Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1
- Thông tin
- GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
17601 मितायां नियोजयिष्यामीति {{एवं चास्य भवति आत्मना च शीलपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च शीलपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च क्षान्तिपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च क्षान्तिपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च ध्यानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च ध्यानपारमितायां नियोजयिष्यामीति/ एवं चास्य भवति आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति}}/ 17602 एवम् अप्रमाणध्यानारूप्यसमापत्तीः/ आत्मना च भावयिष्यामि सर्वसत्त्वांश् च 17603 तासु प्रतिष्ठापयिष्यामीति/ यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशा- 17604 रद्याष्टादशावेणिकेषु बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठा- 17605 पयिष्यामीति/ इयतायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध 17606 इत्य् उच्यते// [इति प्रतिपत्तिस्वरूपम्//] 17607 पुनर् अपरं शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः 17608 सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या दानस्य सर्वसत्त्वसाधारणं कृत्वा ऽनु- 17609 त्तरायै सम्यक्संबोधये निर्यातना/ अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां 17610 चरतो दानं ददतो दानपारमितासन्नाहः/ पुनर् अपरं 17611 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो}
17612 शीलपारमितासन्नाहः/ पुनर् अपरं 17613 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या तेषां क्षमणा रोचना व्युपपरीक्षणा/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} क्षान्तिपारमिता- 17614 सन्नाहः/ पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या वीर्यस्रंसनता तत् 17615 कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} वीर्यपारमिता- 17616 सन्नाहः/ पुनर् अपरं {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं}} ददतः 17617 यच् चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्त- 17618 म् अनवकाशं दानता तत् कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ अयं दानं 17619 ददतः ध्यानपारमितासन्नाहः/ पुनर् अपरं
17701 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या मायाकृतसंज्ञोपस्थिता च नैव दायकम् उपलभते न प्रतिग्राहकं न देयम्/ 17702 अयं {बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो} प्रज्ञापारमितासन्नाहः/ यद् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः सर्वाकार- 17703 ज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट् पारमिता न निमित्तीकरोति नोपलभते/ 17704 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो 17705 भवति// [इति दानपारमित्सन्नाहषट्कं प्रथमम्//] 17706 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतो {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} 17707 दानं ददाति {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति अनुपलम्भयोगेन/ इयं सुभूते {बोधिसत्त्वस्य} 17708 महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता/ पुनर् अपरं 17709 {{शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः}} या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमे- 17710 र् इयं {बोधिसत्त्वस्य} महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता 17711 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या तेषां क्षमणा रोचना व्युपपरीक्षणा/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता/}}
17712 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या वीर्यस्रंसनतानवलीनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता/}} 17713 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो यच् श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तम् अनवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता/}} 17714 {{पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः या}} 17715 मायाकृतसंज्ञा प्रत्युपस्ह्तिता भवति/ तच् च शीलं न मन्यते नोपलभते/ इयम् आयुष्मन् 17716 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः शीलपारमितायाञ् चरतः प्रज्ञापारमिता/ एवं हि {शारिपुत्र} 17717 {बोधिसत्त्वो} महासत्त्वः शीलपारमितायां चरन् षट् पारमिताः परिगृह्णाति/ तेन 17718 महासन्नाहसन्नद्ध इति संख्यां गच्छति// [इति शीलपारमितासन्नाहषट्कं 17718 द्वितीयम्//] 17719 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति {सर्वाकारज्ञताप्रतिसंयुक्तैर्}
17720 {मनसिकारैर्} न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं {सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}
17801 परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता/ 17802 एवं क्षान्तिपारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपर- 17803 म् आयुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमु- 17804 दानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां}} 17805 चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र 17806 {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां चरन् षट् पारमिताः परिगृह्णाति/ तेन महा- 17807 सन्नाहसन्नद्ध इति संख्यां गच्छति// [इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्//] 17808 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति 17809 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 17810 वीर्यपारमितायां चरतो दानपारमिता/ एवं वीर्यपारमितायां चरतः शील{पारमिता} 17811 क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो वीर्यपार- 17812 मितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति/ 17813
सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः वीर्यपारमितायां चरन् षट् पारमिताः परिगृह्णाति/ तेन महासन्नाहसन्नद्ध इति}} संख्यां गच्छति 17814 //
[इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्//] 17815 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां चरन् दानं ददाति 17816 सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 17817 ध्यानपारमितायां चरतो दानपारमिता/ एवं ध्यानपारमितायां चरतः 17818 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो 17819 ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उप- 17820 स्थापयति/ सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति/ इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता/ एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः ध्यानपारमितायां चरन् षट् पारमिताः परिगृह्णाति/ तेन महासन्नाहसन्नद्ध इति}} 17821 संख्यां गच्छति// [इति ध्यानपारमिता- 17822 सन्नाहषट्कं पञ्चमम्//] 17823 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डल- 17824 परिशुद्धं दानं ददाति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} 17825 परिणामयति/ इयं
{बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरतो दान{पारमिता}/ 17826 एवं प्रज्ञापारमितायां चरतः शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता}/
17901 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां 17902 भावयति/ तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्क- 17903 प्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञता{{प्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये}} 17904 परिणामयति/ एवं हि {शारिपुत्र} {बोधिसत्त्वो} महास्त्त्वः 17905 प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति/ यद् आयुष्मन् {शारिपुत्र} 17906 {बोधिसत्त्वो} {{प्रज्ञापारमितायां चरन् महासन्नाह}}सन्नद्धो भवति/ एवं च 17907 पुनर् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः एकैकस्यां पारमितायां स्थित्वा षट्- 17908 पारमिताः परिपूरयति// [इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्//] 17909 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानानि च समापद्यते नैव ध्यानान्य् आ- 17910 स्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते/ एवम् अप्रमाणानि 17911 चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते 17912 न च तासां वशेनोपपद्यते/ [इयं {बोधिसत्त्वस्य} महासत्त्वस्योपायकौशल्यगता प्रज्ञापारमिता] 17913 वेदितव्या//
17914 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च 17915 विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्- 17916 करोति// [अयं {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यसन्नाहः//] 17917 एवम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते {बोधिसत्त्वो} 17918 महासत्त्व इति/ एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महा- 17919 सत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयति वर्णम् उदीरयन्ति नामधेयं 17920 परिकीर्त्त्यमानास् तस्य {बोधिसत्त्वस्य} महासत्त्वस्य शब्दम् अनुश्रावयन्ति/ घोष- 17921 म् उदीरयन्ति/ अमुष्मिन् लोकधातुप्रसरे {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इति 17922 सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति// [इति सन्नाहषट्कोपसंहारः//] 17923 [इत्य् उक्ता सन्नाहप्रतिपत्तिः//]
18001 {शारिपुत्र} आह/ कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसंप्रतिस्थितो 18002 महायानसमारूढो भवति/ पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो 18003 दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं 18004 विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति/ एवं द्वितीयं तृतीयं चतुर्थं ध्यानम्/ 18005 एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञाय- 18006 तनम् उपसम्पद्य विहरति/ इमानि {बोधिसत्त्वस्य} महासत्त्वस्य ध्यानारूप्याणि यदा {बोधिसत्त्वो} महा- 18007 सत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन् आकाशाकारलिङ्गनिमित्तैः 18008 समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परि- 18009 णामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य दानपारमिता/ एवं शील{पारमितायां} क्षान्ति{पारमितायां} 18010 वीर्य{पारमितायां} ध्यान{पारमितायां} वाच्यते/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 18011 चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते/ यदा 18012 {बोधिसत्त्वो} महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति/ स एता ध्याना- 18013 रूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसि- 18014 करोति/ प्रज्ञापारमितायां चरंस् तानि च कुशलमूलानि अन्यानि च सर्वाकारज्ञता-
18015 प्रतिसंयुक्तमनसिकारैः {सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये} परिणामयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18016 प्रज्ञापारमिता/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः षट्पारमितासु चरन् 18017 महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं परिशोधयति/ [इति ध्याना- 18018 रूप्यसमापत्तिव्युस्थानप्रस्थानम्/] 18019 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो यत् {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} कारम् उत्पाद्य क्लेशानां ध्वंसनाय 18020 सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18021 दानपारमिता/ यद् {बोधिसत्त्वो} महासत्त्वस् तैर् एव {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमं ध्यानम् आक्रामति 18022 देशयति तत्र च प्रथमध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति
18101 श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं {बोधिसत्त्वस्य} महासत्त्वस्य अपरामृष्टा शीलपार- 18102 मिता/ यद् {बोधिसत्त्वस्य} महासत्त्वस्य {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यैर् विहरत एवं भवति 18103 सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति यावत् तेषां नमसिकाराणां 18104 क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18105 क्षान्ति{पारमिता}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} सर्वकुशलमूलानि {{सर्वसत्त्वसाधारणानि 18106 कृत्वा अनुत्तरायै सम्यक्संबोधये}} परिणामयति वीर्यं च न स्रंसयति/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य 18107 वीर्य{पारमिता}/ यद् {बोधिसत्त्वो} महासत्त्वः {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर्} ध्यानारूप्यसमापत्तीश् च समा- 18108 पद्यते न चोपलभते/ इयं {बोधिसत्त्वस्य} महासत्त्वस्य ध्यान{पारमिता}/ यद् {बोधिसत्त्वो} महासत्त्वः 18109 {सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} प्रथमद्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि 18110 अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण 18111 अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते/ इयं {बोधिसत्त्वस्य} महा- 18112 सत्त्वस्य प्रज्ञा{पारमिता}/ इदम् आयुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 18113 [इति षट्पारमिताप्रस्थानम्/] 18114 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यत् सर्वाकारं
18115 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति/ सर्वाकारं शून्यता- 18116 निमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति/ सर्वाकारं बलानि वैशार- 18117 द्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति/ इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महा- 18118 सत्त्वस्य महायानम्// [इत्य् आर्यमार्गप्रस्थानम्//] 18119 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महोद्गतेना- 18120 द्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन 18121 धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरि- 18122 त्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य विहरति/ एवं करुणा-
18201 सहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन विपुलेन {{महोद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसम्पद्य विहरति यावद् दशदिशः स्फुरित्वोपसम्पद्य}} 18202 विहरति/ इमान्य् उच्यन्ते {बोधिसत्त्वस्य} महासत्त्वस्या- 18203 प्रमाणानि/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो मैत्रीसमाधिं समापद्यते मया 18204 सर्वसत्त्वास् त्रातव्या इति निर्नामयति/ करुणां च {समाधिं समापद्यते} क्लीवकारुण्यताञ् च 18205 सत्त्वेषु {निर्णामयति}/ मुदितां च {समाधिं समापद्यते} अहम् एव मोदयिष्यामीति सत्त्वेषु {निर्णामयति}/ 18206 उपेक्षां च {समाधिं समापद्यते} आस्रवक्षयं च सत्त्वेषु {निर्णामयति}/ इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु 18207 चरतो दानपारमिता/ यदा {बोधिसत्त्वो} महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि 18208 समापद्यते च्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वा- 18209 कारज्ञतायाः/ इयं {बोधिसत्त्वस्य} महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता/ 18210 यदा {बोधिसत्त्वो} महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो 18211 विहरति/ आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न 18212 स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} क्षान्ति{पारमिता}/ यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैः}
18213 चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसम्पदे/ 18214 इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} वीर्य{पारमिता}/ यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चा- 18215 प्रमाणारूप्यसमापत्तीश् च समापद्यते/ न च ध्यानाप्रमाणारूप्यसमापत्ति- 18216 वशेनोपपद्यते/ न च ता आस्वादायति न च ताभिः संह्रियते/ इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} 18217 ध्यान{पारमिता}/ यदा {बोधिसत्त्वो महासत्त्वो सर्वाकारज्ञताप्रतिसंयुक्तैर्} मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समा- 18218 पद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ता- 18219 कारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न च 18220 श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति/ इयं {बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा} प्रज्ञा{पारमिता}/ 18221 इदम् आयुष्मन् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्// [इत्य् अप्रमाणप्रस्थानम्//]
18301 पुनर् अपरम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् अध्यात्मशून्य- 18302 तायां ज्ञानं न चोपलम्भयोगेन/ यद् बहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ यद् अध्यातमबहिर्धा{शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ 18303 यद् {शून्यतायां ज्ञानं न चोपलम्भयोगेन}/ इदं {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 18304 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यत् सर्वधर्मेषु न शिक्षिष्यते 18305 चित्तं समाहितं तज् ज्ञानम्/ इदम् अपि {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यद् अस्य 18306 न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति/ न दुःखम् इति नादुःखम् इति 18307 {{न सुखम् इति नासुखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति न शून्यम् इति नाशून्यम् इति न निमित्तम् इति नानिमित्तम् इति}} 18308 {{न प्रणिहितम् इति}} नाप्रणिहितम् इति ज्ञानं प्रवर्तते/ इदम् अपि सुभूते {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 18309 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते/ अनागते ऽध्वनि {ज्ञानं न प्रवर्तते}/ 18310 प्रत्युत्पन्ने ऽध्वनि {ज्ञानं न प्रवर्तते}/ न चास्य त्रिष्व् अध्वसु ज्ञानं प्रवर्तते/ तच् चानुपलम्भयोगेन/ 18311 इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/
18312 {पुनर् अपरम् आयुष्मन्} {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यन् न कामधातौ ज्ञानं प्रवर्तते न रूप{धातौ ज्ञानं प्रवर्तते} नारूप्य{धातौ ज्ञानं प्रवर्तते}/ 18313 न चास्य कामरूपारूप्य{धातौ ज्ञानं प्रवर्तते} तच् चानुपलम्भयोगेन/ इदम् अपि {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 18314 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते/ न 18315 सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्य लौकिक- 18316 लोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेषु ज्ञानं प्रवर्तते/ तच् चानुपलम्भयोगेन/ 18317 इदम् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वस्य महासत्त्वस्य महायानम्}// [इति अनुपलम्भयोगेन प्रस्थानम्//] 18318 {शारिपुत्र} आह/ कियतायुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ 18319 इत्य् उच्यते/ पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 18320 चरन् दानपारमिताम् आरोहति/ स नैव दानपारमिताम् उपलभते न दायकं 18321 न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} 18322 महासत्त्वो दानपारमितासमारूढ इत्य् उच्यते/ एवं शील{पारमितासमारूढः}, क्षान्ति{पारमितासमारूढः},
18401 वीर्य{पारमितासमारूढः}, ध्यान{पारमितासमारूढः}/ प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैव प्रज्ञा- 18402 पारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन/ 18403 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितासमारूढ इत्य् उच्यते// [इति 18404 त्रिमण्डलपरिशुद्धिप्रस्थानम्//] 18405 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन 18406 सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भ- 18407 योगेन/ एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते/ 18408 {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} शून्यतानिमित्ताप्रणिहितसमाधीन् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन/ एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते}/ {पुनर् अपरम् शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन} दश तथागतबलानि 18409 चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् {भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन/ एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते}/ 18410 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्व एवं सञ्जानाति व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व 18411 इति सत्त्वानुपलब्धिताम् उपादाय/ इदम् अपि नाममात्रं यद् उत रूपं रूपानु-
18412 पलब्धिताम् उपादाय वेदना संज्ञा संस्काराः/ {नाममात्रं यद् उत} विज्ञानं विज्ञानानु{पलब्धिताम् उपादाय}/ 18413 {नाममात्रं यद् उत} चक्षुश् चक्षुषानु{पलब्धिताम् उपादाय}/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ {नाममात्रं यद् उत} मनो मनसा- 18414 नु{पलब्धिताम् उपादाय}/ एवं व्यस्तसमस्ताः स्कन्धा धातवः {{आयतनानि प्रतीत्यसमुत्पादः पारमिता अभिज्ञाः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गवैशारद्यप्रतिसंविदावेणिका}} बुद्धधर्माः/ {नाममात्रं यद् उत} 18415 बुद्धधर्मा बुद्धधर्मानु{पलब्धिताम् उपादाय}/ अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता 18416 यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानु{पलब्धिताम् उपादाय}/ तथता धर्मधातुश् च 18417 धर्मनियामता च भूतकोटिश् च भूतकोट्यनु{पलब्धिताम् उपादाय}/ {नाममात्रं यद् उत} बोधिर् बुद्धश् च बुद्धानु{पलब्धिताम् उपादाय}/ 18418 एवं ह्य् आयुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते// [इत्य् उद्देश- 18419 प्रस्थानम्//] 18420 पुनर् अपरं {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद्
18501 बोधिर् अत्रान्तरे {बोधिसत्त्वो} महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्ध- 18502 क्षेत्रेण च बुद्धक्षेत्रं संक्रामति/ बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति 18503 गुरूकरोति मानयति पूजयति/ यो यस्य बुद्धस्य औपयिकपूजा सत्कारविधि- 18504 स् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति यद् उत इदम् एव महायानं/ स तत्र 18505 बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति बुद्धक्षेत्रं च परिशोध- 18506 यति सत्त्वांश् च परिपाचयति न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते/ 18507 सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोय् अर्थकरणाय तादृश- 18508 म् आत्मभावं संचिन्त्य परिगृह्णाति/ स न जातु तेन महायानेन विरहितो भवति 18509 यावत् सर्वाकारज्ञताम् अनुप्राप्नोति// [इति अभिज्ञाप्रस्थानम्//] 18510 सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति अप्रवर्तनीयं सर्वश्रावक- 18511 प्रत्येकबुद्धैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यासुरेण लोकेन/ 18512 तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य पूर्वस्यां दिशि गङ्गानदीवालु- 18513 कोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाश- 18514 यन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन {बोधिसत्त्वेन} महासत्त्वेन महायानम् अ- 18515 भिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/
18516 एवं दक्षिणस्याम् दिशि {{गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं दक्षिणपश्चिमायां दिशि
गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्/}}
18517 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति/ एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञाता ऽनुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्}}/ एवं 18518 ह्य् आयुस्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो महायानसमारूढ इत्य् उच्यते// [इति सर्वाकार- 18519 ज्ञाताप्रस्थानम्//] [इत्य् उच्यते प्रस्थानप्रतिपत्तिः//] 18520 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ महासन्नाहसन्नद्धो 18521 महासन्नाहसन्नद्ध इति भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ कियता भगवन् 18522 {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते/ भगवान् आह/ इह सुभूते 18523 {बोधिसत्त्वो} महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं {{सन्नह्यते महायानं सन्नह्य यद् उत शीलपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत क्षान्तिपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत वीर्यपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत ध्यानपारमितासन्नाहं सन्नह्यते महायानं सन्नह्य यद् उत}} प्रज्ञा- 18524 पारमितासन्नाहं सन्नह्यते/ स्मृत्युपस्थानसन्नाहं सन्नह्य सम्यक्प्रहाणर्द्धि-
18601 पादेन्द्रियबलबोध्यङ्गमार्गसन्नाहं सन्नह्य {{समापत्तिसन्नाहं सन्नह्य}} 18602 {{शून्यतासन्नाहं सन्नह्य वैशारद्यसन्नाहं सन्नह्य प्रतिसंवित्सन्नाहं सन्नह्य अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य सर्वाकारज्ञतासन्नाहं सन्नह्य}} 18603 बुद्धविग्रहं सन्नह्य त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फुरति च षड्- 18604 विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयि- 18605 कानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय {बोधिसत्त्वो} 18606 महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्- 18607 सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते 18608 तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र 18609 बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं 18610 तिर्यग्योनितो यमलोकतो व्युत्थाय ते लोकधाताव् उपपद्यन्ते यत्र {बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च}
18611 परिगृह्णन्ति/ एवं पूर्वस्यां दिशि {{गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/}}
18612 {{एवं दक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते
सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमांल्
लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं
बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति/}}
18613 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमांल् लोकधातून् अवभासेन स्फुरति षड्विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्वः एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्सम्बुद्धायेति/ ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते/ ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्ति आरागयन्ति देवमनुष्योपपत्तिञ् च}} परिगृह्णन्ति/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो 18614 महासन्नाहसन्नद्ध इत्य् उच्यते/ 18615 तद् यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महा- 18616 पथे महतो जनकायस्य पुरतो निरयंस् तिर्यग्योनियमलोकञ् च निर्मिमीते निर्माय 18617 तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति/ ततस् तेन बुद्धशब्देन 18618 धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देव- 18619 मनुष्येषूपपद्येरन्/ अपि तु सुभूते तेन मायाकारान्तेवासिना वा कश्चित् सत्त्वो 18620 निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः/ सुभूतिर् आह/ नो भगवन्/ 18621 भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन असंरूयेयेष्व् अप्रमेयेष्व् अप्रमाणेषु 18622 लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो 18623 भवति/ तत् कस्य हेतोः/ धर्मस् तेषां सुभूते धर्माणां मायाधर्मताम् उपादाय/
18624 एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्य् उच्यते//
18625 [इति करुणासम्भारः//]
18701 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्ध- 18702 स् त्रिसाहस्रं महासाहस्रं लोकधातुं वैदूर्यमयं निर्मिमीते वैदूर्यमयं निर्माय चक्र- 18703 वर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति/ 18704 एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासन- 18705 प्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवालशङ्खशिलामुक्ताभरणानि 18706 यावद् अन्यतरान्यतरं परिष्कारं ददाति/ सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्य- 18707 तरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति यद् उत इमम् एव षट्पार- 18708 मिताप्रतिसंयुक्तम्/ ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः 18709 पारमिताभिर् विरहिता भवन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते/ एवं 18710 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते/ तद् यथापि नाम सुभूते 18711 दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य 18712 पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्य- 18713 तरान्यतरं परिष्कारस् तदर्थिकेभ्यो दद्यात्/ तत् किं मन्यसे सुभूते अपि एतेन 18714 मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्/ सुभूति- 18715 र् आह/ नो भगवन्/ भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन यावच् चक्र- 18716 वर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान्
18717 मानुष्यकान् परिष्कारान् ददता कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा 18718 मानुष्यकाः परिष्कारा दत्त्वा भवन्ति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते 18719 धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाह- 18720 सन्नद्ध इत्य् उच्यते// [इति दानसम्भारः//] 18721 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} शीलपारमितायां सञ्चिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले 18722 प्रत्याजायते/ स तत्र स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति/ 18723 चतुर्षु ध्यानेषु {{चतुर्ष्व् अप्रमाणानेषु चतसृष्व् आरूप्यसमापत्तिषु चतुर्षु स्मृत्युपस्हानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चस्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु सप्तत्रिंशद्}}बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति/ यावद् अष्टादशस्व् आवेणिकेषु 18724 बुद्धधर्मेषु प्रतिष्ठापयति/ ते च सत्त्वा न जातु विरहिता भवन्ति तया
18801 धर्मदेशनया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते/ तद् यथापि नाम 18802 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्/ यावद् अष्टादशावेणि- 18803 केषु बुद्धधर्मेषु प्रतिष्टापयेत् तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य 18804 न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति/ एवम् एव सुभूते 18805 {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य यावद् अष्टा- 18806 दशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु 18807 प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}/ [इति शीलसम्भारः/] 18808 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति 18809 निवेशयति प्रतिष्ठापयति/ कथं च सुभूते {बोधिसत्त्वो} महासत्त्वः क्षान्तिपारमितायां 18810 स्थित्वा क्षान्तौ {समादापयति निवेशयति प्रतिष्ठापयति}/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद- 18811 म् उपादाय एवं सन्नाहं सन्नह्यते सचेत् मम सर्वसत्त्वा दण्डलोष्ट्रमुष्टिशस्त्रप्रहारान् 18812 दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां 18813 क्षान्तौ प्रतिष्ठापयितव्या इति/ तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} निर्मिमीते
18814 ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्ट्रैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः/ स 18815 च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवंरूपायां क्षान्तौ 18816 प्रतिष्ठापयेत्/ तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठा- 18817 पितो भवति/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ 18818 प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ 18819 धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}// [इति क्षान्तिसम्भारः//]
18901 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां 18902 {समादापयति निवेशयति प्रतिष्ठापयति}/ कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्य- 18903 पारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मन- 18904 सिकारैः कायिकचेतसिकवीर्यप्रतिष्ठितः सवसत्त्वान् {कायिकचेतसिकवीर्ये} {समादापयति निवेशयति प्रतिष्ठापयति}/ तद् यथापि 18905 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः {कायिकचेतसिकवीर्ये} 18906 प्रतिष्ठापयेत्/ तेन तांस् तावतः सत्त्वान् {कायिकचेतसिकवीर्ये} प्रतिष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये} 18907 प्रतिष्ठापितो भवति/ एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तांस् तावतः सत्त्वान् 18908 {कायिकचेतसिकवीर्ये} प्रविष्ठाप्य न कश्चित् सत्त्वः {कायिकचेतसिकवीर्ये} प्रतिष्ठापितो भवति/ तत् कस्य 18909 हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}// [इति वीर्यसम्भारः//] 18910 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् 18911 ध्य्नपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ कथं च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपार-
18912 मितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ इह {सुभूते} {बोधिसत्त्वो} 18913 महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा 18914 अविक्षेपं वा समनुपश्यति/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वो ध्यानपारमितायां 18915 स्थितो भवति/ स तथैव सर्वसत्त्वान् ध्यानपारमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ ते च समा- 18916 दापिता निवेशिताः प्रतिष्ठापिता भवन्ति/ न जातु विरहिता भवन्ति ध्यान- 18917 पारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ तद् यथापि नाम 18918 सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय जनकायं ध्यानपारमितायां प्रतिष्ठापयेत् तेन 18919 तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यान- 18920 पारमितायां प्रतिष्ठापितो भवति/ एवम् एव {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वान् 18921 ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो 18922 भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}// [इति ध्यानसम्भारः//] 18923 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वः} प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां 18924 {समादापयति निवेशयति प्रतिष्ठापयति}/ कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान्
18925 प्रज्ञाप्रमितायां {समादापयति निवेशयति प्रतिष्ठापयति}/ यतः {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्
19001 न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते/ एवं {बोधिसत्त्वो} महासत्त्वः प्रज्ञा- 19002 पारमितायां स्थितो भवति/ स तथैव सर्वसत्त्वान् अपि तत्र {समादापयति निवेशयति प्रतिष्ठापयति}/ तद् यथापि 19003 नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय} 19004 {{जनकायं प्रज्ञापारमितायां प्रतिष्ठापयेत् तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति/ एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो प्रज्ञापारमितायां प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते}}// [इति प्रज्ञासम्भारः//] 19005 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} {महासत्त्वो} महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुको- 19006 पमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां 19007 स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं 19008 शीलपारमितायां {{क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति}} प्रज्ञापारमितायां {समादापयति निवेशयति प्रतिष्ठापयति} धर्मञ् च देशयति/ यद् उत 19009 इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति
19010 षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं दक्षिण-
19011 स्यां {{दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/एवं पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति
प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् उत्तरपूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव
षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवं पश्चिमोत्तरस्याम् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/ एवम् अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान्
यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति/}}
19012 {{एवम् ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वांस् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ एवं शीलपारमितायां क्षातिपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति/ ध्यानपारमितायांसमादापयति निवेशयति प्रतिष्ठापयति प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति धर्मञ् च देशयति/ यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्/ ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षद्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभि}}संबुद्धा इति/ 19013 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय षट्पारमितासु {समादापयति निवेशयति प्रतिष्ठापयति}/ तत् 19014 किं मन्यसे सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् 19015 सत्त्वः षट्पारमितासु समादापितो भवति निवेशितो वा प्रतिष्ठापितो वा भवति/ 19016 सुभूतिर् आह/ नो भगवन्/ भगवान् आह/ एवम् एव सुभूते {बोधिसत्त्वेन} महासत्त्वेन 19017 तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पार- 19018 मितासु प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा {सुभूते धर्माणां मायाधर्मताम् उपादाय/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धं इत्य् उच्यते} 19019 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन
19020 चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति/ इयन्तो मया सत्त्वा दान- 19021 पारमितायां प्रतिष्ठापयितव्या इति/ {{इयन्तो मया सत्त्वा शीलपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा क्षान्तिपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा वीर्यपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा ध्यानपारमितायां प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा प्रज्ञापारमितायां प्रतिष्ठापयितव्या इति/}} 19022 {{इयन्तो मया सत्त्वा बोधिपक्षधर्मेषु प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा आवेणिकबुद्धधर्मेषु प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा स्रोतआपत्तिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा सकृदागामिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा अनागामिफले प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इति/ इयन्तो मया सत्त्वा प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इति/}} 19023 {{इयन्तो मया सत्त्वा सर्वज्ञत्वे प्रतिष्ठापयितव्या इति}}/ अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वा षट्सु पारमितासु 19024 प्रतिष्ठापयितव्याः/ एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु 19025 चतसृषु प्रतिसंवित्सु अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोत- 19026 आपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे असंख्येया अप्रमेयाः सत्त्वा 19027 बुद्धत्वे प्रतिष्ठापयितव्याः// [इति शमथसम्भारः//]
19101 तद् यथापि नाम सुभूते दक्षो {मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं} निर्माय तं षट्सु पारमितासु प्रतिष्ठा- 19102 पयेत्/ यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठापयेद् एवम् एव सुभूते {बोधिसत्त्वेन} महा- 19103 महासत्त्वेन तांस् तावतः सत्त्वान् असंख्येयान् अप्रमेयान् षट्सु पारमितासु प्रतिष्ठाप्य 19104 यावत् सर्वाकारवरोपेते सर्वज्ञज्ञाने प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु 19105 प्रतिष्ठापितो भवति/ तत् कस्य हेतोः/ धर्मतैषा सुभूते धर्माणां यद् इमां 19106 मायाधर्मताम् उपादाय/ 19107 सुभूतिर् आह/ यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि तथा 19108 असन्नाहसन्नद्धो वतायं {बोधिसत्त्वो} महासत्त्वो वेदितव्यः स्वलक्षणशून्यताम् उपादाय/ 19109 तत् कस्य हेतोः/ तथा हि भगवन् रूपं रूपेण शून्यं {वेदना वेदनया शून्या संज्ञा संज्ञया शून्या संस्काराः संस्कारैः शून्या} विज्ञानं विज्ञानेन 19110 शून्यं, चक्षुश् चक्षुषा शून्यम्/ {{श्रोत्रं श्रोत्रेण शून्यं घ्राणं घ्राणेन शून्यं जिह्वा जिह्वया शून्या कायः कायेन शून्यो मनो मनसा शून्यं रूपं रूपेण शून्यं शब्दः शब्देन शून्यो गन्धो गन्धेन शून्यो रसो रसेन शून्यो स्प्रष्टव्यं स्प्रष्टव्येन शून्यं धर्मो धर्मेण शून्यो}}
19111 {{चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं कायविज्ञानं कायविज्ञानेन शून्यं मनोविज्ञानं मनोविज्ञानेन शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितेन शून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितेन शून्यं घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितेन शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितेन शून्यं कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितेन शून्यं मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितेन शून्यं दानपारमिता दानपारमितया शून्या शीलपारमिता शीलपारमितया शून्या क्षान्तिपारमिता क्षान्तिपारमितया शून्या वीर्यपारमिता वीर्यपारमितया शून्या ध्यानपारमिता ध्यानपारमितया शून्या प्रज्ञापारमिता प्रज्ञापारमितया शून्या अध्यात्मशून्यता अध्यात्मशून्यतया शून्या बहिर्धाशून्यता बहिर्धाशून्यतया शून्या अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या शून्यताशून्यता शून्यताशून्यतया शून्या महाशून्यता महाशून्यतया शून्या परमार्थशून्यता परमार्थशून्यतया शून्या संस्कृतशून्यता संस्कृतशून्यतया शून्या असंस्कृतशून्यता असंस्कृतशून्यतया शून्या अत्यन्तशून्यता अत्यन्तशून्यतया शून्या अनवराग्रशून्यता अनवराग्रशून्यतया शून्या अनवकारशून्यता अनवकारशून्यतया शून्या प्रकृतिशून्यता प्रकृतिशून्यतया शून्या सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या अनुपलम्भशून्यता
अनुपलम्भशून्यतया शून्या अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या भावशून्यता भावशून्यतया शून्या अभावशून्यता अभावशून्यतया शून्या स्वभावशून्यता स्वभावशून्यतया शून्या परभावशून्यता परभावशून्यतया शून्या सप्तत्रिंशद्बोधिपक्षधर्माः सप्तत्रिंशद्बोधिपक्षधर्मैः शून्याः}}
19112 {{दशतथागतबलानि दशतथागतैः शून्यानि अष्टादशावेणिकबुद्धधर्माः अष्टादशावेणिकबुद्धधर्मैः शून्याः बोधिसत्त्वो बोधिसत्त्वेन शून्यः}}/ महा- 19113 यानसन्नाहो ऽपि भगवन् महायानसन्नाहेन शून्यः/ अनेन भगवन् पर्यायेण 19114 असन्नाहसन्नद्धो बोधिसत्त्वो वेदितव्यः/ एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अ- 19115 वोचत्/ एवम् एतत् सुभूते यथा वदसि/ तत् कस्य हेतोः/ अकृता हि सुभूते 19116 सर्वाकारज्ञता अविकृता अनभिसंस्कृता/ ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो 19117 {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहः सन्नद्धः/ 19118 सुभूतिर् आह/ केन कारणेन भगवन् सर्वाकारज्ञता {अकृता अविकृता अनभिसंस्कृता}/ 19119 ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता} येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महा- 19120 सन्नाहसन्नद्धः/ भगवान् आह/ कारकानुपलब्धिताम् उपादाय सुभूते सर्वाकार- 19121 ज्ञता {अकृता अविकृता अनभिसंस्कृता}/ ते ऽपि सत्त्वा {अकृता अविकृता अनभिसंस्कृता}/ तत् कस्य हेतोः/ न हि सुभूते रूपं 19122 करोति न विकरोति नाभिसंस्करोति/ {{न वेदना करोति न विकरोति नाभिसंस्करोति/ न संज्ञा करोति न विकरोति नाभिसंस्करोति/ न संस्काराः कुर्वन्ति न विकुर्वन्ति नाभिसंस्कुर्वन्ति/ न विज्ञानं करोति न विकरोति नाभिसंस्करोति/ न चक्षुः करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रं करोति न विकरोति नाभिसंस्करोति/ न घ्राणं करोति न विकरोति नाभिसंस्करोति/ न जिह्वा करोति न विकरोति नाभिसंस्करोति/ न कायः करोति न विकरोति नाभिसंस्करोति/ न मनः करोति न विकरोति नाभिसंस्करोति/}}
19123 {{न रूपं करोति न विकरोति नाभिसंस्करोति/ न शब्दः करोति न विकरोति नाभिसंस्करोति/ न गन्धः करोति न विकरोति नाभिसंस्करोति/ न रसः करोति न विकरोति नाभिसंस्करोति/ न स्प्रष्टव्यं करोति न विकरोति नाभिसंस्करोति/ न धर्मः करोति न विकरोति नाभिसंस्करोति/ न चक्षुर्विज्ञानं करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न घ्राणविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न जिह्वाविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न कायविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न मनोविज्ञानं करोति न विकरोति नाभिसंस्करोति/ न चक्षुःसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न श्रोत्रसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न घ्राणसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न जिह्वासंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/ न कायसंस्पर्शप्रत्ययवेदयितं करोति न विकरोति नाभिसंस्करोति/}} न मनःसंस्पर्शप्रत्ययवेदयितं करोति 19124 न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा ह्य् अत्यन्ततया सर्व एते
19201 न विद्यन्ते नोपलभ्यन्ते/ आत्मा सुभूते न {करोति न विकरोति नाभिसंस्करोति}/ एवं न सत्त्वो न जीवो 19202 {{न पोषो न पुरुषो न पुद्गलो न मनुजो न मानवो न कारको न वेदको न जानको}} न पश्यकः करोति {{न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते}} नोपलभ्यन्ते/ 19203 स्वप्नः सुभूते न {करोति न विकरोति नाभिसंस्करोति}/ प्रतिश्रुत्कः प्रतिभासः प्रतिबिम्बं मरीचिर् न निर्माणं 19204 करोति {{न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते/}} 19205 {{अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता न परभावशून्यता करोति न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यन्ते}}/ सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशा- 19206 रद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा/ तथता {{आकाशधातुर् भूतकोटिर् अचिन्त्यधातुर् बोधिः}} सर्वाकार- 19207 ज्ञता सुभूते न करोति न विकरोति नाभिसंस्करोति/ तत् कस्य हेतोः/ 19208 तथा हि अत्यन्ततया न विद्यन्ते नोपलभ्यते/ अनेन सुभूते पर्यायेण सर्वा- 19209 कारज्ञता {अकृता अविकृता अनभिसंस्कृता}/ येषां कृतशो {बोधिसत्त्वेन} महासत्त्वेन महासन्नाहसन्नद्धः/ एवं
19210 हि सुभूते {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते// [इति विदर्शना- 19211 सम्भारः//] 19212 सुभूतिर् आह/ यथाहं भगवतो भाषितस्यार्थम् आजानामि/ रूपं भगवन्न् अ- 19213 बद्धम् अमुक्तं वेदनासंज्ञासंस्कारा विज्ञानं भगवन् न {बद्धमुक्तम्} 19214 पूर्णो मैत्रायणीपुत्र आह/ रूपम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि/ 19215 {{वेदनायुष्मन् सुभूते अबद्धामुक्तेति वदसि/ संज्ञायुष्मन् सुभूते अबद्धामुक्तेति वदसि/ संस्कारा आयुष्मन् सुभूते अबद्धा अमुक्ता इति वदसि/ विज्ञानम् आयुष्मन् सुभूते अबद्धम् अमुक्तम् इति वदसि}}/ 19216 सुभूतिर् आह/ एवम् एतद् आयुष्मन् पूर्ण/ 19217 पूर्ण आह/ कतमत् तद् आयुष्मन् सुभूते रूपं यद् {अबद्धम् अमुक्तम्}/ {{कतमा सायुष्मन् सुभूते वेदना याबद्धामुक्ता/ कतमा सायुष्मन् सुभूते संज्ञा याबद्धामुक्ता/ कतमाः ते आयुष्मन् सुभूते संस्कारा ये अबद्धा अमुक्ताः/ कतमत् तद् आयुष्मन् सुभूते विज्ञानं यद् अबद्धम् अमुक्तम्}}/ 19219 सुभूतिर् आह/ यद् एतद् आयुष्मन् पूर्ण स्वप्नोपमं रूपं तद् {अबद्धम् अमुक्तम्}/ य एते 19220 स्वप्नोपमा वेदना {{साबद्धामुक्ता/ य एषा स्वप्नोपमा संज्ञा साबद्धामुक्ता/ ये एते स्वप्नोपमाः संस्काराः ते ऽबद्धा अमुक्ताः/ यद् एतत् स्वप्नोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}/ एवं प्रतिश्रुत्कोपमा मायोपमा मरीच्युपमा प्रति- 19221 भासोपमा यद् एतद् आयुष्मन् पूर्ण निर्मितोपमं रूपं तद् {अबद्धम् अमुक्तम्}/ य एते निर्मितोपमा
19301 वेदना {{साबद्धामुक्ता/ य एषा निर्मितोपमा संज्ञा साबद्धामुक्ता/ ये एते निर्मितोपमाः संस्काराः ते ऽबद्धा अमुक्ताः/ यद् एतत् निर्मितोपमं विज्ञानं तद् अबद्धम् अमुक्तम्}}/ एवम् अनागतं प्रत्युत्पन्नम् आयुष्मन् पूर्ण रूपम् {अबद्धम् अमुक्तम्}/ प्रत्युत्पन्ना 19302 वेदना {{अबद्धामुक्ता/ प्रत्युत्पन्ना संज्ञाबद्धामुक्ता/ प्रत्युत्पन्नाः संस्कारा अबद्धा अमुक्ताः/ प्रत्युत्पन्नं विज्ञानम् अबद्धम् अमुक्तम्}}/ तत् कस्य हेतोः/ असत्त्वाद् आयुस्मन् पूर्ण रूपस्य/ एवं तद् रूपम् {अबद्धम् अमुक्तम्}/ 19303 असत्त्वाद् आयुष्मन् पूर्ण वेदनायाः संज्ञायाः संस्काराणाम्/ असत्त्वाद् आयुष्मन् 19304 पूर्ण विज्ञानस्यैवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}/ एवं विविक्तत्वाच् छान्तत्वाच् छून्यत्वाद् अनिमित्त- 19305 त्वाद् अप्रणिहितत्वाद् असंस्कृतत्वाद् अनुत्पन्नत्वात् कुशलम् अकुशलं संक्लेशन् निष्क्लेशं 19306 सावद्यम् अनवद्यं सास्रवम् अनास्रवं लौकिकं लोकोत्तरं संक्लिष्टं व्यवदानम् आयुष्मन् पूर्णं 19307 रूपम् {अबद्धम् अमुक्तम्}/ तत् कस्य हेतोः/ असत्त्वाद् रूपस्यैवं तद् रूपम् {अबद्धम् अमुक्तम्}/ वेदना संज्ञा 19308 संस्काराः/ संक्लिष्टं व्यवदानम् आयुष्मन् पूर्ण विज्ञानम् {अबद्धम् अमुक्तम्}/ तत् कस्य हेतोः/ 19309 असत्त्वाद् विज्ञानस्य एवं तद् विज्ञानम् {अबद्धम् अमुक्तम्}/ सर्वधर्मा अप्य् आयुष्मन् पूर्ण {अबद्धा अमुक्ताः}/ 19310 तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अ-
19311 बद्धा अमुक्ता/ {{अध्यात्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ बहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अध्यात्मबहिर्धाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ शून्यताशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ महाशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ परमार्थशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ संस्कृतशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अत्यन्तशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनवराग्रशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनवकारशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/
प्रकृतिशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ सर्वधर्मशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ स्वलक्षणशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अनुपलम्भशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अभावस्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ भावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ अभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ स्वभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/ परभावशून्याता अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/}}
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
