Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/10

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिचर्यावतारपञ्जिका

Tác giả
प्रज्ञाकरमति
Thông tin
GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कस्मात्कारणात् किमित्येवम् एतत्फलं हेतुकर्म कृतम् / येनेति लोकोक्तिरेषा यदित्यस्यार्थे / यदेवम् / यदि वा येन कर्मसामर्थ्येन हेतुना / आक्रोशबन्धनताडनादिभिः बाध्यसे पीड्यसे परैरन्यैः / ननु यदि नाम एवम्, तथापि प्रतीकारो युक्त इत्याह- सर्व इत्यादि / सर्वे दुःखहेतवः कर्मप्रत्ययोपजनितप्रवृत्तयः इति को ऽहमत्र अन्यथाकृतौ तत्फलनिवर्तनाय? न कश्चित् / फलदानोन्मुखस्य कर्मणः केनचिन्निवर्तयितुमशक्यत्वात् //

इदं पुनरत्र युक्तरूपमित्याह-

एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम् / येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् // bca_6.69 //

एते सत्त्वाः कर्मक्लेशपरायत्ताः परस्परमसमञ्जसकर्मकारिणो निवर्तयितुमशक्या इति / एवं बुद्ध्वा ज्ञात्वा पुनः पुण्येषु कुशलेषु कर्मसु तथा यत्नं करोम्यहम्, तेन प्रकारेण वीर्यं समारभे, येन तथाविधं सामर्थ्यं प्रतिलभ्य सन्मार्गे प्रवर्तिताः सन्तः सर्वे मैत्रचित्ता हितसुखविधानतत्पराः परस्परमन्योन्यं भविष्यन्ति //

द्रोहचित्तं विनिवर्त्य प्रियवस्तूपघातकारिणि लौकिकोदाहरणेन द्वेषं निवर्तयेदिति श्लोकद्वयमुपदर्शयन्नाह-

दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम् / तृणादौ यत्र सज्येत तदाकृष्यापनीयते // bca_6.70 //

एवं चित्तं यदासङ्गादह्यते द्वेषवह्निना / तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया // bca_6.71 //

एकस्मिन् गृहे ऽग्निना दह्यमाने यथा तस्माद् गृहादन्यद् गृहं गृहान्तरं गत्वा / अग्निर्यत्र तृणकाष्ठादौ सज्जते लगति, तदन्तर्गतमन्यदपि वस्तु मा धाक्षीदिति शङ्कया तदाकृष्यापनीयते, पृथक् कृत्वा निर्धार्यते, इति दृष्टक्रमं प्रकृते ऽपि योजयन्नाह / एवमुक्तोदाहरणन्यायेन चित्तं मनो यस्य वस्तुन आसङ्गादासक्तो दह्यते परितप्यते द्वेषवह्निना प्रतिघानलेन तदासङ्गस्थानं वस्तु तत्क्षणं न कालान्तरपलिम्बेन परित्याज्यं तत्राभिनिवेशः परिहर्तव्यः / किं कारणम्? पुण्यस्यात्मा शरीरम् / पुण्यस्कन्ध इति यावत् / तस्य उक्तक्रमेण उद्दाहः परिक्षयो मा भूत् / अन्यथा गृहान्तर्गतपदार्थवत् प्रद्वेषवह्निः तमपि दहेत् //

अपि च / लाभ एवायं लब्धः, यन्मनुष्यदुःखैर्नरकफलं कर्म विपच्यते इति प्रतिपादयन्नाह-

मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम् / मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम् // bca_6.72 //

(bcp 100) यो हि मारणमर्हति, स यदि हस्तमात्रं छित्त्वा मुच्यते, तदा न काचित् क्षतिरस्य / प्रत्युत लब्धलाभमात्मानं मन्यते अत्यल्पमिदं मरणदुःखात् करच्छेदनदुःखमिति / तथा यो ऽपि मनुष्यदुःखं ताडनबन्धनतिरस्कारादिकृतमनुभूय नरकदुःखाद्विमुक्तो भवति, तस्यापि न किंचिदपचीयते / न किंचिदिदं दुःखं नरकदुःखात्, सुखमेव तत् / ततो यदि विचक्षणः स्यात्, तदा सौमनस्यमेवात्र युक्तमस्य //

अथापि स्यात्- न मया स्वल्पमात्रे ऽपि दुःखे क्षमा कर्तुं शक्यत इति, अत्राह-

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते / तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते // bca_6.73 //

खटचपेटलोष्टादिप्रहारकृतमीषन्मात्रमपि दुःखमिदानीं सोढुं मर्षितुं न पार्यते न शक्यते / तदत्र भवन्तं पृच्छामः- यदि एवमेव, तदयं नारकदुःखसंवर्तनीयः क्रोधः कोपः कस्मात्कारणान्न वार्यते? अयमेव हि अतितरां नरकेषु दुःखदायक इति दुःखभीरूणामेव क्रोधं निवर्तयितुं युक्तं स्यात् //

किं च / यद्यपि सोढुं न शक्यते, तथापि तद्धेतुककर्मसंभवादनिच्छतो ऽपि दुःखमापतिष्यति भवतः / न च किंचित्फलमुत्पत्स्यते / मर्षणात् पुनस्तस्य महार्थलाभो भविष्यतीति वृत्तद्वयेन शिक्षयितुमाह-

कोपार्थमेवमेवाहं नरकेषु सहस्रशः / कारितो ऽस्मि न चात्मार्थः परार्थो वा कृतो मया // bca_6.74 // न चेदं तादृशं दुःखं महार्थं च करिष्यति / जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते // bca_6.75 //

कोपनिमित्तमेव / एवमेव निष्फलमेव / नरकेषु संजीवादिषु / सहस्रशः अनेकवारम् / अहं कारितः छेदनभेदनपाटनादिकारणाभिः पीडितः / एवं दुःखमनुभवतापि मया न च नैव आत्मार्थः दृष्टादृष्टफलसाधनः कृतो निष्पादितः / परस्य अन्यस्य वा अर्थः सुखविधानलक्षणः / इति निष्प्रयोजनमेव नारकदुःखसहस्रशः परिभवो जातः / तदद्यापि न तथैव ममासहिष्णुता युक्तेत्याह- इदं दुःखं नैव तादृशं यादृशं नरकसमुद्भवम् / अथ च महार्थं सर्वसत्त्वहितसुखविधानभूतं बुद्धत्वं साधयिष्यति / अतो जगतो दुःखहरे त्रिजगत्पर्यापन्नसर्वसत्त्वदुःखप्रशमनकरे दुःखे प्रीतिरेवात्र युज्यते नारुचिरिति भावः //

परगुणश्रवणेर्ष्यामलप्रक्षालनायाह-

यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम् / मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि // bca_6.76 //

गुणाधिकं स्तुत्वा यदि प्रीतिसुखं कैश्चित् प्राप्तम्, तदा हे मनः त्वमपि तद्गुणसंवर्णनेन किमिति हर्षसुखं नानुभवसि? किमकाण्डमेव तदीर्ष्यानलज्वालायामात्मसंतानमिन्धनीकरोषि?

(bcp 101) ननु सर्वसुखमासङ्गात्मतया निषिद्धमेव सेवितुम् / ततः अहं सर्वसुखवैमुख्यादिदमपि नोपाददे / वक्ष्यति हि-

यत्र यत्र रतिं याति मनः सुखविमोहितम् / तस्मात्सहस्रगुणितं दुःखं भूत्वोपतिष्ठते //

इति / [बोधि. 8.18]

आह-

इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम् / न वारितं च गुणिभिः परावर्जनमुत्तमम् // bca_6.77 //

न हि सर्वं हृष्टिसुखमपाकृतम्, अपि तु यत् सावद्यमकुशलहेतुः / इदं च परगुणाश्रयं हृष्टिसुखं निरवद्यं तव, न च अकुशलहेतुः / अतः सुखोदयं सुखस्योदयो ऽस्मादिति कृत्वा / अत एव न वारितं च गुणिभिर्भगवच्छासनविधिज्ञैः / अयमपरो ऽस्य गुणः, यत् परावर्जनमुत्तमं परगुणेषु प्रीत्या / गुणेषु एवमयं मत्सरीति मन्यमाना अन्ये ऽपि सत्त्वा आवर्जिता भवन्ति, अतो युक्तमेवात्र प्रीतिसुखमुपादातुम् //

स्यादेतत्- न परगुणेषु अक्षमा काचिन्मम / किं तर्हि तावत्तस्यैव सुखमेतदिति मया सोढुमशक्यमिति / अत्राह-

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् / भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत् // bca_6.78 //

तस्यैव स्तुतिकर्तुः सुखमिति एवमनेनाभिप्रायेण भवतो यदि इदं परगुणस्तुतिप्रतिसमुद्भवं सुखं न प्रियम्, तदा अतिसंकटे पतितो ऽसि / कथम्? भृतिदानादिविरतेः / यदपि च भवतः स्वात्मसुखनिमित्तं स्वभृत्यादिषु भृतिदानं कर्ममूल्यदानम्, तथा उपकारकारिणि प्रत्युपकारकरणम् / इत्यादेर्विरतेर्वैमुख्यात्, तदपि न कर्तव्यमेव स्यात् परसुखविद्वेषिणा / यतस्तेनापि तस्य सुखमेव संपत्स्यते / ततो दृष्टमैहिकं फलम्, अदृष्टं पारलौकिकम् / उभयमपि हतं भवेत् परसुखसंपदमर्षिणा //

किं च / मिथ्योत्तरमेवेदं भवत इति प्रतिपादयन्नाह-

स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि / कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि // bca_6.79 //

यदि कश्चिद्भवतो गुणमुदीरयति, तदा तस्य परस्यानिष्टमपि सौख्यमिच्छसि / अथ परगुणाननुवर्णयति, तदा पुनरीर्ष्याशल्यवितुद्यमानमानसः / स्वसौख्यमपि नेच्छसि / आस्तां तावत् परसौख्यमित्यपिशब्दः / तस्मात् परसुखसंपदीर्ष्यैव भवतः, न स्तावकसुखासहिष्णुता //

यदुक्तम्-

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम् / इति / [बोधि. 6.78]

(bcp 102) तत्र विशेषेण दूषणमाह-

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया / स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि // bca_6.80 //

इदमतिगर्हितमेव विशेषेण समुत्पादितबोधिचित्तस्य, यत् परसुखसंपदसहिष्णुता नाम / यतः सर्वसत्त्वाः त्रिअधातुकान्तश्चराः समस्तसुखसंपत्तिसंतर्पिता बुद्धत्वमधिगम्य मया कर्तव्याः इति मनसिकारेण बोधिचित्तमुत्पाद्यते / तदुत्पाद्य कस्मात् सत्त्वेषु कुप्यते? अद्य इदानीम् / किंभूतेषु प्रसादस्थानेषु? स्वचित्तमभिप्रसाद्य स्वयमात्मनैव प्राप्तसुखेषु / इति अकरणीयमेव तत् परसुखवैमुख्यचित्तं बोधिसत्त्वस्येति भावः //

यः पुनरुत्पादितबोधिचित्तो ऽपि परस्य लाभसत्कारसंपत्तिमभिसमीक्ष्य तदीर्ष्याकषायितहृदयः तेनैव शोकेन दह्यते, तस्य परिभाषणार्थमाह-

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि / सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे // bca_6.81 //

अथवा स्यादेतत्- न खलु मया तत्सुखमेव न मृष्यते, किं तर्हि तदुद्भावितान्यगुणश्रवणाभिप्रसन्नमानसैः तेषामुपनामितं लाभसत्कारमित्यत्राह- त्रैलोक्येत्यादि / त्रयो लोकाएव कामरूपारूप्यधातुलक्षणाः लोकप्रसिद्धया वा स्वर्गादिस्वभावाः त्रैलोक्यम्, तत्समुदायो वा / तस्य पूजामर्हतीति पूज्यमभ्यर्चनीयम् / अनेन सर्वातिशायित्वं प्रतिपादितम् / तथाभूतं बुद्धत्वं सत्त्वानां किल वाञ्छसि / किलेत्यनेन विपर्ययं दृष्ट्वा अरुचिं प्रकाशयति / सत्कार मित्युपलक्षणम् / लाभमपि / शेषं सुबोधम् //

लाभमभिसंधायाह-

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः / कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि // bca_6.82 //

त्वया पोषणीयं प्रियपुत्रकादिकं त्वदीयं यः पुष्णाति, स तुभ्यमेव ददाति / तवैव तेनोपचयः कृतो भवेत् / अतः त्वत्कुटुम्बजीविनं त्वदीयं कुटुम्बं जीवयति यः, तं तथाविधं पुरुषं लब्ध्वा प्राप्य प्रहृष्यसि न? काक्वा पृच्छति- प्रकुप्यसि, न प्रहृष्यसे चेत्यर्थः / तथा प्रकृते ऽपि येन सर्वसत्त्वा आत्मीयत्वेन गृहीताः, तस्य तत्सुखैः सुखमेवोचितमिति //

स्यादेतत्- बुद्धत्वमेव त्वया तेषां प्रतिज्ञातम्, न तु पुनरन्यसुखमित्याशङ्कयाह-

स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति /

ननु एतदपि न सम्यक् / यस्मात्-

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा //

[बोधि. 3.33]

(bcp 103) इति प्रतिज्ञातम् / भवतु नाम एवम्, तथापि यः समुत्पादितबोधिचित्तः तेषां सत्त्वानां बोधिं बुद्धत्वमिच्छति, स किमन्यलौकिकलोकोत्तरमर्थजातं नेच्छति? अथ नैवमिष्यते, तदा बोधिचित्तमपि हीयते इत्याह- बोधिचित्तं कुतस्तस्य यो ऽन्यसंपदि कुप्यति // bca_6.83 // बोधिचित्तं कुतस्तस्य? मिथ्यैव बोधिचित्तप्रतिज्ञस्य / कस्य? यो ऽन्यसंपदि कुप्यति / इतरविभूतौ लाभसत्कारप्रसूतायाम्, इति मर्मचोदना बोधिसत्त्वस्य कुशलकर्मनिवृत्तिहेतुः //

अपि च / अपरस्य लाभसत्कारसंपदभावे ऽपि न भवतस्तद्भावसंभवः / तत्किमकारणमेव तद्विद्वेषिणा आत्मघाताय यत्नः क्रियते इति प्रतिपादयन्नाह-

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे / सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् // bca_6.84 //

यदि नाम तेन तव अक्षमाविषयेण सत्त्वेन तद्दीयमानं वस्तु न लब्धम्, तथापि स्थितं दानपतेर्गृहे / भवतस्तु किं तस्माज्जातम्? सर्वथापि तेन लब्धेन गृहावस्थितेन वा न तद्वस्तु तवास्ति / इति दत्तादत्तेन ते किम्? न किंचित् प्रयोजनं भवतः / अतस्तत्र उपेक्षैव युक्ता विदुषः //

किं च / इदमपि तावत् परिभाव्यतामित्युपदर्शयन्नाह-

किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ / लभमानो न गृह्णातु वद केन न कुप्यसि // bca_6.85 //

यो ऽसौ अतिप्रसन्नैर्दायकदानपतिओभिर्लाभसत्कारैः पूज्यते, स किं वारयतु पुण्यानि पूर्वजन्मकृतानि विपाकोन्मुखानि, यद्वशात्तस्य लाभसत्काराः / उत प्रसन्नान् दायकदानपतीन् वारयतु, अथ स्वगुणान् वारयतु, यानाश्रित्य एषां प्रसादो जातः / मा प्रसादमप्येषां जनयिष्यथेति / अथवा / लभमानो ऽपि तेभ्यो न स्वीकरोतु / ब्रूहि केन प्रकारेण अत्र न भवतो ऽपरितोषः स्यात् / तत्र पुण्यादीनां वारयितुमशक्यत्वात् लभ्यमानाग्रहणे ऽपि सर्वथापि न तत्ते ऽस्तीत्यादिना बाधकस्योक्तत्वादिति न किंचित् परितोषकारणमस्ति //

अथापि स्यात्- परस्यैव लाभसत्कारसंपत्तिरस्ति, न मम / अथ मम नास्ति, तदा परस्यापि मा भूत्, इत्येतन्ममासंतुष्टिनिबन्धनमित्याशङ्कयाह-

न केवलं त्वमात्मानं कृतपापं न शोचसि / कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि // bca_6.86 //

सुबोधम् / "यत् किंचिद्दुःखं तत्सर्वं पापसमुद्भूतम् / अभिलाषविघातो ऽपि दुःखम् / यदपि पर्येषमाणो न लभते, तदपि दुःखम्" इति वचनात् // यद्वक्ष्यति-

अभिलाषविघाताश्च जायन्ते पापकारिणाम् / इति / [बोधि . 7.41]

(bcp 104) यत् किंचित् सुखं तत् सर्वं पुण्यप्रसूतम् / इति सुखाभिलाषिणा शुभे कर्मणि उद्योगः करणीयः / यद्वक्ष्यति-

पुण्यकारिसुखेच्छा तु............ इत्यादि / [बोधि. 7.42-43]

इति कथं कृतपुण्यैः सह स्पर्धा युज्यते? सुकृतक्रियायामेव तत्सुखाभिलाषिणां स्पर्धा युक्तेत्यर्थः //

अपि च / इदमपि प्रष्टव्यो ऽसि-

जातं चेदप्रियं शत्रोस्त्वत्तुष्टया किं पुनर्भवेत् /

तव शत्रोर्द्वेषविषयस्य त्वदभिलाषमात्रेण अप्रियमनिष्टं जातमुत्पन्नं चेद् यदि, एतावता भवतः किं पुनर्भवेत्? भवतु तावत् तस्यानिष्टम्, अन्यस्य तु भवतु, मा वा / मम किंचिदेव तावन्मात्रेण प्रयोजनमिति पराभिप्रायमाशङ्कयाह- त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति // bca_6.87 // तवाशंसनम् इच्छा / अभिलाष इति यावत् / तावन्मात्रेण न चाहेतुः, न विद्यते हेतुरस्य, इत्यहेतुरर्थो भविष्यति //

अप्रियस्य भवतु नाम एवमित्यभ्युपगम्योच्यते-

अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव /

यदि नाम तवेच्छया सिद्धं निष्पन्नमप्रियं शत्रोः, तथापि तस्य दुःखे समुत्पन्ने किं सुखं तव? न किंचित् / निष्प्रयोजनमिदमभिप्रेतमिति यावत् / ननु इदमेव प्रयोजनं यत् तद्दुःखे मम संतुष्टिरित्यत आह- अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः // bca_6.88 // एवमपि परदुःखपरितोषे यदि अर्थः प्रयोजनं भवेत्, तदा अतः परः अनर्थः को नु? नुरित्यतिशये / अयमेवानर्थो महानित्यर्थः //

कथं पुनरयमनर्थ इत्याह-

एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम् / यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु // bca_6.89 //

यस्मादेतदिदमेवंविधं परानर्थचित्तं बडिशं घोरं महाभयंकरम् / किंभूतम्? क्लेशबाडिशिकार्पितम् / क्लेशा एव बडिशेन चरन्तीति बाडिशिकाः तैरर्पितमादत्तम् / यतः क्लेशबाडिशिकात् / बाडिशिकादिव मत्स्यम् / नरकपाला यमपुरुषाः त्वां क्रीत्वा पक्ष्यन्ति पक्ष्यन्ते / क्वचिन्नीत्वेति पाठः / कुम्भिषु नरकविशेषेषु / तस्मादत्राभिलाषं मा कार्षीरिति भावः //

(bcp 105) यदपि स्तुत्यादिविघाते दुःखमुत्पद्यते, तदपि अविवेचयत एवेत्युपदेशयन्नाह-

स्तुतिर्यशो ऽथ सत्कारो न पुण्याय न चायुषे / न बलार्थं न चारोग्ये न च कायसुखाय मे // bca_6.90 //

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः /

पञ्चप्रकार एवार्थः पुरुषार्थत्वेनाभिमतो विदुषाम् / तद्यथा- पुण्यम्, आयुर्वृद्धिः, बलवृद्धिः, आरोग्यलाभः, कायसुखं चेति / न चैतेषु क्वचिदुपयुज्यन्ते स्तुत्यादयः / इयानेव हि स्वार्थो भवतो भवेत् प्रज्ञावतः स्वार्थवेदिनः / अन्यस्य पुनरन्यथापि भवेत्, इति आत्मनि परामृशति / जानन्तु यद्यपि स्वार्थम्, तथापि स्वार्थवेदिनः अनुपायत्वात् पृथगुपदर्शितः / धीमत इत्यनेन तदसङ्गतया तदपि कथितम् //

ननु मानसमपि सुखमस्ति, तेन अवधारणमयुक्तमित्यत्राह- मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता // bca_6.91 // मानसं सुखं सौमनस्यम् / तदिच्छता मद्यं द्यूतं गणिका पारदारिकं सेवनीयं स्यात् / यत्पुनः सद्धर्मश्रवणात् सौमनस्यम्, तत् पुण्यग्रहणेन संगृहीतमित्यदोषः / तस्मात् सौमनस्य हेतुर्भवतो ऽपि स्तुत्यादयो बालजनानन्दकारिणो ऽनुपादेया एव //

इत्थमपि बालजनोल्लापकारिणः स्तुत्यादय इत्याह-

यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि /

केचिन्मोहपुरुषाः तादृशगुणात् स्वयमतिसुदूरे वर्तमाना अपि शक्रादिगुणैः स्तूयमाना बन्दिजनैरन्यैश्च प्रोत्फुल्लनयनवदना यशोर्थिनो हस्त्यश्वादिधनं तृणवत् तेभ्यः प्रयच्छन्ति / तथा तैरेव गुणैः संभावितात्मनामपि शक्रवत् शत्रुविजयसमुद्भूतं यशो मम जगति विपुलतां गमिष्यति, इत्यभिनिवेशाद्दुःसहसंग्रामारोहणान्मारयन्ति /

न चात्र परमार्थतः किंचित् प्रयोजनम्, अन्यत्र मिथ्याविकल्पादिति प्रतिपादयन्नाह- किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम् // bca_6.92 // स्तुत्याद्यभिधायकानि अक्षराणि वर्णाः किं भक्ष्याणि चर्वितव्यानि? यशोर्थं मृते सति कस्य च तत् सुखं यशःश्रवणसमुत्थम्?

तस्माद्बालक्रीडासमानमेतदित्युपदर्शयन्नाह-

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः /

यथा कश्चिद् बालो धूलिमयगृहेण परमपरितोषेण परिक्रीडमानः केनचित् तस्मिन् भग्ने महद्दुःखेन परिगृहीतः परमार्तिपीडित इव मद्गृहं भग्नमिति करुणस्वरं क्रन्दति, सैवोपमा अत्रापि इत्याह- तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे // bca_6.93 // तथैव स्तुतियशोहानौ विघाते स्वचित्तं दुःखमाविशत् प्रतिभासते विचारयतो मम / अत्रापि न वस्तुसता केनचिद् विप्रलम्भ इति परामर्ष्टव्यम् //

(bcp 106) पुनरन्यथा विचारेण बालधर्म एवायमिति चतुर्भिः श्लोकैः परामृशयन्नाह-

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः /

शब्दो वर्णात्मको बाह्यार्थतया अचित्तः अचेतनः / तस्य भावः तस्मात् / स शब्दो मां स्तौति मदीयं वर्णमुदीरयति / असंभवः न संभवत्येतत् / तत् कथं सौमनस्यं जायते इत्याह- परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् // bca_6.94 // अन्यः पुरुषश्चेतनात्मकः / किलेति निरर्थकमेतदपीत्यरुचिप्रतिपादकम् / मयि प्रीतः अभिप्रसन्नः इत्येतदभिसंधानं प्रीतिकारणम् /

तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम् / [बोधि. 6.97]

इति संबन्धः //

असंबन्धमेव कल्पयन्नाह-

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया / तस्यैव तत्प्रीतिसुखं भागो नाल्पो ऽपि मे ततः // bca_6.95 //

यस्मादन्यस्मिन् मयि वा प्रीत्या परसंतानवर्तिन्या किमायातं मम? न किंचित् / कुतः? तस्यैव ततो य एव प्रीतः स्तुतिकर्ता, तत् प्रीतिसुखं नान्यस्य / अतो भागो नाल्पो ऽपि ईषदपि मम ततः परसंतानवर्तिनः प्रीतिसुखात् //

स्यादेतत्- परसुखेनैव सुखित्वं बोधिसत्त्वानाम् / तत् किमिति ततो भागो नास्तीति? अत्राह-

तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत् / कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् // bca_6.96 //

यदि परसुखेन सुखित्वम् / तदा तस्मिन्नन्यत्र प्रसादेन सुखिते ऽपि ममास्तु तत्सुखित्वम् / किमात्मन्यभिप्रसादेन प्रीते परस्मिन् प्रीतिः? न त्वन्यस्मिन् प्रसादेन सुखितेषु मम सुखम् //

तस्माद्वचनमात्रमेवैतत्, न परमार्थ इति दर्शयितुमाह-

तस्मादहं स्तुतो ऽस्मीति प्रीतिरात्मनि जायते / तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम् // bca_6.97 //

तदन्यनिमित्ताभावात् अहं स्तुत इत्येवं विकल्पनात् प्रीतिरात्मब्नि जायते, न पुनः परसुखेन सुखित्वात् / तत्रापि न केवलमन्यप्रसादेन सुखिते सति / आत्मन्यपि एवमुक्तक्रमेण असंबन्धादप्रत्यासत्तेः कारणात् केवलं बालविलसितमेतत् //

(bcp 107) अपि च / स्तुत्यादयो मम अपचयमेव दधतीत्युपदर्शयन्नाह-

स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी / गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते // bca_6.98 //

अमी स्तुत्यादयः मम क्षेमं कल्याणम् / अथ क्षेमं कुशलपक्षपरिपालनम् / तथा संवेगं संसारदुःखनिर्वेदनम् / नाशयन्ति घ्नन्ति / न तावन्मात्रमेव, किं तु गुणवत्सु च मात्सर्यम् / आत्मनि गुणाधिकमानेन परगुणप्रच्छादनात् / तद्गुणासहनतया वा संपदि लाभसत्कारादिस्वभावायां कोपं च अमर्षं कुर्वते तेष्वेव / अहमेव गुणाधिकः, ममैव सर्वा संपत्तिरुचिता नान्येषामिति मत्वा //

यत एते दोषाः स्तुत्यादिषु संभविनः,

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः / अपायपातरक्षार्थं प्रवृत्ता ननु ते मम // bca_6.99 //

तस्मात् कारणात् / स्तुत्यादिघाताय विरोधाय ये सत्त्वा मम प्रत्युपस्थिता उद्यताः / अपायपातो नरकादिपतनम् / ततो रक्षार्थं त्राणार्थं रक्षणनिमित्तं प्रवृत्ता उद्युक्ता ननु ते मम / अतः कल्याणमित्राणि ते, नापकारिण इति //

लाभादिविरोधिनि सर्वथा प्रतिघचित्तमयुक्तं मम इत्युपदर्शयितुमाह-

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम् / ये मोचयन्ति मां बन्धाद्वेषस्तेषु कथं मम // bca_6.100 //

विमुक्तिकामस्य लाभसत्कारौ बन्धनमिव, सङ्गस्थानत्वात्, अयुक्तं नोचितं मुमुक्षोर्बन्धनम् / कल्याणमित्रकृत्यकारिणः शत्रुत्वेनाभिमता विमोचयन्ति वियोजयन्ति मां बन्धात् संसारदुःखलक्षणात् लाभादिस्वभावाद्वा / द्वेषस्तेषु परमोपकारिषु प्रीतिस्थानेषु कथं मम? न युक्त इत्यभिप्रायः //

कथं न युक्तमित्याह-

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः / बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम // bca_6.101 //

लाभसत्काराभिष्वङ्गप्रसङ्गात् संसारदुःखैर्विमोक्तुकामस्य ये सत्पुरुषविशेषाः कपाटत्वमपद्वारत्वमागताः / कुतः? बुद्धानामधिष्ठानतो ऽनुभावादिव / द्वेषस्तेषु कथं मम?

कुशलापघातकारिण्यपि द्वेषं निवारयन्नाह-

पुण्यविघ्नः कृतो ऽनेनेत्यत्र कोपो न युज्यते / क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम् // bca_6.102 //

(bcp 108) कुशलविघातः कृतो ऽनेन इत्येवं मनसि निधाय अत्र पुण्यविघातकारिणि द्वेषो न युज्यते / कस्मात्? यतः क्षान्त्या तितिक्षया समं तुल्यं तपः सुकृतं नास्ति सर्वशुभकर्महेतुत्वात् / "न च क्षान्तिसमं तपः" (बोधि. 6.2) इति वचनात् / ननु तदेवेदमयत्नत एव उपस्थितमुपनतम् / पुण्यविघ्नकारिच्छलेन पुण्यहेतुसंनिधेः //

तत्र प्रद्वेषे तु आत्मनैव पुण्यविघातः कृतो भवेदित्याह-

अथाहमात्मदोषेण न करोमि क्षमामिह / मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते // bca_6.103 //

अथ यदि आत्मन एव दोषेण असहिष्णुतात्मकेन न करोमि क्षमां क्षान्तिमिह विघ्नकारिणि, तदा मयैव न पुनरन्येन अत्र पुण्ये कृतो विघ्नः / कुतः? पुण्यहेतौ पुण्यविघातकारित्वेनाभिमते उपस्थिते संनिहितीभूते / अत्रेत्यस्मिन् पुण्यहेताविति वा संभाव्यते //

यदि पुण्यविघातकारी, कथमसौ पुण्यहेतुः? यावत् स एव विघ्न इत्याह-

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते / स एव कारणं तस्य स कथं विघ्न उच्यते // bca_6.104 //

यो भावः कार्याभिमतः येन कारणाभिमतेन विना नास्ति, तद्वयतिरेके न भवति, स एव यद्भावेन भवति, नान्यः कारणं जनकः तस्य कार्याभिमतस्य, तदन्वयव्यतिरेकानुविधानात् / एवं प्रकृते ऽपि स जनक एव कथं तस्य जन्यस्य विघ्न उच्यते विघातहेतुरभिधीयते? तथाविधे ऽपि तथा व्यवहारं कुर्वतो नास्ति विप्रतिपत्तिः //

उक्तमेवार्थं दृष्टान्तोपदर्शनेन व्यक्तं कुर्वन्नाह-

न हि कालोपपन्नेन दानविघ्नः कृतो ऽर्थिना / न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते // bca_6.105 //

न यस्मात् कस्यचिद्दानपतेर्दित्साकाले एव संप्राप्तेनार्थिना याचनकेन दानविघ्नः कृतः इत्युच्यते, यतः स कारणमेव दानस्य / तथा कस्यचित् प्रव्रजितुकामस्य प्रव्राजकसमवधानं प्रव्रज्या संवरादिग्रहणस्वभावा, न च तस्या विघ्न उच्यते, अपि तु कारणमेव स तस्याः / तमन्तरेण तस्या असंभवात् / एवं प्रकृते ऽपि द्रष्टव्यम् /

अपि च / क्षान्तिहेतुरतिदुर्लभ इति तत्समागमे प्रीतिरेव युज्यते इत्युपदर्शयन्नाह-

सुलभा याचका लोके दुर्लभास्त्वपकारिणः /

अतिप्रचुरप्राप्तिका याचनका लोके सर्वत्र सर्वेषां दीयमानग्रहणावैमुख्यात्, न तु पुनरपकारिणः / अतस्ते दुर्लभाः शतसहस्रेषु, यदि कथंचित् कश्चित् स्याद्वा न वेति / कुतः पुनरेतदेवमित्याह- यतो मे ऽनपराधस्य न कश्चिदपराध्यति // bca_6.106 // (bcp 109) यस्मादनपराधस्य निवृत्तपरापकारस्य मम निर्निमित्तं न कश्चिदेको ऽपि अपराध्यति, नापकरोति / कर्मणि षष्ठी //

एवमतिदुर्लभतया परमोपकारित्वाच्च अभिनन्दनीय एव अपकारीत्याह-

अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः / बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम // bca_6.107 //

यस्मात् कथंचित् प्राप्यन्ते अपकारिणः, तस्माद् गृहे प्रादुर्भूतो निधिरिव श्रममन्तरेणैवाधिगतो रिपुरभिलषणीय एव मया स्यात्, बोधिचर्यायां बुद्धत्वसंभारोपार्जने सहकारित्वाच्च //

एवंविधे परमपुरुषार्थे साहाय्यं भजमानस्य प्रत्युपकारकरणमेव कृतज्ञतया मम युक्तमित्युपदर्शयन्नाह-

मया चानेन चोपात्तं तस्मादेतत् क्षमाफलम् / एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः // bca_6.108 //

यस्मादसौ तत्र साहाय्यं कुर्वन् कारणमेव न विघ्नः तस्मान्मया क्षमामभ्यस्तता, अनेन चापकारं कुर्वता, इति द्वाभ्यामेवोपार्जितम् / एतदिति यस्य साधनाय साहाय्यं भजते / क्षमाफलं धर्माधिगमलक्षणम् एतस्मै धर्मसहायाय प्रथममग्रतो दातव्यं मया इति प्रणिधातव्यम् / यथा मैत्रीबलेन बोधिसत्त्वेन प्रणिहितं पञ्चकानुद्दिश्य / तत्र कारणमाह- यस्मादेतत्पूर्वा, एष एव पूर्वं कारणं यस्याः सा तथोक्ता / न हि अपकारिणमन्तरेण अन्यत् क्षान्तिकारणमस्ति //

युक्तमेवैतद् यदि तेनैवाभिप्रायेण असौ प्रवर्तते, केवलमपकाराशय एवायमित्याशङ्कयन्नाह-

क्षमासिद्धयाशयो नास्य तेन पूज्यो न चेदरिः / सिद्धिहेतुरचित्तो ऽपि सद्धर्मः पूज्यते कथम् // bca_6.109 //

क्षमा अस्य बोधिसत्त्वस्य निष्पद्यताम्, इत्याशयो नास्य अपकारोद्यतस्य / तेन कारणेन कुशलहेतुरपि यदि शत्रुः पूजनीयो न भवति, एवं तर्हि कुशलनिष्पत्तिहेतुः निरभिप्रायो ऽपि सद्धर्मः प्रवचनलक्षणः कथं पूज्यते? सो ऽपि तदाशयशून्यत्वात् पूजनीयो न स्यात्, इति भावः //

अथ सद्धर्मस्य निरभिप्रायतया अपकाराशयो ऽपि नास्ति, अस्य पुनस्तद्विपर्ययो दृश्यते, इत्याह-

अपकाराशयो ऽस्येति शत्रुर्यदि न पूज्यते / अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते // bca_6.110 //

अपकारः आशयः अस्य शत्रोः, इत्येवमभिसंधाय शत्रुर्यदि न पूज्यते दानमानैर्न सत्क्रियते / अन्यथेति अपकारिणि द्वेषचित्तमनिवारयतः कथं मम क्षान्तिः? तदपकारमसहमानस्य (bcp 110) प्रत्यपकारं वा कुर्वतो नैव युक्तेत्यर्थः / अन्यत्रपि कथं क्षान्तिः? भिषजीव हितोद्यते, सुवैद्यवद् हितसुखविधायके यत्र प्रेमगौरवमेव सदा, द्वेषनिबन्धनस्य गन्धो ऽपि न विद्यते //

द्वेषचित्तनिवएर्तनाच्च क्षान्तिरुच्यते / तस्मादपकारिण्येव प्रतिघचित्तं निवर्तयतः क्षान्तिरिति / एतदेव दर्शयन्नाह-

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा / स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया // bca_6.111 //

यतो भिषजीव हितोद्यते क्षान्तिर्न युक्ता, अतः अस्माद्धेतोः तस्य दुष्टाशयमेव प्रतीत्य निमित्तीकृत्य समुपजायते क्षमा / न पुनः कस्यचिच्छुभाशयम् / अतः अस्मात् स एव यस्याशयं प्रतीत्योत्पद्यते क्षमा क्षमाहेतुः, न तु पुनर्यो वैद्यवददुष्टाशयः / इति पूज्यः क्षमासिद्ध्याशयरहितो ऽपि सद्धर्मवदसौ मया / एतदुक्तं भवति- किं ममानेन आशयविचारेण प्रयोजनम्? अभिमतसाध्यसिद्धौ चेदुपयुज्यते, तावतैव ममोपादेयः स्यात् / विगुणाशयफलं तु तस्यैव, यस्यासौ विगुणाशयः / मम तु शुभोदयहेतुरेवायम्, इति कथमिव पूजनीयो न भवेदिति / तस्मात् संभारोपयोगिनि हेतौ किं स्वरूपनिरूपणेन?

एतदेव संभारहेतुत्वमस्य आगमतः प्रसाधयन्नाह-

सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् / एतानाराध्य बहवः संपत्पारं यतो गताः // bca_6.112 //

संभारप्रसूतिप्रवृत्तिहेतुत्वात् सत्त्वाः क्षेत्रम् / बुद्धा भगवन्तस्तथैव क्षेत्रम् / इति एवम् / अतो बुद्धत्वकारणहेतुत्वात् अनेकप्रकारं भगवता वर्णितम् / कुतः? यतो यस्मादेतान् सत्त्वान् जिनांश्च आराध्य आनुकूल्यानुष्ठानेन बहवो बुद्धत्वमधिगम्य सर्वलौकिकलोकोत्तरसर्वसंपत्तिपर्यन्तं प्राप्ताः //

स्यादेतत्- यदि नाम सत्त्वा अपि सर्वसंपत्तिहेतवः, तथापि तथागतैः सह साधारणता न युक्तेति / अत्राह-

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे / जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः // bca_6.113 //

उभयेभ्यो ऽपि बुद्धधर्माणां बलवैशारद्यादीनामागमे प्रतिलम्भे तुल्ये अविशिष्टे / उभयमपि तत् प्रति हेतुत्वमविशिष्टमिति भावः / अतः साधारणे ऽपि हेतुभावे जिनेषु गौरवं यद्वत्, तद्वन्न सत्त्वेषु / इत्येवं कःक्रमः परिपाटिः प्रेक्षावताम्? नैव युक्तेत्यर्थः //

ननु च सत्त्वानां रागादिमलैर्हीनाशयत्वात् कारणत्वे ऽपि कथं भगवत्समानता युज्यते इत्याशङ्कयाह-

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः / समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः // bca_6.114 //

(bcp 111) यद्यपि भगवतामपरिमितपुण्यज्ञानोपजनितमनुत्तरमिह माहात्म्यम्, तथापि उपयुक्तोपयोगित्वेन हेतुभावस्य तुल्यत्वात् समं माहात्म्यमुच्यते / तेन हेतुना ते सत्त्वाः समाः जिनैस्तुल्या उच्यन्ते इति नात्र विशेषः क्रियते //

यत्र पुनः प्रतिनियतात्मगतो विशेषः, तमुपदर्शयितुमाह-

मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत् / बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत् // bca_6.115 //

सत्त्वेषु मैत्रचित्तविहारी पुनर्यत्पूज्यते जनैः, तत्तस्यैव मैत्र्याशयस्य प्रत्यात्मगतं माहात्म्यं नान्यस्य / तथा तथागतमाहात्म्यमालम्ब्य स्वचित्तं प्रसादयतो यत्पुण्यमुत्पद्यते, तद्भगवत एव माहात्म्यमसाधारणम्, अन्यस्य तथाविधगुणाभावात् //

इत्यसाधारणं गुणमभिधाय प्रकृतमुपदर्शयन्नाह-

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः / न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः // bca_6.116 //

इदमत्र बीजं समतोपादाने इत्यर्थः / परमार्थतस्तु न बुद्धैर्भगवद्भिः समाः केचित् सत्त्वाः सन्ति / यदि भवेयुस्तथाविधाः, तदा ते ऽपि बुद्धा एव स्युः / किंभूतैः? गुणार्णवैः / गुणानामर्णवा गुणरत्नाकराः, अगाधापारत्वात्, तैः / पुनरपि तेषामपरमेव विशेषणमाह- अनन्तांशैः / अनन्तः अपर्यन्तः अंशः, एकदेशो ऽपि येषां गुणार्णवानाम्, ते तथा, तैः //

उक्तमेवार्थं व्यक्तीकुर्वन्नाह-

गुणसारैकराशीनां गुणो ऽणुरपि चेत्क्वचित् / दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् // bca_6.117 //

गुणेषु प्रधानानामेकराशयो ये भगवन्तः, तेषां गुणः अणुरपि परमाणुमात्रो ऽपि / गुणकणिकापीति यावत् / यदि क्वचित् सत्त्वविशेषे दृश्यते प्रतीयते, तस्य तद्गुणाधारस्य पूजानिमित्तं त्रैलोक्यमपि न क्षमम् / त्रैलोक्यजातानि रत्नादीनि न प्रतिरूपाणीति यावत् //

यद्येवम्, कथं तर्हि सत्त्वाराधनमुक्तमित्याह-

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्वेषु विद्यते / एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत् // bca_6.118 //

व्याख्यातमेतत् पूर्वम् //

इतो ऽपि सत्त्वाराधनमुचितमित्याह-

किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम् / सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत् // bca_6.119 //

(bcp 112) निश्छद्मबन्धूनामकृत्रिमसुहृदां बुद्धानां बोधिसत्त्वानां च / अपर्यन्तोपकारिणां निष्कृतिः तत्कृतापकारस्य निष्क्रयणं परिशोधनमिति यावत् / किमपरं भवेत् सत्त्वाराधनमन्तरेण / एतदेव परं निष्क्रयणमित्यर्थः //

प्रभुचित्तानुकूलवर्तिन एव भृत्यस्य वाञ्छितं सिध्यतीत्यवगम्य सत्त्वाराधनमेवोपादेयमिति प्रतिपादयन्नाह-

भिन्दन्ति देहं प्रविशन्त्यवीचिं येषां कृते तत्र कृते कृतं स्यात् / महापकारिष्वपि तेन सर्वं कल्याणमेवाचरणीयमेषु // bca_6.120 //

करचरणशिरोनयनस्वमांसानि छित्त्वा छित्त्वा प्रदत्तानि येषां हितसुखविधानाय, तथा अवीचीमपि परदुःखदुःखिनो येषां कृते प्रविशन्ति तत्समुद्धरणाय / प्रकृतत्वाद् बुद्धा बोधिसत्त्वाः / तत्र तेषु सत्त्वेषु कृते कृतं स्यात् / अन्यथा तु कृतमपि न कृतं भवेत् / कृतशब्दो ऽयमिह प्रकृताधिकारात् साधुकरणे वर्तते / येनैवम्, तेन परमापकारिष्वपि न चित्तं दूषयितव्यम् / किं तु सर्वमनेकप्रकारं कायवाङ्मनोभिर्वा कल्याणमेव हितसुखमेव विधातव्यमेतेषु //

उक्तमेव प्रसाधयन्नाह-

स्वयं मम स्वामिन एव तावद् यदर्थमात्मन्यपि निर्व्यपेइक्षाः / अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम् // bca_6.121 //

मम स्वामिन एव बुद्धादयः स्वयमेव आत्मनैव / तावदिति परामर्शे / यदर्थं येषां निमित्तम् / आत्मन्यपि स्वकायजीविते ऽपि / उक्तक्रमेण निरपेक्षा निरभिष्वङ्गाः तृणवत् परित्यजन्ति, तदहं पुनः तेषां भृत्यः तेषु सत्त्वेषु प्रभुपुत्रेष्वत्यन्तप्रियेषु कथं करोमि मानम्, किमिति जानन्नेव तान् प्रतिकूलयामि? न तु दासभावम्, न पुनर्दासीभूयाराधयामि?

इतो ऽपि च सत्त्वापकारं परित्यज्य तदाराधनमेव कर्तव्यमित्याह-

येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम् / तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारे ऽपकृतं मुनीनाम् // bca_6.122 //

येषां सत्त्वानां प्रियपुत्राणामिव पितरो मुनीन्द्रा बुद्धा भगवन्तः सुखे कायमनोजन्मनि मुदं हर्षं यान्ति, येषां च दुःखे मन्युं प्रविशन्ति अपरितोषमासादयन्ति / एतच्च (bcp 113) अनभिमतत्वाद् भगवतामित्थमभिधीयते, न तु वाणी (सी?) चन्दनकल्याणा(ल्पव?)त्(?) तच्छ्रावकाणामपि प्रतिघानुनयासंभवः(?) / अन्यत् सुबोधम् //

कथं पुनस्तत्रापकारे मुनीनामपकृतं स्यादित्यत्राह-

आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम् / सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायो ऽस्ति दयामयानाम् // bca_6.123 //

समन्तात् सर्वावयवानभिव्याप्य वह्निना प्रज्वलितशरीरस्य यथा पञ्चकामगुणैर्न सौमनस्यम्, कायिकमपि सुखं नास्ति, तस्य प्रज्वलितत्वादेव दुःखेनाक्रान्तत्वात्, तद्वत् तथैव सत्त्वानां व्यथायां दुःखवेदनायां न प्रीतेः सौमनस्यस्य उपायो हेतुरस्ति कृपात्मकानां भगवताम् //

तस्मादपरिज्ञानेन क्लेशग्रहावेशवशेन वा सत्त्वापकारकर्मणा यदकुशलमुपचितम्, तदपि इदानीमुपसंहारद्वारेण वान्तीकुर्वन्नाह-

तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपाणाम् / तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् // bca_6.124 //

यस्मादेवं सत्त्वापकारे मुनीनामपकृतं स्यात्, तस्मात् पापम् अद्य इदानीं प्रतिदेशयामि, संवेगबहुलस्तेषामेव महाकृपाणामग्रतः प्रकाशयामि / पुनरेवं संप्रजानन्न करिष्यामि, इति आयत्यां संवरमापद्ये / यदि प्रतिरूपमाचरितं तत्र मे क्षान्तिं कुर्वन्तु अनुकम्पामुपादाय //

क्षमयित्वा सांप्रतमाराधनायेत्यादिना तदेकपरायणतामात्मनो दर्शयति-

आराधनायाद्य तथागतानां सर्वात्मना दास्यमुपैमि लोके / कुर्वन्तु मे मूर्ध्नि पदं जनौघा विघ्नन्तु वा तुष्यतु लोकनाथः // bca_6.125 //

तथागतानामभिप्रेतसंपादनाय लोके लोकविषये सर्वात्मना कायेन वाचा मनसा वा दासीभावं स्वीकरोमि / ते ऽपि मे प्रसादं कुर्वन्तो मस्तके पादं निदधतु / तेषां पादं प्रमुदितचित्तः शिरसा धारयामि / अनेन मयि पुर्वापराधमपास्य जगतां पतिर्भगवान् संतुष्टमानसो भवतु //

(bcp 114) भगवत्सु च गौरवकारिभिः सत्त्वेष्वनादरो न कर्तव्य इति प्रसाधयन्नाह-

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयो ऽस्ति / दृश्यन्त एते ननु सत्त्वरूपास्त एव नाथाः किमनादरो ऽत्र // bca_6.126 //

सर्वत्रगधर्मधातुप्रतिवेधात् सर्वसत्त्वसमतापादनपरात्मपरिवर्तनादिना वा आत्मीकृतं स्वीकृतं सर्वमिदं जगत्, न कियदेव / तैर्बुद्धैर्भगवद्भिः करुणामयचित्तसंतानैः / सुनिश्चितमेवैतत् / अन्यथा बुद्धत्वायोगात् / तस्मात् सत्त्वरूपेण बुद्धा भगवन्त एवैते सत्त्वा दृश्यन्ते / तेन किमनादरो ऽत्र मूढचेतसाम्? नैव युक्त इति भावः //

अनेकार्थत्वादपि सत्त्वाराधनस्य तत्रैव यतितव्यमित्याह-

तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव / लोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव // bca_6.127 //

स्वार्थस्य बुद्धत्वसंभारलक्षणस्यैव / लोकस्य दुःखापहं तद्धेतुत्वात् / एतदेवेति / सर्वत्र सत्त्वाराधनमिति योज्यम् //

आगामिभयदर्शनादपि च परापकारवैमुख्यमेव अभ्यसनीयमित्युदाहरणेनोपदर्शयन्नाह-

यथैको राजपुरुषः प्रमथ्नाति महाजनम् / विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः // bca_6.128 //

यस्य राज्ञो देशनिवासिनं तस्यासौ राजपुरुषः / महाजनं नगरनिगमग्रामकर्वटादिवास्तव्यम् / प्रमथ्नाति विमर्दयति / स च आगामिराजदण्डभयदर्शितया महाजनो वचनमात्रेणापि यावद्विकारमुपगन्तुमसमर्थः / तेन ताडितो ऽपि संकुचितवृत्तिरेवास्ति //

कस्मात्?

यस्मान्नैव स एकाकी तस्य राजबलं बलम् /

नैव स राजपुरुषो ऽसहाय एव द्रष्टव्यः / कथं पुनरयमसहायो न भवतीत्याह- तस्येति / राज्ञो बलमेव तस्य बलम्, तत्पक्षग्रहणात् / तथा न दुर्बलं कंचिदपराद्धं विमानयेत् // bca_6.129 // तस्मात् कृशशक्तिमपि कृतापराधं नापकुर्यात् / सो ऽपि न यस्मादेकाकी //

यस्मान्नरकपालाश्च कृपावन्तश्च तद्वलम् / तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा // bca_6.130 //

(bcp 115) तस्मादाराधयेत् सत्त्वान् / कुतः? यस्मान्नरकपालाश्च तदपकारमिव प्रत्यपकारिणो ऽन्वाचरन्तः (?) कृपावन्तश्च जिनादयः तत्पक्षपातिनो बलम् / कथमिवाराधयेत्? अधृष्यं राजानं सर्वानुवृत्तिकरणानुजीविनो यथा, तथा //

किं च / लोकप्रसिद्धित इदमेवमिहोक्तम्, न तु पुनः सत्त्वाप्रसक्तिफलस्य राजापराधफलेन समानता समस्तीत्याह-

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा / यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते // bca_6.131 //

किमिति काक्वा पृच्छति / किं तद्दुःखजातमुत्पादयितुं नृपतिः समर्थो भवेत्? नैवेति भावः / किंभूतम्? येन दुःखजातेन नारकी वेदना अनुभूयते //

तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत् / यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते // bca_6.132 //

आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम् / इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि // bca_6.133 //

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् / चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन् // bca_6.134 //

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां क्षान्तिपारमिता नाम षष्ठः परिच्छेदः //

7. वीर्यपारमिता नाम सप्तमः परिच्छेदः /

तदेवं विपक्षप्रतिषेधेन त्रिधा क्षान्तिं प्रतिपाद्य वीर्यं प्रतिपादयितुमाह-

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता / न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः // bca_7.1 //

एवमुक्तक्रमेण क्षमायुक्तः क्षमः स्वयमभ्यस्तक्षान्तिः / भजेद्वीर्यं वीर्यमारभेत / अन्यथा दुःखासहिष्णुतया वीर्यस्य प्रस्रब्धिर्न स्यात् / कस्मात् पुनर्वीर्यमुपादीयत इत्याह / वीर्यं इत्यादि- यस्माद्वीर्ये बुद्धत्वमवस्थितम् / तद्धेतुकतया तदायत्तत्वाद्बुद्धत्वस्य / एतदपि कुतः? यस्मान्न वीर्यमन्तरेण पुण्यं पुण्यसंभारो ऽस्ति / उपलक्षणमेतत् / ज्ञानमपि द्रष्टव्यम्, वीर्यस्योभयहेतुत्वात् / तदनेन वीर्यात् पुण्यज्ञानसंभारौ, ताभ्यां च बुद्धत्वमित्युक्तं भवति //

वीर्यस्वरूपापरिज्ञानात् पृच्छति-

किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते / आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना // bca_7.2 //

किमेतद्वीर्यं नाम? अत्राह- कुशलोत्साहः / यो ऽयं कुशलकर्मणि दानादौ श्रुतादौ च समुद्यमः, तद्वीर्यमभिधीयते / अकुशले तु कौसीद्यमेव / विपक्षेणोपहतं वीर्यमनङ्गमेवाभिमतसिद्धये इति तद्विपक्षमपनयनाय दर्शयितुमाह- तद्विपक्ष इत्यादि / तस्य वीर्यस्य विरुद्धो विनाशाय पक्षो विपक्षः क उच्यते? उत्तरमाह- आलस्यमित्यादि / आलस्यं कौसीद्यं कायमनसोरकर्मण्यता / कुत्सिते जुगुप्सनीये हास्यलास्यादौ आसङ्गः / विषादो विषण्णता / दुष्करे कर्मणि चित्तस्य विनिवृत्तिः / अनध्यवसानमित्यर्थः / तेन आत्मनो ऽवमन्यना अवज्ञा / अयं तद्विपक्षः //

तदालस्यनिषेधाय तत्कारणं तावदुपदर्शयितुमाह-

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया / संसारदुःखानुद्वेगादालस्यमुपजायते // bca_7.3 //

संसारदुःखानुद्वेगादसंवेगात्, यो ऽयमव्यापारो निर्व्यापारता, तत्र तेन वा सुखास्वादः सुखाभिरामः / स च निद्रा च मिद्धाक्रमणम् / ताभ्यां मिद्धाक्रमणमपाश्रयतृष्णा अवष्टम्भनाभिलाषः, तया / आलस्यमुपजायते इति योजनीयम् / यदि वा / संसारदुःखानुद्वेगादव्यापारः, क्वचिदपि कुशलकर्मणि न प्रवृत्तिः, तस्मात् सुखास्वादः, ततो निद्रा, तस्याश्च अपाश्रयतृष्णा, तया //

(bcp 117) अतः संसारदुःखानुद्वेगनिवर्तनार्थमियमत्र संवेगभावना आमुखीकर्तव्येत्याह-

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् / किमद्यापि न जानासि मृत्योर्वदनमागतः // bca_7.4 //

वागुरिका मत्स्यादिवधिका जालिका उच्यन्ते कैवर्तादयः (दिभिः?) / क्लेशा एव वागुरिकाः , तैराघ्रात आयत्तीकृतः / कथमिति चेत्, प्रविष्टो जन्मवागुराम्, निकायसभागतोत्पत्तिरेव वागुरिका जालम्, तत् प्रविष्टः, तदन्तर्गत इत्यर्थः / इदमिह तदात्मसात्करणे कारणम् / अद्यापि एतां दशां प्राप्तो ऽपि मृत्योर्मुखं प्रविष्टः सन् किमिति न वेत्सि? जातश्चेन्मरणमवश्यंभावीत्यर्थः //

इदमपरं संवेगकारणमाह-

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि / तथापि निद्रां यास्येव चण्डालमहिषो यथा // bca_7.5 //

यूथं वर्गः, तत्र भवा यूथ्याः, यैः सह बाल्याद्यवस्थायां क्रीडितहसितादिना विचरितम् / तान् स्ववर्ग्यान् / चण्डालानामवश्यंमारणीयमहिषवत् / न पश्यसि ममापि इयमवस्थितिः स्यादिति //

अवश्यमिह कियत्कालं परिलम्ब्य मृत्युरागमिष्यति / तेन तावत्कालं सुखानुभवनमेव मम युक्तमित्यत्राह- यदि नामैवम्, तथापि नावश्यंभाविनि मरणे विश्वासो युक्तः /

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः / कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः // bca_7.6 //

इति वध्यपुरुषस्येव सर्वतो वध्यघातकैरधिष्ठितस्य वध्यभूमिं नीयमानस्य निःसरणमपश्यतः सुखासिकावलम्बनमनुचितमेव भवतः / तस्मात्संवेगतो भावनया अनया हेतुनिवर्तनादालस्यमपास्य कुशलपक्षोत्साहवर्धनमनुष्ठेयम् //

अथापि स्यात्- यदि नाम अवश्यंभाविता मृत्योः, तथापि तत्संनिधानमवगम्य आलस्यमपहास्यामि इत्याशङ्कयाह-

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति / संत्यज्यापि तदालस्यमकाले किं करिष्यसि // bca_7.7 //

संभृतः सज्जीकृतः संभारः सामग्री वधाय व्याधिजरालक्षणो येन / यावदिति लोकोक्तम् / शीघ्रं त्वरितमनभिसंधानात् / तदा मृत्युमुखान्तर्गतः असमये आलस्यं त्यक्त्वापि किं करिष्यसि? न तदा किंचित् प्रयोजनमिति भावः //

अकालतामेवास्य समर्थयितुं वृत्तत्रयेणाह-

इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम् / अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन् // bca_7.8 //

(bcp 118) शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान् / बन्धून्निराशान् संपश्यन् यमदूतमुखानि च // bca_7.9 //

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् / त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि // bca_7.10 //

इदं यदनागते कर्तव्यतया मनसिकृतं तन्न प्राप्तम् / इदमारब्धं यत्कार्यमादित एव कर्तुमिष्टम् / इदमर्धकृतं स्थितम्, यत् कियन्निष्पन्नं कियदनिष्पन्नम् / इति कार्यपर्यन्तमगतस्यैव अकस्मान्मृत्युरागतो मम / अहो बत अतिकष्टम्, हतो ऽस्मीति विचिन्तयन् विह्वलः किं करिष्यसीत्यनागतेन संबन्धः / शोकः प्रियविप्रयोगकृतश्चित्तपरितापः / तस्य वेगो ऽनिवार्यप्रवृत्तिः / तेन समुच्छूनानि समुन्नतानि साश्रूणि सबाष्पाणि रक्तानि ताम्रवर्णानि लोचनानि येषु आननेषु तानि तथा / तथाभूतानि आननानि मुखानि येषां बन्धूनां ते तथा / तान् संपश्यन् विलोकयन् / तत्राकर्मकाधिकारात् परस्मैपदं दृशः / किंभूतान्? निराशान् / क्व? प्रत्युज्जीवनं प्रति त्यक्ताशान्, तत्सानाथ्यविकलान् वा / मरणसमयोपस्थितकृतान्तानुचरमुखानि च सरोषपरुषभृकुटीनि संपश्यन् विह्वलः किं करिष्यसि? स्वयंकृतपापकर्मस्मरणेन मरणसमये किमित्येवं मया कृतमिति पश्चात्तापेन तापितः / नैतावन्मात्रमेव, किं तु शृण्वन्नादांश्च नारकान् तीव्रकारणानुभवनदुखनिर्मुक्तान् विक्रोशितशब्दान् नरकसमुद्भूतान् अर्थान्तरकोपाणामेव (?) / तच्छ्रुत्वा ममाप्येवमेवावस्था इति संत्रासेन यः पुरीषोत्सर्गो विट्प्रवृत्तिः, तेनोपलिप्तगात्रः / विह्वलः अनायत्तकायवाक्चित्तप्रचारः / किं करिष्यसि सर्वक्रियासु निवृत्तव्यापारः //

इति मत्वा स्वस्थावस्थायामेव यतितव्यम् इति शिक्षयितुमाह-

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते / किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः // bca_7.11 //

जीवन्त एव मत्स्याः क्रमेण भक्षणार्थं प्रायः प्राग्दिङनिवासिभिरेव जनै रक्ष्यन्ते / जीवनोपलक्षिता मत्स्या जीवमत्स्या इति तेषामेव समयः / शाकपार्थिवादित्वान्मध्यमपदलोपी समासः / तद्वदहमपि अद्य श्वो वा नियतमेव मरिष्यामि इति मनसि कृत्वा युक्तं भयमिहैव ते / इहैव संप्रजानदवस्थायामेव तवासंप्राप्तमरणस्य मरणतः, किं पुनः कृतपापस्य भवतो भयं युक्तं न भवति, इत्यपि आहार्यम् / अतिदुःसहान्नरकदुःखतः //

निर्व्यापारसुखास्वादाभिरतमधिकृत्याह-

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे / कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते // bca_7.12 //

तप्तवारिणापि संस्पृष्टः / सुकुमारेति संबोधनम् / अतिमृदुशरीरतया सोढुमशक्तो ऽसि / यद्येवम्, तदा कृत्वा चेत्यादि सुबोधम् //

(bcp 119) अपरमपि तं प्रत्याह-

निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ / मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे // bca_7.13 //

सुखहेतूत्पादनाय व्यापारशून्यो ऽसि / अथ च तस्य फलं सुखमभिलषसि / दुःखासहिष्णुरसि, अथ च बहुव्यथो ऽसि सर्वदुःखाकरत्वात् / मृत्युना च वशीकृतो ऽसि, अथ च अमरणधर्माणमात्मानं मन्यसे / एवं च विपर्यस्तं चरितमस्य विपश्यन् करुणायमानः सखेदमेनमाह- हा दुःखित विहन्यसे / संमोहबहुलतया कष्टां दशां प्रविष्टो ऽसि / आत्मगतमेव वा विमृशति / एवमन्यत्रापि यथासंभवं द्रष्टव्यम् / निरुद्यमादीनि चामन्त्रितपदानि //

निद्रापरतन्त्रं प्रत्याह-

मानुष्यं नावमासाद्य तर दुःखमहानदीम् / मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः // bca_7.14 //

अष्टाक्षणविनिर्मुक्तं मनुष्यभावप्रतिलम्भं नावमिव अभ्युदयादिपारगमनाय प्राप्य तर प्लवस्व दुःखमयीं महानदीम् / सर्वदुःखानि पृष्ठीकुरुष्व / वीर्यावलम्बनेनेति यावत् / हे मोहपरवश, नायं कालो निद्रायाः, यावदियं नौः संनिहिता / यदि नेदानीमेव यत्नः क्रियते, तदा पुनरियं दुर्गतिगतस्य नौर्दुर्लभा भविष्यति / यदुक्तम्-

पुनरप्येष समगमः कुतः / इति //

[बोधि. 1.4]

एवमालस्यं निवार्य कुत्सितासक्तिं निवारयन्नाह-

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम् / रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव // bca_7.15 //

शुभकर्मणां रतिं श्रेष्ठामुत्तमाम् / किंभूताम्? अनन्तरतिसंततिम् / सुगतिपरंपरासंजननादनन्ता अपर्यवसाना रतिसंततिः सुखप्रवाहो यस्याः सा तथा / अत एव उत्तमे त्युक्तम् / तामपहाय रतिरभिरामः, औद्धत्यमुन्नतता / कायचित्तयोः क्रीडनशीलतेति यावत् / हासो वागौद्धत्यम् / सरभसस्य वाग्विकार इति यावत् / आदिशब्दाद्गीतादिपरिग्रहः / तत्र कथं रतिस्तव? न युक्तेत्यभिप्रायः / किंभूते? दुःखहेतौ / नरकादिदुर्गत्युपनयनाद्दुःखस्य हेतुर्भवति //

एवं कुत्सितासक्तिमपि निराकृत्य विषादात्मावमन्यनां वीर्यविपक्षं निराकर्तुम्, अपरमपि च तद्विपक्षनिरसनाय प्रतिपादयन्नाह-

अविषादबलव्यूहतात्पर्यात्मविधेयता / परात्मसमता चैव परात्मपरिवर्तनम् // bca_7.16 //

विषादविपरीतो ऽविषादः / बलानां व्यूहः समूहो वक्ष्यमाणलक्षणः / तात्पर्यं निपुणता / आत्मविधेयता आत्मवशवर्तिता / एताः सर्वाः कृतद्वन्द्वसमासाः / यदि वा / (bcp 120) एभिः सहिता आत्मविधेयता / परात्मसमतापरात्मपरिवर्तने ध्यानपरिच्छेदे [बोधि.8] वक्ष्यमाणे / इदमपि समस्तं कौसीद्यप्रहाणाय वीर्यसमृद्धये प्रभवतीत्युद्देशः //

उद्दिष्टमेवार्थं क्रमेण निर्दिशन्नाह-

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः /

कुतो मे बोधिरिति, कथमहं वराकः सम्यक्संबोधिभाजनम्? बुद्धत्वं हि तीक्ष्णेन्द्रियस्य आरब्धवीर्यस्य अपरिमितपुण्यज्ञानसंभारैः अतिदुष्करकर्मानुष्ठानैः अनेकैश्च कल्पासंख्येयैः कस्यचित् पुरुषविशेषस्य साध्यं भवति / अहं तु न तादृश इति कथं मद्विधानां तथाविधं बुद्धत्वं संभाव्येत, इत्येवमाकारमनसिकारादवसादो विषादो न कर्तव्यः, महार्थभ्रंशस्य हेतुत्वात् / यथोक्तम्- अवसादो ऽप्यनर्थ इति [शि. स. 34] // कस्मात्? यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् // bca_7.17 // यस्मात् तथागतः इदं वक्ष्यमाणं सत्यमवितथमुक्तवान् कथितवान् / कथं ज्ञायते इत्याह- सत्यवादीति / ज्ञानक्रियासंभवादविपरीतवादी / अतः सत्याभिधानहेतुपदमेतत् //

किं तत्सत्यमुक्तवान्?

ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा / यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा // bca_7.18 //

इत्याह / ते ऽपि बुद्धा भगवन्तः पुर्वं शाक्यमुनिरत्नशिखिदीपंकरप्रभृतयः संसारसागरावर्तान्तर्गताः पृथग्जनावस्थायां परिभ्रमन्त एवंभूता एवासन् बभूवुः, यैरुत्साहबलात् वीर्योत्कर्षसामर्थ्यात् संभारान् संभृत्य प्राप्ता अधिगता दुरापा दुर्लभप्रतिलम्भा बोधिरुत्तमा अनुत्तरा / आरब्धवीर्यस्य न किंचिद्दुष्करमिति भावः / इदं तत् सत्यम् //

अतो मम पुनरतितरां न दुर्लभा बोधिरित्याह-

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् / सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम् // bca_7.19 //

किं पुनरहं मनुष्यभूतो जन्मना / शक्तो ज्ञातुं हिताहितमिति / इदं हितमिदमहितम्, शुभमशुभं च कर्मेत्युपदिष्टम्, ज्ञातुमवबोद्धुं समर्थो ऽस्मि, इति विचिन्त्य सर्वज्ञस्य सर्ववस्तुतत्त्ववेदिनः नीतिर्नयः उपादेयतत्त्वप्रतिपादनम् / तस्य अनुत्सर्गादपरित्यागात् / तस्य आदानोपादानसेवनादित्यर्थः / बुद्धत्वं नाप्नुयामहम् / काक्वा पठनाद् आप्नुयामेवेति / एतद्भगवता रत्नमेघे दर्शितम् / यथोक्तम्-

इह बोधिसत्त्वो नैवं चित्तमुत्पादयति- दुष्प्राप्या बोधिर्मनुष्यभूतेन सता / इदं च मे वीर्यं परीत्तं च हीनं च / कुसीदो ऽहम् / बोधिश्च आदीप्तशिरश्चैलोपमेन बहून् कल्पान् बहूनि कल्पशतानि बहूनि कल्पसहस्राणि समुदाचरता समुदानेतव्या / तन्नाहमुत्सहे (bcp 121) ईदृशं भारमुद्वोढुम् / किं तर्हि बोधिसत्त्वेनैवं चित्तमुत्पादयितव्यम्- ये ऽपि ते ऽभिसंबुद्धास्तथागता अर्हन्तः सम्यक्संबुद्धाः, ये ऽपि वा अभिसंभोत्स्यन्ते, ते ऽपि ईदृशेनैव नयेन, ईदृश्या प्रतिपदा, ईदृशेनैव वीर्येणाभिसंबुद्धाः, यावन्न च ते तथागतभूता एवाभिसंबुद्धाः / अहमपि तथा तथा घटिष्ये, तथा तथा व्यायंस्ये सर्वसत्त्वसाधारणेन वीर्येण सर्वसत्त्वारम्बणेन वीर्येण यथाहमप्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति //

युक्तमेवैतत्, केवलमतिदुष्करकर्मश्रवणादनध्यवसायो विनिवर्तयितुमशक्य इति विकल्पयन्नाह-

अथापि हस्तपादादि दातव्यमिति मे भयम् /

करचरणशिरः प्रभृतिदानमन्तरेण बुद्धत्वं न प्राप्यते, इति अतिदुष्करकर्मसु प्रवृत्तिभयादुत्साहो निवर्तत एव / इति चेन्मन्यसे स्वचित्तमेवमाह- गुरुलाघवमूढत्वं तन्मे स्यादविचारतः // bca_7.20 // तदेतद् गुरुलाघवमूढत्वमेव मे / अल्पे बहुतरं बहुतरे चाल्पतरमिति मोहवशेन अविचारतो ऽविवेकान्मम स्यात्, न तु परमार्थविचारतः //

परमार्थविचारेण गुरुलाघवविपर्यास एवायमित्युपदर्शयन्नाह-

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः / कल्पकोटीरसंख्येया न च बोधिर्भविष्यति // bca_7.21 //

संसारचारके निवसंस्तथाविधकर्मवशाच्छेत्तव्यश्चास्मि करचरणाद्यङ्गप्रत्यङ्गच्छेदनान्नरकादिषु / तथा भेत्तव्यो ऽस्मि शक्तिकुन्तादिभिः / दाह्यो नरकदहनादिना / पाट्यो ज्वलितक्रकचादिना / अनेकशः अनेकवारान् / नरकादिषु कारणामनुभवन् अपर्यन्तपथि संसारे / कल्पानां कोटीरसंख्येयाः संख्यातुमशक्याः इति / अकामस्यापि दुःखमपर्यन्तमनेकप्रकारमापतिष्यति, न च बुद्धत्वसंभाराय तत् संपत्स्यते //

इदं संसारापर्यन्ततया दुःखं बहुतरं निष्फलं च / बुद्धत्वप्रसाधकं पुनरल्पतरं सफलं चेत्युपदर्शयन्नाह-

इदं तु मे परिमितं दुःखं संबोधिसाधनम् / नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् // bca_7.22 //

यद् बुद्धत्वप्रसाधकं तदिदं दुःखं परिमितं मम प्रतिनियतकालभावितया, दुःख [प्रशमन]हेतुश्च / तत्तथाभूतं शल्यं तेन व्यथा, तस्या अपोहो निवृत्तिः / तन्निमित्तं तद्वयुदासाय / यावज्जीवं तत्कृतदुःखप्रहाणायेत्यर्थः / तस्य नष्टशल्यस्योत्पाटनं शरीरादुद्धरणम् / अपकर्षणमिति यावत् / तेन यद्दुःखं प्रतिनियतकालमल्पतरम् / दीर्घकालिकदुःखोपशमनिमित्तम् / तद्वत् सोढुमुचितमिदमपि दुःखम् //

(bcp 122) अतो ऽपि समुचितमिदमित्याह-

सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् / तस्माद्वहूनि दुःखानि हन्तुं सोढव्यमल्पकम् // bca_7.23 //

सर्वे ऽपि न केचिदेव / लङ्घनपाचनादिकृतैर्यथेष्टाहारविहारप्रतिषेधजनितैश्च क्रियादुःखैः रोगपीडितानामारोग्यं विदधाति / अन्यथा तत्कर्तुमशक्यम् / यत एवम्, तस्मादतिशयेन अल्पमल्पकं दुःखं सोढव्यम् / किमर्थम्? बहूनि दुःखानि हन्तुम् / सर्वसत्त्वानामात्मनश्च दीर्घकालिकसर्वदुःखप्रशमनायेत्यर्थः / एवं तावत् स्वीकर्तुं युक्तं धीमतः //

न चेदं युक्तमपि दुष्करं कर्म आदिकर्मिकस्य प्रथमनुज्ञातं भगवतेति दर्शयन्नाह-

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् /

क्रियामिमां समनन्तरप्रतिपादितां दुःखोत्पादनीम् / उचितामपि सेवनीयामपि / वरवैद्यो भगवान् सर्वथा सर्वाव्यधिचिकित्सकः / प्रथमं न दत्तवान्, न कर्तव्यतया प्रतिपादितवानादिकर्मिकस्य / कथं तर्हि रागादिव्याधीनपनयति? आह- मधुरेणोपचारेण चिकित्सति महातुरान् // bca_7.24 // सुकुमारतरेणोपचारेण उपक्रमेण / यथाक्षमं चिकित्साप्रणयनेनेत्यर्थः / चिकित्सति रोगमुक्तान् करोति / महातुरान् दीर्घरोगिणो रागादिमहाव्याधिग्रस्तान् //

कः पुनरयं मधुरोपचार इत्याह-

आदौ शाकादिदाने ऽपि नियोजयति नायकः / तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत् // bca_7.25 //

मात्सर्यमलापनयनार्थं सुखसुखेन संभारसंवर्धनार्थं च शक्यपरित्यागे शाकसक्तुपिण्डिकादिदानेन प्रथमतरं प्रवर्तयति नायको भगवान् / पुनस्तथोपायविशेषेण नियोजनं करोति / तदिति लोकोक्तौ वा / यद्यथा दाता मृदुदानाभ्यासक्रमेण अधिमात्राधिमात्रदानाभ्यासप्रकर्षमासादयन् पश्चादुत्तरकालमकृच्छ्रेणैव स्वमांसरुधिरादिकमपि प्रसन्न एव प्रयच्छेत् //

कथं पुनरेतदेवमित्याशङ्कयाह-

यदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते / मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् // bca_7.26 //

यस्मिन् काले दानाभ्यासात् परमप्रकर्षगमनात् सर्वथापगतमात्सर्यतया शाकेष्विव स्वमांसे ऽपि निरासङ्गा बुद्धिरुपजायते, तदा स्वमांसादिदाने ऽपि नाशक्यानुष्ठानबुद्धिरिति तस्मिन् काले किं नाम दुष्करम्? नैव किंचिदित्यर्थः //

अथापि स्यात्- अतिदीर्घकालं परार्थे संसरता तद्दुःखं कथमिव परिहर्तुं शक्यमित्यत्राह-

(bcp 123) न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः / मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा // bca_7.27 //

द्विविधमेव हि दुःखं बाधकमुपजायते कायिकं मानसिकं चेति / तदेतद् द्वयमपि बोधिसत्त्वस्य न संभवति / कायवचनमनोभिः सर्वावद्यविरतेः कायिकं दुःखमस्य न जायते / युक्त्यागमाभ्यामुभयनैरात्म्यस्य च निश्चयनान्मानसमपि कुतः? यतो मिथ्याकल्पनया असद्विकल्पेन आत्मात्मीयग्रहप्रवृत्तेन भावाद्यभिनिवेशकृतेन वा चित्ते दुःखम्, पापात् प्राणातिपातादेः काये / एवं तावद्दुःखहेतुपरिहाराद्दुःखमस्य न जायते इति प्रतिपादितम् //

इदानीं सुखमेव केवलमस्यास्तीति प्रतिपादयन्नाह-

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि / तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते // bca_7.28 //

सुखं जातमस्य कायस्येति सुखितः / सुखं विद्यते ऽस्य मनस इति सुखि / एवमुभयसुखसमन्वागतत्वात् कृपावान् परार्थं संसारे संसरन् केन दुःखेन खिद्यते, खेदं मन्यते? यदि वा / केन खिद्यते? खेदहेतोरभावान्न केनचिदिति भावः / तत् किमिदमकारणभीरुतया वैमुख्यमुपादीयते?

स्यादेतत्- दीर्घकालमासेवितभावितबहुलीकृतेन महता पुण्यसंभारेण सम्यक्संबोधिरधिगम्यते / तद्वरं मुमुक्षूणां शीघ्रकालतया श्रावकयानमेवाश्रयणीयं स्यादित्याशङ्कयाह-

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् / बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः // bca_7.29 //

पूर्वकृतानि यानि पापानि तानि बोधिचित्तबलादेव क्षयीणि कुर्वन् / यथोक्तं प्राक्-

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन / इति / [बोधि. 1.14]

तथा बोधिचित्तबलादेव प्रतीच्छन् आददानः पुण्यसागरान् /

यदुक्तम्-

अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः / इति / [बोधि .1.19]

एवंविधोपायबलजवेन महायानमारूढो बोधिसत्त्वः श्रावकेभ्यो ऽपि शीघ्रगः त्वरितगामी //

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः / बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् // bca_7.30 //

प्रतिपादितमेवार्थं पिण्डीकृत्य दर्शयति / एवमुक्तक्रमेण सर्वावद्यविरतेः पुराकृतपापक्षयाच्च स्वप्ने ऽपि दुर्गतिगमनाभावात् तीव्राभिप्रायेण अनेकसुखेन अहर्निशमाकाशधातुव्यापिनः (bcp 124) पुण्यसागरस्याभिवर्धनाच्च सुगतिपरंपरासन्मार्गावतरणबोधिचित्तं रथमिव आसाद्य / आरुह्येति यावत् / सर्वखेदैः परिक्लेशैः श्रम आयासः, तमपहन्तीति प्रतिपादितनयेन, सर्वखेदश्रमं वा अपहन्तीति तम् / सुखादेकस्मादपरमुत्तरोत्तरमधिकाधिकं सुखं देवमनुष्यसंपत्तिलक्षणं गच्छन् अनुप्राप्नुवन् को नाम प्रेक्षावान् विषादमापद्येत?

तदेवमनेकविधविषादनिमित्तप्रतिषेधेन अविषादं प्रतिपाद्य बलव्यूहं प्रतिपादयितुमाह-

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये / छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन् // bca_7.31 //

इदमप्युद्देशवाक्यमेव / छन्द इह कुशलाभिलाषः / स्थाम आरब्धदृढता / रतिः सत्कर्मासक्तिः मुक्तिरसामर्थ्ये तावत्कालमुत्सर्गः / एतच्चतुरङ्गबलम्, अनेकावयवसमुदायात्मकत्वात्, हस्त्यादिबलवत् / सत्त्वार्थसिद्धये वीर्यहेतुत्वात्, अस्य वीर्यस्य च सर्वाभिमतसाधनत्वादिति भावः / तत्र छन्दबलस्य बहुकरत्वात्, छन्दमित्यादिना अस्योत्पत्तिनिमित्तमाह- दुःखभयादिति / अशुभकर्मणो दुःखं जायत इति त्रासाच्छन्दं कुर्यात् / अनुशंसांश्च भावयन् / अनुशंसाः फलद्वारेण गुणविशेषाः / ते च अर्थात् कुशलकर्मण एव / तान् भावयन् / शुभकर्मणो ऽनेकप्रकारेण मधुरफलोत्पत्तिं पुनः पुनः संचिन्तयन्नित्यर्थः //

सांप्रतं बलस्य व्यापारमुपदर्शयितुमाह-

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये / छन्दमानरतित्यागतात्पर्यवशिताबलैः // bca_7.32 //

एवमुक्तप्रबन्धेनेत्यादि / विपक्षमालस्यादि / उन्मूल्य प्रतिपक्षभावना विधिना अपसार्य / वीर्यप्रवर्धनाय यत्नं कुर्यात् / केनोपायेनेत्यादि(ह?)- मानश्चित्तस्योन्नतिः / अयं स्थामबलस्योपबृंहणम्, स्थामबलमेव वा / तेषां बलैः सामर्थ्यैः / सामर्थ्यपर्यायो ऽत्र बलशब्दः //

तत्र तावच्छन्दोत्पादनाय प्रथममाह-

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः / एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः // bca_7.33 //

तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते / अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् // bca_7.34 //

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः / तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा // bca_7.35 //

गुणलेशे ऽपि नाभ्यासो मम जातः कदाचन /

सर्वसत्त्वानामुपकरणतया आत्मनश्च समस्तक्लेशप्रहाणाय निःशेषगुणोत्पादनाय च मया बोधिचित्तमुत्पादितम् / तच्च न शिथिलव्यापारसाध्यमित्यवगम्यापि यदि अनारब्धवीर्यतया (bcp 125) मन्दसमारम्भ एव तिष्ठामि, तदा दुर्गतिविनिपातमन्तरेण नान्या गतिरस्ति ममेति विचिन्त्य संवेगमामुखीकुर्वन् छन्दमुत्पादयेदिति समुदायार्थः //

अवयवार्थस्तु उच्यते- अप्रमेयाः प्रमातुमशक्याः / दोषाः कायवाक्चित्तसमाश्रिताः / हन्तव्याः प्रहन्तव्याः / स्वपरात्मनोः स्वात्मनः परात्मनश्च / एकैकस्यापीति / आस्तां तावद्वहूनाम् / यत्र येषु / मन्दवीर्येण कल्पार्णवैः अनेकैः कल्पशतसहस्रैः क्षयः प्रहाणं क्रियते / तत्र तेषु दोषक्षयारम्भे दोषप्रहाणोत्साहे / लेशो ऽपि स्वल्पमात्रमपि मम नेक्ष्यते न दृश्यते / अतः अप्रमेयव्यथाभाज्ये अपरिमितदुःखभाजनस्य मम नोरः स्फुटति हृदयं विदीर्यते / कथं केन प्रकारेण / गुणा मयेत्यादि सुबोधम् / इति विचिन्त्य संवेगमुपदर्शयति- वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् // bca_7.36 // वृथा विफलमेव मया जन्म अक्षणविनिर्मुक्तं नीतं प्रेरितम् / वृथीकृतमिति यावत् / कथंचिल्लब्धं महार्णवयुगच्छिद्रकूर्मग्रीवार्पणवत् सुचिरेण प्राप्तम् / अत एव आश्चर्यस्थानत्वादद्भुतम् //

इतो ऽपि विफलमित्याह-

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया / न कृता शासने कारा दरिद्राशा न पूरिता // bca_7.37 //

भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः / दुःखाय केवलं मातुर्गतो ऽस्मि गर्भशल्यताम् // bca_7.38 //

तथागतानां सत्क्रियाभिर्महोत्सवमतिशयवदभिनन्दनम् / तेन सुखं सौमनस्यं न प्राप्तं नाधिगतं मया / नापि शासने प्रतिमास्तूपसद्धर्मादिसत्कारैः विहारारामशयनादिवस्तुप्रदानैश्च कारा पूजा कृता / नापि दरिद्राणां धनहीनानामाशा अभिलाषः सर्वोपकरणसंपत्तिसंपादनेन पूरिता / नापि भीतेभ्यः सपत्नादिभयसमाकुलितेभ्यो मा भैषीरित्यभयं दत्तम् / नापि कायमनोदुःखैरार्ताः पीडिताः तदपनीय सुखिनः कृताः / इति सर्वैः सत्पुरुषधर्मैर्विरहितत्वादाह / दुःखायेत्यादि सुबोधम् //

कथं पुनरेतां धर्मदशां प्राप्तो भवानित्याह-

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना / विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् // bca_7.39 //

धर्माभिलाषस्याभावेन प्राक्तनजन्मोपचितेन मम अधुना अस्मिन् जन्मनि विपत्तिरीदृशी जाता / सर्वसामर्थ्यवैकल्यस्वभावा समनन्तरकथिता समुत्पन्ना / एवं ज्ञात्वा को धर्मे छन्दमुत्सृजेत् परित्यजेत्? को नाम नोपाददीत विचक्षण इति भावः //

किं पुनः कुशलार्थिनां छन्दोत्पादने यत्न इत्याशङ्कय यच्चोक्तं छन्दं दुःखभयात् कुर्यात् इत्यादि, तद्वयक्तीकर्तुं चाह-

(bcp 126) कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ / तस्यापि मूलं सततं विपाकफलभावना // bca_7.40 //

न केवलं विपत्तिपरिहारार्थम्, शुक्लधर्मोपचयार्थमपि च्छन्दोत्पादने यतितव्यमिति चकारार्थः / सर्वेषामिति न केषांचिदेव / छन्दं मूलं कारणं भगवानुक्तवान्, न तु स्वयमुत्प्रेक्ष्य उच्यते इत्यर्थः / तस्यापि च्छन्दस्यापि मूलं सततं सर्वकालं विपाकफलभावना / शुभाशुभकर्मणो विपाकफलं परलोके इष्टानिष्टप्राप्तिलक्षणम्, तस्य भावना पुनःपुनरामुखीकरणम् //

तत्र अशुभकर्मणो विपाकफलमुपदर्शयन्नाह-

दुःखानि दौर्मनस्यानि भयानि विविधानि च / अभिलाषविघाताश्च जायन्ते पापकारिणाम् // bca_7.41 //

यावन्ति कायिकमानसिकानि नरकादिगतौ दुःखानि विविधानि नानाप्रकाराणि जायन्ते भवन्ति सर्वाणि पापकारिणामेव / भयानि बधबन्धनताडनादिभ्यः / पर्येषमाणस्य लाभविघातेन अभिलाषविघाताश्च //

सुकृतकर्मणो विपाकफलमाह-

मनोरथः शुभकृतां यत्र यत्रैव गच्छति / तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते // bca_7.42 //

इष्टाशंसनविकल्पो मनोरथः, यस्य लोके मनोराज्यमिति प्रसिद्धिः शुभकृतां पुण्यकारिणाम् / यत्र यत्रैवेति वीप्सायां न क्वचिदेव / गच्छति प्रसरति / फलार्घेणेति / अभिवाञ्छितफलोपनामनमेव अर्घ इवार्घः पूजा //

तेन पुनरशुभस्य फलमाह-

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति / तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते // bca_7.43 //

सुखेच्छा सुखाभिलाषः / तत्पापैरिति कर्तरि तृतीया / दुःखशस्त्रैरिति करणैः / दुःखान्येव शस्त्राणीव तदिच्छाविच्छेदहेतुत्वात् //

पृथग्जनासाधारणशुभकर्मविपाकफलमसाधारणमाह-

विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः / मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः // bca_7.44 //

प्रतिलब्धमुदितादिभूमयो हि बोधिसत्त्वा अनिच्छन्तो मातृकुक्षौ नोत्पद्यन्ते, किं तर्हि सुखावत्यां विश्वदलकमलकोशेषु जायन्ते / तेषां सुखविभूतिमनेन कथयति- विपुलानि (bcp 127) विस्तीर्णानि सुगन्धीनि मनोज्ञगन्धानि शीतलानि शीतसुखस्पर्शानि तानि च सरोरुहाणि पङ्कजानि चेति, तेषां गर्भाणि / सरोरुहगर्भाणां वा विशेषणान्येतानि / तेषु गताः संस्थिताः प्रज्ञोपायमहाकरुणानिर्यातपुण्यज्ञानकललसंवलितसंबोधिचित्ताः सुगतसुता भवन्ति कुशलैरिति संबन्धः / कथं पुनः पद्मगर्भेषु पुष्टिं लभन्त इत्याह- मधुरेत्यादि / मधुरैः सर्वस्वराङ्गोपेततया परमसौमनस्यकारिभिः संबद्धधर्मघोषाशनैराहारैः कृता उपचिता द्युतयो वपूंषि येषां ते तथा / कथं च ततो निर्यान्तीत्यत आह- मुनिकरेत्यादि / मुनिकरैः परिपाककालमवगम्य तथागतरश्मिभिर्बोधितानि विकासितानि च तान्यम्बुजानि चेति / ततो विनिर्गतानि निर्यातानि सन्ति लक्षणव्यञ्जनालंकृततया शोभनानि वपूंषि येषां ते तथा / तथाभूताः सन्तः सुगतसुता बोधिसत्त्वा भवन्ति जायन्ते / सुगतस्य पुरः सुखावत्याममिताभस्य भगवतो ऽग्रतः / कुशलैरेकान्तशुक्लैः कर्मभिः / तदनेन मातृकुक्षौ समुत्पद्यमानानामेतद्विशेषणविपर्ययेण दुःखं वेदितव्यमित्युपदर्शितं भवति / तथा हि तत्र संकटे दुर्गन्धिनि जठरानलसंतप्ते च उत्पन्नस्य मातापित्रशुचिसंभूतस्य मातुः पीताशितैर्वान्तकल्पैः संवर्धमानस्य गर्भमलपङ्कनिमग्नस्य परिपाककाले कथंचित् कण्ठगतप्राणस्य यन्त्रनिष्पीडितस्येव ततो निर्गमनमिति प्रायेण मनुष्यभूतस्य व्यतिमिश्रकर्मविपाकफलमुक्तम् //

एकान्तकृष्णस्य तु विपाकफलमाह-

यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः / ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः // bca_7.45 //

यमपुरुषैः कालदूतैरपनीता विश्लेषिता ज्वलितमुद्गरादिप्रहारैः सकला समस्ता छविश्चर्म प्रभावो वा यस्य स तथा / अतिशयेनार्तः सन् पतति सुतप्तलोहधरणीषु / पुनरपि किंभूतः? तीव्रानलतापेन द्रवीभूतं यत्ताम्रं तेन निषिक्ता स्नापिता तनुः कायो यस्य / अतो ऽप्यपनीतसकलच्छविः / ज्वलन्तः असयः शक्तयश्च शस्त्रविशेषाः, तेषां घातशतैरनेकैः प्रहारैः शातितानि विच्छेदितानि मांसदलानि शकलानि यस्य स तथाभूतः सन् पतति / सुष्ठु तप्तासु लोहमयभूमिषु / अशुभैरकुशलैः कर्मभिः / बहुश इति बहून् वारान् / दीर्घकालेन तत्फलस्य परिक्षयात् //

तदेवं शुभाशुभकर्मणोर्विपाकफलं प्रतिपाद्य च्छन्दबलमुपसंहरन्नाह-

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् /

यत एवं शुभाशुभकर्मणोर्मधुरकटुकफलविपाकः, तस्मादेवं परिभाव्य शुभच्छन्द एव आदरेणाशुभकर्म विहाय कार्यः / सांप्रतं स्थामबलं प्रतिपादयितुमाह- वज्रध्वजस्थविधिना मानं त्वारभ्य भावयेत् // bca_7.46 // (bcp 128) वज्रध्वजसूत्रप्रतिपादितविधानेन मानं पुनः साध्यं कर्मारभ्य भावयेत् / अथवा / आरभ्य भावयेदिति गाढसमारम्भेण भावयेत्, चेतसि स्थिरं कुर्यात्, न शिथिलोपक्रमेणेत्यर्थः //

आरम्भमेव शिक्षयितुमाह-

पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा /

पूर्वं प्रथमत एव अभिमतकार्यनिष्पादनाय सामग्रीं कारणसाकल्यं निरूप्य, तस्या बलाबलं विचार्य, आरभेत सति बले, नारभेत वा असति बले / किमेवंविचारेण प्रयोजनमिति चेदाह- अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् // bca_7.47 // अनारम्भो वरं नाम प्रथमत एव, न त्वारभ्य निवर्तनमशक्तत्वे सति //

ननु किमत्र दूषणं येनैव नेष्यते इत्याह-

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते / अन्यच्च कार्यकालं च हीनं तच्च न साधितम् // bca_7.48 //

तथा क्रियमाणः अन्यस्मिन्नपि जन्मनि सो ऽभ्यास इत्यारभ्य निवर्तनं नाम / प्रतिज्ञातमकुर्वतश्च पापं ततो दुःखं वर्धते / अन्यच्च हीनं नष्टं यत्परित्यज्य तदारब्धम्, कार्यकालं च हीनम् / आरब्धपरित्यक्तकार्यस्य कालो ऽस्य कार्यस्येति / तस्मिन् काले यदन्यत् कार्यं कर्तव्यं तदित्यर्थः / तच्च यदारभ्य परित्यक्तम्, तदपि न साधितं न निष्पादितम् / इति पञ्चप्रकारमत्र दूषणम् / तेन नेष्यत इत्यभिप्रायः //

अथ किमयं मानः सर्वत्र न कर्तव्यः? नेत्याह-

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु /

केषु त्रिषु? तदाह- कर्मसु उपक्लेशेषु शक्तौ च / तत्र उपक्लेशाः क्षुद्रवस्तुकसंज्ञिताः क्रोधोपनाहम्रक्षप्रदाशादयः सप्त / पञ्चाशत् क्लेशा एव वा रागादय उपक्लेशा उच्यन्ते / तत्र कर्ममानं व्याख्यातुमाह- मयैवैकेन कर्तव्यमित्येषा कर्ममानिता // bca_7.49 // यत्किंचिदनवद्यं कर्म आपतितं भवति सत्त्वानाम्, तत् सर्वं मयैवैकेन कर्तव्यम् / नान्यस्यावकाशो दातव्य इत्यर्थः //

एतदेव दर्शयन्नाह-

क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने / तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः // bca_7.50 //

क्लेशैः परायत्तीकृतः सर्वो ऽयं जनकायः क्वचिदपि स्वार्थसाधने समर्थो न भवति, इति एषां सर्वसुखोत्पादनाय मया बोधिचित्तमुत्पादितम् / यत एवम्, तस्मान्नाशक्तो ऽहमीदृशं भारमुद्बोढुं यथा अयं जनः / अतो मयैवैषां सर्वं कर्तव्यम् //

(bcp 129) दीने ऽपि कर्मणि वैमुख्यं नोत्पादयितव्यमित्याह-

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति /

नीचमतिगर्हितं लोके भारोद्वहनादिकम् / मय्यपि सर्वसत्त्वानां दासभूते ऽपि तिष्टति विद्यमाने ऽपि / मत्करणीयं कथमन्यः करोति? मयैव कर्तुमुचितमिति भावः / अथाप्रतिरूपम्, ममैव तत् कर्मेति चित्तस्योन्नतिं निवारयितुमाह- मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम् // bca_7.51 // को ऽमुष्यपुत्रः, इदं च कर्म अतिनिहीनम्, तदयुक्तं मम कर्तुमिति मानाद्यदि न करोमि, तदा मानो नश्यतु मे वरम् / किमनेन महार्थभ्रंशकारिणा मम, न तु नीचकर्मप्रवृत्तिः //

इति कर्मसु मानमभिधाय उपक्लेशेषु मानमुपदर्शयितुमाह-

मृतं दुण्डुभमासाद्य काको ऽपि गरुडायते / आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम् // bca_7.52 //

यदि उपक्लेशेषु निहतमानतया दुर्बलवृत्ति मम चित्तं स्यात्, तदा आपदापत्तिः आबाधते आक्रामति यथा सापत्तिकं स्यादित्यर्थः / अल्पापि मृदुप्रचारोपक्लेशजनितापि / कथमिवेत्याह- मृतमपगतप्राणं दुण्डुभं प्राप्य यथा काको ऽपि गरुडवदाचरति //

कुतः पुनरेवमित्याह-

विषादकृतनिश्चेष्टे आपदः सुकरा ननु / व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः // bca_7.53 //

चित्तोन्नतिविरहिते विषण्णतया मन्दकायचित्तप्रवृत्तौ आलस्योपहते मुषितस्मृतौ आपदः सुकराः सुलभाः / उत्पद्यन्त एव स्वल्पापदापि गम्यत्वात् / व्युत्थितः समुन्नतचित्ततया पुनरुत्साहसंपन्नः चेष्टमानः स्मृतिसंप्रजन्याभ्यामुपक्लेशानामनवकाशं ददानः महतामपि दुर्जयः अजय्यः स्यात् //

तस्माद्दृढेन चित्तेन करोम्यापदमापदः / त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे // bca_7.54 //

स्थामबलावलम्बनं निगमयन् दर्शयति- यत एवं तस्मात् दृढेन चित्तेन मानसंनाहः / आपद एव आपदमनर्थं करोमि सर्वथा तदनुप्रवेशं निवारयन्नुन्मूलितसंतानं करोमि / अन्यथा त्रिजगद्विजयारम्भो मम हास्यमुपहसनीयम्, आपदा आपदायत्ततया वराकिकया जितस्य गमिष्यति //

कीदृशमेतदित्याह-

मया हि सर्वं जेतव्यमहं जेयो न केनचित् / मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् // bca_7.55 //

(bcp 130) कुतः? यस्माज्जिना एव भगवन्तः सिंहाः सर्वमारमृगैरनभिगम्यत्वात् / तेषां सुतः अहमपि कथमन्यैः पराजितो नाम नामधेयं लप्स्ये इति मनसि निधाय मयैष मानो बोढव्यः / यथा हि सिंहकिशोरः प्रतिलब्धवैशारद्यः सर्वान्यमृगैरनभिभूत एव वने विचरति, तथा मया दृढेन भवितव्यमित्यर्थः //

स्यादेतत्- यदि यवम्, तदा ये ऽपि सपत्नादिविजयाय मानमुद्वहन्ति, ते ऽपि मानिनः प्रशस्याः कथं न भवेयुः? इत्यत्राह-

ये सत्त्वा मानविजिता वरकास्ते न मानिनः / मानी शत्रुवशं नैति मानशत्रुवशाश्च ते // bca_7.56 //

मानविजिताः मानेन अभिभूताः वराकास्तपस्विनः ते मानिनो भवन्त्येव / कुतः? मानी शत्रुवशं नैति न गच्छति / नासौ वैरिजनानुवृत्तिं करोतीत्यर्थः / ये भवताभिमता मानिनः, ते मानशत्रुवशाः तदायत्तप्रवृत्तयः //

एतदेव श्लोकद्वयेन समर्थयितुमाह-

मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः / परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशा // bca_7.57 //

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः / ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः // bca_7.58 //

सप्तविधमानेषु अन्यतमेन मानेन दुर्गतिं नीता नरकादिषु पातिताः / अथ कथंचिन्मनुष्यप्रतिलम्भो भवति तेषाम्, तदा तत्रापि तन्निन्दाफलेन हतोत्सवा निरानन्दा भवन्ति / हीनदीनमनस इत्यर्थः / परपिण्डाशिनः आहारवैकल्यात् परदत्तभिक्षाहारभुजः / दासाः परतन्त्रवृत्तयो भृत्याः / मूर्खाः सर्वविकेकशून्याः / दुर्दर्शनाः विरूपात्मभावा अप्रीतिजनकाश्च / कृशाः दुर्बलशरीराः सामर्थ्यरहिताश्च / सर्वतः सर्वेभ्यो ऽकृतापराधा अपि कायवचःपरिभवलाभिनो भवन्ति / के पुनरेवम्? मानस्तब्धास्तपस्विनः मानेन स्तब्धाः अनम्राः / तपस्विनो वराकाः / ते ऽपि चेत्, एवंभूता अपि यदि मानिनां मध्ये गण्यन्ते, तर्हि दीनाः कृपणाः कृपापात्रमित्यर्थः / पुनरन्ये दीनाः कीदृशा भवन्तीति वद ब्रूहि [इति] चोदकमामन्त्रयते //

यदि एवंविधा मानिनो नोच्यन्ते, कीदृशास्तर्हि ते भवन्तीत्याह-

ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् / ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति // bca_7.59 //

(bcp 131) त एव मानिन उच्यन्ते ये बोधिसत्त्वाः तं स्फुरन्तमपि प्रभवन्तमपि मानवैरिणं निहत्य विधूय / कामं यथेष्टम् / उद्दामेति यावत् / जने लोके सदेवकादिके जयफलं प्रकाशयन्ति बुद्धत्वावस्थायाम् / एतादृशं तन्मानशत्रुविजयफलं यादृशमस्मासु दृश्यते इत्यभिप्रायः / त एव विजयिनश्च लब्धविजयाः / त एव शूरास्तेजस्विन इति पदद्वयं यथासंभवं योज्यम् //

उपक्लेशेषु मानं प्रतिपाद्य शक्तौ मानमाह-

संक्लेशपक्षमध्यस्थो भवेद्दुप्तः सहस्रशः /

संक्लेशानां पक्षो वर्गः, तस्य मध्ये तिष्ठन् सहस्रगुणेन दृप्ततरो भवेत्, अतिशयवच्छौर्यबलमवलम्बेत / किंभूतः सन्नित्याह- दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव // bca_7.60 // दुःखेन योध्यत इति दुर्योधनः / कथंचिदपि न पराजीयते इत्यर्थः / कथमिव? यथा हि सिंहो मृगराजः मृगकुलमध्ये महातेजोबलसमन्वागतो विहरन् वने सर्वमृगानभिभवति, न च तैरभिभूयत इति, एवं बोधिसत्त्वो दुर्योधनो भवेत् //

इदमपरमपि निमित्तमुद्गहीतव्यमित्याह-

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते / एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् // bca_7.61 //

अतिप्रकर्षवत्सु अपि कृच्छ्रेषु दुःखेषु सत्सु रसं मधुरादिकं जिह्वेन्द्रियग्राह्यं न चक्षुरीक्षते न प्रतिपद्यते / न विषयीकरोतीत्यर्थः / तस्याविषयत्वात् / नाविषये प्रवर्तत इति भावः / एवमुक्तरसचक्षुर्न्यायेन कष्टमपि प्राप्य न क्लेशवशं गच्छेत् //

इत्युक्तेन प्रबन्धेन स्थामबलं विधाय रतिबलमावेदयितुमाह-

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् / तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् // bca_7.62 //

कर्म संभारनिबन्धनं ध्यानाध्ययनादिलक्षणं यदेवापद्यते, क्रमकरणयोगेनापतितं भवेत्, तस्मिन्नेव कर्मणि व्यसनी भवेत् तत्क्रियारसनिमग्नचित्तः / तत्कर्मशौण्डः तत्प्रवृत्तिलम्पटः / अतृप्तात्मा पुनःपुनरभिलाषयुक्तः / क इव? क्रीडाफलसुखेप्सुवत् द्यूतादिक्रीडाया यत्फलं सुखं तदाप्तुमिच्छुरिव //

इतो ऽपि विचारयता कर्मणि रतिरुत्पादयितव्येत्युपदर्शयन्नाह-

सुखार्थ क्रियते कर्म तथापि स्यान्न वा सुखम् / कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् // bca_7.63 //

सर्वैरेव कर्मफलसुखलिप्सया कर्म क्रियते / अन्यथा तत्र प्रवृत्तिर्न स्यात् / तथापि एवं चेतसा प्रवृत्तावपि कस्यचित् कर्मणो ऽभिवाञ्छितफलं स्यात्, कस्यचित् पुनर्न स्यात् / निष्फलारम्भस्यापि संभवात् / तथापि कर्मारम्भात् पुनः फलसंभावनया नैव निवर्तते (bcp 132) जनः / यस्य पुनः कर्मैव सुखम्, न तदुत्तरमपरसुखाभिलाषः, स निष्कर्मा कर्मविरहितः कथं सुखी स्यात्? न कथंचिदित्यर्थः //

इदमपि भावयता कर्मण्यभिनिवेष्टव्यमित्याह-

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः / पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः // bca_7.64 //

रूपादिविषयैः / संसार इति संसरति पुनः पुनः / अभूतैरतृप्तिः अनाप्यायनम् / किंभूतैः? क्षुरधारामधूपमैः क्षुरधारायां यन्मधु मधुरसं यदास्वाद्य तृष्णावशाज्जिह्वोच्छेदनोत्तरकालं दुःखमुपजायते, तेनोपमा उपमानं यादृशं येषां ते / आपातमात्रमाधुर्ये ऽपि परिणतिदुःखेन कटुकरसत्त्वात्तेषामित्यभिप्रायः / पुण्यान्येव अमृतानीव, तैः कथं तृप्तिरस्तु? किंविशिष्टैः? विपाकमधुरैरभ्युदयफलसुखहेतुतया परिणामेन मधुररसत्वात् / परमसुखजनकैः शिवैः कल्याणकारिभिर्निःश्रेयसावाहकतया / अजरामरफलदानपरत्वात् सर्वदुःखनिर्वर्तकैरित्यर्थः / अत एव पुण्यामृतैरित्यत्र हेतुपदमेतत् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.