Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अवयविनिराकरण
- Tác giả
- पण्डिताशोक
- Thông tin
- GRETIL — Haraprasad Shastri: Six Buddhist Nyaya tracts in Sanskrit. Calcutta: The Asiatic Society, 1989, 1-114.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पण्डिताशोक: अवयविनिराकरण
पण्डिताशोकरचितम् अवयविनिराकरणम् /
नमः समन्तभद्राय //
अभ्यासातिशयस्तथा न विहितस्तादृक् श्रुतं नार्ज्जितं / तन्मे चापलमर्थलेशमधुनानिर्म्मातुमीहे यदि / एतत् सर्व्वमवेक्ष्ययन्निगदितं तत्पण्डितैर्दृश्यताम् / प्रीणन्त्येव वि + + + + हि शिशोः प्रायः पितृणां मनः //
यो विरुद्वधर्म्माध्यासवान् नासावेकः / यथा घटादिरर्थः / विरुद्वधर्म्माध्यासवांश्च स्थूलोनीलादिरर्थ इति व्यापकविरुद्वोपलब्धिः / इह दृश्यमानस्थूलोनीलादिरर्थो धर्म्मी, स चानुभवावसितो ऽसति बाधके प्रत्यक्षसिद्वो हेतोराश्रयासिद्विं निहन्ति / ननु भवद्भिरसन्नेवावयवी प्रतिज्ञायते स कथं प्रत्यक्षसिद्वः / नावयविनमिह धर्म्मिणं प्रतिपन्नाः स्मः किन्तु प्रतिभासमानस्थूल नीलादिकमर्थम् / न तर्हि विरुद्वधर्म्मसंसर्गादवयविन एकत्वं निषिद्वं स्यात् / यद्येवं कस्तर्हि भवतो ऽवयवी / एको ऽनेकावयवसमवेतार्थ इति चेत् / स किं प्रतिभासमानात् स्थूलनीलादेरन्यो ऽनन्यो वा / न तावंदन्यः, दृश्यत्वेनाभ्युपगमात् / न च प्रतिभासमानस्थूलनीलार्थव्यतिरेकेणापरः प्रतिभाति / अनन्यश्चेत् / तस्यैकत्वप्रतिक्षेपे कथमप्रतिषिद्वमेकत्वमवयविनः /
ननु च प्रतिभासमानश्चेदर्थोनावयविरूपोधर्म्मी / किन्तर्हि रूपमस्यावशिष्टप्रसिद्वं भविष्यतीति / उच्यते, प्रतिभासमानः स्थूलोनीलाकारः प्रत्यक्षसिद्वं रूपं, अवयवित्वानभ्युपगमे ऽप्यवशिष्यते / न चैवं मन्तव्यं / न परमाणुसञ्चयवादिनां स्थूलाकारः कश्चिदर्थो ऽस्ति यः प्रसिद्वो धर्म्मी स्यादिति / अवयव्यनभ्युपगमे ऽपि हि निरवयवानेकात्मकः स्थूलो ऽर्थोभ्युपगम्यमानः केन निषिद्वः / स्यान्मतं निरवयवाः परमाणवः कथं प्रत्यक्षे स्थूलेना कारेणावभासेरन्, स्थूलसूक्ष्मयोर्विरोधादिति / तदपि न युक्तं / परमाणव एव हि पररूपदेशपरिहारेणोत्पन्नाः परस्परसहिता अवभासमाना देशवितानवन्तो भासन्ते / विततदेशत्वञ्च स्थूलत्वं, यत्तुक्तं स्थूलसूक्ष्मयोर्विरोध इति तत् किं पररूपदेशपरिहारवती निरवयवानामुत्पत्तिः / परस्परसहितानामेकविज्ञानावभासित्वं वा विरुद्वमिति वक्तुमध्यवसितं / इदञ्चेद्विरुद्वं स्थूलाकारः किं विरुद्वः / अतएव निरवयवेषु बहुष्वेकस्मिन् विज्ञाने प्रतिभास मानेषु भवन् प्रतिभासकालभावी प्रतिभासधर्म्मः स्थूलाकारो न तु वास्तवः प्रत्येकमभावात् / प्रतिभासात् प्रागूर्द्वं वा न तर्हि स्थूलो ऽर्थ इति चेत् / न तदापि प्रतिभासयोग्यतासम्भवात् यदैव हि सञ्चिता भवेयुस्तदैव प्रतिभासयोग्याः परमाणवः / यदा च प्रतिभासयोग्या स्तदा स्थूलाः / यस्त्वाह निरवयवेषु बहुषु प्रतिभासमानेष्ववश्यमन्तरेणापि प्रतिभासितव्यं / अन्तरानवभासे परस्परविविक्ता एव नावभासिताः स्युः / विविक्तानवभासे चाणुमात्रकं पिण्डो भवेत् / न चान्तरमवभासमानमुत्पश्यामः / तदयं निरन्तर एक एव स्थलो निरवयवानेकात्मको भवितुमर्हति, अपि त्वेकः स्थूलात्मक एवेति / सो ऽप्येवं वाच्यः / किं विजातीयपरमाण्वन्तरमन्तरं / आहोस्वित् शून्याकाशयोगः / तत्र शून्याकाशयोगस्तावदवस्तुतया नेन्द्रियप्रत्यक्षगोचरः / अर्थसामर्थ्यभाविनि तात्रार्थस्यैव प्रतिभासोपपत्तेः / विजातीयन्त्विन्द्रियान्तरग्राह्यं कथमिन्द्रियान्तरज्ञाने ऽवभासेताविषयत्वात् / तत् केनान्तरेणावभासितव्यमिति न विद्मः / यत् पुनरुच्यते / अन्तरालानवभासे विविक्ता नावभासेरन्निति /
तत्रापि किमेषामन्तरं विवेकः पररूपशून्यता वेति चिन्त्यं / निरूपयन्तस्तु पररूपशून्यतामेव विवेकं वस्तूनां पश्यामः / पररूपशून्याश्चेमे भासमानाः कथं विविक्ता नावभासेरन्निति / ननु च न प्रत्येकं परमाणूनां स्थूलाकारः / ततः समुदितानामेष्टव्यः / यथा च नीलपरमाणूनां प्रत्येकमसम्भवन् पीताकारो बहुष्वपि न दृश्यते / तथा प्रत्येकमसम्भवन् स्थूलाकारः कथं बहुषु स्यादिति /
उक्तमत्र / अविरुद्वो निरवयवाणां स्थूलाकार इति / नीलविरुद्वस्तु पीताकारः / ततः पीतविरुद्वं नीलाकारं विभ्राणेषु बहुष्वपि कथं पीताकारो भवेत् / नैवं निरवयवत्वविरुद्वः स्थूलाकारः यथोक्तान्यायात् / तदेवं प्रत्यक्षसिद्वः स्थूलो ऽर्थ इह धर्म्मीति व्यवस्थितं / तदेवमवस्थिते धर्म्मिणि हेतोः सत्त्वमसत्त्वं वा निरूप्यं / तत्र पाण्यादावेकस्मिन् कम्पमाने स्थूलो ऽर्थः सकम्पनिःकम्पे रूपे युगपत् प्रतिपद्यमानः कथं विरुद्वधर्म्मसंसर्गवान्न स्यात् / सकम्पनिःकम्पयोर्हि रूपयोः परस्पराभावाव्यभिचारनिमित्तको ऽस्ति विरोधः / भावाभावयोरेव हि परस्परपरिहारात्मको विरोधः / वस्तुनोस्तु तदभावाव्यभिचारेणैव / इह च सकम्पनिःकम्पे रूपे गृह्णत् प्रत्यक्षमेव सामर्थ्यात् परस्पराभावं साधयति / व्यवहारयति तु निर्व्विशेषणैवानुपलब्धिः / स्यादेतत् पाण्यादावेकस्मिन्नवयवे कम्पमाने नावयविनः कम्प रूपमभ्युपेयं / अवयव एव हि तदा क्रियावान् दृश्यते / न चेदं मन्तव्यं / अवयवे क्रियावति तदाधेयेनावयविनापि क्रियावता भवितव्यं, यथा रथे चलति तदा रूढो ऽपि चलतीति / अवयवावयविकर्म्मणोर्भिन्ननिमित्तत्वात् / निमित्तायौगपद्याच्च / यदा हि आत्मनः पाणिकम्पनेच्छा भवति / ततः प्रयत्नः / तदा प्रयत्नवदात्मपाणिसंयोगात् पाणौ क्रिया / यदा तु शरीरकम्पनार्थः प्रयत्नविशेष आत्मनो जायते / तदा तत्प्रयत्नवदात्मशरीरसंयोगात् शरीरे कर्म्मेति निमित्तभेदः / अतो भिन्नमिति तयोरेकस्मिन् जाते कथं निमित्तान्तरप्रतिबद्वजन्मा तदभावे तदपरो ऽपि तथैव जायेत /
रथ तदारूढकर्म्मणोस्तु सत्यपि निमित्तभेदे निमित्तयौगपद्यात् सहभावः / तथा हि नोदनं रथकर्म्मणो ऽसमवायिकारणं / तदारूढकर्म्मणस्तु नोद्यसंयोगः / तयोश्च सहभावात् कर्म्मणी अपि यौगपद्येन जायेते / तदेतत् सकलमालोच्य भदन्तधर्म्मोत्तरेणेदमुक्तम् / न चात्रा वयवः क्रियावान् / अवयवेषु हि क्रियावत्सु विभागो जायते / क्रियाया विभागारम्भं प्रति निरपेक्षकारणत्वात् / तेन च संयोगे ऽसमवायिकारणे निवर्त्तते निवर्त्तेतावयवि द्रव्यमिति / इदमाहुरत्र कणादशिष्याः / नोदनादभिघाताद्वा जायमानः क्रियाविशेषो द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागारम्भको दृष्टः / अन्यत्तु विभागमात्रमारभते न तु यथोक्तविशेषं / अन्यस्मिन् पद्मसङ्कोचविकाशादिके कर्म्मण्यवयवसंयोगनिवृत्तेरदर्शनात् / तद्वत् प्रयत्नजन्यस्यापि कर्म्मणो नास्ति संयोगनिवर्त्तनसामर्थ्यं / ततो नास्ति द्रव्यनिवृत्तिरिति / अयमत्र समाधिः / इहावयविनि क्रियावति नियमेनावयवैरपि क्रियावद्भिर्भवितव्यं / अन्यथावयवसंसृष्टेभ्य आकाशदेशेभ्यो विभागो ऽवयवासंसृष्टेश्च संयोगोवयविनः क्रियावतः स्यात् / अवयवास्तु क्रियाविरहिणः पूर्व्वक्रान्तेभ्यो नभोदेशेभ्यो नापसर्य्येयुः / अवयविसमाक्रान्तैश्च देशैर्नाभिसम्बध्येरन् / न चावयविसंयोगविभागाभ्यामवयवसंयोगविभागौ वाच्यौ / कार्य्यसंयोगविभागयोः कारणसंयोगविभागौ प्रति निमित्तभावानभ्युपगमात् / कारणसंयोगविभागावेव हि कार्य्यसंयोगविभागावारभेते /
न च विपर्य्ययः सिद्वान्तहानिप्रसङ्गात् / तेनावयवावयविनां पृथग्देशत्वादाधार्य्याधारभावहानौ समवायो ऽपि न व्यवतिष्ठेत / तस्मादवयविनि क्रियावति अवयवाः क्रियावन्त इत्यकामकैरपि वैशेषिकैरिदमभ्युपेयं / यथा चावयविक्रियायामवयवाः क्रियावन्त स्तथावयवेष्वपि क्रियावत्सु तदवयवैः क्रियावद्भिर्भाव्यमिति / अनया दिशा द्व्यणुके क्रियावति तदारम्भकौ परमाणूक्रियावन्तौ मन्तव्यौ / अतश्चलावयवसम्बन्धिनश्चलाः परमाणवः / निःक्रियावयवसम्बन्धिनस्तु निःक्रिया / परमाणुक्रियायां तदारब्धमपि ब्द्यणुकद्रव्यं क्रियावत् प्रसज्येत / सर्व्वावयवक्रियायाः कार्य्यक्रियाविनाभूतत्वात् / एकस्य परमाणोः क्रिया न परस्येति चेत् / सक्रियनिःक्रियौ तर्हि परमाणू परस्परं विभज्यमानावुज्झितद्रव्यारम्भकसंयोगौ स्यातां / ततश्च द्रव्यनाशः / एवञ्च ब्द्यणुकद्रव्यस्य क्रियावत्त्वे त्र्यणुके ऽपि क्रिया स्यादित्यनेन क्रमेण परिदृश्यमानो ऽचलश्चलः स्यादवयवः / तस्मान्निःक्रियावयवसम्बन्धिनो निःक्रियाः परमाणवश्चलावयवसम्बन्धिभ्यश्चलेभ्यो विभज्यमाना द्रव्यारम्भकसंयोगविनाशवन्तः स्युः / निरवयवो हि परमाणुर्यमणुमात्रनभोदेशमाक्रम्य परमाण्वन्तरेण संयुज्यते / ततो विभज्यमानः कथमनुज्झितपरमाण्वन्तरप्रत्यासत्तिकः स्यात् / सावयवो हि भाव एकेनावयवेन वस्त्वन्तरसंयुक्त एवावयवान्तरै श्चलैः / पूर्व्वाक्रान्तान्नभोदेशान् विरहय्य देशान्तरमाक्रामेत् / निरवयवेषु त्वत्यन्तमस्तमितेयं कथेति युक्तं द्रब्यनाशप्रसङ्गमुत्पश्यामः /
अथवान्यथायं विरुद्वधर्म्मसंसर्गः / तथाह्यावृते एकस्मिन् पाण्यादौ स्थूलस्यार्थस्यावृतानावृते रूपे युगपद्भवन्ती विरुद्वधर्म्मद्वयसंयोगमस्यावेदयतः / न चानावृतैकरूप एवायमिति शक्यं वक्तुं / अर्द्वावरणे ऽपि अनावृतस्य पूर्व्ववद्दर्शनप्रसङ्गात् / अवयवदर्शनायत्तोपलब्धेः / तद्दृष्टौ अस्या दृष्टिरिति चेत् / अदृष्टिरेव तर्हि अस्यास्तु / न तु दृष्टयदृष्टी / नन्वस्त्येवावयविदर्शनमवयवावरणे ऽपीति को ऽयं प्रसङ्गः / एवन्तर्हि स्थूलः प्राग्वदुपलभ्येत / इदमत्राह कश्चित् / भूयो ऽवयवेन्द्रियसन्निकर्षसहायो ऽवयवीन्द्रियसन्निकर्षः स्थूलोपलब्धेनिमित्तं, न चार्द्वावरणे भूयसामवयवानामस्तीन्द्रियसन्निकर्षः ततो न स्थूलग्रहणमिति / सो ऽप्येवं प्रष्टव्यः / किं स्थूलो नामावयविनो ऽन्यः / स एवानेकव्यापी स्थूलः / तत्र यद्यवयव्येव स्थूलः / तदा तद्ग्रहणे कथन्न स्थूलग्रहणमिति चिन्त्यम् /
अथ स्थूलत्वाख्यः परिमाणविशेषो गुणः स द्रब्यादन्य एवेति चेत् / एवन्तर्हि परिमाणरहितमेव तत् द्रव्यमुप लभ्यते / न त्वस्यान्येनान्येन परिमाणेन योगः / न चास्यानेकपरिमाणकल्पनापि साध्वी / युगपत् सर्व्वेषामनुपलब्धेः / न च दृश्यस्य दर्शननिवृत्तिर्युक्ता / अवयवस्यैव तत् परिमाणमुपलभ्यत इति चेत् / यद्येवं स एव तर्ह्यवयवः स्वेन परिमाणेन सम्बद्वः प्रत्यक्षोस्त्वावरणकालेनावयवी / स्यादेतदेकार्थसमबायाद्भान्तिनिमित्तादवयव्येवावयवपरिमाणेन सम्बद्वः प्रतिभातीति तदपि न शोभनं / द्वयोः समपरिमाणयोरवयवावयविनोः प्रतिभासप्रसङ्गः / यस्य हि महतो ऽवयवस्य तत परिमाणं स तावत् स्वेन परिमाणेन सम्बद्वः प्रतिभाति / अवयविनश्च तत्परिमाणसम्बद्वप्रतिभासाभ्युपगमे द्वयोः समपरिमाणयोरयवायवविनोः प्रतिभास आसज्यते /
न चास्ति यथोक्तः प्रतिभासः परिमाणरहितः / सो ऽवयवः प्रतिभास इति चेत् / स्यादेतद्यस्यावयवस्य परिमाणेनावयवी सम्बद्वः प्रतिभाति स स्वं परिमाणं परित्यज्याभातीति / इदमपि परिमाणविरहिणोवयवस्यादृष्टेरशक्यं कल्पयितुं / एकार्थसमवायाच्च भ्रान्ति निमित्तादल्पतरावयवपरिमाणवानप्यवयवी प्रतिभासेत / न च बाधकमन्तरेण भ्रान्तिरपि शक्या व्यवस्थापयितुम् /
अस्ति तर्हि स्थूलो ऽवयव एव प्रत्यक्षः / एवमावरणकाल इवानावरणावस्थायामपि स्थूलतरो ऽवयवः प्रत्यक्षो ऽस्तु / परमध्यावर्त्तिनामवयवानामिन्द्रियसन्निकर्षाभावे स्थूलतमावयविदर्शनानुपपत्तेः स्यान्मतं निखिला वयवदर्शनं न स्थूलप्रत्यक्षकारणं / किन्तु भूयो ऽवयवदर्शनमिति / इदमपि न सम्यक् / अभिमुखावस्थितस्य हि पर्व्वतादेरर्व्वाचीनावयवदर्शनेन तथा स्थूलप्रतिपत्तिर्यथार्व्वाक्परमध्यवर्त्तिनां दर्शने / ततो न यावन्निरवशेषावयवदर्शनं तावत् कथं स्थूलतमार्थप्रतिपत्तिः स्यात् / न चावयवा अर्वाक्परमध्यवर्त्तिनो युगपद्दृश्यन्ते / तत् कथमवयवी स्थूलो दृश्येत / क्रमेण दिशामवयवानां प्रत्यक्षीकरणे प्रत्यक्षः स्थूलो ऽवयवीति चेत् / अन्यदा तु कः प्रत्यक्षः इति विमृष्यं / अवयव इति चेत् / अवयवी अपि परमध्यवर्त्तिनो न युगपद्दृश्यन्त इति कथं सो ऽपि प्रत्यक्षः स्यात् / तदेवं नावयवी नावयवाः प्रत्यक्षा इति न किञ्चिदृश्येतेति / तत् सिद्वमावृतानावृतरूपः स्थूलो ऽर्थ इति //
तथा रागारागाभ्यां विरोधः सम्भावनीयः / तथा ह्येकस्मिन्नुक्ते स्थुलो ऽर्थो रक्तारक्ते रूपे युगपत् प्रतिपद्यमानो विरुद्वरूपद्वययोगमात्मनः प्रकाशयति / नन्व वयव एव रक्तो ऽवयवी त्वरक्तैकरूप एवेति / यद्येवं रक्ते ऽवयवे ऽरक्तरूपो ऽवयवी दृश्येत / न चैवं / अथवा रागद्रव्यसंयोगो हि रक्तत्वं / अवयवस्य च रागद्रव्येण संयोगे ऽवयविनो ऽपि तेन भाव्यं / अवश्यं हि कारणसंयोगिना कार्य्यमपि संयुज्यत इति समयात् / यस्त्वाह रक्त एवावयवी / अस्ति हि कुङ्कुमारक्ते पटावयवे कुङ्कुमारक्तः पट इति प्रत्ययः / ततो रागद्रव्यसंयुक्त एवावयवीति तस्यापि वर्णान्तरानवभासः स्यादवयविनः / रागद्रव्यं हि प्रत्यासीदत् निजरूपं वस्तुन स्तिरोधत्ते स्वेन च रूपेण द्रव्यं सम्बन्धति / यथा रक्तोवयवस्तिरोहितसहजरूपो रागद्रव्यसमवायिना रूपेण सम्बन्धी प्रतिभाति / अवयविन्यपि रागद्रव्यसंयोगिनि वर्णान्तरानवभासप्रसङ्गो दुर्व्वारः / तन्न रक्त एवावयवीति शक्यं वक्तुम् /
अन्यस्तु संयोगस्याव्याप्यवृत्त्या समाधत्ते / स ह्याह शब्द इवाव्याप्यवृत्तिः संयोगः / तेनैकार्थो रक्तश्चारक्तश्चेति / सो ऽप्येवं पर्य्यनुयोज्यः / कथमव्याप्यवृत्तिः / यदि हि स्वाश्रये समवेतो रूपादिवत् व्याप्यवृत्तिरेवायं / असमवेतश्चावृत्तिरेवाप्यद्रव्येष्तिव गन्धः / एकत्र संयोगस्यभावाभावाव्यापिनो वृत्तिरिति चेत् / स्यादेतद्यथा विरुद्वावपि रूपरसावेकमाश्रयेते / तथा संयोगस्याप्येकत्र भावाभावौ युगपत् स्याताम् /
अहो मोहविजृम्भितं / अभावो हि भावनिवृत्तिरूपो नास्य भावनिवृत्तिं हित्वा रूपान्तरमीक्षते / यश्च यन्निवृत्तिरूपः स कथं तस्मिन् सत्येव भवति / भावे वा तन्निवृत्तिरूपतां जह्यात् / तथा ह्यनलं पश्यन्नपि सलिलार्थी तत्र प्रवर्त्तेत / जलविविक्तस्यानलस्य दशनात् / जलाभावसिद्वेरप्रवृत्तेरिति चेत् / भवत्वनुपलम्भाज्जलाभावसिद्विस्तथापि जलसत्तां सम्भावयन् जलार्थी प्रवर्त्तेत / ननु तत्र यदि जलं स्यादुपलभ्येत किमतः / अतो ऽनुपलम्भादभावो जलस्येति / यद्यप्यभ्युपगतैव जलाभावसिद्विः / तथापि तदर्थिनस्तद्भावशङ्कया प्रवृत्तिः स्यात् / युगपदेकत्र संयोगस्य भावाभावौ दृश्येते / तेनैवं कल्पयामो न स्वेच्छया / ननु किमभावोभावप्रतिषेधात्मकः प्रतीयते / अन्यथा वा / तत्र भावनिवृत्तिरूपे ऽभावे सिद्वे कथं भावोपलब्धिर्न भ्रान्ता स्यात् / भावाप्रतिषेधात्मकश्च नाभावः / नाममात्रन्तु स्यात् / न च नाममात्रादर्थस्य तथाभावः / रूपरसयोस्तु न परस्परनिवृत्ती रूपमिति कथं तदुदाहरणमिह शोभेत / न च रूपरसयोरेकत्र समवायो ऽस्माभिरनु मन्यते / शब्दो ऽप्येवमेवाव्याप्यवृत्तिरसिद्वः स कथं प्रकृतसंशयनिवृत्तये कल्प्येतेति / अलं बहुभाषितया //
अथवा स्थूलो ऽर्थस्तदतद्देशः प्रतीयते / तद्देशयोश्च परस्पराभावाव्यभिचारनिमित्तो ऽस्ति विरोधः / अतो विरुद्वधर्म्मसंसर्गः स्थूलस्य / स्यादेतत् कथं तदतद्देशयोः परस्पराभावाव्यभिचारः / उच्यते / इह तावदेकस्मिन् देशे परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरस्य व्यवच्छिद्यते / तदव्यवच्छेदे तत्परिच्छेदाभावप्रसक्तेः / प्रच्युतिवच्च प्रच्युतिमदपि देशान्तरं व्यवच्छिद्यते / यदि हि परिच्छिद्यमानो देशान्तरस्वभावो भवेत्तदा तद्रूप एवोपलब्धो भवेत् / देशान्तररूपन्तु विरहय्य स्वेन रूपेण प्रकाशमानो देशो देशान्तरासंसृष्ट इत्यवसीयते / यथा च देशस्य देशान्तरासंसर्गस्तथा तेनाधारभूतेन देशेन यद्याप्तं रूपं तदपि देशान्तरसंसर्गादविच्छिन्नं भवति / कथं हि तेन देशेन व्याप्तं रूपं तदभाववति देशान्तरे वर्त्तेत / यथा एकेन देशेन व्याप्तो घटो न देशान्तरे वर्त्तते / देशान्तरे ऽनुपलम्भादवृत्तिरिति चेत् / विप्रकृष्टे देशान्तरे कथमस्याभावः प्रतिपत्तव्यः / तस्मादिदमकामकेनापि वाच्यं / यदुत एकदेशव्याप्तं रूपं न देशान्तरे वर्त्तते इति / तस्य तेन ब्यापनप्रसङ्गात् / तदभाववति देशान्तरे वर्त्तमानो ऽपि तेन देशेन व्याप्येत / न च व्याप्तिरस्य शक्यावसातुं / भागान्तरासम्भवात् / एतेन तन्निरस्तं / यदाह कश्चित् / यथैकोभावस्तदतद्देशं जनयन्नविरुध्यत इति / तदपि न प्रकृतानुरूपम् /
तथाहि भावाभावावेव परस्परपरिहारेण विरुद्वौ न वस्तुनी / वस्तुनोस्तु परस्पराभावाव्यभिचारेण विरोधः / तेन यदेव वस्तु वस्त्वन्तरप्रच्युतिमत् तदेव तेन विरुद्वं / न चैककार्य्यनिवर्त्तनशक्तिः कार्य्यान्तरशक्तयभावाव्यभिचारिणी / अनुपलम्भो हि वस्तुनो वस्त्वन्तराभाबाव्यभिचारं साधयति / एककार्य्यनिर्वर्त्तनशक्तिमति च रूपे गृह्यमाणे कार्य्यान्तर निर्वर्त्तनशक्तिरपि परिच्छिद्यत इति / कथं तदभावः / एकदेशसम्बद्वं तु रूपं देशान्तरसंसर्गिरूपपरिहारेणोपलभ्यमानन्तदभावाव्यभिचारि तेन विरुद्वं / यथात्यन्त सदृशोर्वस्तुनोर्युगपदुपलभ्यमानयोः सत्यपि चाकारभेदे दूरादनुपलक्ष्यमाणभेदयोर्देशभेदमात्रनिमित्तकं प्रत्यक्षावसितं विरोधमाश्रित्य भेदो ऽवस्थाप्यते / यस्त्वाह / यथैकं चक्षुर्विज्ञानं भिन्नेषु चक्षुरादिषु वर्त्तते तदधीनोत्पादतया / तथान्यो ऽपि भिन्नदेशनिवृत्तिर्न्न भेत्स्यत इति / सो ऽपि देशभेदनिमित्ते विरोधे ऽवस्थाप्यमाने वस्तुनः कारणभेदनिमित्तंविरो धमासञ्जयन् न नैपुण्यमात्मनो निवेदयति / न हि विज्ञानस्य देशो ऽस्ति कश्चित् / अमूर्त्तत्वात् / स्यादेतत् / यथा देशभेदनिमित्तो विरोधस्तथा कारणभेदनिमित्तो ऽपि स्यात् / को हि वस्तुतो विशेषः, कारणभेदाद्देशभेदस्येति /
उक्तमिह / परस्पराभावाव्यभिचारनिमित्तो वस्तूनामस्ति विरोधः / स देशभेदे ऽपि सन्निधीयेते न कारणभेदे / देशभेदवती हि रूपे ऽन्यो ऽन्यपरिहारेणोपलभ्यमाने / परस्पराभावाव्यभिचारिणी भवतो न कारणभेदवती / तदेवं कम्परागावरणभावाभावकृते देशभेदनिबन्धने च चतुर्थे विरुद्वधर्म्मसंसर्गे ऽवयविविषये व्यवस्थापिते पक्षधर्म्मत्वं सिद्वं हेतोः / अधुनाव्याप्तिरेवास्य स्वसाध्येन समर्थनीया / इह विरुद्वधर्म्मसंसर्गविरहमात्रनिबन्धनो भेदव्यवहारो वस्तूनां दृष्टः, अहेतोरयोगात् / निमित्तान्तरस्य वादर्शनात् / ततो विरुद्वधर्म्मसंसर्गे ऽपि भवन्नभेदव्यवहारो व्यापकं निमित्तवत्त्वं जह्यात् / ततो व्यापकानुपलब्ध्या तस्माद्व्यावृत्तो विरुद्वधर्म्मविरहेण व्याप्यते / तद्विरुद्वश्च विरुद्वधर्म्मसंसर्गः / तेनेयं व्यापकविरुद्वोपलब्धिभूमिका / एवं प्रसाधिते ऽस्यास्त्रैरूप्ये ऽसिद्वविरुद्वानैकान्तिका दोषा नावकाशं लभन्ते / इति //
एवं मया बहुषु दुर्म्मतिनिर्म्मितेषु प्रत्युद्वृतेषु खलु दूषणकण्टकेषु / आचार्य्यनीतिपथ एव विशोधितो ऽयमुत्सार्य्यमत्सरमनेन जनः प्रयातु //
समाप्तञ्चेदमवयविनिराकरणमिति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
