Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
मञ्जुश्रीमूलकल्प
- Thông tin
- GRETIL — M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत्र मण्डलाचार्येण कृतपुरश्चरणेन स्वतन्त्रमन्त्रकुशलेन उपायसत्त्वार्थमहायानाधिमुक्तेन एकरात्रोषितेन सुसखायसमेतेन विधिशास्त्रदृष्टेन कर्मणा पञ्चरङ्गिकेन चूर्णेन श्लक्ष्णोज्ज्वलेन सुपरिकर्मकृतेन षड्क्षराभिमन्त्रिते हृदयेनाभिमन्त्यं तं चूर्णं मण्डलमध्ये स्थापयेत् / बहिश्चोच्छ्रितध्वजपताकतोरणे चतुष्पथालङ्कृतं कदलीस्तस्भरोपितफलभरितपिण्डीभिः प्रलम्बमानमाहतभेरीमृदङ्गशङ्खतन्त्रीनिर्घोषनिनादितं पृथिवीप्रदेशं कुर्यात् / प्रशस्तशब्दधर्मश्रवणचतुप्पर्षानुकूलमहायानसूत्रां चतुर्दिक्षु पुस्तकां वाचयन् / तद्यथा - भगवती प्रज्ञापारमिता दक्षिणां दिशि वाचयेत् / आर्यचन्द्रप्रदीपसमाधिः पश्चिमायां दिशि / आर्यगण्डव्यूह उत्तरायां दिशि / आर्यसुवर्णप्रभासोत्तमसूत्रं पूर्वायां दिशि / एवमधीतचतुःसूत्रान्तिकं पुद्गलां धर्मभाणकं पुस्तकाभावाद्द्ध्येषयेत् / धर्मश्रवणाय ततो मण्डलाचार्येणोत्थाय चन्दनकर्पूरकुङ्कुमव्यामिश्रकेण श्वेतसुगन्धपुष्पैः मूलमन्त्रं जपता सर्वतस्तं मण्डलमभिकिरेत् / अभिकीर्य च बहिर्निर्गच्छेत् / सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तं उपोषध उपवासोचितां चित्रकरा निपुणतरां प्रवेशयेत् / मूलमन्त्रेणैव शिखावन्धं कृत्वा, ततः सुवर्णरूप्यविविधरत्नपञ्चविचित्रोज्ज्वलचारुसूक्ष्मचूर्णताम्ब्रां प्रतिगृह्य, महाभोगैः सत्त्वैः महाराजानैश्च धार्मिकैः लिखापनीयम् / बोधिपरायणीयं बोधिपरायणं नियतं //
मण्डलं दर्शनादेवं किं पुनर्मन्त्रसाधने / सत्त्वानामल्पपुण्यानां निर्वृते शाक्यपुङ्गवे // mmk_2.50 //
कुत एवंविधा भोगा विधिरेषा तु कल्प्यते / दरिद्रजनतां दृष्ट्वा मञ्जुघोषो महाद्युतिः // mmk_2.51 //
उदीरयेत् कल्पसंक्षेपं मण्डलं तु समासतः / शालितण्डुलचूर्णैस्तु सूक्ष्मैः पञ्चरङ्गोज्ज्वलैः / शुक्लपीतरक्तकृष्णहरितवर्णैर्वर्णयेत् // mmk_2.52 //
पूर्वस्थापितकं चूर्णं मण्डलाचार्येण स्वयं गृह्य, महामुद्रां पञ्चशिखां बध्वा मूलमन्त्रं जपता तं चूर्णं मुद्रयेत् / अपरेण तु साधकाचार्येण मण्डलबहिर्दक्षिणपूर्वायां दिशि विधिदृष्टेन कर्मणा अग्निकुण्डं कारयेत् / द्विहस्तप्रमाणं हस्तमात्रनिम्नं समन्तात् पद्मपुष्कराकारं बहिः पद्मपुष्कराकारा पलाशकाष्ठसमिद्भिः अग्निं प्रज्वाल्य श्रीफलकाष्ठसमिधानां वितस्तिमात्रप्रमाणानां साद्रां दधिमधुघृताक्ता मूलमन्त्रं षडक्षरहृदयेन वा मुद्रामुष्टिं बध्वा आह्वयेत् / आहूय च पूर्वोक्तैनैव एकाक्षरमूलमन्त्रहृदयेन भूयो अष्टशतं जुहुयात् //
ततो मण्डलाचार्येण बद्धोष्णीषकृतपरिकरः आत्मना चित्रकरांश्च निपुणतरानात्मना कारयेत् / ततो मण्डलाचार्येण बुद्धबोधिसत्त्वां मनसि कुर्वता पूर्वोक्तेनैव धूपमन्त्रेण धूपं दैता अञ्जलिं कृत्वा सर्वबुद्धबोधिसत्त्वां प्रणम्य, मञ्जुश्रियं कुमारभूतं नमस्कृत्य चूर्णं गृहीत्वा, आकारयेत् / रूपं चित्रकरैश्च पूरयितव्यम् / एतेन विधिना प्रथमत एव बुद्धं भगवन्तं शाक्यमुनिं सर्वाकारवरोपेतं रत्नसिंहासनोपविष्टं शुद्धावासभवनस्थं धर्मं देशयमानमालिखेत् / लिखितश्च मण्डलाचार्यस्यानुसाधकेन आत्मरक्षाविधानं मूलमन्त्रेण कृत्वा सर्वभूतिका बलिर्देया चतुर्दिक्षुर्ध्वमधः बहिर्मण्डलस्य क्षिपेत् //
ततो स्नात्वा अग्निकुण्डसमीपं गत्वा शुचिवस्त्रप्रावृतेन शुचिना कृता रक्षाविधानेन घृताहुतीनां कुङ्कुममिश्राणामष्टसहस्रं जुहुयान्मूलमन्त्रेण / ततः कुशविण्डकोपविष्टेन जपं कुर्वतः तत्रैव स्थातव्यम् / श्वेतसर्षपाणामष्टाभिमन्त्रितं कृत्वा यमान्तकक्रोधराजेनाभिमन्त्र्य शरावसम्पुटे स्थापयेत् / अनेकाकारविकृतरूपघोरस्वरवातवर्षदुर्दिनमन्यतमान्यतमं वा विघ्नमागतं दृष्ट्वा हुतेन सर्षपाहुतयः सप्त होतव्याः / ततो विघ्नाः प्रणश्यन्ति / मनुष्यविघ्नैर्वा पञ्चाहुतयो होतव्या / स्तम्भिता भवन्ति अशक्तिवन्तः पुरुषा मृयन्ति वा / अमानुष्यैर्वा गृह्णन्ते तत्क्षणादेव न सन्देहोस्ति / कथञ्चन शक्रो ऽपि म्रियते क्षिप्रम् / किं पुनर्दुष्टचेतसा मनुष्याः, इतरे वा विघ्ना यमान्तकक्रोधभया निर्नष्टा विद्रवन्ति इतो इत इति //
ततो ऽनुसाधकेन तत्रैव कुशविण्डकोपविष्टेन यमान्तकक्रोधराजानं जपं कुर्वाण स्थातव्यम् / ततो मण्डलाचार्येण भगवतः शाक्यमुनेः प्रतिमाया दक्षिणे पार्श्वे द्वौ प्रत्येकबुद्धौ पद्मासनोपविष्टौ पर्यङ्केनोपविष्टौ कार्यौ, तयोरधस्ताद् द्वौ महाश्रावकौ धर्मं शृण्वन्तः (वैद्य 28) कार्यौ / तेषामपि दक्षिणतः भगवानार्यावलोकितेश्वरः सर्वालङ्कारविभूषितः शरत्काण्डगौरः पद्मासनोपविष्टः, वामहस्तेन पद्मं गृहीत्वा दक्षिणहस्तेन वरदः / तस्यापि दक्षिणतः भगवती पण्डरवासिनी पद्महस्ता दक्षिणेन हस्तेन भगवन्तं शाक्यमुनिं वन्दमाना पद्मासनोपनिषण्णा जटामकुटधारिणी श्वेतपट्टवस्त्रनिवस्ता पट्टांशुकोत्तरासङ्गिनी कृष्णभस्मतृमुण्डीकृता / एवं तारा, भ्रुकुटी स्वकस्वकासनेर्यायथे सुस्थिता कार्या / उपरिष्टाच्च भगवती तेषां प्रज्ञापारमिता, तथागतलोचना, उष्णीषराजा स्वकार्याः / एवं बोधिसत्त्वाः षोडश कार्याः / तद्यथा - समन्तभद्रः, क्षितिगर्भः, गगनगञ्जः सर्वनीवरणविष्कम्भी, अपायजह मैत्रेयः, चमरव्यग्रहस्तः, बुद्धं भगवन्तं निरीक्षमाणः, विमलगतिः, विमलकेतुः, सुधन, चन्द्रप्रभ, विमलकीर्ति, सर्वव्याधिचिकित्सकः सर्वधर्मीश्वरराजः, लोकगतिः, महामतिः, पतिधरश्चेति / एते षोडश महाबोधिसत्त्वाः प्रसन्नमूर्तयः सर्वालङ्कारभूषिता लेख्याः / प्रधानविद्याराजः, विद्याराज्ञी अब्जकूले रूपकमुद्रा / स च यथास्मरत्तः आगमतश्च यथास्थानेषु वा शेषा लेख्याः / अन्ते च स्थाने चतुरस्राकारं स्थानं स्थापये पद्मपुष्पसंस्कृतम् / येन स्मरिता विद्या देवता ते ऽस्मिन् स्थाने तिष्ठन्त्विति //
एवं दक्षिणे पार्श्वे भगवतः शाक्यमुनेः द्वौ प्रत्येकबुद्धौ गन्धमादनः, उपारिष्टश्चेति / एवं प्राङ्मुखं मण्डलं सर्वतः प्रवेशद्वारं कार्यम् / भगवतः शाक्यमुनेः पार्श्वे अपरौ द्वौ प्रत्येकबुद्धौ चन्दनसिद्धश्चेति आलेख्यौ / तेषामधस्ताद् द्वौ महाश्रावकौ महाकाश्यपमहाकात्यायनश्चालेख्यौ / तेषामपि वामतः आर्यवज्रपाणिकुवलयश्यामाभः प्रसन्नमूर्तिः सर्वालङ्कारभूषितः दक्षिणे चामरव्यग्रहस्तः वामेन क्रोधमूर्तिहस्तः वज्रमुष्टिः वज्राङ्कुशि वज्रशृङ्खला सुबाहु वज्रसेन यथावेषचिन्हस्थानासनसर्वविद्याराज्ञाराज्ञीसपरिवारः रूपमुद्रादिषु यथास्मरणा लेख्याः / तेषामपि वामतः चतुरस्राकारमुभयवज्रमुद्रां लिखेत् / लिख्य च वक्तव्यम्, ये ऽत्र स्थाने न स्मरिता विद्यागणाः, ते ऽत्र स्थानेन स्मरिता विद्यागणाः, ते ऽत्र स्थाने तिष्टन्त्विति //
तेषामुपरिष्टात् वेद्यारमिताः भगवती मामकी आलेख्याः सर्वालङ्कारविभूषिताश्च ताः प्रसन्नमूर्तयः //
तेषामप्युपरिष्टा अष्टौ उष्णीषराजानः समन्तज्वालमालाकुलाः / मुद्रा च स्वकस्वकानि महाराजचक्रवर्तीरूपाणि आलेख्यानि / कनकवर्णसुप्रसन्नेन्द्रियाणि सर्वालङ्कारविभूषितानि / ईषत् तथागतः प्रतिमदृष्टिजातानि / तद्यथा - चक्रवर्ती, उष्णीषः, अभ्युद्गतोष्णीष, सितातपत्र, जयोष्णीष, कमलोष्णीष, तेजोराशि, उन्नतोष्णीष इति //
एते अतः उष्णीषराजानः प्रत्येकबुद्धानां वामतः आलेख्य, द्वारे बुद्धो बोधिसत्त्वो कार्यप्रवेशतदक्षिणतो लोकातिक्रान्तगामी नाम जटामकुटधारी सौम्यमूर्तिः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वामहस्तेन कमण्डलुं द्वाराभिमुखः ईषद्भ्रुकुटीवदनः वामतः प्रवेशे महाबोधिसत्त्व अजितञ्जयो नाम आलेख्यः / प्रसन्नमूर्तिः जटामकुटधारी दण्डकमण्डलुवामकरावसक्तः (वैद्य 29) दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वरप्रदानकरः ईषद्भ्रुकुटिवदनः द्वाराभिमुख आलेख्यः //
सिंहासनस्याधस्ताद् धर्मचक्रः समन्तज्वालमालाकुलः, तस्याप्यधस्तात् रत्नविमानः, तत्रस्थो भगवां महाबोधिसत्त्वः मञ्जुश्रीः कुमारभूतः कुमाररूपी कुङ्कुमगौराकारः प्रसन्नमूर्तिः चारुरूपी ईषित् प्रहसितवदनः वामहस्ते नीलोत्पलावसक्तः दक्षिणहस्तेन श्रीफलावसक्तवरदः सर्वबालालङ्कारभूषितपञ्चचीरकोपशोभितः मुक्तावलीयज्ञोपवीतः पट्टांशुकोत्तरीयः पट्टवस्त्रनिवस्तः समन्तप्रभः समन्तज्वालमालाकुलः पद्मासनोपनिषण्णः यमान्तकक्रोधराजतदृष्टिः मण्डलप्रवेशद्वाराभिमुखः चारुदर्शनो सर्वतः आलेख्यः //
तस्य दक्षिणे पार्श्वे पद्मस्याधस्ताद् यमान्तकः क्रोधराजा आलेख्यः महाविकृतरूपी समन्तज्वालमालाकुलः आज्ञां प्रतीच्छमानः महाबोधिसत्त्वगतदृष्टिः सर्वत आलेख्यः / वामपार्श्वे पद्मस्याधस्ताच्छुद्धावासकायिकाः देवपुत्ररूपिणः बोधिसत्त्वाः पञ्च आलेख्याः / तद्यथा - सुनिर्मलः सुदान्तः, सुशान्तः, संशुद्धः तमोद्घातनः, समन्तावलोकश्चेति / सर्वे च ते शुद्धावासभवनोपनिषण्णः अनेकरत्नोज्वलशिलातलाकारः समन्तज्वालविचित्रपुष्पावकीर्णश्चारुरूपी आलेख्यः //
बहिः समन्ताच्चतुरस्राकारं चतुस्तोरणाकारं चतुर्दिशं विचित्रपञ्चरङ्गोज्ज्वलं सुप्रगुणरेखावनद्धं अभ्यन्तरमण्डलं कार्यम् / पूर्वायां दिशि भगवतः शाक्यमुनेः उपरिष्टाद् रेखाभिः मध्ये सङ्कुसुमितराजेन्द्रः पद्मासनोपनिषण्णः तथागतविग्रहः स्वल्पमात्रः कार्यसमन्तज्वालमालाकुलः वरदप्रदानहस्तः पर्यङ्कोपनिषण्णः //
तस्य दक्षिणतः उष्णीषचक्रवर्त्तिमुद्रा लेख्या / वामतस्तेजोराशिमुद्रा लेख्या / तथागतलोचनाया उपरिष्टात् प्रज्ञापारमितामुद्रा लेख्या / भगवतः आर्यावलोकितेश्वरस्योपरिष्टात् प्रज्ञापारमितामुद्राया दक्षिणतः भगवानमिताभः तथागतविग्रहः कार्यः वरप्रदानहस्तः पद्मासनोपनिषण्णः समन्तज्वालमालाकुलः //
तस्यापि दक्षिणतः पात्रचीवरमुद्रे कार्यौ / एवमनुपूर्वतः प्रवेशस्थाने पद्ममुद्रा कार्याः / भगवता सङ्कुसुमितराजस्य तथागतस्य वा मतो उष्णीषतेजोराशिमुद्रा लेख्या समन्तज्वालमालाकुलाः //
तस्यापि वामतः रत्नकेतुस्तथागतः कार्यः, रत्नपर्वतोपनिषण्णः धर्मं देशयमानः नीलवैडूर्यमरकतपद्मरागविचित्रज्वालार्चिषि निर्गतसमन्तात्समन्तप्रभ आलेख्यः //
तस्यापि वामतः जयोष्णीषमुद्रा समन्तज्वालमालाकुला आलेख्या / तस्यापि वामतः धर्मचक्रमुद्रा आलेख्या समन्तज्वालावती / तस्यापि वामतः खखरककमण्डलुमक्षसूत्रकमण्डलुं भद्रपीठमुद्रा आलेख्या / अनुपूर्वतः द्वारस्थाने वज्रसूच्योभयतः समन्तज्वाल आलेख्यः / भगवतो मञ्जुश्रियस्याधस्तान्महामुद्रा पञ्चशिखा नाम उत्पलमुद्रा वा लेख्या / समन्तज्वालिनौ एतौ अन्यो ऽन्यासक्तं समन्तमण्डलाकारमालेख्यम् / द्वारतः पश्चान्मुखप्रवेशतः (वैद्य 30) प्राङ्मुखश्च कार्यः / सर्वेष्वपि बहिर्मण्डलं भवति पञ्चवर्णरङ्गोज्ज्वलं विचित्रचारुदर्शनं, चतुःकोणविभक्तं, चतुस्तोरणाकारं चतुर्दिशं द्विहस्तमात्राभ्यन्तरमण्डलतो बहिरालेख्यम् / पूर्वस्यां दिशि महाब्रह्मा चतुर्मुखः शुक्लवस्त्रनिवस्तः श्वेतस्त्रोत्तरासङ्गिनः श्वेतयज्ञोपवीतः कनकवर्णः जटामकुटधारी दण्डकमण्डलुं वामावसक्तपाणिः //
तस्य दक्षिणतः आभास्वरो देवपुत्रः कार्यः कनकवर्णः ध्यानान्तरगतमूर्त्तिः पट्टवस्त्रनिवस्तः पट्टांशुकोत्तरीयः सुप्रसन्नवदनः जटामकुटधारी श्वेतयज्ञोपवीतः पर्यङ्कोपनिषण्णः दक्षिणहस्तेन वरदः //
तस्य दक्षिणत अकनिष्ठो देवपुत्रः कार्यः सर्वालङ्कारभूषितः प्रसन्नमूर्त्तिः ध्यानगतचेतसः पट्टवस्त्रनिवसननिवस्तः पट्टांशुकोत्तरीयः //
तस्य दक्षिणतः पर्यङ्कोपविष्टः दक्षिणहस्तेन वरदः श्वेतयज्ञोप वीतः //
एवमनुपूर्वतः, सन्तुषितः सुनिर्मितः, परनिर्मितः, सुयामशक्रप्रभृतयो देवपुत्रा आलेख्या यथानुपूर्वतः यथावेषसंस्कृताः //
शक्रस्याधस्ताच्चतुर्महाराजकायिकाः सदामत्ताः मालाधारिणो करोटपाणयः वीणाद्वितीयका लेख्याः / भौमाश्च देवपुत्रा यथानुपूर्वतः यथावेषेनालेख्याः //
एवं दक्षिणायां दिशि अवृह अनय सुदृश सुदर्शनं परीत्ताभ पुण्यप्रसवप्रभृतयो देवपुत्रा आलेख्या यथावेषस्थानाः //
एवं पश्चिमायां दिशि चोत्तरायां दिशि तेषामधस्ताद् द्विपङ्क्त्याश्रिता आलेख्याः / द्वितीयमण्डलाद् बहिस्तृतीयमण्डलं भवति / चतुर्दिशं चत्वारो महाराजानः अनुपूर्वत आलेख्याः //
उत्तरायां दिशि प्रविशतो दक्षिणः धनदः, निधिसमीपस्थः सर्वालङ्कारभूषितः ईषद्भग्नकिरीट यक्षरूपी / तस्य दक्षिणतः मणिभद्रपूर्णभद्रौ यक्षसेनापती आलेख्यौ //
एवमनुपूर्वतः हारीती महायक्षिणी आलेख्या / प्रियङ्करः कुमार उत्सङ्गोपविष्टो मण्डलं निरीक्षमाणः आलेख्याः / पञ्चिकः पिङ्गलः भीषणश्च आलेख्यः //
तेषां च समीपे यक्षाणां मुद्रा आलेख्याः / एवमनुपूर्वतः वरुणो पाशहस्त पश्चिमायां दिशि आलेख्यः / नागौ नन्दोपनन्दौ तक्षकवासुकिप्रभृतयो ऽष्टौ महानागराजानः आलेख्याः //
एवं द्विपङ्क्त्याश्रिताः अनुपूर्वतः यक्षराक्षसकिन्नरमहोरगऋषयः सिद्धप्रेतपिशाचगरुडकिन्नरमनुष्या मनुष्याद्या ओषधयश्च मणिरत्नविशेषाः पर्वताः सरितः द्वीपाश्च अनुपूर्वतः सर्वे प्रधाना लेख्याः /
दक्षिणायां दिशि यम आलेख्यः सपरिवारः / मातराः सप्त पूर्वदक्षिणस्यां दिशि / अग्निः समन्तज्वालमालाकुलः दण्डकमण्डलुअक्षसूत्रव्यग्रपाणिः जटामकुटधारी श्वेतवस्त्रनिवस्तः पट्टांशुकोत्तरासङ्गिकः श्वेतयज्ञोपवीत कनकवर्णः भस्मत्रिपुण्डरीकृतः //
एवं नानाकरणप्रहरणवेषसंस्थानवर्णतत्त्वद्विपङ्क्ति आश्रिता आलेख्याः / सर्वतः प्रविशतो बहिर्मण्डले उमापतिर्वृषवाहनास्त्रिशूलपाणिः, उमा च देवी कनकवर्णा सर्वालङ्कारभूषिता, कार्तिकेयश्च मयूरासनः शक्त्युद्यतहस्तः कुमाररूपी षण्मुखः रक्ताभासमूर्तिः पीतवस्त्राअनिवस्तः / पीतवस्त्रोत्तरासङ्गः वामहस्तेन घण्टां गृहीत्वा रक्तपताकां च अनुपूर्वतः भृङ्गिरिटि अत्यन्तकृशाकारः महागणपतिनन्दिकेश्वरमहाकालौ मातराः सप्त यथाभरणप्रहरणवेषसंस्थानाभिलेख्याः / अष्टौ वसवः, सप्त ऋषयः, विष्णुश्चक्रपाणिश्चतुर्भुजो गदाशङ्खासिहस्तो गरुडासनः सर्वालङ्कारभूषितश्च / अष्टौ ग्रहाः, सप्तविंशतिनक्षत्राः, येषु चरन्ति भुवि मण्डले उपग्रहाश्चाष्टा देवा लेख्याः अनुपूर्वशः पञ्चदश तिथयः सितकृष्णा, द्वादश राशयो षट् ऋतवो, द्वादश मासाः संवत्सरश्च / चतुर्भगिन्यः नावाभिरूढाः भ्रातृपञ्चमाः सलिलवासिनश्चेति संक्षेपतो मुद्रासु व्यवस्थाप्या हि देवता अनुपूर्वतश्च द्विपङ्क्त्या श्रिताश्च कार्या संक्षेपतो मण्डलत्रये पितृमण्डलाश्रयः / अभिलेख्यः चतुरस्रश्च / त्रिमण्डलेष्वपि व्यवस्था सैषा भवति / संक्षेपतः बुद्धो भगवान् सर्वसत्त्वानामग्र अवश्यमभिलेख्यः / अब्जकुले आर्यावलोकितेश्वरो दक्षिणतः अवश्यमभिलेख्यः / वामत वज्रकुले वज्रपाणिरवश्यमभिलेख्यः / बोधिसत्त्वानामग्र आर्यसमन्तभद्रो ऽवश्यमभिलेख्यः / मञ्जुश्रीः कुमारभूतो ऽवश्यमभिलेख्यः / सैषा मुद्रासु यथाव्यवस्थायामभिलेख्याः / एतदभ्यन्तरमण्डलं मध्यमण्डले ऽपि ब्रह्मा सहाम्पतिः पूर्वायां दिश्यवश्यमभिलिखितव्यः / एवमाभास्वरो दक्षिणायां दिशि, अकनिष्ठ अरूपिनश्च देवा मण्डलाकारा अव्यक्ताः नैव संज्ञानासंज्ञायतना देवाः, उत्तरायां दिशि शक्रो देवराजा सयामः सन्तुषितः सुनिर्मितः परनिर्मितः परीत्ताभप्रभृतयो देवपुत्रा अवश्यमेकैकः देवराजो ऽभिलिखितव्यः / सैषा मुद्रासु व्यवस्थाप्याः //
एवं तृतीयमण्डले ऽपि उत्तरायां दिशि ईशानो भूताधिपतिः सहोमयावश्यमभिलिखितव्यः / द्वितीयद्वारसमीपे कार्त्तिकेयमञ्जुश्रीः मयूरासनः शक्तिपाणिः रक्तावभासमूर्त्तिः पीतवस्त्रनिवस्तोत्तरासङ्गिनः दक्षिणहस्ते घण्टापताकावसक्तः कुमाररूपी मण्डलं निरीक्षमाणः / पूर्वायां दिशि वैनतेयः पक्षिरूपी / ऋषिर्मार्कण्डः अवश्यमभिलिखितव्यः / सैषा मुद्रासु च व्यवस्थाप्याः //
दक्षिणपूर्वतः चतुःकुमार्याः कुमारभ्रातृउसहिता नौयानसंस्थिता महोदधेः परिभ्रमन्त्यः / अग्निश्च देवराट् अवश्यलिखितव्यः / एवं दक्षिणस्यां दिशि लङ्कापुरी विभीषणश्च राक्षसाधिपतिः, तत्रस्थितः पिचुमन्दवृक्षाश्रितः जम्भलजलेन्द्रनामा यक्षरूपी बोधिसत्त्वो ऽवश्यमभिलिखितव्यः //
एवमनुपूर्वतो यमो राजो प्रेतमहर्द्धिको ऽवश्यमभिलिखितव्यः / एवं पिशाचराजा विकरालो नामावश्यमभिलिखितव्यः / सैषा मुद्रासु व्यवस्थाप्या //
एवं दक्षिणपश्चिमायां दिशि नन्दोपनन्दौ नागमुख्यौ अवश्यमभिलिखितव्यौ / ग्रहमुख्यश्चादित्यः पश्चिमायां दिशि कपिलमुनिर्नाम ऋषिवरो निर्ग्रन्धतीर्त्थकरऋषभः (वैद्य 32) निर्ग्रन्धरूपी अनुपूर्वतः / सैषा मुद्रासु व्यवस्थाप्याः / उत्तरपश्चिमासु च दिशासु यक्षराड् धनदः, गन्धर्वराट् पश्चशिखः, किन्नरराजा द्रुमः, एते ऽवश्यमभिलिखितव्याः / सैषा मुद्रासु च अनुपूर्वतः यथास्थानं संस्थिता अभिलिखितव्या इति //
चतुर्थमण्डलं बहिः पञ्च रेखाः चित्तं मुद्रमालाभिश्चोपशोभितं चतुरस्रं चतुस्तोरणाकारं चतुर्महाराजविभूषितं यथानुपूर्वस्थिता / तद्यथा - मुद्रा भवन्ति पुरःप्रदेशे नीलोत्पलमभिलेख्यम् / दक्षिअणतो वामतः पद्मं वज्रं परशुखड्गशूलत्रिशूलगदाचक्रस्वस्तिककलशमीनशङ्खकुण्डलध्वजपताकं पाशघण्टाकद्वारकधनुर्नाराचमुद्गर एतैर्विविधाकारप्रहरणमुद्रैः समन्ताच्चतुरस्रमालाकुलं कुर्यादित्यतः बहिश्चतुर्दिशं चत्वारो महासमुद्राः स्थापनीयाः //
उत्तरायां दिशि चतुरस्राकारं मण्डलकं कृत्वा उभयवज्रं त्रिसूच्याकारं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा स्थापयेत् //
दक्षिणायां दिशि धन्वाकारं मण्डलकं कृत्वा पात्रं समन्तज्वालं स्थापयेत् / पश्चिमायां दिशि समन्तप्रभाकारं मण्डलकं कृत्वा नीलोत्पलं सनालपत्रोपेतं समन्तज्वालं विदिक्षु च चत्वारो मुद्रा भवन्ति / उत्तरपश्चिमायां दिशि पाशं वर्त्तुलाकारं मण्डलं कृत्वा समन्तज्वालं दक्षिणपश्चिमायां दिशि दीर्घाकारमण्डलकं कृत्वा दण्डं समन्तज्वालं दक्षिणपश्चिमायां दिशि परशुं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा पूर्वोत्तरायां दिशि खड्गं समन्तज्वालं स्थापयेत् //
आलिख्य सर्वत इत्यूर्ध्वमधस्तिर्यक् त्रीणि मुद्राद्वारसमये बहिर्मण्डलस्यालेख्याः चूर्णैरेव / तद्यथा - वज्रव्यजनोपानहौ च समन्तज्वालिनस्त्वेते अभिलेख्या इति //
एतन्मण्डलविधानं कथितं त्विह समासतः / सत्त्वानां हितकाम्यार्थं मञ्जुघोषेण धीमता // mmk_2.53(="52") //
ततो मण्डलाचार्येण शिष्याः पूर्वमेवानुगृहीतव्याः अविकलेन्द्रियाः सर्वाङ्गशोभनाः ब्राह्मणक्षत्रियविट्शूद्राः उत्पादितबोधिचित्ताः महायानयायिनः इतरयानास्पृहणशीला महासत्त्वाः श्रद्धा कल्याणधर्मिणः महाराज्याभिकांक्षिणः अल्पभोगजुगुप्सनाः महाभोगाभिरुचितवन्तः भद्रा विनीताः शीलवन्तः भिक्षुभिक्षुण्युपासकोपासिका नियमस्था उपोषधोपवाससंवरस्थाः महावोधिसत्त्वाद्वेषिणो महायक्षःकुलीनाः प्रकृत्यैव धर्मचारिणः अहोरात्रोषिता शुचिवस्त्रप्रावृताः सुगन्धकेशाः त्रिःस्नायिनः मौनिनश्च / तदहो कर्पूरकुङ्कुमलवङ्गसुगन्धमुखगन्धिनः नित्यं चोपस्पृशितवन्तः कुशपिण्डकोपविष्टाः कृतरक्षाविधानाः ब्रह्मचारिणः सत्यवन्तः + + + + + + न्मण्डल + + + + + + नात्यासन्ने स्थापनीयाः / शुचिनः सुचौक्षाः अष्टानां प्रभृति यावदेकं नान्येषाम् / ते च परस्परासंसक्तिनः क्षत्रिया मूर्द्धाभिषिक्ताश्च महाराजानः / तेषां च सुताः कुमारकुमारिकाश्च अविदितग्राम्यधर्माणः कारणं भगवान् कुमाररूपी महाबोधिसत्त्वो मञ्जुश्रीः बालजनप्रबोधकः कुमारक्रीडनपरश्च / अतः प्रथमतर (वैद्य 33) एव कुमारः प्रवेशयितव्यः / महाराज्ञाभिवर्द्धन आयुरारोज्यैश्वर्यकामः भोगाभिवर्द्धनं च विशेषतः बालानां मन्त्रसिद्धिः ध्रुवं स्थिता इति / एतां पूर्वस्थापितां कृत्वा सुसखायोपेता अप्रमत्ताः ततो मण्डलाचार्येण कर्पूरधूपं दहता पृष्ठतो बहिर्निगन्तव्यम् / निर्गत्य च यथामुखर्त्तुकोदकेनाष्टशताभिमन्त्रितेन मूलमन्त्रेण महामुद्रा पञ्चशिखमुद्रितेनोदकेन स्नात्वा उपस्पृश्य च शुचिर्वस्त्रप्रावृतेन शुचिना अग्निकुण्डं गत्वा कुशविण्डकोपविष्टः उत्तरपूर्वाभिमुखः आहुतीनां कर्पूरकुङ्कुमचन्दनमिश्राणामष्टसहस्रं जुहुयात् //
पूर्वोक्तेन विधिना आहूय विसृज्य च भूयो मण्डलं प्रवेष्टव्यम् / प्रविश्य चाष्टौ पूर्णकलशाः शुचिवस्त्रोपेताः सहकारपल्लवविभूषिताः सुवर्णरजतरत्नधान्यव्रीहिप्रक्षिप्तगर्भः एकं भगवतः शाक्यमुनेः प्रतिपादयेत् / द्वितीयः सर्वबुद्धानाम् / तृतीयः सर्वप्रत्येकबुद्धार्यश्रावकसङ्घस्य / चतुर्थः सर्वमहाबोधिसत्त्वानाम् / पञ्चमो महाबोधिसत्त्वस्य आर्यमञ्जुश्रियस्य / षष्ठः सर्वदेवानाम् / सप्तमाष्टमौ द्वितीयमण्डले द्वारकोष्ठके स्थापयितव्यौ / शुचिवस्त्रोपेताः / एकः सर्वभूतानाम् / द्वितीयः सर्वसत्त्वपरिणामितः साधारणभूतं स्थापयितव्येति //
ततः पूर्वोक्तेनैव विधिना धूपं दहता महामुद्रापञ्चशिखां बद्ध्वा भूयश्चावाहनं कुर्यात् / सर्वबुद्धानां, सर्वप्रत्येकबुद्धानां, आर्यश्रावकमहाबोधिसत्त्वानां, सर्वभूतानां, सर्वसत्त्वांश्च मञ्जुश्रियं कुमारभूतं च पूर्वोक्तेन विधिना आह्वानयेत् //
एवं पुष्पधूपगन्धप्रदीपैः निवेद्यांश्च पूर्वनिर्दिष्टेनैव कर्मणा निवेद्यः / सर्वेषां सर्वतः अनुपूर्वेणैव कुर्यात् / प्रदीपग्रहणेनैव धृतदीपं दद्यात् / सर्वेभ्यः आर्यानार्येभ्यः निवेद्यग्रहणेन शाल्योदनं दध्नोपेतं मधुपायसविशेषविशेष्योपरचितघृतपक्कापूपान् अशोकवर्त्तीखण्डखाद्यकाद्यां सर्वं तथागतेभ्यो निर्यातयेत् / हवि पूर्ण श्रीवेष्टमधुशिरपयोपक्कभक्षाद्यां सर्वप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वानार्यदेवतानां च निर्यातयेत् / एवं लड्डुकागर्भोक्तारकविशेषान् पूपोपकारणान् सर्वदेवभूतगणान् सर्वसत्त्वांश्च मन्त्रोपेतान् विधिना निर्यातयेत् / एवं सुगन्धपुष्पान् जातीतगरनागपुष्पपुन्नागप्रभृतिं पूर्वनिर्दिष्टान् सर्वबुद्धप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वेभ्य आर्यानार्येभ्यो निर्यातयेत् / विशेषतः तथागतकुले जातीकुसुमं पद्मं पद्मकुले तथा कुवलयं कुलिशपाणे अन्यमन्त्रेभ्यो इतरमिति कर्पूरधूपं तथागतकुले चन्दनं पद्मकुले तथा गुग्गुलुं गुह्यकेन्द्रस्य वज्रिणस्यैव शस्यते / अन्यमन्त्रेभ्यः सर्वेभ्यः धूपं दद्यात् इतरघृतप्रदीपानार्येभ्यः सर्वेभ्यश्चैव दापयेत् / अनार्येभ्य मन्त्रेभ्यः सुगन्धतैलन्तु दापयेत् /
अनुपूर्वेण विधिना पूर्वदृष्टेन हेतुना / गन्ध + + त्तथैवोक्तं सर्वमन्त्रेभ्यो नित्यश // mmk_2.54(="53") //
अवलोकितेन यत् प्रोक्तं यत् प्रोक्तं कुलिशपाणिना / स्वकस्वकेषु तन्त्रेषु मन्त्रचर्यार्थसाधने / तेप्येह कल्पे द्रष्टव्याः अनुवर्त्त्याश्च सर्वदा // mmk_2.55(="54") //
इति //
ततो मण्डलाचार्येण पूर्वदृष्टेन विधिना आवाहनपूजनधूपनादिनिवेद्यप्रदानानुवर्तनक्रियां कृत्वा, ततो ऽनुसाधकेन कुशलेन त्वरमाणेन सार्वभौतिकं बलिं निरामिषां सर्वतश्च पटहशङ्खध्वनिनन्दीशब्दघोषनिनादितेन धूपपुष्पदीपमालभिरचितः चतुर्दिक्षु विदिक्षु च इत्यूर्ध्वमधस्तिर्यक् सर्वतो बहिर्मण्डलं प्रदक्षिणी + + + + + र्व भौतिकां क्षि + + + + + + + र्यो दधिमधुधृताक्तानां शालितन्दुलाहूतीनामष्टसहस्रं जुहुयात् / षडक्षरमूलमन्त्रहृदयेन जुह्वतः पूर्वस्थापितकां मण्डलानुप्रवेशमहासत्त्वां कृतरक्षाविधानानां मण्डलाचार्यशिष्यत्वाभ्युपगतानामुत्पादितबोधिचित्तानामुपोषधिकानां सर्वबुद्धबोधिसत्त्वात्मानिर्यातितमूर्त्तीनां सिद्ध्यर्थसत्त्वोपभोगसाधारणभूतानामनुत्तरबोधिमण्डाक्रमणकुशलानां सर्वज्ञज्ञानबुद्धलिप्सकामानां मण्डलदर्शनादेव मुच्यते सर्वकिल्बिषात् / आनन्तर्यहारिणो ऽपि ये मुच्यन्ते तत्क्षणाज्जनाः इति //
ततो मण्डलाचार्येण अनाहतेन वस्त्रेण तन्त्रोद्धृतेनापगतकेशेन मूलमन्त्रसप्ताभिमन्त्रितेन सुगन्धचन्दनकुङ्कुमाभ्यक्तेन पटेन मण्डलं प्रवेष्टुकानां मुखं वेष्टयित्वा प्रथमतः बालषोडशप्रभृति यावत्त्रीणि वर्षजन्मिकं पञ्चचीरकोपशोभितं एकचीरकोपशोभितं शिखोपशोभितं अशिरस्कं वा राजपुत्रं मूर्धाभिषिक्तं क्षत्रियपुत्रं वा, अन्यं वा महोत्साहमहाराज्यकामं वा प्रवेशयेत् //
द्वितीयमण्डलस्थितं मुखं वेष्टयित्वा, उत्पलमुद्रां बद्ध्वा, मञ्जुश्रियः कुमारभूतस्य मूलमन्त्रं सकृज्जप्त्वा, कारापयित्वा सुगन्धपुष्पं दत्त्वा, चन्दनकुङ्कुमाभ्यां मिश्रं सचौक्षाभ्यां हस्ताभ्यां पुष्पाणि क्षिपापयितव्याः / यत्रास्य पुष्पमधितिष्ठति तमस्य मन्त्रं दद्यात् / स्वमन्त्रेति कीर्त्यते / सैवास्यानुबद्धा जन्मपरम्परासु सैवास्य कल्याणमित्रो बोधिमण्डक्रमणमहाबोधिसत्त्वज्ञज्ञानपरिपूरणार्थमभिनिर्हरति / सैवास्य साधनीयम् / महाभोगमहाराज्यमहेशाख्यपुद्गलसमवधानता चास्यमभिनिर्हरति / इहैव जन्मनि अविचारतः साधनीयं सिध्यते सर्वकर्मेषु च / एवमनुपूर्वतः एकं प्रति तावद् यावदष्टानां नान्येषामिति सिद्धिकामैः / अन्येषां यथेप्सतः पापक्षपणार्थं समयमात्रं स्यादिति अभिषेकं ददता मण्डलाचार्येण आदौ तावन्मण्डले बहिर्नातिदूरे नात्यासन्ने पूर्वोत्तरे दिग्भागे भूप्रदेशे अधिष्ठाय मन्त्रपूतं कृत्वा मूलमन्त्रेण ततः राज्याभिषेकमिव मन्यमानमात्मानं एकान्तबुद्धधर्मसङ्घाभिप्रसन्नं श्राद्धं महोत्साहिनं अविरहितबोधिचित्तं महायानयायिनं रत्नत्रयोपकारिणं अविकलेन्द्रियं अकुत्सितमिहैव जन्मनि मन्त्रां साधयितुकामः / भद्राशयं मन्त्रचर्योद्युक्तमानसं कौतुकजातीयं जिज्ञासनहेतोपरि अविकल्पितमन्त्रार्थतद्गतमानसं एकं प्रभृति यावत्यथे अभिषेच्या सेव्यावर्ज्या इति / प्राज्ञा अमूढचरिता इति / शेषतो अभिषेच्याः / नान्येषामपि / ततः सर्वराज्याभिषेकमिवोपकरणं सम्भृत्य आचार्यो वा येन तुष्येत / ततः विततवितानोच्छ्रितध्वजपताकश्वेतच्छत्रमूर्घनि धार्यमाणः सितचामरे निवीज्यमानः महता सत्कारेण नन्दीशब्दनिर्घोषशङ्खभेरीमृदङ्गजयशब्दैः मङ्गलगाथाभिः प्रशस्तस्वस्तिकगाथाभिश्च जिनभाषितैरभिस्तूयमानः प्रदक्षिणीकृत्य च तन्मण्डलं सर्वबुद्धबोधिसत्त्वां प्रणम्य आचार्यं शिरसा प्रणम्य, (वैद्य 35) एवं च वक्तव्यम् उ + + ष्याचार्यसर्वबुद्धबोधिसत्त्वमन्त्रचर्यानिर्हारं समनुप्रवेष्टुं सर्वलौकिकातिक्रान्तरहस्यविमोक्षमण्डलं समनुप्रवेष्टुं सर्वधर्मराज्यसमनुप्रवेशबुद्धत्वमधिगन्तुं संक्षेपतो वक्तव्यं बुद्धो भूयामिति //
ततः कुशविण्डकोपविष्टः पूर्वाभिमुखः मं + + + + + + + + + + + + + + पञ्चशिखां बद्धापयितव्यः / ततो स्वेस्थितं मन्त्रं यो यस्य रोचते भूर्जपत्रे गोरोचनया लिखितव्यम् / लिखित्वा चन्दनकुङ्कुमाभ्यां हस्तौ म्रक्षयित्वा शरावसम्पुटं च ततस्तं भूर्जपत्रं शरावसम्पुटाभ्यन्तरस्थं + + + + + + बोधिसत्त्वस्य पादमूले स्थापनीयम् //
ततस्तत्रोपविष्टेन विद्यामूलमन्त्रा अष्टशतवारानुच्चारयितव्यः / पूर्वमेव तु ततः तं कुशविण्डकोपविष्टमभिषेचनीयम् / बहिर्मण्डले यः सर्वसत्त्वसाधारणभूतं पूर्णकलशं पूर्वस्थापितकं द्वारसमीपे तं गृहीत्वा आचार्येण मूलमन्त्रं पठता मूर्धनि अभिषेक्तव्यः / शेषा यथेष्टमुद केनेति //
ततस्तं शरावसम्पुटं तस्यैव दातव्यम् / प्रदीपेन च पाथयितव्यः / यदि सा एव भवति मन्त्रा क्रमात् सिध्यति यत्नतः / अथ अन्यो मन्त्रपठनादेव सिद्ध्यति / अथ मन्त्राक्षरहीनातिरिक्ता वा दत्ता भवति, प्रथमसाधन एव सिध्यतीत्यविकल्पतः / सा एष पूर्वलिखिता आचार्येण त्रिभिः साधनैः कुर्वं सिद्ध्यतीत्ययत्नतः //
एवं प्रथमतः विद्याभिषेकं दद्यात् / द्वितीयमण्डलाभिषेक द्वितीयमण्डले सर्वदेवानां यत् प्रतिपादितकं पूर्णकलशं, तेनाभ्यषिञ्चेत् / मूर्धनि यथैव वा पूर्वकं तेनैव विधिना मुच्यते सर्वकिल्विषात् / अनुज्ञातश्च भवति सर्वबुद्धैः सर्वलौकिकलोकोत्तरसमयमण्डलं सर्वमन्त्रमुद्रासाधनेषु च अव्यष्टो भवति / सर्वबोधिसत्त्वैरिति आचार्याभिषेकं दद्यात् //
तृतीयमण्डले सर्वश्रावकप्रत्येकबुद्धेभ्यः पूर्णकलशं निर्यातितकं तेनैव विधिना मूर्धन्यभिपेचयेत् / वक्तव्यं अनुज्ञातस्त्वं सर्वबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः सर्वलौकिकलोकोत्तराणां मन्त्राणां लिखनपठनमण्डलोपदेशमन्त्रतन्त्रमुद्राचर्यानिर्देश स्वयं चरितुं निर्देष्टुं वा / इहैव जन्मनि परम्परासु च यावत्पश्चिमकं नियतं बुद्धत्वं प्राप्तव्यमिति //
एवं जयविजयाभिषेके ऽपि पूर्वनिर्दिष्टेन विधिना भगवतो बुद्धनिर्यातितकपूर्णकलशेन बोधिसत्त्वनिर्याति / तेन च पूर्णकलशेन तथैवाभ्यषिच्यत् / एवं च वक्तव्यमनुज्ञातस्त्वं सर्वबुद्धैर्भगवद्भिर्महाबोधिसत्त्वैश्च श्रावकैः,
अधृष्यः सर्वभूतानामजितः सर्वदेहिनाम् / विजयत्वं सर्वमन्त्राणां साधयस्त्वं यथेप्सतः // mmk_2.56(="55") //
ततो मण्डलाचार्येण एकैकस्य यथेप्सतः / पञ्चाभिषेका दातव्या सर्वेभ्यो पञ्च एव तु // mmk_2.57(="56") //
ततस्तामनुपूर्वेण मण्डलं प्रवेश्य सर्वबुद्धबोधिसत्त्वानां निर्यातयित्वा मण्डलं त्रिः प्रदक्षिणीकृत्य विसर्जयितव्यः / तदहो परेण अनुपूर्वेण शिक्षयितव्याः मन्त्रचर्यासु नियोक्तव्या / तत्क्षणादेव भगवतो मञ्जुश्रियस्य महाबोधिसत्त्वस्य यः पूर्वनिर्यातितकं पूर्णकलशं गृहीत्वा तेषां मण्डलप्रविष्टानामुदकचुलुकत्रयं पूर्वाभिमुखं कृत्वा पाययेत् / वक्तव्याश्च - इयं भो महाबोधिसत्त्वस्य मञ्जुश्रियः कुमारभूतस्य समयरहस्यं मातिक्रमिष्यतेति / मा बहु अपुण्यं प्रसविष्यथे ऽ; ति / सर्व मन्त्राश्च न प्रतिक्षेप्तव्याः / सर्वबुद्धबोधिसत्त्वाश्च न विसंवादनीयाः / गुरुराराधनीयश्चेति / अन्यथा समयातिक्रमः स्यात् / मन्त्राश्च सिद्धिं न गच्छेयुः / बहुपुण्यं स्यादिति / एवं विसर्जयितव्याः //
ततो मण्डलाचार्येण भूयो दधिमधुधृताभ्यक्ताः शालितण्डुलाहुतयो ऽष्टाक्षरहृदयेन होतव्याः / ततोत्थाय मण्डलमध्यं प्रविश्य पूर्वनिर्दिष्टै पुष्पैः पूर्वोक्तेन विधिना अर्ध्यं देयः सर्वेभ्यः मनसा चिन्तयेत् / पूर्वोक्तेनैव धूपेन सर्वबुद्धबोधिसत्त्वां प्रत्येकबुद्धार्यश्रावकां सर्वदेवनागयक्षगन्धर्वकिन्नरमहोरगयक्षराक्षसपिशाचभूतयोगिनसिद्धऋषयः सर्वसत्त्वां सन्धूप्य पुष्पैरवकीर्य चन्दनकुङ्कुमोदकेनाभ्यषिञ्चेत् / पूर्वोक्तेनैव विधिना विसर्जयेत् / मनसा मोक्षः सर्वेभ्य इति //
ततो मण्डलाचार्येण निवेद्यं बलिं चूर्णं सर्वे नद्यां प्लावयितव्याः / दुःखितेभ्यो वा प्राणिभ्यो दातव्यम् / सुपरामृष्टं सुकेलायितं सुशोभितं पृथिवीप्रदेशं कृत्वा गोमयेन लेप्तव्यः / उदकेन वा प्लावयितव्यम् / सुचौक्षमृत्तिकया वाभ्यलिम्प्य सिकताया वा अस्यैव कार्यं यथेष्टतो गन्तव्यम् / तैर्मण्डलप्रविष्टैरात्मनः क्षीरोदनाहारेण हविष्याहारेण वा भवितव्यमिति //
बोधिसत्त्वपिटकावतंसकान्महाकल्पराजेन्द्रान्मञ्जुश्रीकुमारभूतविकुर्वणात् बोधिसत्त्वपटलविसराद् द्वितीयः मण्डलविधिनिर्देशपरिवर्तः समाप्त इति //
अथ तृतीयः परिवर्तः / (मण्डलविधानपरिवर्त)
अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य तां महापर्षन्मण्डलसन्निपतितां सर्वबुद्धबोधिसत्त्वां प्रणम्य, एकाक्षरं परमगुह्यं सर्वविषघातसर्वकर्मिकं च मन्त्रं स्वमण्डलसाधनौपयिकं सर्वक्षुद्रकर्मेषु चोपयोज्यं भाषते स्म / कतमं च तत् / नमः समन्तबुद्धानाम् / तद्यथा - जः / एष समार्षा सार्वभूतगणाश्च अस्यैव मन्त्रमेकाक्षरस्य द्वितीयं मण्डलविधानं संक्षेपतो योज्यम् / अष्टहस्तं चतुर्हस्तं वा भूप्रदेशं संशोध्य पञ्चरङ्गिकैरेव चूर्णैः स्वयं लिखितव्यम् / न परैः / यत्र वा तत्र वा न चात्र दोषः / समं चतुरस्रं त्रिमण्डलोपशोभितं पञ्चशिखां महामुद्रां प्रथमं च तावल्लिखेत् / भगवतो मञ्जुश्रियः उत्पलमुद्रां दंष्ट्रामुद्रां वत्क्रमुद्रां यष्टिमुद्रां च / एते मुद्रा अभ्यन्तरमण्डलपूर्वदिग्भागे आलिखितव्याः / ततः पद्मवज्र उत्पलध्वजपताकच्छत्रतोरणरथकुञ्जर अश्वबलीवर्दमहिषस्वस्तिकमयूर अजमेषपुरुषकुमाररूपी बहिर्द्वारमूले आलिखितव्यः / यथानुपूर्वतः पङ्क्ति आश्रिता आलेख्याः त्रिमण्डलाश्रिता एवं कार्याः स्युरिति //
ततो एकाक्षरेणैव मन्त्रेण पूर्वदक्षिणे दिग्भागे अग्निकार्यं काएयम् / अपामार्गसमिधानां दधिमधुघृताक्तानां अष्टशतं होतव्यम् / ततः पुष्पैरर्घ्यो देयः / एकाक्षरेणैव मन्त्रेण बलिनिवेद्यप्रदीप यथेप्सितं दातव्यम् / धूपं वा, आह्वाननविसर्जनं कुर्यादिति //
ततः प्रवेशयेद् राज्यकामं नगरमध्ये आलिखेत् / भेगकामं वटवृक्षसमीपे, पुत्रकामं पुत्रञ्जीवकवृक्षसमीपे, अनपत्नीकं हस्त्यश्वकामं कुञ्जरशालायां वाजिशालायां वा, दष्टकं महाह्रदे नागायतने वा, चातुर्थकनित्यज्वरसर्वज्वरेषु च एकलिङ्गे ग्रामदक्षिणदिशे वा, राक्षसगृहीतं श्मशाने शून्यग्रहे वा, पिशाचगृहीतं विभीतकवृक्षसमीपे एरण्डवृक्षसमीपे वा, मातरसर्वगृहीतेषु चतुःपथेषु मृतकसूतकगृहसमीपे वा, ब्रह्मराक्षसगृहीतं तालवृक्षे श्लेष्मातकवृक्षे वा, गरदत्तकं एकाक्षरेणैव मन्त्रेणैव उदकं सप्ताभिमन्त्रितं कृत्वा तत्रैव मण्डलमध्ये पातयितव्यः मुच्यते //
एवं स्त्रियाया पुरुषस्य वा यशोर्थिनं च चत्वरे ब्रह्मस्थले वा आलिखितव्यम् / मृतवत्सायाः सफले वृक्षे क्षीरवृक्षे वा, शालिधान्यपककेदारमध्ये अनपत्याया लिखितव्यम् / विविधत्रोगस्त्रीकृतान्यदुष्टतः प्रतरादिषु महारोगस्पृष्टासु, रक्षोघ्नं नदीपुलिने कूले वा पर्वताग्रे चाभिलेख्यम् / सर्वरोगेषु सर्वतः / डाकिनीकृतान्यपि ब्रह्मपालिकायां शून्यवेश्म एकान्तस्थान निम्नप्रदेशे वा / एवं सर्वकर्मेषु अर्धरात्रे मध्याह्ने वा सर्वकालमभिलिखितव्यम् / तेनैवैकाक्षरमन्त्रेण पुष्पैरर्घ्यं दत्त्वा विसर्ज्य च मण्डलं उदकेन प्लावयितव्यम् / सर्वग्लानानां महती रक्षा कृता भवति //
मुच्यते सर्वरोगेभ्यो ईप्सितमर्थं च सम्पद्यन्ते / अपुत्रो लभते पुत्रं दुर्भगः सुभगो भवेत् // mmk_3.1 //
दरिद्रो लभते अर्थां दर्शनादेव मण्डलम् / स्त्रियस्य पुरुषस्यापि श्राद्धस्यापि कल्पतः / यथेष्टविविधाकारां प्राप्नुयात् सम्पदां सदा // mmk_3.2 //
इति बोधिसत्त्वपटलविसरा मञ्जुश्रीकुमारभूतमूलकल्पात् तृतीयो मण्डलविधानपरिवर्तः // चतुर्थः पटलविसरः / नमो बुद्धाय सर्वबुद्धबोधिसत्त्वेभ्यः / अथ खलु मञ्जुश्रीः सर्वावन्तं शुद्धावासभवनमवलोक्य, पुनरपि तन्महापर्षन्मण्डलसन्निपातमवलोक्य, शाक्यमुनेश्चरणयोर्निपत्य, प्रहसितवदनो भूत्वा, भगवन्तमेतदवोचत् / तत् साधु भगवां सर्वसत्त्वानां हिताय मन्त्रचर्यासाधनविधाननिर्हारनिष्यन्दधर्ममेघप्रवर्षणयथेप्सितफलनिष्पादनपटलविसरः पटविधानं, अनुत्तरपुण्यप्रसवः, सम्यक् सम्बोधिबीजमभिनिर्वर्तकं सर्वज्ञज्ञानाशेष अभिनिर्वर्तकं संक्षेपतः सर्वाशापारिपूरकं सर्वमन्त्रफलसम्यक् सम्प्रयुक्तः सफलीकरण अवन्ध्यसाधितसाधकं सर्वबोधिसत्त्वचर्यापारिपूरकं महाबोधिसत्त्वसन्नाहसन्नद्धः सर्वमारबल अभिभवनपरापृष्ठीकरणं तद्वदतु भगवानस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च //
एवमुक्ते मञ्जुश्रिया कुमारभूतेन, अथ भगवांश्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतमेतदवोचत् / साधु साधु मञ्जुश्रीः यस्त्वं बहुजनहिताय प्रतिपन्नो लोकानुकम्पायै यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे / तच्छृणु साधु च सुष्ठु च मनसि कुरु, भाषिष्येहं ते त्वदीयं पटविधानविसरसर्वसत्त्वचर्यासाधनमनुप्रवेशमनुपूर्वकः वक्ष्ये ऽहं पूर्वनिर्दिष्टं सर्वतथागतैः / अहमप्येदानीं भाषिष्ये //
आदौ तावच्छुचौ पृथिवीप्रदेशे रजोविगते पिचुं गृह्य समयप्रविष्टैः सत्त्वैः तत् पिचुं संशोधयितव्यम् / संशोध्य च अनेन मन्त्रेण मण्डलाचार्येणाभिमन्त्रितव्यम् अष्टशतवारां / नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतमतिगतिप्रतिचारिणाम् / नमः संशोधनदुःखप्रशमनराजेन्द्रराजाय तथागतायार्हते सम्यक्सम्बुद्धाय / तद्यथा - ओम् शोधय शोधय सर्वविघ्नघातक महाकारुणिक कुमाररूपधारिणे / विकुर्व विकुर्व / समयमनुस्मर / तिष्ठ तिष्ठ / हुम् हुम् फट् फट् स्वाहा //
ततः अवितथग्राम्यधर्मकुमारीब्राह्मणकुलक्षत्रियकुलप्रसूतं वैश्यकुले प्रसूतं नातिकृष्णवर्णयोनिवर्णयोनिवर्जितां अविकलं सर्वाङ्गशोभनां मातापितृ अनुष्कृतां उपोषधपरिगृहीतां उत्पादितबोधिचित्तां कारुणिकां अवदातवर्णां अन्यवर्णविवर्जितां संक्षेपतः स्त्रीलक्षणसुप्रशस्तचिह्नां सशोभने ऽहनि शुक्लपक्षे शुक्लशुभग्रहनिरीक्षिते विगतधूपनिर्हारवदलापगते विगतवाते शुचौ प्रदेशे पूर्वनिर्दिष्टां कुमारीं स्नापयित्वा, शुचिवस्त्रप्रावृतेन सुनिवस्तां कृत्वा, अनेनैव मन्त्रेण महामुद्रोपेतरक्षां कृत्वा, श्वेतचन्दनकुङ्कुमं निष्प्राणकेनोदकेनालोड्य तत् पिबन्तां च कन्यां तेनैव मन्त्रेण संशोधनेनाभ्युक्षयेत् / चतुर्दिशं च क्षिपेत् श्वेतचन्दनं कुङ्कुमोदकं, इत्यूर्ध्वमधश्च विदिक्षु श्वेतचन्दनकुङ्कुमकर्पूरं चैकीकृत्य पूर्वं दापयेत् / स्वयं वा दद्यात् / साधकाचार्ये वा / तदेवं वाचा भाषितव्यं त्रीन् वारां - अधितिष्ठन्तु बुद्धा भगवन्तो इदं पटसूत्रं दशभूमिप्रतिष्ठिताश्च महाबोधिसत्त्वाः / ततस्ते बुद्धा भगवन्तो समन्वाहरन्ति / (वैद्य 39) महाबोधिसत्त्वाश्च / धूपं दहता तस्मिं समये मयूरक्रौञ्चहंससारसचक्रवाकविविधा शुभशकुनया जलस्थलचारिणो ऽन्तरिक्षी गच्छेयुः / शुभं वा कूजयेयुः / तत् साधकेन ज्ञातव्यम् / सफलं मे एतत् कर्म अधिष्ठितं मे बुद्धैर्भगवद्भिमहाबोधिसत्त्वैश्च मे / तत् पटसूत्रं सुजीवितं मेह जन्मनि अवन्ध्या मे मन्त्रसिद्धिः / पटहभेरीमृदङ्गशङ्खवीणावेणुपणवमुरवशब्दं वा भवेयुः [वैद्य रेअद्स् -मुखशब्दं] / + + + + + + + + + एवं वदेयुरकल्पस्मात् तस्मिं समये जयसिद्धि सिद्ध दत्त दिन्न गृह्ण श्रेयसः सफलकशक्रप्रभूत एवमादयो अन्ये वा शुभां शब्दां प्रव्याहरन्ति / घण्टानिःस्वनं वा भवेयुः नन्दीशब्दं वा / ततो विद्याधरेण ज्ञातव्यम् / बुद्धानां भगवतां महाबोधिसत्त्वानां चाधिष्ठानमेतत् / नान्यत्र अवन्ध्यसिद्धिरिति //
अथ ते तस्मिं समये क्रूरं प्रव्याहरन्ते गृह्ण खाद खादापय नष्ट विनष्ट कष्ट दूर सुदूर नास्तीत्येवमादयः शब्दा निश्चरन्ति वानरमहिषक्रोष्टुकगर्दभमार्जारकुत्सिततिर्यग्द्विपदचतुःपदानां शब्दा निश्चरेयुः / ततो साधकेन ज्ञातव्यं नास्ति मे सिद्धिरिति / इह जन्मनि संहर्तव्यः / भूयो वा पूर्वसेवां कृत्वा प्रारब्धव्यम् / एवं यावत् सप्तवारान् / पञ्चानन्तर्यकरिणस्यापि सप्तमे कर्मप्रयोगे सिध्यतीति //
ततः साधकेन तां कुमारीं कृतरक्षां कृत्वा कुशविण्डकोपविष्टकां कारयेत् / पूर्वाभिमुखामुत्तराभिमुखां वा संस्थाप्य आत्मनश्च हविष्याहारः तां च कन्यां हविष्याहारं भोजयेत् / पूर्वमेव परिकल्पितं कुशविण्डकं तेनैवं विधिना तं पिचुं कर्तापयेत् / तत् सूत्रं सुकर्तितं शुक्लं पूर्वशिक्षापितकन्यया संहृत्य, अष्ट पञ्च त्रीणि एकं प्रभृती यावत् षोडशमात्रा पलां वा कर्षां वा सुप्रशस्तगणमेतां कुर्यान्मध्यमे अष्टमां गाथा इतरे पञ्चैक वा क्षुद्रसाध्येषु कर्मसु यथाशक्तितः कुर्यात् सर्वकर्मिषु मन्त्रवित् //
ततः प्रभृति यत् किञ्चित् पापं कर्म पुराकृतम् / नश्यते तत्क्षणादेव सूत्रार्थं च न चेतने // mmk_4.1 //
सङ्गृह्यमिदं सूत्रं शुचौ भाण्डे निवेशयेत् / न हि तंतुगतो कृत्वा धूपयेत् कर्पूरधूपनैः // mmk_4.2 //
आप्राण्याङ्गसमुत्थं वा कुङ्कुमचन्दनादिभिः / आर्चितं सुगन्धपुष्पैर्मल्लिकचम्पकादिभिः // mmk_4.3 //
शुचौ प्रदेशे संस्थाप्य कृतरक्षापिथानितम् / मन्त्रवित् सर्वकर्मज्ञो कृतजापः सुसमाहितः // mmk_4.4 //
तन्तुवायं ततो गत्वा मूल्यं दत्वा यथेप्सितम् / अव्यङ्गमकृशं चैव शुक्लधर्मसदारतम् // mmk_4.5 //
अव्याध्यर्तमवृद्धं च कासश्वासाविनिर्मुक्तम् / कासश्वासविनिर्मुक्तं अषण्डं योनिसत्यजम् // mmk_4.6 //
अनवद्यमकुब्जं चैवापङ्गुपतिवर्जितम् / समस्तलक्षणोपेतं प्रशस्तं चारुदर्शनम् // mmk_4.7 //
शुभबुद्धिसमाचारं लौकिकीं वृत्तिमाश्रितम् / सिद्धिकामो ऽत्र तं याचेदुत्तमे पटवायने // mmk_4.8 //
प्रशस्ता शुभवर्णे वा बुद्धिमन्तो सुशिक्षितः / अतोत्कृष्टतमैः श्रेष्ठैः पटवायनश्रेयसैः // mmk_4.9 //
उत्तमे उत्तमं कुर्यान्मध्यमे मध्यसाधनम् / इतरैः क्षुद्रकर्माणि निकृष्टान्येव सर्वतः // mmk_4.10 //
यथामूल्यं ततो दत्वा यथा वदति शिल्पिनः / प्रथमे वाक्समुत्थाने शिल्पिनस्य स मन्त्रवित् // mmk_4.11 //
दद्यात् पुण्यं ततः क्षिप्रं वीरक्रयेति स उच्यते / प्रार्थनादेव चैतस्य पुण्यभावेन जापिने // mmk_4.12 //
क्षिप्रसिद्धिकरो ह्येष पटश्रेष्ठो निरुत्तरः / सर्वकर्मकरो पूज्यो दिव्यमानुष्यसौख्यदः / श्रेयसः सर्वभूतानां सम्यक् सम्बुद्धभाषितम् // mmk_4.13 //
इति //
ततो विद्याधरेण तन्तुवायस्य पोषधं दत्त्वा सशुभे नक्षत्रे प्रातिहारकपक्षे शुक्ले ऽहनि शुभग्रहनिरीक्षिते ऽन्ये वा शुक्लपक्षे सुकुसुमितसहकारमञ्जरीवरतरुपुष्पाढ्यवसन्तसमये ऋतुवरे तस्मिन् काले तस्मिन् समये पूर्वाह्नोदिते सवितरि पूर्वनिर्दिष्टं तन्तुवायं हविष्याहारं शुचिवस्त्रप्रावृतबद्धोष्णीषशिरस्कसुस्नातं सुविलिप्तं श्वेतचन्दनकुङ्कुमाभ्यामन्यतरेणानुलिप्ताङ्गं कर्पूरवासितवदनं हृष्टमनसं क्षुत्पिपासापगतं कृत्वा सर्वत्र भाण्डं रज्ज्वाद्युपकरणानि च मृद्गोमयाभ्यां प्रक्षाल्य प्रत्यग्राणि च भूयो भूयो पञ्चगव्येन प्रक्षालयेत् / ततो निःप्राणकेनोदकेन प्रक्षाल्य, श्वेतचन्दनकुङ्कुमाभ्यामभ्यषिञ्चेत् / शुचौ पृथिवीप्रदेशे अपगतकोलाहले विगतजनपदे विविक्तासने प्रसन्ने गुप्ते पुष्पार्चिते //
ततः साधकेन संशोधनमन्त्रेणैवाष्टशताभिमन्त्रितं कृत्वा श्वेतसर्षपान् चतुर्दिक्षु इत्यूर्ध्वमधः विदिक्षु च क्षिपेत् / ततो तन्तुवायं सर्षपैः सन्ताड्य, महामुद्रां पञ्चशिखां बद्ध्वा, शिखाबन्धं कुर्वीत / महारक्षा कृता भवति / यदि ज्येष्ठं पटं भवति चतुर्हस्तविस्तीर्णमष्टहस्तसुदीर्घं एतत्प्रमाणं हि तन्तुवायोपचितं कुर्यात् / मध्यमं भवति द्रिहस्तविस्तीर्णं पञ्चहस्तदीर्घत्वम् / कन्यसं सुगतवितस्तिप्रमाण अङ्गुष्ठहस्तदीर्घत्वम् / तत्र भगवतो बुद्धस्य वितस्तिमध्यदेशपुरुषप्रमाणहस्तमेकं एषा सुगतस्य वितस्तिरिति कीर्त्यते / अनेन प्रमाणेन प्रामाण्यमाख्यातम् /
उत्तिष्ठ सिद्धिर्ज्येष्ठा तु कथिता लोकपुङ्गवैः / मध्यमे राज्यकामानामन्तर्धाने परे मुनौ // mmk_4.14 //
महाभोगार्थिनां पुंसां त्रिदेवासुरभोगिनाम् / कन्यसे सिद्धिमाख्याता मध्यमे सिद्धिमध्यमा // mmk_4.15 //
क्षुद्रकर्माणि सिध्यन्ते कन्यसे तु पटे सदा / सर्वकार्याणि सिध्यन्ते सर्वद्रव्याणि वै सदा // mmk_4.16 //
पटत्रये ऽपि निर्दिष्टा सिद्धिः श्रेयोर्थिनां नृणाम् / विधिभ्रष्टा न सिध्येयुः शक्रस्यापि शचीपतेः // mmk_4.17 //
सिध्यन्ते क्षिप्रमेवं तु सर्वकर्मा न यत्नतः / विधिना च समायुक्ता इतस्यापि तृजन्मिनः // mmk_4.18 //
एष मार्गः समाख्यातो जिनैः जिनवरात्मजैः / श्रेयसः सर्वसत्त्वानां दरिद्रानाथदुःखिनाम् // mmk_4.19 //
बोधिमार्गो ह्यशेषस्तु दर्शितस्तत्त्वदर्शिभिः / बोधिहेतुरयं वर्त्म मन्त्रमार्गेण दर्शितः // mmk_4.20 //
मन्त्राः सिध्यन्त्ययत्नेन सर्वलौकिकमण्डलाः / लोकोत्तराश्चापि सिध्यन्ते मण्डला ये उदाहृताः // mmk_4.21 //
बोधिहेतुमतिर्येषां तेषां सिद्धिः सदा भवेत् / नान्येषां कथ्यते सिद्धिः अहिता ये जगे सदा // mmk_4.22 //
बोधाय प्रस्थितां सत्त्वां सदा सिद्धिरुदाहृता / मञ्जुश्रियस्य महात्मानो कुमारस्येह विशेषतः // mmk_4.23 //
क्षिप्रकार्यानुसाध्यर्त्थं प्राप्नुयात् सकलादिह / अनुपूर्वं ततो शिल्पी पटं वायेत यत्नतः // mmk_4.24 //
दिवसैः पञ्चरष्टाभिः षोडशाद्विचतुष्कयोः / अहोरात्रेण वै क्षिप्रं समाप्तिः पटवायने // mmk_4.25 //
अहोरात्रेण वै श्रेयो उत्तमा सिद्धिलिप्सुनाम् / शौचाचारसम्पन्नो शिल्पिनो नित्यधिष्ठितः // mmk_4.26 //
दूरादावस्तथा गत्वा कुटिप्रस्रावमुत्सृजेत् / सचेलस्तु ततः स्नात्वा अन्यवासान्निवास्य च // mmk_4.27 //
शुक्लाम्बरधरः स्रग्मी उपस्पृश्य पुनः पुनः / श्वेतचन्दनलिप्ताङ्गो हस्तौ उद्धृष्य शिल्पिनः // mmk_4.28 //
भूयो वयेत यत्नेन श्लक्ष्णं सन्घोतं सदा / एवमाद्यैः प्रयोगैस्तु अन्यैर्वा जिनभाषितैः // mmk_4.29 //
विचारशीली यत्नेन पटस्याशेषवायना / समाप्ते तु पटे प्रोक्ते पूर्वकर्मसु निर्मिते // mmk_4.30 //
प्रमाणस्थे अहीने च कुर्याद् भद्रे ऽहनिः समम् / अवतारयेत् ततो तन्त्रा शुक्लपक्षे सुशोभने // mmk_4.31 //
परिष्फुटं तु पटं गृह्य दशा बद्धानुशोभनम् / वेणुयष्ट्यावनद्धं तु पटं गृह्य ततो व्रजेत् // mmk_4.32 //
शिल्पिनं स्वस्त्ययित्वा तु संविभागार्थविस्तरैः / गत्वा यथेष्टतो मन्त्री सुसमाचारसुव्रती // mmk_4.33 //
सुगन्धपुष्पैरभ्यर्च्य शुचौ देशे तु तं न्यसेत् / अनेनैव तु मन्त्रेण कृतरक्षापिथानितम् // mmk_4.34 //
येन तत् पिचुकं पूर्वं संशोध्य बहुधा पुनः / तेनैव कारयेद् रक्षामात्मनश्च पटस्य वै // mmk_4.35 //
मञ्जुश्रियो महावीरः मन्त्ररूपेण भाषितः / अतीतैर्बहुभिर्मन्त्रैर्मयाप्येतर्हि पुनः पुनः // mmk_4.36 //
स एव सर्वमन्त्राणां विचेरुः मन्त्ररूपिणः / महावीर्यो महातेजः सर्वमन्त्रार्थसाधकः // mmk_4.37 //
करोति त्रिविधाकारां विचित्रा त्राणहेतवः / जम्बुद्वीपगताः सत्त्वाः मूढाचारचेतनाः // mmk_4.38 //
अश्राद्धविपरीतस्तु मिथ्याचारसलोलुपाः / न शाधयन्ति मन्त्राणि सर्वद्रव्याणि वै पुनः // mmk_4.39 //
अत एव भ्रमन्ते ते संसारान्धारचारके / यस्तु शुद्धमनसो नित्यं श्राद्धो कोतुकमङ्गले सदा // mmk_4.40 //
औत्सुको सर्वमन्त्रेषु नित्यं ग्रहणधारणे / सिद्धिकामा महात्मानो महोत्साहा महोजसाः // mmk_4.41 //
तेषां सिद्ध्यन्त्ययन्तेन मन्त्रा ये जिनभाषिताः / अश्राद्धानां तु जन्तूनां शुक्ल धर्मेण रोहते // mmk_4.42 //
बीजमूषरे क्षिप्तं अङ्कुरो ऽफलो यथा / श्रद्धामूलं सदा धर्मे उक्तं सर्वार्थदर्शिभिः / मन्त्रसिद्धिः सदा प्रोक्ता तेषां धर्मार्थशीलिनाम् // mmk_4.43 //
इति //
ततो साधने शिल्पिनः, सुशिक्षितचिअत्रकरो वा आत्मनो वा कुशला लेख्याः / अश्लेशकैरङ्गैः सर्वोज्ज्वलं रङ्गोपेतं वर्णकं गृह्य पूर्वेणैव विधिना यथा तन्तुवाययायनेनैव लक्षणसमन्वागतेन चित्रकरेण पेयालं विस्तरेण कर्तव्य यथा पूर्वं तन्तुवायविधिः, तेनैव तत्पटं चित्रापयितव्यम् ; स्वयं वा चित्रितव्यम् / कर्पूरकुङ्कुमचन्दनादिभिरङ्गं वासयितव्यम् / धूपं दहता तेनैव मन्त्रेणाष्टशतवारं परिजप्य नागकेसरपुन्नागवकुलचम्पकवापीकधानुष्कारिकमालतीकुसुमादिभिः तं पटमभ्यवकीर्य पूर्वाभिमुखः कुशविण्डकोपविष्टः स्वस्थबुद्धिः सर्वबुद्धबोधिसत्त्वगतचित्तः सूक्ष्मवर्तिप्रतिगृहीतपाणिरनायासचित्तः तं पटमालिखेत् //
आदौ तावच्छाक्यमुनिं तथागतमालिखेत् / सर्वाकारवरोपेतं द्वात्रिंशन्महापुरुषलक्षणलक्षित अशीत्यानुव्यञ्जनोपशोभितशरीरं रत्नपद्मोपरिनिषण्णं समन्तज्वालं समन्तव्यामोपशोभितं मूर्तिं धर्मं देशयमानं प्रसन्नमूर्त्तिं सर्वाकारवरोपेतं मध्यस्थं वैदूर्यनालपद्मं अधश्च महासारं द्वौ नागराजानौ तं पद्मनालं धारययानौ तथागतदृष्टयो दक्षिणहस्तेन नमस्यमानौ शुक्लौ सर्वालङ्कारभूषितौ मनुष्याकारर्द्धसर्पदेहनन्दोपनन्दौ लेखनीयौ / समन्ताच्च तत् पद्मशरं पद्मपत्रपुष्पकुड्मलविकसितज्लजप्राणिभिश्च शकुनमीनादिभिर्व्याप्तं अशेषविन्यस्तसुचिरसुशोभनाकारमभिलेख्यम् / यद् भगवतो मूलपद्मदण्डं विटपं, तत्रैव विनिसृतान्यनेकानि पद्मपुष्पानि अनुपूर्वोन्नतानि वामपाश्वे ऽष्टौ पद्मपुष्पाणि / तेषु च पद्मेषु निषण्णानि अष्टौ महाबोधिसत्त्वविग्रहामभिलेख्याः / प्रथमं तावदार्यमञ्जुश्रीः, इषत्पद्मकिञ्जल्कगौरः कुङ्कुमकनकवर्णो वा कुमाराकाराबालदारकरूपी पञ्चचीरकशिरस्कः कुमारालङ्कारालङ्कृतः वामहस्तनीलोप्तलगृहीतः, दक्षिणहस्तेन तथागतं नमस्यमानः चारुमूर्तिस्तथागतगतदृष्टिः सौम्याकारः ईषत्प्रहसितवदनः समन्तज्वालावबुद्धमण्डलपर्येषः / अपरस्मिं पद्मे आर्यचन्द्रप्रभः कुमारभूतः तथैवमभिलेख्यः / तृतीये सुधनः, चतुर्थे सर्वनीवरणः, पञ्चमे गगनगञ्जः, षष्ठे क्षितिगर्भः, सप्तमे ऽनघः, अष्टमे सुलोचनमिति //
एते सर्वे कुमारदारकाकारा आभिलेख्याः / कुमारालङ्कारभूषिताः दक्षिणपार्श्वे भगवत अष्टौ महाबोधिसत्त्वाः सर्वालङ्कारभूषिताः वर्जयित्वा तु मैत्रेयं भगवतः समीपे आर्यमैत्रेयः ब्रह्मचारिवेषधारी जटामकुटावबद्धशिरस्कः कनकवर्णः रक्तकषायधारी रक्तपटांशुकोत्तरीयः तृपुण्ड्रककृतचिन्हः कायरूपी दण्डकमण्डलुवामविन्यस्तपाणिः कृष्णसारचर्म वामस्कन्धावक्षिप्तदक्षिणहस्तगृहीताक्षसूत्रः तथागतं नमस्यमानः तद्नतदृष्टिः ध्यानालम्बनगतचित्तचरितः //
द्वितीयस्मिं पद्मे समन्तभद्रः प्रियङ्गुवर्णश्यामः सर्वालङ्कारशरीरः वामहस्ते चिन्तामणिरत्नविन्यस्तः दक्षिणहस्ते श्रीफलविन्यस्तहस्तवरदः चारुरूपी तथैवमभिलिखितव्यम् //
तृतीये आर्यावलोकितेश्वरः शरत्काण्डगौरः सर्वालङ्कारभूषितः जटामकुटधारी श्वेतयज्ञोपवीतः सर्वज्ञशिरसीकृत आर्यामिताभ दशबलजटान्तोपलग्नोपविष्टं चारुरूपं चामरहस्तारविन्दविन्यस्तं दक्षिणहस्तेन वरदं ध्यानलम्बनगतचित्तचरितं समन्तद्योतितशरीरम् //
चतुर्थे आर्यवज्रपाणिः वामहस्तविन्यस्तवज्रं कनकवर्णं सर्वालङ्कारभूषितं दक्षिणहस्तोपरुद्धसफलं वरदं च चारुरूपिणं सौम्यदर्शनं हारार्द्धहारोपगुण्ठितदेहं मुक्ताहारयज्ञोपवीतं रत्नोज्ज्वलविच्छुरितमकुटं पट्टचलननिवस्तं श्वेतपट्टांशुकोत्तरीयं तथैवार्यावलोकितेश्वरं समन्तभद्रं तीर्थनिवासनोत्तरासङ्गदेहं आकारतश्च यथापूर्वनिर्दिष्टम् //
पञ्चमस्मिं तथा पद्मे आर्यमहामतिः, षष्ठे शान्तमतिः, सप्तमे वैरोचनगर्भः, अष्टमे अपायजहश्चेति / इत्येते बोधिसत्त्वा अभिलेख्याः / फलपुस्तकविन्यस्तकपाणयः सर्वालङ्कारसुशोभनाः पट्टांशुकोत्तरीयाः सर्वालङ्कारभूषिताः पट्टचलनिकानिवस्ताः //
तेषां चोपरिष्टा अष्टौ प्रत्येकबुद्धा अभिलेख्याः / भिक्षुवेषधारिणो महापुरुषलक्षणशरीराः रक्तकाषायवाससा पर्यङ्कोपविष्टाः रत्नोपलनिषण्णाः शान्तवेषात्मकाः समन्तज्वालमालाकुलाः सुगन्धपुष्पाणिः कीर्णाः / तद्यथा - मालतीवार्षिकाधानुष्कारिकापुन्नागनागकेसरादिभिः पुष्पैः समन्तात् पटमभ्यवकीर्यमाणं लिखितं भगवतः शाक्यमुनेः वामपार्श्वे आर्यमञ्जुश्रियस्योपरिष्टाः अनेकरत्नोपरचित्तं सुदीर्घाकारं विमानमण्डलं शैलराजोपशोभितं रत्नोपलसञ्छन्नपर्वताकारमभिलिखेत् //
तत्रस्थां बुद्धां भगवतां अष्टौ लिखेत् / तद्यथा - रत्नशिखिवैदूर्यप्रभारत्नविच्छुरितसमन्तव्यामप्रभं पद्मरागेन्द्रनीलमरकतादिभिः वैदूर्याश्मगर्भादिभिः महामणिरत्नविशेषैः समन्ततो प्रज्वाल्यमाणं, ईषदादित्योदयवर्णं तथागतविग्रहं पीतचीवरोत्तरासङ्गिनं पर्यङ्कोपविष्टं धर्मं देशयमानं पीतनिवासितोपरिवस्तं महापुरुषलक्षणकवचितदेहं, अशीत्यानुव्यञ्जनोपशोभितमूर्त्तिं प्रशान्तदर्शनं सर्वाकारवरोपेतं रत्नशिखिं तथागतमभिलिखेत् //
द्वितीय सङ्कुसुमितराजेन्द्रं तथागतं कनकवर्णं अभिलिखेत् सुतरां नागकेसरवकुलादिपुष्पैरभ्यवकीरितमभिलिखे / आर्यमभिनिरीक्षमाणं समन्तप्रभं रत्नप्रभाविच्छुरितद्योतिपर्येषम् //
तृतीयं शालेन्द्रराजं तथागतमभिलिखेत् / पद्मकिञ्जल्काभ धर्मं देशयमानम् //
चतुर्थं सुनेत्रं तथागतमभिलिखेत् / यथेमं दुःप्रसहम् / षष्ठं वैरोचनम् जिनम् / सप्तमं भैषज्यवैदूर्यराजम् / अष्टमं सर्वदुःखप्रशमनं राजेन्द्रं तथागतमभिलिखेदिति //
सर्व एव कनकवर्णाः तथागतविग्रहाः कार्याः अभयप्रदानकराः / उपरिष्टाच्च तथागतानां मेघान्तरालस्थाः पटकोणे उभयतः पुष्पवर्षमुत्सृजमानाः द्वौ शुद्धावासकायिकौ देवपुत्रौ मभिलेख्यौ / अन्तरीक्षस्थितौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकानां नमस्यमानौ अभिलेख्यौ //
प्रत्येकबुद्धानां चोत्तरतः अष्टौ महाश्रावका अभिलेख्याः बोधिसत्त्वशिरःस्थानाववरजोपविष्टाः / तद्यथा - स्थविरशारिपुत्रः महामौद्गल्यायनः महाकाश्यपः सुभूतिः राहुलः नन्दः भद्रिकः कफिणश्चेति //
प्रत्येकबुद्धापि तद्यथा - गन्धमादनः चन्दनः उपरिष्टश्वेतसितकेतुनेमिसुनेमिश्चेति / सर्व एव सुशोभनाः शान्तवेषं आत्मनो सुदान्ताकाराः / महाश्रावका अपि कृताञ्जलयो बुद्धं भगवन्तं शाक्यमुनिं निरीक्षमाणाः / उपरिष्टाच्च शुद्धावासादेव सन्निकृष्टौ अपरौ द्वौ देवपुत्रौ समन्तात्पट्टवितानदीर्घापायशसोभनागृहीतौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणामुपरिष्टाद्धारयमाणौ दिव्यमाल्याम्बरधरौ देवपुत्रौ अभिलेख्यौ / भगवतः शाक्यमुनेः उपरिष्टान्मूर्धनि मुक्ताहाररत्नपद्मरागेन्द्रनीलादिभिः ग्रथितं रत्नसूत्रकलापं तस्मिंश्च पट्टवितानसुविन्यस्तं समन्ताच्च मुक्ताहारप्रलम्बोपशोभितमभिलिखेत् / अधश्च बुद्धस्य भगवतः पद्मासनात् आर्यमञ्जुश्रियस्य पादमूलसमीपे नागराजोपनन्दपार्श्वे महारत्नं पर्वतं पद्मशरादभ्युन्नतं रत्नाङ्कुरगुहाकन्दरप्रवाललतापरिवेष्टितं रत्नतरुं महर्षयसिद्धसेवितं तस्य पर्वतस्योत्तुङ्गे यमान्तकं क्रोधराजानं महाघोररूपिणं पाशहस्तं वामहस्तगृहीतदण्डं भृकुटिवदनमाज्ञां प्रतीच्छमानः आर्यमञ्जुश्रियगतदृष्टिं वृकोदरं ऊर्ध्वंकेशं भिन्नाञ्जनकृष्णमेघसङ्काशं कपिलश्मुश्रुदीर्घकरालं दीर्घनखं रक्तलोचनकं सर्पमण्डितकण्ठोद्देशं व्याघ्रचर्मनिवसनं सर्वविघ्नघातकः महादारुणतरं महाक्रोधराजानं समन्तज्वालं यमान्तकं क्रोधराजा अभिलिखेत् //
तस्य पर्वतस्याधस्ताच्छिलातलोपनिषण्णं पृथिव्यामवनतजानुदेहं धूपकटच्छुकव्यग्रहस्तं यथावेषसंस्थानगृहीतलिङ्गं यथानुवृत्तचरितमार्यमञ्जुश्रियगतदृष्टिं साधकमभिलिखे / नन्दनागेन्द्रराजसमीपं भगवतः शाक्यमुनेरधस्तात्, दक्षिणपार्श्वे पद्मसराभ्युद्गतं महारत्नशैलेन्द्रराजं कथितं तथागतमभिलिखेत् / यमान्तकक्रोधराजरहितं दिव्यपुष्पावकीर्णमभिलिखेत् / आर्यावलोकितेश्वरः स्यात् तं पर्वतमभिलिखेत् / तदुच्चतुङ्गपर्वतपद्मरागोपलं तमेकाङ्कुरवैदूर्यमयशृङ्गाकारमभिलिखेत् /
तत्रापाश्रितां देवीमार्यावलोकितेश्वरकरुणां आर्यतारां सर्वालङ्कारविभूषितां रत्नपट्टांशुकोत्तरीयां विचित्रपट्टनिवसनां स्त्र्यलङ्कारसर्वाङ्गविभूषितां वामहस्तनीलोत्पलविन्यस्तां कनकवर्णां कृशोदरीं नातिकृशां नातिबालां नातिवृद्धां ध्यानगतचेतनां आज्ञां प्रतीच्छयन्ती दक्षिणहस्तेन वरदादीषिदवनतकायां पर्यङ्कोपनिषण्णां आर्यावलोकितेश्वर ईषदपगतदृष्टिः समन्तज्वालामालपर्येषितां तत्रैव वैदूर्यरत्नशृङ्गे पुन्नागवृक्षपरिवेष्टितं सर्वतः शाखासु समन्तपुष्पोपरचितविकसितसुपुष्पितं भगवतीं तारामभिच्छादयमानां तेनैव चापगतशाखासुचित्रं प्रवालाङ्कु रावनद्धं विचित्ररूपरङ्गोज्ज्वलं तारादेवीमुखावलोकनमभिलेख्या //
सर्वविघ्नघातकी देवी उत्तमा भयनाशिनी / साधकस्य तु रक्षार्थं लिखेद् वरदां शुभाम् // mmk_4.44 //
स्त्रीरूपधारिणी देवी करुणादशबलात्मजा / श्रेयसः सर्वभूतानां लिखेत वरदायिकाम् // mmk_4.45 //
कुमारस्येह माता देवी मञ्जुघोषस्य महाद्युतेः / सर्वविघ्नविनाशार्थं साधकस्य तु समन्ताद् // mmk_4.46 //
रक्षार्थं मनुजेशानां श्रेयसार्थं पटे न्यसेत् / यो ऽसौ क्रोधराजेन्द्रः पर्वताग्रे समवस्थितः // mmk_4.47 //
सर्वविघ्नविनाशाय कथितं जिनवरात्मजैः / महाघोरो महावन्द्यो महाचण्डो महाद्युतिः // mmk_4.48 //
शासने द्विष्टसत्त्वानां निग्रहायैव प्रकल्पते / साधकस्य तु रक्षार्थं सर्वविघ्नविनाशकः // mmk_4.49 //
दारुणो रोषशीलश्च आकृष्टा मन्त्रदेवता / सुघोरो घोररूपी च निषेद्धा सर्वनिर्घृणाम् // mmk_4.50 //
अवशानां च वशमानेता पापरौद्रप्रचारिणाम् / खचरे भूचरे वापि पाताले चापि समन्ततः // mmk_4.51 //
नाशयति सर्वदुष्टानां विरुद्धा ये शासने मुने / चतुरश्रं समन्ताद्वै चतुःकोणं पटं लिखेत् // mmk_4.52 //
अधश्चैव पटान्ते तु विस्तीर्णसरितालयम् / कुर्यान्नागभोगाङ्गमौकैकं च समन्ततं // mmk_4.53 //
शुक्लेन शुभाङ्गेन मनुजाकारदेहजा / उत्तराशिरसं स्थाप्य कृताञ्जलिपुटः सदाः // mmk_4.54 //
सप्तस्फुटो महावीर्यो महेशाख्यो अनन्तो नाम नामतः / तथागतं निरीक्षन्तो मणिरत्नोपशोभितः // mmk_4.55 //
सुशोभनो चारुरूपी च रत्नाभरणभूषितः / आलिखेज्ज्वालमालिनं महानागेन्द्रविश्रुतम् // mmk_4.56 //
सर्वलोकहितोद्युक्तं प्रवृत्तो शासने मुने / सर्वविघ्नविनाशाय आलिखेत् सरिताशृतम् // mmk_4.57 //
एतत् पटविधानं तु उत्तमं जिनभाषितम् / संक्षिप्तविस्तराख्यातं पूर्वमुक्तं तथागतैः / आलिखे यो हि विद्वां वै तस्य पुण्यमनन्तकम् // mmk_4.58 //
यत् कृतं कल्पकोटीभिः पापं कर्म सुदारुणम् / नश्यते तत्क्षणादेव पटं दृष्ट्वा तु भूतले // mmk_4.59 //
पञ्चानन्तर्यकारिणं दुःशीलां जुगुप्सिताम् / सर्वपापप्रवृत्तानां संसारान्धारचारिणाम् / गतियोनिनिकृष्टानां पटं तेषां न वारयेत् // mmk_4.60 //
दर्शनं सफलं तेषां पटं मौनीन्द्रभाषितम् / दृष्टमात्रं प्रमुच्यन्ते तस्मात् पापात्तु तत्क्षणात् // mmk_4.61 //
किं पुनः शुद्धवृत्तित्वात् सुशुद्धवृत्तोरूपिणः / मन्त्रसिद्धौ सदोद्युक्तोः सिद्धिं लप्सेयुर्मानवः // mmk_4.62 //
यत् पुण्यं सर्वसत्त्वानां पूजयित्वा कल्पकोटि ये / तत् पुण्यं प्राप्नुयान्मन्त्री पटमालिखनाद् भुवि // mmk_4.63 //
सिकता यानि गङ्गायाः प्रमाणे यानि कीर्तिता / तत्प्रमाणा भवेद् बुद्धाः प्रत्येकजिनवरात्मजाः // mmk_4.64 //
खड्गिनः साधका लोके जित्वा बहुधा पुनः / तत् फलं प्राप्नुयान्मर्त्ये पटलिखनदर्शना // mmk_4.65 //
वाचनादेव कायेस्य पूजना वाप्यनुमोदना / मन्त्रसिद्धिर्ध्रुवा तस्य सर्वकर्मे प्रकल्पिताः // mmk_4.66 //
यावन्ति लौकिका मन्त्राः भाषिता ये जिनपुङ्गवैः / तच्छिष्यखड्गिभिर्दिव्यैः बोधिसत्त्वैर्महात्मभिः / सिद्ध्यन्ते सर्वमन्त्रा वै पटस्याग्र तु मग्रतमिति // mmk_4.67 //
बोधिसत्त्वपिटकावतंसकान्महायानसूत्रान्मञ्जुश्रीमूलकल्पाच्चतुर्थः / प्रथमपटविधानविसरः परिसमाप्तः // पञ्चमः पटलविसरः / अथ खलु भगवान् शाक्यमुनिः सर्वं तत्पर्षन्मण्डलमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयेत स्म / अस्ति मञ्जुश्रीः अपरमपि त्वदीयं मध्यमं पटविधानम् / तद् भाषिष्ये ऽहम् / शृणु, साधु च सुष्ठु च मनसि कुरु //
आदौ तावत् पूर्वनिर्दिष्टेनैव सूत्रकेण पूर्वोक्तेनैव विधिना पूर्वपरिकल्पितैः शिल्पिभिः पूर्वप्रमाणैव मध्यमपटः सुशोभनेन शुक्लेन सुव्रतेन सदशेन अश्लेषकौरङ्गैरपगतकेशसङ्कारादिभिर्यथैव प्रथमं तथैव तत् कुर्यात् वर्जयित्वा तु प्रमाणरूपकात् तत्पटं पश्चादभिलिखापयितव्यम् //
आदौ तावद् शुद्धावासभवनं समन्तशोभनाकारं स्फुटितरत्नमयाकारं सितमुक्ताहारभूषितं तस्मिं मध्ये भगवांश्छाक्यमुनिः चित्रापयितव्यः रत्नसिंहासनोपनिषण्णः धर्मं देशयमानः सर्वाकारवरोपेतः, दक्षिणपार्श्वे आर्यमञ्जुश्रीः पद्मकिञ्जल्काभः कुङ्कुमादित्यवर्णो वा वामस्कन्धप्रदेशे नीलोत्पलावसक्तः कृताञ्जलिपुटः भगवन्तं शाक्यमुनिं निरीक्षमाणः ईषत्प्रहसितवदनः कुमाररूपी पञ्चचीरकोपशोभितशिरस्कः बालदारकालङ्कारभूषितः दक्षिणजानुमण्डलावनतशिरः भगवतश्च शाक्यमुनेर्वामपार्श्वे आर्यावलोकितेश्वरः शरत्काण्डगौरो यथैव पूर्वं तथैवमभिलेख्यम् / किन्तु भगवतश्वामरमुद्धूयमानं तस्य पार्श्वे आर्यमैत्रेयं समन्तभद्रः वज्रपाणिर्महामतिः शान्तमति गगनगञ्जः सर्वनीवरणविष्कम्भिनश्चेति / एते ऽनुपूर्वतो ऽभिलेख्याः / यथैव प्रथमं तथैव सर्वालङ्कारभूषिताः चिअत्रापयितव्याः //
तेषां चोपरिष्टा अष्टौ बुद्धा भगवन्तश्चित्रापयिव्याः स्थितका अभयप्रदानदक्षिणकराः पीतचीवरोत्तरासङ्गीकृतदेहाः वामहस्तेन चीवरकर्णकावसक्ता ईषद्रक्तावभासकाषायसुनिवस्ताः समन्तप्रभाः सर्वाकारवरोपेताः / तद्यथा - सङ्कुसुमितराजेन्द्रस्तथागतः रत्नशिखिः शिखिः विश्वभुक् क्रकुच्छन्दकः बकग्रीविः काश्यपः सुनेत्रश्चेति / इत्येते बुद्धा भगवन्तश्चित्रापयितव्याः //
दक्षिणे पार्श्वे भगवत आर्यमञ्जुश्रियस्य समीपे महापर्षन्मण्डलं चिअत्रापयितव्यम् / अष्टौ महाश्रावकाः अष्टौ प्रत्येकबुद्धाः यथैव पूर्वं तथैव ते चिअत्रापयितव्याः / किन्तु आर्यमहामौद्गल्यायनशारिपुत्रौ भगवतः शाक्यमुने चामरमुद्धूयमानौ स्थितकायमभिलेख्यौ / एवं शुद्धावासकायिका देवपुत्रा अभिलेख्याः / शक्रश्च देवानामिन्द्रः सयामश्च सन्तुषितश्च सुनिर्मितश्च शुद्धश्च विमलश्च सुदृशश्च अतपश्च आभास्वरश्च ब्रह्मा च सहाम्पतिः अकनिष्ठश्च एवमादयो देवपुत्रा रूपावचराः कामावचराश्चानुपूर्वतो ऽभिलेख्याः आर्यमञ्जुश्रियसमीपस्थाः पर्षन्मण्डलोपरिचितविन्यस्ताः स्वरूपवेषधारिणो चिअत्रापयितस्याः / भगवतः सिंहासनस्ताधस्तात्समन्तान्महापर्वतः महासमुद्राभ्युद्गतं यावत् पटान्ते चित्रापयितव्यः / एकस्मिन् पटान्तकोणे साधको यथावेषसंस्थानाकारः अवनतजानुकौर्परशिरः धूपकटच्छुकव्यग्रहस्तः चित्रापयितव्यः / (वैद्य 49) तस्मिंश्च रत्नपर्वते आर्यमञ्जुश्रियस्याधस्तात् यमान्तकक्रोधराजा यथापूर्वनिर्दिष्टमभिलेख्यम् / वामपार्श्वे भगवतः सिंहासनस्याधस्ताद् आर्यावलोकितेश्वरपादमूलसमीपे तस्मिंश्च रत्नपर्वतोपनिषण्णा तारादेवी अभिलेख्याः / यथा पूर्वनिर्दिष्टा तथा चित्रापयितव्याः / समन्ताश्च तत्पटं मुक्तपुष्पावकीर्णं चम्पकनीलोत्पलसौगन्धिकमालतीवर्षिकधानुष्कारीकपुन्नागकेसरादिभिः पुष्पैरभ्यवकीर्णं समन्तात् पटम् / उपरिष्टाच्च पटान्तकोणे उभयान्ते द्वौ देवपुत्रौ महापुष्पौघमुत्सृजमानौ विचित्ररूपधारिणौ अन्तरीक्षस्थितौ वारिमेघान्तर्गतनिलीनौ उत्पतमानौ सितवर्णौ अभिलेख्याविति //
एतन्मध्यमकं प्रोक्तं पटः श्रेयार्थमुद्भवम् / मध्यसिद्धिस्तदायत्ता मनुजानां तु भूतले // mmk_5.1 //
यत्किञ्चित् कृतं पापं संसारे संसरतो पुरा / नश्यते तत्क्षणादेव पटं दर्शनादिह // mmk_5.2 //
मूढसत्त्वा न जानन्ति भ्रमन्ता गतिञ्चके / पटस्या दर्शना ये तु मञ्जुघोषस्य मध्यमे // mmk_5.3 //
अपि किल्विषकारी स्यात् पञ्चानन्तर्यकारिणः / दुःशीलस्यापि सिध्येयुर्मन्त्रा विविधभाषिताः // mmk_5.4 //
अपि क्षिप्रतरं सिद्धि प्राप्नुयात् कृतजापिनः / रोगी मुच्यते रोगाद् दरिद्रो लभते धनम् / अपुत्रो लभते पुत्रं मध्यमे पटदर्शने // mmk_5.5 //
दृष्टमात्रं तदा पुण्यं प्राप्नुयाद् विपुलं महत् / नियतं देवमनुष्याणं सौख्यभागी भवेन्नरः / बुद्धत्वं नियतं तस्य जन्मान्ते च भविष्यति // mmk_5.6 //
लिखना वाचनाच्चैव पूजजलेखना तथा / दर्शना स्पर्शनाच्चैव मुच्यते सर्वकिल्विषात् // mmk_5.7 //
प्रार्थनाध्येषणा ह्येवं अटस्यास्य महाद्युतेः / लभते सफलं जन्मां क्षिप्रं चानुमोदना // mmk_5.8 //
न शक्यं वाचया वक्तुमपि कल्पाग्रकोटिभिः / यत् पुण्यं प्राप्नुया जन्तु सफलं पटदर्शनादिति // mmk_5.9 //
बोधिसत्त्वपिटकावतंसक्रान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् पञ्चमः पटलविसरः / द्वितीयः पटविधानविसरः समाप्तः // षष्ठः पटलविसरः / अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म / अस्ति मञ्जुश्रीः अपरमपि पटविधानरहस्यं तृतीयं कन्यसं नाम / यः सर्वसत्त्वानामयत्नेनैव सिद्धिं गच्छेयुः / पूर्वनिर्दिष्टेनैव विधिना शिल्पिभिः सुगतवितस्तिप्रमाणं तिर्यक् तथैव समं चतुरस्रं पूर्ववत् पटश्चित्रापयितव्यः पूर्वनिर्दिष्टैरङ्गैः //
आदौ तावदार्यमञ्जुश्रीः सिंहासनोपनिषण्णः बालदारकरूपी पूर्ववत् धर्मं देशयमानः समन्तप्रभा अर्चिषो निर्गच्छमानश्चारुरूपी चित्रापयितव्यः / वामपार्श्वे आर्यसमन्तभदः रत्नोपलस्थितः चमरव्यग्रहस्तः चिन्तामणिवामविन्यस्तकरः प्रियङ्गुश्यामवर्णः पूर्ववच्चित्रापयितव्यः / दक्षिणपार्श्वे आर्यमञ्जुश्रियस्य रत्नोपलस्थितः आर्यावलोकितेश्वरः पूर्ववत् / चमरव्यग्रहस्तः वामहस्तारविन्दविन्यस्तः समन्तद्योतितमूर्तिरभिलेख्यः / अधश्च सिंहासनात् कनकवर्णः पर्वतो यावत् पटान्ते चित्रापयितव्यः / पटान्तकोणस्य आर्यमञ्जुश्रियस्य सिंहासनस्याधस्ताद् दक्षिणपार्श्वे यमान्तकः क्रोधराजा पूर्ववच्चित्रापयितव्यः / धूपकटच्छुकव्यग्रहस्तः यथापूर्वं तथैव साधकः / उपरिष्टादार्यमञ्जुश्रियस्य सङ्कुसुमितराजेन्द्रस्तथागतचिअत्रापयितव्यः षोडशाङ्गुलप्रमाणः रत्नपर्वतगुहालीनः / कूटागारसदृशाः प्राग्भारपर्वता दश चित्रापयितव्याः / समन्ताच्च तत्पटं पर्वताकारवेष्टितं लिखेत् / उपरिष्टाच्च पटकोणावस्थितौ पर्वतप्राग्भारसंश्लिष्टौ उत्पतमानविमानपुष्पौघमुत्सृजमानौ शुद्धावासकायिकौ देवपुत्रौ शुद्धश्च नाम विशुद्धश्च नाम पूर्ववच्चित्रापयितव्यौ / नानापुष्पाभिकीर्णं च तत् पटमभिलिखापयितव्यमिति //
एतत् कथितं सर्वं त्रिविधं पटलक्षणम् / कन्यसं नामतो ह्येतत् पटः श्रेयो क्षुद्रकर्मसु // mmk_6.1 //
यत् कृतं कारितं चापि पापं कर्म सुदारुणम् / कल्पकोटिसहस्राणि दर्शनात् पटमुच्यते // mmk_6.2 //
पटं तु दृष्टमात्रं वै तत्क्षणादेव मुच्यते / बुद्धकोटीसहस्राणि सत्कुर्याद् यो हि बुद्धिमां / कन्यसं तु पटं दृष्ट्वा कला नायाति षोडशीम् // mmk_6.3 //
यत् पुण्यं सर्वबुद्धानां पूजा कृत्वा तु तापिनाम् / तत् पुण्यं प्राप्नुयाद् विद्वां कन्यसे पटदर्शने / शोभनानि च कर्माणि भोगहेतोः इहाचरेत् // mmk_6.4 //
यावन्ति केचन मन्त्रा ब्रह्मेन्द्रऋषिभाषिताः / वैनतेयेन तु प्रोक्ताः वरुणादित्यकुबेरयोः // mmk_6.5 //
धनाद्यैः राक्षसैः सर्वैर्दानवेन्द्रैर्महोरगैः / सोमवायूअमाद्यैश्च भाषिता हरिहरादिभिः / सर्वे मन्त्रा इहानीताः सिध्यन्ते पटमग्रतः // mmk_6.6 //
शान्तिकानि सदा कुर्यात् पौष्टिकानि तथा इह / दारुणानि च वर्जीत गर्हिता जिनवरैस्त्विहेति // mmk_6.7 //
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् मञ्जुश्रीमूलकल्पात् षष्ठः पटलविसरः / तृतीयः कन्यसपटविधानः परिसमाप्त इति // सप्तमः पटलविसरः / अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य, भगवतश्चरणयोर्निपत्य, भगवन्तमेवमाह - साधु साधु भगवता यस्तथागतेनार्हता सम्यक् सम्बुद्धेन सुभाषितो ऽयं धर्मपर्यायः सर्वविद्याव्रतचारिणामर्थाय हिताय सुखाय लोकानुकम्पायै बोधिसत्त्वानामुपायकौशल्यता दर्शिता निर्वाणोपरिगामिनी वर्त्मोपविशेषा नियतं बोधिपरायणा सन्ततिर्बोधिसत्त्वानां सर्वमन्त्रार्थचर्यासाधनीयमेतन्मन्त्ररहस्यसर्वजनविस्तारणकरी भविष्यत्यनागते ऽध्वनि निर्वृते लोकगुरौ अस्तमिते तथागतादित्यं वंशे रिञ्चिते सर्वबुद्धक्षेत्रे सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः अन्धकारीभूते लोकभाजने, विच्छिन्ने आर्यमार्गे, सर्वविद्यामन्त्रोषधिमणिरत्नोपगते साधुजनपरिहीणे निरालोके सत्त्वधातौ सत्त्वा भविष्यन्ति कुसीदा नष्टस्पृहतया अश्राद्धाः खण्डका अकल्याणमित्रपरिगृहीताः शठाः मायाविनो धूर्तचरिताः / ते इमं धर्मपर्यायं श्रुत्वा च सत्रासमापत्स्यन्ते / आलस्यकौसीद्याभिरता न श्रद्धास्यन्ति कामगवेषिणो न पतीष्यन्ति मिथ्यादृष्टिरताः / ते बहु अपुण्यं प्रसविष्यन्ति सद्धर्मप्रतिपक्षेपकाः अवीचिपरायणाः घोराद् घोरतरं गताः / तेषां दुःखितानामर्थाय अवशानां वशमानेता वश्यानां भयप्रदाय उपायकौशल्यसङ्ग्रहया मन्त्रपटविधानं भाषतु भगवां / यस्येदानीं कालं मन्यसे //
अथ भगवान् शाक्यमुनिः मञ्जुश्रियं कुमारभूतं साधुकारमदात् / साधु साधु मञ्जुश्रीः यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे / अस्ति मञ्जुश्रीः त्वदीयं परमं गुह्यतमं विद्याव्रतसाधनचर्यापटलपटविधानविसरं परमहृदयानामर्थं परमं गुह्यतमं महार्थं निधानभूतं सर्वमन्त्राणां, षडेते षडाक्षरपरमहृदयाः अविकल्पतो तस्मिं काले सिद्धिं गच्छन्ति / तेषां सत्त्वानां दमनाय उपायकौशल्यसम्भारसमन्त्रप्रवेशनताय नियतं सम्बोधिप्रापणताया षट्सप्ततिबुद्धकोटिभिः पूर्वभाषितमहमप्येतर्हि इदानीं भाषिष्ये / अनागतजनतापेक्षाय तं शृणु साधु च सुष्ठु च मनसि कुरु / भाषिष्ये ऽहं ते / कतमं च तत् //
अथ खलु भगवां शाक्यमुनिर्मन्त्रं भाषते स्म - ओम् वाक्यार्थे जय / ओम् वाक्यशेषे स्व / ओम् वाक्येयनयः / ओम् वाक्यनिष्ठेयः / ओम् वाक्येयनमः / ओम् वाक्येदनमः / इत्येते मञ्जुश्रीः त्वदीयषड्मन्त्राः षडक्षराः महाप्रभावाः तुल्यसमवीर्याः परमहृदयाः परमसिद्धाः बुद्धमिवोत्पन्नाः सर्वसत्त्वानामर्थाय सर्वबुद्धैः सम्प्रभाषिताः समयग्रस्ताः सम्प्रचलिताः सर्वकर्मिकाः बोधिमार्गानुदेशकाः, तथागतकुले मन्त्रप्रवराः उत्तममध्यमेतरतृधासम्प्रयुक्ताः सुशोभनं कर्मफलविपाकप्रदाः शासनान्तर्धानकालसमयसिद्धिं यास्यन्ति / समवशरणं सद्धर्मनेत्रारक्षणार्थं ये साधयिष्यन्ति, तेषां मूल्यप्रयोगेणैव महाराज्यमहाभोगैश्वर्यार्थं ते साधयिष्यन्ति / तेषां क्षिप्रतरं तस्मिं काले तस्मिं समये सिद्धिं यास्यन्ति / अन्ततो जिज्ञासनहेतोरपि साधनीया ह्येते परमहृदयाः संक्षेपतः यथा यथा प्रयुज्यन्ते, तथा तथा सिद्धिं यास्यन्ति समासतः / एषां पटविधानं भवति तस्मिं काले तस्मिं समये महाभैरवे पञ्चकषाये सत्त्वा (वैद्य 52) अल्पपुण्या भविष्यन्ति / अल्पेशाख्याः अल्पजीविनः अल्पभोगाः मन्दवीर्या न शक्यन्ते अतिविस्तरतरं पटविधानादीनि कर्माणि प्रारभन्तुम् / तेषामर्थाय भाषिष्ये संक्षिप्ततरम् //
आदौ तावद् विक्रयेण सूत्रकं क्रीत्वा, पलमात्रमर्धपलमात्रं वा, हस्तमात्रं दीर्घत्वेन अर्घहस्तमात्रं तिर्यक्कर्पटं सदशं तन्तुवायेन वाययितव्यम् / अपगतकेशमन्यं वा नवं कर्पटखण्डं प्रत्यग्रमत ऊर्ध्वं पथेप्सतः द्विहस्तचतुर्हस्तं वा षट् पञ्च दश चाष्टं वा सुशुक्लं गृह्य यथेप्सतः चित्रकरेण चित्रापयितव्यम् / अश्लेषकैरङ्गैः चन्दनकर्पूरकुङ्कुमसितैः पटं चन्दनकुङ्कुमकर्पूरं चैकीकृत्य, निष्प्राणकेनोदके निःकलुषेनालोड्य नवे भाण्डे पटं प्लावयित्वा, दिवसत्रयं सुपिधानं पथि तं स्थापयेत् / कृतरक्षां शुचौ देशे आत्मनः शुचिर्भूत्वा, शुक्लपक्षे पूर्णमास्यां पटभाण्डस्याग्रतः पूर्वाभिमुखः कुशविण्डकोपविष्टः इमे मन्त्रपदाः अष्टशतवारमुच्चारयितव्याः / तद्यथा - ओम् हे हे भगवं बहुरूपधरः दिव्यचक्षुषे अवलोकय अवलोकय मां समयमनुस्मर कुमाररूपधारिणे महाबोधिसत्त्व किं चिरायसि / हूं हूं फट् फट् स्वाहा / अनेन मन्त्रेण कृतजापः तत्रैव स्वपेत / स्वप्ने कथयति सिद्धिरसिद्धिं वा //
तत उत्थाय अविलम्बितसिद्धिनिमित्तं स्वप्नं दृष्ट्वा तं पटं लिखापयेत्, न चेदसिद्धिनिमित्तानि स्वप्नानि दृश्यन्ते / तत् पटं तस्माद् भाण्डादुद्धृत्य आतपे शोषयेत् / शोषयित्वा च भूयः अन्ये नवे भाण्डे न्यसेत् / सगुप्तं च कृतरक्षं च स्थापयेत् / ततो भूयो तेषां परमहृदयानां अन्यतमं मन्त्रं गृहीत्वा, यथेष्टतः षडक्षराणां भूयो अक्षरलक्षं जपेत् / ततो आशु तत्पटं सिध्यतीति //
आदौ तावत् तं पटं गृह्य प्रातिहारकपक्षे अन्ये वा शुक्ले ऽहनि शुभनक्षत्रसंयुक्ते शुभायां तिथौ शुक्लपक्षदिवसे वा सुशोभनैः शकुनैः मङ्गलसम्मतायां रात्रौ अर्धरात्रकालसमये उपोषधिकेन चित्रकरेण तं पटं चित्रापयेत् शुचौ प्रदेशे कर्पूरधूपं दहता //
आदौ तावदार्यमञ्जुश्रियं बालदारकाकारं पञ्चचीरकशिरस्कं बालालङ्कारभूषितं कनकवर्णं नीलपट्टचलनिकानिवसितं नीलपट्टांशुकोत्तरीयं धर्मं देशयमानं सिंहासने अर्धपर्यङ्कोपविष्टदक्षिणचरणं रत्नपादपीठस्थं स्थापितसिंहासनोपविष्टं सर्वालङ्कारोपेतं चारुदर्शनं ईषस्मितमुखं साधकगतदृष्टिं चित्रापयेत् //
दक्षिणे पार्श्वे आर्यसमन्तभद्रं सितचामरोद्धूयमानं प्रियङ्गुश्यामं वामहस्तचिन्तामणिविन्यस्तं सर्वाङ्गशोभनं सर्वालङ्कारभूषितं नीलपट्टचलनिकानिवस्तं मुक्ताहारयज्ञोपवीतं सिकतं श्वेतपद्मासनस्थं चिअत्रापयितव्यम् //
आर्यमञ्जुश्रियस्य वामपार्श्वे आर्यावलोकितेश्वरः नीलपट्टवलनिकानिवस्तः सर्वाङ्गशोभनः सर्वालङ्कारविभूषितः मुक्ताहारयज्ञोपवीतः वामहस्ते श्वेतपद्मविन्यस्तः दक्षिणहस्ते सितोद्धूयमानचमरः हेमदण्डविन्यस्तः सौम्याकारः आर्यमञ्जुश्रियगतदृष्टिः तथैवार्यसमन्तभद्रः श्वेतपद्मासनस्थौ उभावप्येतौ अभिलेख्यौ एकपद्मविटपित्थितौ //
त्रीणि पद्मानि / मध्यमे मूलपद्मकर्णिकायामार्यमञ्जुश्रियस्य सिंहासनं रत्नपीठं च / अपरस्मिं पद्मे आर्यसमन्तभद्रः, तृतीये पद्मे आर्यावलोकितेश्वरः / शोभनं च तत् पद्मदण्डं मरकतपद्माकारं अनेकपद्मपुष्पमुकुलितं पत्रोपेतं विकसितार्धविकसितपुष्पमहासरानवतप्तोइत्थितं द्वौ नागराजावष्टब्धनाभं नन्दोपनन्दसन्धारितं तत् पद्मदण्डं सितवर्णा च तौ नागराजानौ सप्तस्फटावभूषितौ सर्वालङ्कारशोभितशरीरौ मनुष्यार्धकायौ अहिभोगाङ्कितमूर्तयः आर्यमञ्जुश्रियं निरीक्षमाणौ जलान्तार्धनिलीनौ मणिरत्नोपशोभितच्छदौ लिखापयितव्यौ //
समन्ताच्च महासरं अधस्तात् साधकः दक्षिणपार्श्वे पटान्तकोणे आर्यमञ्जुश्रियस्य वत्क्रमण्डल निरीक्षमाणो धूपकटच्छकव्यग्रहस्तः अवनतशिरकोर्परजानुकायः यथा वेषपर्णतः, तथामभिलेख्यम् //
उपरिष्टादार्यमञ्जुश्रियस्य उभौ पतान्तकोणाभ्यां द्वौ देवपुत्रौ मालाधारिणौ पुष्पमालागृहीतौ उत्पतमानौ मेघान्तर्निलीनौ महापुष्पौघमुत्सृजमानौ सुशोभनौ अभिलेख्यौ //
समन्ताच्च तत्पटं नागकेसरादिभिः पुष्पैः प्रकिरितमभिलिखेत् / यथेष्टश्च त्रिरूपकाधिष्ठितं वा अभिलिखेत् / आर्यमञ्जुश्रीः धर्मं देशयमानः आर्यसमन्तभद्रः आर्यावलोकितेश्वरश्चमरविन्यस्तपाणयो लिखापयितव्याः / यथाभिरुचितकं वा साधकस्य त्रीणि रूपकाणि अवश्यं लिखापयितव्यानि / यथेष्टाकारा वा यथासंस्थानसंस्थिता वा साधकस्य यथा यथा रोचते तथा तथा लिखितव्यानि //
मध्ये व आर्यमञ्जुश्रीः, उभयान्ते च आर्यावलोकितेश्वरः, समन्तभद्रश्च यथेप्सितः अन्य अवश्यं लिखापयितव्यानि / यथालब्धे वा कर्पटखण्डे वितस्तिहस्तमात्रे वा आत्मना वा परेण वा चित्रकरेण पोषधिकेन वा अपोषधिकेन वा श्राद्धेन वा अश्राद्धेन वा शुचिना वा अशुचिना वा शीलवतेन वा दुःशीलेन वा चित्रकरेण लिखापयितव्यः //
आत्मना साधकेन अवश्यं कृतपुरश्चरणेन श्राद्धेन उत्पादितबोधिचित्तेन अवश्यं भवितव्यमिति //
एवं सिध्यन्ति मन्त्रा वै नान्येषां पापकारिणाम् / श्राद्धेन तथा भूत्वा साधनीया मन्त्रदेवताः // mmk_7.1 //
सिध्यन्ते मन्त्रराट् तस्य श्राद्धस्यैवेह नान्यथा / श्रद्धा हि परमं यानं येन यान्ति विनायकाः // mmk_7.2 //
अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहते / बीजानामग्निदग्धानामङ्कुरो हरितो यथा // mmk_7.3 //
श्राद्धे स्थितस्य मर्त्यस्य बोद्धारं हि कर्मणा / सिध्यन्ते देवतास्तस्य अश्राद्धस्य न सिध्यति // mmk_7.4 //
+ + + + + + + + + सर्वमन्त्रा विशेषतः / लौकिका देवता ये ऽपि ये ऽपि लोकोत्तरा तथा / सर्वे वै श्रद्दधानस्य सिध्यते विगतकल्मषः // mmk_7.5 //
आशु सिद्धिर्ध्रुवा तेषां बोधिस्तद्गतमानसाम् / नान्येषां कथ्यते सिद्धिः शासने ऽस्मिन् निवारिताः // mmk_7.6 //
पटः स्वल्पो विशेषो वा मध्यमो परिकीर्तितः / अधुना तु प्रवक्ष्यामि सर्वकर्मसु साधनमिति // mmk_7.7 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
