Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

मञ्जुश्रीनामसंगीति (bản khác)

Thông tin
GRETIL — Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मञ्जुश्रीनामसंगीति

मञ्जुश्रीज्ञानसत्वस्य परमार्था नामसंगीतिः

नमो मञ्जुश्रीकुमारभूताय

अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः // Mns_1

विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर् मुहुः // Mns_2

भृकुटीतरङ्गप्रमुखैर् अनन्तैर् वज्रपाणिभिः दुर्दान्तदमकैर् वीरैर् वीरबीभत्सरूपिभिः // Mns_3

उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः // Mns_4

हृष्टतुष्टाशयैर् मुदितैः क्रोधविग्रहरूपिभिः बुद्धकृत्यकरैर् नाथैः सार्धं प्रणतविग्रहैः // Mns_5

प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् कृताञ्जलिपुटो भूत्वा इदम् आह स्थितो ऽग्रतः // Mns_6

मद्धिताय ममार्थाय अनुकम्पाय मे विभो मायाजालाभिसंबोधेर् यथा लाभी भवाम्य् अहं // Mns_7

अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसां हिताय सर्वसत्वानाम् अनुत्तरफलाप्तये // Mns_8

प्रकाशयतु संबुद्धो भगवां शास्ता जगद्गुरुः महासमयतत्वज्ञ इन्द्रियाशयवित् परः // Mns_9

भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेः मञ्जुश्रीज्ञानसत्वस्य ज्ञानमूर्तेः स्वयंभुवः // Mns_10

गम्भीरार्थाम् उदारार्थां महार्थाम् असमां शिवां आदिमध्यान्तकल्याणीं नामसंगीतिम् उत्तमां // Mns_11

यातीतैर् भाषिता बुद्धैर् भाषिष्यन्ते ह्य् अनागताः प्रत्युत्पन्नाश् च संबुद्धा यां भाषन्ते पुनः पुनः // Mns_12

मायाजालमहातन्त्रे या चास्मिं संप्रगीयते महावज्रधरैर् हृष्टैर् अमेयैर् मन्त्रधारिभिः // Mns_13

अहं चैनां धारयिष्याम्य् आ निर्याणाद् दृढाशयः यथा भवाम्य् अहं नाथ सर्वसंबुद्धगुह्यधृक् // Mns_14

प्रकाशयिष्ये सत्वानां यथाशयविशेषतः अशेषक्लेशनाशाय अशेषाज्ञानहानये // Mns_15

एवम् अध्येष्य गुह्येन्द्रो वज्रपाणिस् तथागतं कृताञ्जलिपुटो भूत्वा प्रह्वकायस्थितो ऽग्रतः // Mns_16

अध्येषणागाथाः षोडश

अथ शाक्यमुनिर् भगवां संबुद्धो द्विपदोत्तमः निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच् छुभां // Mns_17

स्मितं संदर्श्य लोकानाम् अपायत्रयशोधनं त्रैलोक्याभासकरणं चतुर्मारारिशासनं // Mns_18

त्रिलोकम् आपूरयन्त्या ब्राह्म्या मधुरया गिरा प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलं // Mns_19

साधु वज्रधरः श्रीमां साधु ते वज्रपाणये यस् त्वं जगद्धितार्थाय महाकरुणयान्वितः // Mns_20

महार्थां नामसंगीतिं पवित्राम् अघनाशनीं मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः // Mns_21

तत् साधु देशयाम्य् एष अहं ते गुह्यकाधिपः शृणु त्वम् एकाग्रमनास् तत् साधु भगवन्न् इति // Mns_22

प्रतिवचनगाथाः षट्

अथ शाक्यमुनिर् भगवां सवकलं मन्त्रकुलं महत् मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयं // Mns_23

लोकलोकोत्तरकुलं लोकालोककुलं महत् महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् // Mns_24

षट्कुलावलोकनगाथे द्वे

इमां षड्मन्त्रराजानं संयुक्ताम् अद्वयोदयां अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः // Mns_25

अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि ज्ञानमूर्तिर् अहं बुद्धो बुद्धानां त्र्यध्ववर्तिनां // Mns_26

ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये । ज्ञानकायवागीश्वरअरपचनाये ते नमः ॥ Mns_27

मायाजालाभिसंबोधिक्रमगाथास् तिस्रः ॥

तद्यथा भगवां बुद्धः संबुद्धो ऽकारसंभवः अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः // Mns_28

महाप्राणो ह्य् अनुत्पादो वागुदाहारवर्जितः सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः // Mns_29

महामहमहारागः सर्वसत्वरतिंकरः महामहमहाद्वेषः सर्वक्लेशमहारिपुः // Mns_30

महामहमहामोहो मूढधीमोहसूदनः महामहमहाक्रोधो महाक्रोधरिपुर् महान् // Mns_31

महामहमहालोभः सर्वलोभनिसूदनः महाकामो महासौख्यो महामोदो महारतिः // Mns_32

महारूपो महाकायो महावर्णो महावपुः महानाम महोदारो महाविपुलमण्डलः // Mns_33

महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः महायशा महाकीर्तिर् महाज्योतिर् महाद्युतिः // Mns_34

महामायाधरो विद्वान् महामायार्थसाधकः महामायारतिरतो महामायेन्द्रजालिकः // Mns_35

महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः महाक्षान्तिधरो धीरो महावीर्यपराक्रमः // Mns_36

महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् महाबलो महोपायः प्रणिधिज्ञानसागरः // Mns_37

महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः महाप्रज्ञो महाधीमां महोपायो महाकृतिः // Mns_38

महाऋद्धिबलोपेतो महावेगो महाजवः महर्द्धिको महेशाख्यो महाबलपराक्रमः // Mns_39

महाभवाद्रिसंभेत्ता महावज्रधरो घनः महाक्रूरो महारौद्रो महाभयभयंकरः // Mns_40

महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः महायाननयारूढो महायाननयोत्तमः // Mns_41

वज्रधातुमहामण्डलगाथाश् चतुर्दश ॥

महावैरोचनो बुद्धो महामौनी महामुनिः महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः // Mns_42

दशपारमिताप्राप्तो दशपारमिताश्रयः दशपारमिताशुद्धिर् दशपारमितानयः // Mns_43

दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् // Mns_44

दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः अशेषविश्वार्थकरो दशाकारवशी महान् // Mns_45

अनाधिर् निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः भूतवादी यथावादी तथाकारी अनन्यवाक् // Mns_46

अद्वयो ऽद्वयवादी च भूतकोटिव्यवस्थितः नैरात्म्यसिंहनिर्नाद कुतीर्थ्यमृगभीकरः // Mns_47

सर्वत्रगो ऽमोघगतिस् तथागतमनोजवः जिनो जितारिर् विजयी चक्रवर्ती महाबलः // Mns_48

गणमुख्यो गणाचार्यो गणेशो गणपतिर् वशी महानुभावो धौरेयो ऽनन्यनेयो महानयः // Mns_49

वागीशो वाक्पतिर् वाग्मी वाचस्पतिर् अनन्तगीः सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः // Mns_50

अवैवर्तिको ह्य् अनागामी खड्गः प्रत्येकनायकः नानानिर्याणनिर्यातो महाभूतैककारणः // Mns_51

अर्हन् क्षीणास्रवो भिक्षुर् वीतरागो जितेन्द्रियः क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्य् अनाविलः // Mns_52

विद्याचरणसंपन्नः सुगतो लोकवित् परः निर्ममो निरहंकारः सत्यद्वयनये स्थितः // Mns_53

संसारपारकोटिस्थः कृतकृत्यः स्थले स्थितः कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः // Mns_54

सद्धर्मो धर्मराड् भास्वां लोकालोककरः परः धर्मेश्वरो धर्मराजा श्रेयोमार्गोपदेशकः // Mns_55

सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः निर्विकल्पो ऽक्षयो धातुर् धर्मधातुः परो ऽव्ययः // Mns_56

पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः // Mns_57

शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियां पतिः प्रत्यात्मवेद्यो ह्य् अचलः परमाद्यस् त्रिकायधृक् // Mns_58

पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः पञ्चबुद्धात्ममकुटः पञ्चचक्षुर् असङ्गधृक् // Mns_59

जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः प्रज्ञाभवोद्भवो ऽयोनिर् धर्मयोनिर् भवान्तकृत् // Mns_60

घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः गगनोद्भवः स्वयंभूः प्रज्ञाज्ञानानलो महान् // Mns_61

वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः // Mns_62

विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजा महार्थकृत् महोष्णीषो ऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः // Mns_63

सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः // Mns_64

कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् रत्नत्रयधरः श्रेष्ठस् त्रियानोत्तमदेशकः // Mns_65

अमोघपाशो विजयी वज्रपाशो महाग्रहः वज्राङ्कुशो महापाशो वज्रभैरवभीकरः // Mns_66

सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः ॥

क्रोधराट् षण्मुखो भीमः षड्नेत्रः षड्भुजो बली दंष्ट्राकरालकङ्कालो हलाहलशताननः // Mns_67

यमान्तको विघ्नराड् वज्रवेगो भयंकरः विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः // Mns_68

कुलिशेशो वज्रयोनिर् वज्रमण्डो नभोपमः अचलैकजटाटोपो गजचर्मपटार्द्रधृक् // Mns_69

हाहाकारो महाघोरो हीहीकारो भयानकः अट्टहासो महाहासो वज्रहासो महारवः // Mns_70

वज्रसत्वो महासत्वो वज्रराजो महासुखः वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः // Mns_71

वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः विश्ववज्रधरो वज्री एकवज्री रणंजहः // Mns_72

वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः वज्रावेशो महावेशः शताक्षो वज्रलोचनः // Mns_73

वज्ररोमाङ्कुरतनुर् वज्ररोमैकविग्रहः वज्रकोटिनखारम्भो वज्रसारघनच्छविः // Mns_74

वज्रमालाधरः श्रीमां वज्राभरणभूषितः हाहाट्टहास निर्घोषो वज्रघोषः षडक्षरः // Mns_75

मञ्जुघोषो महानादस् त्रैलोक्यैकवरो महान् आकाशधातुपर्यन्तो घोषो घोषवतां वरः // Mns_76

आदर्शज्ञानगाथाः पादोनसार्धदश ॥

तथाताभूतनैरात्म्यं भूतकोटिर् अनक्षरः शून्यतावादिवृषभो गम्भीरोदारगर्जनः // Mns_77

धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः // Mns_78

अरूपो रूपवान् अग्र्यो नानारूपो मनोमयः सर्वरूपावभासश्रीर् अशेषप्रतिबिम्बधृक् // Mns_79

अप्रधृष्यो महेशाख्यस् त्रैधातुकमहेश्वरः समुच्छ्रितार्यमार्गस्थो धर्मकेतुर् महोदयः // Mns_80

त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः द्वात्रिंशल्लक्षणधरः कान्तस् त्रैलोक्यसुन्दरः // Mns_81

लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः नाथस् त्राता त्रिलोकाप्तः शरणं तायी निरुत्तरः // Mns_82

गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः // Mns_83

शमिताशेषसंक्लेशः संसारार्णवपारगः ज्ञानाभिषेकमकुटः सम्यक्संबुद्धभूषणः // Mns_84

त्रिदुःखदुःखशमनस् त्र्यन्तो ऽनन्तस् त्रिमुक्तिगः सर्वावरणनिर्मुक्त आकाशसमतांगतः // Mns_85

सर्वक्लेशमलातीतस् त्र्यध्वानध्वगतिंगतः सर्वसत्वमहानागो गुणशेखरशेखरः // Mns_86

सर्वोपधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः // Mns_87

महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः सर्वसत्वार्थकृत् कर्ता हितैषी सत्ववत्सलः // Mns_88

शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः सत्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः // Mns_89

गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः सर्वमङ्गलमाङ्गल्यः कीर्तिर् लक्ष्मीर् यशः शुभः // Mns_90

महोत्सवो महाश्वासो महानन्दो महारतिः सत्कारः सत्कृतिर् भूतिः प्रमोदः श्रीर् यशस्पतिः // Mns_91

वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः महाभयारिः प्रवरो निःशेषभयनाशनः // Mns_92

शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः // Mns_93

महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः महातपास् तपोनिष्ठः स्नातको गौतमो ऽग्रणीः // Mns_94

ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणम् आप्तवान् मुक्तिर् मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः // Mns_95

निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणम् अन्तकः सुखदुःखान्तकृन् निष्ठा वैराग्यम् उपधिक्षयः // Mns_96

अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः निष्कलः सर्वगो व्यापी सूक्ष्मो बीजम् अनास्रवः // Mns_97

अरजो विरजो विमलो वान्तदोषो निरामयः सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित् परः // Mns_98

विज्ञानधर्मतातीतो ज्ञानम् अद्वयरूपधृक् निर्विकल्पो निराभोगस् त्र्यध्वसंबुद्धकार्यकृत् // Mns_99

अनादिनिधनो बुद्ध आदिबुद्धो निरन्य्वयः ज्ञानैकचक्षुर् अमलो ज्ञानमूर्तिस् तथागतः // Mns_100

वागीश्वरो महावादी वादिराड् वादिपुंगवः वदतां वरो वरिष्ठो वादिसिंहो ऽपराजितः // Mns_101

समन्तदर्शी प्रामोद्यस् तेजोमाली सुदर्शनः श्रीवत्सः सुप्रभो दीप्तिर् भा भासुरकरद्युतिः // Mns_102

महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः अशेषभैषज्यतरुः क्लेशव्याधिमहारिपुः // Mns_103

त्रैलोक्यतिलकः कान्तः श्रीमां नक्षत्रमण्डलः दशदिग्व्योमपर्यन्तो धर्मध्वजमहोच्छ्रयः // Mns_104

जगच्छत्रैकविपुलो मैत्रीकरुणामण्डलः पद्मनर्तेश्वरः श्रीमां रत्नच्छत्रो महाविभुः // Mns_105

सर्वबुद्धमहाराजा सर्वबुद्धात्मभावधृक् सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः // Mns_106

वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः // Mns_107

सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः सर्वबुद्धमहाकायः सर्वबुद्धसरस्वतिः // Mns_108

वज्रसूर्यो महालोको वज्रेन्द्रुविमलप्रभः विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः // Mns_109

संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक् बुद्धपद्मोद्भवः श्रीमां सर्वज्ञज्ञानकोशधृक् // Mns_110

विश्वमायाधरो राजा बुद्धविद्याधरो महान् वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः // Mns_111

दुःखच्छेदमहायानो वज्रधर्ममहायुधः जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर् यथार्थवित् // Mns_112

सर्वपारमितापूरी सर्वभूमिविभूषणः विशुद्धधर्मनैरात्म्यं सम्यग्ज्ञानेन्दुहृत्प्रभः // Mns_113

मायाजालमहोद्योगः सर्वतन्त्राधिपः परः अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् // Mns_114

समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् // Mns_115

सर्वभावस्वभावाग्र्यः सर्वभावस्वभावधृक् अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् // Mns_116

एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् सर्वधर्माभिसमयो भूतान्तमुनिर् अग्रधीः // Mns_117

स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः // Mns_118

प्रत्यवेक्षणाज्ञानगाथा द्वाचत्वारिंशत्

इष्टार्थसाधकः परः सर्वापायविशोधकः सर्वसत्वोत्तमो नाथः सर्वसत्वप्रमोचकः // Mns_119

क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् // Mns_120

बाहुदण्डशताक्षेपः पदनिक्षेपनर्तनः श्रीमच्छतभुजाभोगो गगनाभोगनर्तनः // Mns_121

एकपादतलाक्रान्तमहीमण्डतले स्थितः ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः // Mns_122

एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः नानाविज्ञप्तिरूपार्थश् चित्तविज्ञानसन्तति // Mns_123

अशेषभावार्थरतिः शून्यतारतिर् अग्रधीः भवरागाद्यतीतश् च भवत्रयमहारतिः // Mns_124

शुद्धशुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः बालार्कमण्डलच्छायो महारागनखप्रभः // Mns_125

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् महामणिमयूखश्रीर् बुद्धनिर्माणभूषणः // Mns_126

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः महास्मृतिधरस् तत्त्वश् चतुःस्मृतिसमाधिराट् // Mns_127

बोध्यंगकुसुमामोदस् तथागतगुणोदधिः अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् // Mns_128

सर्वसत्वमहासङ्गो निःसङ्गो गगनोपमः सर्वसत्वमनोजातः सर्वसत्वमनोजवः // Mns_129

सर्वसत्वेन्द्रियार्थज्ञः सर्वसत्वमनोहरः पञ्चस्कन्धार्थतत्वज्ञः पञ्चस्कन्धविशुद्धधृक् // Mns_130

सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः // Mns_131

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् // Mns_132

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् विंशत्याकारसंबोधिर् विबुद्धः सर्ववित् परः // Mns_133

अमेयबुद्धनिर्माणकायकोटिविभावकः सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् // Mns_134

नानायाननयोपायजगदर्थविभावकः यानत्रितयनिर्यात एकयानफले स्थितः // Mns_135

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः // Mns_136

क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् // Mns_137

सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधधृक् सर्वसत्वमनोविषयः सर्वसत्वमनोगतिः // Mns_138

सर्वसत्वमनो ऽन्तस्थस् तच्चित्तसमतांगतः सर्वसत्वमनोह्लादी सर्वसत्वमनोरतिः // Mns_139

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः निःसन्दिग्धमतिस् त्र्यर्थः सर्वार्थस् त्रिगुणात्मकः // Mns_140

पञ्चस्कन्धार्थस् त्रिष्कालः सर्वक्षणविभावकः एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् // Mns_141

अनङ्गकायः कायाग्र्यः कायकोटिविभावकः अशेषरूपसंदर्शी रत्नकेतुर् महामणिः // Mns_142

समताज्ञानगाथाश् चतुर्विंशतिः

सर्वसंबुद्धबोद्धव्यो बुद्धबोधिर् अनुत्तरः अनक्षरो मन्त्रयोनिर् महामन्त्रकुलत्रयः // Mns_143

सर्वमन्त्रार्थजनको महाबिन्दुर् अनक्षरः पञ्चाक्षरो महाशून्यो बिन्दुशून्यः शताक्षरः // Mns_144

सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् अकलः कलनातीतश् चतुर्थध्यानकोटिधृक् // Mns_145

सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् समाधिकायो कायाग्र्यः सर्वसंभोगकायराट् // Mns_146

निर्माणकायो कायाग्र्यो बुद्धनिर्माणवंशधृक् दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् // Mns_147

देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः // Mns_148

उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः प्रख्यातो दशदिग्लोकधर्मदानपतिर् महान् // Mns_149

मैत्रीसंनाहसंनद्धः करुणावर्मवर्मितः प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः // Mns_150

मारारिर् मारजिद् वीरश् चतुर्मारभयान्तकृत् सर्वमारचमूजेता संबुद्धो लोकनायकः // Mns_151

वन्द्यः पूज्यो ऽभिवाद्यश् च माननीयश् च नित्यशः अर्चनीयतमो मान्यो नमस्यः परमो गुरुः // Mns_152

त्रैलोक्यैकक्रमगतिर् व्योमपर्यन्तविक्रमः त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्म्र्तिः // Mns_153

बोधिसत्वो महासत्वो लोकातीतो महर्द्धिकः प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वम् आगतः // Mns_154

आत्मवित् परवित् सर्वः सर्वीयो ह्य् अग्रपुद्गलः सर्वोपमाम् अतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः // Mns_155

धर्मदानपतिः श्रेष्ठश् चतुर्मुद्रार्थदेशकः पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् // Mns_156

परमार्थविशुद्धश्रीश् त्रैलोक्यसुभगो महान् सर्वसंपत्करः श्रीमान् मञ्जुश्रीः श्रीमतां वरः // Mns_157

कृत्यानुष्ठानज्ञानगाथाः पञ्चदश

नमस् ते वरद वज्राग्र्य भूतकोटि नमो ऽस्तु ते नमस् ते शून्यतागर्भ बुद्धबोधि नमो ऽस्तु ते // Mns_158

बुद्धराग नमस् ते ऽस्तु बुद्धकाम नमो नमः बुद्धप्रीति नमस् तुभ्यं बुद्धमोद नमो नमः // Mns_159

बुद्धस्मित नमस् तुभ्यं बुद्धहास नमो नमः बुद्धवाच नमस् ते ऽस्तु बुद्धभाव नमो नमः // Mns_160

अभवोद्भव नमस् ते ःस्तु नमस् ते बुद्धसंभव गगनोद्भव नमस् तुभ्यं नमस् ते ज्ञानसंभव // Mns_161

मायाजाल नमस् तुभ्यं नमस् ते बुद्धनाटक नमस् ते सर्व सर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते // Mns_162

इति पञ्चतथागतज्ञानस्तुतिगाथाः पञ्च ।

इयम् असौ वज्रपाणे वज्रधर भगवतो ज्ञानमूर्तेः सर्वतथागतज्ञानकायस्य मञ्जुश्रीज्ञानसत्वस्यावेणिकपरिशुद्धा नामसंगीतिः । तवानुत्तरप्रीतिप्रसादमहौद्बिल्यसंजननार्थं कायवाङ्मनोगुह्यपरिशुद्ध्यै । अपरिपूर्णापरिशुद्धभूमिपारमितापुण्यज्ञानसंभारपरिपूरिपरिशुद्ध्यै । अनधिगतानुत्तरार्थस्याधिगमाय । अप्राप्तस्य प्राप्त्यै । यावत् सर्वतथागतसद्धर्मनेत्रीसंधारणार्थं च मया देशिता संप्रकाशिता च विवृत्ता विभजितोत्तानीकृता अधिष्ठिता चेयं मया वज्रपाणे वज्रधर तव संताने सर्वमन्त्रधर्मताधिष्ठानेनेति ॥ पुनर् अपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सुविशुद्धपर्यवदातसर्वज्ञज्ञानकायवाङ्मनोगुह्यभूता । सर्वतथागतानां बुद्धबोधिः । सम्यक्संबुद्धानाम् अभिस्मयः । सर्वतथागतानाम् अनुत्तरः । धर्मधातुगतिः सर्वसुगतानां । सर्वमारबलपराजयो जिनानां । दशबलबलिता सर्वदशबलानां । सर्वज्ञता सर्वज्ञस्य ज्ञानानां । आगमः सर्वबुद्धधर्माणां । समुदागमः सर्वबुद्धानां । विमलसुपरिशुद्धपुण्यज्ञानसंभारपरिपूरिः सर्वमहाबोधिसत्वानां । प्रसूतिः सर्वश्रावकप्रत्येकबुद्धानां । क्षेत्रं सर्वदेवमनुष्यसंपत्तेः । प्रतिष्ठा महायानस्य । संभवो बोधिसत्वचर्यायाः । निष्ठा सम्यगार्यमार्गस्य । निकषो विमुक्तीनां । उत्पत्तिर् निर्याणमार्गस्य । अनुच्छेदस् तथागतवंशस्य । प्रवृद्धिर् महाबोधिसत्वकुलगोत्रस्य । निग्रहः सर्वपरप्रवादिनां । विध्वंसनं सर्वतीर्थिकानां । पराजयश् चतुर्मारबलचमूसेनानां । संग्रहः सर्वसत्वानां । आर्यमार्गपरिपाकः सर्वनिर्याणयायिनां । समाधिश् चतुर्ब्रह्मविहारविहारिणां ।

ध्यानम् एकाग्रचित्तानां । योगः कायवाङ्मनो ऽभियुक्तानां । विसंयोगः सर्वसंयोजनानां । प्रहाणं सर्वक्लेशोपक्लेशानां । उपशमः सर्वावरणानां । विमुक्तिः सर्वबन्धनानां । मोक्षः सर्वोपधीनां । शान्तिः सर्वचित्तोपप्लवानां । आकरः सर्वसंपत्तीनां । परिहाणिः सर्वविपत्तीनां । पिथनं सर्वापायद्वाराणां । सत्पथो विमुक्तिपुरस्य । अप्रवृत्तिः संसारचक्रस्य । प्रवर्तनं धर्मचक्रस्य । उच्छ्रितच्छत्रध्वजपताकास् तथागतशासनस्य । अधिष्ठानं सर्वधर्मदेशनायाः । क्षिप्रसिद्धिर् मन्त्रमुखचर्याचारिणां बोधिसत्वानाम् । भावनाधिगमः प्रज्ञापारमिताभियुक्तानां । शून्यताप्रतिवेधः अद्वयप्रतिवेधभावनाभियुक्तानां । निष्पत्तिः सर्वपारमितासंभारस्य । परिशुद्धिः सर्वभूमिपारमितापरिपूर्यै । प्रतिवेधः सम्यक्चतुरार्यसत्यानां । सर्वधर्मैकचित्तप्रतिवेधश् चतुःस्मृत्युपस्थानानां । यावत् परिसमाप्तिः सर्वबुद्धगुणानाम् इयं नामसंगीतिः ॥

द्वितीयचक्रस्येयम् अनुशंसा तत्पदानि द्वापञ्चाशत् ॥

पुनर् अपरं वज्रपाणे वज्रधर इयं नामसंगीतिः सर्वसत्वानां अशेषकायवाङ्मनःसमुदाचारपापप्रशमनी । सर्वसत्वानां सर्वापायानां विशोधनी । सर्वदुर्गतिनिवारणी । सर्वकर्मावरणानां समुच्छेदनी । सर्वाष्टाक्षणसमुत्पादस्यानुत्पादकरी । अष्टमहाभयव्युपशमनकरी । सर्वदुःस्वप्ननिर्नाशनी । सर्वदुर्निमित्तव्यपोहनकरी । सर्वदुःशकुनविघ्नव्युपशमनकरी । सर्वमारारिकर्मदूरीकरणी । सर्वकुशलमूलपुण्यस्योपचयकरी । सर्वायोनिशोमनस्कारस्यानुत्पादनकरी । सर्वमदमानदर्पाहंकारनिर्घातनकरी । सर्वदुःखदौर्मनस्यानुत्पादनकरी । सर्वतथागतानां हृदयभूता । सर्वबोधिसत्वानां गुह्यभूता । सर्वश्रावकप्रत्येकबुद्धानां रहस्यभूता । सर्वमुद्रामन्त्रभूता । सर्वधर्मानभिलाप्यवादिनां स्मृतिसंप्रजन्यसंजननी । अनुत्तरप्रज्ञामेधाकरी । आरोग्यबलैश्वर्यसंपत्करी । श्रीशुभशान्तिकल्याणप्रवर्धनकरी । यशःश्लोककीर्तिस्तुतिसंप्रकाशनकरी । सर्वव्याधिमहाभयप्रशमनकरी । पूततरा पूततराणां । पवित्रतरा पवित्रतराणां । धन्यतमा धन्यतमानां । माङ्गल्यतमा सर्वमाङ्गल्यतमानां । शरणं शरणार्थिनां । लयनं लयनार्थिनां । त्राणं त्राणार्थिनां । परायणम् अपरायणानां । द्वीपभूता द्वीपार्थिनां । अगतिकानाम् अनुत्तरगतिकभूता । यानपात्रभूता भवसमुद्रपारगामिनां । महाभैषज्यराजभूता सर्वव्याधिनिर्घातनाय । प्रज्ञाभूता हेयोपादेयभावविभावनायै । ज्ञानालोकभूता सर्वतमोन्धकारकुदृष्ट्यपनयनाय । चिन्तामणिभूता सर्वसत्वयथाशयाभिप्रायपरिपूरणाय । सर्वज्ञज्ञानभूता मञ्जुश्रीज्ञानकायप्रतिलम्भाय । परिशुद्धज्ञानदर्शनभूता पञ्चचक्षुःप्रतिलम्भाय । षट्पारमितापरिपूरिभूता आमिषाभयधर्मदानोत्सर्जनतया । दशभूमिप्रतिलम्भभूता पुण्यज्ञानसंभारसमाधिपरिपूरणतया । अद्वयधर्मता द्वयधर्मविगतत्वात् । तथतारूपतानन्यधर्मताध्यारोपविगतत्वात् । भूतकोटिरूपता परिशुद्धतथागतज्ञानकायस्वभावतया । सर्वाकारमहाशून्यतारूपता अशेषकुदृष्टिगहनगतिनिर्घातनतया । सर्वधर्मानभिलाप्यरूपेयं नामसंगीतिर् यदुताद्वयधर्मतार्थं नामसंधारणप्रकाशनतयेति ॥

तृतीयचक्रस्येयम् अनुशंसा तत्पदानि द्वापञ्चाशत् ॥

पुनर् अपरं वज्रपाणे वज्रधर यः कश्चित् कुलपुत्रो वा कुलदुहिता वा मन्त्रमुखचर्याचारी इमां भगवतो मञ्जुश्रीज्ञानसत्वस्य सर्वतथागतज्ञानकायस्य ज्ञानमूर्तेर् अद्वयपरमार्थां नामसंगीतिं नामचूडामणिं सकलपरिसमाप्तम् अन्यूनाम् अखण्डाम् एभिर् एव गाथापदव्यञ्जनैः प्रत्यहम् अखण्डं त्रिष्कालं धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति । परेभ्यश् च विस्तरेण यथासमयं यथायोग्यतो यावत् संप्रकाशयिष्यति प्रत्येकं चान्यतमान्यतमनामार्थं । मञ्जुश्रीज्ञानकायम् आलम्बनीकृत्य एकाग्रमानसो भावयिष्यति । अधिमुक्तितत्वमनस्काराभ्यां समन्तमुखविहारविहारी सर्वधर्मप्रतिवेधिकया परमया अनाविलया प्रज्ञानुविद्धया श्रद्धया समन्वागतः संस्तस्य त्र्यध्वानध्वसमङ्गिनः सर्वबुद्धबोधिसत्वाः समागम्य संगम्य सर्वधर्ममुखान्य् उपदर्शयिष्यन्ति । आत्मभावं चोपदर्शयिष्यति । दुर्दान्तदमकाश् च महाक्रोधराजानो महावज्रधरादयो जगत्परित्राणभूता नानानिर्माणरूपकायैर् ओजोबलं तेजो ऽप्रधृष्यतां सर्वमुद्रामन्त्राभिसमयमण्डलान्य् उपदर्शयिष्यन्ति । अशेषाश् च मन्त्रविद्याराज्ञ्यः सर्वविघ्नविनायकमारारिमहाप्रत्यङ्गिरामहापराजिताः सरात्रिंदिवं प्रतिक्षणं सर्वेर्यापथेषु रक्षावरणगुप्तिं करिष्यन्ति । सर्वबुद्धबोधिसत्वाधिष्ठानं करिष्यन्ति । सर्वकायवाङ्मनोभिस् तस्य संताने सम्यग् अधिष्ठास्यन्ति । सर्वबुद्धबोधिसत्वानुग्रहेण चानुग्रहीष्यन्ति । सर्वधर्मवैशारद्यप्रतिभानं चोपसंहरिष्यन्ति । सर्वार्हच्छ्रावकप्रत्येकबुद्धार्यधर्मप्रेमाशयतया आत्मभावं चोपदर्शयिष्यन्ति । ये च

ब्रह्मेन्द्रोपेन्द्ररुद्रनारायणसनत्कुमारमहेश्वरकार्तिकेयमहाकालनन्दिकेश्वरयमवरुणकुवेरहारीतीदशदिग्लोकपालाश् च सततसमितं सरात्रिंदिवं गच्छतस् तिष्ठतः शयानस्य निषण्णस्य स्वपतो जाग्रतः समाहितस्यासमाहितस्य च एकाकिनो बहुजनमध्यगतस्य च यावद् ग्रामनगरनिगमजनपदराष्ट्रराजधानीमध्यगतस्येन्द्रकीलरथ्याप्रतोलीनगरद्वारवीथीचत्वरशृङ्गाटकनगरान्तरापणपण्यशालामध्यगतस्य यावच् छून्यागरगिरिकन्दरनदीवनगहनोपगतस्य उच्छिष्टस्यानुच्छिष्टस्य मत्तस्य् प्रमत्तस्य सर्वदा सर्वथा सर्वप्रकारं च परां रक्षावरणगुप्तिं करिष्यन्ति । रत्रिंदिवं परं स्वस्त्ययनं करिष्यन्ति । ये चान्ये देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्याश् च ये चान्ये ग्रहनक्षत्रमातृगणपतयो याश् च सप्त मातरो याश् च यक्षिणीराक्षसीपिश्चाच्यस् ताः सर्वाः सहिताः समग्राः ससैन्यः सपरिवाराः सर्वे ते रक्षावरणगुप्तिं करिष्यन्ति । परं च तस्य काये ओजोबलं प्रक्षेप्स्यन्ति । आरोग्यबलम् आयुर्वृद्धिंश् चोपसंहरिष्यन्ति ॥

चतुर्थचक्रस्येयम् अनुशंसा तत्पदान्य् एकोनविंशति ॥

पुनर् अपरं वज्रपाणे वज्रधर य इमां नामसंगीतिं नामचूडामणिं प्रत्यहम् अखण्डसमादानतस् त्रिःकृत्वा कण्ठगताम् आवर्तयिष्यति । पुस्तकगतां वा पठमानः प्रवर्तयिष्यति । भगवतो मञ्जुश्रीज्ञानसत्वस्य रूपम् आलम्बयन्न् अनुविचिन्तयंस् तद्रूपम् अनुध्यायन् । तम् एव रूपकायेनाचिराद् एव धर्मविनयम् उपादाय द्रक्ष्यति । गगनतलगतांश् च सर्वबुद्धबोधिसत्वान् नानानिर्माणरूपकायैः सहगतान् द्रक्ष्यति । न तस्य महासत्वस्य जातु कदाचित् कथमपि दुर्गत्यपायपतनं च भविष्यति । नीचकुलोपपत्तिर् न भविष्यति । प्रत्यन्तजनपदोपपत्तिर् न भविष्यति । न हीनेन्द्रियो भविष्यति । न विकलेन्द्रियो भविष्यति । न मिथ्यादृष्टिकुलोपपत्तिर् भविष्यति । नाबुद्धेषु बुद्धक्षेत्रेषूपपत्स्यते । न बुद्धोत्पादतद्देशितधर्मविमुखपरोक्षता भविष्यति । न च दीर्घायुष्केषु देवेषूपपत्स्यते । न च दुर्भिक्षरोगशस्त्रान्तरकल्पेषूपपत्स्यते । न च पञ्चकषायकालेषूपपत्स्यते । न च राजशत्रुचौरभयं भविष्यति । न च सर्ववैकल्यदारिद्रभयं । न चाश्लोकाभ्याख्याननिन्दायशोऽकीर्तिभयं भविष्यति । सुजातिकुलगोत्रसंपन्नश् च भविष्यति । समन्तप्रासादिकरूपवर्णसमन्वागतो भविष्यति । प्रियो मनआपसुखसंवासप्रियदर्शनश् च लोकानां भविष्यति । शुभसौभाग्यादेयवाक्यश् च सत्वानां भविष्यति । स यत्र यत्रोपपत्स्यते तत्र तत्र जातौ जातौ जातिस्मरो भविष्यति । महाभोगो महापरिवारो ऽक्षयभोगो ऽक्षयपरिवारो भविष्यति । अग्रणीः सर्वसत्वानाम् अग्रगुणसमन्वागतो भविष्यति । प्रकृत्या च षट्पारमितागुणैः समन्वागतो भविष्यति । चतुर्ब्रह्मविहारविहारी च

भविष्यति । स्मृतिसंप्रजन्योपायबलप्रणिधिज्ञानैः समन्वागतश् च भविष्यति । सर्वशास्त्रविशारदो वाग्मी च भविष्यति । स्पष्टवागजडपटुमतिर् भविष्यति । दक्षो ऽनलसः संतुष्टो महार्थो वितृष्णश् च भविष्यति । परमविश्वासी च सर्वसत्वानां भविष्यति । आचार्योपाध्यायगुरूणां च संमतो भविष्यति । अश्रुतपूर्वाणि च तस्य शिल्पकलाभिज्ञाज्ञानशास्त्राणि चार्थतो ग्रन्थतश् च प्रतिभासम् आगमिष्यति । सुपरिशुद्धशीलाजीवसमुदाचारचारी च भविष्यति । सुप्रव्रजितः सूपसंपन्नश् च भविष्यति । अप्रमुषितसर्वज्ञतामहाबोधिचित्तश् च भविष्यति । न जातु श्रावकार्हत्प्रत्येकबुद्धनियामावक्रान्तिगतश् च भविष्यति ॥

पञ्चमचक्रस्येयम् अनुशंसा तत्पदान्य् एकपञ्चाशत् ॥

एवं वज्रपाणे वज्रधर अप्रमेयगुणसमन्वागतो ऽसौ मन्त्रमुखचर्याचारी भविष्यति । अन्यैश् चाप्रमेयैर् एवंप्रकारैर् एवंजातीयैर् गुणगणैः समन्वागतो भविष्यति । अचिराद् एव वज्रपाणे वज्रधर परमार्थनामसंगीतिसंधारकपुरुषपुंगवः सुसंभृतपुण्यज्ञानसंभारः क्सिप्रतरं बुद्धगुणान् समुदानीयानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते । अनल्पकल्याणपरिनिर्वाणधर्मः सर्वसत्वानाम् अनुत्तरधर्मदेशको ऽधिष्ठितो दशदिक्सद्धर्मदुन्दुभिर् धर्मराज इति ।

षष्ठचक्रस्यानुशंसा तत्पदान्य् अप्रमेयाणि ॥

ओं सर्वधर्माभावस्वभावविशुद्धवज्र अ आ अं अः । प्रकृतिपरिशुद्धाः सर्वधर्मा यदुत सर्वतथागतज्ञानकायमञ्जुश्रीपरिशुद्धिताम् उपादायेति अ आः सर्वतथागतहृदयं हर हर । ओं हूं ह्रीः भगवन् ज्ञानमूर्तिवागीश्वर महावाच सर्वधर्मगगनामलसुपरिशुद्धधर्मधातुज्ञानगर्भ आः ।

मन्त्रविन्यासः ॥

अथ वज्रधरः श्रीमां हृष्टतुष्टः कृताञ्जलिः प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं // Mns_163

अन्यैश् च बहुविधैर् नाथैर् गुह्येन्द्रैर् वज्रपाणिभिः स सार्धं क्रोधराजानैः प्रोवाचोच्चैर् इदं वचः // Mns_164

अनुमोदामहे नाथ साधु साधु सुभाषितं कृतो ऽस्माकं महान् अर्थः सम्यक्संबोधिप्रापकः // Mns_165

जगतश् चाप्य् अनाथस्य विमुक्तिफलकांक्षिणः श्रेयोमार्गो विशुद्धो ऽयं मायाजालनयोदितः // Mns_166

गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत् बुद्धानां विषयो ह्य् एष सम्यक्संबुद्धदेशितः // Mns_167

इत्य् उपसंहारगाथाः पञ्च ॥

आर्यमायाजालात् षोडशसाहस्रिकान् महायोगतन्त्रान्तःपातिसमाधिजालपटलाद् भगवत्तथागतशाक्यमुनिभाषिता भगवतो मञ्जुश्रीज्ञानसत्वस्य परमार्था नामसंगीतिः परिसमाप्ता ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.