Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

महाशीतवती विद्याराज्ञी

Thông tin
GRETIL — Yutaka Iwamoto: Kleinere Dhāraṇī Texte, Kyoto 1937 (Beiträge zur Indologie, 2), pp. 1-6.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

महाशीतवती विद्याराज्ञी

महाशीतवती

नमो भगवत्यै आर्यमहाशीतवत्यै /

एवं मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म / शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे तत्रायुष्मान् राहुलो ऽतीव विहेठ्यते / देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षग्रहैर् मरुतग्रहैर् असुरग्रहैर् किन्नरग्रहैर् गरुडग्रहैर् गन्धर्वग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैर् प्रेतग्रहैर् भूतग्रहैर् पिशाचग्रहैर् कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैर् अन्यैश् च मनुष्यामनुष्यैः सत्वैः / अथायुष्मान् राहुलो येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पुरतो रुदन्न् अश्रूणि प्रवर्तयति स्म /

अथ भगवान् जानन्न् एव राहुलम् आमन्त्रयते स्म / किं त्वं राहुल मम प्रतः स्थित्वा अश्रूणि प्रवर्तयसि / एवम् उक्ते आयुष्मान् राहुलो भगवन्तम् एतद् अवोचत् / इहाहं भगवन् राजगृहे विहरामि शीतवने महाश्मशाने इङ्घिकायतनप्रत्युद्देशे (म्श्_2) सो ऽहं भगवंस् तत्र विहेठ्ये / देवग्रहैर् नागग्रहैर् यक्षग्रहै राक्षसग्रहैर् मरुतग्रहैर् असुरग्रहैर् किन्नरग्रहैर् गरुडग्रहैर् गन्धर्वग्रहैर् महोरगग्रहैर् मनुष्यग्रहैर् अमनुष्यग्रहैर् प्रेतग्रहैर् भूतग्रहैर् पिशाचग्रहैर् कुम्भाण्डग्रहैर् द्वीपिभिः काकैर् उलूकैः कीटैः सरीसृपैर् अन्यैश् च मनुष्यामनुष्यैः सत्वैः //

अथ खलु भगवान् आयुष्मन्तं राहुलम् आमन्त्रयते स्म / उद्गृह्ण त्वं राहुल इमां महाशीतवती नाम धारणीं विद्यां / चतसृणां परिषदां रक्षावरणगुप्तये भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानां च सर्वसत्वानां च दीर्घरात्रम् अर्थाय हिताय सुखाय योगक्षेमाय भविष्यति //

तद्यथा / अङ्गा वङ्गा / कलिङ्ग / वरङ्गा संसारतरङ्गा सासदङ्गा / भगा असुरा / एकतरङ्गा असुरवीरा / तर वीरा / तर तर वीरा / कर वीरा / कर कर वीरा / इन्द्रा इन्द्रकिसरा / हंसा हंसकिसरा / पिचिमाला / महाकिच्चा / विहेठिका कालुच्छिका / अङ्गोदर जयालिका / वेला चिन्तालि / चिलि चिलि हिलि हिलि सुमति वसुमति / चुलु नट्टे / चुलु चुलु नट्टे / चुलु चुलु चुलु नट्टे / चुलु नाडि / (म्श्_3) कु नाडि / हारीटकि हारीटकि कारीटकि कारीटकि कारीटकि कारीटकि / गौरि गन्धारि / चण्डालि वेतालि / मातङ्गि / वर्चसि धरणि धाऋअणि / तरणि तारणि / उष्ट्रमालिके / कच काचिके / कच काचिवे / चल नाटिके / काकलिके / ललमति / लक्षमति / वराहकुले / मत्पले उत्पले / कर वीरे / कर कर वीरे / तर वीरे / तर तर वीरे / कुरु वीरे / कुरु कुरु वीरे / चुरु वीरे / चुरु चुरु वीरे / महावीरे / इरमति / वरमति / रक्षमति / सर्वार्थसाधनि / परमार्थसाधनि / अप्रतिहते / इन्द्रो राजा / यमो राजा / वरुणो राजा / कुबेरो राजा / मनस्वी राजा / वासुकी राजा / दण्डकी राजा / दण्डाग्नी राजा / धृतराष्ट्रो राजा / विरूढको राजा / विरूपाक्षो राजा / ब्रह्मा सहस्राधिपती राजा / बुद्धो भगवान् धर्मस्वामी राजा / अनुत्तरो लोकानुकंपकः / मम सर्वसत्वानां च रक्षां करोतु / गुप्तिं परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं च कुर्वन्तु जीवन्तु वर्षशतं पश्यन्तु शरदां शतं //

तद्यथा / इला मिला उत्पला / इरमति विरमति / हलमति / तलमति क्षलमति / लक्षमति / रक्षमति / कुरु कुरु मति / हुरु हुरु फुरु फुरु चर (म्श्_4) चर खर खर खुरु खुरु मति मति भूमिचण्डे / कालिके / अभिसंलापिते / सामलते / हूले स्थूले / स्थूलशिखरे / जय स्थूले / जयवते / वल नट्टे / चर नाडि चुलु नाडि चुलु नाडि वाग्बन्धनि / विरोहणि / सालोहिते / अण्डरे पण्डरे / कराले / किन्नरे / केयूरे केतुमति / भूतंगमे भूतमति / धन्ये मङ्गल्ये / हिरण्यगर्भे / महाबले / अवलोकितमूले / अचलचण्डे / धुरन्धरे जयालिके जयागोरोहिणि / चुरु चुरु फुरु फुरु रुन्ध रुन्ध धरे धरे विधरे विधरे विष्कम्भनि / नाशनि विनाशनि / बन्धनि / मोक्षणि विमोक्षनि / मोचनि विमोचनि / मोहनि विमोहनि / भावनि विभावनि / शोधनि शोधनि संशोधनि विशोधनि / संखिरणि / संकिरणि / संच्छिन्दनि / साधु तुरमाणे / हर हर बन्धुमति / हिरि हिरि खिरि खिरि खरलि / हुरु हुरु खुरु खुरु पिङ्गले नमो ऽस्तु बुद्धानां भगवतां स्वाहा //

अस्यां खलु पुना राहुल महाशीतवतीविद्यायां दशोत्तरपदशतायां सूत्रे ग्रन्थिं बद्ध्वा हस्तेन धार्यमानायां कण्ठेन धार्यमानायां समन्ताद् योजनशतस्य रक्षाकृता भविष्यति (म्श्_5) / गन्धैर् वा पुष्पैर् वा मुद्राभिर् वा नैव मनुष्यो वामनुष्यो वाभिभविष्यति / न शस्त्रं न विषं न रोगो न ज्वरो न प्रज्वरो न विद्यामन्त्रो न वेताडः / न व्याधिना नाग्निना न विषोदकेन कालं करिष्यति / विद्यामन्त्रप्रयोगानां च सर्वेषां साधुप्रयुक्तानां चासिद्धानां सिद्धकरी / सिद्धानां च संक्षोभणी / परप्रयुक्तानां च बन्धनी / परबन्धनानां च प्रमोचनी / सर्वरोगशोकविघ्नविनायकानां विनाशनकरी / कलिकलहकलुषप्रशमनकरी / यो ग्रहो न मुञ्चेत् सप्तधास्य स्फुटेन् मूर्धा अर्जकस्येव मञ्जरी / वज्रपाणिश् चास्य महायक्षसेनापतिर् वज्रेणादीप्तेन प्रज्वालितेन एकज्वालीभूतेन तावद् व्यायच्छेद् यावन् मूर्धानं स्फोटयेत् / चत्वारश् च महाराजानो ऽयोमयेन चक्रेण मूर्धानं स्फोटयेयुः / क्षुरधाराप्रहारेण विनाशयेयुस् तस्माच् च यक्षलोकाच्यवनं भवेयुः / अडकवत्यां राजधान्यां न लभते वासम् //

अथ खलु पुना राहुल महाशीतवतीमहाविद्यायां सकृत्परिवर्तितायां राजचौरोदकाग्निविषशस्त्राटवीकान्तारमध्यगतः सर्वभयेभ्यः परिमुच्यते / इयं खलु पुनर् महाशीतवती विद्या (म्श्_6) एकनवत्यां गङ्गानदीवालुकासमैर् बुद्धैर् भगवद्भिर् भाषिता भाषिष्यते भाष्यते च सिद्धा परमसिद्धा सिद्धपराक्रमा / सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादिभिर् वन्दित्वा सर्वजिनगणपरिवृता / सर्वभयोपद्रवेषु मम सर्वसत्वानां च रक्षां कुरु / शिवम् आरोग्यम् अभयं च सर्वदा सर्वथा सर्वतः सर्वावस्थासु भवन्तु //

इदम् अवोचत् भगवान् आत्तमना आयुष्मान् राहुलः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतः सम्यक्संबुद्धभाषितम् अभ्यनन्दन्न् इति //

आर्यमहाशीतवती नाम विद्याराज्ञी समाप्ता //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.