Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

शतपञ्चाशत्क

Tác giả
मातृचेट
Thông tin
GRETIL — of D. R. Shackleton Bailey, The Śatapañcāśatka of Mātṛceṭa, Cambridge 1951.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मातृचेट: शतपञ्चाशत्क

prasādapratibhodhava (= śatapañcāśatka) of mātṛceṭa

सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह । सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः ॥ 1

तम् एव शरणं गन्तुं तं स्तोतुं तम् उपासितुम् । तस्यैव शासने स्थातुं न्याय्यं यद्य् अस्ति चेतना ॥ 2

सवासनाश् च ते दोषा न सन्त्य् एकस्य तायिनः । सर्वे सर्वविदः सन्ति गुणास् ते चानपायिनः ॥ 3

न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु । सह धर्मेण लभते कश् चिद् भगवतो ऽन्तरम् ॥ 4

सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥ 5

अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् । आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् ॥ 6

इत्य् असंख्येयविषयान् अवेत्यापि गुणान् मुनेः । तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् ॥ 7

स्वयंभुवे नमस् ते ऽस्तु प्रभूताद्भुतकर्मणे । यस्य संख्याप्रभावाभ्यां न गुणेष्व् अस्ति निश्चयः ॥ 8

इयन्त इति नास्त्य् अन्त ईदृशा इति का कथा । पुण्या इत्य् एव तु गुणान् प्रति ते मुखरा वयम् ॥ 9

विषह्यम् अविषह्यं वेत्य् अवधूय विचारणाम् । स्वयम् अभ्युपपन्नं ते निराक्रन्दम् इदं जगत् ॥ 10

अव्यापारितसाधुस् त्वं त्वम् अकारणवत्सलः । असंस्तुतसखश् च त्वम् अनवस्कृतबान्धवः ॥ 11

स्वमांसान्य् अपि दत्तानि वस्तुष्व् अन्येषु का कथा । प्राणैर् अपि त्वया साधो मानितः प्रणयी जनः ॥ 12

स्वैः शरीरैः शरीराणि प्राणैः प्राणाः शरीरिणाम् । जिघांसुभिर् उपात्तानां क्रीतानि शतशस् त्वया ॥ 13

न दुर्गतिभयान् नेष्टाम् अभिप्रार्थयता गतिम् । केवलाशयशुद्ध्यैव शीलं सात्मीकृतं त्वया ॥ 14

जिह्मानां नित्यविक्षेपाद् ऋजूनां नित्यसेवनात् । कर्मणां परिशुधानां त्वम् एकायनतां गतः ॥ 15

पीड्यमानेन बहुशस् त्वया कल्याणचेतसा । क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः ॥ 16

परार्थे त्यजतः प्राणान् या प्रीतिर् अभवत् तव । न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् ॥ 17

यद् रुजानिरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् । वधकेष्व् अपि सत्त्वेष्व् कारुण्यम् अभवत् प्रभो ॥ 18

सम्यक्संबोधिबीजस्य चित्तरत्नस्य तस्य ते । त्वम् एव वीर सारज्ञो दूरे तस्येतरो जनः ॥ 19

नाकृत्वा दुष्करं कर्म दुर्लभम् लभ्यते पदम् । इत्य् आत्मनिरपेक्षेण वीर्यं संवर्धितं त्वया ॥ 20

विशेषोत्कर्षनियमो न कदा चिद् अभूत् तव । अतस् त्वयि विशेषाणां छिन्नस् तरतमक्रमः ॥ 21

सुसुखेष्व् अपि सङ्गो ऽभूत् सफलेषु समाधिषु । न ते नित्यानुबद्धस्य महाकरुणया हृदि ॥ 22

त्वादृशान् पीडयत्य् एव नानुगृह्णाति तत् सुखम् । प्रणीतम् अपि सद्वृत्त यद् असाधारणं परैः ॥ 23

विमिश्रात् सारम् आदत्तं सर्वं पीतम् अकल्मषम् । त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् ॥ 24

क्रीणता रत्नसारज्ञ प्राणैर् अपि सुभाषितम् । पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु ॥ 25

इति त्रिभिर् असंख्येयैर् एवम् उद्यच्छता त्वया । व्यवसायद्वितीयेन प्राप्तं पदम् अनुत्तरम् ॥ 26

अकृत्वेर्ष्यां विशिष्टेषु हीनान् अनवमत्य च । अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः ॥ 27

हेतुष्व् अभिनिवेशो ऽभूद् गुणानां न फलेषु ते । तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः ॥ 28

तथात्मा प्रचयं नीतस् त्वया सुचरितैर् यथा । पुण्यायतनतां प्राप्तान्य् अपि पादरजांसि ते ॥ 29

कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः । गुणास् तेन सुनीतेन परां सिद्धिं त्वम् अध्यगाः ॥ 30

तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया । यथैषाम् आत्मसंताने वासनापि न शेषिता ॥ 31

तथा संभृत्य संभृत्य त्वयात्मन्य् आहिता गुणाः । प्रतिरूपकम् अप्य् एषां यथा नान्यत्र दृश्यते ॥ 32

उपघातावरणवन् मितकालं प्रदेशि च । सुलभातिशयं सर्वम् उपमावस्तु लौकिकम् ॥ 33

अद्वंद्विनाम् अगम्यानां ध्रुवाणाम् अनिवर्तिनाम् । अनुत्तराणां का तर्हि गुणानाम् उपमास्तु ते ॥ 34

गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः । यदा ते बुद्धिगाम्भीर्यम् अगाधापारम् ईक्षते ॥ 35

शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् । अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते ॥ 36

अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने । न रविर् विषये भूमिं खाद्योतीम् अपि विन्दति ॥ 37

मलिनत्वम् इवायान्ति शरच्चन्द्राम्बराम्भसाम् । तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः ॥ 38

अनेन सर्वं व्याख्यातं यत् किं चित् साधु लौकिकम् । दूरे हि बुद्धधर्माणां लोकधर्मास् तपस्विनः ॥ 39

यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस् त्वम् अग्रताम् । तेनैव केवलं साधो साम्यं ते तस्य च त्वया ॥ 40

आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किं चन । यत्रोपक्षिप्य कथ्येत सा वक्तुर् अतिलोलता ॥ 41

प्रतन्व् इव हि पश्यामि धर्मताम् अनुचिन्तयन् । सर्वं चावर्जितं मारविजयं प्रति ते जगत् ॥ 42

महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यतः । क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः ॥ 43

यत् तु मारजयान्वक्षं सुमहत् क्लेशवैशसम् । तस्याम् एव कृतं रात्रौ तद् एव परमाद्भुतम् ॥ 44

तमोविधमने भानोर् यः सहस्रांशुमालिनः । वीर विस्मयम् आगच्छेत् स तीर्थ्यविजये तव ॥ 45

सरागो वीतरागेण जितरोषेण रोषणः । मूढो विगतमोहेन त्रिभिर् नित्यं जितास् त्रयः ॥ 46

प्रशंससि च सद्धर्मान् असद्धर्मान् विगर्हसि । अनुरोधविरोधौ च न स्तः सदसतोस् तव ॥ 47

नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति । यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर् भवेत् ॥ 48

गुणेष्व् अपि न सङ्गो ऽभूत् तृष्णा न गुणवत्स्व् अपि । अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता ॥ 49

इन्द्रियाणां प्रसादेन नित्यकालानपायिना । मनो नित्यप्रसन्नं ते प्रत्यक्षम् इव दृश्यते ॥ 50

आ बालेभ्यः प्रसिद्धास् ते मतिस्मृतिविशुद्धयः । गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः ॥ 51

उपशान्तं च कान्तं च दीप्तम् अप्रतिघाति च । निभृतं चोर्जितं चेदं रूपं कम् इव नाक्षिपेत् ॥ 52

येनापि शतशो दृष्टं यो ऽपि तत्पूर्वम् ईक्षते । रूपं प्रीणाति ते चक्षुः समं तद् उभयोर् अपि ॥ 53

असेचनकभावाद् धि सौम्यभावाच् च ते वपुः । दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् ॥ 54

अधिष्ठानगुणैर् गात्रम् अधिष्ठातृगुणैर् गुणाः । परया संपदोपेतास् तवान्योन्यानुरूपया ॥ 55

क्वान्यत्र सुनिविष्टाः स्युर् इमे ताथागता गुणाः । ऋते रूपात् तवैवास्माल् लक्षणव्यञ्जनोज्ज्वलात् ॥ 56

धन्यम् अस्मीति ते रूपं वदतीवाश्रितान् गुणान् । सुनिक्षिप्ता वयम् इति प्रत्याहुर् इव तद् गुणाः ॥ 57

सर्वम् एवाविशेषेण क्लेशैर् बद्धम् इदं जगत् । त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् ॥ 58

कं नु प्रथमतो वन्दे त्वां महाकरुणाम् उत । ययैवम् अपि दोषज्ञस् त्वं संसारे धृतश् चिरम् ॥ 59

विवेकसुखसात्म्यस्य यद् आकीर्णस्य ते गताः । काला लब्धप्रसरया तत् ते करुणया कृतम् ॥ 60

शान्ताद् अरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् । विनेयार्थं करुणया विद्ययेवावकृष्यसे ॥ 61

परमोपशमस्थो ऽपि करुणापरवत्तया । कारितस् त्वं पदन्यासं कुशीलवकलास्व् अपि ॥ 62

ऋद्धिर् या सिंहनादा ये स्वगुणोद्भावनाश् च याः । वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते ॥ 63

परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा । त्वय्य् एव केवलं नाथ करुणाकरुणाभवत् ॥ 64

तथा हि कृत्वा शतधा धीरा बलिम् इव क्व चित् । परेषाम् अर्थसिद्ध्यर्थं त्वां विक्षिप्तवती दिशः ॥ 65

त्वदिच्छयैव तु व्यक्तम् अनुकूला प्रवर्तते । तथा हि बाधमानापि त्वां सती नापराध्यते ॥ 66

सुपदानि महार्थानि तथ्यानि मधुराणि च । गूढोत्तानोभयार्थानि समासव्यासवन्ति च ॥ 67

कस्य न स्याद् उपश्रुत्य वाक्यान्य् एवंविधानि ते । त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः ॥ 68

प्रायेण मधुरं सर्वम् अगत्या किं चिद् अन्यथा । वाक्यं तवार्थसिद्ध्या तु सर्वम् एव सुभाषितम् ॥ 69

यच् छ्लक्ष्णं यच् च परुषं यद् वा तदुभयान्वितम् । सर्वम् एवैकरसतां विमर्दे याति ते वचः ॥ 70

अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् । यैर् इदं वाक्यरत्नानाम् ईदृशं भाजनं कृतम् ॥ 71

अस्माद् धि नेत्रसुभगाद् इदं श्रुतिमनोहरम् । मुखात् क्षरति ते वाक्यं चन्द्राद् द्रवम् इवामृतम् ॥ 72

रागरेणुं प्रशमयद् वाक्यं ते जलदायते । वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति ॥ 73

दिवाकरायते भूयो ऽप्य् अज्ञानतिमिरं नुदत् । शक्रायुधायते मानगिरीन् अभिविदारयत् ॥ 74

दृष्टार्थत्वाद् अवितथं निष्क्लेशत्वाद् अनाकुलम् । गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः ॥ 75

मनांसि तावच् छ्रोतॄणां हरन्त्य् आदौ वचांसि ते । ततो विमृश्यमानानि रजांसि च तमांसि च ॥ 76

आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् । संवेजनं च सुखिनां योगवाहि वचस् तव ॥ 77

विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् । तिमिरघ्नं च मन्दानां सार्वजन्यम् इदं वचः ॥ 78

अपकर्षति दृष्टिभ्यो निर्वाणम् उपकर्षति । दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति ॥ 79

सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः । अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव ॥ 80

यन् नादेशे न चाकाले नैवापात्रे प्रवर्तसे । वीर्यं सम्यग् इवारब्धं तेनामोघं वचस् तव ॥ 81

एकायनं सुखोपायं स्वनुबन्धि निरत्ययम् । आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् ॥ 82

एवम् एकान्तकान्तं ते दृष्टिरागेण बालिशाः । मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः ॥ 83

अन्वभुङ्क्था यद् अस्यार्थे जगतो व्यसनं बहु । तत् संस्मृत्य विरूपे ऽपि स्थेयं ते शासने भवेत् ॥ 84

प्राग् एव हितकर्तुश् च हितवक्तुश् च शासनम् । कथं न नाम कार्यं स्याद् आदीप्तशिरसापि ते ॥ 85

भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः । प्राप्यते त्वन्मतात् सर्वम् इदं भद्रचतुष्टयम् ॥ 86

त्रासनं सर्वतीर्थ्यानां नमुचेर् उपतापनम् । आश्वासनं नृदेवानां तवेदं वीर शासनम् ॥ 87

त्रैधातुकमहाभौमम् असङ्गम् अनवग्रहम् । शासनेन तवाक्रान्तम् अन्तकस्यापि शासनम् ॥ 88

त्वच्छासननयज्ञो हि तिष्ठेत् कल्पम् अपीच्छया । प्रयाति तत्र तु स्वैरी यत्र मृत्योर् अगोचरः ॥ 89

आगमस्यार्थचिन्ताया भावनोपासनस्य च । कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् ॥ 90

एवं कल्याणकलिलं तवेदम् ऋषिपुङ्गव । शासनं नाद्रियन्ते यत् किं वैशसतरं ततः ॥ 91

श्रवणं तर्पयति ते प्रसादयति दर्शनम् । वचनं ह्लादयति ते विमोचयति शासनम् ॥ 92

प्रसूतिर् हर्षयति ते वृद्धिर् नन्दयति प्रजाः । प्रवृत्तिर् अनुगृह्णाति निवृत्तिर् उपहन्ति च ॥ 93

कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् । अन्वेषणं मतिकरं परिज्ञानं विशोधनम् ॥ 94

श्रीकरं ते ऽभिगमनं सेवनम् धीकरं परम् । भजनं निर्भयकरं शंकरं पर्युपासनम् ॥ 95

शीलोपसंपदा शुद्धः प्रसन्नो ध्यानसंपदा । त्वं प्रज्ञासंपदाक्षोभ्यो ह्रदः पुण्यमयो महान् ॥ 96

रूपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् । धर्मो विचारणारत्नं गुणरत्नाकरो ह्य् असि ॥ 97

त्वम् ओघैर् उह्यमानानां द्वीपस् त्राणं क्षतात्मनाम् । शरणं भवभीरूणां मुमुक्षूणां परायणम् ॥ 98

सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसंपदा । सन्मित्रं हितकारित्वात् सर्वप्राणभृताम् असि ॥ 99

प्रियस् त्वम् उपकारित्वात् सुरतत्वान् मनोहरः । एकान्तकान्तः सौम्यत्वात् सर्वैर् बहुमतो गुणैः ॥ 100

हृद्यो ऽसि निरवद्यत्वाद् रम्यो वाग्रूपसौष्ठवात् । धन्यः सर्वार्थसिद्धत्वान् मङ्गल्यो गुणसंश्रयात् ॥ 101

स्थायिनां त्वं परिक्षेप्ता विनियन्तापहारिणाम् । समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् ॥ 102

नियोक्ता धुरि दान्तानां खटुङ्कानाम् उपेक्षकः । अतो ऽसि नरदम्यानां सत्सारथिर् अनुत्तरः ॥ 103

आपन्नेष्व् अनुकम्पा ते प्रस्वस्थेष्व् अर्थकामता । व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता ॥ 104

विरुद्धेष्व् अपि वात्सल्यं प्रवृत्तिः पतितेष्व् अपि । रौद्रेष्व् अपि कृपालुत्वं का नामेयं तवार्यता ॥ 105

गुरुत्वम् उपकारित्वान् मातापित्रोर् यदीष्यते । केदानीम् अस्तु गुरुता त्वय्य् अत्यन्तोपकारिणि ॥ 106

स्वकार्यनिरपेक्षाणां विरुद्धानाम् इवात्मनाम् । त्वं प्रपाततटस्थानां प्राकारत्वम् उपागतः ॥ 107

लोकद्वयोपकाराय लोकातिक्रमणाय च । तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस् त्वया ॥ 108

भिन्ना देवमनुष्याणाम् उपभोगेषु वृत्तयः । धर्मसंभोगसामान्यात् त्वय्य् असंभेदम् आगताः ॥ 109

उपपत्तिवयोवर्णदेशकालनिरत्ययम् । त्वया हि भगवन् धर्मसर्वातिथ्यम् इदम् कृतम् ॥ 110

अविस्मितान् विस्मितवत् स्पृहयन्तो गतस्पृहान् । उपासते प्राञ्जलयः श्रावकान् अपि ते सुराः ॥ 111

अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता । मानुष्यं यत्र देवानां स्पृहणीयत्वम् आगतम् ॥ 112

खेदः शमसुखज्यानिर् असज्जनसमागमः । द्वंद्वान्य् आकीर्णता चेति दोषान् गुणवद् उद्वहन् ॥ 113

जगद्धितार्थं घटसे यद् असङ्गेन चेतसा । का नामासौ भगवती बुद्धानां बुद्धधर्मता ॥ 114

कदन्नान्य् अपि भुक्तानि क्व चित् क्षुद् अधिवासिता । पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्व् अपि ॥ 115

प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् । नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया ॥ 116

प्रभुत्वम् अपि ते नाथ सदा नात्मनि विद्यते । वक्तव्य इव सर्वैर् हि स्वैरं स्वार्थे नियुज्यसे ॥ 117

येन केन चिद् एव त्वं यत्र तत्र यथा तथा । चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे ॥ 118

नोपकारपरे ऽप्य् एवम् उपकारपरो जनः । अपकारपरे ऽपि त्वम् उपकारपरो यथा ॥ 119

अहितावहिते शत्रौ त्वं हितावहितः सुहृत् । दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः ॥ 120

यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् । तत्राभूद् अभिसंयानं सदयं सामृतं च ते ॥ 121

आक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च । सत्येन चापवक्तारश् त्वया मैत्र्या जिघांसवः ॥ 122

अनादिकालप्रहता बह्व्यः प्रकृतयो नृणाम् । त्वया विभावितापायाः क्षणेन परिवर्तिताः ॥ 123

यत् सौरत्यं गतास् तीक्ष्णाः कदर्याश् च वदान्यताम् । क्रूराः पेशलतां यातास् तत् तवोपायकौशलम् ॥ 124

इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः । क्षमित्वं चाङ्गुलीमाले कं न विस्मयम् आनयेत् ॥ 125

बहवस् तृणशय्यासु हित्वा शय्यां हिरण्मयीम् । अशेरत सुखं धीरास् तृप्ता धर्मरसस्य ते ॥ 126

पृष्टेनापि क्व चिन् नोक्तम् उपेत्यापि कथा कृता । तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया ॥ 127

पूर्वं दानकथाद्याभिश् चेतस्य् उत्पाद्य सौष्ठवम् । ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः ॥ 128

न सो ऽस्त्य् उपायः शक्तिर् वा येन न व्यायतं तव । घोरात् संसारपातालाद् उद्धर्तुं कृपणं जगत् ॥ 129

बहूनि बहुरूपाणि वचांसि चरितानि च । विनेयाशयभेदेन तत्र तत्र गतानि ते ॥ 130

विशुद्धान्य् अविरुद्धानि पूजितान्य् अर्चितानि च । सर्वाण्य् एव नृदेवानां हितानि महितानि च ॥ 131

न हि वक्तुं च कर्तुं च बहु साधु च शक्यते । अन्यथानन्यथावादिन् दृष्टं तद् उभयं त्वयि ॥ 132

केवलात्मविशुद्ध्यैव त्वया पूतं जगद् भवेत् । यस्मान् नैवंविधं क्षेत्रं त्रिषु लोकेषे विद्यते ॥ 133

प्राग् एवात्यन्तनष्टानाम् अनादौ भवसंकटे । हिताय सर्वसत्त्वानां यस् त्वम् एवं समुद्यतः ॥ 134

न तां प्रतिपदं वेद्मि स्याद् ययापचितिस् तव । अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः ॥ 135

तव ते ऽवस्थिता धर्मे स्वार्थम् एव तु कुर्वते । यः श्रमस् तन्निमित्तं तु तव का तस्य निष्कृतिः ॥ 136

त्वं हि जागर्षि सुप्तानां संतानान्य् अवलोकयन् । अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः ॥ 137

क्लेशानां वध आख्यातो मारमाया विघाटिता । उक्तं संसारदौरात्म्यम् अभया दिग् विदर्शिता ॥ 138

किम् अन्यद् अर्थकामेन सत्त्वानां करुणायता । करणीयं भवेद् यत्र न दत्तानुनयो भवान् ॥ 139

यदि संचारिणो धर्माः स्युर् इमे नियतं त्वया । देवदत्तम् उपादाय सर्वत्र स्युर् निवेशिताः ॥ 140

अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः । इति त्वम् उक्तवान् भूतं जगत् संज्ञपयन्न् इव ॥ 141

चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया । बहून् उत्पाद्य सच्छिष्यांस् त्रैलोक्यानुग्रहक्षमान् ॥ 142

साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च । ऋणशेषं किम् अद्यापि सत्त्वेषु यद् अभूत् तव ॥ 143

यस् त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् । अतिदुष्करकारित्वम् अन्ते ऽपि न विमुक्तवान् ॥ 144

परार्थाव् एव मे धर्मरूपकायाव् इति त्वया । दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि विदर्शितम् ॥ 145

तथा हि सत्सु संक्राम्य धर्मकायम् अशेषतः । तिलशो रूपकायं च भित्त्वासि परिनिर्वृतः ॥ 146

अहो स्थितिर् अहो वृत्तम् अहो रूपम् अहो गुणाः । न नाम बुद्धधर्माणाम् अस्ति किं चिद् अनद्भुतम् ॥ 147

उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि । त्वय्य् अपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् ॥ 148

पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् । ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः ॥ 149

अक्षयास् ते गुणा नाथ शक्तिस् तु क्षयिणी मम । अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः ॥ 150

अप्रमेयम् असंख्येयम् अचिन्त्यम् अनिदर्शनम् । स्वयम् एवात्मनात्मानं त्वम् एव ज्ञातुम् अर्हसि ॥ 151

न ते गुणांशावयवो ऽपि कीर्तितः परा च नस् तुष्टिर् अवस्थिता हृदि । अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह ॥ 152

फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे । असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् ॥ 153

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.