचरेत् / नियतमवश्यंतया //
सामान्यापत्तिशोधनायाह-
रात्रिंदिवं च त्रिस्कन्धं त्रिष्कालं च प्रवर्तयेत् / शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् // bca_5.98 //
त्रिष्कृत्वो रात्रेः / त्रिष्कृत्वो दिवसस्य / त्रिस्कन्धः त्रयाणां स्कन्धानां पापदेशनापुण्यानुमोदनाबोधिपरिणामनानां समाहारः / त्रिस्कन्धं प्रवर्तयेत् / शेषा मूलाया अन्याः / अथवा, संचित्य कृता याः प्रतिकृताः ताभ्यो ऽन्याः स्मृतिसंप्रमोषेण असंप्रजानता वा कृताः / तासां प्रशमः प्रतिकरणं तेन त्रिस्कन्धपरिवर्तनेन बोधिचित्तस्य जिनानां च भगवतां समाश्रयणाच्च //
एतेन विदूषणासमुदाचारादयो दर्शिता भवन्ति //
तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितम्-
चतुर्भिर्मैत्रेय धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति / कतमैश्चतुर्भिः? यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन, आश्रयबलेन च / तत्र विदूषणासमुदाचारः अकुशलं कर्म कृत्वा विप्रतिसाररूपात्सविगर्हणा पापदेशना, तदनुष्ठानं तत्समुदाचारः / तत्र प्रतिपक्षसमुदाचारः अकुशलप्रतिपक्षः कुशलम्, तत्समुदाचारः, कृत्वाप्यकुशलं कर्म कुशले कर्मण्यत्यन्तमभियोगः / तत्र प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः / तत्राश्रयबलं बुद्धधर्मसंघशरणगमनम्, अनुत्सृष्टबोधिचित्तता च / स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम् / एभिर्मैत्रेय चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवतीति //
विशेषतस्तु बोधिसत्त्वापत्तीनां गुर्वीणां लध्वीनां च देशना आर्योपालिपरिपृच्छायामुक्ताः / ताः शिक्षासमुच्चये द्रष्टव्याः //
सर्वापत्तयो बोधिसत्त्वेन पञ्चत्रिंशतां बुद्धानां भगवतामन्तिके रात्रिंदिवमेकाकिना देशयितव्याः / तत्रेयं देशना- अहमेवंनामा बुद्धं शरणं गच्छामीत्यारभ्य यावत् संघं शरणं गच्छामि, नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय / नमो वज्रप्रमर्दिने इत्यारभ्य यावत्-
(bcp 76) उपैमि सर्वान् शरणं कृताञ्जलिः /
इति विस्तरमुक्त्वाह- इति हि शारिपुत्र बोधिसत्त्वेन इमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वतथागतानुगतैर्मनसिकारैः पापविशुद्धिः कार्या / तस्यैवं पापविशुद्धस्य त एव बुद्धा भगवन्तो मुखान्युपदर्शयन्ति / पेयालं / न तत् शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैरापत्तिकौकृत्यस्थानं विशोधयितुं यद्बोधिसत्त्वस्तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेन आपत्तिकौकृत्यान्निःसरति, समाधिं च प्रतिलभते //
एतत्साकल्येन शिक्षासमुच्चये वेदितव्यम् //
उक्तो विदूषणासमुदाचारः / प्रतिपक्षसमुदाचारप्रत्यापत्तिबले अपि विस्तरेण शिक्षासमुच्चयादेव द्रष्टव्ये / आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिरुक्ता / तच्चोक्तमेव प्राक् / जिनाश्रयात् पापविशुद्धौ सूकरिकावदानमुदाहार्यम् /
ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम् / प्रहाय मानुषान् कायान् दिव्यान् कायांल्लभन्ति ते //
एवं धर्मं संघं चाधिकृत्य पाठः / अनेनाश्रयबलमुक्तम् //
पुनरनियमेन दर्शयन्नाह-
या अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा / तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः // bca_5.99 //
स्वयमात्मना परायत्तो वा सत्त्वार्थक्रियायां प्रवृत्तः //
किं पुनरेवमनियमेनाभिधीयत इत्याह-
न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः / न तदस्ति न यत्पुण्यमेवं विहरतः सतः // bca_5.100 //
यस्मात् सर्वाकारं सर्ववस्तुतत्त्वमधिगम्य सर्वेषां हितसुखविधानार्थमुद्यच्छद्भिर्बुद्धसुतैः न तदस्ति किंचित्, यन्न शिक्षितव्यम् / अन्यथा सर्वाकारः सर्वसत्त्वानामर्थः कर्तुमशक्यः / पुण्यसंभारो ऽपि एवं विचरतो ऽपर्यन्त एव स्यात् //
इयमपि शिक्षापदमुद्रा अवधारयितव्येत्याह-
पारंपर्येण साक्षाद्वा सत्त्वार्थ नान्यदाचरेत् / सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् // bca_5.101 //
अन्ततः स्वयमाहारादिक्रियया परप्रेरणया अपरापरदूतप्रेरणया वा, साक्षात् स्वयमेव आमिषदानादिना वा, यत् सत्त्वानां हितसुखहेतुर्न भवति, तन्न कुर्यात् कारयेद्वा / न चैतदेव केवलम् / किंचित् सत्त्वानामेव संसारदुःखपतितानां ततो निःसरणाय सर्वं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयेत् //
एतावता श्लोकद्वयेन पुण्यवृद्धिरुपदर्शिता भवति //
(bcp 77) यदुक्तं कल्याणमित्रानुत्सर्गादिति [शिक्षा. स. कारिका-6] तदाह-
सदा कल्याणमित्रं च जीवितार्थे ऽपि न त्यजेत् / बोधिसत्त्वव्रतधरं महायानार्थकोविदम् // bca_5.102 //
कल्याणकर्मणि अभ्युदयनिःश्रेयसप्राप्तिलक्षणे मित्रमसाधारणो बन्धुः, तत् कायजीवितविप्रणाशभयभीतो ऽपि न त्यजेत् / कल्याणमित्रानुशंसाश्च प्रज्ञापारमितायामार्याष्टसाहस्रिकायां [अष्ट. 30] सदाप्ररुदितपरिवर्ताद्वेदितव्याः / चतुर्धर्मकसूत्रे ऽप्युक्तम्- कल्याणमित्रं भिक्षवो बोधिसत्त्वेन महासत्त्वेन यावज्जीवं न त्यक्तव्यमपि जीवितहेतोरिति / अपरित्याज्यस्य कल्याणमित्रस्य लक्षणमाह- बोधिसत्त्वशिक्षासंवरे व्यवस्थितम् / महायानार्थपण्डितम् / एतादृशं सुदुर्लभम् //
कल्याणमित्रस्य पर्युपासनपरिज्ञानार्थमाह-
श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम् /
श्रीसंभवविमोक्षात् आर्यगण्डव्यूहपरिवर्तात् कल्याणमित्रपर्युपासनं शिक्षेत् जानीयात् / यथोक्तमार्यगण्डव्यूहे आर्यश्रीसंभवेन- कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु / यावत्- संचोदकाः कल्याणमित्रा अकरणीयानाम् / संनिवारकाः प्रमादस्थानात् / निष्कासयितारः संसारपुरात् / तस्मात्तर्हि कुलपुत्र एवंमनसिकाराप्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि / पृथिवीसमचित्तेन सर्वभारोद्वहनापरितसनतया / वज्रसमचित्तेन अभेद्याशयतया / चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया / लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया / रजोहरणसमचित्तेन मानाभिमानविवर्जनतया / यानसमचित्तेन गुरुभारनिर्वाहनतया / अश्वसमचित्तेन अक्रुध्यनतया / नौसमचित्तेन गमनागमनापरितसनतया / सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया / आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या कल्याणमित्रेषु च वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा / आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा //
यदुक्तं सूत्राणां च सदेक्षणादिति [शिक्षा. स. का.-6], तदुपदर्शयितुमाह- एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् // bca_5.103 // एतदिह शास्त्रे प्रतिपादितम्, अन्यद्यदिह नोक्तम् / बुद्धेन भगवता बोधिसत्त्वानां करणीयतया निर्दिष्टम्, तन्नानासूत्रान्तार्थपरिचयाद् वेदितव्यम् //
एतदेव दर्शयति-
शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत् /
शिक्षा बोधिसत्त्वानां हेयोपादेयलक्षणाः / सूत्रेषु महायानसूत्रान्तेषु रत्नमेघादिषु / यत एवं तस्मात् / इदं तु विशेषनिर्देशमाह- आकाशगर्भसूत्रे च मूलापत्तीर्निरूपयेत् // bca_5.104 // (bcp 78) आर्याकाशगर्भसूत्रे क्षत्रियस्य मूर्धाभिषिक्तस्य पञ्च मूलापत्तयो निर्दिष्टाः / तथा सामान्येन एका मूलापत्तिः / तथा आदिकर्मिकस्य बोधिसत्त्वस्य अष्टौ मूलापत्तय इति / तथा च तत्रोक्तम्- पञ्च कुलपुत्र क्षत्रियस्य मूर्धाभिषिक्तस्य मूलापत्तयः याभिर्मूलापत्तिभिः क्षत्रियो मूर्धाभिषिक्तः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झोषयति / वस्तुपतितः पराजितः सर्वदेवमनुष्यसुखेभ्यः अपायगामी भवति / कतमाः पञ्च? यः कुलपुत्र क्षत्रियो मूर्धाभिषिक्तः स्तौपिकं वस्तु अपहरति सांघिकं वा चातुर्दिशसंघे निर्यातितं वा, स्वयं वा अपहरति हारयति वा / इयं प्रथमा मूलापत्तिः / एवं त्रियानभाषितधर्मप्रतिक्षेपात् द्वितीया / प्रव्रजितस्य शीलवतो दुःशीलस्य वा काषायापहरणात्, गृहस्थकरणात्, कायप्रहारात्, चारके प्रक्षेपात्, जीवितवियोजनाद्वा तृतीया / पञ्चानन्तर्येष्वन्यतमकरणाच्चतुर्थी / मिथ्यादृष्टेः, दशाकुशलकर्मपथसमादानात्, परसमादापनाद्वा पञ्चमीति //
तथा ग्रामभेदादिकरणात् सर्वेषां साधारणी चैका / तत्रैवोक्तम्-
आदिकर्मिकाणां महायानसंप्रस्थितानां कुलपुत्राणां कुलदुहितृणां च अष्टौ मूलापत्तयः, यामिर्मूलापत्तिभिः स्खलिता आदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वारोपितानीत्यादि पूर्ववत् / कतमा अष्टौ? ये सत्त्वाः पूर्वदुश्चरितहेतुना अस्मिन् क्लिष्टे पञ्चकषाये लोके उत्पन्नाः, ते इत्वरकुशलमूलाः / यावत्, तेषामिदं परमं गम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं यावद्विस्तरेणाग्रतः स्मारयन्ति प्रकाशयन्ति / ते हि अकृतश्रमा बालपृथग्जनाः शृण्वन्त उत्रस्यन्ति, यावद् विवर्तयन्ति अनुत्तरायाः सम्यक्संबोधेश्चित्तम्, श्रावकयाने चित्तं प्रणिदधति / एषा आदिकर्मिकस्य बोधिसत्त्वस्य मूलापत्तिः प्रथमा, यया मूलापत्त्या इत्यादि पूर्ववत् / तस्माद्बोधिसत्त्वेन परसत्त्वानां परपुद्गलानामाशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्त्वानामनुपूर्वेण धर्मदेशना कर्तव्येति / सोपायायाः सम्यक्संबोधेर्विनिवर्त्य हीनयाने परस्य चित्तमुत्पादयतो द्वितीया / प्रातिमोक्षशिक्षासंवरं विहाय महायाने चित्तोत्पादमात्रेण तत्पठनेन चास्य शुद्धिप्रकाशनात् तृतीया / श्रावकादियानस्य तत्फलस्य गोपननिन्दाप्रकाशनात्, महायाने सर्वशुद्धिप्रकाशनात्, परेषां तद्वचनकरणाच्चतुर्थी / कीर्तिलाभादिहेतोः महायानपठनादिना, तथा तत्प्रत्ययात् परेषां कुत्सानिन्दादिभाषणात्, आत्मोत्कर्षणात्, उत्तरमनुष्यधर्मोपगमात् पञ्चमी / पाठमात्रेण गम्भीरधर्माधिगमप्रकाशनात्, परेषां तथैव समादापनात् षष्ठी / क्षत्रियस्य पुरोहितामात्यचण्डालैर्ये भिक्षवो दण्डिता अर्थदण्डेन सांघिकं स्तौपिकं वा चातुर्दिशसांघिकं वा द्रव्यमपहृत्य तेभ्य एवोपनामयन्ति / ते च क्षत्रिया उभये ऽपि मूलापत्तिमापद्यन्ते / इयं सप्तमी / धर्माधर्मविवादनापूर्वं शिक्षाप्रणयनात्, तन्मूलाचारविपन्नानां सत्कारात्, प्रहाणिकानामुपभोगपरिभोगाण्यन्यत्र परिणामनात् उभये ऽपि मूलापत्तिमापद्यन्ते / इयमष्टमी //
आसां च मूलापत्तीनां सुखग्रहणार्थं शास्त्रकारोपदर्शिताः संग्रहकारिका उच्यन्ते-
रत्नत्रयस्वहरणादापत्पाराजिका मता / सद्धर्मस्य प्रतिक्षेपाद् द्वितीया मुनिनोदिता //
(bcp 79) दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात् / चारके वा विनिक्षेपादपप्रव्राजनेन च //
पञ्चानन्तर्यकरणान्मिथ्यादृष्टिग्रहेण च / ग्रामादिभेदनाद्वापि मूलापत्तिर्जिनोदिता //
शून्यतायाश्च कथनात्सत्त्वेष्वकृतबुद्धिषु / बुद्धत्वप्रस्थितानां तु संबोधेर्विनिवर्तनात् //
प्रातिमोक्षं परित्याज्य महायाने नियोजनात् / शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात् //
परेषां ग्रहणाद्वापि पुनः स्वगुणकाशनात् / परपंसनतो लाभसत्कारश्लोकहेतुना //
गम्भीरक्षान्तिको ऽस्मीति मिथ्यैव कथनात्पुनः / दण्डापयेद्वा श्रमणान् दद्याद्वा शरणत्रयात् //
गृह्णीयाद्दीयमानं वा शमथत्याजनात्पुनः / प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात् //
मूला आपत्तयो ह्येता महानरकहेतवः / आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरःस्थितैः //
बोधिचित्तपरित्यागाद्याचकायाप्रदानतः / तीव्रमात्सर्यलोभाभ्यां क्रोधाद्वा सत्त्वताडनात् //
प्रसाद्यमानो यत्नेन सत्त्वेषु न तितिक्षते / क्लेशात्परानुवृत्त्या वा सद्धर्माभासवर्णनात् //
इति //
तस्मिन्नेव सूत्रे समुद्धरणमासामुक्तम् //
शिक्शासमुच्चये ऽपि बोधिसत्त्वानां करणीयमुपदिष्टमिति तदपि निरूपणीयमित्याह-
शिक्षासमुच्चयो ऽवश्यं द्रष्टव्यश्च पुनः पुनः / विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः // bca_5.105 //
शिक्शासमुच्चयो ऽपि स्वयमेभिरेव कृतः / अवश्यं नियमेन / द्रष्टव्यः पुनः पुनरसकृत् / अभ्यसनीय इति भावः / कुतः? यस्मात् सतां बोधिसत्त्वानाम् / आचरणमाचार इतिकर्तव्यता / तत्र शिक्षासमुच्चये / विस्तरेण प्रबन्धेन / प्रदर्शितः विस्पष्टीकृत्य प्रकाशितः, तस्मात् //
यदि तस्याभ्यासे ऽशक्तिः, तदा-
संक्षेपेणाथवा तावत्पश्येत्सूत्रसमुच्चयम् /
नानासूत्रैकदेशानां वा समुच्चयमेभिरेव कृतं संक्षेपेण पश्येत् व्यवलोकयेत् ग्रन्थतो ऽर्थतो वा / अत्रापि पूर्वकमेव प्रयोजनम् // यदि वा-
(bcp 80) आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः // bca_5.106 //
आर्यनागार्जुनपादैर्निबद्धं द्वितीयं शिक्षासमुच्चयं सूत्रसमुच्चयं च पश्येत् प्रयत्नतः आदरतः / यदिह न दृश्यते, तत् तत्र दृश्यते इति भावः //
नियमेन शिक्षादर्शने ऽपि साकल्येन सर्वेषामुपयोगमाह-
यतो निवार्यते यत्र यदेव च नियुज्यते / तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् // bca_5.107 //
यतो हेयादकरणीयान्निवार्यते, न करणीयमेतदिति प्रतिषिध्यते / यत्र शिक्शासमुच्चये सूत्रसमुच्चये वा / यदेव कर्म कर्तव्यतया नियुज्यते विधीयते, तत् प्रसिद्धं विहितं वा / लोकानां चित्तमाशयः तस्य रक्षार्थम्, तद्यथा विकोपितं न स्यात् / शिक्षां दृष्ट्वा शिक्षासमुच्चयादिषु / प्रतिपादं समाचरेत्, यत्र यद्यथा युज्यते, तत्र तथा व्यवहरेत् / अन्यथा अर्थसंमूढव्यवहारस्य आपत्तिकश्मलता स्यात् //
एतावता आत्मभावस्य शुद्धिराख्याता / यदाह-
आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम् / संबुद्धोक्त्यनुसारेण यत्नाभावे त्वपायगः //
इति //
[शिक्षा. स. कारिका-19]
यदुक्तम्- सदा स्मृतिसंप्रजन्यचारिणा भवितव्यमिति, ततः स्मृतेः स्वनाम्नैव स्वरूपं प्रतीतम् / संप्रजन्यस्य तु न ज्ञायते कीदृशमिति, तत्स्वरूपप्रतिपत्तये प्राह-
एतदेव समासेन संप्रजन्यस्य लक्षणम् / यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः // bca_5.108 //
यत्कायावस्थायाः चित्तावस्थायाश्च सर्वेर्यापथेषु प्रत्यवेक्षा निरूपणं सर्ववारं यथा प्रतिपादितं प्राक् //
सर्वमेतदुक्तशिक्षाकौशलं कर्मणा निष्पादयितव्यं न वचनमात्रेणेति नियमयितुमाह-
कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत् / चिकित्सापाठमात्रेण रोगिणः किं भविष्यति // bca_5.109 //
मनःपूर्वंगमत्वात् कायव्यापारस्य, सो ऽप्यनेनैव प्रतिपादितः / प्रतिपत्त्या सर्वं संपादयिष्यामि, न तु शब्दमात्रघोषणया निष्फलत्वादिति बोधिसत्त्वेन यतितव्यम् / कथमिव? वैद्यकशास्त्राध्ययनमात्रेण तत्क्रियामकुर्वतो व्याधिग्रस्तस्य किं फलं निष्पत्स्यते? तावन्मात्रेण रोगस्य तस्याविनिवृत्तेः / न किंचिदिति भावः / तस्मात् सर्वमेतत् क्रियानुष्ठानेन निष्पादयितव्यमिति //
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः //
6. क्षान्तिपारमिता नाम षष्ठः परिच्छेदः /
तदेवं बहुधा शीलविशुद्धिं प्रतिपाद्य आत्मभावादीनां रक्षां शुद्धिं प्रतिपाद्य शुभविशुद्धिं प्रतिपादयितुम्, यच्चोक्तम्-
क्षमेत श्रुतमेषेत संश्रयेत वनं ततः / समाधानाय युज्येत भावयेदशुभादिकम् //
[शिक्षा. स. कारिका-20]
इत्येतच्च अभिधातुमुपक्रमते सर्वमित्यादिना-
सर्वमेतत्सुचरितं दानं सुगतपूजनम् / कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् // bca_6.1 //
सर्वमेतदिति शीलसंवरसमादानप्रसूतम् / सुचरितं कुशलं कर्म / दानं त्रिविधम् / सामान्येन सुगतपूजनमपि त्रिविधम् / कृतम् उपार्जितमनेकैः कल्पसहस्रैर्यत् तत् सर्वं प्रतिघः सत्त्वविद्वेषः प्रतिहन्ति निर्दहति बह्निलव इव तृणसंघातम् //
आर्यमञ्जुश्रीविक्रीडितसूत्रे चाह- प्रतिघः प्रतिघ इति मञ्जुश्रीः कल्पशतोपचितं कुशलं प्रतिहन्ति, तेनोच्यते प्रतिघ इति //
आर्यसर्वास्तिवादिना पठ्यते- पश्यथ भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त / अनेन भिक्षवो भिक्षुणा यावती भूमिराक्रान्ता, अधश्चतुरशीतियोजनसहस्राणि, यावत् काञ्चनवज्रमण्डलान्तरे यावन्त्यो वालिकाः, तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि / यावत् / अथायुष्मानुपालिर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्- यदुक्तं भगवता अस्य भिक्षोरेवं महान्ति कुशलमूलानि / कुत्रेमानि भगवन् कुशलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति? नाहमुपाले एवं क्षतिमुपहतिं च समनुपश्यामि यथा सब्रह्मचारी सब्रह्मचारिणो ऽन्तिके दुष्टचित्तमुत्पादयति / तत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति / तस्मात्तर्हि उपाले एवं शिक्षितव्यं यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काये इति //
अत एवाह-
न च द्वेषसमं पापं न च क्षान्तिसमं तपः / तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः // bca_6.2 //
न च द्वेषेण समं पापमशुभं पुण्याभिभवहेतुरस्ति / न च क्षान्त्या तितिक्षया समं तुल्यं तपः / सुमहत्परिश्रमसाध्यत्वात् सुकृतम् / यत एवम्, तस्मात् क्षान्तिं क्षमां सर्वतात्पर्येण भवयेदभ्यसेत् / विविधैर्नानाप्रकारैरुपायैर्वक्ष्यमाणैः //
(bcp 82) दृष्टधर्म एव द्वेषस्य दोषान् वृत्तत्रयेणोपदर्शयन्नाह-
मनः शमं न गृह्णाति न प्रीतिसुखमश्रुते / न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते // bca_6.3 //
पूजयत्यर्थमानौर्यान् ये ऽपि चैनं समाश्रिताः / ते ऽप्यनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् // bca_6.4 //
सुहृदो ऽप्युद्विजन्ते ऽस्माद् ददाति न च सेव्यते / संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः // bca_6.5 //
शमं प्रशमं न गृह्णाति नाश्रयते / अनुपशान्त एव सदा द्वेषानलप्रज्वलितत्वात् न प्रीतिसुखं सौमनस्यसुखमश्नुते आप्नोति, तेनैवाक्रान्तत्वात् / न निद्रां न धृतिं चित्तसुखं लभते कायचित्तसंतापकारिणि द्वेषशल्ये हृदयनिवासिनि / पूजयति सत्करोति लाभसत्कारैर्यान् / ये ऽपि चानुजीविनः, एवं द्वेषिणं स्वामिनमपकर्तुमिच्छन्ति / किमिति? द्वेषदुर्भगम् अप्रियमिति हेतुपदमेतत् / सुहृदो भित्राण्यपि उद्विजन्ते उत्त्रसन्ति अस्माद् द्वेषिणः / दानोन्मुखो ऽपि भृत्यवर्गैर्न सेव्यते नोपगम्यते / किं बहुना? इदमिह संक्षेपेणावधार्यताम्- नास्ति तदुपशमकारणं किंचिद्येन कोपनः सुखं लभेत //
चित्तस्य कर्कशावस्था द्वेषः / तस्योद्भूतवृत्तिस्तु क्रोधः, यद्वशात् दण्डादिग्रहणं क्रियते / इति अनयोर्भेदे ऽपि द्वयोरपि परिहर्तव्यतया अभेदेनैव निर्देशः //
एवमिह दृष्टधर्मे ऽपि द्वेषदोषानवगम्य तत्परित्यागाय यत्नवता भवितव्यमित्याह-
एवमादीनि दुःखानि करोतीत्यरिसंज्ञया / यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च // bca_6.6 //
एवं यथोक्तप्रकारेण दुःखानि जनयति यस्मात्, तस्माद् यः सुकृतात्मा निर्बन्धात्, गाढाभिनिवेशात् / आरब्धवीर्य इत्यर्थः / स सुखी इहलोके परलोके च //
इदानीं द्वेषोपघाताय तत्कारणमुपहन्तुं व्यवस्थां कुर्वन्नाह-
अनिष्टकरणाज्जातमिष्टस्य च विघातनात् / दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम् // bca_6.7 //
तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः /
आत्मात्मीयग्रहप्रसूते इष्टानिष्टे / आत्मात्मीययोः सुखसाधनमिष्टम्, तद्विपरीतमनिष्टम्, इति कल्पनाकृतमेवैतत् / न तु परमार्थतः किंचिदिष्टमनिष्टं वा संभवति / तस्मान्मिथ्याभिनिवेशवासनावशात् अनिष्टस्य करणात्, इष्टस्य चोपहननाद् दौर्मनस्यं मानसं दुःखमुपजायते, तस्मात् तत्कारिणि तद्विरोधिनि वा द्वेष उत्पद्यते / इति दौर्मनस्यमेव बलबद्भोजनं (bcp 83) लब्धसामर्थ्यः सन् द्वेषो निहन्ति माम् इति निश्चित्य तत्पुष्टिकारणं च हनिष्यामि प्रथमतः / तस्मिन् हते सुखमेव / तस्य हननात्, समूलघातं हतस्य पुनरुत्थानायोगाच्च //
ननु को ऽयमत्यर्थमभिनिवेशो भवत इत्याह- यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः // bca_6.8 // यस्मात् मम वधं विहाय रात्रिंदिवमपरं न किंचिद् द्वेषस्य वैरिणः करणीयमस्ति //
एवं द्वेषदोषान् विभाव्य सर्वोपायेन तद्विपक्शभूतां क्षान्तिमुत्पादयेत् / तत्र क्षान्तिस्त्रिविधा धर्मसंगीतिसूत्रे ऽभिहिता / तद्यथा- दुःखाधिवासनाक्षान्तिः, धर्मनिध्यानक्षान्तिः, परापकारमर्षणक्षान्तिश्च / तत्र तावद्दुःखाधिवासनाक्षान्तिमधिकृत्याह-
अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया / दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते // bca_6.9 //
दुःखाधिवासनाक्षान्तिविपक्षः अनिष्टागमप्राप्तदुःखभीरुता, इष्टविघातप्राप्तश्च सुखाभिष्वङ्गः / ताभ्यां दौर्मनस्यम् / ततो द्वेषो लीनचित्तता वा / अत एवाह चन्द्रप्रदीपसूत्रेसुखे ऽनभिष्वङ्गः, दुःखे ऽवैमुख्यम् / इति / रत्नमेघसूत्रे ऽप्युक्तम्- य इमे आध्यात्मिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः, तान् क्षमते अधिवासयतीति //
अतो यदि नाम मम शिरश्छिद्यते, तथापि न क्षोभ्या न विकोपयितव्या मुदिता मया / मुदिता हि दौर्मनस्यप्रतिपक्षः / दुःखागमे ऽपि प्रमुदितचित्तस्य दौर्मनस्यानवकाशात्, इति दौर्मनस्यनिरासाय मुदिता यत्नेन रक्षितव्या / कुतः? दौर्मनस्ये ऽपि कृते इष्टविघाते सति नास्तीष्टं नाभिलषितं सेत्स्यति / अयं तु विशेषः स्यात्- कुशलं पुनरुपहन्यते //
मुदिता च आर्याक्शयमतिसूत्रे वर्णिता- तत्र कतमा मुदिता? या बुद्धधर्माणामनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्यानवलीनता अनवमृद्यता अपरितर्षणता, सर्वकामरतीनामपकर्षणात् सर्वधर्मरतीनां प्रतिष्ठानम्, चित्तस्य प्रामोद्यम्, कायस्यौद्विल्यम्, बुद्धेः संप्रहर्षणम्, मनस उत्पलवः, तथागतकायाभिनन्दनरतिः / इति विस्तरः //
किं चेदमविचारयतो दौर्मनस्यमुत्पद्यते इत्याह-
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् / अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् // bca_6.10 //
यदि च इष्टविघातनिवर्तनाय अनिष्टोपनिपातप्रतिषेधाय च प्रतीकारः उपायान्तरमस्ति, तदा दौर्मनस्येन तत्र किम्? तदेव अनुष्ठीयताम् / अथ नास्ति, तदापि दौर्मनस्येन तत्र किम्? न किंचित् प्रयोजनम् / उपायाभावात् सर्वथा गतमेतत् / इति विचार्य दौर्मनस्यनिवर्तनमेव वरम् //
अभ्यासाद् दुःखमबाधकं भवतीति प्रसाधयितुमुपक्रमते-
दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम् / प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात् // bca_6.11 //
(bcp 84) दुःखं कायिकं मानसिकं चेति द्विविधम् / तत्र कायिकं दण्डादिघातजम् / मानसिकं न्यक्कारादिनिमित्तम् / तत्र न्यक्कारो धिक्कारः / पारूष्यं मर्मघट्टनावचनम् / अयशश्च अकीर्तिः वैगुण्यप्रकाशनम् / इत्येतत्सर्वमनभिलषितम् / यदि परेषां शिवं ननु? तदर्थमाह- प्रियाणाम् / आत्मीयत्वेन ये स्वीकृताः, प्रेमस्थानं तेषामात्मनश्च / दुःखादिकारकस्य पुनः शत्रोरेतद्विपर्ययात् / तस्य दुःखादिकमभीष्टमेव //
तत्र दुःखसहिष्णुतां तावन्निराकर्तुमाह-
कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः / दुःखेनैव च निःसारः चेतस्तस्माद् दृढीभव // bca_6.12 //
महता प्रायत्नेन कुशलपक्षमुपसेव्य कदाचित् कर्हिचित् सुदुर्लभं संसारे सास्रवं सुखं लभ्यते / दुःखं तु सर्वदा सुलभम्, अयत्नसिद्धत्वात्, इति तदभ्यासो न दुष्करः, सर्वदा परिचितत्वात् / किं च / संसारनिःसरणोपायो ऽपि दुःखमेव / तथापि पाथेयरूपतया तत्परिग्रहो युक्त एव / यत एवम्, तस्मात् हे चित्त, दुःखानुभवनाय दृढीभव, मा कातरतामाश्रयस्व //
अपि च / इदं दुःखं महार्थसाधकत्वात् सोढुमुचितम्, इति मनसि कर्तव्यम्, इत्याह-
दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम् / वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः // bca_6.13 //
दुर्गापुत्रकाः चण्डीसुताः / महानवमीसमयादिषु त्रिरात्रमेकाहं वा उपोष्य गात्रदाहच्छेदनभेदनं कुर्वन्तो दुःखां वेदनां निष्फलमेवानुभवन्ति / तथा कर्णाटदेशादिसमुद्भूता दाक्षिणात्या उपरिनामलिखनमात्राभिमानतः परस्परं स्पर्धमाना अनेकाभिः कारणाभिर्दुःखमनुभवन्तो जीवितमप्युत्सृजन्ति / अहं तु स्वपरात्मनोः परमदुर्लभबुद्धत्वसाधनाय कृतोत्साहः दुःखैः कस्मात् कारणात् कातरीभवामि?
स्यादेतत्- अत्यल्पदुःखं कथंचित्सोढुं शक्यते / करचरणशिरश्छेदनादिदुःखं नरकादिदुःखं वा मुक्तयर्थं कथं नु सोढव्यमित्यत्राह-
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् / तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा // bca_6.14 //
शास्त्राभ्यासकलादि कौशलादि मृदुमध्यातिमात्रदुःखानुभवनादि वा वस्तु न तद्विद्यते किंचित् यदभ्यासगोचरो न भवति / सर्वमेव अभ्यासादात्मसात्कर्तुं शक्यत इति भावः / यस्मात् तस्मात् अत्यल्पतरादिव्यथाभ्यासान्नरकादिमहाव्यथापि सोढुं [शक्यते] / यथोक्तम्- तत्र अल्पदुःखाभ्यासपूर्वकं कष्टकष्टतराभ्यासः सिध्यति / यथा च अभ्यासवशात् (bcp 85) सत्त्वानां दुःखसुखसंज्ञा, तथा सर्वदुःखोत्पादेषु सुखसंज्ञाप्रत्युपस्थानाभ्यासात् सुखसंज्ञैव प्रत्युपतिष्ठते / एवं निष्पन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते / उक्तं हि पितापुत्रसमागमे-
अस्ति भगवन् सर्वधर्मसुखाक्रान्तो नाम समाधिः, यस्य समाधेः प्रतिलम्भाद् बोधिसत्त्वः सर्वारम्बणवस्तुषु सुखामेव वेदनां वेदयते न दुःखाम्, नादुःखसुखाम् / तस्य नैरयिकामपि वेदनां कार्यमाणस्य सुखसंज्ञैव प्रत्युपस्थिता भवति / मानुषीमपि कारणां कार्यमाणस्य, हस्तेष्वपि छिद्यमानेषु पादेष्वपि कर्णेष्वपि नासास्वपि, सुखसंज्ञैव प्रत्युपस्थिता भवति / वेत्रैरपि ताड्यमानस्य अर्धवेत्रैरपि कशाभिरपि ताडयमानस्य सुखसंज्ञा प्रवर्तते / बन्धनागारेष्वपि प्रक्षिप्तस्य, तैलपाचिकां वा क्रियमाणस्य, इक्षुकुट्टितिकं वा कुट्यमानस्य, नडचिप्पितिकं वा चिप्यमानस्य, तैलप्रद्योतिकं वा आदीप्यमानस्य यावत् कार्षापणच्छेदिकां छिद्यमानस्य पिष्टपाचनिकां वा पाच्यमानस्य, हस्तिभिर्वा मर्द्यमानस्य सुखसंज्ञैव प्रवर्तते // इति विस्तरः //
स्यादेवैतद् यदि प्रथमत एव मृदुव्यथाभ्यसः स्यात् / यावता स एव नास्तीति / अत्राह-
उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम् / महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि // bca_6.15 //
उद्दंशादिकृतदुःखमनर्थं किं न पश्यसि? तदयत्नसिद्धं मृदुव्यथाभ्यासनिमित्तमस्त्येव इति भावः //
पुनरन्यथा स्वचित्तं द्रढयितुमाह-
शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः / सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा // bca_6.16 //
सुकुमारतरचित्तस्य हि दुःखमतितरां बाधकं भवति, दुःखे ऽपि दृढचित्तस्य विपर्ययः //
ननु दृढीकरणे ऽपि चित्तस्य दुःखमसह्यमेवेति / अत्राह-
केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः / परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत् // bca_6.17 //
तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम् / दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्वयथाम् // bca_6.18 //
न खलु दृढचित्तस्य किंचिदशक्यं नाम / तथाहि- केचिद्वीरपुरुषाः संग्रामभूमौ स्वशोणितमपि पश्यन्तो ऽधिकतरं शौर्यमाभजन्ते / केचित्पुनः कातरचित्तसंततयः पररुधिरदर्शनादपि (bcp 86) मरणान्तिकं दुःखमनुभवन्ति / एतदुभयमपि चित्तस्य इतरेतराभ्यासविपर्ययात् इति मत्वा दुःखदुर्योधनो नाधिगम्यो भवेत्, दुःखैरप्यकम्प्यत्वात् / ततो ऽभिभवेद् व्यथाम्, न पुनस्तयामिभूयते //
इत्थमप्यभिभवेद् व्यथामित्याह-
दुःखे ऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः / संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा // bca_6.19 //
प्रसादं पूर्वोक्तं नावसादयेद्विचक्षणः / कुतः? यस्मात् क्लेशशत्रुभिः सह संग्रामो ऽयमारब्धः / संग्रामे च व्यथा नाम न भवेदिति दुर्लभम्, व्यथा तु सुलमैव //
ननु तथापि दुष्करमिदमतीव दृश्यत इति / अत्राह-
उरसारातिघातान् ये प्रतिच्छन्तो जयन्त्यरीन् / ते ते विजयिनः शूराः शेषास्तु मृतमारकाः // bca_6.20 //
अभिमुखमभिभवन्तः शत्रुम् / तत्प्रहारान् वक्षःस्थलेन प्रतीच्छन्तो ये जयन्ति समरे रिपून्, ते ते शूरपुरुषाः पररिपुविजयादिह लब्धविजयाः प्रशस्यन्ते / ये पुनरन्ये छलप्रहारादिभिरभिभवन्ति शत्रुम्, ते च अकिंचित्करतया मृतमारका जुगुप्सनीया एव शूरैः //
इतो ऽपि गुणदर्शनाद्दुःखमधिवासयितव्यमित्याह-
गुणो ऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः / संसारिषु च कारुण्यं पापद्भीतिर्जिने स्पृहा // bca_6.21 //
अयमपरः शुभहेतुर्गुणो दुःखस्यास्य संबोधिमार्गानुकूलः, यद्दुःखस्य समावेशे मनसि संवेग उपजायते / तस्माच्च यौवनधनादिकृतस्य मदस्य च्युतिर्भङ्गो जायते, संसारिषु च संसारदुःखपीडितेसु करुणाचित्तम्, पापस्य फलमिदमिति मत्वा पापाद् भयमकरणचित्तं च, बुद्धे च भगवति स्पृहा भक्तिः श्रद्धा चित्तप्रसादश्च / भगवानेव हि दुःखक्षयगामिनं मार्गमुपदिष्टवानिति //
परप्रत्ययोत्पन्नदुःखाधिवासनाय परामृशन्नाह-
पित्तादिषु न मे कोपो महादुःखकरेष्वपि / सचेतनेषु किं कोपः ते ऽपि प्रत्ययकोपिताः // bca_6.22 //
पित्तादिदोषत्रयात्मकमेव शरीरम् / ते च तथाविधाहारविहारवैगुण्याद् विषमावस्थां प्राप्ता व्याधीन् जनयन्तः सर्वदुःखहेतवो भवन्ति / तथापि न तेषु मम कोपः, अचेतनत्वात् / न ते संचिन्त्य दुःखदायकाः, किं तर्हि स्वकारणसामग्रीबलेन प्रकोपमुपागताः / यद्येवम्, सचेतनेषु किं कोपः? किं न स्यादिति चेत्, ते ऽपि पूर्वकर्मापराधात् स्वकारणसामग्रीप्रकोपिता दुःखदायका भवन्ति / इति पित्तादिवत् तेष्वपि न युज्यते मम क्रोधः //
(bcp 87) उभयत्रापि समानं कारणाधीनत्वमित्युपदर्शयन्नाह-
अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा / अनिष्यमाणो ऽपि बलात्क्रोध उत्पद्यते तथा // bca_6.23 //
स्वप्रत्ययोपजनितसामर्थ्येभ्यः पित्तादिभ्यो ऽनभिप्रेतमपि शूलमवश्यमुत्पद्यते यथा, तथा स्वहेतुमपरिणामाधिगतशक्तिभ्यो दौर्मनस्यादिभ्यः क्रोध उत्पद्यते, इति साधारणमनयोर्हेतुप्रत्ययाधीनत्वम् //
अथ स्यात्- उक्तमत्र सचेतनाः संचिन्त्य तथाविधानिष्टकारिणः, न तु पुनरितरे तथेत्याह-
कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः / उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च // bca_6.24 //
तत्प्रत्ययसामग्रीमन्तरेण कुप्यामीत्येवं बुद्धिपूर्वकं संचिन्त्य न जनः स्वैरं प्रकुप्यति / क्रोधो ऽपि उत्पत्स्य इत्यभिसंघाय स्वातन्त्र्येण नैवोत्पद्यते //
तस्मादिदमेवात्र प्रमाणसिद्धमित्याह-
ये केचिदपराधाश्च पापानि विविधानि च / सर्व तत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते // bca_6.25 //
इदंप्रत्ययतामात्रसमुपस्थितस्वभावं सर्वमिदम् / न तु स्वातन्त्र्यप्रवृत्तं किंचिदपि विद्यते //
न च प्रत्ययसामग्र्या जनयामीति चेतना / न चापि जनितस्यास्ति जनितो ऽस्मीति चेतना // bca_6.26 //
प्रत्ययसामग्र्यपि न स्वकार्यं जनयन्ती संचिन्त्य जनयति / सा हि स्वहेतुपरिणामोपनिधिधर्मतया तथाविधं कार्यं जनयति न तु संचिन्त्य / न चापि जनितस्य कार्यस्यापि अनया सामग्र्या जनितो ऽस्मीति चेतना मनसिकारो ऽस्ति / तस्मान्निर्व्यापारतया सर्वधर्माणाम्, अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, इति इदंप्रत्ययतामात्रमिदं जगत्, नात्र कश्चित्स्वतन्त्रः संभवति / हेतुप्रत्ययाधीनत्वात्सर्वधर्माणाम् //
स्यादेतत्- अस्त्येव स्वतन्त्रं यथा सांख्यानां प्रधानमात्मा च, नैयायिकानामाकाशादयः / तत् किमुच्यते न किंचित्स्वतन्त्रमिह विद्यते, इत्याशङ्कयाह-
यत्प्रधानं किलामीष्टं यत्तदात्मेति कल्पितम् / तदेव हि भवाभीति न संचिन्त्योपजायते // bca_6.27 //
यत्तद्भवतां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्यभिमतम् / किलेति प्रमाणासंगतमेतदित्यरुचिं प्रकाशयति / यदपि तद्वस्तु किंचिदात्मेति कल्पितमध्यवसितं प्रमाणासंगतमेव / आह- यस्मात्तदेव स्वयमेव तदपरकारणाभावाद् भवामि समुत्पद्य इति नाभिसंधाय जायते /
(bcp 88) कुतः? यस्मात्-
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा /
तत् प्रधानादि प्रागसदेव / असतश्च वन्ध्यासुतादेरिव का भवितुमुत्पत्तुमिच्छा भवेत्? अथ नासदुत्पद्यते किंचित्, केवलमव्यक्तावस्थातो व्यक्तावस्थायां परिणाममात्रम् / यद्येवम्, परिणामो ऽपि कथमसन्नुत्पंद्यते व्यक्तावस्था वा? परिणामस्य व्यक्तावस्थायाश्च तत्स्वभावत्वे तस्याप्युत्पत्तिप्रसङ्गः / व्यतिरेके संबन्धाभावः / संबन्धकल्पनायां च अनवस्था / परतो विस्तरेण प्रधानं निराकरिष्यते [9.127-138] //
स्यादेतत्- आत्मन्ययमदोष एव / न हि तस्य वयमुत्पादमिच्छामः / सर्वदा नित्यस्वभावतया अनुत्पन्न एवासौ / भवतु नाम एवम् / तथापि सर्वथा खरविषाणकल्प एवासौ, उत्पादाभावात् / ततो नात्रापि निवर्तते-
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा / इति /
भावे ऽपि वा नास्य स्वात्मन्यपि प्रभुत्वमस्ति / प्रकृत्युपनामितमेव हि विषयमपि स भुङ्क्ते / तदा च विषयोपभोगात्प्राक् तद्भोक्तृत्वमस्य नासीत्, पश्चादुत्पन्नं च तत्स्वभावमेव / अन्यथा तस्य भोक्तृत्वायोगात् / तदुत्पादे च तस्याप्युत्पाद इति कथं नात्मन उत्पाद इष्यत इति / तदेवं पुनः
अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा /
इत्यायातम् //
अपरमपि दूषणमत्राह- विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते // bca_6.28 // यद्यप्यसौ प्रधानोपहितविषयोपभोगाय प्रवर्तत इतीष्यते, तदा प्रागप्रवृत्तस्य पश्चात्प्रवृत्तिर्न युज्यते / अथ कथंचित् प्रवर्तते, तदापि विषये व्यापृतस्य निवृत्तिर्न स्यात् / एतदेवाह- निरोद्धुमपि नेहते / विषयोपभोगान्निवर्तितुमपि नोत्सहते, तदा तस्य तत्स्वभावत्वात्, तस्य च नित्यतया अनिवृत्तेः / निवृत्तौ वा अनित्यत्वप्रसङ्गात् / नैयायिकादीनामात्मनो व्यपदेशो नित्यत्वात् //
विशेषमपि तस्याह-
नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः /
अचैतन्यं सांख्यादिह विशेषः / अन्यत्र समानता / तत्र नित्यः पूर्वापरकालयोरेकस्वभावः / अचेतनश्च अचित्स्वभावः / जड इत्यर्थः / अन्यचैतन्ययोगाच्चेतयते / व्योमवद् व्यापी / अत एव स्फुटं व्यक्तमक्रियः / यदाह-
अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् / स्वतो ऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा //
(bcp 89) शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च / भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः //
[तत्त्वसंग्रह-171-72] तथा च अकिंचित्कर एवासौ, क्वचिदपि कार्ये ऽनुपयोगात् / अथ अपरसहकारिप्रत्ययसंनिधौ निष्क्रियस्यापि तस्य क्रिया[भ्यु]पगम्यते / यदुक्तम्- ज्ञानयत्नादिसंबन्धः कर्तृत्वं तस्य भण्यते / इति /
अत्राह- प्रत्ययान्तरसङ्गे ऽपि निर्विकारस्य का क्रिया // bca_6.29 // ज्ञानयत्नादिप्रत्ययान्तरसंपर्के ऽपि नित्यत्वान्निर्विकारस्य पूर्वस्वभावादप्रच्युतस्यात्मनः का क्रिया? नैव क्रिया युज्यते //
यः पूर्ववत् क्रियाकाले क्रियायास्तेन किं कृतम् / तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम् // bca_6.30 //
यथा पूर्वमक्रियाकाले तथाक्रियाकाले ऽपि यः, तेन कारकस्वभावविकलेन क्रियायाः किं कृतम्, येन प्रत्ययान्तरसङ्गे तस्य क्रिया व्यवस्थाप्येत? अपि च / उभयसंबन्धाभावात् तस्य आत्मनः क्रियेयमिति संबन्धे कतरत्तदन्यनिमित्तम्? नैवास्ति किंचित् //
विस्तरेण चात्मनो निराकरिष्यमाणत्वात् [9.58-60] ईश्वरस्य च [9.119-126], न स्वतन्त्रः कश्चिदपि संभवति / एवमस्वातन्त्र्यं सर्वत्र प्रसाध्योपसंहरन्नाह-
एवं परवशं सर्वं यद्वशं सो ऽपि चावशः / निर्माणवदचेष्टेषु भावेष्वेवं क्क कुप्यते // bca_6.31 //
एवमुक्तनयेन परवशं परायत्तं सर्वं बाह्याध्यात्मिकं वस्तुजातम् / तर्हि यद्वशे तदपरायत्तं भविष्यतीति चेत्, न / यद्वशं सो ऽपि चावशः स्वहेतुपरतन्त्रः / एवं स हेतुरपि स्वहेतोरित्यनादिसंसारपरंपरायां न स्ववशिता क्वचिदपि संभवति / अतो निर्व्यापाराः सर्वधर्मा इति / कः कस्मै द्रुह्यति परमार्थतः येनापराधिनि क्वचित् कस्यचिदपराधे तस्य द्वेषो युक्तः / इदमेवाह- निर्माणवत् सर्वव्यापारकल्पनाविगमात्, अचेष्टेषु निरीहेषु सर्वधर्मेषु एवं सत्सु क्व कुप्यताम्? न युज्यते प्रेक्षावतां क्वचिदपि कोप इति भावः //
स्यादेतत्- एवं हि एकं समर्थयतो द्वितीयं विघटते इत्याशङ्कयन्नाह-
वारणापि न युक्तैवं कः किं वारयतीति चेत् /
समर्थितन्यायेनैव वारणापि निवर्तनमपि निर्माणवदचेष्टेषु भावेषु न युक्ता / एवमिति यदा किंचिदपि स्वतन्त्रं न दृश्यते, सर्वं प्रत्ययसामग्रीं प्रतीत्य जायते, तदा वारणापि न (bcp 90) युक्ता / यदि वा- मैवम्, तथापि कथं न युक्ता? को वारयति, स्वतन्त्रः कर्ता किं निषेध्यं स्वतन्त्रप्रवृत्तं वारयतीति चेत् / अयमभिप्रायः- न हि समाने ऽपि न्याये क्वचित् प्रवृत्तिः सामान्यत्वात् / तस्माद्युक्तमेतत्- वारणा न युक्तेति //
यद्येवं मन्यसे, अत्रोत्तरमाह- युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता // bca_6.32 // युक्ता वारणा, कुतः? प्रतीत्यता, इदं प्रतीत्येदमुत्पद्यते इति प्रतीत्यसमुत्पन्नता यस्मादस्ति निर्व्यापारेष्वपि भावेषु, अतो वारणा युक्ता, ततो न व्याघातः / एतदुक्तं भवति- यद्यपि निर्व्यापाराः सर्वधर्माः, तथापि प्रतीत्यसमुत्पादवशात् पारतन्त्र्यमुपदर्शितम्- एवं परवशं सर्वम् [6. 31] इत्यादिवचनात् / ततः अविद्यादिप्रत्ययबलादुत्तरोत्तरः कार्यप्रवाहः संस्कारादिरूपः प्रवर्तते, पूर्वपूर्वनिवृत्तौ निवर्तते / एतच्च उत्तरत्र [9. 75] विस्तरेण प्रतिपादयिष्यते / तस्माद्दुःखस्य संसारस्य उपरतिर्निवृत्तिरभिमता / अतो द्वेषादिपापप्रवृत्तिवारणा संगच्छते / तां प्रतीत्य तथाविधमभ्युदयनिःश्रेयसस्वभावं फलमुत्पद्यते //
सांप्रतं प्रकृतमेव योजयन्नाह-
तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम् / ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत् // bca_6.33 //
यस्मात् प्रतीत्यजं सर्वम्, तस्मादमित्रेतरं [अमित्रमितरं च] अपकारिणं प्रतीत्य सुखमेवालम्बनीयम् / कुतः? ईदृशा अपकारकरणशीलहेतवः अस्य अमित्रस्य इतरस्य वा, इति एवं निश्चित्य सुखी भवेत्, दौर्मनस्यं न कुर्वीत //
किं च / दुःखोपनिपातेन चित्तक्षोभे ऽपि न दुःखस्य निवृत्तिरस्तीत्युपदर्शयन्नाह-
यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम् / न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति // bca_6.34 //
न हि आत्मेच्छामात्रेण अनविमतं निवर्तते, अभिमतं चोपतिष्ठते हेतुमन्तरेण / तथात्वे स ति न भवेत् कस्यचित् सत्त्वस्य दुःखम् / किमिति? न दुःखमात्मनः कश्चिदिच्छति / स्वसुखाभिलाषिण एव हि सर्वसत्त्वाः //
दुःखाधिवासनाक्षान्तिमभिधाय इदानीं परापकारमर्षणक्षान्तिमुपदर्शयन्नाह-
प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः / भक्तच्छेदादिभिः कोपाद्दुरापस्त्यादिलिप्सया // bca_6.35 //
उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः / निघ्नन्ति केचिदात्मानमपुण्याचरणेन च // bca_6.36 //
यदैवं क्लेशवश्यवाद् घ्रन्त्यात्मानमपि प्रियम् / तदैषां परकायेषु परिहारः कथं भवेत् // bca_6.37 //
(bcp 91) असमीक्षितकारिता प्रमादः / स्वयमेव स्वकायं कण्टकखाणुकठल्लपाषाणशर्करादिभिर्दुर्गमार्गेषु कर्मप्रवृत्ताः कण्टकास्तरणशयनादिभिर्वा बाधन्ते / तथा भोजनपानपरिहारादिभिः / किमिति? कोपात् अगम्यपरदारधनादि लब्धुमिच्छया वा //
उद्बन्धनमूर्ध्वलम्बनम् / प्रपातः प्रपतनं पर्वतादेः / जलाग्निप्रवेशादिभिः, विषापथ्यादिभक्षणैः, अत्याहारातिपानादिभिः, निघ्नन्ति मारयन्ति केचिन्मोहपुरुषा आत्मानं स्वकायम् / परवधादिभिः, अपुण्याचरणेन च / परवधाभिप्रायाः संग्रामादिष्वकुशलक्रियया च //
यदैवमुक्तक्रमेण क्लेशवश्यत्वात् क्लेशपरतन्त्रत्वात् एते सत्त्वा आत्मानमपि प्रियं वल्लभं घ्नन्ति पीडयन्ति, तदा एषां परकायेषु परशरीरेषु अपकारविरतिः कथं स्यात्?
इत्थं च कृपापात्रमेवैते, न द्वेषस्थानमित्याह-
क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने / न केवलं दया नास्ति क्रोध उत्पद्यते कथम् // bca_6.38 //
पिशाचैरिव ग्रस्तेषु एषु अपकारकारिषु उक्तनयेन प्रवृत्तेषु आत्मघातने परापकारद्वारेण वा न केवलं न तावत् कृपा नास्ति, औदासीन्यमपि साधूनां तत्रायुक्तम् / द्वेष उत्पद्यते कथं कृपास्थानेष्विति विपर्ययो महान् //
एवमपि स्वचित्तं निवारयेदित्याह-
यदि स्वभावो बालानां परोपद्रवकारिता / तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके // bca_6.39 //
तथा हि विकल्पद्वयमत्र / बालानां पृथग्जनानां यदि एतादृश एव स्वभावः परोपद्रवकारिता नाम, तदा न खलु स्वभावाः पर्यनुयोगमर्हन्ति- किमिति परापकारं कुर्वन्ति ते? इति परिभाव्य तेषु द्वेषो न युक्तो मे / तद्यथा अग्नौ दहनस्वभावे दाहकरणात् / अन्यथा तदभावे तत्स्वभावताहानिप्रसङ्गात् //
द्वितीयं विकल्पमधिकृत्याह-
अथ दोषो ऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः / तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे // bca_6.40 //
अथ दोषो ऽयमागन्तुः अन्य एव न तत्स्वभावभूतः / सत्त्वाः पुनः प्रकृतिप्रभास्वरचित्तसंतानतया पेशला अकुटिलस्वभावाः / दोषा हि दुष्टस्वभावाः, न तत्स्वभावाः सत्त्वाः / तथापि अयुक्तस्तेषु सत्त्वेषु पेशलस्वभावेषु कोपः / कस्मिन्निव? कटुधूमो यथा इव अम्बरे / न हि कटुता नाम निर्मलस्याकाशस्य स्वभावः, अपि तु धूमस्य / अतश्च तद्दोषेण धूम एव दोषो युज्यते, नाकाशे प्रकृतिपरिशुद्धे / तस्माद्दोषेष्वेव कोपो युज्यते न सत्त्वेषु /
(bcp 92) अपि च / यदेव हि प्रधानं दुःखकारणम्, तत्र युक्तो भवेत् कोपो नाप्रधाने इत्याह-
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते / द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् // bca_6.41 //
काये हि दण्डप्रहारादभावितचित्तस्य दुःखं समुत्पद्यते / ततो दण्ड एव मुख्यं दुःखकारणमिति तत्रैव कोपो युक्तः / अथ परप्रेरितस्य दण्डस्य को दोषः? तेन प्रेरक एव द्वेष्यो भवति / एवं तर्हि द्वेषेण सो ऽपि दण्डप्रेरकः प्रेरित इति द्वेषे द्वेषो मम युक्तो न प्रेरके //
अपि च / नादत्तं किंचिदुपभुज्यते सुखं वा दुःखं वा / इति विचिन्त्य परापकारे ऽपि न तत्र चित्तं प्रदूषयेदित्याह-
मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता / तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः // bca_6.42 //
पूर्वं जन्मान्तरे मयापि सत्त्वानामेवंविधैव पीडा कृता यस्मात्, ऋणपरिशोधनन्यायेन उचितमेव ममैतत् परापकारकारिणः / तत्कर्मफलपरिपाकादिति भावः //
यद्यस्य कारणं तस्मादेतदुत्पद्यते नान्यस्मादिति परामृश्य परापकारं मर्षयेदित्युपदशर्यन्नाह-
तच्छस्रं मम कायश्च द्वयं दुःखस्य कारणम् / तेन शस्रं मया कायो गृहीतः कुत्र कुप्यते // bca_6.43 //
अविकलकारणसामग्री हि सर्वकार्यस्य कारणमिति प्रमाणपरिनिश्चितम् / सा चात्र तथाविधा विद्यते / तथाहि तस्यापकारिणः शस्त्रं खङ्गादि मम कायश्च, एतद्द्वयं सामग्रीरूपं दुःखस्य कारणम् / इति समर्थकारणसद्भावे ऽपि कार्यं कथं नोत्पद्येत? अन्यथा तत्तस्य कारणमेव न स्यात् / ततो ऽन्यदपि, तत् उत्पादयोगः? [=तत्सामग्रीतो ऽन्यदपि कारणं स्यात्, ततः..........] तस्माद्यादि कारणोपनायके कुप्यते, तदा स्वात्मन्यपि कोपो युक्तः / यतः स्वयमपि दुःखकारणं वहत्युपनयति च भवान् / आत्मन्यकोपे परत्रापि न युक्त इति भावः //
प्रकारान्तरेणोक्तमेवार्थं स्पष्टयन्नाह-
गण्डो ऽयं प्रतिमाकारो गृहीतो घट्टनासहः / तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते // bca_6.44 //
शरीराकृतिरयं पक्वगण्डो मया गृहीतः / सर्वदुःखहेतुत्वात् सर्वोपमर्दसहः / आकोटनताडनादिभिरप्यभेद्यत्वात् / दुःखपरिहाराय सुखप्राप्तये च या तृष्णा अभिलाषः, तदन्धेन पिहितप्रज्ञालोचनेन तस्यां व्यथायां सत्यां कुत्र कुप्यते? न हि गण्डस्य कुड्यादिसंपर्कजे दुःखे क्वचिद्विवेकतः कोपो युक्तः //
(bcp 93) अपि च / यः कार्येणानर्थी, तेन तत्कारणमेव परिहर्तव्यं भवेत् / अहं तु विपर्यस्तमतिरिति विमर्शमुपदर्शयन्नाह-
दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः / स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते // bca_6.45 //
दुःखं दण्डाद्यभिघातजं नेच्छामि / तस्य पुनः कारणं शरीरं प्रत्यपकारिणं चेच्छामि / बालिश इति बालधर्मो विपर्यासः / तस्मात्कारणात् स्वकाये यद्दुःखं तत् स्वापराधागतमेव / इति कस्मादन्यत्र तत्सहकारिमात्रे कुप्यते?
आत्मवधाय स्वयं संस्कृतशस्त्रस्यैव अन्यत्र मम कोपो न युक्त इत्याह-
असिपत्रवनं यद्वद्यथा नारकपक्षिणः / मत्कर्मजनिता एव तथेदं कुत्र कुप्यते // bca_6.46 //
असिपत्रवनं नरकसमुद्भवम् / असय एव पत्राण्यस्येति कृत्वा / असिग्रहणं प्राधान्यात् / अन्यदपि शस्त्रं नारकदुःखहेतुर्यन्त्रं च / वने तस्मिन्निवासिनो गृध्रोलूकवायसादयः पक्षिणो यथा मत्कर्मजनिता एव दुःखहेतवो भवन्ति / नान्यदत्र दुःखकारणमस्ति / तथा इदमपि परशस्त्रादिकं दुःखहेतुर्मत्कर्मजनितमेव, इति कुत्र कुप्यते?
इत्थमपि विपर्यास एवायमित्युपदर्शयितुमाह-
मत्कर्मचोदिता एव जाता मय्यपकारिणः / येन यास्यन्ति नरकान्मयैवामी हता ननु // bca_6.47 //
येन मदीयेन कर्मणा चोदिताः प्रेरिता एव मयि पूर्वकृतापकारे अपकारिणो जाताः सन्तो नरकान् यास्यन्ति, तेन मयैवामी अपकारिणो हता ननु / स्वचित्तं संबोधयति- न अमीभिरहं हतः / अयमभिप्रायः- यदि नाकरिष्यमहमीदृशं कर्म, तदा एते ऽपि नापकारिणो ऽभविष्यन्निति मत्कृतेनैव कर्मणा अपकारिणो भवन्ति //
उपकारिष्वेव मोहादपकारिबुद्धिर्ममेति कारिकाद्वयेन दर्शयन्नाह-
एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु / मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान् // bca_6.48 //
अहमेवापकार्येषां ममैते चोपकारिणः / कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि // bca_6.49 //
एतानपकारिण आश्रित्य निमित्तीकृत्य मम पापं पूर्वजन्मकृतपरापकारजनितं क्षीयते तद्दुःखानुभवनविपाकेन क्षयं याति / क्षमतः क्षान्तिमालम्बमानस्य / बहु अनेकपर्यायेण कृतम् / मामाश्रित्य मत्कर्मचोदिताः एवमप्यपकारं कृत्वा पुनरेते नरकान् तीव्रवेदनान् दुःसहदुःखानुभवान् यान्ति / अत उक्तक्रमेण अहमेव अपकारी एषामित्यादि सुबोधम् //
(bcp 94) ननु यद्यपकारी भवान्, तर्हि भवत एव नरकगमनमुचितम्, न त्वेषामित्याह-
भवेन्ममाशयगुणो न यामि नरकान् यदि / एषामत्र किमायातं यद्यात्मा रक्षितो मया // bca_6.50 //
या प्रत्यपकारनिवृत्तिनिष्ठा एतन्ममाशयमाहात्म्यं नरकगतिनिवृत्तिहेतुः / नरकान् न यामि तदात्माशयमाहात्म्यबलेन / न तु पुनरेषां दुराशयतया नरकेषु ममापतनमिति भावः / एतदेवाह- एषामित्यादिना / अयमत्र समुदायार्थः- यद्यहमपकारी सन्नपि केनचिदुपायकौशलेन नरकान् न यामि, तदैषामु[म?]पकारिणां किमायातम्, किमपक्षीयते? का क्षतिरित्यर्थः / मया तावदेकेन रक्षिता न भवन्तामन्ये, रक्षित आत्मा च भवेत् / न चैतावता किंचिदेषां न्यूनाधिकं गुणदोषेषु स्यात् //
ननु यदि नाम एवम्, तथापि भवतो ऽपि न युक्तमात्मरक्षणमुपकारिकृतज्ञतया इत्याशङ्कयाह-
अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः / हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः // bca_6.51 //
यदि दण्डादिघातं कुर्वत्सु प्रत्यपकारी भवेयम्, तथापि एते रक्षिता न भवन्ति / न कश्चिदेषां प्रतीकारो नरकगमनादिषु कृतः स्यात् / प्रत्युत ताडितेनापि मया न प्रतिताडितव्यम् / तथा सर्वसत्त्वेषु न मैत्रचित्तं मया निश्चि[क्षेप्त?]तव्यम् / अन्तशो न दग्धस्थूणायामपि प्रतिघचित्तमुत्पादयितव्यम् / इत्यादेर्बोधिसत्त्वचर्याया मम हानिरेव स्यात् / तस्मादेतर्हि प्रतीकारोपायाभावात्तपस्विनो वराका रक्शितुमशक्यत्वान्नष्टा दुर्गतिपतिता एव / इत्युपेक्ष्यन्ते तावदिदानीम् / पश्चात्तदुपायमधिगम्य तत्करिष्यामि यथैषां दुःखमणुमात्रकमपि न स्यात् //
तदेवं परापकारमर्षणक्षान्तिं प्रतिपाद्य अधुना धर्मनिध्यानक्षान्तिमुपदर्शयितुमाह-
मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित् / शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते // bca_6.52 //
द्विविधं दुःखमविचारतो बाधकमुपजायते कायिकं मानसिकं चेति / तत्र मनसि न कश्चिद्दण्डादिकं दातुं शक्तः, अमूर्तत्वान्मनसः / इति तदुद्भवं दुःखं परमार्थतो न संभवति / कल्पनाकृतं तु दौर्मनस्यादिकं विद्यते / एतदेव दर्शयति शरीरेत्यादिना / ममेदं शरीरमिति विकल्पाभ्यासवासनावशात् कायदुःखेन चित्तं विहन्यते //
तत्रापि प्रतिनियतमेव दुःखकारणमित्याह-
न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः / कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि // bca_6.53 //
(bcp 95) न्यक्कारादिगणः समूहः कायस्य दुःखहेतुर्न भवति / न हि कायस्यायं कंचिदुपघातं करोतीति येन, तेन चेतः कस्माद्धेतोः प्रकुप्यसि?
अथापि स्यात्- यदि नाम न्यक्कारादयः कायस्य बाधका न भवन्ति, तथापि तच्छ्रुत्वा मयि लोकानामप्रसन्नं चित्तमुत्पद्यते, इति मया नेष्यते इत्याशङ्कयाह-
मय्यप्रसादो यो ऽन्येषां स मां किं भक्षयिष्यति / इह जन्मान्तरे वापि येनासौ मे ऽनभीप्सितः // bca_6.54 //
भवतु नाम एवम्, तथापि विचारणीयमेव / मयि न्यक्कारादिश्रवणाद् यो ऽयमप्रसादो जनानाम्, स किं मां भक्षयिष्यति इहलोके परलोक वा, येनासौ लोकाप्रसादो ममाप्रियः, इति विचार्य न कर्तव्यो ऽत्राभिनिवेशः //
अस्ति वा अत्राभिनिवेशकारणं लाभविघातो नामेत्याह-
लाभान्तरायकारित्वाद् यद्यसौ मे ऽनभीप्सितः / नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम् // bca_6.55 //
तथाहि न्यक्कारादिश्रवणादप्रसादो लोकानाम्, तस्माच्च लाभोपनामनवैमुख्यम् / ततो ऽसौ न्यक्कारादिगणो ममानिष्ट इति चेत्, तदयुक्तम् / नङ्क्ष्यति विनश्वरधर्मतया अपगमिष्यति / इहैव प्रतिनियतैरेव दिनैर्मम लाभः / न तु परलोकानुबन्धी भविष्यति / तन्निमित्तं न्यक्कारादिकर्तृषु क्रुध्यतो यत्पापं तदेव परं स्थास्यति परलोकानुबन्धि भविष्यति / ध्रुवमिति अपरिमुक्ते तत्फले तस्याविनाशात् //
इदमपि चात्रालोचनीयम्-
वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम् / यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे // bca_6.56 //
इदमेव वरं श्रेष्ठं यल्लाभाभावादस्मिन्नेवाहनि मे मरणमस्तु, न तु पुनः परापकारद्वारेण लाभप्रतिलम्भान्मिथ्याजीवितं चिरं दीर्घकालम् / कुतः? यस्माद्वहुतरकालमपि जीवित्वा मरणान्तं हि जीवितम् इत्यवश्यंभाविनो मृत्योर्दुःखं तदेव मम / यत्पश्चाद्वर्षशतात्यये भविष्यति, तदेवेदानीं मम म्रियमाणस्य इति चिरजीवितेष्वविशेषः //
इतो ऽप्यविशेष एवेति श्लोकद्वयेन दर्शयन्नाह-
स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते / मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते // bca_6.57 //
ननु (नूनं?) निवर्तते सौख्यं द्वयोरपि विबुद्धयोः / सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः // bca_6.58 //
(bcp 96) यथा कश्चित्स्वप्नोपलब्धं वर्षशतं सुखमुपभुज्य विबुध्यते, अन्यः पुनः क्षणमात्रम् / स तावन्मात्रेण सुखिनमात्मानं मन्यते / अनयोर्द्वयोरपि स्वप्नोपलब्धोपभुक्तसुखयोः प्रतिविबुद्धयोः सतोः तदुपलब्धं विनष्टं सुखं न निवर्तते, जाग्रदवस्थायां नानुवर्तते, स्मरणमात्रावशेषत्वात् / सैवोपमा स्वप्नोपलब्धसुखयोरिव पुरुषयोर्मृत्युकाले मरणसमये चिरजीविनो ऽल्पजीविनश्च / ननु निवर्तते सौख्यमिति स्वार्थे ऽप्यण् / इत्यलं मिथ्याजीवितेन //
अस्मादपि लाभालाभयोर्न कश्चिद्विशेष इत्युपदर्शयन्नाह-
लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि / रिक्तहस्तश्च नग्रश्च यास्यामि मुषितो यथा // bca_6.59 //
प्रचुरतरलाभान् लब्ध्वापि समासाद्य, चिरकालमुपभुज्य सुखान्यपि, पुनर्मृत्युमधिगम्य रिक्तहस्तश्च तुच्छहस्तः / न तस्माल्लाभादीषदपि पाथेयं गृहीतम् / नापि सुखात् किंचित् परिशिष्टमवस्थितम् / कटिसूत्रकमात्रमपि न परिशेषितमिति नग्नश्च चौरैः परिमुषित इव अस्माल्लोकात्परं लोकं यास्यामि //
स्यादेतत्- अस्त्येव विशेषो लाभस्य चीवरादीनामनुपघातादायुःसंस्काराणामुपस्तम्भाच्चिरतरकालं जीवितं स्यात् / ततश्च पूर्वकृतपापस्य विदूषणासमुदाचारादिना परिक्षयं शिक्षासंवरपरिरक्षणेन बोधिचित्तसेवनादिना च कुशलपक्षस्य च वृद्धिं कुर्याम् / यदुक्तम्-
यावच्चिरं जीवति धर्मचारी तावत्प्रसूते कुशलप्रवाहम् //
इति //
अतो लाभान्तरायकारिणि युक्त एव प्रद्वेष इत्याशङ्कयन्नाह-
पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत् /
लाभादुक्तक्रमेण जीवन् ध्रियमाणः पापक्षयं च पुण्यं च करोमीत्यादि मन्यसे / ननु एतदितः समधिकं दोषमपश्यता अभिधीयत इत्याह- पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु // bca_6.60 // लाभार्थं लाभनिमित्तं तदन्तरायकारिणि द्वेषं कुर्वतः सुकृतक्षय एवोपजायते / यदुक्तम्- सर्वमेतत्सुचरितम् [6.1] इत्यादिना / अयं तु विशेषः- अक्षान्तिसमुद्भवस्य पापस्य राशिरभिवर्धते //
अथापि स्यात्- यथाकथंचित् तावच्चिरकालं लाभाज्जीवितं स्यात् / तावतैव नः प्रयोजनमित्याह-
यदर्थमेव जीवामि तदेव यदि नश्यति / किं तेन जीवितेनापि केवलाशुभकारिणा // bca_6.61 //
(bcp 97) न खलु बोधिसत्त्वस्य इतरसत्त्ववज्जीवितं निष्प्रयोजनमेवाभिलषितम्, किं तर्हि संभाराभिसंवर्धनार्थं पापक्षयार्थं च / तद् यदि सुकृतक्षयनिमित्तमेव तत् स्यात्, तदा किं तेन तादृशेन जीवितेनापि केवलाशुभकर्मकरणशीलेन? निन्दितमेव तदिति भावः //
स्यादेतत्- न लाभान्तरायकारितया ममावर्णवादिनि प्रतिघचित्तमुत्पद्यते, किं तु गुणप्रच्छादनादिकर्मणा, दुःखहेतुत्वादित्याह-
अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत् / परायशस्करे ऽप्येवं कोपस्ते किं न जायते // bca_6.62 //
अयशोभिधायिनि यो ऽयं भवतो विद्वेषः, सो ऽवर्णवादी दोषाविष्करणाद्गुणप्रच्छादनाच्च त्वां नाशयति / इति मत्वा चेद्यदि तन्निमित्तकः / अथवा / सत्त्वान् लोकान्नाशयति / अवर्णवादेन मयि निग्राहयति / स्वयमप्रसन्नचित्तस्तेषामपि चित्तमप्रसादयतीत्यर्थः / इति अवर्णवादिनि द्वेषश्चेत्, उच्यते / तदा यो ऽपि परेषामन्यसत्त्वानामयशः प्रकाशयति, तत्रापि कोपस्ते किं न जायते? सो ऽपि च अवर्णवादी सत्त्वान्नाशयति / तदस्मिन्नपि युक्तरूप एव कोपः //
अत्रोत्तरमाशङ्कयन्नाह-
परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा /
परेषु अन्येषु सत्त्वेषु आयत्त आश्रितो ऽप्रसादो ऽस्य / अन्यसत्त्वान् विषयीकृत्य समुत्पन्न इति / तस्य भावस्तत्त्वं तस्मात् / पराश्रिताप्रसादत्त्वादप्रसादिषु अप्रसन्नचित्तेषु अवर्णवादिषु तव क्षमा क्षान्तिरूत्पद्यते / आत्मचित्तमेव पृच्छति / अत्राह- क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि // bca_6.63 // यदि यः परायत्ताप्रसादः तत्र क्षमा भवतो भवति, तदा स्वस्मिन्नवर्णवादिनि किं न क्षमा? किंरूपे? क्लेशोत्पादनपरायत्ते क्लेशानामुत्पादपरतन्त्रे / परायत्ताप्रसादत्वं क्षमाहेतुः तुल्यमुभयत्रापि इत्यर्थः //
प्रतिमाद्युपघातकारिषु श्रद्धावशादपि प्रतिघचित्तं नोत्पादयितव्यमित्याह-
प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च / न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा // bca_6.64 //
नाशका विकोपयितारः / आक्रोशका दोषबुद्धया वैरूप्याभिधायिनः / तेषु न युक्तो मम द्वेषः / कुतः? यस्माद्बुद्धादीनां बोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानां वितथाभिनिवेशप्रसूतात्मग्राहनिवृत्तेरभिष्वङ्गाभावान्न व्यथा चित्तपीडालक्षणं दौर्मनस्यं नास्ति / इति भावः / अतः प्रतिमाविनाशकेषु द्वेषचित्तं नोत्पादयितव्यम् / तथा विरुद्धधर्मकारिषु करुणैव तु युज्यते तेषु साधूनाम् / अन्यथा तत्र विशेषाभावात् पापमेव केवलमुपजायते / यदि पुनर्धर्मतो निवारयितुं शक्यते, तदा न दोषः //
(bcp 98) यदपि च धर्मकामतया गुरुमातापित्राद्युपघातकारिषु द्वेषचित्तमुत्पद्यते, तदपि विनिवार्यमेवेत्याह-
गुरुसालोहितादीनां प्रियाणां चापकारिषु / पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत् // bca_6.65 //
गुरवो धर्ममार्गोपदेष्टारो ऽकुशलपक्षनिवर्तयितारः / सालोहिताः सोदराः / अन्ये ऽपि ज्ञातिसगोत्रबान्धवादयः / तेषामपकारिषु / तथा प्रियाणां प्रेमस्थानानां चापकारिषु कोपं निवारयेदिति संबन्धः / कथम्? पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा / यदुक्तम्- ये केचिदपराधाश्च इत्यादिना / अतः सर्वे ऽप्यमी पूर्वकर्मोपजनितमेव फलमुपभुञ्जते / नात्र कश्चित् प्रतीकारहेतुरस्ति / तदनेन यथा अपरसमये देवगुरुद्विजातिमातापितृप्रभृतीनामर्थे पापं कुर्वतो ऽपि न दोष इति मतम्, न तथा इहाभिमतमित्युक्तं भवति //
किं च / इदमपि वस्तुतत्त्वं मनसि कुर्वता न सत्त्वेषु चित्तं दूषयितव्यमित्याह-
चेतनाचेतनकृता देहिनां नियता व्यथा / सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः // bca_6.66 //
समस्तकार्यस्य अन्वयव्यतिरेकाभ्यां जनकत्वेनावधारितं सामग्रीलक्षणं कारणम् / सा च सामग्री वस्तुधर्मतया काचित् क्वचित् समर्थस्वभावा / तत्र चेतनेन कृता हस्तपादादिप्रहारेण / अचेतनेन दण्डशस्त्ररोगादिना / तत्रापि चेतनावद्वयापारो ऽस्त्येव / साक्षात् पारंपर्यकृतस्तु विशेषः / स्वयमेव यदृच्छया वा लोष्टकुड्याद्यभिघातजनिता वा देहिनां शरीरिणां नियता व्यथा नियमेन समुत्पद्यते / नान्यदितो व्यथाकारणमस्ति / सा चैवं द्विविधकारणसामग्रीप्रसूतापि चेतने सविज्ञानके काये दृष्टा प्रमाणपरिनिश्चिता / अतस्तदेव तदुत्पत्तिस्थानं नान्यत् / अचेतने / वेदनायोगात् / ततो यद् यस्योत्पत्तिस्थानं तत् तत्रैव भवति नान्यत्र, यथा पङ्के पङ्कजं न स्थले / अतः अस्मान्यायात् क्षमस्व सहस्व एनामनन्तरकथितोभयरूपां व्यथाम् //
तदानीमुभयोरपि साधारणदूषणतया क्वचिदपि कोपो न युक्त इति कथयितुमाह- मोहादेके ऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः / ब्रूमः कमेषु निर्दोषं कं वा ब्रूमो ऽपराधिनम् // bca_6.67 //
आत्मात्मीयग्राहाभिनिवेशविपर्यासादेके केचिदपराध्यन्ति दण्डादिना / समाक्रोशादि वा वदन्तः सदोषमात्मानं कुर्वन्ति / अन्ये पुनस्तदपराधेन कुप्यन्ति / विमोहिता मोहादेव स्वकृतकर्मफलसंबन्धमननुसरन्तो ऽविद्यावरणात्, प्रतिताडनाक्रोशादिकमारभन्ते / इत्थं ब्रूमः- कम् एषु क्लेशराक्षसावेशवशीकृतेषु निर्दोषम्, कं वा ब्रूमो ऽपराधिनम्? उभयेषामपि साधारणदोषत्वात् //
(bcp 99) इदमपि च आत्मगतमेव चिन्तयता प्रतिघचित्तं निवर्तयितव्यमित्याह-
कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः / सर्वे कर्मपरायत्ताः को ऽहमत्रान्यथाकृतौ // bca_6.68 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
