Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

वृत्तमालास्तुति

Tác giả
ज्ञानश्रीमित्र
Thông tin
GRETIL — M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ज्ञानश्रीमित्र: वृत्तमालास्तुति

॥ वृत्तमालास्तुतिः ॥

वृत्तं समम् अर्धसमं विषमं चेत्य् आमनन्ति वागीशः त्रिविधं परार्थविधये समासतो व्यासतो ऽनन्तम् // JVms_1

प्रतिनियताकृतिरूढं वरमुनिभिर् यत्र नाम संगीतम् छन्दः पदं च परमं स्फुरति यथाविविधविन्यासैः // JVms_2

प्रतिरूपदर्शनाद् अपि शक्याः सकलक्रमेण गुरुलघवः विगणयितुं धीमद्भिः किम् अपरम् अत्रानुयोगेन // JVms_3

प्रभवतु विभ्रमहतये विचिन्त्यमानं तद् आदराद् भवताम् सुकृतिमुखाभिजनानां वाचां निजम् एकम् आभरणम् // JVms_4

॥ प्रस्तावना ॥

धीगी[ः]- श्री- णाम् // JVms_5

निजैकभूः विभाति या // JVms_6

तद्गुणाशंसिभिः सेव्यते चानिशम् // JVms_7

समाश्रयस्खलन्मलैः सुरासुरादिषूद्गतैः // JVms_8

नैकभवीयाभ्यासविवृद्धम् बोधविशेषं साधु दधानैः // JVms_9

गीता गायत्रीव च्छन्दःस्व् आद्या सद्भिः वृत्तं भावि श्रेयो यस्यां सद् वा वैश्वम् // JVms_10

नीलोत्पलपाणेर् लीलानिलयस्य शास्तुर् जयतीयं मूर्तिस् तनुमध्या // JVms_11

प्रसीद भगवन् विलोकय मनाक् जडं जनम् इमं त्वदेकशरणम् // JVms_12

जाज्वलीति शासनं त्वां समेत्य सौगतम् सूर्यधाम दुःसहं सातिरेकम् उष्णि हि // JVms_13

दधत्य् अपि निकामं कुमारललितानि तनुस् तव जिनानां कुमार ललितैव // JVms_14

जायते जनराशेर् याम् अनुस्मरतो ऽपि निर्धुताधरभावम् ऊर्ध्वगामि च रूपम् // JVms_15

यद्गुणस्तुतिविस्तराद् अस्तसङ्गम् अनुष्टुभि धीरम् एकम् उदीरयन्त्य् उत्तमं पदम् उद्गताः // JVms_16

घोरमोहतामसावरुद्धबुद्धिलोचनस्य रत्नयष्टिदीपिकेव या समान्य् अभूज् जनस्य // JVms_17

जगत्त्रयातिशायिनीं मुनीन्द्रसंपदं प्रति स्फुरन्त्य् अशेषनायक प्रमाणिकापि सैव नः // JVms_18

तीव्रक्लेशप्लोषध्वंसप्रौढे वंशे संबुद्धानाम् धत्ते भूषां भातीयं ते ऽम्भोदे यद्वद् विद्युन्माला // JVms_19

केतनदण्डं दधतो ऽध्यापयितुं नीतिम् इव सद्गुरुलीला भवतो भाति जगन्माणवकम् // JVms_20

त्रिजगतो निजगतिं प्रथयतः पृथुधियः करतलं तव चलत्किसलयं तुलयति // JVms_21

साधिगमं समकालं तत्त्वरसेषु विधत्ते विश्वम् अधीश्वर चित्रं चित्रपदा तव वाणी // JVms_22

बृहत्यां विभूत्यां त एके पदन्यासम् आसादयन्ति क्षणं यत्र ते लब्धलक्ष्यः कटक्षो ऽपि विश्रान्तिम् एति // JVms_23

त्वद्दृशैव परिमलनाद् भव्यताम् इयम् उपगता भाति भूमिर् इव जनता संतताहितहलमुखी // JVms_24

वरद सा हि संजन्यते परिणतिस् तयास्यां यतः वचनबीजम् उप्तं त्वया फलति शान्तिरूपं फलम् // JVms_25

कलयितुम् इह कः शक्तस् तव खलु चरितानीश सतमसि समये तोये भुजगशिशुसृतानीव // JVms_26

किन्तूदस्यति धैर्यध्वस्री त्वत्कीर्तिश्रुतिजन्मानन्दः स्वप्रौढिप्रतिपत्तिन्यस्तां लोकस्याननमुद्राम् ईश // JVms_27

श्रीनिकेत लीलाचतुरं ते प्राप्तपार विद्याचरणानाम् भाति वर्ष्म बुद्धात्मजपङ्क्तौ यद्वद् अम्बुजन्मस्व् अरविन्दम् // JVms_28

त्वाम् उद्गीतकुलोदयशैलं प्रज्ञालोकम् उपायरथस्थम् वन्दे जाड्यविखण्डनशौण्डं त्रैलोकीनलिनीसवितारम् // JVms_29

बुद्धसुतानाम् अभ्युदयोर्वी भाति भृशं भूत्या तव नाथ शैलविशेषस्येव शिखाभू रुक्मवती रत्नाङ्कुरकान्त्या // JVms_30

निःशेषस् तव विजयध्वानं तन्वन् भ्राम्यति भुवनोद्द्योत सानन्दः कृतिनिवहः स्वामिन् विष्वग् घोषणपणवो यद्वत् // JVms_31

वादिव्रातप्रवरशिरोऽब्ज श्रीधाम्नस् ते गुणमधुयोगात् धीमन् धीरान् अपि मादयन्ती त्रैलोकी वाग् विलसति मत्ता // JVms_32

विश्वचक्रवर्तिनां जिनानां वंशभूषणे त्वयि स्फुटैव म्लायतीव सा कुमारताख्या या मयूरसारिणीष्यते तु // JVms_33

नानारत्नमरीचिमालिनी प्रोन्मीलन्निजकान्तिसंपदा प्रत्यङ्गं तव भूषणावली नीता शुद्धविराट् पराभवम् // JVms_34

पातु जगत् तव तत्त्वनयाख्यानविधौ करवल्गितकम् वादिपते व्यतिघट्टनतो वल्गुनिनादचलद्वलयम् // JVms_35

रूपं ते गुणगणम् अथ कीर्तिं संवीक्ष्याखिलम् इदम् अतिशायि बिभ्राणं निजविषयविश्रामं मन्दं त्रिष्टुभि जगद् उपजातम् // JVms_36

तनुर् अतनुदयाद्रवोपमस्फुरदनुपमकान्तिसंततिः जनयति भवतो न कस्य वा मुदम् अधिप समन्तभद्रिका // JVms_37

शरदमृतकरकरश्रेणीसमहिमगतमलगौरीयम् गुणसमुदितिर् इव मुक्ताली विलसति हृदि भवतो वृत्ता // JVms_38

गीयमानसुमनःसुमनस्वज्जातिकीर्तिविजयेव तवेयम् भाति दूरततसौरभलोभस्वागतालिपटलक्वणितेन // JVms_39

स्फारामोदा मधुनिधिर् अधिकं चूर्णं चातुःसमं इव दधती नीलाब्जश्रीर् दलसुखशयनासंपर्याप्तभ्रमरविलसिता // JVms_40

रूपरसायनभावनया ते वासव एव परं बहुमान्यः येन चिराय निरस्तनिमेषं लब्धम् अदोधकम् अम्बकजातम् // JVms_41

हक्त्यानतरत्नकिरीटचक्रैर् आबद्धकराञ्जलिभिः प्रहृष्टैः धन्यैः सुचिरं चरणद्वयी ते वीतान्यविधेयम् उपस्थितेयम् // JVms_42

किम् इन्द्रविभवैर् ब्रह्मश्रिया वा ततो ऽप्य् अतिशयिन्या संपदा किम् प्रसिध्यति धियो ऽधीश प्रकामं त्वदङ्घ्रिकमलस्योपस्थितं चेत् // JVms_43

त्वत्संसेवाविमुखं जन्मदुर्गे कर्मक्लेशौ विवशं नाशम् अस्मिन् संभूयालं नयतो ऽवश्यम् उग्रौ वातोर्मी पोतम् इवाम्भोधिमध्ये // JVms_44

दूरदर्शिमनसाम् अनागसां कापि विस्फुरति चित्तसंततिः निर्विरामतमम् आभवं भवत्पर्युपासनमनोरथोद्धता // JVms_45

छेदे हृद्या विभ्रमाणां चतुर्णां तूर्णप्राप्ताव् आर्यसत्यामृतानाम् पुण्यावस्था त्वत्कटाक्षेक्षने ऽपि प्रौढप्रज्ञाशालिनी काप्य् उदेति // JVms_46

कीर्तिर् अर्तिकर्त्तरस् तव स्तवस्तोमसद्मनो ऽतिसद्मनोहृतः सान्द्रचन्द्रचन्द्रिकार्द्रचन्दनश्येन्य् अलङ्करोत्य् अलं दिशो दश // JVms_47

अभ्युद्गतानेकशिखाभिर् उच्चैस् त्वत्संश्रयाद् दुस्त्यजसत्त्वदृष्टिः प्रध्वस्रम् अन्वञ्चति शैलमूर्तिस् तीव्रेन्द्रवज्राहतिदारितेव // JVms_48

विरूढधर्माधिपभावभव्यप्रतुङ्गसिंहासनसंनिषण्णम् उपासते कान्तिशिवाः शिवापत्युपेन्द्रवज्रायुधवेधसस् त्वाम् // JVms_49

अनन्तरोद्भावितलक्षणाढ्यौ पादौ भवेताम् अपि गोचरौ ते यासां दृशः श्रव्ययतिप्रपञ्चौ धन्याः सुराणाम् उपजातयस् ताः // JVms_50

असंशयं त्वाम् अपरेषु सत्स्व् अपि प्रकामसर्वात्मगुणानुहारिषु अनन्यसाधारणया धियाधिपा उशन्ति वंशस्थम् अनङ्गजिष्णवः // JVms_51

बालाकृतिं कान्तविचित्रभूषणं हेमाभम् अक्षोभ्यसनाथशेखरम् वागीश्वरं वाग्मतिमूर्तिभिर् नमे मौनीन्द्रवंशाभरानोदयश्रियम् // JVms_52

अतिविस्तरैर् अपि गिरां सुगिरो गुणपारम् ईयुर् अधिनाथ न ते निजमोदमात्रजननीति नुतिः प्रमिताक्षरापि सुभगैव मम // JVms_53

दीप्यमानाखिलालङ्कृतिश्लाघिनी पुण्यभाजां मुखाम्भोजलब्धोदया भारती भारतीश स्वभावोज्ज्वला त्वाम् उपैति स्वयं सद्गुणस्रग्विणी // JVms_54

भङ्गं नीतास् ते पञ्चबाणस्य बाणाः शान्तो द्वेषाग्निर् मोहजाड्यं निरस्तम् नाथ त्रैलोक्यानुग्रहव्यग्रमूर्ते संपत् संप्राप्ता वैश्वदेवी त्वयैव // JVms_55

संपूर्णो ऽन्तर् गुणगणरत्नैश् चित्रैर् अम्भोराशेर् यतिम् अतिधैर्याद् धत्से संक्लेशाग्निप्रशमनसद्धर्माम्भोधारासारैर् जलधरमालालीलाम् // JVms_56

तव पुरः परमोत्तम संमताः प्रतिभया विकलाः प्रतिवादिनह् सुलभमूकदशा बहु मन्यन्ते द्रुतविलम्बितम् अप्य् उदितं वचः // JVms_57

त्रितयम् अपि पवित्रयन्ती जगत् तुहिनकरकरावदातद्युतिः प्रभवति भवतश् च कीर्तिश् चिरं सुरगिरिशिरसश् च मन्दाकिनी // JVms_58

हरति नितान्तम् इयं तव कीर्तिः कृतिहृदयानि दयानिजवास प्रसवचयेन चितेव समन्ताद् दिशि दिशि कुन्दलता दलतालम् // JVms_59

दलयत्य् उपात्तशोभासमवायो जगताम् अघानि को ऽप्य् एष कृपाब्धिः बहुबुद्धकोटिनिर्माणपटीयान् धृतधर्मधातुवागीश्वरलीलः // JVms_60

प्रविकिरतीव वियत्तरङ्गिणीतरलतरङ्गरुचो रुचां चयान् विलसति शश्वद् असिर् दशान्तरे तव यमुनाजलवीचिमेचकः // JVms_61

*मनोहारिहारावलीरम्यरूपं क्व नाथेदृशं ते सुरूपाधिराज क्व तच् चातिदुर्दान्तसत्त्वप्रशान्त्यै स्फुरद्भीमभूषाभुजङ्गप्रयातम्* // JVms_62

अविरलमौक्तिकप्रकरभूषा हरति न कस्य चित्तम् इयम् ईश सुरुचिरमल्लिकासमयसेव्यप्रतिनवमालिनीव तव मूर्तिः // JVms_63

तव नाथ परं यदि कान्तिसुधाजलधौ श्रमम् उज्झति झात्कृतिनि शुभरूपनिरूपणलम्पटकं परितो ऽटकम् अङ्ग जगन्नयनम् // JVms_64

वरद विरतिभाञ्जि व्यक्तम् अङ्गान्य् अतिभव भविता नो ऽवश्यम् एव तव वचनसुधायाः पानपात्रं श्रवणयुगपुटो ऽयं प्रीतिहेतुः // JVms_65

वृणे वरम् इमं त्वद् एकम् अतुलप्रभाव भवतान् न मादृशजनः भवन्तम् अपि यह् श्रयञ् छमसुधारसेषु विरतिर् जडोद्धतगतिः // JVms_66

त्वत्प्रसादसमुदीर्णशुभवशाद् अष्टभेदि सुखम् एव कृतिजनः लोचनोत्सवविधासु तनुभृतां चन्द्र वर्त्म समुपैति भवभिदाम् // JVms_67

सुखदुःखातिशयादिहेतुजातैर् अविलुप्तस्मृतयो भवन्ति भव्याः तव पादाश्रयलब्धबुद्धिसाराः सकलायाम् अपि वादिराज गत्याम् // JVms_68

तव चरणपरिचरणरुचीनां किम् अपि सुखम् उदयति कृतिरूपम् निखिलमलपटलविगमदीप्रं प्रथितगुणमहितमति जगत्याम् // JVms_69

कलधौतकान्तवपुर् उत्तमलीलः पटुभारतीवरटया वरिवस्यः इह मञ्जुघोष इति वः प्रथितो व्याज् जिनमानसैकनलिनीकलहंसः // JVms_70

विच्छेदस् त्रिषु यदि दुःसहेष्व् अमीषु क्लेशेषु स्फुटम् अणुशो ऽपि दुष्करः स्यात् प्राप्येत क्व नु खलु नाथ मूर्तिर् ईदृक् त्रैलोकीनयनमनःप्रहर्षिणीह // JVms_71

पयोनिधौ विरतिम् अपां विधाय च स्फुरन्महाकिरणकलापरत्नधौ भवादृशां वपुषि च कान्तिसंततिः समीक्ष्यते यदि रुचिरेयम् ईदृशी // JVms_72

मन्द्रध्वानैर् यामृतधारास् त्वयि रम्या मुञ्चत्य् उच्चैर् विस्फुरति प्रीणितभव्ये नाथान्वेति व्यक्ततयात्यन्तमनोज्ञं वर्षाम्भोदं सैव यतिर् मत्तमयूरम् // JVms_73

जयतीयम् उत्पलतरोर् अनुत्तरत्रिजगत्प्रमोदजनने मधाव् इव त्वयि नेत्रकान्तकुसुमोद्गता लता मधुमत्तभृङ्गरवमञ्जुभाषिणी // JVms_74

सर्वातिशायिगुणनिर्भरलब्धमोदैर् विद्वन्मधुव्रतकुलैर् उपगीयमानम् मन्यामहे जिननयाभरणं तवैव वृत्तं वसन्ततिलकं नवचूतम् एव // JVms_75

संमुखवलन्मुखमृगाधिपतिपृष्ठारूढम् अतिगाढदयम् अभ्युदयकन्दम् सुन्दरिमबन्धुरितहेमहिमपादं वादिकुलदैवतम् अमन्दम् अभिवन्दे // JVms_76

प्रशमितसकलप्रपञ्चनिरावृतिप्रसरदमलधीसमाधिसुधाजुषः दमयति भवतो हताहितविक्रमा मुनियतिर् अपराजिता भुवनत्रयम् // JVms_77

प्रतिभयवपुषाम् अकरुणचरितप्रशमनविधये क्व चिद् अपि कृपया तव भुजपरिघावलिर् अतिविषमा विलसति विविधप्रहरणकलिका // JVms_78

श्रेयःसंभोगं विषयविरतिम् अव्यग्रां मारप्रध्वंसं त्रिभुवनहितसंपत्तिम् दुष्प्रापाहार्यं पदम् अभिलषतां तच् च त्वद्भक्तेर् अन्या वरद न दिग् असंबाधा // JVms_79

भवतः कलां किम् अपि संयतैर् इन्द्रियैः क्व चिद् आदरस्तिमितधीर् यदि ध्यायति अचिरात् स्वयं वरयतीयम् एनं जनं वसुधा ध्रुवं जलधिशक्वरीभूषणा // JVms_80

स्वेदपूरविलसत्पुलकोच्छ्वसितैस् त्रुटत्कञ्चुकं दधति निर्धुतम् अप्य् अमरस्त्रियः कान्तिकम्रम् इव ते समिताव् अतिशक्वरीबन्धसारम् उरुकम्पम् अनङ्गविजृम्भितम् // JVms_81

अनुपमरमणीया भङ्गिर् अङ्गेषु यस्या हरति रतिम् उदाराशेषरूपान्तरेषु जयति तनुर् अखण्डाखण्डलेष्वासलक्ष्मीविजयपरमधामव्यामरुग्मालिनीयम् // JVms_82

अविकलतालशालिकलकाकलीकलव्यतिकरवल्लकीवलितचारुपञ्चमा भणति मुदा प्रतीष्टजिनभार भारती स्वमहिमकामिनी तव सभासु मद्रकम् // JVms_83

जयति नाथ जगज्जयकुञ्जरनिश्चलीकरणशृङ्खलजालनिभाङ्गदभूषितः भुजतरुस् तव दुर्गतिमार्गमहार्गलः प्रमदमन्मथनिर्मथनः सुगतप्रियः // JVms_84

भवशिरसि महितगुणमहिमभुवं व्यपगतसकलमलशुचिम् अधिपते तव वरविजयसमुपचितयशसः श्रियम् अनुहरति हि शरदि शशिकला // JVms_85

पटुपरिमलमिलितमधुकरयुवभ्रमसहशितिसुगतसमुचितसुखा विलसति तव शिरसि रसलयवती स्रग् इयम् अमरपतियुवतिविरचिता // JVms_86

न यतिपदम् अयसि यद् अतिदयधियः प्रथयसि जगति च परहितकृतिनः जनयति हिमचयरुचिर् इति भवतो वियद् उपहतनिजमणि गुणनिकरः // JVms_87

अतिरतिकरकथ कथम् इव समियाद् अविरतनवनवनव तव परमैः गुणगणपरिमितिम् उदधिषु यतिभिः सुयतिभिर् अगणितगुण मणिनिकरः // JVms_88

जयति तव तनुर् इयम् उरुतरकरुण निखिलजगदुचितपरिभुगवनिर् इव शिशुमतिकलितसकलजनबहुविधविमतिलडितविधिभिर् अचलध्र्तिर् इह // JVms_89

प्रति जडधियम् इह समधिकगुरुदय मृदुमतिर् अपि तव शुभमयसमुदय करतलविनिहितकुवलय कलयति जिनकुलकुवलयम् अविषमभरम् इति // JVms_90

व्योमविकीर्णकिर्तिमदपरिमलकलनाभङ्गुरतुङ्गवादिमदकलकरिनिकरं विश्ववनोदरे ऽत्र रवयतिजितजलदं नाथ दधास्य् उदारम् ऋषभगजविलसितम् // JVms_91

कस् त्वयि बद्धवर्मणि जगद्धितधानधिया निर्विहतप्रतिज्ञ परितापकणः क्व चन मारवधूजनस्य कमनीयकपोलतले यन् नवपत्त्रभङ्गरचनालस एव करः // JVms_92

निरुपमरम्यरूप जिनजातदृश्वनो ऽष्टौ मदयति ते ऽधिकं विधुतशोक लोकपालान् सदुपधिपुण्डरीकनखराजिराजितेयं विरचितपञ्चचीररुचिरा कुमारलीला // JVms_93

गुणानाम् अत्यष्टिः कथम् इह ममेवास्तु जगताम् इति च्छन्दः स्वैरं परिणतिम् अवापत् तव तथा यथा त्वय्य् एवास्मिन् परमरसभेदप्रणयनी समुद्भूता भूतिर् निखिलसुखशाखाशिखरिणी // JVms_94

जयत्य् अमरमन्दिरोपलविशालरक्षःस्थलः स्थलीकमलकाननप्रतिमपादकन्दप्रभः प्रभाकरशताधिकप्रकटतेजसालङ्कृतः कृतान्तमदमर्दनस् त्रिभवनाथपृथ्वीधरः // JVms_95

विमोहबहलान्धकारपटलावनद्धैर् मुधा रसातलगुहातिशायिभवसंकटेषु स्थितम् त्वदङ्घ्रिकमलाश्रयोत्सवसुखं न चेद् आदृतं चिरस्य जिनवंशभास्कर कुमार मारैर् जितम् // JVms_96

कल्पशतोपपादितमहाफलम् इव विहितं चञ्चलम् एतद् आयुर् अधिप त्वदवनतिपरैः भूषणभव्यभावगमितं श्रितगुरुकरुणादिग्यतिवंश पत्त्रपतितं कम् इव जलरुहः // JVms_97

तव गुणविस्तरप्रणयपूतवचोविभवं वरद स एक एव सुमुखो मुखम् आवहति मधुमयसामधाम यजुषा सजुषानुगतं श्रवणसुधाभिमानभवनर्क्कुटकं च विधिः // JVms_98

त्रिभुवनसंमदप्रदजिनव्यवसायमधौ स्फुटसहकारतामहितम् ईहितम् एति तव प्रवचनमञ्जरीस्रुतशमामृतपानमुदाभृत यतिषट्पदं कलकणत्कृतिकोकिलकम् // JVms_99

क्व चिद् अपि भवद्भीत्या भूरिप्रवादिमदद्विपोद्दलन सुगतस्वान्तक्ष्माभृद्गभीरगुहागृह त्रिभवनवनाधीश क्रीडारसार्णवसंयता द्रवति हरिणीवारं मारप्रचण्डमहाचमूः // JVms_100

दुर्दान्तानां दमनविधये क्वापि कारुण्यवेगात् धत्से मूर्तिं चरणशिखया ख्यातविक्रान्त यस्याः त्रैलोकीयं श्रुतरसभिदाक्रन्दनादैकवृत्तिर् मन्दाक्रन्ता व्रजति विलयं नाथ न स्वास्थ्यम् आशु // JVms_101

शोभासंपत्तिः शिरसि गुरुणैकेन सैवोपजाता या स्यात् कल्पद्रोः शुभफलनिभं बिभ्रतो भद्रकुम्भम् [व्या]ख्यानप्रेङ्खत्करकररुहोद्भासिनी भाति भर्तुर् दोर्वल्ली चेयं कुसुमितलता वेल्लितेवानिलेन // JVms_102

वृत्तम् एतद् अशेषबुद्धकुलाकलन्ककलानिधेर् आहितं हृदि चेन् महाजडहारहारितवान् असि जिह्वया प्रणयीति चेद् घनसारसारमदेन किं कर्णपूरम् अकारि चेत् [खलु] खण्डितं मणिकुण्डलम् // JVms_103

उपचितपुण्यसंचय शचीकरतलसुखदैः परिचरणैर् अतृप्तिगम् इव स्वम् असममहिम[न्] मणिमयपादपीठफलकं स्फुटयति भवतः कलिततमालपत्त्रम् अलिकान् नमति शतधृतौ // JVms_104

परार्थे स्थास्नूनाम् अतिधृतिमताम् ईश विश्वानुकम्पामुखोन्मीलन्नानारसरसपद् आकर्णयावेदयामि दशां ताम् आधेहि क्षणम् अपि गुरो पावनीं पावनानां समन्तध्वान्तानि प्रहरसि यया मे ऽघविस्फूर्जिताम् // JVms_105

पायाद् वो वरबुद्धवंशजलधेर् वृद्धौ सुधादीधितिर् मञ्जुश्रीः परिभूतमन्मथकथः प्रज्ञाङ्गनासंगमे भीमभ्रान्तिविभावरीपरिभवे बिभ्रद् यतिं भास्वतो विश्वक्लेशकुरङ्गसङ्गरविधौ शार्दूलविक्रीडितम् // JVms_106

अन्तस्त्रासाङ्कुराभोत्पलिततनुरुहैस् त्रैलोक्यविजयावस्थां ते वीक्ष्य भग्नं सुरमुनिविसरैर् उग्रग्रहनुदः कारुण्याद् उद्यतस्याप्य् अमलतरशरज्ज्योत्स्नापरिकराद् इन्दोर् बिम्बाद् अनर्घस्मितवसुवदनाशेषप्रियकृतौ // JVms_107

भयभग्नैर् अतिदूरतो विरहिणां पत्त्रैः श्रयायायताम् अमराणां गुरुभक्तिनिर्भरमनोव्यक्तौ सहायोपमम् गगनामेयरयं युगान्तजलदध्वानाधिकक्ष्वेदितं परितः खण्डितमारम् अस्तु जगतस् त्वत्सिंहविक्रीडितम् // JVms_108

व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियातदुःसहार्तिविक्लवाप्रमेयसत्त्वधात्वधीनसत्कृपाढ्य संसृतौ च निर्वृतौ च शश्वदप्रतिष्ठवादिनां वरिष्ठ वृत्तम् ईदृशं तु नामतो ऽपि नापरस्य सिद्धिम् अभ्युपेति // JVms_109

तीव्रतापविद्रुतायसच्छटासदृक्कटाक्षसंयमक्षणाधीनविश्वसंचयैश् चतुर्दिगीश्वरैः प्रकृत्युदञ्चितात्मभिः स्फारविभ्रमप्रपञ्चपञ्चपञ्चबाणजिष्णुभिर् दशात्मना सुन्दरीजनेन चातनोषि काम् अपि प्रकामविस्मयां श्रियम् // JVms_110

उत्कीर्णोन्निद्रकुन्दप्रकरम् इव दृशां चारुभङ्गैस् त्रिभागैः स्वेदस्रस्ताङ्गरागस्नपितम् इव मुहुः कान्तकान्तिच्छटाभिः व्याप्तं व्योम त्वदर्चारुचिभिर् अभिहताविद्य विद्याधरीभिः सौरभ्याकृष्टहृष्टक्वणदलिपटलोल्लासितस्रग्धराभिः // JVms_111

आकृतिजन्मवृत्तविभवक्रमातिशयसंपदः सुखम् इयाद् ईश दिगन्तगीतम् अमलं यशश् च शरदिन्दुसुन्दरतरम् गायति यस् तवाह्वयमयं सदैव भगवन् भवाध्वगजनो नूनम् अगम्यगौरव गिरां गुरो गुणसमुद्र मद्रकम् इदम् // JVms_112

मध्वासारस्नातोद्भ्रान्तप्रबलमदमुक्खरमधुकरनिकरं प्रीतेर् एकं लीलावासं विदितबलम् अपि मुनिहृदयविकृतः वागीशान त्वय्य् एकान्तं वसुविषयविरतिसमुपचितबलिः संभोगश्रीमत्ताक्रीडं वरद दिवि नियतम् अनुभवति // JVms_113

मदगुरुगण्डगर्जितजितोन्नताम्बुदगजेन्द्रवृन्दमलिनं निशितसमस्तशस्त्रकिरणप्रभाम्बरपिनद्धपत्तिनिवहम् प्रवररथाधिरूढसुभटं बलं बलनिधे त्वदेकशरणं श्रयति नरं मनोहरयतिप्रवेशवशगोत्तमाश्वललितम् // JVms_114

प्रीतिनिवासं कृतिभुवि विदितोदारवरप्रदवरिवसनं त्वां यः स्मरतीश प्रतिहतविमतिः संततम् अन्तिमपदम् उदितेषु यौवनलीलासचिवसमुदयत्पञ्चमकस्वरयतिरमणीया स्याद् इह तन्वी हिमकरवदना तद्वशगा सह नरपतिलक्ष्म्या // JVms_115

विश्वहितैकासङ्गसहान्तःकरणकरण वसुपदम् इव परमां यो ऽधिप गृह्णातीह तवाख्यां तम् अभि कृतिवसतिर् अपि भुवि सरसी सिध्यति मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसरित् सारसहंसक्रौञ्चपदाङ्कोत्कनककमलवनरणदलिपटला // JVms_116

ध्वान्तध्वंसिन् माराराते हतवृजिन जिनतनयभूविभूषणम् उत्कृतौ प्रौढोन्मीलल्लावण्यश्रीः स्थितिजनक गिरि भवभिदाम् उदारपराक्रम त्वय्य् आरब्धो वन्ध्याराधो विधुरयति वरद सुधियां विराजतया स्फुरन् भोगासक्तो ऽपीह स्वैरं विषमतमविषयतनुभृद्भुजङ्गविजृम्भि तम् // JVms_117

तन्वत् सुस्फुटम् अविरतम् अमितम् अमृतरसकणम् इव परितो ऽङ्गेषु प्रत्यालोचनसमुदयि नवरसरसपदम् असदृशम् अतुलश्रीकम् यत् कृच्छ्रैर् अपि न सुलभम् अपरविविधसुकृतविधिभिर् अभियुक्तात्मा त्वत्सेवातरुफलम् इह समनुभवति तद् अखिलविपदपवाहाख्यम् // JVms_118

चपलचरणपीडितागाधिपोपेतपातालतालूच्छलद्व्यालपलस्तुतं जयति जयति चारुकारुण्यकेलिस्फुरत्पद्मनर्तेश्वराकारलीलायितम् अनिभृतभुजदण्डषण्डप्रचण्डानिलोल्लासितः श्रान्तिशान्तिं तनोतीव ते प्रलयसमयशङ्कया यत्र लोकत्रयीदण्डकश् चण्डवृष्टिप्रयातो ऽम्बुदः // JVms_119

प्रतिपदम् इह जातशुद्धेः समाधेस् त्रयस्याक्षरस्याभिसंवर्धनाद् अन्त्यरूपस्पृशः समधिगमवशाज् जयत्य् आर्यवर्यैः प्रभूतप्रमोदैः प्रगीतः प्रभाप्रकर्षस् तव वरद यदनुमोदनावादसाराविणातृप्तचित्तैः सुरैर् वाद्यमाना न यान्तिश्रमं अपरिमपरमोपकारोत्तमर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः // JVms_120

प्रविकचकनकपङ्केजसौभाग्यभागङ्ग दत्तेनभावाश्रितेभ्यस् तमःसु त्रिभुवनशमविधानाय निर्वाणनीवृत् तमालाकृताव् आत्तभक्ते भवारौ दशबलतनयवर्गाग्रिमेण त्वया नाथ निर्माथिदुःखापहेन स्तुतेन प्रचित इति शुभराशिर् महान् यस् ततः स्ताज् जनौघे समृद्धिः समग्रे ऽपि सैव // JVms_121

अहम् अपि तव पादपद्माभिसंराधनाधीनधीसंनिरुद्धान्तरध्वान्तजातः समधिगतसमस्तवस्तूत्करव्यापिनैसर्गिकस्वप्नमायामयाद्वैततत्त्वः अकरुणकरुणाबलावार्यवीर्योदयारब्धनानाविधव्यापृतिव्यस्तमारस् त्रिजगति परमोपकारैककृत्यप्रवृत्तश् चरेयं जनो यावद् एको ऽप्य् अमुक्तः // JVms_122

स्फारफुल्लस्थलाम्भोजनिर्भासभृट्पादपीठान्तविश्रान्तकान्तामरव्यालदैत्येन्द्रचूलोपलार्चिश्चयो दुःसहोद्दामदुःखानलग्रस्तपर्यस्तशक्तित्रिलोकीविशोकीक्रियानिर्विरामश्रमाश्चर्यचर्यानिधिः शुद्धसंबुद्धवंशावतंसप्रकाशस्फुरत्कीर्तिकिर्णान्तरालप्रसारः कुमारो जयत्य् एष वागीश्वरः सर्वदुर्वारमारप्रवीरध्वजिन्युद्धवध्वंसबद्धाभिरामा समप्रौढिनिर्व्यूढगाढप्रतापोदयः // JVms_123

प्रौढवरवज्रवनिताङ्गपरिरम्भविलसत्पुलकजालकजगज्जयतनुत्रं सान्द्रसवसास्रमधुपानमदमुक्तविकटाट्टहसितत्रसदशेषसुरदैत्यम् गाढविनिगूढदयविस्मयमयाप्रतिमरौद्रतनुम् अद्वयमहार्णवनिमग्नं शुद्धगुणधाम करुणाबलम् उदारनवनाट्यरसवल्ललितवृत्तम् अभिवन्दे // JVms_124

इति दुष्करप्रभेदवृत्त)मालास्तुतिविवृतौ समवृत्तानि ॥ ॥

इदम् अर्धम् अबालशशिप्रभं बालरविप्रभम् आदधद् अर्धम् करुणावशवर्ति भवद्वपुः कस्य मनो न करोत्य् उपचित्रम् // JVms_125

तत्त्वसुधारसतृप्तिविशेषात् सकलसमीहितसिद्धिवशाद् वा त्वच्चरणानुभुवा भवितव्यं भवमथनश्रुत न द्रुतम् अध्या // JVms_126

किम् उशन्ति बुधा अधिकं विभो यदि जनीय तदीयतनुर् भवेत् तव दृष्टिसुधारसधारया स्फुरितहाररुचा हरिणप्लुता // JVms_127

इयम् उरुकरुणारसा मुखश्रीः समधिगता निजधीश्रियो रसेन स्फुरदधरदलाभिहारिहेमाम्बुजकलिकेव विभाति पुष्पिताग्रा // JVms_128

मुखम् इदम् अपरं तवोत्पलप्रकररुचाम् इव भाति संचयः समुदितम् इव कैरवश्रिया हरति मनो ऽपरवक्त्रम् इव // JVms_129

इदम् अर्धसमं समीक्ष्यते ते बत वृत्तं जयिनो जगत्त्रयस्य क्व चिद् अर्थविधौ विधूतविश्वा शिशुलीला ललितापि यत् तवेयम् // JVms_130

पदम् एकम् अवेक्ष्य ते क्षणं प्रसभाक्रान्त जगत्त्रयीशिखम् कथम् अस्तु न विश्वभारती निजदासीव तव प्रियंवदा // JVms_131

स्वरसोपनतां शमशय्यां किं नु विधूय धियो ऽप्य् अतिदुर्गैः अतिचित्रचरित्रशतैस् ते वेगवती करुणा यदि न स्यात् // JVms_132

सर्वातिशयस्य धाम धाम्नः सर्वाङ्गीणसुलक्ष्यलक्षणश्रीः लोकस्य गतापि हि स्मृतिं ते भद्रं भद्रविराट् तनुस् तनोति // JVms_133

परितः स्फुरद्भिर् अभिरामैर् अंशुमयैः परार्थपरमार्थैः पविपद्मखड्गमणिचक्रैः केतुमती विभाति तव मूर्तिः // JVms_134

चैत्तमात्रभावभाजि भाव्यते क्व परा परार्थसंपद् ईदृशी दयायाम् सेयम् एतदाकृतिच्छलाद् अतो ऽवयवध्वनेर् मतुप्स्त्रिया समाभिधाना // JVms_135

उदयदरुणकिरणनिकरपरिकरकनकमयविमलहिमकरजयनी जयति निखिलजगदभिरतिकृतिपटुर् अतिभव तव तनुर् इयम् अतिरुचिरा // JVms_136

त्रिभुवनदुरधिगमचरणपरिचरणगुरुविभवभगवदसितसुगतप्रतिकृतिसचिवविमलमणिनिचयखचितसुपरिघटनगुणवसतिः जिननयगदनरवलयलवसमनुकृतिरसिकनिभसुरभिसुरसुमनःपरिमलमिलदलिकुलकणितनिधिर् अधिगमजलद जयति तव शिखा // JVms_137

समुदयदिशि समुपनतरुचिषु विविधसमुदयकरणम् अभिदधती प्रशमसुखरसरसिकमतिषु निरुपमशमसुखपथकथनपृथुनिरतिः अपरिमितसुकृतफलम् अधिप तव जयति सकलजिननयनयनगीर् ऋजुमतिषु नियतम् ऋजुर् अमृतकुट कुटिलमतिषु निरतिशयकुटिलपदा // JVms_138

आख्यानिकेयं भवतो गुणानाम् इति स्तुवंस् त्वाम् अभिमन्यते यः नूणं स गण्डूषजलोपयोगान् मया निपीतो ऽम्बुधिर् इत्य् अवेति // JVms_139

अपि त्व् अशेषस्मरवैरिणाम् अप्य् आख्येयताख्यातिम् अनाश्रितेषु गुणेषु ते नाथ वृथाभिमानस्यआख्यानिकासौ विपरीतपूर्वा // JVms_140

॥ इति दुष्करप्रभेदवृत्तमालाविवृतन् अर्धसमवृत्तानि ॥

अष्टाभिर् अक्षरैः पादो ऽसोढस् तद्गाढमज्जनाद् अनुवृद्धैः गुणसागर सागरैर् अपूरिताङ्गुरीगर्तो विषमं दशान्तरे दया पदचतुरूर्ध्वं नयति भावम् // JVms_141

इति निगदितजातौ कृतविषमचरणरचनायाम् लघुगुरुनियतिभृति भयम् अयति को न भवसि न यदि नियतम् अभिविधिवचनम् अनु पीडः // JVms_142

सुचिरनिहितहितमतिकन्दाङ्कुर इव तव भाति विषमजनदमनघटितविकटमूर्तेस् त्रिपुरहरमुकुटमणिसदृशदशनकलिकेयम् // JVms_143

प्रसरदुरुदहनघनघोरच्छटम् इव गगनतलम् अनवधि दधाना प्रसभम् अभिमुखं ते प्रशमयति शमनम् अपि नयनवलनलवलीला // JVms_144

मृदुजनम् अनु पुनर् इयम् एव प्रशमितसकलकटुकलुषविषराशिः प्रतिमुहुर् अभिनवम् अतुलसुखनिधिम् उपनयन्ती नियतम् अमृतधार // JVms_145

पदचतुरूर्ध्वप्रभेदाः ॥ ॥

तडितोज्ज्वलं जलदराशिम् अनिशम् उदभारबन्धुरम् घोरघनरसितम् ईश तनुः कृपया कुतो ऽपि जयतीयम् उद्गता // JVms_146

अत एव दुष्करतराणि विलसितशतानि तन्वतः ह्लादयत्य् अखिललोकम् इदं पटुकीर्तिसौरभकम् अद्भुतं तव // JVms_147

भृकुटीकटाक्षदशनेषु किम् अपि विकृतानि बिभ्रतः दमयति तव भुवनानि वपुर् ललितं च किं तु विकटं यद् ईदृशम् // JVms_148

॥ उद्गताभेदाः ॥ ॥

प्राग्भारातिशये ऽपि तादृशे ऽद्भुतभीमे भुवनाहितहतये समं समन्तात् मरुद् अनतिशयरयः प्रचुपितम् अपि तव न समेति सलीलम् // JVms_149

किं भूयो भगवन् भवन्तम् अश्रयम् आप्तः स्थितभारम् अतुलम् आर्षभं दधानम् तच् छुद्धविराड्विशेषणम् ह्य् अपरविषमशिरसि पदं विनिधत्ते // JVms_150

आराध्येति भवन्तम् आश्रयैकसमृद्ध्या कुशलं यद् अमलम् अस्ति वर्धमानम् तत् इदम् अखिलम् उदञ्चतु भुवनम् उरुपदं त्वदभिमतम् अतिविविधवृत्तविशेषैः // JVms_151

अपि च प्रचयेन भूयसा कुशलस्यास्य निकमनिर्मलस्य विगलतु सकलस्य देहिनो भवरजनीप्रभवान्धकारराशिः // JVms_152

॥ सर्वविषमाणि ॥

किं च प्रौढप्रज्ञाप्रेयस्यलिङ्गेनानङ्गक्रीडम् उडुपतिरुचिरनिचयमयम् इव वपुर् अनतिशयकरुणम् इह वहद् अनुभवतु // JVms_153

॥ अर्धविषमम् ॥

विचित्रवृत्तैर् इति वर्णनेन यद् आचितं चन्द्रकरामलं शुभम् ततो ऽस्तु लोकः परिमुक्तशोकः स्फुरन्महासौख्यशिखासखीवरः // JVms_154

॥ पादविषमम् ॥

॥ आर्यमञ्जुघोषस्य दुष्करप्रभेदा वृत्तमालास्तुतिः समाप्त ॥

॥ कृतिर् इयं महापण्डितस्थविरज्ञानश्रीमित्रस्य ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.