Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

Patna धर्मपद

Thông tin
GRETIL — Margaret Cone: "Patna Dharmapada, Part I: Text", JPTS 13 (1989), pp. 101-217.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

319 ध्प्104 आत्ता हि वरं दान्तो यच्छायम् इतरा प्रजा । आत्तदान्तस्स पोषस्स सदा संय्यतचारिणो ॥

उव्23:4 आत्मा ह्य् अस्य जितः श्रेयां यच् चेयम् इतराः प्रजाः । आत्मदान्तस्य पुरुषस्य नित्यं संवृतचारिणः ॥

320 ध्प्105 नेव देवा न गन्धब्बा न मारो सह ब्रह्मुणा । जितं अपजितं कयिरा तथरूपस्स जन्तुनो । उव्23:5 न देवा नापि गन्धर्वा न मारो ब्राह्मुणा सह । जितस्यापजितं कुर्युस् तथा प्राज्ञस्य भिक्षुणः ॥

321 ध्प्160 आत्ता हि आत्तनो नाथो को हि नाथो परो सिया । आत्तना हि सुचिन्नेन नाथं लभति दुल्लभं ॥

उव्23:11 आत्मा त्व् इहात्मनो नाथः को नु नाथः परो भवेत् । आत्मना हि सुदान्तेन नाथं लभति पण्डितः ॥

322 ध्प्380 आत्ता हि आत्तनो नाथो आत्ता हि आत्तनो गती । तस्सा संय्यमया ऽत्तानं अश्शं भद्रं व वाणिजो ॥

उव्19:14 आत्मैव ह्य् आत्मनो नाथः आत्मा शरणम् आत्मनः । तस्मात् संयमयात्मानं भद्राम् इव सारथिः ॥

323 आत्तानम् एव दमये अश्शसुगतिया सदा । दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥

ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो । उव्19:13अब् आत्मानम् एव दमयेद् भद्राश्वम् इव सारथिः । (दंम शंम उज्जुं होहि(होति) ततो अकुटिलो भव ॥

ततो दान्तो सुखी होहि(होति) अनुपादाय निवृतो ।)

324 ध्प्379 आत्तना चोदया ऽत्तानं परिमशात्तानम् आत्तना । सो आत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि ।

325 ध्प्166 आत्तदात्थं परात्थेन बहुना पि न हापये । आत्तदात्थं परं ञात्ता सदात्थपरमो सिया ॥

उव्23:10 आत्मनो ऽर्थं परार्थेन बहुनापि न हापयेत् । आत्मार्थं परमं ज्ञात्वा स्वकार्थपरमो भवेत् ॥

326 ध्प्84 नेवात्तहेतो न परस्स हेतो न सग्गम् इच्छे न धनं न राष्टं । नेच्छे अधम्मेण समृद्धिम् आत्तनो सो शीलवा प्रंञवा धांमिको सिया ॥

आत्तवर्ग्गः

***** ददन्ती *****

327 ध्प्249 ददन्ति वे यथाश्रद्धं यथाप्रसदनं जना । तत्थ यो दुंमनो होति परेसं पानभोजने । न सो दिवा च रात्तो च समाधिम् अधिगच्छति ॥

उव्10:12 ददन्त्य् एके यथा श्रद्धा यथाविभवतो जनाः । तत्र यो दुर्मना भवति परेषां पानभोजने । नासौ दिवा च रात्रौ च समाधिम् अधिगच्छति ॥

328 ध्प्250 यस्स चेतं समुच्छिन्नं मूलो ऽग्घच्चतं । स वे दिवा च रात्तो च समाधिम् अधिगच्छति ॥

उव्10:13 यस्य त्व् एते समुच्छिन्नास् तालमस्तकवद् धताः । स वै दिवा च रात्रौ च समाधिम् अधिगच्छति ॥

329 ध्प्143अ-द्,144अब् अश्शो व भद्रो कषाय पुट्ठो आतापिनो सविंगणो चराणो । श्रद्धाय शीलेन च वीरियेण च समाधिना धम्मविपश्शनाय च । ते खान्तिसोरच्छसमाधिसंठिता शुतस्स प्रंञाय च सारम् अज्झगू ॥

उव्19:1,2(?) भद्रो यथाश्वः कशयाभिस्पृष्ट ह्य् आतापिनः संविजिताश् चरेत । श्राद्धास् तथा शीलगुणैर् उपेतः समाहितो धर्मविनिश्चयज्ञः । संपन्नविद्याचरणः प्रतिस्मृतस् तायि स सर्वं प्रजहाति दुःखम् ॥

330 यो द्रिष्टे धंमे लभति श्रद्धां प्रंञां अनुत्तरां । स वे महद्धनो लोके मोहम् अंञं बहुं धनं ॥

उव्10:9 यो जीवलोके लभते श्रद्धां प्रज्ञां च पण्डितः । तद् धि तस्य धनं श्रेष्टं हीनम् अस्येतरद् धनम् ॥

331 ध्प्303 श्रद्धो शीलेन संपन्नो यशभोगसमाहितो । यं यं सो भजते देशं तत्थ तत्थेव पूजितो ॥

उव्10:8 श्राद्धः शीलेन संपन्नस् त्यागवां वीतमत्सरः । व्रजते यत्र यत्रैव तत्र तत्रैव पूज्यते ॥

332 श्रद्धबितियं पुरुषं चरन्तं न नं लभेया अश्रद्धो व चारो । यशो चकित्ती च ततो नम् एति सग्गं च गच्छे शरीरं प्रहाय ॥

333 ध्प्97 अश्रद्धो अकतंञू च संधिच्छेदो च यो नरो । हतावकाशो वान्ताशो स वे उत्तिमपोरुषो ॥

उव्29:23 अश्रद्धश् चाकृतज्ञश् च संधिच्छेत्ता च यो नरः । हतावकाशो वान्ताशः स वै तूत्तमपूरुषः ॥

334 ध्प्182 किच्छो बुद्धान उप्पादो किच्छा धम्मस्स देशना । किच्छो श्रद्धपटीलाभो किच्छं माच्चान जीवितं ॥

335 ध्प्38 अनवट्ठितचित्तस्स सद्धंमम् अविजानतो । पारिप्लवप्रसादस्स प्रंञा न परिपूरति ॥

उव्31:28 अनवस्थितचित्तस्य सद्धर्मम् अविजानतः । पारिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥

336 नाप्रसन्नचित्तेन दुष्टेन कुपितेन वा । शक्कं आजानितुं धम्मो सारंभबहुलेन वा ॥

उव्31:25 नाप्रसन्नेन चित्तेन दुष्टेन क्षुभितेन वा । धर्मो हि शक्यम् आज्ञातुं संरम्भबहुलेन वा ॥

337 यो तु विनीय सारंभं अप्रसादं च चेतसो । प्रसन्नचित्तो सुमनो स वे न्याय्या सुभाषितं ॥

उव्31:26 विनीय यस् तु संरम्भम् अप्रसादं च चेतसा । आघातं चैव निःसृज्य प्रजानीयात् सुभाषितम् ॥

338 ध्प्178 मनुष्यपटिलाभेन सग्गानां गमनेन च । पृथिव्याम् एकराज्जेन सोतापत्तिफलं वरं ॥

339 यस्स श्रद्धा तथागते अचाला सुप्रतिष्ठिता । शीलञ् च यस्स कल्लाणं अयिरकान्तं प्रशंसियं ॥

340 संघे प्रसादो यस्स अस्ति उज्जुभूतञ् च दंशनं । अदरिद्रो ति तम् आहु अमोघं तस्स जीवितं ॥

341 तस्सा श्रद्धञ् च शीलं च प्रसादं धम्मदंशने । अनुयुञ्जेय मेधावी सरं बुद्धान शासनं ॥

ददन्तीवर्ग्गः

***** चित्त *****

342 ध्प्33 फन्दनं चपलं चित्तं दुरक्खं दुन्निवारयं । उज्जुं करोति मेधावी उषुकारो व तेजना ॥

उव्31:8 स्पन्दनं चपलं चित्तं दुरक्ष्यं दुन्निवारणं । ऋजुं करोति मेधावी इषुकारो इव तेजसा ॥

343 ध्प्34 वारिजो व थले खित्तो ओकमोकातु उब्भतो । परिफन्दतिमं चित्तं मारधेयं प्रहातये ॥

उव्31:2 वारिजो वा स्थले क्ष्प्तो ओकाद् ओघात् समुद्धृतः । परिस्पन्दति वै चित्तं मारधेयं प्रहातवै ॥

344 ध्प्37 दूरंगमं एकचरं अशरीरं गुहाशयं । ये चित्तं संय्यमेहिन्ति मोक्खंते मारबंधना ॥

345 ध्प्35 दुन्निग्ग्रहस्स लघुनो यत्थकामनिपातिनो । चित्तस्स दमथो साधु चित्तं दान्तं सुखावहं ॥

उव्31:1 दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥

346 ध्प्36 सुदुद्दशं सुनिपुणं यथकामनिपातिनं । चित्तं रक्खेय मेधावी तद्<अ>हि गुत्तं सुखावहं ॥

347 ध्प्39 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥

उव्28:6 अनपाश्रयमाणस्स अनन्वाहतचेतसो । हेत्ता कल्लाणपानि नास्ति जागरतो भयं ॥

348 ध्प्79 धम्मप्रीतिरसं पाता विप्रसन्नेन चेतसा । अयिरप्रवेदिते धम्मे सदा रमति पण्डितो ॥

उव्30:13 धर्मप्रीतिः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे रमते पण्डितः स्मृतः ॥

349 ध्प्41 अचिरा वत अयं कायो पठविं अभिशेहिति । छूडो अपेतविंन्याणो निरात्थं वा कटिंगरं ॥

उव्1:35 अचिरं बत कायो ऽयं पठिवीम् अभिशेष्यते । शुन्यो व्यपेतविज्ञाणो निरास्तं वा कडङ्गरम् ॥

350 ध्प्40 कुंभोपमं कायम् इमं विदित्ता नगरोपमं चित्तम् अधिष्ठित्ता । योधेय मारं प्रंञायुधेन जितं च रक्खे अनिवेशनो सिया ॥

उव्31:35 कुम्भोपमं कायम् इमं विदित्वा नगरोपमं चित्तम् अधिष्ठितं च । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेद् अनिवेशनः स्यात् ॥

351 ध्प्13 यथा अगारं दुच्छन्नं वट्ठी समिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥

उव्31:11 यथा ह्य् अगारं दुच्छन्नं वृष्टिः समतिभिन्धति । एवं ह्य् अभावितं चित्तं रागः समतिभिन्दति ॥

352 ध्प्14 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं रागो न समितिविज्झति ॥

उव्31:17 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं रागो न व्यतिभिन्दति ॥

353 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं रागो समितिविज्झति ॥

उव्31:12 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं द्वेषः समतिभिन्दति ॥

354 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं दोषो न समितिविज्झति ॥

उव्31:18 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न व्यतिभिन्दति । एवं सुभावितं चित्तं द्वेषो न व्यतिभिन्दति ॥

355 यथा अगारं दुच्छन्नं वट्ठी समितिविज्झति । एवं अभावितं चित्तं मोहो समितिविज्झति ॥

उव्31:13 यथा ह्य् अगारं दुच्छन्नं वृष्टिर् समतिभिन्दति । एवं ह्य् अभावितं चित्तं मोहः समतिभिन्दति ॥

356 यथा अगारं सुच्छन्नं वट्ठी न समितिविज्झति । एवं सुभावितं चित्तं मोहो न समितिविज्झति ॥

उव्31:19 यथा ह्य् अगारं सुच्छन्नं वृष्टिर् न समतिभिन्दति । एवं सुभावितं चित्तं मोहो न व्यतिभिन्दति ॥

357 ध्प्183 सब्बपापस्स अकरणं कुशलस्स अपसंपदा । सचित्तपयिरोदमनं एतं बुद्धान शासनं ॥

उव्28:1 सर्वपापस्यआकरणं कुशलस्योपसंपदः । स्वचित्तपर्यवदनम् एतद् बुद्धस्य शासनम् ॥

चित्तवर्ग्गः

***** माग्ग *****

358 ध्प्273 माग्गानष्टंगिको श्रेष्ठो सच्चानां चतुरो पदा । विरागो श्रेष्ठो धम्माणां दुपदानां च चक्खुमा ॥

उव्12:4 मार्गेषु अष्टाङ्गिकः श्रेष्ठश् चत्वार्य् आर्याणि सत्यतः । श्रेष्ठो विरागो धर्माणां चक्षुमां द्विपदेषु च ॥

359 ध्प्275च्द्,276 आक्खातो वो मया माग्गो अंञाये शल्लसःसनो । तुब्भेहि किच्चम् आतप्पं अक्खातारो तथागता । पटिपन्ना प्रमोक्खन्ति झायिनो मारबंधना ॥

उव्12:9अ-द्,12:11द् आख्यातो वो मया मार्गस् त्व् अज्ञायै शल्यकृन्तनः । युष्माभिर् एव करणीयम् आखातारस् तथागताः । प्रतिपन्नकाः प्रहास्यन्ति ध्यायिनो मारबन्धनम् ॥

360 ध्प्274,275अब् एसेव माग्गो नास्तं ऽञो दंशनस्स विशुद्धिये । तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥

उव्12:11अब् एषो हि मार्गो नास्त्य् अन्यो दर्शनस्य विशुद्धये । (तं माग्गं पटिपज्जह्वो मारस्से ऽसा प्रमोहनी । एताहि तुब्भे पटिपन्ना दुक्खस्स अन्तं करिष्यथ ॥)

361 ध्प्283 वनं छिन्दथ मा रुक्खे वनो जायते भयं । छेत्ता वनञ् च वनधञ् च निब्बनेन गमिश्शथ ॥

उव्18:3 वनं छिन्दत मा रुक्षं वनाद् वै जायते भयम् । छित्वा वनं च समूलं तु निर्वणा भवत भिक्षवः ॥

362 ध्प्284 यावता वनधो न च्छिज्जति अणुमात्तो पि नरस्स ञातिसु । पटिबद्धमनो हि तत्थ सो वच्छो च्छीरवको व मातरि ॥

उव्18:4 न छिद्यते यावता वनं ह्य् अनुमात्रम् अपि नरस्य बन्धुषु । प्रतिबद्धमनाः स तत्र वै वत्सः क्षीरपक इव मातरम् ॥

363 ध्प्285 उच्छिन्न सिनेहम् आत्तनो कुमुदं शारदिकं व पाणिना । शान्तिमाग्गम् एव ब्यूहय निब्बाणं सुगतेन देशितं ॥

उव्18:5 उच्छिन्धि हि स्नेहम् आत्मनः पद्मं शारदकं यथोदकात् । शान्तिमार्गम् एव बृंहयेन् निर्वाणं सुगतेन देशितम् ॥

364 ध्प्286 इदं वश्शा करिष्यामि इदं हेमंन गृह्मसु । इति बालो विचिंतेति अन्तरायं न बुज्झति ॥

उव्1:38 इह वर्षं करिष्यामि हेमन्तं ग्रीष्मम् एव च । बालो विचिन्तयत्य् एवम् अन्तरायं न पश्यति ॥

365 ध्प्287 तं पुत्तपशुसंमत्तं व्यासत्तमनसं नरं । सुत्तं ग्ग्रामं महोघो वा मच्चु-र्-आदाय गच्छति ॥

उव्1:39 तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघैव मृत्युर् आदाय गच्छति ॥

366 ध्प्288 न सन्ति पुत्ता त्ताणाय न पिता नो पि भातरो । अन्तकेना ऽधिभूतस्स नास्ति ञातीसु त्ताणता ॥

उव्1:40 न सन्ति पुत्रास् त्राणाय न पिता नापि बान्धवाः । अन्तकेनाभिभूतस्य न हि त्राणा भवन्ति ते ॥

367 क्रन्दताम् एव ञातीनं विलपतां चेवम् एकतो । जना अन्तरहीयंति असकामा जहंति नं ॥

368 ध्प्289 एतं विदिय मेधावी प्रंञवा वीतमच्छरी । तं सग्गगमनं माग्गं निच्चम् एव विशोधये । उव्6:15 एतद् धि दृष्ट्वा शिक्षेत सदा शीलेषु पण्डितः । निर्वाणगमनं मार्गं क्षिप्रम् एव विशोधयेत् ॥

369 तस्सा हि पण्डितो पोषो संपश्शं अत्थम् आत्तनो । तं सग्गगमनं माग्गं निच्चम् एव विशोधये ॥

370 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । निच्चं माग्गं विशोधेति सच्छयनं सांपरायिकं ॥

371 श्रद्धो शीलेन संपन्नो प्रंञवा सुसमाहितो । रमते माग्गम् आसेवं अज्झत्तोपसमे रतो ॥

372 ध्प्31च्द् श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा । संयोजनम् अणुत्थूलं दहम् अग्गी व गच्छति । मानमक्खे व पापके ॥

उव्4:29च्द् (श्रद्धो शीलेन संपन्नो प्रंञावागरतो सदा ।) संयोजनम् अणुस्थूलं दहन्न् अग्निर् इव गच्छति । (मानमक्खे व पापके ॥)

373 ध्प्277 अनिच्चा सब्बसंखारा यतो प्रंञाय पश्शति । अथ निव्वण्डते दुक्खा एस माग्गो विशुद्धिये ॥

उव्12:5 अनित्यां सर्वसंस्कारां प्रज्ञाय पश्यते सदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥

374 ध्प्279 सब्बधंमा अनात्ता ति यतो प्रंञाय पश्शति । अथ निव्विण्डते दुक्खा एस माग्गो विशुद्धिये ॥

उव्12:8 सर्वधर्मा अनात्मानः प्रज्ञया पश्यते यदा । अथ निर्विद्यते दुःखाद् एष मार्गो विशुद्धये ॥

375 ध्प्282 योगा हि भूरी संभवति अयोगा भूरिसंखयो । एतं जेथापथं ञात्ता भवाय विभवाय च । तथा शिच्छेय मेधावी यथा भूरी प्रवद्धति ॥

उव्29:40 योगाद् भवः प्रभवति वियोगाद् भवसंषयः । एतद् द्वैधापथं ज्ञात्वा भवाय विभवाय च । तत्र शिक्षेत मेधावी यत्र योगान् अतिक्रमेत् ॥

माग्गवग्गः

***** सहस्र *****

376 ध्प्100 सहस्रम् अपि चे वाचा अनत्थपदसाहिता । एकं अत्थपदं श्रेयो यं शोत्ता उपशांमति ॥

377 ध्प्102 यो च गाथाशतं अनत्थपदसाहितं । एकं धमपदं श्रेयो यं शोत्ता उपशाम्मति ॥

उव्24:1,2 यच् च गाथाशतं अनर्थपदसंहितम् । एकं धर्मपदं श्रेयो यच् छ्रुत्वा ह्य् उपशाम्यति ॥

378 ध्प्103 यो सहस्रं सहस्राणां संग्ग्रामे मानुषे जिने । एकं च पंञम् आत्तानं स वे संग्ग्राममुत्तमो ॥

उव्23:3 यः सहस्रं सहस्राणां संग्रामे द्विषतां जयेत् । यश् चात्मानं जयेत् एकं संग्रामो दुर्जयः स वै ॥

379 dhp106c-f मासे मासे सहस्रेण यो यजेय शतं समा । एकं च भावि<त्त>तात्तानं मुहुत्तम् अपि पूजये । सा एव पौजना श्रेयो यच् छ वश्शशतं हुतं ॥

uv24:16c-f (māse māse sahasreṇa yo yajeya śataṃ samā |) यच् वैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्टता न तद् वर्षशतं हुतम् ॥

380 ध्प्107 यो च वश्शशतं जन्तू अग्गिं परिचरे वने । एकञ् च भावितात्तानं मुहुत्तम् अपि पूजये । सा एव पूजना श्रेयो यच् छ वश्शशतं हुतं ॥

उव्24:16 यच् च वर्षशतं पूर्णम् अग्निं परिचरेद् वने । यच् चैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् । सा तस्य पूजना श्रेष्ठा न तद् वर्षशतं हुतम् ॥

381 ध्प्108 यं किंचि यष्टं व हुतं व लोके संवत्सरं यजते पुंञपेखी । सब्बं पि तं न चतुब्बागं एति अभिवादना उज्जुगतेसु श्रेयो ॥

382 मासे मासे सहस्रेण यो यजेय शतं समा । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:21 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

383 मासे मासे सहस्रेण यो यजेय शतं समा । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:22 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

384 मासे मासे सहस्रेण यो यजेय शतं समा । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

385 मासे मासे सहस्रेण यो यजेय शतं समा । न तं साखातधंमानां कलाम् अग्घति षोडशिं ॥

उव्24:21-23 मासे मासे सहस्रेण यो यजेत समाशतम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

386 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं बुद्धे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:17 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

387 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं धम्मे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:18 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् धर्मे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

388 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं संघे प्रसादस्स कलाम् अग्घति षोडशिं ॥

उव्24:19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् संघे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

389 ध्प्70 मासे मासे कुशाग्ग्रेण बालो भुञ्जेय भोजनं । न तं साक्खातधंमाणां कलाम् अग्घति षोडशिं ॥

उव्24:17-19 मासे मासे कुशाग्रेण यो हि भुञ्जीत भोजनम् । न तद् बुद्धे प्रसादस्य कलाम् अर्घति षोडशीम् ॥

390 ध्प्110 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो शीलवन्तस्स झायतो ॥

उव्24:3 यच् च वर्षशतं जीवेद् दुःशीलो ह्य् असमाहितः । एकाहं जीवितं श्रेयः सदा शीलवतः शुचेः ॥

391 ध्प्111 यो च वश्शशतं जीवे दुश्शीलो असमाहितो । एकाहं जीवितं श्रेयो प्रंञवन्तस्स झायतो ॥

उव्24:4 यच् च वर्षशतं जीवेद् दुष्प्रज्ञो असमाहितः । एकाहं जीवितं श्रेयः प्राज्ञस्य ध्यायिनः सदा ॥

392 ध्प्112 यो च वश्शशतं जीवे कुसीदो हीनवीरियो । एकाहं जीवितं श्रेयो वीर्य्यम् आरभतो दृडं ॥

उव्24:5 यच् च वर्षशतं जीवेद् कुसीदो हीनवीर्यवान् । एकाहं जीवितं श्रेयो वीर्यम् आरभतो दृढम् ॥

393 ध्प्113 यो च वश्शशतं जीवे अपश्शं उदयव्ययं । एकाहं जीवितं श्रेयो पश्शतो उदयव्ययं ॥

उव्24:6 यच् च वर्षशतं जीवेद् अपश्यन्न् उदयव्ययम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् उदयव्ययम् ॥

394 ध्प्115 यो च वश्शशतं जीवे अपश्शं धम्मं उत्तमं । एका ऽहं जीवितं श्रेयो पश्शतो धम्मं उत्तमं ॥

395 ध्प्114 यो च वश्शशतं जीवे अपश्शं अमतं पदं । एका ऽहं जीवितं श्रेयो पश्शतो अमतं पदं ॥

उव्24:15 यच् च वर्षशतं जीवेद् अपश्यन्न् अमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् अमृतं पदम् ॥

396 यो च वश्शशतं जीवे सद्धंमे अप्रतिष्ठितो । एका ऽहं जीवितं श्रेयो सधंमं इह विजानतो ॥

397 यो च वश्शशतं जीवे अप्राप्य आसवक्खयं । एका ऽहं जीवितं श्रेयो प्राप्यतो आसवक्खयं ॥

उव्24:8 यच् च वर्षशतं जीवेद् अपश्यन्न् आस्रवक्षयम् । एकाहं जीवितं श्रेयः पश्यतो ह्य् आसवक्षयम् ॥

सहस्रवर्ग्गः

***** [उरग] *****

398 यो ना ऽज्झगमी भवेसु सारं विचिनं पुष्पं इव उदुम्बरेसु । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्18:21 यो नाध्यगमद् भवेषु सारं बुद्ध्वा पुष्पम् उदुम्बरेस्य यद्वत् । स तु भिक्षुर् इदस्ं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

399 यो उप्पतितं विनेति रागं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराण्ज्ं ॥

400 यो उप्पतितं विनेति दोषं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराण्ज्ं ॥

401 यो उप्पतितं विनेति मोहं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराण्ज्ं ॥

402 यो उप्पतितं विनेति क्रोधं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराण्ज्ं ॥

403 यो उप्पतितं विनेति मानं विसटं सप्पविषम् व ओषधीहि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्32:65 यस् तूत्पतितं निहन्ति मानं विसृटं सर्पविषं यथौषधेन । सो तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

404 यो रागं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्18:21अ=32:56 यो रागम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

405 यो दोषं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्18:21ब्=32:57 यो द्वेषम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

406 यो मोहं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्18:24च्=32:58 यो मोहम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

407 यो क्रोधं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

408 यो मानं उदिच्छिया अशेषं बिसपुष्पं व सरेरुहं विगाह्य । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्18:21द्=32:59 यो मानम् उदाच्छिनत्त्य् अशेषं बिसपुष्पम् इव जलेरुहं विगाह्य । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

409 यो रागम् उदिच्छिया अशेषं कुश (क्रम)-संगानि व छेत्त (छेतु) बन्धनानि । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

410 यो तह्नम् उदिच्छिया अशेषं सरितां शीघरयां विशोधयित्ता । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्32:74 तृष्णां य उदाच्छिनत्त्य् अशेषं सरितां शीघरजवाम् अशोषयज्ञः । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

411 यो ना ऽच्चसरी न प्रेच्चसारी सब्बं वीतसरी इमं प्रपञ्चं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

412 यो ना ऽच्चसरी न प्रेच्चसारी सब्बं इदं वितधं ति मोषधंमं । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्32:55 यो नात्यसरं न चात्यलीयं ज्ञात्वा वितथम् इमं हि सर्वलोकम् । स तु भिक्षुर् इदं जहाति अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणम् ॥

413 यस्स वनथा न संति केचि विनिबंधाय भवाय हेतुकप्पा । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्32:78 यस्य हि वनसा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥

414 यस्स वनथा न सन्ति केचि मूला अक्कुशला समूहता ऽस्स । सो भिक्खु जहाति ओरपारं उरगो जिन्नम् इव त्तचां पुराणिं ॥

उव्32:79 यस्य ज्वरथा न सन्ति के चिन् मूलं चाकुशलस्य यस्य नष्टम् । स तु भिक्षुर् इदं जहात्य् अपारं ह्य् उरगो जीर्णम् इव त्वचं पुराणं ॥

समाप्ता धम्मपदा अमृतपदानि गाथाशतानि पञ्च द्वे च गाथे ॥ यथा दृष्टं तथा लिखितम् इति परिहारोयम् अस्मदीयः ॥ शुभं अस्तु सर्व्वसत्वानानं ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.