Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1
- Thông tin
- GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
शून्यता, शून्यतैव जिह्वाविज्ञानम्/ न कायविज्ञानशून्यतया कायविज्ञानं शून्यम्, कायविज्ञानम् एव शून्यता, शून्यतैव कायविज्ञानम्/ न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यम्, मनोविज्ञानम् एव शून्यता, शून्यतैव मनोविज्ञानम्/ न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः, चक्षुःसंस्पर्श एव शून्यता, शून्यतैव चक्षुःसंस्पर्शः/ न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः, श्रोत्रसंस्पर्श एव शून्यता, शून्यतैव श्रोत्रसंस्पर्शः/ न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः, घ्राणसंस्पर्श एव शून्यता, शून्यतैव घ्राणसंस्पर्शः/ न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः, जिह्वासंस्पर्श एव शून्यता, शून्यतैव जिह्वासंस्पर्शः/ न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः, कायसंस्पर्श एव शून्यता, शून्यतैव कायसंस्पर्शः/ न मनःसंस्पर्शशून्यतया मनःसंस्पर्शः शून्यः, मनःसंस्पर्श एव शून्यता, शून्यतैव मनःसंस्पर्शः/ न चक्षुःप्रत्ययवेदयितशून्यतया चक्षुःप्रत्ययवेदयितं शून्यम्, चक्षुःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव चक्षुःप्रत्ययवेदयितम्/ न श्रोत्रप्रत्ययवेदयितशून्यतया श्रोत्रप्रत्ययवेदयितं शून्यम्, श्रोत्रप्रत्ययवेदयितम् एव शून्यता, शून्यतैव श्रोत्रप्रत्ययवेदयितम्/ न घ्राणप्रत्ययवेदयितशून्यतया घ्राणप्रत्ययवेदयितं शून्यम्, घ्राणप्रत्ययवेदयितम् एव शून्यता, शून्यतैव घ्राणप्रत्ययवेदयितम्/ न जिह्वाप्रत्ययवेदयितशून्यतया जिह्वाप्रत्ययवेदयितं शून्यम्, जिह्वाप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वाप्रत्ययवेदयितम्/ न कायप्रत्ययवेदयितशून्यतया कायप्रत्ययवेदयितं शून्यम्,
कायप्रत्ययवेदयितम् एव शून्यता, शून्यतैव कायप्रत्ययवेदयितम्/ न मनःप्रत्ययवेदयितशून्यतया मनःप्रत्ययवेदयितं शून्यम्, मनःप्रत्ययवेदयितम् एव शून्यता, शून्यतैव मनःप्रत्ययवेदयितम्/ न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि, स्मृत्युपस्थानान्य् एव शून्यता, शून्यतैव स्मृत्युपस्थानानि/}}
15519 एवं सम्यक्प्रहाणर्द्धि- 15520 पादेन्द्रियबलबोध्यङ्गानि/ न मार्गशून्यतया मार्गः शून्यो, मार्ग एव शून्यता, 15521 शून्यतैव मार्गः/ न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्याः, 15522 बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य
15601 प्रज्ञापारमिता, एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते} 15602 /
[इत्य् उपायकौशल्यं प्रथमः सपरिग्रहः/] 15603 सुभूतिर् आह/ कतमानि भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि 15604 यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते} 15605 भगवान् आह/ इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य 15606 रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशल- 15607 मूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति अन्यत्र सर्वाकारज्ञतायाः/ 15608 वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} 15609 सर्वाकारज्ञतायाः/ अमूनि सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य 15610 रूपं दुःखम् इति धर्मं देशयन्ति/ रूपम् अनात्मेति शान्तम् इति विविक्तम् इति 15611 शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भ{{योगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} 15612 सर्वाकारज्ञतायाः/ वेदना संज्ञा संस्काराः यान्य् अस्य 15613 विज्ञानं दुःखम् इति {{धर्मं देशयन्ति/ विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र}} सर्वाकारज्ञतायाः/ अमूनि 15614 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते {बोधिसत्त्वस्य} महा- 15615 सत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर् अनित्यम्
इति धर्मं देशयन्ति 15616 {{तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रं घ्राणं जिह्वा कायो मन अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुर् दुःखम् इति धर्मं देशयन्ति/ चक्षुर् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रं घ्राणं जिह्वा कायो मनो दुःखम् इति धर्मं देशयन्ति/ मन अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुर्विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य
चक्षुर्विज्ञानं दुःखम् इति धर्मं देशयन्ति/ चक्षुर्विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं दुःखम् इति धर्मं देशयन्ति/ मनोविज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/}} 15617 {{पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शो कायविज्ञानसंस्पर्शो मनःसंस्पर्शो ऽनित्य इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शो दुःख इति धर्मं देशयन्ति/ चक्षुःसंस्पर्शो अनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो
जिह्वासंस्पर्शो कायसंस्पर्शो मनःसंस्पर्शो दुःख इति धर्मं देशयन्ति/ मनःसंस्पर्शो ऽनात्मेति शान्त इति विविक्त इति शून्य इति अनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य चक्षुःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति/ चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं दुःखम् इति धर्मं देशयन्ति/
मनःसंस्पर्शप्रत्ययवेदयितम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति अनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य स्मृत्युपस्थानानि दुःखान्य् इति धर्मं देशयन्ति/ स्मृत्युपस्थानान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि/ पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य सम्यक्प्रहाणान्य् अनित्यान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/ अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि याण्य् अस्य सम्यक्प्रहाणानि दुःखान्य् इति धर्मं देशयन्ति/ सम्यक्प्रहाणान्य् अनात्मान्य् इति शान्तान्य् इति विविक्तान्य् इति शून्यान्य् इति अनिमित्तान्य् इति अप्रणिहितान्य् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ
परिणामयति अन्यत्र}} 15618 सर्वाकारज्ञतायाः/ एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि 15619 बोध्यङ्गानि आर्याष्टाङ्गमार्गो ऽनित्य इति {{धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} 15620 एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} 15621 एवं वैशारद्यानि प्रतिसंविदो दश तथागतबलानि अष्टादशावेणिका बुद्धधर्मा 15622 अप्य् अनित्या इति धर्मं देशयन्ति दुःखा {{इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन/ तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयति अन्यत्र सर्वाकारज्ञतायाः/}} इमानि 15623 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्ञापारमिता- 15624 निर्देशं श्रुत्वा {नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते}
15701 सुभूतिर् आह/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो 15702 भविष्यति पापमित्रहस्तगतश् च भविष्यति/ य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा 15703 उत्त्रसिष्यति संत्रसिष्यति सन्त्रासम् आपत्स्यते/ 15704 भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतियुक्तैः 15705 मनसिकारैः प्रज्ञापारमितां भावयति उपलभते/ तथा च प्रज्ञापारमितया 15706 मन्यते/ 15707 {{ध्यानपारमितां भावयति उपलभते/ तथा च ध्यानपारमितया मन्यते/ वीर्यपारमितां भावयति उपलभते/ तथा च वीर्यपारमितया मन्यते/ क्षान्तिपारमितां भावयति उपलभते/ तथा च क्षान्तिपारमितया मन्यते/ शीलपारमितां भावयति उपलभते/ तथा च शीलपारमितया मन्यते/}} 15708 पुनर् अपरं सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै} रूपम् अध्यात्म- 15709 शून्यम् इति मनसिकरोति/ रूपं बहिर्धा{शून्यम् इति मनसिकरोति} यावद् रूपम् अभावस्वभाव{शून्यम् इति मनसिकरोति}
15710 {{वेदनाध्यात्मशून्येति मनसिकरोति/ वेदना बहिर्धाशून्येति मनसिकरोति यावद् वेदनाभावस्वभावशून्येति मनसिकरोति/ संज्ञाध्यात्मशून्येति मनसिकरोति/ संज्ञा बहिर्धाशून्येति मनसिकरोति यावद् संज्ञाभावस्वभावशून्येति मनसिकरोति/ संस्कारा अध्यात्मशून्या इति मनसिकरोति/ संस्कारा बहिर्धाशून्या इति मनसिकरोति यावद् संस्कारा अभावस्वभावशून्या इति मनसिकरोति/ विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति/ विज्ञानं बहिर्धाशून्यम् इति मनसिकरोति यावद् विज्ञानम् अभावस्वभावशून्यम् इति मनसिकरोति}}/ {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} तां चाध्यात्मशून्यतां बहिर्धाशून्यतां 15711 अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभि- 15712 र् मन्यते उपलम्भयोगेन/ चक्षुर् अध्यात्म{शून्यम् इति मनसिकरोति} बहिर्धा{शून्यम् इति मनसिकरोति} अध्यात्मबहिर्धा{शून्यम् इति मनसिकरोति} 15713 यावद् अभावस्वभावस्वभाव{शून्यम् इति मनसिकरोति}/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ 15714 एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्म{शून्यम् इति मनसिकरोति/}
15715 {{श्रोत्रं घ्राणं जिह्वा कायो मनो बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रं घ्राणं जिह्वा कायो मनो ऽभावस्वभावशून्यम् इति मनसिकरोति/ रूपम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽध्यात्मशून्य इति मनसिकरोति/ शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो बहिर्धाशून्य इति मनसिकरोति/ यावत् शब्दो गन्धो रसः स्प्रष्टव्यं धर्मो ऽभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुर्विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति/ श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं अभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुःसंस्पर्शो ऽध्यात्मशून्य इति मनसिकरोति बहिर्धाशून्य इति मनसिकरोति अध्यात्मबहिर्धाशून्य इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्य इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽध्यात्मशून्य इति
मनसिकरोति/ श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो बहिर्धाशून्य इति मनसिकरोति/ यावत् श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शो ऽभावस्वभावशून्यम् इति मनसिकरोति/ चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति बहिर्धाशून्यम् इति मनसिकरोति अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति यावद् अभावस्वभावस्वभावशून्यम् इति मनसिकरोति/ ताश् च शून्यता उपलभते तथा च मन्यते उपलम्भयोगेन/ एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति/ श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् बहिर्धाशून्यम् इति मनसिकरोति/ यावत् श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितम् अभावस्वभावशून्यम् इति मनसिकरोति/}}
15716 एवम् अविद्यायां यावज् जरामरणम् अध्यात्म{शून्यम् इति मनसिकरोति} {{जरामरणं बहिर्धाशून्यम् इति मनसिकरोति यावद् जरामरणम् अभावस्वभावशून्यम् इति मनसिकरोति}} 15717 पुनर् अपरं {सुभूति} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् {अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः} स्मृत्युपस्थानानि 15718 भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन/ 15719 एवं सम्यक्प्रहाणानि {{ऋद्धिपादान् इन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् प्रतिसंविदश् वैशारद्यानि अभिज्ञाः तथागतबलानि}} बुद्धधर्मान् भावयति/ तांञ् च बुद्धधर्मान् उपलभते 15720 तैश् च मन्यते उपलम्भयोगेन/ एवं खलु सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां 15721 चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते} 15722 सुभूतिर् आह/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वः पापमित्रपरिगृहीतो भवति/
15801 येन पापमित्रपरिग्रहणेनेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति {सन्त्रस्यति सन्त्रासम् आपद्यते} 15802 भगवान् आह/ इह सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य प्रज्ञापारमिताया विवेचयति 15803 ध्यानपारमिताया {{विवेचयति वीर्यपारमिताया विवेचयति क्षान्तिपारमिताया विवेचयति शीलपारमिताया विवेचयति}} दानपारमिताया विवेचयति/ नात्र शिक्षितव्यम् इति 15804 नैतत् तथागतेनार्हता सम्यक्संबुद्धेन भाषितम् इति कविकृतान्य् एतानि 15805 काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न 15806 धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परस्या- 15807 देशयितव्यानि/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15808 पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्मा- 15809 ण्य् उपदिशति/ न मारदोषान् आचष्ट इति हि मारः पापीयान् बुद्धवेषेण विवेचयति 15810 {बोधिसत्त्वं} महासत्त्वम् उपसंक्रम्यैवं ब्रवीति/ किं ते कुलपुत्र प्रज्ञापारमितया भावितया 15811 {{किं ते ध्यानपारमितया भावितया/ किं ते वीर्यपारमितया भावितया/ किं ते क्षान्तिपारमितया भावितया/ किं ते शीलपारमितया भावितया/}} किं ते दानपारमितया भावितया/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15812 पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं 15813 व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेश- 15814 म् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति/
15815 इमान्य् एवंरूपाणि मारकर्माणि चाख्यातानि नावबोधयति/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15816 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वम्} महासत्त्वम् उपसंक्राम्यैवं वक्ष्यति/ न ते कुलपुत्र किंचिद् बो- 15817 धिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभि- 15818 संबोद्धुम्/ य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति/ इदम् अपि 15819 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15820 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वस्य} महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति चक्षुः कुल-
15901 पुत्र शून्यम् आत्मना चात्मीयेन च/ एवं श्रोत्रं {{शून्यम् आत्मना चात्मीयेन च घ्राणं शून्यम् आत्मना चात्मीयेन च जिह्वा शून्यात्मना चात्मीयेन च कायः शून्य आत्मना चात्मीयेन च}} मनः शून्यम् आत्मना चात्मी- 15902 येन च {{रूपं शून्यम् आत्मना चात्मीयेन च शब्दः शून्य आत्मना चात्मीयेन च गन्धः शून्य आत्मना चात्मीयेन च रसः शून्य आत्मना चात्मीयेन च स्प्रष्टव्यं शून्यम् आत्मना चात्मीयेन च धर्मः शून्य आत्मना चात्मीयेन च चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च श्रोत्रविज्ञानं शून्यम् आत्मना चात्मीयेन च घ्राणविज्ञानं शून्यम् आत्मना चात्मीयेन च जिह्वाविज्ञानं शून्यम् आत्मना चात्मीयेन च कायविज्ञानं शून्यम् आत्मना चात्मीयेन च मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च श्रोत्रसंस्पर्शः शून्य आत्मना चात्मीयेन च घ्राणसंस्पर्शः शून्य आत्मना चात्मीयेन च जिह्वासंस्पर्शः शून्य आत्मना चात्मीयेन च कायसंस्पर्शः शून्य आत्मना चात्मीयेन च मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च श्रोत्रसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च घ्राणसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च जिह्वासंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च कायसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च}}
15903 {{दानपारमिता शून्यात्मना चात्मीयेन च शीलपारमिता शून्यात्मना चात्मीयेन च क्षान्तिपारमिता शून्यात्मना चात्मीयेन च वीर्यपारमिता शून्यात्मना चात्मीयेन च ध्यानपारमिता शून्यात्मना चात्मीयेन च प्रज्ञापारमिता शून्यात्मना चात्मीयेन च}} स्मृत्युपस्थानानि शून्यानि आत्मना 15904 चात्मीयेन च एवं सम्यक्प्रहाणानि ऋद्धिपादाः इन्द्रियाणि बलानि बोध्य- 15905 ङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेन च/ किं 15906 करिष्यत्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि 15907 नाचष्टे नोपदिशति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 15908 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} {बोधिसत्त्वं} महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति/ 15909 शून्यता कुलपुत्र पूर्वदिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधि- 15910 र् न बोधिसत्त्वो न श्रावकः/ एवं समन्ताद् दशदिशः शून्या बुद्धैर् भगवद्भिः 15911 बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः/ य 15912 इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति/ इमानि {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्राणि वेदितव्यानि/} 15913 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} श्रमणवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं सर्वाकारज्ञता- 15914 प्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेच्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै- 15915 र् अनुशासिष्यति अववदिष्यति/ य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति/ इदं 15916 {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/}
15917 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} उपाध्यायाचार्यवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वं बोधि- 15918 सत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवे- 15919 चयिष्यति/ स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु 15920 इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु नियोजयिष्यति शून्यतायाम् अनिमित्ते अप्रणिहिते 15921 नियोजयिष्यति/ इमान्य् एवंरूपान् धर्मान् साक्षत्कृत्य श्रावकभूमिं साक्षात्- 15922 कुरुष्व, किं ते करिष्यत्य् अनुत्तरया सम्यक्संबोध्यभिसंबुद्धया य इमान्य् एवं- 15923 रूपाणि मारकर्माणि नाचष्टे नोपदिशति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/}
16001 {पुनर् अपरं} {सुभूते} {मारः पापीयान्} मातापितृवेषेणोपसंक्रम्य {बोधिसत्त्वं} महासत्त्वम् एवं वक्ष्यति/ 16002 एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व {सकृदागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व, अनागामिफलसाक्षात्क्रियायै योगम् आपद्यस्व} अर्हत्त्व- 16003 फलसाक्षात्क्रियायै योगम् आपद्यस्व/ किं ते ऽनुत्तरया सम्यक्संबोध्याभि- 16004 संबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरतो हस्त- 16005 च्छेदाः पादच्छेदाश् चानुभवितव्याः/ य इमान्य् एवंरूपाणि मारकर्माणि 16006 नोपदेक्ष्यति नाख्यास्यति/ इदं {सुभूते बोधिसत्त्वस्य महासत्त्स्य पापमित्रं वेदितव्यम्/} 16007 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वस्य {मारः पापीयान्} भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्य- 16008 म् इति देशयिष्याति उपलम्भयोगेन/ रूपं दुःखम् अनात्मकं शान्तं विविक्तं 16009 शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ 16010 {{वेदनानित्येति देशयिष्याति उपलम्भयोगेन/ वेदना दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ संज्ञानित्येति देशयिष्याति उपलम्भयोगेन/ संज्ञा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ संस्कारा अनित्या इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन/ विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ चक्षुर् अनित्यम् इति देशयिष्याति
उपलम्भयोगेन/ चक्षुर् दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ श्रोत्रम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ श्रोत्रं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ घ्राणम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ घ्राणं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ जिह्वानित्येति देशयिष्याति उपलम्भयोगेन/ जिह्वा दुःखानात्मका शान्ता विविक्ता शून्यानिमित्ताप्रणिहितेति देशयिश्यति उपलम्भयोगेन/ कायो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ कायो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ मनो अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ मनो दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ रूपम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ शब्दो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ शब्दो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ गन्धो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ गन्धो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ रसो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ रसो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ स्प्रष्टव्यम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ स्प्रष्टव्यं दुःखम्
अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ धर्मो ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ धर्मो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/ चक्षुर्विज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ चक्षुर्विज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ श्रोत्रविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ श्रोत्रविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ घ्राणविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ घ्राणविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ जिह्वाविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ जिह्वाविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ कायविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ कायविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन/ मनोविज्ञानम् अनित्यम् इति देशयिष्याति उपलम्भयोगेन/ मनोविज्ञानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् अनिमित्तम् अप्रणिहितम् इति देशयिश्यति उपलम्भयोगेन}}/ एवं यावत् स्मृत्युपस्थानान्य् अ- 16011 नित्यानि {{इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन}}/ एवं सम्यक्प्रहाणान्य् {{अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/
स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ ऋद्धिपादा अनित्या इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन/ इन्द्रियाण्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ बलान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/ बोध्यङ्गान्य् अनित्यान्य् इति देशयिष्याति उपलम्भयोगेन/ स्मृत्युपस्थानानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यान्य् अनिमित्तान्य् अप्रणिहितान्य् इति देशयिश्यति उपलम्भयोगेन/}} मार्गो ऽ- 16012 नित्यो {{ऽनित्य इति देशयिष्याति उपलम्भयोगेन/ मार्गो दुःखो ऽनात्मकः शान्त विविक्तः शून्यो ऽनिमित्तो ऽप्रणिहित इति देशयिश्यति उपलम्भयोगेन/}} यावद् बुद्धधर्मा अपि अनित्या {{इति देशयिष्याति उपलम्भयोगेन/ संस्कारा दुःखा अनात्मकाः शान्ता विविक्ताः शून्या अनिमित्ता अप्रणिहिता इति देशयिश्यति उपलम्भयोगेन}} 16013 /
य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति इद- 16014 म् अपि {{सुभूते बोधिसत्त्वस्य महासत्त्स्य}} पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्// [इति कल्याण- 16015 मित्रद्वितीयसंपरिग्रहः/] [इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्//] 16016 सुभूतिर् आह/ बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते/ बोधिसत्त्व 16017 इति भगवन् कः पदार्थः/ भगवान् आह/ अपदार्थः सुभूते बोधिसत्त्वपदार्थः/ 16018 तत् कस्य हेतोः/ न हि सुभूते बोधिर् उत्पादास्तिता वा नास्तिता वा विद्यते वोप- 16019 लभ्यते/ तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः// [इति गोत्रस्वरूपम्/] तद् 16020 यथापि नाम सुभूते आकाशे शकुनेः पदं न {विद्यते नोपलभ्यते} एवम् एव सुभूते 16021 बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ 16022 {{स्वप्नस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ मायायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ मरीच्याः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}} 16023 {{प्रतिश्रुत्कायाः पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ प्रतिभासस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ प्रतिबिम्बस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ गन्धर्वनगरस्य पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ निर्मितस्य
पदं न विद्यते नोपलभ्यते एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते }}//
16101 [इत्य् उष्मगताधारः//] {तद् यथापि नाम सुभूते} भूतकोट्याः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथतायाः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}/ 16102 एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्म- 16103 नियामतायाः सत्यतायाः पदं {न विद्यते नोपलभ्यते/ एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते}// [इति मूर्धगताधारः//] 16104 {तद् यथापि नाम सुभूते} मायापुरुषस्य रूपस्य पदं न {विद्यते नोपलभ्यते}/ एवम् एव सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य 16105 प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवं वेदना संज्ञा संस्काराः/ 16106 {तद् यथापि नाम सुभूते} मायापुरुषस्य विज्ञानस्य पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}
16107 {{तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ तद् यथापि नाम सुभूते मायापुरुषस्य मनसः पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं/ तद् यथापि नाम सुभूते मायापुरुषस्य धर्मस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते मायापुरुषस्य चक्षुर्विज्ञानस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्/ तद् यथापि नाम सुभूते मायापुरुषस्य मनोविज्ञानस्य पदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}// [इति 16108 क्षान्तिगताधारः//] 16109 {तद् यथापि नाम सुभूते} मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न
16110 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/} {{तद् यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ अध्यात्मबहिर्धाशून्यता- 16111 यां चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ यावद् विस्तरेण/ {तद् यथापि नाम सुभूते} 16112 मायापुरुषस्य अभावस्वभावशून्यतायां चरतो {{बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}} {तद् यथापि नाम सुभूते} माया- 16113 पुरुषस्य पारमितासु स्मृत्युपस्थान्{{एषु सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गेषु प्रतिसंवित्सु वैशारद्येषु अभिज्ञासु तथागतबलेषु}} बुद्धधर्मेषु स्कन्धेषु धातुषु आयत- 16114 नेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो 16115 न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इत्य् अग्रधर्मगताधारः//]
16116 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16117
16201 {{एवं वेदना संज्ञा संस्काराः/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य विज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रं घ्राणं जिह्वा कायः/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनःपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं शब्दो गन्धो रसः स्प्रष्टव्यं/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ तद् यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्व्विज्ञानं कायविज्ञानम्/ तद्
यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य मनोविज्ञानपदार्थो न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य
16202 अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न 16203 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्षधर्म- 16204 बलवैशारद्यावेणिकबुद्धधर्मे चरतो बोधिसत्त्वपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} 16205 असंस्कृतधातौ संस्कृतध्तुपदं न {विद्यते नोपलभ्यते}/ संस्कृतधातौ असंस्कृतधातुपदं न 16206 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इति दर्शनमार्गाधारः//] 16207 {तद् यथापि नाम सुभूते} अनुत्पादपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} अनिरोधानभिसंस्कारा- 16208 प्रादुर्भावानुपलम्भासंक्लेशपदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} अव्यवदान-
16209 पदार्थो न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ तत् कस्य हेतोः/ रूपस्य सुभूते उत्पाद- 16210 पदार्थो न {विद्यते नोपलभ्यते/} {{वेदनायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते}}/ तत् कस्य हेतोः/ 16211 रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेश{पदार्थो न विद्यते नोपलभ्यते}/ 16212 {{वेदनायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते}}/ [तत् कस्य हेतोः/ रूपस्य सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते}]/ 16213 {{वेदनायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते/ संज्ञायाः सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते/ संस्काराणां सुभूते अव्यवदान{पदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्य सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धानां धातू-
16214 नाम् आयतनानां प्रतीत्यसमुत्पादस्य उत्पाद{पदार्थो न विद्यते नोपलभ्यते}/ यावत् स्कन्धधात्वायतनप्रतीत्य- 16215 समुत्पादेषु व्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवं सप्तत्रिंशद्बोधिपक्षधर्माप्रमाणध्यानारूप्य- 16216 समापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पाद{पदार्थो न विद्यते नोपलभ्यते}/ एवं 16217 यावद् व्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} आवेणिकानां बुद्धधर्माणां यावत् 16218 संक्लेशव्यवदान{पदार्थो न विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16219 {तद् यथापि नाम सुभूते} रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/}
16301 {{वेदनाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ संज्ञाया अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ संस्काराणाम् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते/ विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते/ एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}}/ {तद् यथापि नाम सुभूते} व्यस्तसमस्तानां स्कन्धधात्वायतन- 16302 प्रतीत्यसमुत्पादानाम् अत्यन्तविविक्तत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16303 {तद् यथापि नाम सुभूते} स्मृत्युपस्थानानाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न {विद्यते नोपलभ्यते}/ एवम् एव 16304 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ एवं सम्यक्प्रहाण{{र्द्धिपादेन्द्रियबलबोध्यङ्गमार्गबलवैशारद्यप्रतिसंविदावेणिक}}बुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं 16305 न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो
बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकानां विशुद्धौ 16306 पदं न {विद्यते नोपलभ्यते} आत्मसत्त्वजीव{{पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकासत्त्वाम् उपादाय/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16307 [इति भावनामार्गाधारः//] 16308 {तद् यथापि नाम सुभूते} आदित्यस्योदागच्छतः प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इति 16309 प्रतिपक्षाधारः//] 16310 {तद् यथापि नाम सुभूते} कल्पोद्वाहे वर्तमाने सर्वसंस्कारे पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते} 16311 //
[इति विपक्षप्रहाणाधारः//] 16312 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न {विद्यते नोपलभ्यते}/ 16313 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न {विद्यते नोपलभ्यते}/ 16314 तथागतप्रज्ञायां दौष्प्रज्ञपदं न {विद्यते नोपलभ्यते}/ तथागतविमुक्ताव् अविमुक्तिपदं न {विद्यते नोपलभ्यते}/ 16315 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य विमुक्तिज्ञानदर्शनपदं न 16316 {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः//] 16317 {तद् यथापि नाम सुभूते} सूर्याचन्द्रमसोः प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इति प्रज्ञा- 16318 करुणाधारः//]
16401 {तद् यथापि नाम सुभूते} श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न {विद्यते नोपलभ्यते}/ 16402 एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इत्य् असाधारणगुणाधारः//] 16403 {तद् यथापि नाम सुभूते} चातुर्महाराजकायिकानां देवानां {{त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतयानां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां}} 16404 महाब्रह्माणां देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव 16405 {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}// [इति परार्थानुक्रमाधारः/] 16406 {तद् यथापि नाम सुभूते} तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न {विद्यते नोपलभ्यते}/ एवम् एव {सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते}/ 16407 तत् कस्य हेतोः/ तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्व- 16408 पदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एक- 16409 लक्षणा यद् उतालक्षणाः/ सर्वधर्माणां हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन असक्तताया- 16410 म् असद्भूततायां शिक्षितव्यम्/ अकल्पनताम् अकल्पनतां चोपादाय सर्वधर्माश् च सुभ्ते 16411 {बोधिसत्त्वेन} महासत्त्वेनावबोद्धव्याः// [इत्य् अनाभासे प्रवृत्तज्ञानाधारः//] [इत्य् उक्तः प्रति- 16412 पत्त्याधारः//] 16413 सुभूतिर् आह/ कतमे भगवन् सर्वधर्माः/ कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्व- 16414 धर्माणाम् असद्भूततायां शिक्षितव्यम्/ कथं भगवन् {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा 16415 अवबोद्धव्याः/ भगवान् आह/ सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृता- 16416 श् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च 16417 साधारणाश् चासाधारणाश् च/ इम उच्यन्ते सुभूते सर्वधर्मा यत्र {बोधिसत्त्वेन} महासत्त्वेना-
16501 सद्भूततायां शिक्षितव्यम्/ इमे सुभूते {बोधिसत्त्वेन} महासत्त्वेन सर्वधर्मा अवबोद्धव्याः//
16502 [इत्य् आलम्बनस्वरूपम्//] 16503 सुभूतिर् आह/ कतमे भगवन् कुशला लोकिका धर्माः/ भगवान् आह/ 16504 कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता प्त्रेयता श्रामण्यता ब्रह्मण्यता 16505 कुले ज्येष्ठापचायिता/ दानमयं पुण्यक्रियावस्तु शीलमयं {पुण्यक्रियावस्तु}/ भावनामयं {पुण्यक्रियावस्तु}/ 16506 वैयावृत्यसहगतम् उपायकौशलम्/ दशकुशलाः कर्मपथाः/ लौकिका नवसंज्ञा/ 16507 आध्मातकसंज्ञा विपटुमकसंज्ञा {{विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञास्थिसंज्ञा}} विदग्धकसंज्ञा/ 16508 लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः/ 16509 लौकिक्यः पञ्चाभिज्ञाः लौकिक्यो दशानुस्मृतयः/ यद् उत बुद्धानुस्मृतिः 16510 धर्मानुस्मृतिः {{संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिर्}} उद्वेगानुस्मृतिः कायगतानुस्मृतिः//
16511 [इम उच्यन्ते कुशला लौकिका धर्माः//] 16512 सुभूतिर् आह/ कतमे भगवन् लौकिका अकुशला धर्माः/ भगवान् आह/ 16513 प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं सम्भिन्नप्रला- 16514 पो ऽभिध्या व्यापादो मिथ्यादर्शनं दश अकुशलकर्मपथाः क्रोधोपनाहौ 16515 म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः// [इम उच्यन्ते 16516 लौकिका अकुशला धर्माः//]
16601 सुभूतिर् आह/ कतमे भगवन् अव्याकृता धर्माः/ भगवान् आह/ अव्याकृतं 16602 कायकर्म/ {अव्याकृतं} वाक्कर्म/ {अव्याकृतं} मनःकर्म/ {अव्याकृतानि} चत्वारि महाभूआनि/ 16603 {अव्याकृतानि} पञ्चेन्द्रियानि/ {अव्याकृतानि} षडायतनानि/ {अव्याकृतान्य्} अरूप्याणि स्कन्ध- 16604 धात्वायतनानि/ {अव्याकृताः} विआकाः// [सर्व इम उच्यन्ते अव्याकृता धर्माः/] 16605 सुभूतिर् आह/ कतमे भगवन् लौकिकाः कुशला धर्माः/ भगवान् आह/ 16606 पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि 16607 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये 16608 लौकिका धर्माः// [इम उच्यन्ते लौकिकाः कुशलधर्माः//] 16609 सुभूतिर् आह/ कतमे भगवन् लोकोत्तराः कुशला धर्माः/ भगवान् आह/ 16610 चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः 16611 पञ्चेन्द्रियाणि पञ्चबलानि सप्तबोध्यङ्गानि आर्याष्ठाङ्गो मार्गः/ शून्यता- 16612 विमोक्षमुखम् अनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखं अनाज्ञातम् आज्ञा- 16613 स्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्/ सवितर्कः सविचारः समाधिः/ 16614 अवितर्को ऽविचारः समाधिः/ विद्या विमुक्तिः स्मृतिः सम्प्रजन्यं योनिशो 16615 मनस्कारः/ अष्टौ विमोक्षाः कतमे अष्टौ रूपी रूपाणि पश्यति/ अयं 16616 प्रथमो विमोक्षः/ अध्यात्मम् अरूपसंज्ञी बहिर्धारूपाणि पश्यति/ अयं द्वितीयो 16617 विमोक्षः/ शून्यतायाम् अधिमुक्तो भवति/ अयं तृतीयो विमोक्षः/ सर्वशो 16618 रूपसंज्ञानां समतिक्रमातु प्रतिघसंज्ञानाम् अस्तङ्गमात् नानात्वसंज्ञानाम् अमनसि- 16619 काराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति/ अयं चतुर्थो 16620 विमोक्षः/ सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति 16621 विज्ञानानन्त्यायतनम् उपसंपद्य विहरति/ अयं पञ्चमो विमोक्षः/ सर्वशो 16622 विज्ञानानन्त्यायतनसमतिक्रमात् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य 16623 विहरति/ अयं षष्ठो विमोषः/ सर्वश आकिञ्चन्यायतनसमतिक्रमात् नैव
16701 संज्ञानासंज्ञायतनम् उपसंपद्य विहरति/ अयं सप्तमो विमोक्षः/ सर्वशो नैव 16702 संज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति/ अयम् 16703 अष्टमो विमोक्षः/ इम अष्टौ विमोक्षाः/ नवानुपूर्वविहारसमापत्तयः/ 16704 चत्वारि ध्यानानि विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं 16705 सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् {उपसंपद्य विहरति}/ वितर्कविचाराणां 16706 व्युपशमाद् अध्यात्मं सम्प्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं 16707 प्रीतिसुखं द्वितीयं ध्यानम् {उपसंपद्य विहरति}/ प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् 16708 संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयति यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमांश् च 16709 सुखविहारीति तृतीयं ध्यानम् {उपसंपद्य विहरति}/ सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् 16710 पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं 16711 ध्यानम् {उपसंपद्य विहरति}/ स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमात् 16712 नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इति आकाशानन्त्यायतनम् {उपसंपद्य विहरति}/ 16713 स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्याय- 16714 तनम् {उपसंपद्य विहरति}/ स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आ- 16715 किञ्चन्यायतनम् {उपसंपद्य विहरति}/ स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैव संज्ञा- 16716 नासंज्ञायतनम् {उपसंपद्य विहरति}/ स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयित- 16717 निरोधम् {उपसंपद्य विहरति}/ एता नवानुपूर्वविहारसमापत्तयः/ अध्यात्मशून्यता बहिर्धाशून्यता 16718 अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता/ दशबलानि चत्वारि
16801 वैशारद्यानि चतस्रः प्रतिसंविदः/ अष्टादशावेणिका बुद्धधर्माः// [इम उच्यन्ते 16802 लोकोत्तराः कुशलधर्माः//] 16803 सुभूतिर् आह/ कतमे भगवन् सास्रवा धर्माः/ भगवान् आह/ पञ्चस्कन्धा 16804 द्वादशायतनानि अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र 16805 आरूप्यसमापत्तयः/ [इम उच्यन्ते सास्रवा धर्माः//] 16806 सुभूतिर् आह/ कतमे भगवन् अनास्रवा धर्माः/ भगवान् आह/ चत्वारि 16807 स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि 16808 पञ्चबलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गः दशःतथागतबलानि चत्वारि 16809 वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः/ [इम उच्यन्ते 16810 अनास्रवा धर्माः//] 16811 सुभूतिर् आह/ कतमे भगवन् संस्कृता धर्माः/ भगवान् आह/ कामधातू 16812 रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः/ सप्तत्रिंशद् 16813 बोधिपक्षादयो धर्माः/ [इम उच्यन्ते संस्कृता धर्माः//] 16814 सुभूतिर् आह/ कतमे भगवन्न् असंस्कृता धर्माः/ भगवान् आह/ येषां 16815 धर्माणान् नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च/ 16816 तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता 16817 भूतकोटिः/ [इम उच्यन्ते असंस्कृता धर्माः//] 16818 सुभूतिर् आह/ कतमे भगवन् साधारणा धर्माः/ भगवान् आह/ चत्वारि 16819 ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः// [इम 16820 उच्यन्ते साधारणा धर्माः//] 16821 सुभूतिर् आह/ कतमे भगवन्न् असाधारणा धर्माः/ भगवान् आह/ सप्तत्रिंशद् 16822 बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि 16823 विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः// [इम उच्यन्ते असाधारणा धर्माः//]
16901 तत्र {बोधिसत्त्वेन} महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या अद्वययोगेन 16902 च सर्वधर्मा अवबोद्धव्याः/ अवकल्पनताम् अनवकल्पनतां चोपादाय/ [इत्य् उक्तं 16903 प्रतिपत्त्यालम्बनम्/] 16904 सुभूतिर् आह/ यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति/ केन 16905 कारणेन भगवन् {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ इह सुभूते महतः 16906 सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति/ तेन कारणेन सुभूते {बोधिसत्त्वो} 16907 महासत्त्व इत्य् उच्यते/ 16908 सुभूतिर् आह/ कतमो भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य 16909 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति/ भगवान् आह/ महासत्त्वराशि- 16910 र् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः 16911 स्रोतआपन्नः सकृदागामी अनागामी अर्हत् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय 16912 यावद् अविनिवर्तनीय इति/ अयं महान् सत्त्वराशिः महासत्त्वनिकायः/ अस्य 16913 {बोधिसत्त्वो} महासत्त्वो ऽग्रतां कारयिष्यति/ अत्र सुभूते {बोधिसत्त्वेन} महासत्त्वेन वज्रोपमं 16914 चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः/ 16915 सुभूतिर् आह/ कतमो भगवन् वज्रोपमश् चित्तोत्पादः/ भगवान् आह इह 16916 सुभूते {बोधिसत्त्वो} महासत्त्व एवं चित्तम् उत्पादयति/ अपरिमिते मया संसारे सन्नाहं 16917 सन्नह्य सर्वसत्त्वापरित्यागिना भवितव्यम्/ सर्वसत्त्वानाम् अन्तिके मया 16918 समचित्तता उत्पादयितव्या/ सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः/
17001 सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति/ 17002 तत् कस्य हेतोः/ अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः/ अव्यवकीर्णेन मया 17003 सर्वाकारज्ञताचित्तेन षाट्सु पारमितासु चरितव्यम्/ सर्वत्रानुगतायां सर्वधर्म- 17004 प्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्/ एकतयाभिनिर्हारो मया सर्वधर्माणां 17005 प्रतिबोद्धव्यः यावत् पारमिताभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्/} सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हार- 17006 {प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ दशबलवैशारद्यावेणिक- 17007 बुद्धधर्माभिनिर्हार{प्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यम्}/ अयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य वज्रोपमश् चित्तोत्पादः/ 17008 यत्र प्रतिष्ठितो {बोधिसत्त्वो} महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां 17009 कारयिष्यति/ तच् चानुपलम्भयोगेन/ 17010 पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति/ यावन्तः 17011 सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति 17012 तां दुःखां वेदनां वेदयेयं/ तत्र {बोधिसत्त्वेन} महासत्त्वेन एवं चित्त- 17013 म् उत्पादयितव्यम्/ एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि 17014 नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा 17015 निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति/ एतेनोपायेन सर्वसत्तानां
17016 कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं यावन् न ते सत्त्वा {{निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर्}} 17017 इति/ पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटी- 17018 नियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेयं/ अयं सुभूते {बोधिसत्त्वस्य} 17019 महासत्त्वस्य वज्रोपमश् चित्तोत्पादः {{यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति/ तच् चानुपलम्भयोगेन/ पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति/ यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति तां दुःखां वेदनां वेदयेयं/ तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्/ एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं यावन् न ते सत्त्वा निरूपधिशेषनिर्वाणधातौ परिनिर्वृता भवेयुर् इति}}/ 17020 पुनर् अपरं सुभूते {बोधिसत्त्वेन} महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्व- 17021 सत्त्वानाम् अग्रता कारयितव्या/ तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्योदारचित्तता यत् प्रथम- 17022 चित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति/ न दोष{चित्तम् उत्पादयति}/ न मोह{चित्तम् उत्पादयति}/ 17023 न विहिंसा{चित्तम् उत्पादयति}/ न श्रावक{चित्तम् उत्पादयति}/ न प्रत्येकबुद्ध{चित्तम् उत्पादयति}/ इयं सुभूते {बोधिसत्त्वस्य}
17101 महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिस्यति/ तेन च 17102 चित्तेन न मन्यते/ 17103 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अकम्प्यचित्तेन भवितव्यम्/ तत्रेयं 17104 {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न 17105 मन्यते/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्याकम्प्यचित्तता/ 17106 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यम्/ 17107 तत्रेयं {बोधिसत्त्वस्य} महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणना यः 17108 सर्वसत्त्वानाम् अपरित्यागः तेन च न मन्यते/ इयं सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य 17109 हितसुखचित्तता/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन् 17110 सर्वसत्त्वानाम् अग्रतां कारयिष्यति/ 17111 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन धर्मरागेण भवितव्यम्/ धर्मस् तेन धर्मारागता- 17112 योगम् अनुयुक्तेन भवितव्यम्/ तत्र कतमो धर्मो यद् उत सर्वधर्माणाम् असम्भेदः 17113 अयम् उच्यते धर्मः/ तत्र कतमो धर्मरतिर् या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः/ 17114 तत्र कतमा धर्मारामता या तस्य धर्मस्य भावना बहुलीकरणता इयम् उच्यते 17115 धर्मारामता/ एवं हि सुभूते {बोधिसत्त्वेन} महासत्त्वेन प्रज्ञापारमितायां चरता महतः 17116 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता}} कारयितव्या अनुपलम्भयोगेन/ पुनर् अपरं सुभूते
17117 {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा 17118 अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः 17119 {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} सप्तत्रिंशद्- 17120 बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसंवित्स्व् अष्टादशावेणिकेषु 17121 बुद्धधर्मेषु स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन}
17201 महासत्त्वेन {प्रज्ञापारमितायां चरता} वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गैमुक्तिनिरुपलेप- 17202 समाधौ स्थित्वा महतः {{सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयितव्या अनुपलम्भयोगेन}}/ एतेषु सुभूते 17203 धर्मेषु स्थित्वा {बोधिसत्त्वेन} महासत्त्वेन {प्रज्ञापारमितायां चरता} महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता 17204 कारयितव्या/ तेनोच्यते बोधिसत्त्वो महासत्त्वः// [इति सर्वसत्त्वाग्रताचित्त- 17205 महत्त्वम्//] 17206 अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्/ ममापि भगवन् 17207 प्रतिभाति येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ प्रतिभातु ते 17208 शारिपुत्र येनार्थेन {बोधिसत्त्वो} महासत्त्वः/ शारिपुत्र आह/ आत्मदृष्टेर् भगवन् 17209 सत्त्वदृष्टेर् जन्तुजीवपोष{{पुरुषपुद्गलमनुजमानवकारकवेदकजानक}}पश्यकदृष्टेर् उच्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टे- 17210 र् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्ष- 17211 धर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरि- 17212 शोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्त्तनदृष्टेर् इति/ आसां सर्वासां 17213 दृष्टीनां प्रहाणाय धर्म देशयति अनुपलम्भयोगेन/ तेनार्थेन {बोधिसत्त्वो} महासत्त्व 17214 इत्य् उच्यते/ 17215 सुभूतिर् आह/ केन कारणेनायुष्मन् शारिपुत्र {बोधिसत्त्वस्य} महासत्त्वस्य रूपदृष्टि-
17216 र् भवति {{वेदनादृष्टिर् भवति संज्ञादृष्टिर् भवति संस्कारदृष्टिर् भवति}} विज्ञानदृष्टिर् भवति/ शारिपुत्र आह/ इहायुष्मन् सुभूते {बोधिसत्त्वो} 17217 महासत्त्वः प्रज्ञापारमितायाञ् चरन् अनुपायकुशलो भवति/ स रूपम् उपलभ्य 17218 दृष्टिम् उत्पादयति उपलम्भयोगेन/ एवं विस्तरेण व्यस्तसमस्तस्कन्धधात्वाय- 17219 तनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाम् उपलभ्य 17220 दृष्टिम् {उत्पादयति उपलम्भयोगेन}/ एवं स्मृत्युपस्थान{{प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्ग- 13008 पारमिताऽ}}भिज्ञाऽक्षराप्रमाणध्यानारूप्यसमापत्ती- 17221 र् उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}/ एवं दशबलवैशारद्य{{प्रतिसंविदष्टादशावेणिक}}बुद्धधर्मान् उपलभ्य दृष्टिम् {उत्पादयति उपलम्भयोगेन}//
17222 [इति प्रहाणमहत्त्वम्//] 17223 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ ममापि भगवन् प्रतिभाति 17224 येनार्थेन {बोधिसत्त्वो} महासत्त्व इत्य् उच्यते/ भगवान् आह/ प्रतिभातु ते सुभूते/ 17225 सुभूतिर् आह/ यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्व-
17301 श्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः/ तत् कस्य हेतोः/ तथा हि तत् सर्वज्ञता- 17302 चित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन {बोधिसत्त्वो} महासत्त्व इति 17303 संख्यां गच्छति/ 17304 शारिपुत्र आह/ कतमद् आयुष्मन् सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य असमसम- 17305 चित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः/ 17306 सुभूतिर् आह/ इहायुष्मन् शारिपुत्र {बोधिसत्त्वो} महासत्त्वः प्रथमचित्तोत्पाद- 17307 म् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति 17308 न हानिं न वृद्धिं नागतिं न गतिम्/ न संक्लेशं न व्यवदानं यत्र 17309 चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न 17310 वृद्धिर् नोत्पादो न निरोधः/ तच् च न श्रावकचित्तं न प्रत्येकबुद्ध- 17311 चित्तम्/ इदं शारिउत्र {बोधिसत्त्वस्य} महासत्त्वस्य असमसमचित्तम् असाधारण- 17312 चित्तं सर्वश्रावकप्रत्येकबुद्धैः//
17313 {शारिपुत्र} आह/ यदायुष्मन् सुभूतिर् एवम् आह तत्रापि श्रावकप्रत्येकबुद्ध- 17314 चित्ते ऽसक्त इति/ नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यता- 17315 म् उपादाय {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् असक्तम्/ 17316 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं {{वेदनाप्य् असक्ता संज्ञाप्य् असक्ता संस्कारा अप्य् असक्ता}} विज्ञानम् अप्य् अ- 17317 सक्तं यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा 17318 यावज् जरामरणम् अप्य् असक्तम्/ एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽ- 17319 प्य् असक्ताः/ यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि {{वैशारद्यानि प्रतिसंविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका}} 17320 बुद्धधर्मा अप्य् असक्ताः/ 17321 {शारिपुत्र} आह/ यद्य् अप्य् आयुष्मान् सुभूतिर् इदम् आह/ यद् अपि तत् सर्वज्ञता- 17322 चित्तम् अनास्रवम् अपर्यापन्न इति/ नन्व् आयुष्मन् सुभूते बालपृथग्जना-
17401 नाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय/ ननु सर्व- 17402 श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ 17403 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र/ 17404 {शारिउत्र} आह/ रूपम् अपि सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय/} {{वेदनापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय/ संज्ञापि सुभूते अनास्रवापर्यापन्ना प्रकृतिशून्यताम् उपादाय/ संस्कारा अपि सुभूते अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय/}} विज्ञानम् अप्य् आयुष्मन् 17405 सुभूते {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश 17406 तथागतबलानि {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}/ 17407 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि 17408 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि 17409 चित्तम् {अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय}/ यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि 17410 {{चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका}} बुद्धधर्मा {अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय}/ 17411 {शारिपुत्र} आह/ यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह/ अचित्तत्वात् तत्रापि 17412 चित्ते असक्त इति/ नन्व् आयुष्मन् सुभूते अरूपे ऽपि रूपम् असक्तम्
17413 {{अवेदनायाम् अपि वेदनासक्ता असंज्ञायाम् अपि संज्ञासक्ता असंस्कारेष्व् अपि संस्कारा असक्ता}} अविज्ञाने ऽपि विज्ञानम् असक्तम्/ 17414 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् {शारिपुत्र}/ 17415 {शारिपुत्र} आह/ नन्व् आयुष्मन् सुभूते अस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् अ- 17416 सक्तानि/ एवम् {{असम्यक्प्रहाणेष्व् अपि असम्यक्प्रहाणान्य् असक्तान्य् अर्द्धिपादेष्व् अपि ऋद्धिपादा असक्ता ऐन्द्रियाणेष्व् अपि इन्द्रियाण्य् असक्तानिय् अबलानेष्व् अपि बलान्य् असक्तानि अबोध्यङ्गानेष्व् अपि बोध्यङ्गान्य् असक्तान्य् अमार्गेष्व् अपि मार्गा असक्ता अवैशारद्येष्व् अपि वैशारद्यान्य् असक्तान्य् अप्रतिसंवित्स्व् अपि प्रतिसंविदो ऽसक्ता अपारमितास्व् अपि पारमिता असक्ता अतथागतबलानेष्व् अपि तथागतबलान्य् असक्तान्य् अनावेणिकबुद्ध}}धर्मेष्व् अपि आवेणिका 17417 बुद्धधर्मा असक्ताः/ 17418 {सुभूतिर्} आह/ एवम् एतद् आयुष्मन् शारिप्त्र यथा वदसि रूपे ऽप्य् आयुष्मन् 17419 रूपम् असक्तं वेदनासंज्ञासंस्काराः विज्ञाने ऽपि विज्ञानम् असक्तम्/ एवं व्यस्तसमस्ता 17420 अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादा ऽप्रमाणध्यानारूप्य- 17421 समापत्तयः/ पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रति- 17422 संविदः आवेणिकेषु बुद्धधर्मेषु आवेणिका बुद्धधर्मा असक्ताः/ एवं ह्य् आयुष्मन् 17423 {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसम-
17501 चित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्व- 17502 धर्मान् उपलम्भयोगेन/ [इत्य् अधिगममहत्त्वम्//] [इत्य् उक्तः प्रतिपत्त्युद्देशः/] 17503 पूर्णो मैत्रायणीपुत्र आह/ ममापि भगवन् प्रतिभाति येनार्थेन {बोधिसत्त्वो} 17504 महासत्त्वः इत्य् उच्यते/ 17505 भगवान् आह/ रतिभातु ते पूर्ण/ 17506 पूर्ण आह/ महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः 17507 स सत्त्वो महायानसमारुढः स सत्त्वस् तेन भगवन् {बोधिसत्त्वो} महासत्त्व 17508 इत्य् उच्यते/ 17509 {शारिपुत्र} आह/ कियता आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वो महासन्नाहसन्नद्ध 17510 इत्य् उच्यते/ 17511 पूर्ण आह/ इहायुष्मन् {शारिपुत्र} {बोधिसत्त्वो} महासत्त्वो न प्रादेशिकानां सत्त्वानां 17512 कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति/ अपि तु सर्वसत्त्वानां 17513 कृतेन दानपारमितायां स्थित्वा दानं ददाति/ एवं शील{पारमितायां} क्षान्तिपा{रमितायां} 17514 वीर्य{पारमितायां} ध्यान{पारमितायां}/ न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञा{पारमितायां} 17515 स्थित्वा प्रज्ञापारमितां भावयति/ अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितां 17516 भावयति/ न सत्त्वपरिच्छेदेन {बोधिसत्त्वो} महासत्त्वो महासन्नाहः सन्नह्यते/ इयतः 17517 सत्त्वान् परिनिर्वापयिष्यामि इयतः सत्त्वान् न परिनिर्वापयिष्यामीति इयतः 17518 सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्या- 17519 मीति/ अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहः सन्नह्यते एवं चास्य 17520 भवति आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपार-
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
