Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

मञ्जुश्रीनामसंगीति

Thông tin
GRETIL — Janardan Shastri Pandey in 'Bauddhastotrasamgraha', Sarnath 1994, pp. 5-20. [GRETIL version checked against the ed. by Raghu Vira, Satapitaka 18].chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मञ्जुश्रीनामसंगीति

अद्वयपरमार्था नामसंगीति

ओं नमः श्रीमहामञ्जुनाथाय

अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः // Mns_1

विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहुः // Mns_2

भृकुटीतरङ्गप्रमुखैर् अनन्तैर् वज्रपाणिभिः दुर्दान्तदमकैर् वीरैर् वीरबीभत्सरूपिभिः // Mns_3

उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः प्रज्ञोपायमहाकरुणाजगदर्थकरैः परः // Mns_4

हृष्टतुष्टाशयैर् मुदितैः क्रोधविग्रहरूपिभिः बुद्धकृत्यकरैर् नाथैः सार्द्धं प्रणतविग्रहैः // Mns_5

प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् कृताञ्जलिपुटो भूत्वा इदम् आह स्थितो ऽग्रतः // Mns_6

मद्धिताय ममार्थाय अनुकम्पाय मे विभो मायाजालाभिसंबोधिं यथा लाभी भवाम्य् अहम् // Mns_7

अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् हिताय सर्वसत्त्वानाम् अनुत्तरफलाप्तये // Mns_8

प्रकाशयतु संबुद्धो भगवाञ् शास्ता जगद्गुरुः महासमयतत्त्वज्ञ इन्द्रयाशयवित् परः // Mns_9

भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेह् मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः // Mns_10

गम्भीरार्थाम् उदारार्थं महार्थाम् असमां शिवाम् आदिमध्यान्तकल्याणीं नामसंगीतिम् उत्तमाम् // Mns_11

यातीतैर् भाषिता बुद्धैर् भाषिष्यन्ते ह्य् अनागताः प्रत्युत्पन्नाश् च संबुद्धा यां भाषन्ते पुनः पुनः // Mns_12

मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते महावज्रधरैर् हृष्टैर् अमेयैर् मन्त्रधारिभिः // Mns_13

अहं चैनां धारयिष्याम्य् आ निर्याणां दृढाशयः यथा भवाम्य् अहं नाथ सर्वसंबुद्धगुह्यधृक् // Mns_14

प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः अशेषक्लेशनाशाय अशेषाज्ञानहानये // Mns_15

एवम् अध्येष्य गुह्येन्द्रो वज्रपाणिस् तथागतम् कृताञ्जलिपुटो भूत्वा प्रह्वकायः स्थितो ऽग्रतः // Mns_16

इति अध्येषणज्ञानगाथाः षोडश ।

अथ शाक्यमुनिर् भगवान् संबुद्धो द्विपदोत्तमः निर्णमय्यायतां स्फीतं स्वजिह्वां स्वमुखाच् छुभाम् // Mns_17

स्मितं संदर्श्य लोकानाम् अपायत्रयशोधनम् त्रिलोकाभासकरणं चतुर्मारारिशासनम् // Mns_18

त्रिलोकम् आपूरयन्त्या ब्राह्म्या मधुरया गिरा प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् // Mns_19

साधु वज्रधर श्रीमन् साधु ते वज्रपाणये यस् तं जगद्धितार्थाय महाकरुणयान्वितः // Mns_20

महार्थां नामसंगीतिं पवित्राम् अघनाशिनीम् मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः // Mns_21

तत् साधु देशयाम्य् एषः अहं ते गुह्यकाधिप शृणु त्वम् एकाग्रमनास् तत् साधु भगवन्न् इति // Mns_22

इति प्रतिवचनज्ञानगाथाः षट् ।

अथ शाक्यमुनिर् भगवान् सकलं मन्त्रकुलं महत् मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् // Mns_23

लोकलोकोत्तरकुलं लोकालोककुलं महत् महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् // Mns_24

इति षट्कुलावलोकनज्ञानगाथे द्वे ।

इमां षण्मन्त्रराजानां संयुक्ताम् अद्वयोदयाम् अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः // Mns_25

अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि ज्ञानमूर्तिर् अहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् // Mns_26

ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये / ज्ञानकायवागिश्वरारापचनाय ते नमः // Mns_27*

इति मायाजालाभिसंबोधिक्रमगाथास् तिस्रः ।

तद् यथा भगवान् बुद्धः संबुद्धो ऽकारसम्भवः अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः // Mns_28

महाप्राणो ह्य् अनुत्पादो वागुदाहारवर्जितः सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः // Mns_29

महामहमहारागः सर्वसत्त्वरतिंकरः महामहमहाद्वेषः सर्वक्लेशमहारिपुः // Mns_30

महामहमहामोहो मूढधीमोहसूदनः महामहमहाक्रोधो महाक्रोधरिपुर् महान् // Mns_31

महामहमहालोभः सर्वलोभनिषूदनः महाकामो महासौख्यो महामोदो महारतिः // Mns_32

महारूपो महाकायो महावर्णो महावपुः महानामा महोदारो महाविपुलमण्डलः // Mns_33

महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः महायशा महाकीर्तिर् महाज्योतिर् महाद्युतिः // Mns_34

महामायाधरो विद्वान् महामायार्थसाधकः महामायारतिरतो महामायेन्द्रजालिकः // Mns_35

महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः महाक्षान्तिधरो धीरो महावीर्यपराक्रमः // Mns_36

महाध्यानसमाधिस्थो महाप्रज्ञाशरीरद्ःऋक् महाबलो महोपायः प्रणिधिर् ज्ञनसागरः // Mns_37

महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः महाप्रज्ञो महाधीमान् महोपायो महाकृतिः // Mns_38

महाऋद्धिबलोपेतो महावेगो महाजवः महर्द्धिको महेशाख्यो महाबलपराक्रमः // Mns_39

महाभवाद्रीसंभेत्ता महावज्रधरो घनः महाक्रूरो महारौद्रो महाभयभयंकरः // Mns_40

महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः महायाननयारूढो महायाननयोत्तमः // Mns_41

इति वज्रधातुमण्डलज्ञानगाथाश् चतुर्दश ।

महावैरोचनो बुद्धो महामौनी महामुनिः महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः // Mns_42

दशपारमिताप्रप्तो दशपारमिताश्रयः दशपारमिताशुद्धिर् दशपारमितानयः // Mns_43

दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् // Mns_44

दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः अशेषविश्वार्थकरो दशाकारवशी महान् // Mns_45

अनादिर् निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः भूतवादी यथावादी तथाकारी अनन्यवाक् // Mns_46

अद्वयो ऽद्वयवादी च भूतकोटिव्यवस्थितः नैरात्म्यसिंहनिर्णादी कुतीर्थ्यमृगभीकरः // Mns_47

सर्वत्रगो ऽमोघगतिस् तथागतमनोजवः जिनो जितारिर् विजयो चक्रवर्ती महाबलः // Mns_48

गणमुख्यो गणाचार्यो गणेशो गणपतिर् वशी महानुभावो धौरेयो ऽनन्यनेयो महानयः // Mns_49

वागीशो वाक्पतिर् वाग्मी वाचस्पतिर् अनन्तगीः सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः // Mns_50

अवैवर्तिको ह्य् अनागामी खड्गः प्रत्येकनायकः नानानिर्याणनिर्यातो महाभूतैककारणः // Mns_51

अर्हन् क्षीणास्रवो भिक्षुर् वीतरागो जितेन्द्रियः क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्य् अनाविलः // Mns_52

विद्याचरणसंपन्नः सुगतो लोकवित् परः निर्ममो निरहंकारः सत्यद्वयनयस्थितः // Mns_53

संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः // Mns_54

सद्धर्मो धर्मराड् भास्वांल् लोकालोककरः परः धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः // Mns_55

सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितह् निर्विकल्पो ऽक्षयो धातुर् धर्मधातुः परो ऽव्ययः // Mns_56

पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः // Mns_57

शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियां पतिः प्रत्यात्मवेद्यो ह्य् अचलः परमाद्यस् त्रिकायधृक् // Mns_58

पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः पञ्चबुद्धात्ममुकुटः पञ्चचक्षुर् असङ्गधृक् // Mns_59

जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः प्रज्ञाभवोद्भवो योनिर् धर्मयोनिर् भवान्तकृत् // Mns_60

घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् // Mns_61

वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः // Mns_62

विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् महोष्णीषो ऽद्भूतोष्णीषो विश्वदर्शी वियत्पतिः // Mns_63

सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः विश्वरूपी विधाता च पूज्यो मान्यो महाऋषिः // Mns_64

कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् रत्नत्रयधरः श्रेष्ठस् त्रियानोत्तमदेशकः // Mns_65

अमोघपाशो विजयी वज्रपाशो महाग्रहः वज्राङ्कुशो महापाशः वज्रभैरवभीकरः // Mns_66

इति सुचिशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः ।

क्रोधराट् षण्मुखो भीमः षण्नेत्रः षड्भूजो बली दंष्ट्रकरालः कङ्कालो हलाहलः शताननः // Mns_67

यमान्तको विघ्नराजो वज्रवेगो भयंकरः विघुष्टवज्रो हृद्वज्रो मायावाज्रो महोदरः // Mns_68

कुलिशेशो वज्रयोनिर् वज्रमण्डो नभोपमः अचलैकजटाटोपो गजचर्मपटार्द्रधृक् // Mns_69

हाहाकारो महाघोरो हीहीकारो भयानकः अट्टहासो महाहासो वज्रहासो महारवः // Mns_70

वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः // Mns_71

वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः विश्ववज्रधरो वज्री एकवज्री रणञ्जहः // Mns_72

वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः वज्रावेशो महावेशः शताक्षो वज्रलोचनः // Mns_73

वज्ररोमाङ्कुरतनुर् वज्ररोमैकविग्रहः वज्रकोटिनखारम्भो वज्रसारघनच्छविः // Mns_74

वज्रमालाधरः श्रीमान् वज्राभरणभूषितः हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः // Mns_75

मञ्जुघोषो महानादस् त्रैलोक्यैकरवो महान् आकाशधातुपर्यन्तघोषो घोषवतां वरः // Mns_76

इत्य् आदर्शज्ञानगाथाः पादेन सार्धं दश ।

तथताभूतनैरात्म्यभूतकोटिर् अनक्षरः शून्यतावादिवृषभो गम्भीरोदारगर्जनः // Mns_77

धर्मशङ्ख्यो महाशब्दो धर्मगण्डी महारणः अप्रतिष्ठतनिर्वाणो दशदिग्धर्मदुन्दुभिः // Mns_78

अरूपो रूपवान् अग्र्यो नानरूपो मनोमयः सर्वरूपावभासश्रीर् अशेषप्रतिबिम्बधृक् // Mns_79

अप्रधृष्यो महेशाख्यस् त्रैधातुकमहेश्वरः समुच्छ्रितार्यमार्गस्थो धर्मकेतुर् महोदयः // Mns_80

त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापतिः द्वात्रिंशल्लक्षणधरः कान्तस् त्रैलोक्यसुन्दरः // Mns_81

लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः नाथस् त्राता त्रिलोकाप्तः शरणं ताय्य् अनुत्तरः // Mns_82

गगनाभोगसंभोगः सर्वज्ञज्ञानसागरः अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः // Mns_83

शमिताशेषसंक्लेशः संसारार्णवपारगः ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः // Mns_84

त्रिदुःखदुःखशमनस् त्र्यन्तो ऽनन्तस् त्रिमुक्तिगः सर्वावरणनिर्मुक्त आकाशसमतां गतः // Mns_85

सर्वक्लेशमलातितस् त्र्यध्वानध्वगतिं गतः सर्वसत्त्वमहानागो गुणशेखरशेखरः // Mns_86

सर्वोपाधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः // Mns_87

महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः सर्वसत्त्वार्थकृत् कर्ता हितैषी सत्त्ववत्सलः // Mns_88

शुभाशुभज्ञः कालज्ञः समयज्ञः समयी विभुः सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः // Mns_89

गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः सर्वमङ्गलमाङ्गल्यः कीर्तिर् लक्ष्मीर् यशः शुभः // Mns_90

महोत्सवो महाश्वासो महानन्दो महारतिः सत्कारः सत्कृतिर् भूतिः प्रमोदः श्रीर् यशस्पतिः // Mns_91

वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः महाभयारिः प्रवरो निःशेषभयनाशनः // Mns_92

शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः // Mns_93

महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः महातपास् तपोनिष्ठः स्नातको गौतमो ऽग्रणीः // Mns_94

ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणम् आप्तवान् मुक्तिर् मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः // Mns_95

निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणम् अन्तगः सुखदुःखान्तकृन् निष्ठा वैराग्यम् उपाधिक्षयः // Mns_96

अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः निष्कलः सर्वगो व्यापी सूक्ष्मो बीजम् अनाश्रवः // Mns_97

अरजो विरजो विमलो वान्तदोषो निरामयः सुप्रबुद्धो विबुद्धात्मा सर्वज्ञाः सर्ववित् परः // Mns_98

विज्ञानधर्मतातीतो ज्ञान् अमद्वयरूपधृक् निर्विकल्पो निराभोगस् त्र्यध्वसंबुद्धकार्यकृत् // Mns_99

अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः ज्ञानैकचक्षुर् अमलो ज्ञानमूर्तिस् तथागतः // Mns_100

वागीश्वरो महावादी वादिराड् वादिपुङ्गवः वदतां वरो वरिष्ठो वादिसिंहो ऽपराजितः // Mns_101

समन्तदर्शी प्रमोद्यस् तेजोमाली सुदर्शनः श्रीवत्सः सुप्रभो दीप्तिर् भा भासुरकरद्युतिः // Mns_102

महाभिषग्वरः श्रेष्थः शल्यहर्ता निरुत्तरः अशेषभैषज्यतरुः क्लेशव्याधिर् महारिपुः // Mns_103

त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः // Mns_104

जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः // Mns_105

सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः // Mns_106

वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः // Mns_107

सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती // Mns_108

वज्रसूर्यो महालोको वज्रेन्दुविमलप्रभः विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः // Mns_109

संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक् बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् // Mns_110

विश्वमायाधरो राजा बुद्धविद्याधरो महान् वज्रतीक्ष्नो महाखड्गो विशुद्धः परमाक्षरः // Mns_111

दुःखच्छेदमहायानवज्रधर्ममहायुधः जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर् यथार्थवित् // Mns_112

सर्वपारमितापूरी सर्वभूमिविभूषणः विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः // Mns_113

मायाजालमहोद्योगः सर्वतन्त्राधिपः परः अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् // Mns_114

समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् // Mns_115

सर्वभावस्वभावाग्र्यः सर्वभावस्वभाववद्ःर्क् अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावद्ःर्क् // Mns_116

एकक्षणमहाप्रज्ञः सर्वधर्मावबोधधृक् सर्वधर्माभिसमयो भूतान्तमुनिर् अग्रधीः // Mns_117

स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः // Mns_118

इति प्रत्यवेक्षणज्ञानगाथाः द्वाचत्वारिंशत् ।

इष्टार्थसाधकः परः सर्वापायविशोधकः सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः // Mns_119

क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् // Mns_120

बाहुदुण्डशताक्षेपः पदनिक्षेपनर्त्तनः श्रीमच्छतभुजाभोगगगनाभोगनर्त्तनः // Mns_121

एकपादतलाक्रान्तमहीमण्डतले स्थितः ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः // Mns_122

एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः नानाविज्ञप्तिरूपार्थश् चित्तविज्ञानसंततिः // Mns_123

अशेषभावार्थरतिः शून्यतारतिर् अग्रधीः भवरागाद्यतीतश् च भवत्रयमहारतिः // Mns_124

शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः बालार्कमण्डलच्छायो महारागनखप्रभः // Mns_125

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् महामणिमयूखश्रीर् बुद्धनिर्वाणभूषणः // Mns_126

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः महास्मृतिधरस् तत्त्वश् चतुःस्मृतिसमाधिराट् // Mns_127

बोध्यङ्गकुसुमामोदस् तथागतगुणोदधिः अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् // Mns_128

सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः // Mns_129

सर्वसत्त्वेन्द्रियार्थज्ञः सर्वसत्त्वमनोहरः पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् // Mns_130

सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः // Mns_131

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् // Mns_132

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् विंशत्याकारसंबोधिर् विबुद्धः सर्ववित् परः // Mns_133

अमेयबुद्धनिर्माणकायकोटिविभावकः सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् // Mns_134

नानायाननयोपायजगदर्थविभावकः यानत्रितयनिर्यात एकयानफले स्थिथः // Mns_135

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः // Mns_136

क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् // Mns_137

सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधकृत् सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः // Mns_138

सर्वसत्त्वमनोऽन्तस्थस् तच्चित्तसमतां गतः सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः // Mns_139

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः निःसंदिग्धमतिस् त्र्यर्थः सर्वार्थस् त्रिगुणात्मकः // Mns_140

पञ्चस्कन्धार्थस् त्रिकालः सर्वक्षणविभावकः एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् // Mns_141

अनङ्गकायः कायाग्र्यः कायकोटिविभावकः अशेषरूपसन्दर्शी रत्नकेतुर् महामणिः // Mns_142

इति समताज्ञानतथाश्चतुर्विंशतिः ।

सर्वसंबुद्धबोद्धव्यो बुद्धबोधिर् अनुत्तरः अनक्षरो मन्त्रयोनिर् महामन्त्रकुलत्रयः // Mns_143

सर्वमन्त्रार्थजनको महाबिन्दुर् अनक्षरः पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः // Mns_144

सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् अकलः कलनातीतश् चतुर्थध्यानकोटिधृक् // Mns_145

सर्वध्यानकलाभिज्ञाः समाधिकुलगोत्रवित् समाधिकायः कायाग्र्यः सर्वसंभोगकायराट् // Mns_146

निर्माणकायः कायान्ग्र्यो बुद्धनिर्माणवंशधृक् दशदिग्विश्वनिर्माणो यथावज् जगदर्थकृत् // Mns_147

देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः // Mns_148

उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः प्रख्यातदशदिग्लोको धर्मदानपतिर् महान् // Mns_149

मैत्रीसन्नहसन्नद्धः करुणावर्मवर्मितः प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः // Mns_150

मारारिर् मारजिद् वीरश् चतुर्मारभयान्तकृत् सर्वमारचमूजेता संबुद्धो लोकनायकः // Mns_151

वन्द्यः पूज्यो ऽभिवाद्यश् च माननीयश् च नित्यशः अर्चनीयतमो मान्यो नमस्यः परमो गुरुः // Mns_152

त्रैलोक्यैकक्रमगतिर् व्योमपर्य्यन्तविक्रमः त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः // Mns_153

बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वम् आगतः // Mns_154

आत्मवित् परवित् सर्वः सवीर्यो ह्य् अग्रपुद्गलः सर्वोपमाम् अतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः // Mns_155

धर्मदानपतिः श्रेष्ठश् चतुर्मुद्रार्थदेशकः पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् // Mns_156

परमार्थविशुद्धश्रीस् त्रैलोक्यसुभगो महान् सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतां वरः // Mns_157

इति कृत्यानुष्ठानज्ञानगाथाः पञ्चदशः ।

नमस् ते वरदवज्राग्र्य भूतकोटे नमो ऽस्तु ते नमस् ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते // Mns_158

बुद्धराग नमस् ते ऽस्तु बुद्धकाम नमो नमः बुद्धप्रीते नमस् तुभ्यं बुद्धमोद नमो नमः // Mns_159

बुद्धस्मित नमस् तुभ्यं बुद्धहास नमो नमः बुद्धवाच नमस् तुभ्यं बुद्धभाव नमो नमः // Mns_160

अभवोद्भव नमस् तुभ्यं नमस् ते बुद्धसंभव गगनोद्भव नमस् तुभ्यं नमस् ते ज्ञानसंभव // Mns_161

मायाजाल नमस् तुभ्यं नमस् ते बुद्धनाटक नमस् ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते // Mns_162

[...] इयमसौ वज्रपाणेः वज्रधरभगवतो ज्ञानमूर्तेः सर्वतथागतज्ञानकायस्य मञ्जुश्रीज्ञानसत्त्वस्यावेणिकपरिशुद्धा नामसंगितिस्तवानुत्तरप्रीतिप्रासादमहोद्विल्य सङ्जननार्थह्ं, कायवाङ्मनोगुह्यपरिशुद्ध्यै, अपरिपूर्णपरिशुद्धभूमिपरिमितापुण्यज्ञानसंभारपरिपूरिपरिशुद्ध्यै, अनधिगतानुत्तरार्थस्याधिगमाय, अप्राप्तस्य प्राप्त्यै, यावत्सर्वतथागतसर्वधर्मनेत्रीसंधारणार्थं च मया देशिता, संप्रकाशिता, विवृता, विभजितोत्तानिकृता, अधिष्ठता चयं मया वज्रपाणे वज्रधर तव सन्ताने चित्ते सर्वमन्त्रधर्मताधिष्ठानेनेति ॥ mns_163 ॥ इति प्रथमचक्रस्येयमनुशंसा एकादश पदानि

[...]

अथ वज्रधरः श्रीमान् हृष्टतुष्टः कृताञ्जलिः प्रणम्य नाथं संबुद्धं भगवन्तं तथागतं // म्न्स्_*1

अन्यैश् च बहुभिर् नाथैर् गुह्येन्द्रैर् वज्रपाणिभिः स सार्द्धं क्रोधराजानैः प्रोवाचोच्चैर् इदं वचः // म्न्स्_*2

अनुमोदामहे नाथ साधु साधु सुभाषितम् कृतो ऽस्माकं महान् अर्थः सम्यक्संबोधिप्रापकः // म्न्स्_*3

जगतश् चाप्य् आनाथस्य विमुक्तिफलकाङ्क्षिणः श्रेयो मार्गो विशुद्धो ऽयं मायाजालनयोदितः // म्न्स्_*4

गम्भीरोदारवैपुल्यो महार्थो जगदर्थकृत् बुद्धानां विषयो ह्य् एष सम्यक्संबुद्धभाषितः // म्न्स्_*5

इत्य् उपसंहारगाथाः पञ्च ।

आर्थमायाजालषोडशसाहास्रिकान् महायोगतन्त्रान्तः पातिसमाधिजालपटलाद् भगवता श्रीशाक्यमुनिना भाषिता भगवतो मञ्जुश्रीज्ञानसत्त्वस्याद्वयपरमार्थ नामसंगीतिः परिसमाप्ता ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.