Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1
- Thông tin
- GRETIL — Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā, Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
19312 {{सप्तत्रिंशद्बोप्धिपक्षा धर्मा अप्य् आयुष्मन् पूर्ण अबद्धा अमुक्ताः/ तत् कस्य हेतोः/ असत्त्वाद् अबद्धा अमुक्ताः/ एवं विविक्तत्वाद् यावद् अनुत्पन्नत्वाद् अबद्धा अमुक्ता/}} एवं दशबलानि चत्वारि वैशारद्यानि यावद् अष्टादशा- 19313 वेणिकबुद्धधर्माः, सर्वाकारज्ञता, तथता {{धर्मधातुर्}} भूतकोटिः/ एवं ह्य् आयुष्मन् 19314 पूर्ण {बोधिसत्त्वो} महासत्त्वो ऽबद्धो ऽमुक्तः/ एवं षड् अपि पारमिता अबद्धा अमुक्ताः/ 19315 यावत् सर्वाकारज्ञताप्य् {अबद्धामुक्ता}/ सत्त्वान् अपि यान् परिनिर्वापयिष्यति ते अपि 19316 {अबद्धा अमुक्ताः}/ बुद्धक्षेत्राण्य् अपि यानि परिशोधयिष्यति तान्य् अप्य् {अबद्धान्य् अमुक्तानि}/ यान् अपि बुद्धान् 19317 भगवतः पर्युपासिष्यते ते ऽप्य् {अबद्धा अमुक्ताः}/ यम् अपि धर्मं श्रोष्यति सो ऽप्य् अबद्धो ऽमुक्तः/ 19318 बुद्धैर् भगवद्भिर् न जातु विरहितो भविष्यति अबद्धो ऽमुक्तः/ नाभिज्ञाभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः} 19319 न पञ्चभिश् चक्षुर्भिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}/ तथा नान्यैः समाधिभिर् {विरहितो भविष्यत्य् अबद्धो ऽमुक्तः}/ अबद्धाम् अमुक्तां मार्गा- 19320 कारज्ञताम् उत्पादयिष्यति/ अबद्धाम् अमुक्तां सर्वाकारज्ञताम् अवभोत्स्यते/ अबद्ध- 19321 म् अमुक्तं धर्मचक्रं प्रवर्तयिष्यति/ अबद्धान् अमुक्तान् सत्त्वांस् त्रिभिर् यानैः परिनिर्वा- 19322 पयिष्यत्य् अबद्धो ऽमुक्तः/ एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वो} महासत्त्वः षड्भिः पारमिताभिर् अ- 19323 बद्धो ऽमुक्तः सर्वधर्मान् अभिसंभोत्स्यते असत्त्वाम् उपादाय/ एवं विविक्तता याव-
19401 द् अनुत्पन्नताम् उपादाय/ एवं ह्य् आयुष्मन् पूर्ण {बोधिसत्त्वस्य} महासत्त्वस्य अबद्धो ऽमुक्तो 19402 महायानसन्नाहो वेदितव्यः// [इति युगनद्धमार्गसम्भारः/] 19403 अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्/ कतमद् भगवन् {बोधिसत्त्वस्य} महा- 19404 सत्त्वस्य महायानम्/ कथं भगवन् {बोधिसत्त्वो} महासत्त्वो महायानसंप्रस्थितो 19405 वेदितव्यः/ कुतस् तद् यानं निर्यास्यति/ क्व वा तद् यानं स्थास्यति/ को वा 19406 तेन यानेन निर्यास्यति/ एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्/ यत् 19407 सुभूते एवं वदसि कतमद् {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् इति/ षट्पारमिताः 19408 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ कतमा षट्पारमिता/ दान{पारमिता} 19409 शील{पारमिता} क्षान्ति{पारमिता} वीर्य{पारमिता} ध्यान{पारमिता} प्रज्ञा{पारमिता}/ 19410 सुभूतिर् आह/ कतमा भगवन् {बोधिसत्त्वस्य} महासत्त्वस्य दान{पारमिता}/ 19411 भगवान् आह/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तै- 19412 श् चित्तोत्पादैर् दानं ददाति यद् उताध्यात्मिकबाह्यानि वस्तूनि तानि च 19413 सर्वसत्त्वसाधारणानि कृत्वानुत्तरायै सम्यक्संबोधये परिणामयति/ 19414 परांश् च तत्र समादापयति अनुपलम्भयोगेन/ इयं सुभूते {बोधिसत्त्वस्य} 19415 महासत्त्वस्य दान{पारमिता}/ 19416 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता}/ 19417 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च दश कुशलान् कर्मपथान् समादाय वर्त्तते/ परांश् च
19418 दशकुशले कर्मपथे {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} अपरामृष्टा शील{पारमिता}/ 19419 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता}/ 19420 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना च क्षान्तिसमापन्नो भवति परांश् च क्षान्तौ {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} क्षान्ति{पारमिता}/ 19422 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता}/
19501 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} पञ्चसु पारमितासु अनिक्षिप्तधूरो विहरति परांश् च तासु पञ्चसु पार- 19502 मितासु {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} वीर्य{पारमिता}/ 19503 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता}/ 19504 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} आत्मना चोपायकौशल्येन ध्यानानि समापद्यते/ न च तेषां 19505 वशेनोपपद्यते परांश् च ध्यानेषु {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} ध्यान{पारमिता}/ 19506 {सुभूतिर् आह/ कतमा भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता}/ 19507 {भगवान् आह/ इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर्} सर्वधर्मान् अभिनिविशते सर्वधर्माणां च प्रकृतिं प्रत्यवेक्षते सर्वधर्म- 19508 प्रकृतिप्रत्यवेक्षायां च सत्त्वांश् च {समादापयति अनुपलम्भयोगेन/ इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य} प्रज्ञा{पारमिता}/ इदं 19509 सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्// [इत्य् उपायकौशल्यसम्भारः//] 19510 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत अध्यात्मशून्यता
19511 {{बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावस्वभावशून्यता भावशून्यता अभावशून्यता स्वभावशून्यता}} परभावशून्यता/ 19512 तत्र कतमा अध्यात्मशून्यता/ आध्यात्मिका धर्मा उच्यन्ते चक्षुः 19513 श्रोत्रं घ्राणं जिह्वा कायो मनः/ तत्र चक्षुश् चक्षुषा शून्यं अकूटस्थाविनाशिताम् उ- 19514 पादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ श्रोत्रं श्रोत्रेण शून्यं अकूटस्था- 19515 विनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 19516 {{घ्राणं घ्राणेन शून्यं अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ जिह्वा जिह्वया शून्याम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा/ कायः कायेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ मनो मनसा शून्यं अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}}/ इयम् उच्यते अध्यात्मशून्यता/ 19517 तत्र कतमा बहिर्धाशून्यता/ ये बहिर्धा धर्मास् तद् यथा रूपशब्दगन्धरस- 19518 स्प्रष्टव्यधर्माः/ तत्र रूपं रूपेण शून्यम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य
19519 हेतोः/ प्रकृतिर् अस्यैषा, {{शब्दः शब्देन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ गन्धो गन्धेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ रसो रसेन शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ स्प्रष्टव्यं स्प्रष्टव्येन शून्यम् अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ धर्मो धर्मेण शून्यो ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}}/ इय- 19520 म् उच्यते बहिर्दाशून्यता/ 19521 तत्र कतमा अध्यात्मबहिर्धाशून्यता/ षडाध्यात्मिकान्य् आयतनानि षड्- 19522 बाह्यान्य् आयतनानि/ इयम् उच्यते अध्यात्मबहिर्धाशून्यता/ 19523 तत्र कतमा आध्यात्मिका धर्मा बहिर्धाधर्मैः शून्याश् चक्षुःश्रोत्रघ्राण-
19601 जिह्वाकायामनांसि आध्यात्मिकानि रूपशब्दगन्धरसस्पर्शधर्मैः शून्यानि {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ 19602 तत्र कतमे बहिर्धा धर्मा आध्यात्मिकैः धर्मैः शून्याः/ रूपशब्दगन्धरसस्पर्श- 19603 धर्माश् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोभिः शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}// इयम् उच्यते अध्यात्म- 19604 बहिर्धाशून्यता/ 19605 {तत्र कतमा} शून्यताशून्यता/ या सर्वधर्माणां शून्यता तया शूयतया शून्या 19606 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}// {इयम् उच्यते} शून्यताशून्यता/ 19607 {तत्र कतमा} महाशून्यता/ पूर्वा दिक् पूर्वया दिशा शून्या एवं दक्षिणा पश्चिमा 19608 {{उत्तरा उत्तरपूर्वा पूर्वदक्षिणा दक्षिणपश्चिमा पश्चिमोत्तरा अधस्ताद्}} ऊर्ध्वा दिक् ऊर्ध्वया दिशा शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}// {इयम् उच्यते} महाशून्यता/ 19609 {तत्र कतमा} परमार्थशून्यता/ परमार्थ उच्यते निर्वाणम्/ तच् च निर्वाणेन शून्यम् 19610 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}// {इयम् उच्यते} परमार्थशून्यता/ 19611 {तत्र कतमा} संस्कृतशून्यता/ संस्कृत उच्यते कामधातुः रूपधातुर् आरूप्यधातुश् च/ 19612 तत्र कामधातुः कामधातुना शून्यो {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}// रूपधातूः रूपधातुना शून्यः {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/
19613 आरूप्यधातुर् आरूप्यधातुना शून्यो {ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}// {इयम् उच्यते} संस्कृतशून्यता/ 19614 {तत्र कतमा} असंस्कृतशून्यता/ असंस्कृत उच्यते यस्य नोत्पादो न निरोधो 19615 न स्थितिर् नान्यथात्वम्/ इदम् उच्यते असंस्कृतम्/ असंस्कृतम् असंस्कृतेन शून्यं 19616 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}// {इयम् उच्यते} असंस्कृतशून्यता/ 19617 {तत्र कतमा} अत्यन्तशून्यता/ यस्य अन्तो नोपलभ्यते तद् अत्यन्तम् अत्यन्तेन शून्यम् 19618 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}// {इयम् उच्यते} अत्यन्तशून्यता/ 19619 {तत्र कतमा} अनवराग्रशून्यता/ यस्य नैवाग्रं नावरम् उपलभ्यते/ तस्य मध्या- 19620 भावः/ यस्य च नादिर् न मध्यं नावरम् उपलभ्यते तस्य नागतिर् न गतिः/ आदि- 19621 मध्यावसानान्य् अपि आदिमध्यावसानैः शून्यान्य् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}// {इयम् उच्यते} अनवराग्रशून्यता/ 19622 {तत्र कतमा} अनवकारशून्यता/ यस्य धर्मस्य न कश्चिद् अवकारः/ अवकारं नाम
19701 अविकिरणं छोरणम् उत्सर्गः/ अनवकारो ऽनवकारेण शून्यो {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}// {इयम् उच्यते} 19702 अनवकारशून्यता/ 19703 {तत्र कतमा} प्रकृतिशून्यता/ या सर्ववर्माणां प्रकृइः संस्कृतानां वा असंस्कृतानां वा 19704 न श्रावकैः कृता न प्रत्येकबुद्धैः कृता न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृता 19705 नापकृता/ प्रकृतिः प्रकृत्या शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ {इयम् उच्यते} प्रकृतिशून्यता/ 19706 {तत्र कतमा} सर्वधर्मशून्यता/ सर्वधर्मा उच्यन्ते रूपं {{वेदना संज्ञा संस्कारा विज्ञानं}} 19707 {{चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो रूपं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मः चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः चक्षुःसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदना}} 19708 मनःसंस्पर्शप्रत्ययवेदना संस्कृता धर्मा असंस्कृता धर्माः/ इमे उच्यन्ते सर्वधर्माः/ 19709 तत्र धर्माः धर्मैः शून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} सर्वधर्मशून्यता/ 19710 {तत्र कतमा} स्वलक्षणशून्यता/ रूपणलक्षणं रूपम्/ अनुभवलक्षणा वेदना/ उद्- 19711 ग्रहणलक्षणा संज्ञा/ अभिसंस्कारलक्षणाः संस्काराः/ विजाननलक्षणं विज्ञानं 19712 विस्तरेण कर्तव्यं यच् च संस्कृतानां धर्माणां लक्षणालक्षणं यच् चासंस्कृतानां
19713 धर्माणां लक्षणालक्षणं सर्व एते धर्माः स्वलक्षणशून्या {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} 19714 स्वलक्षणशून्यता/ 19715 {तत्र कतमा} अनुपलम्भशून्यता/ ये धर्मा अतीतानागतप्रत्युत्पन्नास् ते नोपलभ्यन्ते/ 19716 तत् कस्य हेतोः/ नातीते अनागता उपलभ्यन्ते/ नाप्य् अनागते अतीताः/ न 19717 प्रत्युत्पन्ने ऽतीतानागता उपलभ्यन्ते/ नाप्य् अतीता अनागते याः प्रत्युत्पन्ना 19718 एषाम् इयम् अनुपलब्धिर् आदिविशुद्धित्वात् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् एषाम् एषा}/ {इयम् उच्यते} अनुपलम्भशून्यता/ 19719 {तत्र कतमा} अभावस्वभावशून्यता/ नास्ति सांयोजिकस्य धर्मस्य स्वभावः प्रतीत्य- 19720 समुत्पन्नत्वात्/ संयोगः संयोगेन शून्यः {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} अभावस्वभावशून्यता/ 19721 {तत्र कतमा} भावशून्यता/ भाव उच्यते पञ्चोपादानस्कन्धाः/ स च भावो भावेन 19722 शून्यो {ऽकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} भावशून्यता/
19801 {तत्र कतमा} अभावशून्यता/ अभाव उच्यते असंस्कृतम्/ तच् चासंस्कृतम् असंस्कृतेन 19802 शून्यम् {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा}/ {इयम् उच्यते} अभावशून्यता/ 19803 {तत्र कतमा} स्वभावशून्यता/ स्वभावो हि प्रकृतिर् अविपरीतता तस्या या 19804 तया शून्यता {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा ज्ञानेन दर्शनेन च कृता/ तत् कस्य हेतोः/ 19805 प्रकृतिर् अस्यैषा/ {इयम् उच्यते} स्वभावशून्यता/ 19806 {तत्र कतमा} परभावशून्यता/ या उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा स्थितै- 19807 वैषा धर्माणां धर्मता धर्मस्थितिता {{धर्मनियामता}} भूतकोटिस् तस्या या तया शून्यता/ 19808 {अकूटस्थाविनाशिताम् उपादाय/ तत् कस्य हेतोः/ प्रकृतिर् अस्या एषा}/ न सा परेण कृता/ तत् कस्य हेतोः/ प्रकृतिर् अस्यैषा/ 19809 इयम् उच्यते परभावशून्यता/ इदम् उच्यते सुभूते {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्//
19810 [इति ज्ञानसम्भारः//] 19811 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत शूअर्ङ्गमो नाम समाधिः/
19812 {{रत्नमुद्रो नाम समाधिः/ सुचन्द्रो नाम समाधिः/ चन्द्रध्वजकेतुर् नाम समाधिः/ सर्वधर्ममुद्रो नाम समाधिः/ अवलोकितमूर्द्धा नाम समाधिः/ धर्मधातुनियतो नाम समाधिः/ नियतध्वजकेतुः नाम समाधिः/ वज्रोपमो नाम समाधिः/ सर्वधर्मप्रवेशमुद्रो नाम समाधिः/ समाहितावस्थाप्रतिष्ठानो नाम समाधिः/ राजमुद्रो नाम समाधिः/ बलवीर्यो नाम समाधिः/ सर्वधर्मसमुद्गतो नाम समाधिः/ निरुक्तिनियतप्रवेशो नाम समाधिः/ आसेचनकप्रवेशो नाम समाधिः/ दिगवलोकनो नाम समाधिः/ धारणीमुद्रो नाम समाधिः/ असंप्रमुषितो नाम समाधिः/ समवसरणो नाम समाधिः/ आकाशस्फारणो नाम समाधिः/ वज्रमण्डलो नाम समाधिः/ ध्वजाग्रकेतुराजो नाम समाधिः/ इन्द्रकेतुः नाम समाधिः/ स्रोतोऽनुगतो नाम समाधिः/ सिंहविजृम्भितो नाम समाधिः/ व्यत्यस्तसमापत्तिः नाम समाधिः/ रणंजहो नाम समाधिः/ वैरोचनो नाम समाधिः/ निमिषो नाम समाधिः/ निकेतस्थितो नाम समाधिः/ निश्चितो नाम समाधिः/ विपुलप्रतिपन्नो नाम समाधिः/ अनन्तप्रभो नाम समाधिः/ प्रभाकरो नाम समाधिः/ वरधर्ममुद्रो नाम समाधिः/ समन्तावभासो नाम समाधिः/ शुद्धावासो नाम समाधिः/ विमलप्रभो नाम समाधिः/ अरतिकरो नाम समाधिः/ अजयो नाम समाधिः/ तेजोवती नाम समाधिः/ क्षयापगतो नाम समाधिः/ अनिर्जितो नाम समाधिः/ विवृतो नाम समाधिः/ सूर्यप्रदीपो नाम समाधिः/ चन्द्रविमलो नाम समाधिः/ शुद्धप्रतिभासो नाम समाधिः/ आलोककरो नाम समाधिः/ काराकारो नाम समाधिः/ ज्ञानकेतुः नाम समाधिः/ चित्तस्थितो नाम समाधिः/ समन्तावलोको नाम समाधिः/
सुप्रतिष्ठितो नाम समाधिः/ रत्नकोटिः नाम समाधिः/ सर्वधर्मसमता नाम समाधिः/ रतिजहो नाम समाधिः/ धर्मङ्गतो नाम समाधिः/ विकिरणो नाम समाधिः/ सर्वधर्मपदप्रभेदो नाम समाधिः/ समाक्षरावतारो नाम समाधिः/ अनिगरो नाम समाधिः/ प्रभाकरो नाम समाधिः/ नामनियतप्रवेशो नाम समाधिः/ अनिकेतचारी नाम समाधिः/ वितिमिरापगतो नाम समाधिः/ चारित्रवती नाम समाधिः/ अचलो नाम समाधिः/ विषमशान्तिः नाम समाधिः/ सर्वगुणसंचयो नाम समाधिः/ निश्चितो नाम समाधिः/ शुभपुष्पितशुद्धो नाम समाधिः/ बोध्यङ्गवती नाम समाधिः/ अनन्तप्रभा नाम समाधिः/ आगमसमो नाम समाधिः/ विमतिविकिरणो नाम समाधिः/ प्रतिच्छेदकरो नाम समाधिः/ आकारानभिनिवेशनिर्हारो नाम समाधिः/ आकारानवकारो नाम समाधिः/ निरतिशयसर्वभवतलविकिरणो नाम समाधिः/ संकेतरुतप्रवेशो नाम समाधिः/ घोषवती नाम समाधिः/ निरक्षरविमुक्तिः नाम समाधिः/ तेजोवती नाम समाधिः/ ज्वलनोल्का नाम समाधिः/ रक्षानुपरिशोषणो नाम समाधिः/ अनाविलक्षान्तिः नाम समाधिः/ सर्वाकारावतारो नाम समाधिः/ सर्वसुखदुःखनिरभिनन्दी नाम समाधिः/ अक्षयाकारो नाम समाधिः/ धारणीमतिः नाम समाधिः/ सम्यकमिथ्यात्वसंग्रहो नाम समाधिः/ रोषविरोषप्रतिरोषो नाम समाधिः/ विमलप्रभो नाम समाधिः/ शारवती नाम समाधिः/ परिपूर्णविमलचन्द्रप्रभो नाम समाधिः/ विद्युत्प्रभो नाम समाधिः/ महाव्यूहो नाम समाधिः/ सर्वलोकप्रभाकरो नाम समाधिः/ समाधिसरता नाम समाधिः/ अनयविनयनयविमुक्तो नाम समाधिः/ अनुसरणसर्वसमवसरणो नाम समाधिः/
अनिलनियतो नाम समाधिः/ तथतास्थितनिश्चितो नाम समाधिः/ कायकलिसंप्रमथनो नाम समाधिः/ वाक्कलिविध्वंसनो नाम समाधिः/ गगनकल्पो नाम समाधिः/}} आकाशासङ्गविमुक्तिनिरुप-
19813 लेपो नाम समाधिः/ तत्र कतमः शूरङ्गमो नाम समाधिः, {{येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः/ तत्र कतमो रत्नमुद्रो नाम समाधिः/ येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते}} 19814 रत्नमुद्रो नाम समाधिः/ तत्र कतमः सिंहविक्रीडितो नाम 19815 समाधिः// यत्र समाधौ स्थित्वा सर्वसमाधिभिर् विक्रीडति/ अयम् उच्यते 19816 सिंहविक्रीडितो नाम समाधिः/ तत्र कतमः सुचन्द्रो नाम समाधिः/ यत्र 19817 समाधौ स्थित्वा सर्वसमाधीन् अवभासयति/ अयम् उच्यते सुचन्द्रो नाम समाधिः/ 19818 {तत्र कतमः} चन्द्रध्वजकेतुर् {नाम समाधिः}/ यः सर्वसमाधीनां ध्वजं धारयति/ {अयम् उच्यते चन्द्रध्वजकेतुर् नाम समाधिः}/ {तत्र कतमः} 19819 सर्वधर्मोद्गतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिभिर् उद्गच्छति/ {अयम् उच्यते सर्वधर्मोद्गतो नाम समाधिः}/ {तत्र कतमः} अवलोकित-
19901 मूर्धा {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुर्धानम् अवलोकयति/ {अयम् उच्यते ऽवलोकितमूर्धा नाम समाधिः}/ {तत्र कतमः} धर्मधातुनियतो 19902 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} धर्मधातोर् निश्चयं गच्छति/ {अयम् उच्यते धर्मधातुनियतो नाम समाधिः}/ {तत्र कतमः} नियतध्वजकेतुर् {नाम समाधिः}/ 19903 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नियतध्वजं धारयति/ {अयम् उच्यते नियतध्वजकेतुर् नाम समाधिः}/ {तत्र कतमः} वज्रोपमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 19904 सर्वसमाद्भिर् न भिद्यते/ {अयम् उच्यते वज्रोपमो नाम समाधिः}/ {तत्र कतमः} धर्मप्रवेशमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19905 मुद्रां प्रविशति/ {अयम् उच्यते धर्मप्रवेशमुद्रो नाम समाधिः}/ {तत्र कतमः} समाधिराजसुप्रतिष्ठितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां 19906 राजसुप्रतिष्ठानेन प्रतितिष्ठति/ {अयम् उच्यते समाधिराजसुप्रतिष्ठितो नाम समाधिः}/ {तत्र कतमः} रश्मिप्रमुक्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमा- 19907 धीनां रश्मीन् अवसृजति/ {अयम् उच्यते रश्मिप्रमुक्तो नाम समाधिः}/ {तत्र कतमः} बलव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19908 बलव्यूहं धारयति/ {अयम् उच्यते बलव्यूहो नाम समाधिः}/ {तत्र कतमः} समुद्गतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधयः समुदागच्छन्ति/
19909 {अयम् उच्यते समुद्गतो नाम समाधिः}/ {तत्र कतमः} निरुक्तिनिर्देशप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निरुक्तिनिर्देशं प्रविशति/ 19910 {अयम् उच्यते निरुक्तिनिर्देशप्रवेशो नाम समाधिः}/ {तत्र कतमः} अधिवचनसंप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां अधिवचननाम- 19911 धेयानि प्रविशति/ {अयम् उच्यते अधिवचनसंप्रवेशो नाम समाधिः}/ {तत्र कतमः} दिग्विलोकितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 19912 दिशो व्यवलोक्यन्ते/ {अयम् उच्यते दिग्विलोकितो नाम समाधिः}/ {तत्र कतमः} आधारणमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां मुद्रा 19913 आधारयति/ {अयम् उच्यते आधारणमुद्रो नाम समाधिः}/ {तत्र कतमः} असम्प्रमुषितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयो न प्रमुष्यन्ते/ 19914 {अयम् उच्यते असम्प्रमुषितो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मसमवसरणसागरमुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयः 19915 संग्रहं समवसरणताम् उद्गच्छन्ति/ {अयम् उच्यते सर्वधर्मसमवसरणसागरमुद्रो नाम समाधिः}/ {तत्र कतमः} आकाशस्फारणो {नाम समाधिः}/ 19916 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आकाशस्फरणतया स्फरति/ {अयम् उच्यते आकाशस्फारणो नाम समाधिः}/ {तत्र कतमः} तेजोवती 19917 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तेजसा च धिया च ज्वलयति/ तेनोच्यते तेजोवती
19918 नाम समाधिः/ {तत्र कतमः} अप्रमाणावभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} अप्रमाणम् अवभासते {तेनोच्यते अप्रमाणावभासो नाम समाधिः}/ 19919 {तत्र कतमः} असङ्गानावरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसङ्गरहितताम् उपादाय निरावरणो ऽवभासते 19920 {तेनोच्यते असङ्गानावरणो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मप्रवृत्तिसमुच्छेदो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मप्रवृत्तिं समुच्छिनत्ति
20001 {तेनोच्यते सर्वधर्मप्रवृत्तिसमुच्छेदो नाम समाधिः}/ {तत्र कतमः} रणजहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां निमित्तान्य् अपि जहाति 20002 प्राग् एवान्यानि निमित्तानि क्लेशानां {तेनोच्यते रणजहो नाम समाधिः}/ {तत्र कतमः} वैरोचनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20003 सर्वसमाधीन् अवभासयति तपति विरोचते {तेनोच्यते वैरोचनो नाम समाधिः}/ {तत्र कतमः} अनिमिषो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20004 न कश्चिद् धर्मम् एषति {तेनोच्यते ऽनिमिषो नाम समाधिः}/ {तत्र कतमः} अनिकेतस्थितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु न 20005 कञ्चिद् धर्मम् अनिकेतं समनुपश्यति {तेनोच्यते ऽनिकेतस्थितो नाम समाधिः}/ {तत्र कतमः} निश्चित्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} निहीनां- 20006 श् चित्तचैतसिकान् धर्मान् न प्रवर्तयति {तेनोच्यते निश्चित्तो नाम समाधिः}/ {तत्र कतमः} विमलप्रदीपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20007 सर्वसमाधीनां प्रदीपं धारयति {तेनोच्यते विमलप्रदीपो नाम समाधिः}/ {तत्र कतमः} अनन्तप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20008 अनन्तां प्रभां करोति {तेनोच्यते ऽनन्तप्रभो नाम समाधिः}/ {तत्र कतमः} प्रभाकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20009 प्रभां करोति {तेनोच्यते प्रभाकरो नाम समाधिः}/ {तत्र कतमः} समन्तावभासो {नाम समाधिः}/ यस्य समाधेः सह प्रतिलम्भेन
20010 समाधिमुखान्य् अवभासन्ते {तेनोच्यते समन्तावभासो नाम समाधिः}/ {तत्र कतमः} शुद्धसारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20011 शुद्धसमताम् अनुप्राप्नोति {तेनोच्यते शुद्धसारो नाम समाधिः}/ {तत्र कतमः} विमलप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20012 बलम् आकर्षयति सर्वसमाधीन् प्रभावयति {तेनोच्यते विमलप्रभो नाम समाधिः}/ {तत्र कतमः} रतिकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व- 20013 समाधीनां रतिम् अनुभवति {तेनोच्यते रतिकरो नाम समाधिः}/ {तत्र कतमः} विद्युत्प्रदीपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20014 प्रदीपं करोति {तेनोच्यते विद्युत्प्रदीपो नाम समाधिः}/ {तत्र कतमः} अक्षयो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां नैवाक्षयं न क्षयं समनु- 20015 पश्यति {तेनोच्यते ऽक्षयो नाम समाधिः}/ {तत्र कतमः} वज्रमण्डलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिमण्डलानि धारयति 20016 {तेनोच्यते वज्रमण्डलो नाम समाधिः}/ {तत्र कतमः} अक्षयापगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं समनुपश्यति तथा च 20017 पश्यति यथा अणुम् अपि धर्मं न समनुपश्यति {तेनोच्यते अक्षयापगतो नाम समाधिः}/ {तत्र कतमः} अनिञ्ज्यो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20018 सर्वसमाधीन् नेञ्जयति न मन्यते न स्पन्दते न प्रपञ्चयति {तेनोच्यते ऽनिञ्ज्यो नाम समाधिः}/ {तत्र कतमः} विवृतो
20019 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् विवृतान् समनुपश्यति {तेनोच्यते विवृतो नाम समाधिः}/ {तत्र कतमः} सूर्यप्रदीपो 20020 {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रश्मिमुखम् अवभासयति {तेनोच्यते सूर्यप्रदीपो नाम समाधिः}/ {तत्र कतमः} चन्द्रविमलो {नाम समाधिः}/ 20021 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अन्धकारं विधमयति {तेनोच्यते चन्द्रविमलो नाम समाधिः}/ {तत्र कतमः} शुद्धप्रभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20022 सर्वसमाधीनां चतस्रः प्रतिसंविदः प्रतिलभते {तेनोच्यते शुद्धप्रभासो नाम समाधिः}/ {तत्र कतमः} आलाककरो {नाम समाधिः}/
20101 {यत्र समाधौ स्थित्वा} समाधिमुखानाम् आलोकं करोति {तेनोच्यते आलाककरो नाम समाधिः}/ {तत्र कतमः} काराकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व- 20102 समाधीनां कारणताङ्क्रियाङ्करोति {तेनोच्यते काराकारो नाम समाधिः}/ {तत्र कतमः} ज्ञानकेतुर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां 20103 ज्ञानकेतुं समनुपश्यति {तेनोच्यते ज्ञानकेतुर् नाम समाधिः}/ {तत्र कतमः} वज्रोपमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मान् निर्विध्यते 20104 समाधिम् अपि न समनुपश्यति {तेनोच्यते वज्रोपमो नाम समाधिः}/ {तत्र कतमः} चित्तस्थितिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} चित्तं न 20105 वर्णयति न विवर्तते न प्रतिभासते न विधातम् आपत्स्यते न चास्यैवं भवति 20106 चित्तम् इति {तेनोच्यते चित्तस्थितिर् नाम समाधिः}/ {तत्र कतमः} समन्तालोको {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समन्तालोकं 20107 समनुपश्यति {तेनोच्यते समन्तालोको नाम समाधिः}/ {तत्र कतमः} सुप्रतिष्ठितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु प्रतिष्ठितो 20108 भवति {तेनोच्यते सुप्रतिष्ठितो नाम समाधिः}/ {तत्र कतमः} रत्नकोटिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयः समन्ताद् रत्नकोटिर् इव 20109 सन्दृश्यन्ते {तेनोच्यते रत्नकोटिर् नाम समाधिः}/ {तत्र कतमः} वरधर्ममुद्रो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधयो मुद्रिता भवन्ति
20110 आदिमुद्रामुद्रिताम् उपादाय {तेनोच्यते वरधर्ममुद्रो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मसमता {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} न कञ्चिद् धर्मं 20111 समतानिर्मुक्तं समनुपश्यति {तेनोच्यते सर्वधर्मसमता नाम समाधिः}/ {तत्र कतमः} रतिजहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिरतिः 20112 सर्वधर्मरतिर् जहाति {तेनोच्यते रतिजहो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मोद्गतपूर्णो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मै- 20113 श् चोद्गच्छति सर्वधर्मैश् चापूर्यते {तेनोच्यते सर्वधर्मोद्गतपूर्णो नाम समाधिः}/ {तत्र कतमः} विकिरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिभिः 20114 सर्वधर्मान् विकिरति विधमयति {तेनोच्यते विकिरणो नाम समाधिः}/ {तत्र कतमः} सर्वधर्मपदप्रभेदो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20115 सर्वसमाधीनां च सर्वधर्माणां च पदानि प्रभिनत्ति {तेनोच्यते सर्वधर्मपदप्रभेदो नाम समाधिः}/ {तत्र कतमः} समाक्षरो {नाम समाधिः}/ 20116 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समाक्षरताम् प्रतिलभते {तेनोच्यते समाक्षरो नाम समाधिः}/ {तत्र कतमः} अक्षरापगतो {नाम समाधिः}/ 20117 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् एकाक्षरम् अपि नोपलभते {तेनोच्यते अक्षरापगतो नाम समाधिः}/ {तत्र कतमः} आलम्बनच्छेदो {नाम समाधिः}/ 20118 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलम्बनं च्छिद्यते {तेनोच्यते आलम्बनच्छेदो नाम समाधिः}/ {तत्र कतमः} अविकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्व-
20119 धर्माणां विकारं नोपलभते {तेनोच्यते ऽविकारो नाम समाधिः}/ {तत्र कतमः} अप्रकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्माणां प्रकार- 20120 म् अपि नोपलभते {तेनोच्यते ऽप्रकारो नाम समाधिः}/ {तत्र कतमः} नामनिमित्ताप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां नाम- 20121 निमित्तानि नोपलभते {तेनोच्यते नामनिमित्ताप्रवेशो नाम समाधिः}/ {तत्र कतमः} अनिकेतचारी {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20122 निकेतं नोपलभते {तेनोच्यते ऽनिकेतचारी नाम समाधिः}/ {तत्र कतमः} तिमिरापगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधितिमिअं 20123 विशोधयति {तेनोच्यते तिमिरापगतो नाम समाधिः}/ {तत्र कतमः} चारित्रवतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां चारित्रं समनु- 20124 पश्यति {तेनोच्यते चारित्रवतो नाम समाधिः}/ {तत्र कतमः} अचलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सत्त्वानां चलितं न समनु-
20201 पश्यति {तेनोच्यते ऽचलो नाम समाधिः}/ कतमो विषयतीर्णो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां विषयम् अतिक्रामति 20202 {तेनोच्यते विषयतीर्णो नाम समाधिः}/ {तत्र कतमः} सर्वगुणसञ्चयोपगतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वगुणानां सर्वसमाधीनाञ् च 20203 सञ्चयताम् अनुप्राप्नोति {तेनोच्यते सर्वगुणसञ्चयोपगतो नाम समाधिः}/ {तत्र कतमः} चित्तस्थितिनिश्चितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमा- 20204 धीनां चित्तं न प्रवर्तते {तेनोच्यते चित्तस्थितिनिश्चितो नाम समाधिः}/ {तत्र कतमः} शुभपुष्पितशुद्धिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु 20205 शुभपुष्पितशुद्धिं प्रतिलभते {तेनोच्यते शुभपुष्पितशुद्धिर् नाम समाधिः}/ {तत्र कतमः} बोध्यङ्ग्वान् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सप्तबोध्यङ्गानि 20206 प्रतिलभते {तेनोच्यते बोध्यङ्ग्वान् नाम समाधिः}/ {तत्र कतमः} अनन्तप्रतिभासो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} अन्तद्वयं नोपलभते {तेनोच्यते अनन्तप्रतिभासो नाम समाधिः}/ 20207 {तत्र कतमः} असमसमो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां समसमतां न प्रतिलभते {तेनोच्यते ऽसमसमो नाम समाधिः}/ 20208 {तत्र कतमः} सर्वधर्मातिक्रमणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वत्रंधातुकं समतिक्रामति {तेनोच्यते सर्वधर्मातिक्रमणो नाम समाधिः}/ {तत्र कतमः} 20209 परिच्छेदकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च परिच्छेदं करिष्यति
20210 {तेनोच्यते परिच्छेदकरो नाम समाधिः}/ {तत्र कतमः} विमतिविकिरणो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिविमतिविकिरणम् अनु- 20211 प्राप्नोति {तेनोच्यते विमतिविकिरणो नाम समाधिः}/ {तत्र कतमः} निरधिष्ठानो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्माणां स्थानं समनुपश्यति 20212 {तेनोच्यते निरधिष्ठानो नाम समाधिः}/ {तत्र कतमः} एकव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} न कस्यचिद् धर्मस्य द्वयतां समनुपश्यति 20213 {तेनोच्यते एकव्यूहो नाम समाधिः}/ {तत्र कतमः} आकाराभिनिर्हारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां 20214 चाकाराभिनिर्हारं समनुपश्यति {तेनोच्यते आकाराभिनिर्हारो नाम समाधिः}/ {तत्र कतमः} एकाकारव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20215 सर्वसमाधीनाम् एकाकारतां समनुपश्यति {तेनोच्यत एकाकारव्यूहो नाम समाधिः}/ {तत्र कतमः} आकारानवकारो 20216 नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्वधर्माणाम् अद्वयतां समनुपश्यति {तेनोच्यत आकारानवकारो नाम समाधिः}/ 20217 {तत्र कतमः} निर्वेधिकसर्वभावतलाधिकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20218 निर्वेधिकं ज्ञानम् अनुप्राप्नोति यस्यानुप्राप्तितो न कञ्चिन् न प्रतिविध्यते 20219 {तेनोच्यते निर्वेधिकसर्वभावतलाधिकारो नाम समाधिः}/ {तत्र कतमः} संकेतरुतप्रवेशो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां संकेतरुतानि प्रविशति {तेनोच्यते संकेतरुतप्रवेशो नाम समाधिः}/
20220 {तत्र कतमः} गीर्घोषो ऽक्षरविमुक्तो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अक्षरविमुक्तान् समनुपश्यति 20221 {तेनोच्यते गीर्घोषो नाम समाधिः}/ {तत्र कतमः} ज्वलनोल्का {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधींस् तेजसा च भासयति तपति 20222 विरोचते {तेनोच्यते ज्वलनोल्का नाम समाधिः}/ {तत्र कतमः} लक्षणपरिशोधनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वलक्षणानि परिशोधयति 20223 {तेनोच्यते लक्षणपरिशोधनो नाम समाधिः}/ {तत्र कतमः} अनभिलक्षितो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् अभिलक्षयति {तेनोच्यते ऽनभिलक्षितो नाम समाधिः}/ {तत्र कतमः} 20224 सर्वाकारवरोपेतो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वाकारवरोपेतो भवति {तेनोच्यते सर्वाकारवरोपेतो नाम समाधिः}/ {तत्र कतमः} सर्वसुखदुःख- 20225 निरभिनन्दी {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधिषु सुखदुःखानि न समनुपश्यति {तेनोच्यते सर्वसुखदुःखनिरभिनन्दी नाम समाधिः}/ {तत्र कतमः}
20301 अक्षयाकारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां क्षयं न समनुपश्यति {तेनोच्यते ऽक्षयाकारो नाम समाधिः}/ {तत्र कतमः} धारणी- 20302 प्रतिपत्तिर् {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीन् आधारयति {तेनोच्यते धारणीप्रतिपत्तिर् नाम समाधिः}/ {तत्र कतमः} सर्वसम्यक्त्वमिथ्यात्व- 20303 संग्रहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} समाधीनां सम्यक्त्वमिथ्यात्वानि न समनुपश्यति {तेनोच्यते सर्वसम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः}/ {तत्र कतमः} 20304 सर्वरोधनिरोधप्रशमनो नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां रोधनिरोधान् न 20305 समनुपश्यति {तेनोच्यते सर्वरोधनिरोधप्रशमनो नाम समाधिः}/ {तत्र कतमः} अनुसारप्रतिसारो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् अनुसार- 20306 प्रतिसारान् न समनुपश्यति {तेनोच्यते ऽनुसारप्रतिसारो नाम समाधिः}/ {तत्र कतमः} विमलप्रभो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां 20307 प्रभामण्डलं नोपलभ्यते {तेनोच्यते विमलप्रभो नाम समाधिः}/ {तत्र कतमः} सारवती {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीना- 20308 म् असारतां नोपलभ्यते {तेनोच्यते सारवती नाम समाधिः}/ {तत्र कतमः} परिपूर्णचन्द्रविमलो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्व- 20309 समाधयः परिपूर्णा भवन्ति तद् यथापि नाम चन्द्रः पूर्णमास्यां {तेनोच्यते परिपूर्णचन्द्रविमलो नाम समाधिः}/ {तत्र कतमः}
20310 महाव्यूहो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} तस्य सर्वसमाधयो महाव्यूहेन समन्वागता भवन्ति {तेनोच्यते महाव्यूहो नाम समाधिः}/ 20311 {तत्र कतमः} सर्वाकारप्रभाकरो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां सर्वधर्माणां च प्रभां करोति 20312 {तेनोच्यते सर्वाकारप्रभाकरो नाम समाधिः}/ {तत्र कतमः} समाधिसमता {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वसमाधीनां न विक्षेपं नैकाग्रतां च 20313 समनुपश्यति {तेनोच्यते समाधिसमता नाम समाधिः}/ {तत्र कतमः} अरणसमवसरणो नाम समाधिः/ {यत्र समाधौ स्थित्वा} सर्व- 20314 समाधीनाम् अरणसरणसर्वसमवसरणताम् अनुप्राप्नोति {तेनोच्यते ऽरणसमवसरणो नाम समाधिः}/ {तत्र कतमः} अनिलानिकेतो {नाम समाधिः}/ 20315 {यत्र समाधौ स्थित्वा} सर्वसमाधीनाम् आलयं न समनुपश्यति {तेनोच्यते ऽनिलानिकेतो नाम समाधिः}/ {तत्र कतमः} तथतास्थितनिश्चितो {नाम समाधिः}/ 20316 {यत्र समाधौ स्थित्वा} सर्वसमाधीनां तथतां न व्यतिवर्तते {तेनोच्यते तथतास्थितनिश्चितो नाम समाधिः}/ {तत्र कतमः} कायकलिसंप्रमथनो {नाम समाधिः}/ 20317 {यत्र समाधौ स्थित्वा} सर्वसमाधिकायं नोपलभते {तेनोच्यते कायकलिसंप्रमथनो नाम समाधिः}/ {तत्र कतमः} वाक्कलिविध्वंसनो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} 20318 सर्वसमाधीनां वाक्कर्मणोपलभते {तेनोच्यते वाक्कलिविध्वंसनो नाम समाधिः}/ {तत्र कतमः} गगनकल्पो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} गगन-
20319 वदवभासते {तेनोच्यते गगनकल्पो नाम समाधिः}/ {तत्र कतमः} आकाशासङ्गविमुक्तिनिरुपलेपो {नाम समाधिः}/ {यत्र समाधौ स्थित्वा} सर्वधर्मा- 20320 णाम् आकाशासङ्गविमुक्तिनिरुपलेपनाम् अनुप्राप्नोति {तेनोच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः}/ इदं सुभूते {बोधिसत्त्वस्य} महा- 20321 सत्त्वस्य प्रज्ञापारमितायाञ् चरतो महायानम्/ [इति पुण्यसम्भारः/] 20322 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत चत्वारि स्मृत्युपस्थानानि/ 20323 कतमानि चत्वारि/ काय{स्मृत्युपस्थानानं} वेदना{स्मृत्युपस्थानानं} चित्त{स्मृत्युपस्थानानं} धर्म{स्मृत्युपस्थानानं}/
20401 तत्र कतमत् काय{स्मृत्युपस्थानानं}/ एवं यावत् कतमद् धर्म{स्मृत्युपस्थानानं}/ इह {सुभूते} {बोधिसत्त्वो} 20402 महासत्त्वो ऽध्यात्मकाये कायानुपाश्यी विहरति/ न च कायसहगतान् वितर्कान् 20403 वितर्कयति तच् चानुपलम्भयोगेन/ बहिर्धाकाये कायानुपश्यी {{विहरति/ न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/}} 20404 अध्यात्मबहिर्धाकाये कायानुपश्यी {{विहरति/ न च कायसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/}} आतापी संप्रजानन् 20405 स्मृतिमान् विनीयलोके ऽभिध्यादौमनस्ये/ एवं अध्यात्मं वेदनासु चित्ते 20406 अध्यात्मं धर्मेषु धर्मानुपश्यी {{विहरति/ न च धर्मसहगतान् वितर्कान् वितर्कयति तच् चानुपलम्भयोगेन/ आतापी संप्रजानन् स्मृतिमान् विनीयलोके 20407 ऽभिध्या}}दौर्मनस्ये/ 20408 कथञ् च {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी विहरति/ इह सुभूते 20409 {बोधिसत्त्वो} महासत्त्वश् चरंश् चरामीति प्रजानाति/ स्थितः स्थितो ऽस्मीति {प्रजानाति}/ निषण्णो 20410 निषण्णो ऽस्मीति {प्रजानाति}/ शयानः शयितो ऽस्मीति {प्रजानाति}/ यथा यथास्य कायः स्थितो 20411 भवति प्रणीतम् अप्रणीतं वा तथा तथैनं {प्रजानाति}/ एवं हि सुभूते {बोधिसत्त्वो} महासत्त्वो ऽ- 20412 ध्यात्मं काये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके 20413 ऽभिध्यादौर्मनस्ये/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽध्यात्मं काये कायानुपश्यी 20414 विहरति/ अभिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति आलोकिते 20415 विलोकिते समिञ्जिते प्रसारिते संघातीपटपात्रचीवरधारणे अशिते पीते खादिते
20416 शयिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते 20417 तुष्णीम्भावे प्रतिसंलयने एवं संप्रजानचारी भवति/ एवं हि {सुभूते} {बोधिसत्त्वो} 20418 महासत्त्वः प्रज्ञापारमितायां चरन् अध्यात्मं काये कायानुपश्यी विहरति/ 20419 आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये तच् चानुलम्भयोगेन/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} 20420 महासत्त्वः स्मृत आश्वसन् स्मृत आश्वसामीति यथाभूतं प्रजानाति/ स्मृतः 20421 प्रश्वसन् स्मृतः प्रश्वसामीति {यथाभूतं प्रजानाति}/ दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति 20422 {यथाभूतं प्रजानाति}/ दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति {यथाभूतं प्रजानाति}/ ह्रस्वं वा आश्वसन् ह्रस्वं वा
20501 आश्वसामीति {यथाभूतं प्रजानाति}/ ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति {यथाभूतं प्रजानाति}/ तद् यथापि 20502 नाम {सुभूते} चक्रं भ्रामयेत् कुम्भकारः कुम्भकारान्तेवासी वा दीर्घम् आविध्यन् 20503 दीर्घम् आविध्यामीति {यथाभूतं प्रजानाति}/ ह्रस्वम् आविध्यं ह्रस्वम् आविध्यामीति {यथाभूतं प्रजानाति}/ एवम् एव {सुभूते} 20504 {बोधिसत्त्वो} महासत्त्वः स्मृत आश्वसन् {{स्मृत आश्वसामीति यथाभूतं प्रजानाति/ स्मृतः प्रश्वसन् स्मृतः प्रश्वसामीति यथाभूतं प्रजानाति/ दीर्घं वा आश्वसन् दीर्घं वा आश्वसामीति यथाभूतं प्रजानाति/ दीर्घं वा प्रश्वसन् दीर्घं वा प्रश्वसामीति यथाभूतं प्रजानाति/ ह्रस्वं वा आश्वसन् ह्रस्वं वा आश्वसामीति यथाभूतं प्रजानाति/ ह्रस्वं वा प्रश्वसन् ह्रस्वं वा प्रश्वसामीति यथाभूतं प्रजानाति}}/ 20505 एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये तच् चानुलम्भयोगेन/}} 20506 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः इमम् एव कायं धातुशो यथाभूतं प्रत्यवेक्षते/ अस्त्य् अ- 20507 स्मिन् काये पृथिवीधातुर् अब्धातुस् तेजोधातुर् वायुधातुः/ तद् यथापि नाम {सुभूते} 20508 गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन शस्त्रेण गां हन्यात् गां हत्वा 20509 चत्वारि फलानि कुर्यात्/ चत्वारि फलकानि कृत्वा प्रत्यवेक्षेत स्थितो 20510 वा निषण्णः/ एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन्न् इमम् एव कायं 20511 धातुशो यथाभूतं प्रत्यवेक्षते/ अस्त्य् अस्मिन् काये पृथिवीधातुर् अब्धातु-
20512 स् तेजोधातुर् वायुधातुः/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् अ- 20513 ध्यात्मं काये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये 20514 तच् चानुपलम्भयोगेन/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायां चरन्न् इमम् एव 20515 कायमूर्ध्वपादतलाद् अधः केशमस्तकान् नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्या- 20516 शुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म 20517 मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि 20518 अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं 20519 पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं कर्णगूथकम् इत्य् अस्मिन् काये 20520 यथाभूतं प्रत्यवेक्षते/ तद् यथापि नाम {सुभूते} कर्मकारस्य मुतोडिः पूर्णो 20521 नानाधान्यानां शालीनां व्रीहीनां तिलानां तण्डुलानां मुद्गानां माषाणां 20522 यवानां गोधूमानां मसूराणां सर्षपाणाम् अप्य् अन्यश् चक्षुष्मान् पुरुषो मुक्तो
20601 प्रत्यवेक्षमाणः एवं जानीयाद् अयं शालिः, अयं व्रीही, अमी तिलाः, अमी 20602 तण्डुलाः, अमी मुद्गाः, अमी माषाः, अमी यवाः, अमी गोधूमाः, 20603 अमी समूराः, अमी सर्षपा इति/ एवम् एव {सुभूते} {बोधिसत्त्वो} महासत्त्व इमम् एव कायमूर्ध्वं 20604 पादतलाद् अधः केशमस्तकात् {{नखरोमत्वक्पर्यन्तं पूर्णं नानाप्रकारस्याशुचेर् यथाभूतं प्रत्यवेक्षते सन्त्य् अस्मिन् काये केशरोमाणि नखा दन्तास् त्वक् चर्म मांसस् जायवः शोणितम् अस्थिमज्जाहृदयं वृक्कायकृत्क्लोमप्लीहा आममन्त्राणि अन्त्रगुणा उदरं पुरीषं मूत्रम् अश्रुस्वेदो मेदः खेटः सिंहानकं पूयं लोहितं पित्तं श्लेष्मा वसा मलो मस्तकलुङ्गम् अक्षिगूथकं}} 20605 कर्णगूथकं/ एवं हि {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् अध्यात्मं काये 20606 कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या}}दौर्मनस्ये/ 20607 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा श्मशानगतः पश्यति नानारूपाणि श्मशाने 20608 ऽपविद्धानि शिवपथिकायाम् उज्झितानि एकाहमृतानि वा द्व्यहमृतानि त्र्यह- 20609 मृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा आध्मातकानि विनीलकानि वा 20610 विपूयकानि वा विखादितकानि वा विज्ञप्तकानि वा स इमम् एव कायं तत्रोपसंहरति/ 20611 अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि {सुभूते} 20612 {बोधिसत्त्वो} महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी {{संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्या-}} 20613 दौर्मनस्ये/ पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा मृतशरीराणि पश्यति श्मशान
20614 उत्सृष्टानि षडात्रमृतानि वा सप्तरात्रमृतानि वा तानि काकैर् वा खाद्यमानानि 20615 कुररैर् वा गृध्रैर् वा शृगालैर् वा वृकैर् वा श्वभिर् वा तदन्यैर् वा नानाविधैः प्राणकजातैः 20616 खाद्यमानानि स इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ 20617 पुनर् अपरं {सुभूते} {बोधिसत्त्वो} महासत्त्वो यानि तानि पश्यति मृतशरीराणि श्मशान उज्झि- 20618 तानि खादितकानि अशुचीनि विपूतीनि दुर्गन्धीनि स इमम् एव कायं तत्रोप- 20619 संहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति 20620 शिवपथिकायाम् अस्थिसंकुलां मांसशोणितम्रक्षितां स्नायुविनिबद्धान्तां दृष्ट्वा स 20621 इमम् एव कायं तत्रोपसंहरति {{अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये}}/ {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो 20622 यानि तानि पश्यति मृतशरीराणि शिवपथिकायाम् अस्थिसंकलाम् अपगतमांसशोणित-
20701 स्नायुवन्धनान्तां दृष्ट्वा इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो 20702 यदा पश्यति शिवपथिकायाम् अस्थिसंकलां विग्रहवन्धनविप्रयुक्तां विसंयुक्तां 20703 यथासंख्याः पृथिव्यां विक्षिप्ताः स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} 20704 महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्त्ःईनि दिग्विदिशो विक्षिप्तानि यद् उतान्येन 20705 पादास्थीनि {अन्येन} जंघास्थीनि {अन्येन} उर्वस्थीनि {अन्येन} श्रोणीकटाहास्थीनि {अन्येन} 20706 पृष्ठवंशास्थीनि {अन्येन} पार्श्वकास्थीनि {अन्येन} ग्रीवास्थीनि {अन्येन} वाह्वस्थीनि {अन्येन} 20707 शिरःकपालास्थीनि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} 20708 महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि अनेकवार्षिकाणि अनेक-
20709 वर्षशतानि वातातपपरीतानि श्वेतानि शङ्खसन्निभानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} 20710 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो यदा पश्यति शिवपथिकायाम् अस्थीनि 20711 तिरोवार्षिकाणि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुना 20712 समसमीभूतानि स इमम् एव कायं {{तत्रोपसंहरति अयम् अपि काय एवं धर्मा एवं स्वभाव एतां धर्मताम् अव्यतिवृत्तः/ एवं हि सुभूते बोधिसत्त्वो महासत्त्वो बहिर्धाकाये कायानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके ऽभिध्यादौर्मनस्ये/}} एवं वेदनायां चित्ते धर्मे 20713 धर्मानुपश्यी विहरति आतापी संप्रजानन् स्मृतिमान् विनीयलोके अभिध्या- 20714 दौर्मनस्ये तच् चानुपलम्भयोगेन/ इदं {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 20715 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ यद् उत चत्वारि सम्यक्प्रहाणानि/ 20716 कतमानि चत्वारि/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो ऽनुत्पन्नानां पापकानाम् अकुशलानां 20717 धर्माणाम् अनुत्पादाय छन्दं जनयति व्यायच्छते वीर्यम् आरभते चित्तं प्रतिगृह्णाति 20718 सम्यक्प्रणिदधाति उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं
20719 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ उत्पन्नानां 20720 कुशलानां धर्माणां स्यितये भूयो भवाय असंप्रमोषाय अपरिहाणाय छन्दं 20721 {जनयति व्यायच्छते चित्तं प्रतिगृह्णाति सम्यक्प्रणिदधाति}/ तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम्/ 20722 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानम् यद् उत चत्वार ऋद्धिपादाः/ 20723 कतमे चत्वारः/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वश् छन्दसमाधिप्रहाणं संस्कारसमन्वागत- 20724 म् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे 20725 परिगतम् एवं वीर्यसमाधिश् चित्तसमाधिर् मीमांसासमाधिप्रहाणसंस्कार{{समन्वागतम् ऋद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गे}}
20801 परिगतम् तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते} {बोधिसत्त्वस्य} महा- 20802 सत्त्वस्य महायानम्/ 20803 {पुनर् अपरम्} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य महायानं यद् उत पञ्चेन्द्रियाणि/ कतमानि 20804 पञ्च/ श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्/ तच् चा- 20805 नुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत पञ्चबलानि/ कत- 20806 मानि पञ्च/ श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम् तच् चानुपलम्भ- 20807 योगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} 20808 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत सप्तबोध्यङ्गानि/ कतमानि सप्त/ स्मृति{संबोध्यङ्गं} 20809 धर्मप्रविचय{संबोध्यङ्गं} वीर्य{संबोध्यङ्गं} प्रीति{संबोध्यङ्गं} प्रस्रब्धि{संबोध्यङ्गं} समाधि{संबोध्यङ्गं} उपेक्षा{संबोध्यङ्गं}/ तत्र कतमत् 20810 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं}/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वः प्रज्ञापारमितायाञ् चरन् 20811 स्मृति{संबोध्यङ्गं} यावद् उपेक्षा{संबोध्यङ्गं} भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं 20812 व्यवसर्गपरिगतम् तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्/} 20813 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत आर्याष्टाङ्गमार्गः/ कतम आर्याष्टाङ्गो मार्गः/ यद् उत
20814 सम्यग्दृष्टिः {सम्यक्}संकल्पः {सम्यक्}कर्मान्तः {सम्यग्}आजीवः {सम्यग्}व्यायामः {सम्यक्-} 20815 स्मृतिः {सम्यक्}समाधिः/ तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ 20816 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत त्रयः समाधयः/ कतमे त्रयः समाधयः शून्यता- 20817 निमित्ताप्रणिहितः/ तत्र कतमः शून्यतासमाधिः/ स्वलक्षणेन शून्यान् 20818 सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः शून्यताविमोक्षमुखम् अयम् उच्यते 20819 शून्यतासमाधिः/ अनिमित्तान् सर्वधर्मान् 20820 {{प्रत्यवेक्षमाणस्य या चित्तस्य स्थितिः अनिमित्तविमोक्षमुखम् अयम् उच्यते अनिमित्तसमाधिः}}/ अप्रणिहितान् सर्वधर्मान् प्रत्यवेक्षमाणस्य या चित्तस्य 20821 {{स्थितिः अप्रणिहितविमोक्षमुखम् अयम् उच्यते अप्रणिहितसमाधिः}}/ इमानि त्रीणि विमोक्षमुखानि/ 20822 त्रयः समाधयः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्}/ एतेषु त्रिषु विमोक्षमुखेषु शिक्षितव्यम्/ 20823 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानं 20824 क्षयज्ञानम् अनुत्पादज्ञानं धर्मज्ञानं अन्वयज्ञानं संवृत्तिज्ञानं परिजयज्ञानं
20901 यथारुतज्ञानं/ तत्र कतमद् दुःखज्ञानं/ यद् दुःखस्यानुत्पादज्ञानम् इदं दुःख- 20902 ज्ञानं/ {तत्र कतमत्} समुदय{ज्ञानं}/ यत् समुदयस्य प्रहाणज्ञानं/ {तत्र कतमद्} निरोध{ज्ञानं}/ यद् दुःख- 20903 निरोधज्ञानं/ {तत्र कतमद्} मार्ग{ज्ञानं}/ यन् निरोधसाक्षात्करणज्ञानं/ {तत्र कतमत्} क्षय{ज्ञानं}/ यद् रागदोष- 20904 मोहक्षयज्ञानं/ {तत्र कतमद्} अनुत्प्द{ज्ञानं}/ यद् अनुत्पादे अनुत्पादज्ञानं/ {तत्र कतमद्} धर्म{ज्ञानं}/ यत् 20905 पञ्चानां स्कन्धानां धर्मोपच्छेदज्ञानं/ {तत्र कतमद्} अन्वय{ज्ञानं}/ चक्षुर् अनित्यं श्रोत्रं घ्राणं 20906 जिह्वा कायो मनो ऽनित्यं/ एवं यावद् व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्य- 20907 समुत्पादेषु च ज्ञानं/ {तत्र कतमत्} संवृत्ति{ज्ञानं}/ यत् परसत्त्वानां परपुद्गलानां चेतसैव 20908 चेतसो ज्ञानं/ {तत्र कतमत्} परिजय{ज्ञानं}/ यत् प्रतिपत्परिजयज्ञानं/ {तत्र कतमद्} यथारुत{ज्ञानं}/ यत् तत् 20909 तथागतस्य सर्वाकारज्ञताज्ञानं तच् चानुपलम्भयोगेन/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} 20910 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् इदं त्रीणीन्द्रियानि/ कतमानि त्रीणि/ अनाज्ञातम् आ- 20911 ज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं/ {तत्र कतमत्} अनाज्ञातम् आज्ञास्यामी- 20912 न्द्रियं/ यच् छैक्षाणां पुद्गलानाम् अनभिसमितानाम् अनवभासं यद् अविनयं 20913 श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् इदम् उच्यते अना- 20914 ज्ञातम् आज्ञास्यामीन्द्रियं/ {तत्र कतमद्} आज्ञेन्द्रियं/ यच् छैक्षाणां पुद्गलानाम् आज्ञातवतां
20915 श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञेन्द्रियं/ {तत्र कतमद्} आज्ञातावीन्द्रियं 20916 यद् उताशैक्षाणां पुद्गलानाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां तथागतानाम् अर्हतां 20917 सम्यक्संबुद्धानां श्रद्धेन्द्रियं {{वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं}} प्रज्ञेन्द्रियम् इदम् उच्यते आज्ञातावीन्द्रियं/ 20918 इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 20919 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत सवितर्कः सविचारः समाधिर् अवितर्को ऽविचारमात्रः 20920 समाधिः/ {तत्र कतमः} सवित्र्कः सविचारः समाधिः/ इह {सुभूते} {बोधिसत्त्वो} महासत्त्वो विविक्तं 20921 कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं 20922 ध्यानम् उपसम्पद्य विहरति/ अयम् उच्यते सवितर्कः सविचारः समाधिः/ {तत्र}
21001 कतमो ऽवितर्को ऽविचारमात्रः समाधिः/ यः प्रथमस्य ध्यानस्य द्वितीयस्य ध्यान- 21002 स्यान्तरिको ऽयम् उच्यते अवितर्को ऽविचारमात्रः समाधिः/ तत्र कतमो ऽवितर्को 21003 ऽविचारः समाधिर् यद् द्वितीयं ध्यानं विस्तरेण कर्तव्यं यावन् नैव संज्ञानासं- 21004 ज्ञायतनसमापत्तिर् अयम् उच्यते ऽवितर्को ऽविचारः समाधिः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु- 21005 पलम्भयोगेन/ 21006 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत दशानुस्मृतयः/ कतमा दश/ यद् उत बुद्धानुस्मृतिर् धर्मानु{स्मृतिर्} 21007 अंघानु{स्मृतिः} शीलानु{स्मृतिः} त्यागानु{स्मृतिर्} देवतानु{स्मृतिर्} ऊर्ध्वगानु{स्मृतिर्} मरणानु{स्मृतिः} कायानु{स्मृतिर्} 21008 आनापानानु{स्मृतिः}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 21009 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं} यद् उत चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्य- 21010 समापत्तयो ऽष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} 21011 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ दश तथागतबलानि/ कतमानि दश/ यद् उत इह {बोधिसत्त्वो} 21012 महासत्त्वः स्थानञ् च स्थानतो ऽस्थानञ् चास्थानतो यथाभूतं प्रजानाति/ 21013 अतीतानागतप्रत्युत्पन्नानां च कर्मणां कर्मसमादानानां च स्थानतो हेतुतो 21014 विपाकञ् च यथा{भूतं प्रजानाति}/ नानाधातुकं यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानां नानाधि-
21015 मुक्तिकतां यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानाम् इन्द्रियपरापरज्ञानतां यथा{भूतं प्रजानाति}/ 21016 सर्वत्रगामिनीं प्रतिपदं यथा{भूतं प्रजानाति}/ परसत्त्वानां परपुद्गलानां ध्यानविमोक्ष- 21017 समाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानं यथा{भूतं प्रजानाति}/ सो ऽनेकविधं पूर्वनिवास- 21018 म् अनुस्मरति/ स च दिव्येन चक्षुषा सत्त्वानां च्युतोपपादं यथा{भूतं प्रजानाति}/ स आस्र- 21019 वाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय 21020 साक्षात्कृत्वा उपसम्पद्य विहरति क्षीना मे जातिर् उषितं ब्रह्मचर्यं कृतं 21021 करणीयं नापरमिथ्यात्वम् इति यथा{भूतं प्रजानाति}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ- 21022 योगेन/
21101 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत चत्वारि वैशारद्यानि/ कतमानि चत्वारि/ यद् उत सम्यक्- 21102 संबुद्धस्य वत मे प्रतिजानतः इमे धर्मा अभिसंबुद्धा इति अत्र च मे कश्चिच् छ्रमणो 21103 वा देवो वा मारो वा ब्रह्मा वा कश्चिद् वा पुनर् लोके सह धर्मेण चोदयेद् इति निमित्त- 21104 म् एतन् न समनुपश्यामि/ इदम् अत्र निमित्तम् असमनुपश्यन् क्षेमप्राप्तो ऽभयप्राप्तो 21105 विहरामि आर्षभं स्थानं प्रजानामि पर्षदि सम्यक् सिंहनादं नदामि ब्राह्मं 21106 चक्रं प्रवर्तयामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा 21107 वा केनचिद् वा पुनर् लोके सह धर्मेणेति/ क्षीणाश्रवस्य वत मे प्रतिजानतः इमे 21108 आस्रवा अपरिक्षीणा इति नैतत् स्थानं विद्यते/ अत्र च मे कश्चिच् छ्रमणो 21109 वा ब्राह्मणो वा पेयालं यावद् ब्राह्मं चक्रं प्रवर्त{{यामि अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके}} सह धर्मेणेति/ 21110 ये खलु पुनर् इमे मया आन्तरायिका धर्मा आख्यातास् तान् प्रतिषेवमाणस्य 21111 नालम् अन्तरायायेति नैतत् स्थानं विद्यते/ अत्र मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति}/ या मया प्रतिपदा- 21112 ख्याता आर्या नैर्याणिकी निर्याति तत् करस्य सम्यग् दुःखक्षयाय तां प्रतिपद्य- 21113 मानो न निर्यायात् सम्यग् दुःखक्षयायेति नैतत् स्थानं विद्यते/ अत्र
21114 च मे {कश्चिच् छ्रमणो वा ब्राह्मणो वा पेयालं यावत् केनचिद् वा पुनर् लोके सह धर्मेणेति/} इमानि चत्वारि वैशारद्यानि/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भ- 21115 योगेन/ 21116 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत चतस्रः प्रतिसंविदः/ कतमाश् चतस्रः/ धर्म{प्रतिसंविद्} 21117 अर्थ{प्रतिसंविद्} निरुक्ति{प्रतिसंवित्} प्रतिभान{प्रतिसंवित्}/ इदम् अपि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनुपलम्भयोगेन/ 21118 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उताष्टादशावेणिका बुद्धधर्माः/ कतमे अष्टादश/ यद् उत 21119 याञ् च रात्रिं सुभूते तथागतो ऽर्हन् सम्यक्संबोधिम् अभिसंबुद्धः याञ् च रात्रिम् उपादाय 21120 परिनिर्वास्यति एतस्मिन्न् अन्तरे सुभूते नास्ति तथागतस्य स्खलितं नास्ति 21121 चवितं नास्ति मुषितस्मृतिता नास्ति नानात्वसंज्ञा नास्त्य् असमाहितं चित्तं नास्त्य् अ-
21201 प्रतिसंख्या चोपेक्षा नास्ति छन्दपरिहाणिर् नास्ति वीर्य{परिहाणिर्} नास्ति स्मृति{परिहाणिर्} 21202 नास्ति समाधि{परिहाणिर्} नास्ति प्रज्ञा{परिहाणिर्} नास्ति विमुक्ति{परिहाणिः}/ सर्वकायकर्मज्ञानपूर्वङ्गम- 21203 ज्ञानानुपरिवर्त्ति/ सर्ववाक्कर्म{{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति/ सर्वमनस्कर्म- 21204 {{ज्ञानपूर्वङ्गमज्ञानानुपरि}}वर्त्ति/ अतीते ऽध्वन्य् अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च/ अनागते 21205 ऽध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}}/ प्रत्युत्पन्ने ऽध्वन्य् {{अप्रतिहतम् असङ्गज्ञानन् दर्शनञ् च}} 21206 प्रवर्त्तते/ इमे अष्टादशावेणिका बुद्धधर्माः/ इदम् पि {सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानम्} अनु- 21207 पलम्भयोगेन/ [इति मार्गसम्भारः//] 21208 पुनर् {अपरम् सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायानं}/ यद् उत धारणीमुखानि/ यद् उताक्षरनयसमताक्षरमुखम् अक्षर- 21209 प्रवेशः/ कतमो ऽक्षरनयसमता अक्षरमुखम् अक्षरप्रवेशः/ अकारो मुखः सर्वधर्मा- 21210 णाम् आद्यनुत्पन्नत्वात्/ रेफो मुखः {सर्वधर्माणां} रजो ऽपगतत्वात्/ पकारो मुखः 21211 {सर्वधर्माणां} परमार्थनिर्देशात्/ चकारो मुखः {सर्वधर्माणां} च्यवनोपपत्त्यनुपलब्धित्वात्/ 21212 न{कारो मुखः} {सर्वधर्माणां} नामापगतत्वात्/ ल{कारो मुखः} {सर्वधर्माणां} लोकोत्तीर्णत्वात् तृष्णा- 21213 लताहेतुप्रत्ययसमुद्घातित्वात् च/ द{कारो मुखः} {सर्वधर्माणां} दान्तदमथपरिच्छिन्नत्वात्/ 21214 ब{कारो मुखः} {सर्वधर्माणां} बन्धनविमुक्तत्वात्/ ड{कारो मुखः} {सर्वधर्माणां} डमरापगतत्वात्/ स{कारो मुखः} {सर्वधर्माणां}
21215 सङ्गानुपलब्धित्वात्/ व{कारो मुखः} {सर्वधर्माणां} वाक्पथघोषसमुच्छिन्नत्वात्/ त{कारो मुखः} {सर्वधर्माणां} 21216 तथता ऽचलितत्वात्/ य{कारो मुखः} {सर्वधर्माणां} यथावद् अनुत्पादत्वात्/ स्त{कारो मुखः} {सर्वधर्माणां} 21217 स्तम्भानुपलब्धित्वात्/ क{कारो मुखः} {सर्वधर्माणां} कारकानुपलब्धित्वात्/ स{कारो मुखः} {सर्वधर्माणां} 21218 समतानुपलब्धित्वात्/ म{कारो मुखः} {सर्वधर्माणां} ममकारानुपलब्धित्वात्/ ग{कारो मुखः} {सर्वधर्माणां} 21219 गगनानुपलब्धितः/ स्थ{कारो मुखः} {सर्वधर्माणां} स्थानानु{पलब्धितः}/ ज{कारो मुखः} {सर्वधर्माणां} जात्यनु{पलब्धितः}/ श्व{कारो मुखः} 21220 {सर्वधर्माणां} श्वासानु{पलब्धितः}/ ध{कारो मुखः} {सर्वधर्माणां} धर्मधात्वनु{पलब्धितः}/ श{कारो मुखः} {सर्वधर्माणां} शमथानु{पलब्धितः}/ ख{कारो मुखः} 21221 {सर्वधर्माणां} खसमतानु{पलब्धितः}/ क्ष{कारो मुखः} {सर्वधर्माणां} क्षयानु{पलब्धितः}/ त{कारमुखाः} {सर्वधर्माः} तच् चानुपलब्धितः/
21301 ज्ञ{कारमुखाः} {सर्वधर्माः} सर्वज्ञानानु{पलब्धितः}/ ह{कारमुखाः} {सर्वधर्माः} हेतोर् अनु{पलब्धितः}/ च्छ{कारमुखाः} {सर्वधर्माः} छवेर् अप्य् अनु{पलब्धितः}/ 21302 स्म{कारमुखाः} {सर्वधर्माः} स्मरणानु{पलब्धितः}/ द्ध{कारमुखाः} {सर्वधर्मा} आद्धानापगतत्वात्/ स{कारमुखाः} सर्वधर्मा 21303 उत्साहानु{पलब्धितः}/ घ{कारमुखाः} {सर्वधर्माः} घनानु{पलब्धितः}/ ठ{कारमुखाः} {सर्वधर्माः} विठपनानु{पलब्धितः}/ ण{कारमुखाः} {सर्वधर्माः} रण- 21304 विगतत्वात्/ फ{कारमुखाः} {सर्वधर्माः} फलानु{पलब्धितः}/ स्क{कारमुखाः} {सर्वधर्माः} स्कन्धानु{पलब्धितः}/ ज{कारमुखाः} {सर्वधर्माः} 21305 जरानु{पलब्धितः}/ च{कारमुखाः} {सर्वधर्माः} चरणानु{पलब्धितः}/ ट{कारमुखाः} {सर्वधर्माः} ठंकारानु{पलब्धितः}/ ढ{कारो मुखः} {सर्वधर्माः} 21306 डंकारानु{पलब्धितः}/ 21307 नास्ति अत उत्तरि अक्षयव्यवहारः/ तत् कस्य हेतोः/ तथा हि 21308 न कस्यचिन् नामास्ति येन संव्यवह्रियेत येन वाभिलप्येत येन निर्दिश्येत येन 21309 लक्ष्येत येन पश्येत्/ तद् यथापि नाम सुभूते आकाशम्/ एवम् एव सर्वधर्मा 21310 अनुगन्तव्याः/ अयं {सुभूते} धारणीप्रवेशो ऽकाराद्यक्षरनिर्देशप्रवेशः/ यः कश्चित् 21311 {सुभूते} {बोधिसत्त्वो} महासत्त्वः इदम् अकाराद्यक्षरकौशल्यप्रवेशं ज्ञास्यति न स क्वचिद् रुते प्रति- 21312 हन्यते/ सर्वं तं धर्मतया समाधयिष्यति रुतज्ञानकौशल्यञ् च प्रतिलप्स्यते/ 21313 यो हि कश्चित् {सुभूते} {बोधिसत्त्वो} महासत्त्व इमाम् अकाराद्यक्षरमुद्रां श्रोष्यति श्रुत्वा चोद्-
21314 ग्रहीष्यति धारयिष्यति वाचयिष्यति परेषां देशयिष्यति रमयति तया सन्तत्या 21315 तस्य विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः/ कतमा विंशतिः/ स्मृतिमांश् च 21316 भविष्यति/ मतिमांश् च {भविष्यति}/ गतिमांश् च {भविष्यति}/ धृतिमांश् च {भविष्यति}/ ह्रीमांश् च 21317 प्रज्ञावांश् च प्रतिभानवांश् च सत्यकुशलश् च {भविष्यति}/ इदं धारणीमुखम् अल्पकृच्छ्रेण प्रतिल- 21318 प्स्यते न च कथंकथी {भविष्यति}/ विमतिश् चास्य न {भविष्यति}/ न च श्लक्ष्णां वाचं श्रुत्वा 21319 परेष्व् अनुनीतो {भविष्यति}/ न च परुषया वाचा प्रतिहन्यते/ न चोन्नतो {भविष्यति} नावनतः/ 21320 यथास्थित एव {भविष्यति} रुतकुशलश् च भविष्यति/ स्कन्ध{कुशलश् च भविष्यति} धातु{कुशलश् च भविष्यति}/ आयतन{कुशलश् च भविष्यति} 21321 सत्य{कुशलश् च भविष्यति} प्रतीत्यसमुत्पाद{कुशलश् च भविष्यति}/ हेतु{कुशलश् च भविष्यति} प्रत्यय{कुशलश् च भविष्यति}/ धर्म{कुशलश् च भविष्यति}/ इन्द्रियपरिपूर्ण-
21401 ज्ञान{कुशलश् च भविष्यति}/ परचित्तज्ञान{कुशलश् च भविष्यति} ऋद्धिविधिज्ञान{कुशलश् च भविष्यति}/ दिव्यश्रोत्रज्ञान{कुशलश् च भविष्यति}/ पूर्व- 21402 निवासानुस्मृतिज्ञान{कुशलश् च भविष्यति}/ च्युतोपपत्तिज्ञान{कुशलश् च भविष्यति}/ आस्रवक्षयज्ञान{कुशलश् च भविष्यति}/ स्थाना- 21403 स्थाननिर्देश{कुशलश् च भविष्यति}/ अतिक्रमण{कुशलश् च भविष्यति} इर्यापथ{कुशलश् च भविष्यति}/ इमान् अनुशंसान् प्रतिलप्स्यते 21404 इति/ इदम् अपि सुभूते धारणीमुखम् अक्षरमुकम् अकारमुखं {बोधिसत्त्वस्य} महासत्त्वस्य 21405 महायानम्/ [इति धारणीसम्भारः//] 21406 यद् अपि तत् सुभूतिर् एवम् आह/ कथं {बोधिसत्त्वो} महासत्त्वो महायानसम्प्रस्थितो 21407 भवतीति/ इह सुभूते {बोधिसत्त्वो} महासत्त्वः षट्सु पारमितासु चरन् भूमेर् भूमिं 21408 संक्रामति/ कथं च सुभूते {बोधिसत्त्वो} महासत्त्वो भूमेर् भूमिं संक्रामति यद् उता- 21409 संक्रान्त्या सर्वधर्माणाम्/ तत् कस्य हेतोः/ न हि स कश्चिद् धर्मो य आगच्छति 21410 वा गच्छति वा संक्रामति वा उपसंक्रामति वा/ अपि तु या धर्माणां भूमि- 21411 स् तान् न मन्यते न चिन्तयति भूमिपरिकर्म च करोति न च भूमिं समनुपश्यति/ 21412 कतमच् च {बोधिसत्त्वस्य} महासत्त्वस्य भूमिपरिकर्म/ प्रथमायां भूमौ वर्तमानेन 21413 {बोधिसत्त्वेन} महासत्त्वेन दशभूमिपरिकर्माणि करणीयानि/ कतमानि दश/ अध्या- 21414 शयपरिकर्म अनुपलम्भयोगेन/ हितवस्तुता{परिकर्म} निमित्ततानुपलम्भताम् उपादाय/ 21415 सर्वसत्त्वसमचित्तता{परिकर्म} सत्त्वानुपलब्धिताम् उपादाय/ त्याग{परिकर्म} दायकदेय-
21416 परिग्राहकानु{पलब्धिताम् उपादाय}/ कल्याणमित्रसेवा{परिकर्म} तैर् असंस्तापनताम् उपादाय/ सद्धर्म- 21417 पर्येष्टि{परिकर्म} सर्वधर्मानु{पलब्धिताम् उपादाय}/ अभीक्ष्णं नैष्क्रम्य{परिकर्म} गृहानु{पलब्धिताम् उपादाय}/ बुद्धकायस्पृहा{परिकर्म} 21418 लक्षणानुव्यञ्जननिमित्तानु{पलब्धिताम् उपादाय}/ धर्मविवरण{परिकर्म} धर्मभेदानु{पलब्धिताम् उपादाय}/ सत्यवचन{परिकर्म} 21419 वचनानु{पलब्धिताम् उपादाय}/ इमानि {सुभूते} {बोधिसत्त्वानां} महासत्त्वानां प्रथमाया भूमेर् दश परिकर्माणि यानि 21420 प्रथमायां भूमौ वर्तमानेन {बोधिसत्त्वेन} महासत्त्वेन दश परिकर्माणि करणीयानि/
21501 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वो} महासत्त्वो द्वितीयायां भूमौ वर्तमानो ऽष्टौ धर्मान् मनसि- 21502 करोति तेषु च प्रतिपद्यते/ कतमान् अष्टौ/ यद् उत शीलविशुद्धिं कृतज्ञतां कृत- 21503 वेदितां क्षान्तिबलप्रतिष्ठानं प्रामोद्यप्रत्यनुभवतां सर्वसत्त्वापरित्यागितया 21504 महाकरुणाया आमुखीकर्म/ गुरूणां श्रद्धया गौरवं शास्तृसंज्ञाया गुरुशुश्रूषां 21505 पारमितास् तद्योगपर्येष्टिम्/ इमान् सुभूते बोधिसत्त्वेन महासत्त्वेन द्वितीयायां 21506 भूमौ वर्तमानेनाष्टौ धर्मान् मनसिकृत्वा प्रतिपत्तव्यम्/ 21507 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन तृतीयायां भूमौ वर्तमानेन पञ्चसु धर्मेषु 21508 स्थातव्यम्/ कतमेषु पञ्चसु/ यद् उत बाहुश्रुत्ये ऽतृप्ततायां तत्र चाक्षरान् अभि- 21509 निवेशे निरामिषधर्मदानविवरणतायां तया चामन्यनतया बुद्धक्षेत्रपरिशोधन- 21510 कुशलमूलपरिणामनतायां तया चामन्यनतया अमितसंसारापरिखेदनतायां तया 21511 चामन्यनतया ह्रीरपत्राप्यव्यवस्थाने तेन चामन्यनतया एषु {सुभूते} {बोधिसत्त्वेन} 21512 महासत्वेन पञ्चसु धर्मेषु तृतीयायां भूमौ वर्तमानेन स्थातव्यम्/ 21513 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन दशसु धर्मेषु 21514 स्थातव्यम्/ ते च न परित्यक्तव्याः/ कतमेषु दशसु/ यद् उत अरण्यवासो 21515 ऽल्पेच्छता सन्तुष्ठिर् धूतगुणसंलेखानुत्सर्जनं शिक्षाया अपरित्यागः कामगुण- 21516 विजुगुप्सनं निर्वित्सहगतश् चित्तोत्पादः सर्वास्तिपरित्यागिता अनवलीनचित्तता
21517 सर्ववस्तुनिरपेक्षता/ इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन चतुर्थ्यां भूमौ वर्तमानेन 21518 न परित्यक्तव्या/ एषु च स्थातव्यम्/ 21519 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन पञ्चम्यां भूमौ वर्तमानेन दश धर्मा परिवर्ज- 21520 यितव्याः/ कतमे दश/ यद् उत गृहिप्रब्रजितसंस्तवः परिवर्जयितव्यः/ कुलमात्- 21521 सर्यं {परिवर्जयितव्यम्}/ संगणिकास्थानं {परिवर्जयितव्यम्}/ आत्मोत्कर्षणं {परिवर्जयितव्यम्}/ परपंसनं {परिवर्जयितव्यम्}/ दशा- 21522 कुशलाः कर्मपथाः {परिवर्जयितव्याः}/ अधिमानस्तम्भौ {परिवर्जयितव्यौ}/ विपर्यासाः {परिवर्जयितव्याः}/ विविकित्सा 21523 {परिवर्जयितव्या}/ रागद्वेषमोहाधिवासनाः {परिवर्जयितव्याः}/ इमे {सुभूते} दश धर्मा {बोधिसत्त्वेन} महासत्त्वेन 21524 पञ्चम्यां भूमौ वर्तमानेन {परिवर्जयितव्याः}/
21601 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन षड् धर्मा परिपूरयितव्याः/ 21602 कतमे षट्/ यद् उत षट् पारमिताः परिपूरयितव्याः/ अपरे षड् धर्माः परिवर्ज- 21603 यितव्याः/ कतमे षट्/ श्रावकचित्तं {पर्वर्जयितव्यं}/ प्रत्येकबुद्धचित्तं {पर्वर्जयितव्यं}/ परितसनाचित्तं 21604 {पर्वर्जयितव्यं}/ याचनकं दृष्ट्वा नावलीयते/ सर्ववस्तूनि च त्याज्यानि न च दौर्मनस्य- 21605 चित्तम् उत्पादयितव्यं न च याचनकविक्षेपः कर्तव्यः/ इमे {सुभूते} षड् धर्मा {बोधिसत्त्वेन} 21606 महासत्त्वेन षष्ट्यां भूमौ वर्तमानेन परिपूरयितव्याः/ अपरे षड् धर्माः 21607 परिवर्जयितव्याः/ 21608 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य विंशतिः धर्मा न 21609 भवन्ति/ कतमे विंशतिः/ यद् उत आत्मग्राहो ऽस्य न भवति सत्त्वग्राहो 21610 जीवग्राहः पुद्गलग्राह उच्छेदग्राहः शाश्वतग्राहः/ निमित्तसंज्ञा हेतुदृष्टिः 21611 स्कन्धाभिनिवेशो धात्वभिनिवेशः/ आयतनम् ऋद्धिस् त्रैधातुके प्रतिष्ठानं त्रैधातु- 21612 काध्यवसानं त्रैधातुके आलयो बुद्धनिश्रयदृष्ट्यभिनिवेशो धर्म{निश्रयदृष्ट्यभिनिवेशः} संघ{निश्रयदृष्ट्यभिनिवेशः} 21613 शील{निश्रयदृष्ट्यभिनिवेशः} शून्या धर्मा इति विवादः शून्यताविरोधश् चास्य न भवति/ इमे {सुभूते} 21614 विंशतिर् धर्मा {बोधिसत्त्वस्य} महासत्त्वस्य सप्तम्यां भूमौ वर्तमानस्य न भवन्ति/ तेन 21615 विंशतिर् एव धर्माः सप्तम्यां भूमौ स्थितेन परिपूरयितव्याः/ कतमे विंशतिः/
21616 यद् उत शून्यतापरिपूरिता निमित्तसाक्षत्क्रिया अप्रणिहितज्ञानं त्रिमण्डलपरि- 21617 शुद्धिः कृपाकारुण्यञ् च सर्वसत्त्वेषु तेष्व् अनवमन्यना सर्वधर्मसमतादर्शनं तत्र चानभि- 21618 निवेशः/ भूतनयप्रतिवेधस् तेन चामन्यना अनुत्पादक्षान्तिर् अनुत्पादज्ञानम् एकनय- 21619 निर्देशः/ सर्वधर्माणां कल्पनासमुद्घातः/ संज्ञादृष्टिविवर्त्तः क्लेशविवर्त्तः 21620 शमथनिध्यप्तिः विपश्यनाकौशल्यं दान्तचित्तता सर्वत्राप्रतिहतज्ञानचित्तता 21621 अनुनयस्याभुमिर् यत्रेच्छाक्षेत्रगमनं तत्र च बुद्धपर्षन्मण्डले स्थित्वात्मभाव- 21622 सन्दर्शनम्/ इमे विंशतिर् धर्मा {बोधिसत्त्वेन} महासत्त्वेन सप्तम्यां भूमौ वर्तमानेन परि- 21623 पूरयितव्याः/
21701 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः 21702 परिपूरयितव्याः/ कतमे चत्वारः/ यद् उत सर्वसत्त्वचित्तानुप्रवेशो ऽभिज्ञाविक्रीडनं 21703 बुद्धक्षेत्रदर्शनन् तेषाञ् च बुद्धक्षेत्राणां यथादृष्टिनिष्पादनता बुद्धपर्युपासनता बुद्ध- 21704 काययथाभूतप्रत्यवेक्षणता/ इमे {सुभूते} चत्वारो धर्मा {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां 21705 भूमौ वर्तमानेन परिपूरयितव्याः/ 21706 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेनाष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूर- 21707 यितव्याः/ कतमे चत्वारः/ यद् उत इन्द्रियपरापरज्ञानं बुद्धक्षेत्रपरिशोधनं 21708 मायोपमस्य समाधेर् अभीक्ष्णं समापत्तिर् यथा च सत्त्वानां कुशलमूलनिष्पत्ति- 21709 स् तथा तथात्मभावम् अभिनिर्मिमीते संचिन्त्यभवोत्पादनता/ इमे {सुभूते} {बोधिसत्त्वेन} महा- 21710 सत्त्वेन अष्टम्यां भूमौ वर्तमानेन चत्वारो धर्माः परिपूरयितव्याः/ 21711 {पुनर् अपरं} {सुभूते} {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयि- 21712 तव्याः/ कतमे द्वादश/ यद् उत अनन्तप्रणिधानपरिग्रहः/ स यथा यथा प्रणि- 21713 दधाति तथा तथास्य समृध्यते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगरुतज्ञानं 21714 प्रतिभाननिर्देशज्ञानं गर्भावक्रान्तिसम्पत्कुशल{सम्पद्} जाति{सम्पद्} गोत्र{सम्पत्} परि- 21715 वार{सम्पद्} जन्म{सम्पद्} नैष्क्रम्य{सम्पद्} बोधिवृक्ष{सम्पत्} सर्वगुणपरिपूरण{सम्पत्}/ इमे सुभूते
21716 {बोधिसत्त्वेन} महासत्त्वेन नवम्यां भूमौ वर्तमानेन द्वादश धर्माः परिपूरयितव्याः/ 21717 दशम्यां पुनः {सुभूते} बोधिसत्त्वभूमौ वर्तमानो {बोधिसत्त्वो} महासत्त्वस् तथागत एवेति 21718 वक्तव्यः/ 21719 सुभूतिर् आह/ कतमद् भगवन् {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म/ भगवान् आह/ 21720 या सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलसमुदानयनता इदं सुभूते 21721 {बोधिसत्त्वस्य} महासत्त्वस्याध्याशयपरिकर्म/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} हितवस्तुतापरिकर्म यद् {बोधिसत्त्वो} महा- 21722 सत्त्वः सर्वसत्त्वानाम् अर्थाय महायानज्ञानपर्येष्टिम् आपद्यते/ इदं {बोधिसत्त्वस्य} महासत्त्वस्य 21723 हितवस्तुतापरिकर्म/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} सर्वसत्त्वसमचित्ततापरिकर्म/ यत् सर्वाकारज्ञताप्रति- 21724 संयुक्तैर् मनसिकारैश् चतुरप्रमाणाभिनिर्हरण मैत्रीकरुणामुदितोपेक्षणम् इदम् {उच्यते सर्वसत्त्वसमचित्ततापरिकर्म}/
21801 तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} त्यागपरिकर्म/ यत् सर्वसत्त्वेभ्यो ऽविकल्पितं दानं ददाति इदम् {उच्यते त्यागपरिकर्म}/ तत्र 21802 {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} कल्याणमित्रसेवनापरिकर्म/ यानि {बोधिसत्त्वस्य} महासत्त्वस्य कल्याणमित्राणि 21803 सर्वाकारज्ञतायां समादापयन्ति तेषां मित्राणां सेवना भजना पर्युपासना 21804 शुश्रूषा इदम् {उच्यते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रसेवनापरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मपर्येष्टिपरिकर्म/ यत् सर्वाकारज्ञता- 21805 प्रतिसंयुक्तेन मनसिकारेण धर्मं पर्येषते न च श्रावकप्रत्येकबुद्धभूमौ पतति इदं 21806 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य धर्मपर्येष्टिपरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} अभीक्ष्णं नैष्क्रम्यपरिकर्म/ यत् सर्वजातिष्व् अव्यवकीर्न्नो ऽभि- 21807 निष्क्रामति तथागतशासने प्रव्रजति न चास्य कश्चिद् अन्तरायो भवति इदं 21808 {सुभूते} {उच्यते बोधिसत्त्वस्य महासत्त्वस्य अभीक्ष्णं नैष्क्रम्यपरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} बुद्धकायस्पृहापरिकर्म/ यद् बुद्धविग्रहं दृष्ट्वा न जातु बुद्ध- 21809 मनसिकारेण विरहितो भवति यावत् सर्वाकारज्ञता ऽनुप्राप्तो भवति/ इदं {सुभूते} 21810 {उच्यते बोधिसत्त्वस्य महासत्त्वस्य बुद्धकायस्पृहापरिकर्म}/ तत्र {कतमद् बोधिसत्त्वस्य महासत्त्वस्य} धर्मविवरणपरिकर्म/ यद् {बोधिसत्त्वो} महासत्त्वः सम्मुखीभूतस्य तथा- 21811 गतस्य परिनिर्वृतस्य वा सत्त्वानां धर्मं देशयति आदौ कल्याणं मध्ये
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
