Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/10

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

बोधिचर्यावतारपञ्जिका

Tác giả
प्रज्ञाकरमति
Thông tin
GRETIL — P.L. Vaidya: Bodhicaryāvatāra of Śāntideva with the Commentary Pañjika of Prajñākaramati. Darbhanga : Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम् / यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम् // bca_2.53 //

यस्य दर्शनमात्रेण यमदूतादयः / आदिशब्दादन्ये ऽपि यक्षराक्षसादयो दुष्टा भीताः सन्तः पलायन्ते, दूरमपगच्छन्ति / तं नमस्यामि नमस्करोमि / वज्रिणमिति वज्रमस्यास्तीति वज्रपाणिं बोधिसत्त्वम् / तदनेन शरणगमनादिना पापक्षयार्थमाश्रयबलमुपदर्शितम् / यदुक्तं चतुर्धर्मकसूत्रे-

(bcp 34) तत्राश्रयबलं बुद्धधर्मसंघशरणगमनमनुत्सृष्टबोधिचित्तता च / स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम् / इति //

पुनरन्यथात्वशंकां निराकर्तुमाह-

अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात् / शरणं यामि वो भीतो भयं नाशयत द्रुतम् // bca_2.54 //

अतिक्रम्य युष्मदाज्ञाम् / सांप्रतमिदानीम् / भयदर्शनात्, तदतिक्रमे यस्मादनिष्टफलसंभवदर्शनात्, वो युष्मान् शरणं यामि भीतः अनिष्टफलादुत्त्रस्तः / तस्मात्पुनरन्यथाशङ्का न कर्तव्या / अतो भयं नाशवत, पूर्वकृतपापाद् भयमपनयत / द्रुतं शीघ्रम् / ममेत्यध्याहार्यम् //

ननु एवमपि कः प्रत्येष्यति / त्वद्वचनादित्याशङ्कय पुनरत्रार्थे दृढतामाह-

इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् / किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः // bca_2.55 //

इत्वरो गत्वरो नश्वरो ऽचिरस्थायीत्यर्थः / लघुर्वा / स चासौ व्याधिश्चेति, तस्माद् भयेन / वैद्यवाक्यं न लङ्घयेत् वैद्योपदेशं नातिक्रमेत् / मा अयं व्याधिर्मम वृद्धिमुपगच्छेत् / किमु किं पुनः / व्याधिशतैर्ग्रस्तो लङ्घयेत् / चतुर्भिश्चतुरुत्तरैरिति चतुरधिकैश्चतुर्भिः शतैरित्यर्थः / शतमकालमृत्यूनाम्, एकं कालमरणमित्येकोत्तरं शतं मृत्यूनाम् / ते च प्रत्येकं वातपित्तश्लेष्मकृताः तत्संनिपातकृताश्चेति चतुरुत्तराणि चत्वारि शतानि भवन्ति / इति कारणभेदात्कार्यभेदः, कार्यभेदाच्च कारणभेदव्यवस्था //

ननु तथापि किमत्र भयकारणं यन्नास्तीत्याह-

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः / नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते // bca_2.56 //

एकेनापि व्याधिना कुपितेन यस्मात्सर्वे जम्बुद्वीपगता नराः प्राणिनो नश्यन्ति म्रियन्ते / अन्यच्च / येषां व्याधीनां भैषज्यं औषधं चिकित्सार्थं क्वचिदपि न प्राप्यते / अत्र काशिराजपद्मकजातकमुपनेयम् / तद्यथानुश्रूयते- बोधिचर्यां चरन्नयमेव भगवानतीते ऽध्वनि पद्मो नाम काशिराजो बभूव / तस्मिन् समये सर्वे जम्बुद्वीपका मनुष्या महता रोगेण विकलीभूता म्रियन्ते च / तैरिदमालोचितम्- अयमेव अस्माकं स्वामी राजा परमकारुणिकः प्रतीकारं विधास्यतीति अस्यैव आत्मदुःखं निवेदयामः / ते च एवमवधार्य मिलित्वा, भो महाराज, भवति स्वामिनि परमहितैषिणि संविद्यमाने ऽपि इयमस्माकमवस्था, इति तस्मिन् राजनि दुःखमाविष्कृतवन्तः / स च राजा करुणापरवशहृदयः तेषां दुःखमसहमानः शीघ्रममीषां रोगपीडामपनयत इति वैद्यानाज्ञापयामास / ते ऽपि तथेति प्रतिश्रुत्य (bcp 35) चिकित्साशास्त्राणि व्यवलोक्य सद्योरोहितमत्स्यमांसादन्यद् भैषज्यमलभमानाः तथैव राज्ञः प्रत्युक्तवन्तः / इति विस्तरः / इदमेव जातकं भवोपलक्षणं दर्शितम् //

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः / वाक्यमुल्लङ्घयामीति धिङ् मामत्यन्तमोहितम् // bca_2.57 //

कायिकमानसिकानेकशल्योद्धारिणः / आत्मानं जुगुप्सते / धिङ् मामत्यन्तमोहितमिति / एवं जानन्नपि यदि तथागताज्ञाया वैमुख्यमासेवे, तदा मम मोहस्य पर्यन्तो नास्ति / कुत्सनीयो ऽस्मीत्यर्थः //

किं पुनरेवमित्याह-

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि / किमु योजनसाहस्रे प्रपाते दीर्घकालिके // bca_2.58 //

पर्वतादिप्रपातेषु अल्पतरेषु यत्रास्थिभङ्गमात्रं मरणमात्रं वा दुःखं स्यात् / किमु योजनसाहस्र इति / योजनसहस्रं परिमाणमस्य इत्यण् / अनेकयोजनसहस्रपरिमाणे अवीच्यादिकप्रपाते इत्यर्थः / दीर्घकालिक इति / यत्रान्तरकल्पादिभिरायुषः क्षयः //

सद्यो मरणमदृष्ट्वैव किमकाण्डे कातरतया सुखासिकां जहासीत्याह-

अद्यैव मरणं नैति न युक्ता मे सुखासिका / अवश्यमेति सा वेला न भविष्याम्यहं यदा // bca_2.59 //

अवश्यमिति निश्चितमेतत् //

तथापि भयमयुक्तमित्याह-

अभयं केन मे दत्तं निःसरिष्यामि वा कथम् / अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः // bca_2.60 //

अभयं मा भैरिति केन सत्पुरुषेण मम दत्तं येन निर्भयो विहरिष्यामीति भावः / यदि वा निःसरणोपायो ऽपि यदि भवेत्, तथापि भयमयुक्तम् / तदपि नास्ति / निःसरिष्यामि वा कथं ततो दुःखात् / अवश्यं न भविष्यामीति / सर्वजीवितं मरणपर्यवसानमित्युक्तं भगवता //

इत्थमपि न युक्ता मे सुखासिकेत्याह- पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम् / येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः // bca_2.61 //

अभिनिविष्टेनेति आसक्तेन / गुरूणामिति बुद्धबोधिसत्त्वकल्याणमित्राणाम् //

तस्मादिदमहर्निशं मम मनसि कर्तुमुचितमित्याह-

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा / एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः // bca_2.62 //

(bcp 36) जीवलोकं सत्त्वलोकम्, इमं मनुष्यादिअसभागतालक्षणम् / एकाकीत्यसहायः / क्वापीत्यनिश्चितस्थानम् //

इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा / अशुभान्नियतं दुःखं निःसरेयं ततः कथम् // bca_2.63 //

अशुभादिति अकुशलात् कर्मणः / तत इत्यशुभात् //

सांप्रतं कृतकर्मफलसंबन्धनिश्चयो महताभिनिवेशेन पुनरत्ययदेशनामारभत इत्याह-

मया बालेन मूढेन यत्किंचित्पापमाचितम् / प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च // bca_2.64 //

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः / कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः // bca_2.65 //

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः /

बालेनेति अजानता / मूढेनेति मोहान्धेन / यत्किंचिदिति कायेन वाचा मनसा वा / प्रकृतिसावद्यं प्राणातिपातादिदशाकुशलस्वभावम् / प्रज्ञप्तिसावद्यं यद् भगवता गृहीतसंवराणामेव प्रज्ञप्तमकालभोजनादिरूपम् / देशयामीति वाग्विज्ञप्तिमुत्थापयति / कृताञ्जलिरिति कायविज्ञप्तिः / प्रणिपत्य पुनःपुनरिति अतिशयवच्चित्तसंवेगमुपदर्शयति / अति यतत्यनेन नरकादिषु इति अत्ययः, अशुभं कर्म / तमत्ययत्वेन दोषत्वेन प्रतिगृह्णन्तु जानन्तु पश्यन्तु विदन्तु व्यक्तीकृतं मया / अनावरणचित्तेन, प्रच्छादना अत्र ममास्तीति भावः //

पुनः स्खलितशङ्कामपाकर्तुं पुनरकरणसंवरं कुर्वन्नाह- न भद्रकमित्यादि / न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया // bca_2.66 // यदार्यकान्तं विज्ञप्रशस्तं न भवति तदभद्रकं गर्हितम् अनार्यं कर्मेत्युच्यते / तदद्यप्रभृति जानता पश्यता बुद्धिपूर्वकं संचिन्त्य पुनर्मया न कर्तव्यम् / आयत्यां पुनरकरणसंवरमापत्स्ये इत्यर्थः / एतच्च त्रिस्कन्धप्रवर्तनप्रस्तावे [बोधे, 5.98-99] व्यक्तीकरिष्यते //

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां पापदेशना नाम द्वितीयः परिच्छेदः //

3. बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः /

अधुना पापदेशनानन्तरं पुण्यानुमोदनामाह-

अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम् / अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः // bca_3.1 //

नरकादिगतौ दुःखमनुभवन्तो हि परिश्रान्ताः सुकृतविपाकमधिगम्य प्रतिलब्धसुखा विश्राम्यन्ति कियत्कालम् / अनुमोदे प्रसादेन इति संप्रहर्षयामि प्रसन्नचित्तः / अनुमोदनापि त्रिविधामनसा कायेन वाचा च / तत्र प्रसन्नचित्तः संप्रहर्षयति मनसा, कायेन रोमहर्षश्रुपातगात्रकम्पादिकमनुभवन्, वाचा च संप्रहृष्टचेतनः तथाविधामेव वाचमुच्चारयन्, साधु कृतं भद्रकं कृतमिति / सुखं तिष्ठन्तु दुःखिता इति यदर्थं तैस्तत्कर्म कृतम्, तदपि तेषां समृध्यतु इति भावः //

लौकिकं कर्मानुमोद्य लोकोत्तरमनुमोदमानः प्राह-

संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम् / बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् // bca_3.2 //

दुःखनिर्मोक्षमिति श्रावकबोधिः प्रत्येकबुद्धबोधिर्वा / चित्तं वा तदर्थमुत्पादितं तथोच्यते / तदा बोधित्रयमपि तद्गाहः / शरीरिणामिति प्राणिनाम् / बोधिसत्त्वत्वबुद्धत्वमिति बोधिसत्त्वत्वं भगवतां हेत्ववस्थाम्, बुद्धत्वं फलावस्थामिति / तायिनामिति स्वाधिगतमार्गदेशकानाम् / यदुक्तम्- तायः स्वदृष्टमार्गोक्तिः इति / तद्विद्यते येषामिति / अथवा- तायः संतानार्थः आसंसारमप्रतिष्ठितनिर्वाणतयावस्थायिनाम् //

बोधिसत्त्वानां पुण्यानुमोदनां कुर्वन्नाह-

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् / सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् // bca_3.3 //

चित्तोत्पादाः प्रतिक्षणभाविनो ऽपर्यन्तागाधतया समुद्रा इव समुद्राः तान् / किंभूतान्? सर्वसत्त्वसुखावहान् सर्वसत्त्वानां सुखमावहन्तीति तद्रसैकनिम्नस्वभावानित्यर्थः / सर्वसत्त्वहिताधानानिति हितविधायकान् / शासिनामिति शासनं शासः बुद्धत्वोपायाभ्यासः, तदर्थत्वादुपचारात् / तद्विद्यते येषामिति शासिनो बोधिसत्त्वाः / तदुक्तम्-

उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् / इति //

अथवा- शासितुं शीलं येषामिति शासिनः / बोधिसत्त्वा हि दानादिभिः संग्रहवस्तुभिः सत्त्वान् संगृह्य सन्मार्गे ऽवतारयन्ति //

एतावता अनुमोदना कथिता / अध्येषणां कथयन्नाह-

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः / धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् // bca_3.4 //

(bcp 38) धर्मप्रदीपं कुर्वन्त्विति अज्ञानतमोवृतानां सत्त्वानां मार्गामार्गविशेषपरिज्ञानविकलानां धर्मदेशनात्मकमालोकं कुर्वन्तु //

एतावता अध्येषणा कथिता / याचनामुपदर्शयन्नाह-

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः / कल्पाननन्तांस्तिष्ठन्तु मा भुदन्धमिदं जगत् // bca_3.5 //

कृतकृत्यतया परिनिर्वाणं गन्तुमनसः / अपर्यन्तकल्पान् स्थितये याचयामि / मा भूदन्धमिति पूर्ववन्मार्गाज्ञाननिश्चेतनं मा भूत् / अनेनापि याचना प्रोक्ता //

याचनानान्तरमिदानीं परिणामनामाह-

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम् / तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् // bca_3.6 //

एवमुक्तक्रमेण सर्वमिदं पूजापापदेशनापुण्यानुमोदनादि कृत्वा विधाय यन्मया आसादितं प्राप्तं शुभं सुकृतं तेन शुभेन स्यां भवेयं सर्वसत्त्वानां समस्तप्राणभृतां सर्वदुःखप्रशान्तिकृदिति निःशेषव्यसनप्रशमनसमर्थो भवेयम् //

इति सामान्येन परिणमय्य पुनर्विशेषेणाह-

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च / तदुपस्थायकश्चैव यावद्रोगापुनर्भवः // bca_3.7 //

तेनेति सर्वत्र यथायोगं संबन्धनीयम् / ग्लानानामिति व्याधिपीडितानाम् / भैषज्यमिति औषधम् / वैद्यश्चिकित्सकः / तदुपस्थायकः तस्य ग्लानस्य परिचारकः / रोगापुनर्भव इति यावद् व्याधिनिवृत्तिः स्यात् //

क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः / दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् // bca_3.8 //

क्षुद् बुभुक्षा / पिपासा तृष्णा / तयोर्व्यथा, ताभ्यां वा व्यथा / तां हन्यां निवर्तेयम् / अन्नपानप्रवर्षणैः प्रबन्धाहारपानसंपादनैः / दुर्भिक्षान्तरकल्पेष्विति-

कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः / इति //

तत्र दशवर्षायुषि प्रजायामन्तरकल्पपर्यन्ते दुर्भिक्षेण संवर्तः प्रादुर्भवति वर्षान् सप्त, मासान् सप्त, दिवसानपि सप्तैव / यदुक्तम्-

कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण विनिर्गमः / दिवसान् सप्त मासांश्च वर्षाश्चैव यथाक्रमम् //

इति /

तत्र अन्नपानाभावादन्योन्यमांसास्थिभक्षणमेव आहारः / तदपि केचिदलभमाना आहारवैकल्याच्च म्रियन्ते / तत्र भवेयं पानभोजनम् //

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः / नानोपकरणाकारैरुपतिष्ठेयमग्रतः // bca_3.9 //

(bcp 39) दरिद्राणामिति धनविकलानाम् / अक्षय इति आकृष्यमाणधनो ऽपि यो न क्षीयते / नानोपकरणाकारैरिति शयनासनवसनभोजनाभरणविलेपनप्रभृति यद्यदभिलषन्ति सत्त्वाः, तैस्तैरुपकरणविशेषाकारैः अहमेव उपतिष्ठेयं प्रत्युपस्थितो भवेयम् / तेषां दरिद्राणां सत्त्वानामग्रतः पुरतः / इदं च परिणामनमार्यवज्रध्वजसूत्रे विस्तरेण प्रतिपादितम् / तत्रेदमुक्तम्-

स तानि कुशलमूलानि परिणामयन् एवं परिणामयति- अनेनाहं कुशलमूलेन सर्वसत्त्वानां लयनं भवेयं सर्वदुःखस्कन्धविनिवर्तनतया / सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया / सर्वसत्त्वानां शरणं भवेयं सर्वभयारक्षणतया / सर्वसत्त्वानां गतिर्भवेयं सर्वभूम्यनुगमनतया / सर्वसत्त्वानां परायणं भवेयमत्यन्तयोगक्षेमप्रतिलम्भनतया / सर्वसत्त्वानामालोको भवेयं वितिमिरज्ञानसंदर्शनतया / सर्वसत्त्वानामुल्का भवेयमविद्यातमोन्धकारविनिवर्तनतया / इत्यादि विस्तरः / इदमुक्त्वा पुनरिदमाह- तत्राध्याशयतः परिणमयतिओ न वचनमात्रेण / तच्चोदग्रचित्तः परिणमयति / हृष्टचित्तः परिणमयति / प्रसन्नचित्तः परिणमयति / प्रमुदितचित्तः स्त्रिग्धचित्तः परिणमयति / मैत्रचित्तः प्रेमचित्तो ऽनुग्रहचित्तो हितचित्तः सुखचित्तः परिणमयति / इति विस्तरः //

इदानीमात्मभावादिपरित्यागं कुर्वन्नाह-

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम् / निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये // bca_3.10 //

आत्मभावानिति सर्वगतिच्युत्युपपत्तिषु सर्वकायान् / निरपेक्षः सर्वप्रकारेण निरासङ्ग इत्यर्थः / त्यजामि उत्सृजामि / ददामीत्यर्थः / भोगानिति उपभोग्यवस्तूनि हयगजरथप्रासादाद्याश्रयस्त्रक्चन्दनवस्त्राभरणकन्यादीनि / सर्वत्र्यध्वगतं शुभमिति सर्वत्रैधातुकसंगृहीतं पुण्यानेञ्जयस्वभावम् / यदि वा दानशीलादिप्रसूतं भावनामयं च / त्र्यध्वगतम् अतीतानागतप्रत्युत्पन्नम् / स्यादेतत्- अनागतस्य असत्स्वभावस्य को ऽयमुत्सर्गो नाम? सत्यम् / किं तु तत्संभवकाले तत्रासङ्गनिवारणार्थमेवमुच्यते, इदानीमेव तत्परित्यागात्, आशयस्य विशुद्धिवर्धनार्थं च / एतदेवाह- निरपेक्ष इति / तद्विपाकस्य स्वार्थे ऽनपेक्षः / किमर्थमेवमनुष्ठीयते इत्याह- सर्वसत्त्वार्थसिद्धये इति / सर्वसत्त्वानां त्रैधातुकवर्तिनामभ्युदयनिःश्रेयसलक्षणार्थनिष्पत्तये / अतीतानागतशुभोत्सर्गस्तु आर्याक्षयमतिसूत्रे ऽभिहितः / यदुक्तम्-

कुशलानां च चित्तचैतसिकानामनुस्मृतिः, अनुस्मृत्य च बोधिपरिणामना, इद मतीतकौशल्यम् / या अनागतानां कुशलमूलानां निध्यप्तिर्बोधेरामुखीकर्मसमन्वाहारः, ये ये उत्पत्स्यन्ते कुशलाश्चित्तोत्पादाः, ताननुत्तरायां सम्यक्संबोधौ परिणामयिष्यामि / इदमनागतकौशल्यम् / इति विस्तरः / सर्वत्यागाधिमुक्तिं परिपूर्ये परित्यागचित्तवेगात् तेन कायप्रयोगेण उत्सृष्टसर्वपरिग्रहः / सर्वपरिग्रहमूलाद्भवदुःखाद्विमुक्तो मुक्त इत्युच्यते / इति विस्तरः //

(bcp 40) ननु च आत्मार्थमपि किंचिद्रक्षितुमुचितमिति मात्सर्यं निराकुर्वन्नाह-

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः / त्यक्तव्यं चेन्मया सर्व वरं सत्त्वेषु दीयताम् // bca_3.11 //

सर्वेषां सास्रवात्मभावादीनां निर्वाणं मोक्षः / तदर्थि च मे मनः, तदर्थि च मम चित्तम् / त्यक्तव्यं चेदिति / निर्वाणसमये यदि सर्वमात्मभावादि अवश्यं परित्यज्य यातव्यं मया, तदा वरं सत्त्वेषु दीयताम्, किमनेन मात्सर्यहेतुना विधृतेनेति भावः //

तस्मादिदमिहानुरूपमित्याह-

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम् /

यथाकामंगमकारितायां नियुक्तो मयायमात्मा कायः / सर्वदेहिनां सर्वसत्त्वानां कृते / एतदेव दर्शयन्नाह- घ्रन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः // bca_3.12 // क्रीडन्तु मम कायेन हसन्तु विलसन्तु च / दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया // bca_3.13 //

कारयन्तु च कर्माणि यानि तेषां सुखावहम् /

दण्डादिभिस्ताडयन्तु वा, अवर्णवादैर्जुगुप्सन्तु, आकिरन्तु च पांसुभिः, धूलिभिरवकिरन्तु / दत्तस्तेभ्यो मया काय इति, सर्वः सर्वेण मया तेषां परित्यक्तः, किं मम समविषमचिन्तया? कारयन्तु कर्माणीति अनवद्यानि / एतदेवाह- अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन // bca_3.14 // अनिष्टं कस्यचित्प्राणिनो मा भूत्, मामाश्रित्य कदाचन, इह परत्र वा //

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् / तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये // bca_3.15 //

येषां क्रुद्धा येषामप्रसन्ना वा मतिश्चित्तं भवेत्, तेषां क्रुद्धाप्रसन्नमतीनां स एव हेतुः स्यात्, क्रुद्धा अप्रसन्ना मतिरेव / पुंस्त्वं तु तच्छब्दस्य हेतुसमानाधिकरणतया / सर्वार्थसिद्धय इति आत्मपराभ्युदयनिःश्रेयसनिष्पत्तये //

अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः / उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः // bca_3.16 //

अभ्याख्यास्यन्ति इति मिथ्यारोपितदोषेण दूषयिष्यन्ति / अन्ये ऽपि ये कायिकं मानसिकं वा अपकारं करिष्यन्ति / उत्प्रासका इति उपहासकाः, विडम्बकारिणो वा / तथा अन्ये ऽपि उदासीनाः प्रसन्नाश्च / सर्वे भवेयुर्बुद्धत्वलाभिनः //

अनाथानामहं नाथः सार्थबाहश्च यायिनाम् / पारेप्सूनां च नौभूतः सेतुः संक्रम एव च // bca_3.17 //

(bcp 41) अनाथानामिति सांनाय्यान्वेषिणाम् / सार्थवाहश्च यायिनामिति सार्थमुख्यो मार्गप्रपन्नानाम् / पारेप्सूनामिति नद्यादीनां पारिमकूलं गन्तुकामानाम् //

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् / दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् // bca_3.18 //

दीपार्थिनामिति अन्धकारावस्थितानाम् / शय्यार्थिनामिति शयनाभिलाषिणाम् / दासार्थिनामिति उपस्थानार्थं ये भृत्यकर्मकरादीनिच्छन्ति //

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः / भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् // bca_3.19 //

चिन्तामणिरिति चिन्तितफलदाता रत्नविशेषः / भद्रघट इति यद्यद्वस्तु अभिलषितमभिसंधाय अस्मिन् हस्तं प्रक्षिपेत्, तत्सर्वं संपद्यते / सिद्धविद्येति सिद्धमन्त्रः यद्यत्कर्म तया क्रियते, तत्सर्वं सिध्यति / महौषधिरिति यदेकैव सर्वोपद्रवपीडाप्रशमनहेतुः / कल्पवृक्षश्चेति कल्पितार्थसंपादको वृक्षविशेषः / कामधेनुश्चेति या वाञ्छितदोहं दुह्यते //

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम् / सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा // bca_3.20 //

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा / भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः // bca_3.21 //

पृथिव्यादीनीति पृथिवी वसंधरा / आदिशब्दादापस्तेजो वायुरिति चत्वारि महाभूतानि / तानि यथा शयनाशनसस्यफलमूलाद्याधारतया , तथा यानावगाहनादिहेतुतया / एवमन्यत्रापि योज्यम् / अनन्ताकाशधतुव्यापिनामसंख्यानां सत्त्वानां परिभोगमुपयान्ति, एवमेव अहमपि सर्वसत्त्वानामनेकप्रकारेण उपभोग्यो भवेयम् / यावत्सर्वे न निर्वृता इति यावत् सर्वे न संसारदुःखविनिर्मुक्ताः //

तस्मादेषामात्मभावादीनामुत्सर्गः कार्यो बोध्यर्थिना / एतच्च दानमतिविस्तरेण शिक्षासमुच्चये प्रदर्शितम् / तद्यथा तत्रैव बोधिसत्त्वप्रातिमोक्षे कथितम्-

पुनरपरं शारिपुत्र बोधिसत्त्वः सर्वधर्मेषु परकीयसंज्ञामुत्पादयति, न कंचिद्भावमुपादत्ते / तत्कस्य हेतोः? उपादानं हि भयमिति /

इदमुक्त्वा तत्रैव पुनरिदमुक्तम्-

तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्त्वा भवन्ति / यावत् स्वहस्तपरित्यागी भवति, पादपरित्यागी नासापरित्यागी शीर्षपरित्यागी अङ्गप्रत्यङ्गपरित्यागी, यावत् सर्वस्वपरित्यागीति //

एवं नारायणपरिपृच्छायामप्यभिहितम्-

न तद्धस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्येत, न त्यागबुद्धिः क्रमेत, (bcp 42) इति यावत्, अपि तु खलु पुनः कुलपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम्- अयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि / इति विस्तरः //

तथा आर्याक्षयमतिसूत्रे ऽपि देशितम्-

अयं मया कायः सर्वसत्त्वानां किंकरणीयेषु क्षपितव्यः / तद्यथा इमानि चत्वारि महाभूतानि पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुश्च नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैः सत्त्वानामुपभोगं गच्छन्ति, एवमेव अहमिमं चतुर्महाभूतसमुच्छ्रयं कायं नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैर्विस्तरेण सर्वसत्त्वानामुपजीव्यं करिष्यामीति विस्तरः //

तच्चित्तरत्नेन्त्यारभ्य सर्वमिदं पूर्वकं बोधिचित्तसंवरग्रहणाय प्रयोगो वेदितव्यः / तदेवं पूजादि विधाय आत्मभावादिदानमुत्सृज्य प्रतिपन्नबोधिचित्तानुशंसः क्षणसंपदं परमदुर्लभामवेत्य श्रद्धामूलं दृढमुपस्थाप्य सत्त्वानत्राणानपरायणान् करुणायमानः स्वसुखनिरपेक्षः परदुःखदुःखी तत्समुद्धरणाशयाभिप्रायो बुद्धत्वमेव तदुपायं समुत्पश्यन् तत्र बद्धसंनाहः-

यदात्मनः परेषां च भयं दुःखं च न प्रियम् / तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् // इति / [शिक्ष.स.कारिका-1] तेन आत्मनः सत्त्वधातोश्च-

दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता / श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा // इति // [शिक्ष.स.कारिका-2] सम्यक्संबोधिचित्तमुत्पादयितुमुपक्रमते-

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः / ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः // bca_3.22 //

येनाशयेन सर्वसत्त्वानां सर्वदुःखप्रहाणार्थम् / यदि वा यथा गृहीतं तदेव भगवन्तो जानन्ति / बोधिचित्तमिति बोधिर्बुद्धत्वं सर्वावरणप्रहाणात् सर्वधर्मनिःस्वभावताधिगमः / एतच्च सप्रचयं प्रज्ञापरिच्छेदे वक्ष्यामः / तत्र चित्तमध्याशयेन तत्प्राप्तये मनसिकारः बुद्धो भवेयं सर्वसत्त्वहितसुखसंपादनायेत्यर्थः // इति पूर्वार्धेन बोधिचित्तोत्पादं प्रतिपाद्य शिक्षासंवरग्रहणं प्रतिपादयन्नाह- ते बोधिसत्त्वेत्यादि / बोधिसत्त्वशिक्षा यदुत्पादितबोधिचित्तेन बोधिसत्त्वेन सदा करणीयम्, तत्रेत्यर्थः / आनुपूर्वीति अनु..........

(bcp 43) तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते / तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम् // bca_3.23 //

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः / पुनः पुष्टस्य पुष्टयर्थं चित्तमेवं प्रहर्षयेत् // bca_3.24 //

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः / अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि सांप्रतम् // bca_3.25 //

तथाधुना मया कार्यं स्वकुलोचितकारिणाम् / निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा // bca_3.26 //

अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात् / तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम् // bca_3.27 //

जगन्मृत्युविनाशाय जातमेतद्रसायनम् / जगद्दारिद्यशमनं निधानमिदमक्षयम् // bca_3.28 //

जगद्वयाधिप्रशमनं भैषज्यमिदमुत्तमम् / भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः // bca_3.29 //

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम् / जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः // bca_3.30 //

जगदज्ञानतिमिरप्रोत्सारणमहारविः / सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् // bca_3.31 //

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः / सुखसत्रमिदं ह्युपस्थितं सकला भ्यागतसत्त्वतर्पणम् // bca_3.32 //

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा / पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः // bca_3.33 //

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः //

4. बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः /

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः / शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः // bca_4.1 //

सहसा यत्समारब्धं सम्यग् यदविचारितम् / तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते // bca_4.2 //

विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः / मयापि च यथाशक्ति तत्र किं परिलम्ब्यते // bca_4.3 //

यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा / एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति // bca_4.4 //

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः / स प्रेतो भवतीत्युक्तमल्पमात्रे ऽपि वस्तुनि // bca_4.5 //

किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः / जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति // bca_4.6 //

वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम् / यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तां नरान् // bca_4.7 //

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी / यस्मादापद्यमानो ऽसौ सर्वसत्त्वार्थहानिकृत् // bca_4.8 //

यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति / तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः // bca_4.9 //

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत् / अशेषाकाशपर्यन्तवासिनां किमु देहिनाम् // bca_4.10 //

एवमापत्तिबलतो बोधिचित्तबलेन च / दोलायमानः संसारे भूमिप्राप्तौ चिरायते // bca_4.11 //

तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात् / नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः // bca_4.12 //

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः / नैषामहं स्वदोषेण चिकित्सागोचरं गतः // bca_4.13 //

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः / दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम् // bca_4.14 //

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च / कुशलाभ्यासयोग्यत्वमेवं लप्स्ये ऽतिदुर्लभम् // bca_4.15 //

(bcp 45) आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम् / आयुःक्षणं विसंवादि कायोपाचितकोपमः // bca_4.16 //

न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः / अलभ्यमाने मानुष्ये पापमेव कुतः शुभम् // bca_4.17 //

यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहम् / अपायदुःखैः संमूढः किं करिष्याम्यहं तदा // bca_4.18 //

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः / हतः सुगतिशब्दो ऽपि कल्पकोटिशतैरपि // bca_4.19 //

अत एवाह भगवान्मानुष्यमतिदुर्लभम् / महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् // bca_4.20 //

एकक्षणकृतात् पापादवीचौ कल्पमास्यते / अनादिकालोपचितात् पापात् का सुगतौ कथा // bca_4.21 //

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते / तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते // bca_4.22 //

नातः परा वञ्चनास्ति न च मोहो ऽस्त्यतः परः / यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया // bca_4.23 //

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः / शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः // bca_4.24 //

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः / पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम् // bca_4.25 //

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम् / जानन्नपि च नीये ऽहं तानेव नरकान् पुनः // bca_4.26 //

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः / न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति // bca_4.27 //

हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः / न शूरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः // bca_4.28 //

मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः / तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम् // bca_4.29 //

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः / ते ऽपि नावीचिकं बन्हिं समुदानयितुं क्षमाः // bca_4.30 //

(bcp 46) मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते / क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः // bca_4.31 //

न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम् / अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम् // bca_4.32 //

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः / सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः // bca_4.33 //

इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु / हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् // bca_4.34 //

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः / मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम // bca_4.35 //

तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षम् / स्वल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्राम् // bca_4.36 //

प्रकृतिमरणदुःखितान्धकारान् / रणशिरसि प्रसभं निहन्तुमुग्राः / अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा // bca_4.37 //

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य / भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै // bca_4.38 //

अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति / महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि // bca_4.39 //

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः / शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् // bca_4.40 //

दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे / प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः // bca_4.41 //

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा / अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा // bca_4.42 //

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही / अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः // bca_4.43 //

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे / न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् // bca_4.44 //

निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात् / यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु // bca_4.45 //

(bcp 47) नाय, न तु क्लेशशत्रोः / न तस्य इतरशत्रुवत्समाचारो दृश्यते / कुतः पुनरेवमिच्छया लभ्यत इत्याह-

क्वासौ यायान्मन्मनःस्थो निरस्तः स्थित्वा यस्मिन् मद्वधार्थं यतेत / नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः // bca_4.46 //

मम चित्तान्निर्वासितः असौ क्लेशरिपुः कुत्र गत्वा अवस्थानं कुर्यात्, यत्रावस्थितिं कृत्वा मम वधाय यतेत? नैव तत्स्थानमुत्पश्यामि, निर्मूलितस्य पुनरुत्थानायोगादिति भावः / अहमेव तु केवलमनुत्साही, अपटुबुद्धिप्रचारत्वात् / क्लेशाः पुनरिमे निर्मूलत्वात् परमार्थतत्त्वदर्शनमात्रप्रहेयास्तपस्विनः //

एतदेव प्रसाधयन्नाह-

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत् /

मनोज्ञादिविषयदर्शने ऽपि केषांचित्संवृतेन्द्रियाणां क्लेशानुत्पत्तेः परमाणुशो विचारे ऽपि तत्रादर्शनात् / न विषयेषु, नापि चक्षुरादीन्द्रियगणे पूर्ववत्, धर्मचिन्ताद्यवस्थायामिन्द्रियसद्भावे ऽप्यनुपलब्धेः / नापि विषयेन्द्रिययोरन्तराले मध्ये तिष्ठन्ति, दृश्यानामनुपलब्धेरेव / न च एतेभ्यो ऽन्यस्मिन् स्थाने क्वचिदवस्थिता निश्चिताः / अतो निर्मूलतया तत्त्वशून्या आगन्तुका एव, अभूतपरिकल्पमात्रप्रसूतत्वात् / तथाभूता अपि जगदशेषं मथ्नन्ति / तथा च किमत्र समुचितमस्ति? आह-

मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे // bca_4.47 //

यथा हि माया हस्त्याकारतया तदाकारशून्यापि मन्त्रौषधप्रभावादिदंप्रत्ययतया मन्त्रेण तत्त्वरहितापि प्रतिभासते, तथा अमी अपि क्लेशा विपर्यासनिमित्ता अयोनिशोमनसिकारसमुद्भूता इदंप्रतीत्यतामात्रतो निस्तत्त्वा एव प्रकाशन्ते / अतो विजहीहि हृदय त्रासं क्लेशेभ्यः / के नाम अमी वराकाः परमार्थतो विचार्यमाणाः? अतो भजस्व उद्यमम्, उत्साहं कुरुष्व प्रज्ञार्थं तत्त्वप्रविचयाधिगमाय / किमकाण्ड एव निष्प्रयोजनमेव नरकेषु संघातादिषु क्लेशवशगतया आत्मानमाबाधसे, पीडयसि?

इदानीं प्राक्तनमर्थमशेषमुपसंहरन्नाह-

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः / वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् // bca_4.48 //

(bcp 48) एवं समनन्तरसकलपरिच्छेदप्रतिपादितमर्थं विनिश्चित्य दृढीकृत्य अनन्तरमायास्वभावतां वा, करोमि यत्नम् / किमर्थम्? यथोक्तशिक्षाप्रतिपत्तिहेतोः, यथोक्तशिक्षा बोधिसत्त्वस्य तेषु तेषु सूत्रान्तेषु याः करणीयतया प्रतिपादिताः, इहैव वा शास्त्रे संक्षेपेण तत्र तत्रोपदर्शिताः, तासां शिक्षणार्थम् //

उक्तानि च भगवता सूत्रान्तेषु बोधिसत्त्वशिक्षापदानि / यथोक्तमार्यरत्नमेघे-

कथं च कुलपुत्र बोधिसत्त्वो बोधिसत्त्वशिक्षासंवरसंवृतो भवति? इह बोधिसत्त्व एवं विचारयति- न प्रातिमोक्षसंवरमात्रकेण मया शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् / किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु बोधिसत्त्वसमुदाचारा बोधिसत्त्वशिक्षापदानि प्रज्ञप्तानि, तेषु मया शिक्षितव्यम् / इति विस्तरः //

तस्मादस्माद्विधेन मन्दबुद्धिना

दुर्विज्ञेयो विस्तरोक्तत्वाद् बोधिसत्त्वस्य संवरः / ततः किं युक्तम्? मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत् / [शिक्शा. स. कारिका-3]

कतमानि च तानि मर्मस्थानानि? यदुत-

आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च / उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षाशुद्धिवर्धनम् //

[शिक्शा. स. कारिका-4]

इत्युक्तम् / एष बोधिसत्त्वसंग्रहो यत्र बोधिसत्त्वानामभ्यासविश्रामे ऽपि आपत्तयो व्यवस्थाप्यन्ते / यथोक्तं बोधिसत्त्वप्रातिमोक्शसूत्रे-

यो बोधिसत्त्वेन मार्गः परिगृहीतः सर्वसत्त्वानां कृते दुःखक्षयगामी, सचेद्बोधिसत्त्वस्य तं मार्गं परिगृह्यावस्थितस्य अपि कल्पकोटेरत्ययेन एकं सुखचित्तमुत्पद्येत, अन्तशो निषद्याचित्तमपि, तत्र बोधिसत्त्वेन एवं चित्तमुत्पादयितव्यम्- सर्वसत्त्वानामात्ययिकं परिगृह्य एतदपि मे बहु यन्निषीदामीति //

अत एवाह- वैद्योपदेशादिति / यथा वैद्योपदेशमकुर्वाणस्य भैषज्यसाध्यं करणीयं यस्य भैषज्येन वा साध्यस्य रोगिणः कुतो ऽस्ति निरामयत्वं नीरोगता? तथा सर्वज्ञमहावैद्योपदिष्टशिक्षाप्रतिपत्तिमकुर्वतः कुतो निरामयत्वं कर्मक्लेशोपजनितजात्यादिदुःदुखमहाभयाद्विमुक्तिः?

तदेवं समात्तसंवरस्य सामान्यमापत्तिलक्षणमुच्यते येन आपत्तिलक्षणेन युक्तं वस्तु स्वयमप्युत्प्रेक्ष्य परिहरेत् / न च आपत्तिप्रतिरूपकेषु अनापत्तिप्रतिरूपकेषु च संमुह्येत् / बोधिसत्त्वः सर्वसत्त्वानां वर्तमानानागतसर्वदुःखदौर्मनस्योपशमाय वर्तमानानागतसर्वसुखसौमनस्योत्पादाय च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं न करोति, तत्प्रत्ययसामग्रीं (bcp 49) नान्वेषते, तदन्तरायप्रतीकाराय न घटते, अल्पदुःखदौर्मनस्यं बहुदुःखदौर्मनस्यप्रतीकारभूतं नोत्पादयति, महार्थसिद्धयर्थं वा अल्पहानिं न करोति, क्षणमप्युपेक्षते, सापत्तिको भवति / संक्षेपतो ऽनापत्तिः स्वशक्त्यविषयेषु कार्येषु, तत्र निष्फलतया शिक्षाप्रज्ञप्त्यभावात् / प्रकृतिसावद्यतया वा अन्यद् गृह्यत् एव / यत्र तु स्वशक्त्यगोचरे ऽपि योगसामर्थ्यादापत्तिः स्यात्, तन्न चिन्त्यम्, सामान्यपापदेशनान्तर्भावात्ततो मुक्तिः / एतत् समासतो बोधिसत्त्वशिक्षाशरीरम् / विस्तरतस्तु अप्रमेयकल्पपर्यवसाननिर्देश्यम् //

अथवा संक्षेपतो द्वे बोधिसत्त्वस्यापत्ती / यथाशक्त्या युक्तायुक्तमसमीक्ष्यारभते, न निवर्तते उपेक्षते वा, सापत्तिको भवति / निरूप्य यथार्हमतिक्रामति अन्तशश्चण्डालदासेनापि चोदितः, सापत्तिको भवति / यः पुनरेतदभ्यासार्थं व्युत्पादमिच्छति, तेन शिक्षासमुच्चये तावच्चर्यामुखमात्रशिक्षणार्थमभियोगः करणीयः, शिक्षणारम्भस्यैव महाफलत्वात् / यथोपवर्णितं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-

इति बोधिसत्त्वशिक्षा समासतो यथोपदेशतः कथितेति //

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्ताप्रमादश्चतुर्थः परिच्छेदः //

5. संप्रजन्यरक्षणं नाम पञ्चमः परिच्छेदः /

एवमात्मभावादीनामुत्सर्गं रक्षां च प्रतिपाद्य पुनर्विस्तरेण रक्षाशोधनवर्धनानि प्रतिपादयितुमुपक्रमते / उत्पादितबोधिचित्तेन हि बोधिसत्त्वेन उत्सृष्टस्यापि चात्मभावस्य रक्षाशोधनवर्धनानि कार्याणि / यस्मात्-

परिभोगाय सत्त्वानामात्मभावादि दीयते / अरक्षिते कुतो भोगः किं दत्तं यन्न भुज्यते //

तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत् / कल्याणमित्रानुत्सर्गात्सूत्राणां च सदेक्षणात् //

[शिक्शा. स. कारिका 5-6]

तच्च आत्मभावादिपरिपालनादि शिक्षारक्षणादेव स्यात् / अन्यथा नरकादिविनिपातगमनात् तन्न स्यात् / अत इदमभिधीयते-

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः / न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता // bca_5.1 //

शिक्ष्यते उपादीयते गृहीतसंवरणेनेति विहितेषु करणीयता, प्रतिषिद्धेष्वकरणं शिक्षा, तां रक्षितुं परिपालयितुं कामेन इच्छता बोधिसत्त्वेन आत्मचित्तं रक्षितव्यं प्रयत्नत इति कथयिष्यमाणात् / अथ शिक्षारक्षणाधिकारे किमिति चित्तं रक्ष्यत इत्याह- न शिक्षेति / अन्यथा शिक्षैव रक्षितुमशक्या चलमनायत्तं चित्तमरक्षता / चित्तस्य चलतायां शिक्षायाः स्थैर्यायोगात् //

इतो ऽपि चित्तमेव रक्षणीयमित्याह-

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् / करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः // bca_5.2 //

अपरिकर्मिता मत्तवरवारणा न जनयन्ति तां पीडामिहलोके / परलोके अवीच्यादौ यां करोति स्वच्छन्दतयावस्थितं चित्तमेव मतङ्गज एव / तथागताज्ञाङ्कुशेन कथंचिद् वशीक्रियमाणत्वात् /

तस्यायत्तीकरणे गुणमाह-

बद्धश्चेच्चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः / भयमस्तंगतं सर्वं कृत्स्नं कल्याणमागतम् // bca_5.3 //

यदि बद्धः कथंचिद् भवेत् / स्मृतिर्वक्ष्यमाणलक्षणा / सैव रज्जुर्बन्धनोपायत्वात् / समन्ततः सर्वथा असत्पक्षे प्रचारनिरोधात् / तदा भयमस्तंगतं प्रत्यस्तमितं सर्वमशेषम् / सर्वं कल्याणमभ्युदयनिःश्रेयसलक्षणम् / आगतं संप्राप्तम् / देवश्चेद् वृष्टो निष्पन्नाः शालय इति यथा //

(bcp 51) ननु बहवश्च मृगव्यालादयो ऽप्युपद्रवकारिणः सन्ति, तेभ्यः कथं चित्तस्य वशीकरणाद् भयं न भविष्यतीत्याह-

व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः / सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा // bca_5.4 //

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् / चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च // bca_5.5 //

सुबोधम् //

कुतः पुनरेवमित्याह-

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च / चित्तादेव भवन्तीति कथितं तत्त्ववादिना // bca_5.6 //

सर्वे ह्येते कर्माक्षेपवशादनिष्टदायका भवन्ति / कर्म च चित्तमेव / चेतना कर्मेति वचनात् / वाक्कायकर्मणोरपि चित्तमेव समुत्थापकम् / तदन्तरेण तयोरनुत्पत्तेः / चेतयित्वा कर्मेति वचनात् / तस्मात् सर्वमिह कर्मनिर्मितमेव / तच्च चित्तान्नान्यत् / तदाह-

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् / चेतना मानसं कर्म तज्जे वाक्कायकर्मणी / इति / [अभि. कोष-4.1]

न च अनपकारचित्तस्य केचिदपकारिणो नाम / यस्मात्-

निवृत्तपापचित्तस्य नास्ति लोके भयं द्विषः / सुखहानिर्न तस्यास्ति यस्य चित्तं वशे स्थितम् //

अत इदमुक्तम्-

चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् / इति / [=धम्मपद-25]

तत्त्ववादी भगवान् वस्तुतत्त्वकथनशीलत्वात् / तेनेदं तत्त्वं कथितं प्रकाशितम्- सर्वं चित्तप्रसूतमिति / अतः सर्वत्र चित्तमेव प्रधानम् //

इत्थमेवैतन्नान्यथा इति प्रसाधयन्नाह-

शस्त्राणि केन नरके घटितानि प्रयत्नतः / तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः // bca_5.7 //

नरकपालानां कुन्तासिमुसलादीनि, असिपत्रवनसमुद्भूतानि वा केन कृतानि? न तत्र कश्चित् कर्तास्ति ईश्वरादिः, तत्कर्तृत्वस्य अन्यत्र निषिद्धत्वात्, इहापि निषेत्स्यमानत्वात् / (bcp 52) तप्तलोहमयी च भूमिः केन घटिता? ताश्च स्त्रियः कुतः कारणसामग्रीतो जाताः, याः पारदारिकैः शाल्मलीवृक्षस्य अधस्तादुपरि च दृश्यन्ते? स च शाल्मलिर्वा ? अतो नान्यत् कारणमत्र चित्तादुपकल्पनीयम् / यदुक्तम्-

सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम् / कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय च नास्ति //

इति //

[मध्यमकावतार-6.89]

तस्माच्चित्तमेवात्र कारणं नान्यदित्यत आह-

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः / तस्मान्न कश्चित् त्रैलोक्ये चित्तादन्यो भयानकः // bca_5.8 //

पापकर्मोपस्कृतं चित्तमेव तेषां कारणं भगवान् कथितवात् / नापरं किंचित् / यत एवम्, तस्मान्न त्रिजगति पापचित्तादपरः कश्चिद् भयहेतुरस्ति / तस्माच्चित्तमेव वशीकर्तव्यम् / यदुक्तमार्यरत्नमेघे-

चित्तपूर्वगमाः सर्वधर्माः / चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति //

अपि च-

चित्तेन नीयते लोकश्चित्तं चित्तं न पश्यति / चित्तेन चीयते कर्म शुभं वा यदि वाशुभम् //

चित्तं भ्रमते अलातवत् / चित्तं विभ्रमते तरंगवत् / चित्तं दहते दवाग्निवत् / चित्तं रोहयते (हरते) महाम्बुवत् / इति च //

एवं ब्युपपरीक्षमाणश्चित्ते सूपस्थितस्मृतिर्विहरति, न च चित्तस्य वशं गच्छति / अपि तु चित्तमेवास्य वशं गच्छति / चित्तेनास्य वशीभूतेन सर्वे धर्मा वशीभवन्तीति //

स्यादेतत्- दानपारमितादिषु कथमिव चित्तं प्रधानम्? सा हि सर्वसत्त्वानां दारिद्यापनयनलक्षणेत्याह-

अदरिद्रं जगत्कृत्वा दानपारमिता यदि / जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् // bca_5.9 //

दारिद्यं हि नाम सास्रवसुखभोगबुभुक्षया चित्तकार्पण्यम् उपकरणवैकल्यं वा / तदपनीय जगतो यदि दानपारमितापरिपूरिर्भवतीत्युच्यते, तदा सा कथम्? न कथंचिदपि पूर्वतायिनां पूर्वमभिसंबुद्धानां भगवतां युज्यते / कुतः? जगद्दरिद्रमद्यापि, नाद्यापि यावज्जगद्दारिद्यमुपशाम्यति //

(bcp 53) यद्येवं नेष्यते, कथं सा भवतीत्याह-

फलेन सह सर्वस्वत्यागचित्ताज्जने ऽखिले / दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव तु // bca_5.10 //

सर्वस्वं बाह्याध्यात्मिकं सर्वं वस्तु दानं दानफलं च सर्वसत्त्वेभ्यः परित्यजतो ऽभ्यासेन प्रकर्षगमनाद् यदा अपगतमात्सर्यमलं निरासङ्गतया चित्तमुत्पद्यते, तदा दानपारमितानिष्पन्नेत्युच्यते / तस्मात् सा चित्तमेव नान्या दानपारमिता //

शीलपारमिता तु सुतरां चित्तमेवेत्यत आह-

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान् / लब्धे विरतिचित्ते तु शीलपारमिता मता // bca_5.11 //

प्राणातिपातादिसर्वावद्यविरतिचित्तमेव हि शीलम्, न पुनस्तदाश्रयभूतबाह्यविषयनिवृत्तिस्वभावम् / यदि पुनर्वधादिविषयवस्त्वभावेन तद्वधाद्यभावाच्छीलं स्यात्, तदा ते मत्स्यादयः क्व नीयन्तां यत्र तेषां दर्शनं न स्यात्? अन्यथा तद्वधाद्युपक्रमे शीलं न स्यात् / न चैवम् / तस्मात्तेषु विद्यमानेष्वपि लब्धे विरतिचित्ते निवृत्तिमनसिकारे शीलपारमिता मता संमता तत्स्वभावविदाम् / तस्मात् सा चित्तमेव //

क्षान्तिपारमितापि न चित्ताद्भिन्नेत्याह-

कियतो मारयिष्यामि दुर्जनान् गगनोपमान् / मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः // bca_5.12 //

परापकारादिसंभवे ऽपि चित्तस्याकोपनता क्षान्तिः / अन्यथा यदि सर्वशत्रूणां तद्विनिपातनेन वैरनिर्यातनं कृतवतः केनचिद्वैराभावादुपशान्तवैरस्य न कश्चिदपकारी स्यात् / इति मर्षणं क्षान्तिः / तदा एतदशक्यानुष्ठानम् / शत्रवो हि गगनसमत्वादपर्यन्ताः / तेषां मारणमशक्यम् / तस्मात् क्रोधादिनिवृत्तिचित्तमेव तेषामुपायेन मारणमिव, तत्कृतापकारस्यागणनात्, जन्मान्तरवैरासंभवाच्च मारितप्रायास्ते //

अत्र अशक्यतायामप्युपायेन प्रवृत्तौ दृष्टान्तोपदर्शनेन शक्यतामाह-

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति / उपानच्चर्ममात्रेण छन्ना भवति मेदिनी // bca_5.13 //

कण्टकाद्युपघातरक्षणार्थं पृथ्वी छादयितुमुचिता / न चैतच्छक्यम्, तावतश्चर्मणो ऽभावात्, भावे ऽपि छादनस्याशक्यत्वात् / उपायेन पुनः शक्यम् / उपानहश्चर्मणा केवलेन सर्वा भूमिश्छादिता भवति //

दृष्टान्तोक्तमर्थं प्रकृते योजयन्नाह-

बाह्या भावा मया तद्वच्छक्या वारयितुं न हि / स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः // bca_5.14 //

(bcp 54) शत्रुप्रभृतयो भावा मया वारयितुमशक्याः / तद्वत् मेदिनीचर्मच्छादनवत् अपकारक्रियायाः / अतः स्वचित्तमेव शक्यं वारयिष्यामि / अन्यवारणस्यापार्थकत्वात्, स्वचित्तवारणादेव तत्सिद्धेः / तस्मात् सा चित्तमेव //

वीर्यपारमिता तु कुशलोत्साहस्वभावा अतिविस्पष्टं चित्तमेवेत्याह- सहापि वाक्शरीराभ्यां मन्दवृत्तेर्न तत्फलम् / यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् // bca_5.15 //

वचनकायसहितस्यापि चित्तस्य कुशलपक्षे मन्दप्रचारस्य न तादृशं फलमुपजायते, यादृशं ध्यानादिविषये पटुप्रवृत्तेरेकाकिनो ऽपि चित्तस्य फलं ब्रह्मभूयादिकम् / तस्मात् सा चित्तमेव //

ध्यानं तु चित्तैकाग्रतालक्षणं चित्तादन्यथा वक्तुमशक्यमित्याह-

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि / अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् // bca_5.16 //

मन्त्राद्यावर्तनलक्षणा वचनव्यापारा जपाः / तपांसि च इन्द्रियदमनलक्षणाः कायिकाः / तानि अतिबहुकालमभ्यस्तान्यपि अन्यत्र सक्तचित्तेन मिद्धाद्युपहतचित्तेन वा / समानपाटवविकलेनेत्यर्थः / वृथैव निष्फलमेव, अत्यर्थकृशफलत्वात्, अभिमतार्थे ऽनुपयोगाद्वा / पुत्रो ऽप्यपुत्र एव, पुत्रकार्याकरणाद्यथा / इत्याह भगवान् सर्वज्ञः / तस्माद् ध्यानपारमितापि चित्तमेव //

प्रज्ञा तु निर्विवादा चित्तमेवेत्याह-

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे / यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् // bca_5.17 //

पञ्चगतिसंसारजात्यादिदुःखं प्रहातुं तत्प्रहाणे निर्वाणसुखमधिगन्तुं ते सत्त्वा मुधा निरर्थका एव भ्रमन्ति अम्बरे कासीपुष्पमिव निष्फलं संसारे / यदनुष्ठितं क्वचिदपि न लग्नमिति तदेवममिधीयते पञ्चाग्निसेवाशिरोलुञ्चनादिव्रतम् / के पुनरेवं भ्रमन्ति? यैः संसारभयभीरुभिः सुखार्थिभिश्च धर्मसर्वस्वं सर्वलौकिकलोकोत्तरकर्मनिदानभूतं चित्तं बालानामगोचरस्वभावतया गुह्यं न भावितं तत्त्वचित्ततया पुनः पुनः स्थिरीकृतम् / तस्मादियमतितरां चित्तमेव / यथोपवर्णितमार्यगण्डब्यूहे-

स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वचर्या / स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः / पेयालं / तस्य मम कुलपुत्र एवं भवति- स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः / स्वचित्तमेव परिस्यन्दयितव्यं धर्ममेघैः / स्वचित्तमेव परिशोधयितव्यमावरणीयधर्मेभ्यः / स्वचित्तमेव दृढीकर्तव्यं वीर्येण / इत्यादि //

(bcp 55) इति चित्तस्वभावतां सर्वत्र प्रतिपाद्य उपसंहरन्नाह-

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम् / चित्तरक्षाव्रतं मुक्त्त्वा बहुभिः किं मम व्रतैः // bca_5.18 //

एवमुत्पादितबोधिचित्तेन शिक्षारक्षणे यत्नवता मनसि कर्तव्यम्- स्वधिष्ठितं स्मृत्या सुरक्षितं संप्रजन्येन वक्ष्यमाणरीत्या मया स्वचित्तं कर्तव्यं तदेकाग्रमानसेन / अत्रैव सर्वेषामन्तर्भावात् / अतश्चित्तरक्षणमेव प्रधानं व्रतम् / तद्विहाय किमन्यैर्व्रतैर्बहुभिरपि मम प्रयोजनम्? न किंचित् / तद्रहितस्य निष्फलत्वात् / एतावती चेयं बोधिसत्त्वशिक्षा यदुत चित्तपरिकर्म / एतन्मूलत्वात् सर्वसत्त्वार्थानाम् / तद्यथा धर्मसंगीतिसूत्रे कीर्तितम्-

मतिविक्रमबोधिसत्त्व आह- यो ऽयं धर्मो धर्म इत्युच्यते, नायं धर्मो देशस्थो न प्रदेशस्थो ऽन्यत्र स्वचित्ताधीनो धर्मः / तस्मान्मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुपरिजितं सुसमारब्धं सुनिगृहीतं कर्तव्यम् / तत्कस्य हेतोः? यत्र चित्तं तत्र गुणदोषाः / तद्बोधिसत्त्वो दोषेभ्यश्चित्तं निवार्य गुणेषु प्रवर्तयति / तदुच्यते- चित्ताधीनो धर्मः, धर्माधीना बोधिरिति //

एवं चित्तायत्ततां सर्वत्र निश्चित्य चित्तदृढतायामुदाहरणमाह-

यथा चपलमध्यस्थो रक्षति व्रणमादरात् / एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा // bca_5.19 //

असमाहितजनमध्ये पुनरुपघातभयात्तद्गतमनसा यथा व्रणं रक्षति कश्चिदप्रमत्तः, एवं तथा शिक्षारक्षणकामः अकारणवैरिबालजनमध्ये संवसन् तत्परश्चित्तं व्रणमिव रक्षेत् सर्वकालम् //

यथाप्रसिद्धित इदमुदाहरणम् / न तु पुनर्मनागपि सादृश्यमस्तीत्याह-

व्रणदुःखलवाद्भीतो रक्षामि व्रणमादरात् / संघातपर्वताघाताद्भीतश्चित्तव्रणं न किम् // bca_5.20 //

ईषन्मात्रं दुःखं दुःखलवो व्रणकृतः / तस्माद्भीतो रक्षामि व्रणम् / प्रकृतानुरोधे रक्षतीति पाठो युक्तः / आदरात् तात्पर्येण / संघातनरकप्रभवादनेकवर्षसहस्रानुभूयमानदुःखात् पर्वताघातात्सर्वतो व्याप्तिप्रहारात् भीतः चित्तव्रणं न किं रक्षेदिति प्रकृतेन संबन्धः / यदि वा / अहं तु किं न रक्षामीति परिणामेन योजनीयम् / अथवा / एवमुत्पादितबोधिचित्तेन मनसा चिन्तयितव्यमित्यवतार्यते / तदा रक्षामीति //

कः पुनरेवं सति गुणः स्यादित्याह-

अनेन हि विहारेण विहरन् दुर्जनेष्वपि / प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्डयते // bca_5.21 //

(bcp 56) यस्मादेवंमनसिकारेण विचरन् वनिताजनमध्ये ऽपि प्रासादपृष्ठे अयमनिवार्यो ऽतिशयेन कामरागेषु / तेनेदमुक्तं यतिर्धीर इति / अस्मिन् मनसिकारे निध्यप्तचित्तः / न खण्डयते शिक्षारक्षणमनसिकारान्न स्खलति //

पुनरेवं करणीयमित्यत्रार्थे दृढमभिनिवेशं दर्शयन्नाह-

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम् / नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन // bca_5.22 //

चिवरपिण्डपातादयो नश्यन्तु, विलयं यान्तु मम कामं यथेष्टम् / सत्कारो गौरवेण आसनदानपादवन्दनादिपूजा / कायो जीवितं च सर्वमेतन्नश्यतु / अन्यदपि यत्किंचित् सुखसौमनस्यनिमित्तं तदपि नश्यतु / कुशलं पुनर्मम चित्तं मा कस्मिंश्चिदपि काले नङ्क्षीदिति //

अत्र पुनरादरमुत्पादयितुं शास्त्रकार आह-

चित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः / स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत // bca_5.23 //

अञ्जलिं कृत्वा प्रार्थयामि / किमर्थम्? स्मृतिं च संप्रजन्यं च / न केवलां स्मृतिम्, नापि केवलं संप्रजन्यमिति परस्परापेक्षया चकारद्वयम् / तत्र स्मृतिरार्यरत्नचूडसूत्रे ऽभिहिता-

यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति / यया स्मृत्या सर्वमारकर्मणामवतारं न ददाति / यया स्मृत्या उत्पथे कुमार्गे वा न पतति / यया स्मृत्या दौवारिकभूतया सर्वेषामकुशलानां चित्तचैतसिकानां धर्माणामवकाशं न ददाति, इयमुच्यते सम्यक्स्मृतिरिति //

संक्षेपतः पुनरियं स्मृतिरुच्यते- विहितप्रतिषिद्धयोर्यथायोगं स्मरणं स्मृतिः / यच्चाहस्मृतिरालम्बनासंप्रमोष इति //

संप्रजन्यं तु प्रज्ञापारमितायामुक्तम्-

चरंश्चरामीति प्रजानाति / स्थितः स्थितो ऽस्मीति प्रजानाति / निषण्णो निषण्णो ऽस्मीति प्रजानाति / शयानः शयितो ऽस्मीति प्रजानाति / यथा यथास्य कायः स्थितो भवति तथा तथैनं प्रजानाति / पेयालं / सो ऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति / आलोकिते विलोकिते संमिञ्जिते प्रसारिते संघाटीपटपात्रचीवरधारणे अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तूष्णीभावे प्रतिसंलयने संप्रजानचारी भवतीति //

इदमेव वक्ष्यति-

एतदेव समासेन संप्रजन्यस्य लक्षणम् / यत्कायचित्तोवक्षायाः प्रत्यवेक्षा मुहुर्मुहुः // इति // [बोधि. 5.108] (bcp 57) कः पुनरनयोर्व्यतिरेके दोषः, येनैते यत्नेन रक्षणीये कथिते इत्याह-

व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु / तथाभ्यां विकलं चित्तं न क्षमं सर्वकर्मसु // bca_5.24 //

रोगोपहतसामर्थ्यो यथा पुरुषः सर्वकर्मसु गमनभोजनादिषु अकर्मण्यो भवति, तथा स्मृतिसंप्रजन्याभ्यां विकलं चित्तं सर्वकर्मसु ध्यानाध्ययनादिलक्षणेषु //

अनयोः समुदायाभावे दोषमुक्त्वा प्रत्येकमभावे कथयितुमाह-

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् / सच्छिद्रकुम्भजलवन्न स्मृताववतिष्ठते // bca_5.25 //

न विद्यते संप्रजन्यं यस्मिंस्तदसंप्रजन्यम् / तच्चित्तं यस्य तस्य / श्रुतचिन्ताभावनामयप्रज्ञापरिनिष्ठितं वस्तु न स्मरणमधिवसति / तन्मूलं च सर्वं कल्याणम् / किमिव? यथा सच्छिद्रकुम्भे मुखनिक्शिप्तमुदकमधस्ताद्गच्छति नावतिष्ठते //

इदमपरं तद्वयतिरेके दूषणमाह-

अनेके श्रुतवन्तो ऽपि श्राद्धा यत्नपरा अपि / असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः // bca_5.26 //

बहवो ऽपि बहुश्रुताः तथा श्रद्धावन्तो यत्नपराः शिक्षायामादरकारिणः असंप्रजन्यदोषेण आपत्तिकलुषिता भवन्ति कायचित्तप्रचाराप्रत्यवेक्षणात् //

अपरमपि तदभावे दूषणमाह-

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा / उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् // bca_5.27 //

असंप्रजन्यमेव संप्रजन्याभावः क्लेशस्वभावश्चौरः कुशलधनापहरणात् / तेन स्मृतिमोषानुसारिणा रक्षपालभूतायाः स्मृतेः प्रमोषमभावमनुसृत्य मुषिता विलुप्तकुशलधनाः सन्तः उपचित्यापि पुण्यानि, कुशलधनानां संचयं कृत्वापि, दुर्गतिपरायणा भवन्ति //

कुतः पुनरेवमिति उक्तमेवार्थं स्पष्टयन्नाह-

क्लेशतस्करसंघो ऽयमवतारगवेषकः / प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् // bca_5.28 //

तस्कराश्चौराः तेषां संघातः अवतारगवेषकः पिशाचवदवतारमार्गप्रेक्षी / छिद्रान्वेषणतत्पर इत्यर्थः / प्राप्यावतारं प्रवेशमार्गमासाद्य मुष्णाति / ततो हन्ति शोभनगतये जीवितप्रतिलम्भं कुशलपाथेयाभावात् //

स्मृतिमधिकृत्याधुना प्राह-

तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन / गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् // bca_5.29 //

(bcp 58) यतः स्मृतेरभावे दूषणमेवं स्यात्, तस्मादिदमत्र दोषं पश्यता स्मृतिरालबम्नासंप्रमोषलक्षणा मनोद्वारात् मनोगृहप्रवेशमार्गात् नापनेया नापसार्या / सदा अवस्थापयितव्येत्यर्थः / अथ कदाचित् प्रमादतस्ततो ऽपगच्छेत्, तदा गतापि पुनर्निर्वर्त्योपस्थाप्या तत्रैवारोपयितव्या / कथम्? संस्मृत्य मनसि निधाय आपायिकीं नरकादिदुर्गतिव्यथाम् //

तत्र द्वादशेमाः स्मृतयो निष्फलस्पन्दवर्जनार्थं तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिप्रभृतयः शिक्षासमुच्चये प्रदर्शिताः, तत एव विवेकेनावधार्याः //

सापि स्मृतिस्तीब्रादरात्समुत्पद्यते / आदरो ऽपि शमथमाहात्म्यमवगम्य आतापेन जायते / एतच्च यथावसरं वक्ष्यामः //

केषांचित् पुनरन्यथापि स्मृतिरुत्पद्यते / तदुपदर्शयन्नाह-

उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम् / धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः // bca_5.30 //

आचार्योपाध्यायसंनिधौ तदन्यतमाराध्यब्रह्मचारिसंनिधौ वा संवसतां तदनुशासन्या, भीत्य तद्भयेनापि आदरः कार्येषु सर्वभावेनाभिमुख्यम्, अवज्ञाप्रतिपक्षो धर्मः / तत्कारिणां यत्नवतां सुकृतिनां तदनुशासनीं हिताहितविधिप्रतिषेधनियममनुगृह्णतामकृच्छ्रेणैव स्मृतिरुत्पद्यते //

इत्थमपि विहरन् स्मृतिमनसिकारबहुलविहारी भवतीति कारिकाद्वयेन दर्शयन्नाह-

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः / सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः // bca_5.31 //

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः / बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः // bca_5.32 //

सर्वदा बुद्धबोधिसत्त्वानां समस्तवस्तुविषयाप्रतिहतज्ञानचक्षुषां सर्वमेव वस्तुजातं पुरतो ऽवस्थितमेव / अहमपि तेषां पुरो ऽवस्थित एव, सर्ववस्तुवत् / इति मनसि निधाय तथैव संयतात्मा तिष्ठेत् / त्रपादरभयान्वितः / अप्रतिरूपे कर्मणि त्रपा लज्जा / शिक्षायामादरः, तदतिक्रमे भयम् / बुद्धबोधिसत्त्वेष्वेव वा त्रपादयः / एवं सति अपरो ऽपि विशेषः स्यादित्याह- बुद्धेत्यादि / तदेवं विहरतस्तस्य प्रतिक्षणमकामत एव बुद्धानुस्मृतिः स्यात् //

संप्रजन्यस्य उत्पत्तिस्थैर्ययोः स्मृतिरेव कारणमिति कथयन्नाह-

संप्रजन्यं तदायाति न च यात्यागतं पुनः / स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते // bca_5.33 //

यदा स्मृतिर्मनोगृहद्वारि क्लेशतस्करसंघातानुप्रवेशनिवारिणी दौवारिकवदवस्थिता भवति, तदा संप्रजन्यमयत्नत एवोत्पद्यते, उत्पन्नं च सत् स्थिरीभवति //

एवं तावदनयोरन्वयव्यतिरेकाभ्यां गुणदोषावभिधाय अनर्थविवर्जनार्थं निष्फलस्पन्दवर्जनमाह-

(bcp 59) पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् / निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा // bca_5.34 //

प्रथमं तावत् इदं चित्तमित्यध्यात्मनि चिन्तयति- सर्वकालमीदृशमुक्तक्रमयुक्तमुपस्थापयितव्यम् / ततः परं निष्फलस्पन्दवर्जनार्थमपगतकरणग्रामेणेव निष्फलरूपादिविषयग्रहणसर्वविकल्पोपसंहारात् मया स्थातव्यम् / किमिव? काष्ठवत्, चक्षुरादिव्यापारशून्यत्वात् //

इदमेव व्यनक्ति-

निष्फला नेत्रविक्षेपा न कर्तव्याः कदाचन / निध्यायन्तीव सततं कार्या दृष्टिरधोगता // bca_5.35 //

ईषन्मुकुलितपक्ष्मयुगला नासाग्रविनिवेशिता युगमात्रव्यवलोकिनी वा कार्या दृष्टिः //

प्रथमारम्भिणः संतताभ्यासेन क्लेशस्य परिहारार्थमाह-

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन / आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् // bca_5.36 //

दृष्टिचित्तपरिखेदपरित्यागाय कदाचित् कर्हिचित् दिशो व्यवलोकयेत् / अथ कदाचित् कश्चित् तत्समीपमागच्छेत्, तदा तस्य प्रतिच्छायामात्रं विदित्वा स्वागतवादेन संतोषणार्थं विलोकयेत् / अन्यथा तत्र तस्य अवध्यानेन अकुशलं प्रसवेत् //

मार्गे ऽपि तथादृष्टेर्गच्छत उपघातपरिहारार्थमाह-

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् / दिशो विश्रम्य वीक्षेत परावृत्यैव पृष्ठतः // bca_5.37 //

भयहेतुचौरादिप्रतिपत्त्यर्थं चतुर्दिशमिति क्रमेण / अन्यथा आत्मभावस्य रक्षा कृता न स्यात् / सर्वदिग्व्यवलोकनं तु क्रियमाणमौद्धत्योपघातपरिहारार्थं स्थित्वा कर्तव्यम् / पृष्ठतो व्यवलोकनं परावृत्य पश्चान्मुखीभूय //

असमाधानस्य च रक्षणामाह-

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च / एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् // bca_5.38 //

सरेत्पुरः अपसरेत्पश्चात् / प्रपाताद्युपघातं निरीक्ष्य च / एवमित्युक्तक्रमदिशा स्वपरहितप्रयोजनमवगम्य प्रतिपत्तिसारो भवेत् //

इदानीं संप्रजन्यकारितां शिक्षयितुमाह-

कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः / कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा // bca_5.39 //

चतुर्णामीर्यापथानामन्यतमस्मिन्नीर्यापथे / कायेनैवमिति स्थितेन निषण्णेन वा अवस्थेयमिति / तदनन्तरं स्वाध्यायादिक्रियामारभ्य पुनरन्तराले व्यवलोकितव्यं कथं कायः स्थित इति तस्मिन्नेवेर्यापथे, उत भिन्ने ईर्यापथे / भिन्ने पुनः पूर्ववदवस्थाप्यः //

(bcp 60) कायप्रत्यवेक्षामभिधाय चित्तप्रत्यवेक्षणामाह-

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा / धर्मचिन्तामहास्तम्भे यथा वद्धो न मुच्यते // bca_5.40 //

धर्मस्य स्वपरहितलक्षणस्य चिन्तैव महास्तम्भो वन्धनायत्तीकरणहेतुत्वात् //

तस्मिन् बद्धो ऽपि पुनः पुनर्निरूपणीय इत्याह-

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः / समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा // bca_5.41 //

क्व पुनरिदं मनो मम वर्तते, पूर्वस्मिन्नालम्बने अन्यत्र वा गतम् / गतमवगम्य ततो निर्वत्य तत्रैव योजयितव्यम् / स्वरसवाहितायामुपेक्षणीयम् / इति शमथधुरमेकमपि क्षणं यथा न परित्यजति तथा धारयितव्यम् / एतावता शीलं हि समाधिसंवर्तनीममित्युक्तं भवति / यथोक्तं चन्द्रप्रदीपसूत्रे-

क्षिप्रं समाधिं लभते निरङ्गणं विशुद्धशीलस्यिमि आनुशंसाः //

इति / [समाधि. 27.6]

अतो ऽवगम्यते- ये केचित् समाधिहेतवः प्रयोगाः, ते शीले ऽनुगता इति / तस्मात् समाध्यर्थिना स्मृतिसंप्रजन्यशीलेन भवितव्यम् / तथा शीलार्थिनापि समाधौ यत्नः कार्य इति //

समाधानपरित्यागावकाशमाह-

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् / दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् // bca_5.42 //

अग्निदाहादि भयम् / तथा रत्नत्रयपूजादिकृत उत्सवः / समधिकतरः सत्त्वार्थादिर्वा / तत्संभवे यदि स्थातुमशक्तः, तदा कामचार इत्यनुज्ञातम् / सापत्तिको न भवतीत्यर्थः / कुतः पुनरयमनियमो लभ्यत इत्याह- दानेत्यादि / शीलं यद्यपि दानात्प्रकृष्टम्, तथापि अवरशिक्षायां शिक्षमाणस्य तदनन्तरमेव उत्तरशिक्षावस्थितस्य अभ्यासपाटवाभावात् कथंचित् तावत्कालं ततो निवर्तमानस्यापि नापत्तिः / दानस्यासौ कालो न शीलस्य / अत एवोक्तम्- यद्यशक्त इति / एतावन्मात्रेणेदमुदाहरणम् / यथोक्तम्- तत्रैकस्यां शिक्षायां निष्पाद्यमानायामशक्तस्य इतरशिक्षानभ्यासादनापत्तिः / आर्याक्षयमतिसूत्रे ऽप्येवमवोचत्-

दानकाले शीलोपसंहारस्योपेक्षा / इति / न चातः शिथिलेन भवितव्यम् //

यत्र कुशलपक्षसंचारे ऽपि क्वचित् समाधानविघातः स्यात्, तन्नोपादेयमित्याह-

यद् बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत् / तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना // bca_5.43 //

(bcp 61) स्वयमेव तु युक्त्यागमाभ्यां कल्याणमित्रवचनाद्वा यथाबलमवधार्य यत्किंचित्कर्म कर्तुमारब्धं ध्यानाध्ययनादिकम्, प्रथमतस्तदेव तावन्निष्पत्तिं नेयं तन्निम्नेन चेतसा, न पुनस्तदनिष्पन्नमेव परित्यज्य परमारम्भणीयम् //

किं पुनरेवं स्याद्यदि न स्यादित्याह-

एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् / असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति // bca_5.44 //

यस्मादेवमनुतिष्ठतः सर्वं सुश्लिष्टं कृतं स्यात् / तद्विपर्यये पुनर्दुःश्लिष्टमुभयं पूर्वं चात्तं पश्चात् स्वीकृतं च स्यात् / चलप्रवृत्तेरसंप्रजन्यं स्यात् / प्रवेशे वृद्धिः स्यात् //

इत्थमपि निष्फलं वर्जयेदित्याह-

नानाविधप्रलापेषु वर्तमानेष्वनेकधा / कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् // bca_5.45 //

अनेकप्रकारे ऽसंबद्धाभिधाने ऽपरोपाधिके प्रवर्तमाने आश्चर्यवस्तुषु च समस्तेषु स्वयमपि तत्क्रियायां दर्शनश्रवणाय वाकूचित्तस्य तारतम्यं निवारयेत् //

अपरमपि निष्फलवर्जनाय प्रातिमोक्षोद्दिष्टमाचरेत् इत्याह-

मृन्मर्दनतॄणच्छेदरेखाद्यफलमागतम् / स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् // bca_5.46 //

भूमिफलकादिषु नखदण्डादिना रेखाकर्षणलेखनादि निष्प्रयोजनमागतमापतितं विवर्जयेत् भगवता अत्र निवृत्तिराज्ञप्तेति संस्मृत्य, तदतिक्रमविपाकफलभयात् / तत्क्षणमिति न तत्र कालपरिलम्भं कुर्यात् //

संक्लेशसमुदाचारे संप्रजन्यकारितां यदेत्यादिभिः सप्तभिः श्लोकैः शिक्षयितुमाह-

यदा चलितुकामः स्याद्वक्तुकामो ऽपि वा भवेत् / स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् // bca_5.47 //

प्रथमत एव स्वचित्तं निरूप्य / उक्तम् (?) असंक्लिष्टावस्थायां करणीयमुक्तम् //

एतदेव दर्शयति-

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः / न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा // bca_5.48 //

रक्तं द्विष्टं वा स्वचित्तं यदा पश्येत्, तदा हस्तपादादिचलनमात्रमपि न कर्तव्यम्, नापि वचनोदीरणम् / अन्यथा तदुत्थापिते कायवाग्विज्ञप्ती अपि संक्लिष्टे स्याताम् / अतो बहिरिन्द्रियव्यापारविकल्पावुपसंहृत्य स्थातव्यं काष्ठवत्तदा / सर्वव्यापारविरहान्निर्व्यापाराः सर्वधर्मा इति मनसि निधाय //

(bcp 62) अपरमाह-

उद्धतं सोपहासं वा यदा मानमदान्वितम् / सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् // bca_5.49 //

उद्धतमिति / सद्धर्मादिश्रवणप्रमादादपि उद्धतम् / विक्षेपबहुलमित्यर्थः / सोपहासं वाग्विहेठनारम्भकम्, तया युक्तं वा / मानश्चित्तस्योन्नतिः / मदः स्वधर्मे (?) चित्तस्याभिनिवेशः / ताभ्यामन्वितं तत्संप्रयुक्तम् / उत्प्रासः कायिकी विहेठना, तेन सहोत्कटम् / वक्रं कुटिलं शठं वा / वञ्चकं प्रतारकं मायावि वा / यदि मनो भवेत्, स्थातव्यं काष्ठवत्तदेति संबन्धः //

यदात्मोत्कर्षणाभासं परपंसनमेव वा / साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा // bca_5.50 //

आत्मोत्कर्षणं स्वगुणातिशयप्रकाशनम् / तदाभासं तत्प्रतिभासं तद्विकल्पनात् / परपंसनं परविग्रहः दोषाविष्करणं वा, तद्युक्तम् / अधिक्षेपः परस्य वचनतिरस्कारः / संरम्भः सदाकलिविवादनिमित्तचित्तप्रदोषः / उभयत्र सह तेन वर्तत इति विग्रहः / एवं यदा पश्येत्स्वकं मनः, स्थातव्यं काष्ठवत् तदेति सामान्योक्तमभिसंबध्यते //

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः / उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् // bca_5.51 //

कीर्तिर्यशः / परिवारः दासीदासकर्मकरादिः / उपस्थानं पादधावनमर्दनादि / एभिरर्थि तदभिलाषं मम चित्तम् / तस्मात्तिष्ठामि काष्ठवत् //

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा / वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् // bca_5.52 //

परार्थरूक्षं परार्थविमुखम् / स्वार्थार्थि स्वार्थाभिनिविष्टम् / परिषत् शिष्यान्तेवासिप्रभृतिजनसमाजः / तदभिलाषि तत्परिवारार्थि //

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा / स्वपक्षाभिनिविष्टं च तस्मात्तिष्ठामि काष्ठवत् // bca_5.53 //

असहिष्णु असहनशीलम् / अलसं क्रियासु अकर्मण्यम् / कुसीदमित्यर्थः / भीतं कायजीवितभीरु भयहेतुभ्यो वा / प्रगल्भं धृष्टम् / मुखरं दुर्वचस्कम्, युक्तायुक्तमनपेक्ष्य अभिधायकं वा / स्वपक्षेः शिष्यान्तेवासिज्ञातिसालोहितादौ अभिनिविष्टं पक्षपातातिशयवत् //

सांप्रतं प्रतिकारनिर्देशमाह-

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः / निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा // bca_5.54 //

उपदर्शितक्रमेण संक्लिष्टं संक्लेशसंप्रयुक्तं निष्फलव्यापारं वा ज्ञात्वा स्वचित्तं सर्वप्रवृत्तिनिगेधेन प्रभावमन्दतां विधाय निगृह्णीयादभिभवेत् / दृढं यथा पुनरपि समुदाचारधर्मकं (bcp 63) न भवति / क्लेशादिसंग्रामे विजयाय कृतपरिकरः शुरो बोधिसत्त्वः / प्रतिपक्षेण यो यस्मिन् प्रतिपक्ष उक्तः यथा रागादावशुभादि, तेन तद्विपरीतविधानेनेत्यर्थः / सदा सर्वकालम्, यदा यदा संक्लिष्टं प्रतीयते / उग्रपरिपृच्छायां गृहिणं बोधिसत्त्वमधिकृत्योक्तम्-

तेन सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यम्, अमत्तेन अनुन्मत्तेन अचपलेन अचञ्चलेन अभ्रान्तेन अमुखरेण अनुन्नतेन उपस्थितस्मृतिनाससंप्रजन्येन / इति //

अत्रैव च प्रव्रजितं बोधिसत्त्वमधिकृत्योक्तम्- स्मृति संप्रजन्यस्याविक्षेपः / इति //

तथा आर्यतथागतगुह्यसूत्रे दर्शितम्-

न खलु पुनः कुलपुत्र बोधिसत्त्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा क्षणव्याकरणी वा स्वपक्षोत्कर्षणवचना वा परपक्षनिग्रहवचना वा आत्मवर्णानुनयवचना वा परवर्णप्रतिघातवचना वा प्रतिज्ञोत्तारणवचना वा आभिमानिकव्याकरणवचना वेति //

एवं निष्फलस्पन्दवर्जनेन अनर्थादात्मभावस्य रक्षा प्रतिपादिता भवति / तस्मान्मया शीलसुस्थितेन अप्रकम्पेन अशिथिलेन भवितव्यमिति //

एतच्च समाहितचित्तस्य सिध्यति / अत इदं शमथमाहात्म्यमवगम्य तात्पर्येण भावयितव्यम् / अनेन तीव्र आदरो भवति शिक्शासु / तेनापि स्मृतिरुपतिष्ठते / उपस्थितस्मृतिर्निष्फलं वर्जयति / तस्य अनर्था न संभवन्ति / तस्मादात्मभावं रक्षितुकामेन स्मृतिमूलमन्विष्य नित्यमुपस्थितस्मृतिना भवितव्यम् / एतदेवाह-

तत्रात्मभावे का रक्षा यदनर्थविवर्जनम् / केन तल्लभ्यते सर्वे निष्फलस्पन्दवर्जनात् //

एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्भवेत् / आदरः शममाहात्म्यं ज्ञात्वातापेन जायते //

इति / [शिक्षा. स. कारिका-7-8]

शमथमाहात्म्यं तु यथावसरमिहैव कथयिष्यते //

अयमत्र पिण्डार्थः अनर्थविवर्जनार्थमवधारयितव्य इति वृत्तत्रितयेनोपदर्शयन्नाह-

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् / सलज्जं सभयं शान्तं पराराधनतत्परम् // bca_5.55 //

परस्परविरुद्धाभिर्बालेच्छाभिरखेदितम् / क्लेशोत्पादादिदं ह्येतदेषामिति दयान्वितम् // bca_5.56 //

आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु / निर्माणमिव निर्मानं धारयाम्येष मानसम् // bca_5.57 //

(bcp 64) सुनिश्चितं संदेहविपर्यासरहितम् / सुप्रसन्नं सदा प्रीतिसौमनस्यबहुलम् / धीरमचञ्चलम् / आदरः कथित एव / गौरवं आराध्येषु चित्तस्य नम्रता / ताभ्यां सह वर्तते / सलज्जं पूर्ववत् / सभयं स्खलित[मालोक्य] भीतम् / शान्तं संयतेन्द्रियम् / सत्त्वाराधनयत्नवत् //

यदेकस्य रुचिजनकं तदन्यस्य विपरीतम् / अन्योन्यविरुद्धाभिः पृथग्जनेच्छाभिरखेदितमविप्रतिसारि / कथम्? दयान्वितम् / हेतुपदमेतत् / कुतः? यस्मात् क्लेशोत्पादान्न स्वातन्त्र्यादिदमेतत् परस्परविरुद्धचरितमेषां बालानामिति मत्वा //

आत्मसत्त्ववशं स्वपरायत्तं सर्वकालम् / किं सर्वत्र? न / अनवद्येषु वस्तुषु उभयसावद्यशून्येषु / किंवत्? निर्माणमिव निर्मितवत् / विगतमानं मानसं धारयामि / एषो ऽहमिति बोधिसत्त्वो मनसि निवेशयेत् //

अस्मादपि संवेगमनसिकाराच्चित्तस्यानर्थविवर्जनेन रक्षा विधातव्येत्याह-

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः / धारयामीदृशं चित्तमप्रकम्प्यं सुमेरुवत् // bca_5.58 //

अतिचिरेण कालेन लब्धम् उक्तं क्षणवरं स्मरणेन चेतसि कृत्वा पुनः पुनरन्तरं स्थिरीकरोमि ईदृशमुक्तस्वभावम् / अप्रकम्प्यं कम्पयितुमशक्यं कामादिवितर्कपवनैः पर्वतराजवत् //

एवमेताभ्यां शीलसमाधिभ्यामन्योन्यसंवर्धकाभ्यां चित्तकर्मपरिनिष्पत्तिः / तस्मादवस्थितमेतत्- चित्तपरिकर्मैव बोधिसत्त्वशिक्षा इति / तेन यदुक्तम्-

चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः / [बोधि. 5.18]

इति, तत् परिनिष्ठितम् //

पुनस्तदेकान्तमवधारयितुं कायप्रत्यवेक्षामाह-

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः / न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् // bca_5.59 //

कायस्य सर्वथा क्वचिदपि व्यापारो नास्ति, स्वात्मन्यपि सामर्थ्याभावात् / अन्यथा चित्तरहितो मृतस्य कायः / गृध्रादिभिर्विप्रलुज्यमान इतस्ततः प्रतिकारमात्मरक्षणार्थं किमिति न करोतीति पृच्छति सर्वसामर्थ्यविकलत्वात् / अत एव चित्तपरिकर्मैव साध्यम् / तस्मिन् परिकर्मिते कायस्य अयत्नत एव परिकर्मसिद्धेः, तत्परतन्त्रत्वात्तस्येत्युक्तं भवति //

एवं सर्वथानुपयोगिनि काये सापेक्षतां निरस्यन्नाह-

रक्षसीमं मनः कस्मादात्मीकृत्य समुच्छ्रयम् / त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः // bca_5.60 //

(bcp 65) हे मनः, अनात्मकमेव आत्मत्वेन स्वीकृत्य मांसास्थिपुञ्जं कायसंज्ञकं कस्मात्कारणात् त्वं रक्षसि? किमेवमिति चेत्, भवतो यदि भिन्न एवायं कायः, तेन अस्यापचये तव किमपचीयते?

पूर्वमेव चिरं स्वीकृत इति चेदाह-

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम् / अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् // bca_5.61 //

हे मूढ, मोहविजृम्भितमेतद् भवतः / शुचिं पवित्रम् / अयं च अशुचिः / इदमेवाह- अमेध्येति / पूतिकं शतनधर्मकम् //

स्यादेतत्- किमन्यस्मिन्नसन्नपि दोष उच्यते इत्यत्राह-

इमं चर्मपुटं तावत्स्वबुद्धयैव पृथक्कुरु / अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय // bca_5.62 //

अस्थीन्यपि पृथक्कृत्वा पश्य मज्जानमन्ततः / किमत्र सारमस्तीति स्वयमेव विचारय // bca_5.63 //

चर्ममयं पुटम् / स्वमतिविशेषेण पृथक् कुरु स्वकायादपसारय / अस्थिघटितपञ्जराद् यन्त्रात् प्रज्ञात्मकेन शस्त्रेण मांसकर्तनेन / तदनन्तरमस्थीन्यपि खण्डशः पृथग् भिन्नानि कृत्वा मज्जानं पश्य अवलोकय / यदि अन्तरं कायः चतुर्महाभूतिकः मातपित्रशुचिकललसंभूतः दुःखमयः कृतघ्नश्चेति विस्तरेण प्रतिपादयिष्यतीति किमत्र सारमस्ति विज्ञप्रशस्तं न्याय्यं वा, इत्यात्मनैव विचारय //

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते / अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि // bca_5.64 //

एवं कथितनयेन / साधूक्तमिति चेत्, अधुना वद कस्मात् त्वमद्यापि सर्वगुणविकलमपि कायं रक्षसि? एवं विद्वानपि //

तथापि अस्ति किंचिदत्रोपादेयमिति चेदाह-

न खादितव्यमशुचि त्वया पेयं न शोणितम् / नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि // bca_5.65 //

यदस्ति, न तदुपयुक्तमिति संक्षेपार्थः / अतः किमनुपयोगिना कायेन करिष्यसि? अत्र आसङ्गो न युक्त इत्यर्थः //

अन्यप्रयोजनाभावादिदमेवोचितमुत्पश्यामः इत्याह-

युक्तं गृध्रशृगालादेराहारार्थं तु रक्षितुम् / कर्मोपकरणं त्वेतन्मनुष्याणां शरीरकम् // bca_5.66 //

(bcp 66) यस्मात् कर्मणि केनचित् सहकारिभावेनोपयुज्यते इति रक्ष्यते //

तथापि नात्राभिनिवेशः कार्य इत्याह-

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः / कायं दास्यति गृध्रेभ्यस्तदा त्वं किं करिष्यसि // bca_5.67 //

आच्छिद्येति बलात् / भवतो गृहीत्वा निष्कृपो मृत्युस्तव कायं गृध्रेभ्यो दास्यति, तदापि न कश्चित्प्रतिकारो भविष्यति इत्यभिप्रायः //

स्यादेतत्- यद्यपि एवम्, तथापि भक्ताच्छादनमात्रेणापि परिपालनीय इत्यत्राह- न

स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते / कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् // bca_5.68 //

यदि नाम भृत्यकर्मकरणं तथापि तत्रानवस्थायिस्वभावे विचक्षणो ज्ञात्वैव प्रवर्तते, एवं प्रकृते ऽपि तद्धर्मिणि केनाभिप्रायेण हे मनः, त्वं कुरुषे व्ययमुपकरणोपक्षयम्?

तत् किं सर्वथैव निरवकाशो ऽयं कर्तव्यः? नेत्याह-

दत्वास्मै वेतनं तस्मात्स्वार्थं कुरु मनो ऽधुना / न हि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते // bca_5.69 //

वेतनं कर्ममूल्यम् / तावन्मात्रं दत्वा अस्मै गत्वरशरीराय, कर्मोपकरणत्वात्, स्वप्रयोजनमनुविधेयं हे मनः / अनेनैवोपार्जितं कस्मादस्मै न दीयते इति चेत्, न हि यस्मात् यत्किंचित् कर्मकरेणोपात्तं सर्वं तस्मै कर्मकराय प्रदीयते इति न्यायो ऽस्ति //

तस्मादेवमुपस्तम्भमात्रं दत्वा-

काये नौबुद्धिमाधाय गत्यागमननिश्रयात् / यथाकामंगमं कायं कुरु सत्त्वार्थसिद्धये // bca_5.70 //

काये नौबुद्धिं कृत्वा प्रवृत्तिनिवृत्तिहेतोः इच्छायत्तं कायं कुरु सत्त्वार्थानुष्ठानाय निष्पत्तये वा / हे मनः इति प्रकृतमभिसंबध्यते //

इति कायप्रत्यवेक्षया तत्स्वभावमुपयोगं च विचार्य परिनिश्चितकायप्रयोजनमुपसंहरन्नाह-

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् / त्यजेद् भृकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् // bca_5.71 //

उक्तनीत्या आयत्तीकृतः आत्मा चित्तकायलक्षणः / सर्वदा प्रसन्नवदनो भवेत् / भ्रूललाटसंकोचं च प्रसादहानिकरं त्यजेत् / पूर्वमेव असंचोदित एव परेण स्वागतादिवादैः संतोषणशीलो भवेत् / सर्वसत्त्वानामकारणबान्धवश्च //

इत्यपि शिक्षा अनर्थवर्जनाय कार्येत्याह-

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् / नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा // bca_5.72 //

(bcp 67) सहसा त्वरितमेव निष्प्रयोजनं हस्तदण्डादिना कपाटं च नाकोटयेत् / संक्षेपतः निःशब्दाभिरतिर्भवेत् //

कः एवं सति गुणः स्यादित्याह-

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् / प्राप्नोत्यभिमतं कार्यमेवं नित्यं यतिश्चरेत् // bca_5.73 //

एते सर्वे निःशब्दा अनुद्धताश्च विहरन्तो विवक्षितमर्थं लभन्ते / व्रतिनापि तथैव समाधानकण्टकपरिहारेण विहर्तव्यम् //

इत्यपि शिक्षितव्यमित्याह-

परचोदनदक्षाणामनधीष्टोपकारिणाम् / प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् // bca_5.74 //

कौकृत्यविनोदनाववादानुशासनीसमर्थानां विनयादिकोविदानाम् अप्रार्थितहितैषिणां हितविधायकं वचनं मूर्ध्ना गृह्णीयात् / न तेषु स्वचित्तं दूषयितव्यम्, नाप्यवमानना कार्येति भावः / सर्वसत्त्वेषु गुरुगौरवधिया समाचरितव्यमिति सर्वं सर्वेभ्यः शिक्षेत् //

ईर्ष्यामलप्रक्षालनामाह-

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् / पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् // bca_5.75 //

परकीयगुणवर्धनवचनेषु तत्परितोषणाय साधु साधु, भद्रकमिदम्, इति शब्दमध्याशयेनोच्चारयेत् / कुशलकर्मकारिणमपि दृष्ट्वा साधु कृतम्, धन्यो भवान् सुकृतकर्मकारी, इत्यादिभिः स्तुतिवचनैः प्रोत्साहयेत् //

लपनाशङ्कां निरस्यन्नाह-

परोक्षं च गुणान् ब्रूयादनुब्रूयाच्च तोषतः / स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् // bca_5.76 //

परगुणान् सद्भूतानपि परोक्षं ब्रूयान्न समक्षम् / अन्यथा लपनां कश्चिन्मन्येत / परेण तु तत्समक्षमन्यस्य गुणे भाष्यमाणे तदनुवादकतया समक्षमपि ब्रूयात् / अन्यथा नास्य रूचिरत्रेति मत्वा स्वचित्तं प्रदूषयेत् परः / स्वगुणे पुनः केनचिद् गुणपक्षपातिना प्रसन्नेन समक्षं परोक्षं च कीर्त्यमाने चित्तस्योन्नतिं निवारयंस्तस्यैव गुणाभिधायकस्य गुणानुरागितां मनसि कुर्यात् //

परगुणामर्षणं वारयन्नाह-

सर्वारम्भा हि तुष्टयर्थाः सा वित्तैरपि दुर्लभा / भोक्ष्ये तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः // bca_5.77 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.